कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
| ४४० | कादम्बरी- | [ कथायाम्- |
|---|
मपि न गन्तव्यम्' इति । तच्च श्रुत्वाहमात्मकण्ठादुन्मुच्य मकरध्वज-लास्यारम्भ-लीला-पुष्पाञ्जलिमेकावलीं 'भगवन् ! गृह्यतामक्षमाला' इति सन्मुखासक्तदृष्टेः शून्यहृदयस्यास्य प्रसारिते पाणौ निधाय स्वेदसलिलस्नातापि पुनः स्नातुमवातरम् । उत्थाय च कथमपि प्रयत्नेन निम्नगेव प्रतीपं नीयमाना सखीजनेन बलादम्बया सह तमेव चिन्तयन्ती स्वभवनमयासिषम् । गत्वा च प्रविश्य कन्यान्तःपुरं ततः प्रभृति तद्विरहावधुरा किमागतास्मि, किं तत्रैव स्थितास्मि,किमेकाकिन्यस्मि, किं परिवृतास्मि, किं तूष्णीमस्मि, किं प्रस्तुतालापास्मि, किं जागर्मि, किं सुप्तास्मि, किं रोदिमि, किं न रोदिमि, किं दुःखमिदम्, किं सुखमिदम्, किमुक्तण्ठेयम्, किं व्याधिरयम्, किं व्यसनमिदम्, किमुत्सवोऽयम्, किं दिवस एषः, किं निशेयम्, कानि रम्याणि, कान्यरम्याणीति सर्वं नावगच्छम् । अविज्ञातमदनवृत्तान्ता च क्व गच्छामि, किं करोमि, किं पश्यामि, किमालपामि, कस्य कथयामि, कोऽस्य प्रतीकार इति
तदिति । तत्पूर्वोक्तं श्रुत्वा निशम्य आत्मकण्ठात् स्वकीयगलात् अहम् उन्मुच्य, मकरध्वजेन कामेन यो लास्यारम्भः देहसञ्चालनात्मकनृत्यारम्भः तत्र लीलापुष्पाञ्जलिं क्रीडाप्रसूनाञ्जलिं तद्रूपाम्, नृत्यारम्भे पुष्पाञ्जलिप्रक्षेपस्य लोकव्यवहारसिद्धत्वात् अक्षमालायाश्च तद्वदवलोक्यमानत्वादित्याशयः । एकावलीं मदीयमेकपङ्क्तिकं हारम्, 'भगवन् तपोनिधे ! गृह्यताम् उपादीयताम् अक्षमाला स्फटिकाक्षमाला' इति एवं सन्मुखे मदानने आसक्ता आबद्धा दृष्टिरवलोकनं यस्य तस्य, शून्यं विषयान्तरज्ञानवर्जितं हृदयं चेतो यस्य तस्य, अत एव मन्मुक्तमालामपि निजस्फटिकमालात्वेनेवासौ निःशङ्कं जग्राहेत्याशयः । अस्य पुण्डरीकस्य प्रसारिते विस्तारिते पाणौ हस्ते तां निधाय स्थापयित्वा स्वेदसलिलेन घर्मजलेन स्नातापि कृतमज्जनापि पुनर्भूयः स्नातुं मज्जितुम् अवातरम् अवतीर्णवती ।
उत्थायेति । किञ्चेति चार्थः । अहम् उत्थाय सरोवरादुत्थानं विधाय सखीजनेन सहचरीवर्गेण कर्त्रा, प्रयत्नेन बलाच्च निम्नगा सरिदिव कथमपि कष्टेन, प्रतीपं प्रतिकूलं चेतः तपस्विकुमारदिग्गयायित्वेऽपि तत्प्रतिकूलदिशमित्यर्थः नीयमाना प्राप्यमाणा, तमेव मुनिकुमारं चिन्तयन्ती ध्यायती सती, अम्बया जनन्या सह साकं स्वभवनं निजगृहम् अयासिषम् आगतवती । 'निम्नगेव' इत्युपमा ।
गत्वेति । गतैत्य स्वभवनं कन्यान्तःपुरं कन्यावरोधं प्रविश्य प्रवेशं कृत्वा ततः प्रभृति तद्दिनादारभ्य तस्य पुण्डरीकस्य विरहेण वियोगेन विधुरा विह्वला सती, किम् आगता गृहम् आयातास्मि ? किं तत्रैव अच्छोदसरस्तीरे स्थितास्मि विद्यमानास्मि, किम् एकाकिनी असहाया अस्मि, किं परिवृता लोकैः परिवेष्टिता अस्मि, किं तूष्णीं मौनमस्मि, किं प्रस्तुतालापा सहचरीभिरारब्धकथनोपकथनास्मि, किं जागर्मि प्रबुद्धोऽस्मि, किं सुप्ता निद्रिताऽस्मि, किं रोदिमि विलपामि, किं न रोदिमि न विलपामि, किं दुःखं क्लेशमिदम्, किं सुखम् सातमिदम्, किम् उत्कण्ठा उत्सुका इयम्, किं व्याधिरामयः अयम् किं व्यसनं विपदिदम्, किम् उत्सवः समारोहोऽयम्, किम् एष दिवसो वासरः किम् इयं निशा रात्रिः, कानि वस्तूनि रम्याणि मनोहराणि, कानि चारम्याणि अमनोहराणि, इति सर्वं नावगच्छम् न ज्ञातवती ।
अविज्ञातेति । अविज्ञातः पूर्वमनवगतः मदनवृत्तान्तः अनङ्गप्रभावो यया सा, क्व गच्छामि व्रजामि,
उसका यह वचन सुन कर, कामदेवके नृत्यारम्भके समय विलासपुष्पाञ्जलिस्वरूप एक लट्की रुद्राक्षमालाको अपने कण्ठमेंसे उतार कर—'भगवन् ! लीजिए जपकी माला'—यों कह कर, मेरे ही सामने देखते शून्य-हृदय कुमारके माला ग्रहण करनेके लिए प्रसारित हाथमें रख, घर्मजल (पसीने) से स्नान की हुई भी मैं पुनः स्नान करनेके लिए सरोवरमें चली । स्नान कर लेनेके बाद प्रबल प्रयत्नसे मेरी सखियां लाकर मुझे, नदीके समान लौटा लाईं और माताके साथ मैं उस तपोघन युवा (कुमार) का चिन्तन करती-करती बलात्कार अपने घर आई । वहां जाकर कन्यान्तःपुरमें प्रविष्ट हो गई उस समयसे उसके वियोगसे शोकातुर रहनेके कारण—क्या मैं आ गई हूँ या वहीं खड़ी हूँ ? क्या एकाकिनी हूँ या सखियोंसे परिवेष्टित (घिरी हुई) हूँ ? क्या चुप हूँ या आलाप आरम्भ किये हूँ ? क्या जागती हूँ या सोती हूँ ? क्या रोती हूँ या नहीं रोती ? क्या यह दुःख है या सुख है ? क्या यह उत्कण्ठा है या व्याधि है ? क्या यह विपत्ति है या उत्सव है ? क्या यह दिन है या रात्रि है, क्या सुन्दर हैं और क्या कुत्सित है, वे समस्त विषय ही मुझे अवगत नहीं हुए । पहले और किसी समयमें भी मदनवृत्तान्तके अनभिज्ञ
१. क्वचित् 'उन्मुच्य' इति पदं न दृश्यते। २. प्रगतः । ३. सातमिदम् ।
कामाकुलमहाश्वेतादशाव० ६५] चन्द्रकला-विद्योतिनीसहिता। ४४१
सर्वञ्च नाज्ञासिषम्। केवलमारुह्य कुमारीपुरप्रासादं विसर्ज्य च सखीजनं द्वारि निवारि- ताशेषपरिजनप्रवेशा सर्वव्यापारानुत्सृज्यैकाकिनी मणिजालगवाक्षनिक्षिप्तमुखी, तामेव दिशं तत्सनाथतया प्रसाधितामिव कुसुमितामिव¹ महारत्ननिधानाधिष्ठितामिव अमृतरससागरे²पूर- प्लावितामिव पूर्णचन्द्रोदयालङ्कृतामिव दर्शनसुभगामीक्षमाणा, तस्माद्दिगन्तरादागच्छन्त- मनिलमपि वनकुसुमपरिमलमपि शकुनिध्वनिमपि तद्वार्त्ता प्रष्टुमीहमाना, तद्वल्लभतया तपः- क्लेशायापि स्पृहयन्ती, तत्प्रीत्येव गृहीतमौनव्रता, स्मरजनित-पक्षपाता च, तत्परिग्रहान्मुनि-
किं करोमि अनुतिष्ठामि, किं शृणोमि आकर्णयामि, किं पश्यामि अवलोकयामि, किम् आलपामि वदामि, किं कथयामि निवेदयामि, अस्य कः प्रतीकारः प्रतिक्रिया इति सर्वं निखिलं च नाज्ञासिषम् न ज्ञातवती।
केवलनिति। केवलम् अन्यनिरपेक्षं कुमारीपुरप्रासादं कन्यकावरोधगृहम् आरुह्य आरोहणं विधाय च पुनः सखीजनं सहचरीवर्गं विसर्ज्य स्वस्थानं व्रजेत्यभिधाय द्वारि प्रतोश्यां निवारितो निषिद्धः अशे- षाणां समस्तानां परिजनानां सेवकानां प्रवेशः अभ्यन्तरागमनं यया सा, सर्वव्यापारान् समस्तकृत्यानि उत्सृज्य विमुच्य एकाकिनी अद्वितीया, मणीनां रत्नानां जालं समूहो यत्र तथोके गवाक्षे वातायने निक्षिप्तं स्थापितं मुखं वदनं यया सा। तेन तपस्विकुमारेण सनाथतया संयुक्ततया कारणेन, प्रसाधितां भूषिता- मिव, कुसुमितां समुत्पन्नपुष्पामिव, महान्ति बहुमूल्यवन्ति रत्नानि मणयो यत्र तथोकेन निधानेन निधिना अधिष्ठिता आश्रिता तामिव, अमृतरसस्य पीयूषद्रव्यस्य यः सागरः समुद्रः तस्य पूरेण प्लवेन प्लावितामिव पूरितामिव, पूर्णचन्द्रोदयेन समग्रचन्द्रोद्गमेन अलङ्कृतां भूषितामिव, दर्शनसुभगाम् अव- लोकनेन मनोहरम्, तामेव तपस्विकुमारकाधिष्ठितामेव दिशं ककुभं केवलम् ईक्षमाणा अवलोकमाना सती, निष्पन्दं निश्चेष्टम् अतिष्ठमित्युत्तरेण सम्बन्धः। एवमन्येषामपि प्रथमान्तपदानां सम्बन्धो ज्ञेयः।
इह 'प्रसाधितामिव' इत्यारभ्य 'पूर्णचन्द्रोदयादलङ्कृतामिव' इत्यन्तानां पञ्चानामेव क्रियोत्प्रेक्षाणां परस्परं नैरपेक्ष्येण संसृष्टिः।
तस्मादिति। तस्मात् दिगन्तरात् तेन तपस्विकुमारकेणाश्रितादिग्विदेशात्, आगच्छन्तम् आयान्तम् अनिलं वायुमपि, वनकुसुमपरिमलमपि अरण्यपुष्पसौरभमपि तस्माद्दिगन्तरादागच्छन्तमित्यन्वीयते, शकुनिध्वनिमपि तादृशं पक्षिणिनादमपि, तस्य तपस्विकुमारस्य वार्त्ताम् उदन्तं प्रष्टुं प्रश्नविषयीकर्तुम् ईहमाना अभिलषन्ती सती, 'कामात्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु' इति न्यायादित्याशयः। पृच्छुधा- तोर्द्विकर्मकत्वात् 'अनिलम्' इत्यादिषु त्रिषु 'तद्वार्त्ताम्' इत्यत्र च द्वितीया बोध्या।
तदिति। तस्य तपस्विकुमारस्य वल्लभतया प्रियतया तपःक्लेशस्येत्यभिप्रायः, तपःक्लेशायापि तपश्चरणकष्टमपि स्पृहयन्ती अभिलषन्ती, तस्य तपस्विकुमारस्य प्रीत्येव मौनव्रते प्रेम्णेव कारणेन, गृहीत- मौनव्रता अर्थात् तूष्णीमवस्थिता। प्रियजनस्य प्रियविषये स्वस्यापि प्रेम्णः सर्वत्र सिद्धत्वादिति स्थलद्वयेऽपी- त्यभिप्रायः। इह हेतूत्प्रेक्षा।
स्मरेति। स्मरेण कामेन जनित उत्पादितः पक्षपातः सङ्गीकारः तादृशे कुमारे प्रेम यस्याः
होनेसे—कहां जाऊं, क्या करूँ क्या देखूँ, क्या बोलूँ, किसके निकट कहूँ और इसका क्या प्रतीकार करना—ये सब कुछ भी मैं न समझ सकी। बाद कुमारियोंके निवास करनेके महल पर चढ कर, सब सखियोंको विदाकर, द्वार पर सब परिजनोंको भी प्रवेश करनेका निषेध कर, समस्त कार्य परित्याग कर, मणिमय जाली-युक्त गवाक्ष- (खिड़की) में मुखमण्डल संस्थापन कर, निरीक्षण करनेमें मनोहर लगती केवल उसी दिशाकी ओर अवलोकन करती मै अकेली (निश्चलभावसे) सीधी खड़ी रही। मुनिकुमारके उस दिशामें रहनेसे मुझे वह (दिक्) मानो अलङ्कृत हो, पुष्पसे ही मानो शोभित हो, बहुमूल्य-रत्नोंके भण्डारसे मानो परिपूर्ण हो, अमृत-रस-सागरके तरङ्गमें मानो डूबी हो और पूर्णचन्द्रके उदयसे मानो अलङ्कृत हो—ऐसी दीखने लगी। उस दिशासे आती पवनसे भी, वन्यपुष्पके सौरभसे भी, पक्षियोंके स्वरसे भी मैं उसका समाचार पूछनेकी चेष्टा करती थी। तपस्या उसे प्रिय होनेके कारण उस (तपस्या) का कष्ट उठानेकी भी मैं इच्छा करती थी। उसमें अपनी प्रीति होनेके कारण ही मानो मैंने मौनव्रत अवलम्बन किया था। कामदेवका उसके प्रति मेरा अत्यन्त पक्षपात उत्पन्न करनेसे
१. क्वचित् 'कुसुमितामिव' इति पाठो न दृश्यते। २. क्वचित् 'सार' इत्यधिकः पाठ उपलभ्यते।
२८ का०
४४२ कादम्बरी- [ कथायाम्-
वेशस्यै अग्राम्यतां तदास्पदतया यौवनस्य चारुतां तच्छ्रवणसम्पर्कात् पारिजातकुसुमस्य मनोहरतां तन्निवासात् सुरलोकस्य रम्यतां तद्रूपसम्पदा कुसुमायुधस्य दुर्जयताम् अध्यारोप-यन्ती दूरस्थस्यापि कमलिनीव सवितुः सागरवेलेव चन्द्रमसः मयूरीव जलधरस्य तस्यैवा-भिमुखी, तथैव तां तद्विरहातुर-जीवितोद्गम-रक्षावलीमिवाक्षावलीं कण्ठेनोद्वहन्ती, तथैव च तया प्रस्तुततद्रहस्यालापयेव कर्णलग् नया पारिजातमञ्जर्य्या, तथैव च तेन तत्करतलस्पर्शसुखज-न्मना कदम्बमुकुलकर्णपूरायमाणेन रोमाञ्चजालेन कण्टकितैककपोलफलका निष्पन्दमतिष्ठम्।
सा चाहम्, तेन तपस्विकुमारेण परिग्रहाद् आश्रयणादेव मुनिवेषस्य तापसनेपथ्यस्य अग्राम्यतां निर्दो-षताम्, अध्यारोपयन्ती प्रतिपादयन्ती, स तपस्विकुमारः आस्पदम् अवलम्बनं यस्य तस्य भावस्तत्ता तयैव कारणेन, यौवनस्य तारुण्यस्य चारुतां रमणीयत्वम् अध्यारोपयन्ती, तस्य तपस्विकुमारस्य श्रवण-संपर्कात् श्रोत्रसंसर्गादेव कारणात्, परिजातकुसुमस्य कल्पतरुपुष्पस्य मनोहरतां चारुताम् अध्यारो-पयन्ती, तस्य तपस्विकुमारस्य निवासात् अधिष्ठानादेव सुरलोकस्य देवालयस्य रम्यतां मनोहरताम् अध्यारोपयन्ती, तथा तस्य तपस्विकुमारस्य रूपसम्पदा सौन्दर्यसमृद्ध्या कारणेन, कुसुमायुधस्य कामस्य दुर्जयतां मया जेतुमशक्यत्वं च अध्यारोपयन्ती सती, सर्वत्र मदनविहितपक्षपातादित्याशयः । इह 'अध्यारोपयन्ती' इत्येकया क्रियया अग्राम्यताप्रभृतीनामनेकेषां कर्मत्वेनाभिसम्बन्धात्तुल्ययोगिता ।
दूरेति । दूरस्थस्यापि दविष्ठस्यापि सवितुः सूर्यस्य कमलिनीव पद्मिनीव, दूरस्थस्यापि चन्द्रमसः सुधांशोः सागरवेलेव समुद्रजलोच्छ्वास इव, तथा दूरस्थस्यापि जलधरस्य मेघस्य मयूरीव नीलकण्ठ-पत्नीव, दूरस्थस्यापि तस्यैव तपस्विकुमारस्य अभिमुखी संमुखी सती । इह मालोपमा ।
तथैवेति । तस्य तपस्विकुमारस्य विरहेण वियोगेन आतुरं पीडितं यत् जीवितं मम जीवनं तस्य उद्गमे शरीराद्विष्क्रमणविषये रक्षावलीं निर्गच्छतो जीवस्य रक्षणार्थम् अभिमन्त्रितां मालामिव, वियोगे प्रियननस्य यत्किञ्चिद्वस्तुनोऽपि आश्वासनसाधनत्वादित्याशयः । ताम् अक्षावलीं जपमालां तथैव पूर्ववदेव कण्ठेन गलेन उद्वहन्ती धारयन्ती सती । इह जात्युत्प्रेक्षा । सर्वथा निपुणतरा महाश्वेता तत्समये निजवद-नावदूदृष्टेक्षेत्रतोरहितस्य पुण्डरीकस्य करे 'अक्षमाला गृह्यताम्' इत्यभिधाय निजामेव मौक्तिकस्रजं दत्तवती, सा स्फटिकमयाक्षमाला तु तस्या गले एवावलम्बमानासीदिति कदापि न विस्मर्त्तव्यमिति कुशलाः ।
तथैवेति । प्रस्तुततः प्रक्रान्तः तस्य तपस्विकुमारस्य सम्बन्धे रहस्यालापः गोपनीयवार्त्ता यया तयैव, तथैव तपस्विकुमारदत्तक्रमेणैव कर्णलग्नया श्रवणप्राप्तया अन्योऽपि गोपनीयं वक्तुं श्रवणे लगति पारिजा-तमञ्जर्या कल्पवृक्षवल्लर्या उपलचिता । इह गोपनीयकथनप्रक्रान्तोत्प्रेक्षणात् क्रियोत्प्रेक्षा ।
तथैवेति । तस्य तपस्विकुमारस्य करतलस्पर्शसुखात् पाणितलस्पर्शानन्दात् जन्म उत्पत्तिर्यस्य तेन, कदम्बमुकुलस्य नीपकुड्मलस्य यः कर्णपूरः कर्णावतंसः तद्वदाचरता, तेन तत्स्मरणोत्पन्नेन रोमाञ्चजालेन च पुलकसमुहेन च, तथैव प्राग्वदेव कण्टकितं समुत्पन्नकण्टकम् एकम् अद्वितीयम् कपोलफलकं गण्ड-स्थलं यस्याः सा तथोक्ता च सती निष्पन्दं निश्चलम् अतिष्ठम् स्थितवती । इह 'कदम्बमुकुलकर्णपूरायमा-णेन' इत्यत्र क्यङ्लोपोपमा ।
मैं मुनिवेषको उसके धारण करनेके कारण अग्राम्य (निर्दोष) कहने लगी। उसके अङ्गमें यौवन था इसलिए ही यौवनका सौन्दर्य निश्चय करने लगी। पारिजातपुष्पने उसके कर्णका सम्पर्क पाया था इसलिए ही उसको रमणीय स्थिर करने लगी। सुरलोकमें उसका वास होनेके कारण ही मैं सुरलोककी मनोहरता मानने लगी एवं उसकी रूप-समृद्धिका साधन होनेका कारण ही मेरे लिये कामदेव अजेय है ऐसा स्थिर करने लगी। उसके दूरवर्ती होने पर भी, सूर्यके प्रति पद्मिनीके समान, चन्द्रके प्रति समुद्रजलके समान एवं मेघके प्रति मयूरीके समान मैं भी उसके ही अभिमुखी होकर देखा करती थी। उसके विरह-क्लेशसे घबरा कर वहिर्गमनोन्मुख मेरे जीवनकी रक्षामालाके समान वह स्फटिकमय जपमाला वैसी की वैसी मेरे कण्ठमें धारण की हुई थी। उसके सम्बन्धमें मानो गोपनीय आलाप करती हो इस भावसे वह पारिजातकुसुममञ्जरी भी मेरे कानमें वैसी की वैसी संलग्न थी; और उसके करतल-स्पर्शसुखसे उत्थित हुए—कदम्ब-कलिकाके कर्णपूरके समान शोभित—रोमाञ्चसमूहसे मेरे एक भागका गण्डस्थल (गाल) वैसाका वैसा ही कण्टकित हो रहा था।
१. मुनिवेषस्य । २. दूरस्यापि, दूरतः स्थितस्यापि ।
कादम्बर्यान्महाश्वेतावृत्ता० ६५ ] चन्द्रकला-विद्योतिनीसहिता । ४४३
अथ ताम्बूलकरङ्कवाहिनी मदीया तरलिका नाम मयैव सह गता स्नातुमासीत् । सा च पश्चाच्चिरादिवागत्य तथावस्थितां शनैःशनैः मामवादीत्—'भर्तृदारिके ! यौ तौ तापसकुमारकौ दिव्याकारावस्माभिरच्छोदसरस्तीरे दृष्टौ, तयोरेको येन भर्तृदुहितुरियमवतंसीकृता सुर-तरु-कुसुम-मञ्जरी, स तस्माद् द्वितीयादात्मनो रक्षन् दर्शनमतिनिभृतपदः कुसुमित-लता-सन्तान-गहनान्तरेणागत्य मामागच्छन्तीं पृष्ठतो भर्तृदारिकामुद्दिश्याप्राक्षीत्-'बालिके ! केयं कन्यका, कस्य वापत्यम्, किमभिधाना, क्व वा गच्छति' इति । मयोक्तम्-एषा खलु भगवतः श्वेतमानोरंशुसम्भूतायामप्सरसि गौर्य्यां समुत्पन्ना, देवस्य सकल-गन्धर्व-मुकुट-मणिशलाका-शिखरोल्लेख मसृणिते-चरण-नख-चक्रस्य प्रणय-प्रसुप्त-गन्धर्व-कामिनी-कपोल-पत्रलता-लाञ्छित-भुज-तरु-शिखरस्य पादपीठीकृत-लक्ष्मी-करकमलस्य गन्धर्वाधिपतेर्हंसस्य दुहिता
अथेति। ताम्बूलकरङ्कवाहिनी नागवल्लीपात्रधारिणी मदीया तरलिका, मयैव सह स्नातुं मज्जितुं गता याता आसीत् । सा ताम्बूलकरङ्कवाहिनी तरलिका च पश्चात् मद्गृहगमनानन्तरं चिरादिव बहुसमयादिव आगत्य एत्य तथावस्थितां विरहातुरामित्यर्थः । माम् शनैः शनैः मन्दं मन्दम् अवादीत् अवोचत्—'भर्तृदारिके राजपुत्रि ! यौ तौ तापसकुमारकौ मुनिदालकौ कपिञ्जलपुण्डरीकनामानौ दिव्याकारौ अत्यन्तमनेाहराकृती अस्माभिः अच्छोदसरस्तीरे अच्छोदामिधसरोवरतटे दृष्टौ अवलोकितौ, तयोर्द्वयोर्मध्ये एकः पुण्डरीक इत्यर्थः, येन भर्तृदुहितुः भवत्याः इयं पुरो दृश्यमाना सुरतरोः पारिजातस्य कुसुममञ्जरी पुष्पवल्लरी अवतंसीकृता कर्णभूषणीकृता, स तपस्वी पुण्डरीकः तस्माद् द्वितीयात् कपिञ्जलादित्यर्थः, आत्मनः स्वस्य दर्शनं वीक्षणं रक्षन् निवारयन् कपिञ्जलो यथारमानं नावलोकयति तथेत्यर्थः, अति निभृतपदः अत्यन्तनिश्छलचरणसञ्चारः, कुसुमितः पुष्पितः लतासन्तानः वल्लीसमूहो यत्र तयोक्तस्य गहनस्य सान्द्रवनस्य अन्तरेण मध्येन, आगच्छन्तीम् आयान्तीं मां पृष्ठतः पश्चाद्भागात् आगत्य एत्य भर्तृदारिकां भवतीम् उद्दिश्य आश्रित्य अप्राक्षीत् पृष्टवान्—
बालिके इति । 'बालिके कन्यके ! का इयं कन्यका बालिका ?' कस्य महात्मनः अपत्यं पुत्री ? किमभिधाना किनामिका ? क्व वा गच्छति व्रजति' इति । मया तरलिकया उक्तं कथितम्—भगवतो माहात्म्यवतः श्वेतमानोः शुभ्रांशोश्चन्द्रमसः, अंशुसम्भूतायां रश्मिभ्यः समुत्पन्नायां गौर्यां गौर्यभिधानायाम् अप्सरसि दिव्ययोषित्ति समुत्पन्ना सञ्जाता एषा कन्यका, सकलानां समस्तानां गन्धर्वाणां देवगायकानां मुकुटेषु शिरोभूषणेषु या मणिशलाका रत्नशलाकाः तासां शिखरैः अग्रैः उल्लेवेन प्रणामसमये घर्षणेन मसृणितं चिक्कणीकृतं चरणयोः पादयोः नखानां पुनर्नवाणां चक्रं समूहो यस्य तस्या एतेन महासाम्राज्यं व्यञ्जितम् । प्रणयेन प्रेम्णा प्रसुप्ताः सह शयिता या गन्धर्वकामिन्यः देवगायकसुन्दर्यः तासां कपोलेषु गण्डेषु या पत्रलताः पत्राकाराश्चित्रविशेषाः ताभिर्लाञ्छिते चित्रिते सम्भोगकाले आवेष्टनक्रमेण तासामुत्तमाङ्गग्रहणेन भुजयोर्गण्डसंसक्तत्वादित्यभिप्रायः, भुजौ बाहू तरू इव लम्बमानत्वात् स्थूलत्वाच्च वृक्षाविव तयोः शिखरे ऊर्ध्वदेशयुगले यस्य तस्य । अनेन कलाकौशलं ध्वनितम् । पादपीठाकृतं
इसके बाद तरलिका नामकी मेरी ताम्बूलकरङ्कवाहिनी (पानदान रखनेवाली), जो मेरे साथ ही स्नान करनेके लिए गई थी, पीछेसे मानो वह बहुत कालके बाद आकर, मुझसे धीरे धीरे कहने लगी—'राजकन्ये ! हमने अच्छोदसररोवरके तीर पर, जो मनोहराकृति उन दो मुनिकुमारों को देखा थी, उनमें एक, जिसने आपके कानमें इस पारिजात कुसुम-मञ्जरीको पहनाया था, वे उस द्वितीय मुनिकुमारसे अपनेको छिपाकर, पुष्पित-लता परिपूर्ण सघन वनके अभ्यन्तरसे मेरे समीप अत्यन्त निभृत पदसञ्चारसे आकर, मै आती थी तब पीछेसे मुझसे आपके विषयमें पूछने लगा—'बालिके ! यह कन्या कौन है ? किसकी सन्तान है ? इसका नाम क्या है ? और कहाँ गई है ?' तदनन्तर मैंने उत्तर दिया—'भगवन् ! नमस्कार करनेके समयमें समस्त गन्धर्वोंके मुकुटस्थित मणिशलाकाके अग्रभागके सङ्घर्षणसे जिनके चरण-नखसमूह चिकने हो गये हैं, प्रेमसे सोती हुई गन्धर्व-सुन्दरियोंके गण्डस्थल (गाल) पर पत्र-लता-चिह्नसे जिनके वृक्षतुल्य विशाल बाहुयुगलका ऊर्ध्वभाग चिह्नित है, और जिन्होंने लक्ष्मीके कर-कमलका आसन बनाया है (अर्थात् जो लक्ष्मीको अपने निकटसे नहीं सरकने-देते हैं); ऐसे
१. क्वचिद् 'शनैः' इत्येकमेव पदमुपलभ्यते ।
२. कर्णावतंसीकृता ।
३. सुरतरुमञ्जरी ।
४. अंशु संभूतायाम्, अंशुभूतायाम् ।
५. नखदशनानाम् ।
| ४४४ | कादम्बरी- | [ कथायाम्- |
|---|
महाश्वेता नाम, गन्धर्वाधिवासं हेमकूटाचलम् अभिप्रस्थिता' इति कथिते च मया, किमपि चिन्तयन् मुहूर्त्तमिव तूष्णीं स्थित्वा विगतनिमेषेण चक्षुषा चिरमभिवीक्षमाणो मां सानुनय-संर्थितामिव दर्शयन् पुनराह—'बालिके ! कल्याणिनी तवाविसंवादिनी अचपला बालभावेऽ-प्याकृतिरियम् । तत् करोषि मे वचनमेकमभ्यर्थ्यमाना ?' इति । ततो मया सविनयमुपरचि-ताञ्जलिपुटया दर्शितादरमभिहितः—'भगवन् ! कस्मादेवमभिधत्से, काऽहम् ? महात्मानः सक-लत्रिभुवनपूजनीयास्त्वादृशोः पुण्यैर्विना निखिलकल्मषापहारिणीमस्मद्विधेषु दृष्टिमपि न पातयन्ति, किं पुनराज्ञाम् ; तद्विश्रब्धमादिश्यतां कर्त्तव्यम्, अनुगृह्यतामयं जन' इति । एव-मुक्तश्च मया सस्नेहया सखीमिवोपकारिणीमिव प्राणप्रदामिव दृष्ट्या मामभिनन्द्य निकट-
चरणपीठवत्तच्छङ्गीकृतं लक्ष्म्याः पद्माया अपि करकमलं हस्तपङ्कजं येन तस्य । अनेन समृद्धेः परा काष्ठा सूचिता । देवस्य पूज्यस्य गन्धर्वाधिपतेः देवगायकस्वामिनः हंसस्य तन्नामकस्य दुहिता पुत्री महाश्वेता नाम, गन्धर्वाणाम् अधिवासं निवासस्थानं हेमकूटाचलं हेमकूटगिरिम् अभिप्रस्थिता तदभिमुखं चलिता ।
इह हंसस्य मुख्यप्रतिपादनकार्यं प्रति हेतुत्रयप्रदर्शनात् समुच्चयः ।
इतीति । इति एवं प्रकारेण मया कथिते अभिहिते सति, किमपि अनाकलनीयं चिन्तयन् ध्यायन् मुहूर्त्तमिव क्षणमिव तूष्णीं मौनं स्थित्वा स्वस्थाय विगतनिमेषेण निमेषोन्मेषरहितेन चक्षुषा लोचनेन चिरं बहुकालम् अभिवीक्षमाणः संमुखमवलोकनानः मां प्रति सानुनयं सस्नेहम् अर्थितां याचकत्वं दर्शयन् प्रकटयन्निव पुनर्भुय आह उवाच—'बालिके ! कल्याणिनी शुभलक्षणवती, अविसंवादिनी 'यत्रा-कृतिस्तत्र गुणा वसन्ति' इति न्यायाद् गुणवत्त्वे अव्यभिचारिणी निःसन्देहेन तर्कितसमस्तगुणयुक्त्यर्थः, बालभावेऽपि अप्रौढत्वेऽपि अचपला अचञ्चला, तव भवत्या इयं दृश्यमाना आकृतिः स्वरूपमवलोक्यत इति शेषः । तत्तस्मात् कारणात् । अभ्यर्थ्यमाना मया प्रार्थ्यमाना त्वम्, एकं वचनं वाक्यपालनं करोषि विधास्यसि किमिति काकुः । इह भविष्यदर्थे लट् ।
तत इति । ततस्तदनन्तरं सविनयं सप्रश्रयम् उपरचितं वद्धम् अञ्जलिपुटं यया तया, मया तरङ्गि-कया दर्शित आदरो यत्र कर्मणि तद् यथा स्यात्तथा अभिहितः उक्तः—'भगवन् तपोलिधे ! कस्मात् केन हेतुना एवं पूर्वोक्तप्रकारेण अभिधत्से ब्रवीषि अहं का तुच्छेत्यर्थः । सकलत्रिभुवनपूजनीयाः समस्तविश्वा-र्चनीया महात्मानो महाशयाः त्वादृशा भवद्विधाः, पुण्यैर्विना पूर्वार्जितसुकृतैर्विना अस्मद्विधेषु अस्मत्स-दृशेषु निखिलकल्मषापहारिणीं समस्तपापविनाशिनीं दृष्टिं न पातयन्ति चक्षुषा नावलोकयन्ति, किं पुनः आज्ञाम् आदेशप्रदानम्; दूरापास्तमित्यभिप्रायः । तत्तस्मात्, विश्रब्धं विश्वस्तं यथा स्यात्तथा कर्त्तव्यं मया विधातव्यम् आदिश्यताम् आज्ञाप्यताम्, अयं महल्लक्षणो जनः अनुगृह्यताम् अनुग्रहविषयीक्रियतां तेनादेशेनेत्याशयः ।'
एवमिति । किञ्चेति चार्थः। मया एवमुक्तः पूर्वोक्तप्रकारेणाभिहितः स तपस्विकुमारः 'पत्रिका म्
गन्धर्वाधिपति महाराज हंसकी यह कन्या है, भगवान् चन्द्रके किरणसे उत्पन्न हुई गौरी नाम की अप्सराके गर्भसे उत्पन्न हुई है; इसका नाम 'महाश्वेता' है और यह गन्धर्वोंके वासस्थान हेमकूट नामक पर्वत पर गई है।' इस प्रकार मेरे द्वारा कहे जाने पर वह मुनिकुमार, किसी विषयका चिन्तन करता हुआ कुछ देर तक निःशब्द (चुप) रह कर, निर्निमेषनयन (एकाग्रदृष्टि) से बहुत देर तक मेरे प्रति अवलोकन कर, मुझसे मानो प्रार्थना करता हो इस प्रकार विनय-पूर्वक पुनः कहने लगा—बालिके ! तुम्हारी यह आकृति शुभलक्षण-सम्पन्न है, अतः निश्चय ही तुम गुणवती हो, एवं शैशवावस्था होने पर भी तेरेमें चञ्चलता प्रतीत नहीं होती है, अत एव मैं प्रार्थना करता हूँ कि क्या तुम मेरा एक वचन स्वीकार करोगी ? इसके बाद मैंने सविनय अञ्जलि-बाँध आदरपूर्वक कहा—'भगवन् ! आप इसप्रकार क्यों कहते हैं ? मैं कौन ! (बहुत ही तुच्छ हूँ !), समस्त त्रिभुवनोंके पूजनीय आपके समान—महात्माका, पुण्य-रहित मेरे समान लोगोंके प्रति, समस्त पाप-हरण करनेवाली दृष्टि भी नहीं पड़ती है, फिर आदेशके विषयमें तो कहना ही क्या है ! अत एव आप निःशङ्कितचित्ते मेरे प्रति कर्त्तव्यका आदेश देकर इस व्यक्तिको अनुगृहीत कीजिए ।' मेरे इस प्रकार कहने पर, उन्होंने स्नेहयुक्त दृष्टिपातसे मुझे मानो सखीके
१. हेमकूटमचलवरम् । २. सकलत्रिभुवनाभिपूज्यास्त्वादृशाः । ३. निपातयन्ति ।
कामाकुलमहाश्वेतादशाव० ६५ ] चन्द्रकला-विद्योतिनीसहिता । ४४५
वर्त्तिनस्तमालपादपात् पल्लवमादाय निष्पीड्य तटशिलातले तेन गन्धगजमदसुरभिपरि- मलेन रसेन उत्तरीयवल्कलैकदेशाद्विपाट्य पट्टिकां स्वहस्तकमल-कनिष्ठिका-नख-शिखरेणा- भिलिख्य 'इयं पत्रिका त्वया तस्यै कन्यकायै प्रच्छन्नमेकाकिन्यै देया' इत्यभिधायार्पितवान्' इत्युक्त्वा च सा ताम्बूलभाजनादाकृष्य तामदर्शयत्। अहन्तु तेन तत्सम्बन्धिनालापेन शब्दमयेनापि स्पर्शसुखमिवान्तर्जनयता, श्रोत्रविषयेणापि रोमोद्गमानुमितसर्वाङ्गानुप्रवेशेन, मदनावेशमन्त्रेणेवावेश्यमाना तस्याः करतलादादाय तां वल्कलपत्रिकां तस्यामिमामभि- लिखितामार्यामपश्यम्—
दूरं मुक्तालतया बिससितया विप्रलोभ्यमानो मे ।
हंस इव दर्शिताशो मानसजन्मा त्वया नीतः ॥
अर्पितवान्' इति सम्बन्धः । सस्नेहया प्रेमयुक्त्या दृष्ट्या वीक्षणेन, सखीमिव वयस्यामिव उपकारिणीमिव उपकृतिकर्त्रीमिव प्राणप्रदामिव जीवितदात्रीमिव च माम् अभिनन्द्य प्रमोदमूत्पाद्य निकटवर्त्तिनः समीप- स्थायिनः तमालपादपात् तापिच्छवृक्षात् पल्लवं किसलयम् आदाय गृहीत्वा, तटशिलातले तीरस्थप्रस्तरो- परि निष्पीड्य संमर्द्य, गन्धगजस्य गन्धहस्तिनः मदवद् दानवारिवत् सुरभिर्घ्राणतर्पणः परिमलो गन्धो यस्य तेन, रसेन निर्यासेन, उत्तरीयं यद् वल्कलं तरुत्वक् तस्य एकदेशात् एकभागात् पट्टिकाम् एकपत्रं विपाट्य उद्घटय्य, तत्र स्वहस्तकमलस्य निजकरकमलस्य कनिष्ठिकायास्तन्नामधेयाया अङ्गुल्याः नखस्य पुनर्भवः शिखरेण अग्रेण अभिलिख्य लिपीकृत्य, 'इयं पत्रिका त्वया भवत्या एकाकिन्यै अद्वितीययै तस्य कन्यकायै महाश्वेतायै प्रच्छन्नं नितान्तगुप्तं यथा स्यात्तथा देया अर्पणीया' इत्यभिधाय इत्युक्त्वा अर्पित- वान् दत्तवान्' इत्युक्त्वा च सा तरलिकाताम्बूलभाजनात् नागवल्लीपात्रात् तां पत्रिकाम् आकृष्य निष्कास्य अदर्शयत् दर्शितवती।
इह 'सखीमिवे'त्यादितिसृणामेव जात्युत्प्रेक्षाणां परस्परं नैरपेक्ष्येण संसृष्टिः।
अहमिति । शब्दमयेनापि शब्दामकेनापि तेन पत्रेण अन्तर्न्तःकरणे स्पर्शसुखं स्पर्शजनितानन्दं जनयता उत्पादयतेव, श्रोत्रविषयेणापि शब्दारामकत्वात् केवलकर्णग्राह्येणापि, रोमोद्गमैः निखिलावयवेषु रोमाञ्चैः, अनुमितः अनुमितिविषयीकृतः सर्वाङ्गेषु समस्तावयवेषु अनुप्रवेशो यस्य तथोक्तेनेव, सर्वावय- वेषु प्रवेशाभावे समस्तेष्वेव तेषु रोमोद्गमासम्भवादित्याशयः। मदनावेशमन्त्रेणेव कामाधिष्ठानोत्पादकी- भूतमन्त्रेण, तस्य पुण्डरीकस्य सम्बन्धिना सम्बद्धेन आलापेन संलापेन, आवेश्यमाना अधिष्ठीयमाना सती, तस्याः तरलिकायाः तां वल्कलपत्रिकाम् आदाय गृहीत्वा, तस्यां पत्रिकायाम् अभिलिखिताम् अभिलीपीकृताम् इमाम् आर्यां आर्याच्छन्दोबद्धामक्षरपङ्क्तिम् अपश्यम् अद्राक्षम्।
इह 'जनयतेव' इत्यत्र क्रियोत्प्रेक्षा, 'रोमोद्गमानुमितसर्वाङ्गानुप्रवेशेन' इत्यत्र प्रतीयमाना क्रियो- त्प्रेक्षा, 'मदनावेशमन्त्रेणेव' इत्यत्र गुणोत्प्रेक्षा ।
दूरमिति । हे सुन्दरि ! त्वया भवत्या बिसं मृणालं 'मृणालं बिसमब्जादि' इत्यमरः, तद्वत् सिततया शुभ्ररुच्या मुक्तालतया 'गृह्यतामियमक्षमाला' इत्यभिधाय मम हस्ते स्थापितेन स्वीयमुक्तामयहारेण करणेन, विप्रलोभ्यमानः अधिकप्रकर्षेण निजसङ्गमलोभं प्राप्यमाणः, मां लक्ष्यीकृत्यात्मन्यपि कामावेशेनैव तथाविधचातुरीविधानादित्याशयः, अत एव च दर्शिता द्योतिता आशा मनोरथपूर्तेराशांमा यस्य सः, मे
समान, उपकारिणीके समान और प्राणदायिनीके समान अभिनन्दित कर, समीपवर्ती तमालवृक्षमेंसे एक पल्लव लाकर, तीरवर्ती प्रस्तरखण्डके ऊपर मर्दन कर गन्धहस्तीके मदजलके समान मनोहर सौरभसम्पन्न निकले हुए उसके रससे, अपने उत्तरीय वल्कलमेंसे एक पट्टी फाड़कर उसपर, स्वकीय करकमलकी कनिष्ठिका उँगलीके नखाग्र- द्वारा लिखकर 'अकेली रहनेके समयमें उस कन्याके पास तुम यह पत्रिका अत्यन्त गुप्तरीतिसे (छिपाकर ) दे देना' यों कह कर उस पत्रिकाको मुझे दे दिया।' इतना कह तरलिकाने ताम्बूलके डिब्बेसे बाहर निकाल कर वह पत्रिका मुझे दिखाई। शब्दमय होने पर भी अन्तःकरणमें मानो स्पर्श-सुख उत्पन्न करती और केवल कर्णके विषय होने पर भी रोमाञ्च उत्पन्न होनेसे मानो मेरे समस्त अङ्गोंमें प्रवेश करनेका अनुमान कराती, उसके विषयका यह आलाप सुनते ही—कामावेशके मन्त्रने मानो अन्दर प्रवेश किया हो उस प्रकार उस समय तरलिकाके हाथमेंसे उस वल्कलकी पत्रिकाको लेकर देखा तो उसमें यह आर्या लिखी थी—'( हे सुन्दरि ! ) कोई व्यक्ति जिस प्रकार मुक्तामय ( मोतियोंके ) हारके समान शुक्लवर्ण मृणाल-द्वारा अत्यन्त-लोभ उत्पन्न कराकर अपने अभिमत दिशाको
| ४४६ | कादम्बरी- | [कथामुखम्- |
|---|
अनया च मे दृष्ट्या दिङ्मोहभ्रान्त्येव प्रनष्टवर्त्मनः, बहुलनिशयेवान्धस्य, जिह्वोच्छित्त्येव मूकस्य, ऐन्द्रजालिकपिच्छिकयेवातत्त्वदर्शिनः, ज्वरप्रलापप्रवृत्त्येवासम्बद्धभाषिणः, दुष्टनिद्रयेव विषविह्वलस्य, लोकायतिकविद्ययेवाधर्मरुचेः, मदिरयेवोन्मत्तस्य, दुश्चिरवेश-क्रिययेव
मम मानसात् चित्तात् जन्म उत्पसिर्यस्य स एवंविधः मानसजन्मा मनसिजः कामः, हंस इव त्वया दूरं नीतः कामुकेषु कामिनीद्वारा प्रलोभनस्यात्यन्तोद्दीपकत्वादतीव वर्धितः, सुतरां त्वरितमधुना तन्निबृत्तेश्चेष्ट्टे-गस्त्वया करणीय इत्याशयः। इंसपक्षे तु—विलसितया मुक्तानां ल्यया लतावद्रुम्बाकारया पद्धत्या विप्रलोभ्यमानः केनचिज्जनेन विशेषप्रकर्षण मण्डलनीमप्राप्यमानः, तया दर्शिता आशा स्वेन सह नयनार्थमभीष्टा दिक् (दिशा) यस्मै सः, मानसे तत्संज्ञकसरोवरे जन्म यस्य सः तयोक्तः, दूरं नीतः स्वनिवासाद्धिप्रकर्षं प्रापितः, मण्डललोभेन हंसस्य नीयमानमृगालानुसारित्वादियाशयः। इह पूर्णोपमा। आर्या जातिः। स्वरूपं विसतितमिति विससिता अत्र स्त्रीत्वं तु 'स्त्री स्यात् काञ्चिन्मृणाल्यादिविवक्षापचये यदि' इत्यमरोक्तेदिशोत्यवधेयम्। इंसपदे सितपदस्य परनिपातस्तु अग्निस्तोकादिष्विविति कुशलैः समाश्वस्ते।
अनयेति। किन्वेति चार्थः। नदेत्यार्थे 'मे' इत्यव्ययम्। अनया पुरोऽवलोक्यमानया पत्रिकया आर्षेदा वा मे मया दृष्ट्या सत्या, स्मरातुरस्य कानातुरस्य मे मम मनसश्चित्तस्य सुतरां बाहुल्वेन दोषविकारोपचयः कानविकारवृद्धिः कश्चियत व्यधीयत इति सम्बन्धः। केन कस्य चेति जिज्ञासायामुपनानवचनानि सङ्गमनीयानि। दिङ्मोहभ्रान्त्या दिग्भ्रमान्तकरणेन, प्रनष्टं विलुप्तम् इदन्तया प्रत्येतुमशक्यं वर्त्म क्षष्टषीभूतो मार्गो यस्य तस्य पुरुषस्येव, पन्थानमतिक्रम्योत्पथं गन्तुर्यथा पुनर्दिग्भ्रान्त्या किं कर्तव्यताविमूढस्वरूपदोषविकारोपचयो विधीयते तद्वद् व्यधीयतेति निष्कर्षः। इहाधिकपदत्वदोषनिराकरणाय 'दिङ्मोहेनेव' इत्येव पाठो विधेयः तावतैवार्थसिद्धेः। बहुलनिशया कृष्णपक्षरात्र्या अन्धस्येव विगतलोचनस्येव, इहापि किंकर्त्तव्यताविमूढस्वरूपकानविकारवृद्धिः। जिह्वाया रसनाया उच्छित्त्या कर्त्तनेन मूकस्य वागीरहितस्येव, इह उच्चारर्गानान्तानामार्थरूपो दोषविकारोपचयः। ऐन्द्रजालिकस्य नादिकस्य पुंसः पिच्छिकया जनानां दृष्टिबन्धरूपया अतत्त्वदर्शिनः प्रकृत्या भ्रान्तस्येव, इह वास्तविकस्यैकान्तान्निश्चयरूपो दोषविकारोपचयः। ज्वरप्रलापस्य प्रवृत्त्या प्रारम्भेण असम्बद्धभाषिणः प्रकृत्यैव असङ्गतवादिन इव, इहानवरतप्रलापरूपो दोषविकारोपचयः। दुष्टनिद्रया विषवेगेन चेतनाहीनरूपप्रमील्या विषविह्वलस्येव विवम्मग्रस्त्येव, इह पुनः चेतनाप्राप्त्यभावरूपो दोषविकारोपचयः। लोकायतेन नास्तिलेपेव लोकेषु निश्चितेद प्रत्यक्षमप्रमागवादेन संसृष्ट इति लोकायतिको नास्तिकमूर्द्धन्यश्चार्वाकः, तस्य प्रत्यक्षमप्रनाजनाम्रस्त्वस्यानुरण्यत्वात्। तस्य विद्या तन्निर्मितशास्त्रं 'यावज्जीवं सुखं जीवेत्' इत्यादिका तया, अधर्मरुचेः प्रकृत्यैवाधर्ममतेर्लोकस्येव, इह सर्वथा नास्तिक्यरूपा दोषविकारवृद्धिः। अत्र प्रसङ्गाच्चार्वाकसिद्धान्तो निरूप्यते—
यावज्जीवं सुखं जीवेन्नास्ति मृत्योरगोचरः। भस्मीभूतस्य देहस्य पुनरागमनं कुतः॥ अग्निहोत्रं त्रयो वेदास्त्रिदण्डं भस्मगुण्ठनम्। बुद्धिपौरुषहीनानां जीविकेति बृहस्पतिः॥ अत्र चत्वारि भूतानि भूमिवार्थ्यनलाह्विलाः। चतुभ्र्यः खलु भूतेभ्यश्चैतन्यमुपजायते॥ किण्वादिम्यः समेतेभ्यो द्रव्येभ्यो मदशक्तिवद्। अहं स्थूलः कृशोऽस्मीति सामानाधिकरण्यतः॥ देहः स्थौल्यादियोगाच्च स एवात्मा न चापरः। मम देहोऽयमित्युक्तिः सम्भवेदौपचारिकी॥
दिखाकर मानसरोवरमें उत्पन्न किसी हंसको दूर तक ले जाता है, उसी प्रकार तुम मृणालके समान सुवर्म मोतियोंकी मालासे उत्पन्न लोभ उत्पन्न कराकर, आशा दिखला कर मेरे कामवेगको अत्यधिक (चरम, सीममें) बढ़ा दिया है (इसलिए इस समय शीघ्र उसकी निवृत्तिका उपाय तुम्हें करना चाहिए)।'
दिग्भ्रमवश उत्पन्नभ्रान्ती (दिग्भ्रान्तिसे मार्ग भूले हुए) व्यक्तिके समान, कृष्णपक्षकी रात्रिसे चक्षुविहीन (अन्धे) व्यक्तिके समान, जिह्वाच्छेदन करनेसे मूक (गूँगे) व्यक्तिके समान, ऐन्द्रजालिक (जादूगर) के मोर-पंखोंके मोरच्छत्ते समानतः भ्रान्त व्यक्तिके समान, ज्वरकालीन प्रलापके आरम्भसे स्वभावसे ही असम्बद्धवादीके समान, दूषितनिद्रा द्वारा विष-वेगसे विह्वल व्यक्तिके समान, नास्तिकोंके सिद्धान्तका अभ्यास करनेसे स्वभावतः अधार्मिक लोगोंके समान, मद्यपान करनेसे उन्मत्तके समान एवं उत्कण्ठादिसे गन्धदृष्टा सञ्चार होनेसे दूराविष्ट
१. दुरावेष्ट... ।
कामाकुलमहाश्वेतादशाव० ६५ ] चन्द्रकला-विद्योतिनीसहिता । ४४७
पिशाचग्रहस्य, दोषविकारोपचयः सुतरामक्रियत स्मरातुरस्ये² मे मनसः, येनाकुलीक्रियमाणा सरिद्विव पूरेण विह्वलतामभ्यगमम्³ । ताञ्च द्वितीयदर्शनेन कृतमहापुण्यामिव अनुभूतसुर-लोकवासामिव देवताधिष्ठितामिव लब्धवरामिव पीतामृतामिव समासादित-त्रैलोक्य-राज्या-भिषेकामिव मन्यमाना, सततमन्निहितामपि दुर्लभदर्शनामिव अतिपरिचितामप्यपूर्वामिव
अङ्गनालिङ्गनाज्जन्यं सुखमेव पुमर्थता। कण्टकादिव्यथाजन्यं दुःखं निरय उच्यते ॥ लोकसिद्धो भवेद्राजा परेशो नापरः स्मृतः । देहस्य नाशो मुक्तिस्तु न ज्ञानान्मुक्तिरिष्यते ॥ अग्निरुष्णो जलं शीतं शीतस्पर्शस्तथानिलः । केनेदं चित्रितं तस्मात् स्वभावात् तद्व्यवस्थितिः ॥ न स्वर्गो नाऽपवर्गो वा नैवात्मा पारलौकिकः । नैव वर्णाश्रमादीनां क्रियाश्च फलदायिकाः ॥ पशुश्चेन्निहतः स्वर्गं ज्योतिष्टोमे गमिष्यति । स्वपिता यजमानेन तत्र कस्मान्न हिंस्यते ॥ मृतानामपि जन्तूनां श्राद्धं चेत्तृप्तिकारणम् । गच्छतामिह जन्तूनां वृथा पाथेयकल्पनम् ॥ स्वर्गस्थिता यदि तृप्तिं गच्छेयुस्तत्र दानतः । प्रासादस्योपरिस्थानामिह कस्मान्न दीयते ॥ यावज्जीवेत् सुखं जीवेद्दृणं कृत्वा घृतं पिवेत् । भस्मीभूतस्य देहस्य पुनरागमनं कुतः ॥ यदि गच्छेत् परं लोकं देहादेव विनिर्गतः । कस्माद् भूयो न चायाति बन्धुस्नेहसमाकुलः ॥ त्रयो वेदस्य कर्त्तारो भण्डधूर्त्तनिशाचराः । जर्फरी तुर्फरीत्यादि पण्डितानां वचः स्मृतम् ॥ इत्यादि ।
मदिरया मद्यपानेन उन्मत्तस्येव मत्ततायुक्तस्येव, इह मत्ततातिशयरूपो दोषविकारोपचयः । तथा दुष्टा विशेषक्लेगोत्पादकत्वेन दूषिता या आवेशक्रिया जन्मसम्बन्धिनाडीनक्षत्रेषु दुष्टग्रहाणां प्रवेशकार्यम् सम्बन्तरागमनकार्यं तथा पिशाचेन ग्रहो ग्रहणं यस्य तस्य पिशाचाभिभूतस्य पुरुषस्येव, इत्य-विक्कलेशमोगो दोषविकारोपचयः । अयमाशयः-पूर्वमेव पिशाचेन ग्रहणं तदुपरि यदि जन्मर्क्षेषु पापग्रहाणां प्रवेशः स्यात्तर्हि भूयान् दोषोपचयः स्यात् ।
इह मालोपमा । भग्नप्रक्रमतादोषस्त्विह पाठपरिवर्तनेन समाधेयः ।
देनेति । येन दोषविकारोपचयेन आकुलीक्रियमाणा व्यग्रीक्रियमाणाऽहं पूरेण सलिलवृद्ध्या सरिद्व-दीव विह्वलताम् व्याकुलताम् अभ्यगमं सर्वतोभावेन प्रापम् । इह श्रौतीपमा ।
तानिति । किञ्चेति पार्थः । द्वितीयदर्शनेन द्वितीयवारं मुनेरवलोकनेन कारणेन, तां तरलिकां कृत-महापुण्यामिव विहितानिशयसुकृतामिव, अनुभूतोऽनुभवविषयीकृतः सुरलोके स्वर्गे वासो वसतिर्यया तानिव, कयाचित् देवतया अधिष्ठिताम् आधितामिव, लब्ध आसादितो वरो देवप्रसादो यया तामिव, पीतम् आस्वादितम् अमृतं पीयूष यया तामिव, तथा समासादितो लब्धः त्रैलोक्यराज्ये त्रिभुवनाधिपत्ये ऽभिषेकोऽभिषेचनं यया तामिव च मन्यमाना मनसि ज्ञायमानाहं पुनः पुनः भूयो भूयः पर्यपृच्छम् अप्राक्षम् इत्युत्तरेण सम्बन्धः ।
इह महापुण्यविहिताधुत्प्रेक्षानां षण्णामेव क्रियोत्प्रेक्षाणां परस्परं नैरपेक्ष्येण संसृष्टिः । एवञ्च स्वस्याऽप्यतिशंया पुनस्तन्चित्रीडगभिलाषा प्रतीयत इत्यलङ्कारेण वस्तुध्वनिः ।
सततेति । सततं निरन्तरं सन्निहितामपि पार्श्ववर्त्तिनीमपि दुर्लभं दुष्प्रापं दर्शनम् अवलोकनं यस्याः तामिव, पुण्डरीकस्य द्वितीयवाशवलोकनेन कारणेनेत्याशयः । अतिपरिचितामपि अतिसन्तवगोचरीकृता-मपि अपूर्वामिव अभिनवायातामिव सादरम् आदरेण एहितन् आभाषमाणा आलपन्ती ।
इहापि क्रियोत्प्रेक्षयोः परस्परं नैरपेक्ष्येण संसृष्टिः ।
(पिशाच ग्रसित) व्यक्ति के समान मेरे कामातुर चित्तमें इस आर्याके देखनेसे दोष-विकारकी अत्यधिक वृद्धि हुई और बाढ़के जलसे नदीके समान, मैं इससे आकुल हो विह्वल हो गई । तरलिकाने उस मुनिकुमारको दूसरी बार देखा था इससे वह मानो महापुण्यशालिनी हो, स्वर्गलोकमें ही मानो निवास कर आई हो, देवताओं से मानो अधिष्ठित हो, वरदान पा गई हो, अमृत पान कर आई हो, त्रिभुवनका राज्याभिषेक प्राप्त किया हो (इस प्रकार मैं उसे मनमें समझने लगी) सर्वदा मेरे समीपमें रहने पर भी मानो उसका दर्शन दुर्लभ हो और अत्यन्त परिचित होने पर भी मानो नई आई हो, इस प्रकार मनमें समझकर उससे आदरके साथ आलाप करने लगी,
१. लजावदा । २. स्मरातुरस्य । ३. अभ्यागमम्, अगमन् ।
४४८ | कादम्बरी- | [ कथायाम्-
सादरसाभाषमाणा, पार्श्वस्थितामपि¹ सर्वलोकोपर्यवस्थितामिव पश्यन्ती, कपोलयोर- लकलताभङ्गेषु² च सोपग्रहं स्पृशन्ती, विपरीतमिव परिजनस्वामिसम्बन्धमुपदर्शयन्ती, 'तर- लिके ! कथय³ कथं स त्वया दृष्टः, किमभिहितासि तेन, कियन्तं कालमवस्थितासि तत्र, कियदनुसरन्नसमानसावागतः' इति पुनः पुनः पर्यपृच्छम् । अनयैव च कथया तया सह तस्मिन्नेव प्रासादे तथैव प्रतिषिद्धाशेषपरिजनप्रवेशा दिवसमत्यवाहयम् ।
अथ मदीयेनेव हृदयेन कृतरागसविभागे लोहितायति गगनतलोपान्तालम्बिनि⁴ रविविम्वे, सरागदिवसकरानुरक्तायां कृतकमलशयनायामनङ्गातुरयामित्र पाण्डुतां व्रजन्त्या-
पार्श्वेति । पार्श्वे स्वस्यापरस्मिन् भागे अवस्थितामपि आसीनार्मापि सर्वलोकस्य समस्तविश्वस्य उपरि ऊर्ध्वं अवस्थितामिव निषण्णामिव पश्यन्ती अवलोकमाना, इहापि पुण्डरीकस्य द्वितीयवारा- वलोकनेन कारणेनेत्याशयः । इह 'अवस्थितामिव' इति क्रियोत्प्रेक्षा ।
कपोलयोरिति । कपोलयोर्गण्डयोः अलकलता भङ्गेषु वल्लीवत्स्वभावतःस्वल्लितकुञ्चितकचसमूहेषु सोपग्रहं सानुकूल्यम् आदरयुक्तमित्यर्थः, यथा स्यात्तथा स्पृशन्ती स्पर्श विदधती । 'उपग्रहः पुमान् बन्द्यामुपयोगेऽनुकूलने' इति मेदिनी । 'भवने व्रजति' इत्यत्र कर्मणोऽधिकरणत्वविवक्षया सप्तमी यथा भवति तथैव 'अलकलताभङ्गेषु' इत्यत्रापि सप्तमीत्यवगन्तव्यम् ।
विपरीतमिति । परिजनस्वामिसम्बन्धं सेव्यसेवकभावं विपरीतमिव विरुद्धमिव उपदर्शयन्ती अहं सेविका सा तु सेव्या एवं रूपेण बहिर्वृत्या प्रकाशयन्तीत्यर्थः, पुण्डरीकस्य द्वितीयवारावलोकनेन मयैव तस्या निरतिशयगौरवसत्कारविधानादित्याशयः ।
तरेति । तरलिके वयस्ये ! कथय निवेदय स पुण्डरीकः कथं केन प्रकारेण त्वया भवत्या दृष्टोऽवलो- कितः, किम् अभिहितासि कथितासि तेन पुण्डरीकेण, तत्र तस्मिन् वने कियन्तं कालं कियत्समयम् अव- स्थितासि अवतिष्ठमानासि, अस्मान् स्वभवने आयान्तीरिति शेषः, असौ मुनिकुमारः, अनुसरन् पृष्ठेऽनु- व्रजन् कियत्पन्थानम् आगत आयातः ।
अनयेति । अनयैव पूर्वोक्तयैव कथया वार्त्तया तया तरलिकया सह तस्मिन्नेव प्रासादे पूर्वनिर्दिष्ट एव सौधे, प्रतिषिद्धो निवारितः अशेषाणां समस्तानां परिजनानां सेवकवर्गाणां प्रवेशोऽभ्यन्तरागमनं यया तादृशी सती दिवसं वासरम् अत्यवाहयम् अगमयम् ।
अथेति । रविविम्वे सूर्यमण्डले, मदीयेन हृदयेन चेतसा कृतो विहितः रागसंविभागः रागोऽनुराग एव रागो लौहित्यं तस्य संविभागो विभज्य समर्पणं यस्मै तस्मिन्निव सति, लोहितायति ईषद्रक्तीभवति, गगनतलस्य व्योमतलस्य उपान्तात् प्रान्तप्रायभागात् अवलम्बिनि पतनोन्मुखे च सति ।
इहानुरागलोहित्ययोर्व्यतिरेकेऽपि रागपदश्लेषेणाव्यतिरेकाध्यवसायादतिशयोक्तिरलंङ्कारः। रागसं- विभागकरणोत्प्रेक्षणात्क्रियोत्प्रेक्षा चेत्युभयोरेकाश्रयानुप्रवेशसङ्करालङ्कारः ।
सरागेति । आतपलक्ष्म्यां सूर्यप्रकाशश्रियाम्, रागो लौहित्यमेव रागोऽनुरागः तेन सहेति सरागो यो दिवसकरो रविः तत्र अनुरक्तायां लोहितायाम् अनुरागवत्याञ्च सत्याम्, अत एव कृतं विहितं कमले पङ्कजे कमलमयास्तरणे च शयनं स्थितिः स्वापश्च यया तस्याम्, अत एव अनङ्गातुरया मदनविह्वलि- तायामिव विद्यमानायां पाण्डुतां श्वेततां व्रजन्त्यां गच्छन्त्यां सत्याम् ।
बगलमें बैठने पर भी मानो वह सब लोकके ऊपर हो, इस प्रकार मैं उसे देखने लगी । उसके कपोलका और उसके कुञ्चित केशकलाप (घुँघराली लटों) का आदरके साथ स्पर्श करने लगी। इस प्रकार सेव्य-सेवकके सम्बन्धका मानो व्यतिक्रम दिखाती-'तरलिके ! कह, तूने उसे किस भावसे देखा ? उन्होंने तुझसे क्या-क्या कहा ? कितनी देर तू उसके पास खड़ी रही, वे मेरे अनुकरण करते करते (पीछे-पीछे) कितने दूर तक आए' यह बात मैं बार-बार उससे पूछने लगी। समस्त परिजनोंको प्रवेश करनेका निषेध कर उस अट्टालिका (महल) के अभ्यन्तरमें तरलिकामे साथ इसी बातचीतमें ही मैंने वह दिन बिताया।
उसके बाद मेरा हृदय ही मानो सूर्यमण्डलके राग (अनुराग, रक्तिमा) को विभक्त कर दिया, उससे सूर्यमण्डल रक्तवर्ण होकर गगन-तलके किनारे पर जब लटकने लगा, दिवस-लक्ष्मी, रागान्वित सूर्यके प्रति अनुरक्त
१. पार्श्वस्थामपि । २. अलकलामङ्गेषु; अलकलतासङ्गेषु । ३, कथय कथय । ४. गगनतलावम्विनि ।
कामाङ्गलग्नेत्याद्यंशताव० ६५ ] चन्द्रकला-विद्योतिनोसहिता ४४६
मातपलक्ष्म्याम्, गैरिकगिरिसलिलप्रपातपाटलेषु कमलवनेभ्यः समुत्थाय^१ वनगजयूथेष्विव पुञ्जीभवत्सु भास्करकिरणेषु, गगनावतारविश्रामलालसानां रविरथवाजिनां हर्षहेषारवप्रति-शब्दकेन सह विशति मेरुगिरिगह्वरं वासरे, मुकुलित-रक्त-पङ्कज-पुट-प्रविष्टमधुकरावलपीषु^२ रवं विरह-मूर्च्छान्धकारितहृदयास्विव प्रारब्धनिमीलनासु पद्मिनीषु, ग्रासीकृत-सामान्य-मृणाललता-विवरसंक्रामितानीव परस्परहृदयान्यादाय विघटमानेषु रथाङ्गनाम्नां युगलेषु,
इह विमिश्रालिङ्गनाभ्यां श्लिष्टविशेषणसामर्थ्याच्च प्रकाशार्थसूर्ययोः स्त्रीपुरुषव्यवहारसमारोपात् समा-सोक्तिः पदार्थहेतुके काव्यलिङ्गे गुणोत्प्रेक्षा चेत्येतेषामङ्गाङ्गिभावसङ्करः।
गैरिकेति। गैरिकस्तदाख्यो यो धातुविशेषः तस्य गिरिर्गैरिकगिरिः तस्य सलिलेषु जलेषु प्रपातेन पतनेन पाटलेषु श्वेतरक्तेषु, तज्जलस्यापि गैरिकसम्पर्केण पाटलत्वादित्याशयः, भास्करकिरणेषु सूर्य्यरश्मिषु वनगजयूथेष्विव अरण्यहस्तिमसमूहेष्विव कमलवनेभ्यः पद्मकाननेभ्यः समुत्थाय समुत्थानं विधाय पुञ्जीभवत्सु एकत्रीभवत्सु सत्सु, तत्समयेऽरण्यहस्तिमसमूहानामप्येकत्रपुञ्जीभवनादित्याशयः। वनगजा अपि गैरिकसलिलप्रपातेन श्वेतरक्ताः सन्तः सायङ्काले एकत्र पुञ्जीभवन्ति, सूर्य्यरश्मयः अपि श्वेतरक्ताः सन्तः सायं सङ्कुचितावस्थया पुञ्जीभवन्तीति द्वयोरौपम्यादुपमालङ्कारः।
गगनेति। वासरे दिवसे, गगनावतारात् नभोमार्गे परिभ्रमणात् यो विश्रामो विश्रान्तिः तत्र लाल-सानां लोलुपानां 'लोलुपो लोलुभो लोलो लम्पटो लालमोऽपि सः' इति रभसः, रविरथवाजिनां सूर्य्यस्य-न्दननियुक्ताश्वानां हर्षेण अधिकपरिश्रमादनन्तरं विश्रामप्राप्तिसम्भवादानन्देन यो हेषारवः 'ह्रीँ ह्रीँ' इति शब्दः तस्य प्रतिशब्दकेन प्रतिध्वनिना सह, मेरुगिरिगह्वरं सुमेरुपर्वतकन्दरां विशति अभ्यन्तरमागच्छतीव सति, विविधमहारत्नरश्मिभिः तद्रह्वरस्य निशायामपि वासरवदालोकमयीविहितत्वात् निकटसूर्य्यप्रति-ध्वनीनां च तत्रान्यन्तरगमनसम्भवादित्याशयः। इह प्रतीयमानक्रियोत्प्रेक्षासहोक्त्योरङ्गाङ्गिभावसङ्करः।
मुकुलितेति। मुकुलितानि रवेरस्तङ्गतत्वान्मुद्रितानि यानि रक्तपङ्कजपुटानि कोकनदपुटानि तेषु प्रविष्टा कृतप्रवेशा मधुकरावलि भ्रमरपङ्क्तिः यासां तासु तथोक्तासु पद्मिनीषु कमलिनीषु, रविविरहेण सूर्य्यवियोगेन या मूर्च्छा तया अन्धकारितानि समुत्पन्नान्धकाराणि हृदयानि चेतांसि यासां तासु तादृशी-ष्विव विद्यमानासु, सूर्य्यस्य कमलिनीप्रियत्वात् मधुकराणामन्धकारवत् श्याम रूपत्वादित्याशयः, अत एव प्रारब्धं निमीलनं मुकुलीभावं जडताप्राप्तिश्च याभिस्तासु तादृशीषु सतीषु, सूर्यास्ते कमलिनीनिमीलनस्य मूर्च्छारम्भे च जडतोपलब्धेः स्वभावसिद्धत्वादित्यभिप्रायः।
इह कार्येण क्लिष्टेन च सूर्य्यकमलिन्योः स्त्रीपुरुषव्यवहारसमारोपात् समासोक्तः, मनसि तिमिरो-रपत्तेरुत्प्रेक्षणात् क्रियोत्प्रेक्षा, पदार्थहेतुके काव्यलिङ्गे चेत्येतेषामङ्गाङ्गिभावसङ्करः।
ग्रासीति। रथाङ्कनाम्नां चक्रवाकसंज्ञकानां युगलेषु द्वन्द्वेषु मन्त्रीकेषु तेष्वित्यर्थः, ग्रासीकृतया कवलीकृतया (अर्थात् एकैव मृणाललता द्वाभ्यामपि चञ्चुपुटेन प्रान्तद्वये गृहीतेत्यर्थः) सामान्यया साधा-रणया एकैकया मृणाललतया विमवस्त्या धर्त्या, विवरेण स्वीयच्छिद्रमार्गेण करणेन सङ्क्रामितानीव अन्योन्ययोः सङ्क्रान्तानीव परस्परहृदयानि अन्योन्यचेतांसि आदाय गृहीत्वा विघटमानेषु वियोगं प्राप्य-माणेषु सत्सु, चक्रवाकमिथुनानामपि रात्रिप्राप्तौ विश्लेषस्य स्वाभाविकत्वात् प्रीत्यतिशयाच्चान्योन्य-
होकर कमलके ऊपर शयन करती कामातं होकर ही मानो क्रमसे पाण्डुवर्ण हो गई; गैरिक (गेरूते) संयुक्त पर्वतके झरनेके जलके ऊपर गिरनेसे श्वेतरक्ता होकर सूर्यकी किरणसमूह कमलवननैसे निकलकर वनगजोंके झुण्डके समान एकत्र पुञ्जीभूत (इकट्ठे) होने लगे; समग्र आकाशमें पर्यटनकर विश्राम करनेके अभिलाषी सूर्य-रथ-नियुक्त अश्वाके आनन्दसे किए हुए हेषारव (हिनहिनाहट) की प्रतिध्वनिके साथ, दिन मानो सुमेरुपर्वतकी गुफाओंमें प्रवेश करने लगा; मुद्रितप्राय रक्तकमलके अभ्यन्तरमें भ्रमर-पङ्क्तियां प्रवेशकर गई थीं इससे प्रतीत होता था कि मानो सूर्यके वियोगसे मूर्च्छा आनेके कारण जिनके हृदय अन्धकारसे व्याप्त हो गये हैं—ऐसी कमलिनियां मुद्रित (बन्द) होने लगीं; चक्रवाक और चक्रवाकी दोनोंकी चञ्चुपुटद्वारा पकड़ी हुई एक ही मृणाल-लताके विवरमें होकर आए हुए एक दूसरेके हृदयको मानो लेकर, उनके जोड़े परस्पर वियुक्त होने लगे—तब मेरी वह
१. त्त्याय ।
२. मधुकय्यावलीषु । कचिद 'रवि' इति पदत्रोपलभ्यते ।
| ४५० | कादम्बरी- | [ कथायाम्- |
|---|
सा छत्रग्राहिणी समागत्य अकथयत्—'भर्तृदारिके ! तयोर्मुनिकुमारयोरन्यतरो द्वारि तिष्ठति, कथयति चाक्षमालामुपयाचितुमागतोऽस्मि' इति ।
'अहन्तु मुनिकुमारनामग्रहणादेव स्थानस्थितापि गतेव द्वारदेशं समुपजाततदागमनाशङ्का समाहूयान्यतमं कञ्चुकिनं 'गच्छ, प्रवेश्यताम्' इत्यादिश्य प्राहिणवम् ।
अथ मुहूर्त्तादिव तं तस्य, रूपस्येव यौवनम्, यौवनस्येव मकरकेतनम् , मकरकेतनस्येव वसन्तसमयम् , वसन्तसमयस्येव दक्षिणानिलम् , अनुरूपं सखायं मुनिकुमारकं कपिञ्जलनामानं जराधवलितस्यं कञ्चुकिनोऽनुमार्गेण चन्द्रातपस्येव बालातपमागच्छन्तम् अपश्यम् । अन्तिकमुपागतस्य चास्य पर्याकुलमिव सविषादमिव शून्यमिव अर्थिनमिव अन्तर्ग-
हृदययोरन्योन्यं प्रति निशायां विद्यमानत्वादित्यभिप्रायः । इह 'संक्रामितानीव' इत्यत्र क्रियोत्प्रेक्षा ।
तेति । सा छत्रग्राहिणी आतपत्रधारिणी समागत्य समेत्य अकथयद् अब्रवीत्—'भर्तृदारिके राजकन्यके ! तयोः पूर्वमवलोकितयोः मुनिकुमारयोः तपस्विबालकयोः अन्यतरः एकः कश्चित् द्वारि तिष्ठति स्थितो वर्तते, कथयति वक्ति च अक्षमालां स्फटिकमयजपमालाम् उपयाचितुं प्रार्थितुम् आगत आयातोऽस्मि महाश्वेतया निजमुक्तामालां समर्प्य तदीयाक्षमालामादायागतत्वादित्याशयः ।
अहमिति । मुनिकुमारनामग्रहणादेव तपस्विकुमाराभिधेयोपादानादेव स्थानस्थिताऽपि स्वस्थानस्थाऽपि द्वारदेशं गतेव द्वारभूमिं प्राप्तेव, औत्सुक्याधिक्यादित्याशयः । समुपजाता समुत्पन्ना तस्य प्रेयसः पुण्डरीकस्य आगमनाशङ्का उपस्थितिसम्भावना यस्याः सा अहं महाश्वेता, अन्यतमं कञ्चकिनं सौविद्दल्लं समाहूय आह्वानं विधाय 'गच्छ व्रज प्रवेश्यताम् अभ्यन्तरे प्रवेशो विधीयताम्' इति एवम् आदिश्य आज्ञाप्य प्राहिणवं प्रेषितवती । इह 'द्वारदेशं गतेव' इत्यत्र क्रियोत्प्रेक्षा ।
अथेति । अथ तत्प्रेषणानन्तरं मुहूर्त्तादिव क्षणादिव, रूपस्य सौन्दर्यस्य अनुरूपं सखि यौवनं तारुण्यमिव, यौवनस्य अनुरूपं सखायं मकरकेतनं काममिव, मकरकेतनस्य अनुरूपं सखायं वसन्तसमयं सुरभिकालमिव, वसन्तसमयस्य अनुरूपं सखायं दक्षिणानिलं मलयपवनमिव, तस्य पुण्डरीकस्य अनुरूपं निजतुल्यं सखायम् , चन्द्रातपस्य प्रातःकालीनशीतांशुप्रकाशस्य अनुमार्गेण पश्चात् पथा आगच्छन्तम् आयान्तं बालातपं नूतनसूर्यालोकमिव, जराधवलितस्य वृद्धावस्थया शुभ्रीकृतशरीरस्य कञ्चुकिनः सौविदल्लस्य अनुमार्गेण आगच्छन्तम् , कपिञ्जलनामानं कपिञ्जलसंज्ञकं तं मुनिकुमारकं तापसबालकम् अपश्यम् अवलोकयम् ।
इह 'रूपस्य यौवनमिव' इत्यारभ्य 'वसन्तसमयस्य दक्षिणानिलमिव' इत्यन्तं रशनोपमालङ्कारः, 'बालातपमिव' इत्यत्र श्रौत्युपमालङ्कारः; अनयोश्च मिथो नैरपेक्ष्येण संसृष्टिः । 'मुनिकुमारकम्' इत्यत्रानुकम्पायां कः ।
अन्तिकमिति । किञ्चेति चार्थः । अन्तिकं समीपम् उपागतस्य प्राप्तस्य अस्य कपिञ्जलस्य, पर्याकुलमिव नितान्तव्यग्रमिव सविषादमिव सखेदामिव शून्यमिव निखिलोधोगवर्जितमिव अर्थिनमिव याचकमिव, अन्तर्गतम् अभ्यन्तरे स्थितम् आकूतम् अभिप्रायविशेषो यस्य तम् , अर्थात् तस्याकार पूर्वविद्योऽ-
छत्रधारिणी परिचारिका आकर मुझसे कहने लगी - 'राजकन्ये ! उन मुनिकुमारोंमें से एक आकर द्वारपर खड़ा है और कहता है कि 'मैं जपमाला लेने आया हूँ।'
मुनिकुमारका नामोच्चारण करनेसे ही मुझे उस स्थान पर बैठी रहने पर भी मानो द्वारदेशके निकट गई ऐसा प्रतीत हुआ और उसके ही आनेकी धारणाते, एक कञ्चुकीको बुलाकर—'तुम जाओ, उस मुनिकुमारको अन्दर प्रवेश कराओ' ऐसा आदेश देकर उसे भेज दिया ।
उसके बाद थोड़ी देरके बीचमें ही सौन्दर्यका जिस प्रकार यौवन, यौवनका जिस प्रकार कन्दर्प, कन्दर्पका जिस प्रकार वसन्त-काल एवं वसन्त-कालका, जिस प्रकार दक्षिण-वायु, उसी प्रकार उस प्रियतम मुनिकुमारका अनुरूप मित्र कपिञ्जल नामक द्वितीय मुनिकुमारको, प्रभातकालीन चन्द्रालोकके पीछे पीछे नवीन सूर्यालोकके समान वृद्धावस्थासे धवल हुए कञ्चुकीके पीछे पीछे आते देखा ! वे आकर समीपमें उपस्थित हुए, उस समय उसकी आकृति मानो अत्यन्त व्याकुलके समान, खिन्नके समान, शून्यके समान एवं याचकके समान लक्षित हुई एवं
१. आगत्य ।
२. ऋषि ॰ ॰ ॰ ।
३. जराधवलस्य ।
४. अनुयायिनम् ।
५. उपगतस्य ।
मदनपीडितपुण्डरीकदशा० ६६ ] चन्द्रकला-विद्योतिनीसहिता । ४५१
ताकृतम्^१ आकारमलक्षयम्। उत्थाय च कृतप्रणामा सादरं स्वयमासनमुपाहरम्। उपविष्टस्य च बलादनिच्छतोऽपि प्रक्षाल्य चरणावुपमृज्य^२ चोत्तरीयांशुकपल्लवेनाव्यवधानायां भूमावेव तस्यान्तिके समुपविशम्। अथ मुहूर्त्तमिव किमपि विवक्षुरिव स तस्यां मत्त्समीपोपविष्टायां तरलिकायां चक्षुरपातयत्। अहन्तु विदिताभिप्राया दृष्ट्यैव 'भगवन्! अव्यतिरिक्तेयमस्मच्छरीरात्, अशङ्कितमभिधीयताम्' इत्यवोचम्।
एवमुक्तश्च मया कपिञ्जलः प्रत्यवादीत्—'राजपुत्रि! किं ब्रवीमि, वागेव मे नाभिधेयविषयमवतरति त्रपया। क्व कन्दमूलफलाशी^४ शान्तो वनवासनिरतः मुनिजनः, क्व वायमशान्त^६-जनोचितो विषयोपभोगाभिलापकलुषो मन्मथविविधविलाससङ्कटो रागप्रायः प्रपञ्चः।
वलोक्यते स्म यथा कश्चिदभिप्रायोऽस्य प्रकाशनीयो वर्त्तते किन्तु न तं स वहिः प्रकटयतीति। आकारं स्वरूपम् अलक्षयम् आकलयम्।
उत्थायेति। अपि चेति चार्थः। उत्थाय, कृतो विहितः प्रणामो नमस्कारो यया तादृशी अहम्। सादरं सबहुमानं स्वयं निजेनैव आसनं विष्टरम् उपाहरम् उपवेशनायार्पितवती।
उपविष्टेति। उपविष्टस्य आसीनस्य, अनिच्छतो मद्द्वारा पादप्रक्षालनमार्जने अवाञ्छतोऽपि तस्य कपिञ्जलस्य चरणौ पादौ बलात् हठात् प्रक्षाल्य प्रक्षालनं विधाय उत्तरीयांशुकपल्लवेन स्वोत्तरीयवस्त्रप्रान्तेन^२ उपमृज्य प्रोञ्छ्य च अहम्, अन्तिके तस्यैव निकटे, अव्यवधानायां विष्टरकृतव्यवधानवर्जितायां केवलायामेवेत्यर्थः, भूमौ पृथिव्यां समुपविशम् अनिषम्।
अथेति। अथ अनन्तरं किमपि विवक्षुरिव वक्तुमिच्छुरिव सन् स कपिञ्जलः मुहूर्त्तमिव क्षणमिव स्थिखा मत्त्समीपोपविष्टायां मन्निकटासीनायां तस्यां तरलिकायां चक्षुर्नेत्रम् अपातयत् पातितवान् तस्या अपसारणाशयाशयः।
अहमिति। दृष्ट्यैव तरलिकां प्रति तस्य तथाविधनिरोक्षणभङ्ग्यैव विदितो ज्ञातः अभिप्रायः तरलिकाया अपसरणविषयक आशयो यया सा तथोक्ता सती 'भगवन् स्वामिन् ! अस्मच्छरीरात् मदीयदेहात् अव्यतिरिक्ता अभिन्ना इयम्, अशङ्कितं निःसन्दिग्धं यथा स्यात्तथा अभिधीयतां कथ्यताम्' इत्यवोचम् इत्यकथयम्।
एवमिति। मया महाश्वेतया एवं पूर्वोक्तप्रकारेण उक्तः अभिहितश्च कपिञ्जलः प्रत्यवादीत् प्रत्यवोचत्—'राजपुत्रि मत्तःदारिके! किं ब्रवीमि किं कथयामि, मे मम त्रपया लज्जया वागेव वचनमेव अभिधेयविषयं वाच्यविषयं नावतरति न प्रवर्त्तते।
क्वेति। कन्दं शालूकम्, मूलञ्च तद्भिन्नम्, फलञ्च अश्नाति भुङ्क्त इति सः, शान्तः शमगुणसंयुतः जितेन्द्रिय इति तात्पर्यम्। अनेन स्वेनैव दोषाद्विनिवृत्तिर्ध्वनिता। वनवासनिरतः अरण्यनिवाससक्तो मुनिजनः तपस्विननः क्व, 'वनवासनिरतः' इत्यनेन भोग्यविषयाणाम् अवलोकनकादिजनितमाकर्षणमपि न सम्भवतीति व्यञ्जितम्। अशान्तस्य अन्तरिन्द्रियानिग्रहशालिपुरुषस्य उचितो योग्यः, विषयाणां माल्यचन्दनयोषिदादिभोग्यवस्तूनाम उपभोगाभिलाषेण भूयो भूयस्तदासेवनस्पृहया कलुषो मलिनः,
उनके अन्तर्गतमें मानो कोई विशेष अभिप्राय हो इस प्रकार मुझे प्रतीति हुई, उठकर आदर-सहित प्रणाम कर मैं स्वयं उनके लिए आसन लाई। उस पर उन्हें बैठ जाने पर उनकी इच्छा नहीं रहने पर भी हठसे मैंने उनके चरणयुगल धोए, एवं अपने उत्तरीयवस्त्र प्रान्त (पल्ले) द्वारा पोंछकर, मैं उनके निकट बिना किसी आसनके बिछाए हुए भूमि पर ही बैठ गई। उसके बाद वे किसी विषयको बोलनेकी इच्छासे ही मानो, मेरे समीपमें बैठी हुई तरलिकाके प्रति कुछ देर दृष्टिपात किए। किन्तु उस दृष्टिपातसे ही उनका अभिप्राय समझ कर मैंने कहा—'भगवन्! मेरे शरीरसे यह व्यक्ति भिन्न नहीं है, इसलिए आप जो कुछ कहना चाहते हों उसे निःशङ्क चित्तसे कहिए।'
मेरे इसप्रकार कहने पर कपिञ्जलने प्रत्युत्तर दिया—'राजकन्ये! मैं क्या कहूँ? लज्जाके कारण मेरी वाणी ही वक्तव्य विषय कहनेमें प्रवृत्त नहीं होती। कहाँ कन्द-मूल-फल खानेवाले जितेन्द्रिय वनवासी मुनिजन, और कहाँ अजितेन्द्रिय लोगोंके योग्य, भोग्यपदार्थोंकी अभिलाषासे कलुषित, नानाविध कामचेष्टासे परिपूर्ण एवं राग-बहुल
१. अनुपरताभिप्रेतम्। २. उपमृज्य। ३. क्वचिद् मदिनी पदं न दृश्यते। ४. कन्दमूलाशी, मूलफलाशी। ५. ०००वननिरतः। ६. अनुप्रशान्त०००।
४५२ | कादम्बरी- | [ कथामुखम्-
सर्वमेवानुपपन्नमालोक्य, किमारब्धं दैवेन। अयत्नेनैव खलु महातास्पदतामीश्वरो नयति जनम्। न जाने किमिदं वल्कलानां सदृशम्, उताहो जटानां समुचितम्, तपसोऽनुरूपम्, आहोस्विद्धर्मोपदेशाङ्गमिदम्। अपूर्वेयं विडम्बना केवलम्। अवश्यकथनीयमिदम्। अपर उपायो न दृश्यते, अन्या प्रतिक्रिया नोपलभ्यते, अन्यच्छरणं नालोक्यते, अन्या गतिर्नास्ति। अकथ्यमाने च महाननर्थोपनिपातो जायते। प्राणपरित्यागेनापि रक्षणीयाः सुहृदसव इति कथयामि। अस्ति भवत्याः समक्षमेव स मया तया निष्ठुरममर्षितकोपेनाभिहितः। तया चाभिधाय परित्यज्य तमः तस्मात् प्रदेशादुपजातमन्दोत्सङ्गतयावचयोऽन्यप्रवेश-
मन्मथस्य कन्दर्पस्य विविधविलासैः नानाविधाकारैः सङ्कटः सङ्कीर्णो पूर्णः, तथा रागः सुखानुबन्धिता सांसारिकसुखलिप्सैव प्रायेन बाहुल्येन यत्र सः, अयं प्रत्यक्षः संसारो वा छ क्व। एवंविधसंसारे तपस्विन आसक्तिः कथङ्कारमपि न सम्भाव्यत इत्याशयः।
इह विरूपाणां संयोजनाद् विषमः, तत एव च कश्चित्तपस्वी हेवंविधसंसारे मग्नःसक्त इत्यवगम्यत इत्यलङ्कारेण वस्तुध्वनिरिति कुशलैः समाक्ष्यते।
सर्वमिति। दैवेन विधिना, किम् अनिर्वचनीयस्वरूपम्, सर्वमेव एकमसमस्तमेव अनुपपन्नं नितान्त-प्रतिकूलत्वादमुचितम् आरब्धं प्रारब्धम् इति तन्न् वालोक्य पश्येति सम्बन्धः। अपादशेन सन्देहवशेन च स्फुटं न वक्तीत्यवधेयम्।
अयत्नेनेति। अयत्नेनैव उपहासाशी निजोद्योगाभावेनैव खलु निश्चयेन ईश्वरो भगवान् जनम् उपहासास्पदतां परिहासस्थानतां नयति प्रापयति। इदं वक्ष्यमाणं पुण्डरीककर्म किं वल्कलानां तरुत्वग्ग्रूप-रूपस्येत्यर्थः सदृशम् उचितम्, इति न जाने इत्यर्थः, कथमपि नौचित्यमित्याशयः। उताहो कि वा जटानां सटानां समुचितं योग्यम्, न कथमपि समुचितमित्याशयः। इत्युभयेऽपि। किं तपसो नियमविशेषस्य अनुरूपं सदृशम्, आहोस्विद् अथवा धर्मोपदेशस्य सद्विष्टयुक्तशास्त्रस्य अङ्गं प्रयोजकमिदम्।
अपूर्वेति। इयम् अभिधीयमाना पुण्डरीकस्य कामचेष्टा, केवलम् अपूर्वा विडम्बना सन्तप्ताभिनवा दैवद्वारा वञ्चना। इदं वृत्तम् अवश्यं निश्चयेन कथनीयं प्रतिपादनीयम्। अपरो भवत्याः सङ्गाद् व्यति-रिक्तः, इत्युभयेऽपि, उपायः कार्य्यं न दृश्यते नावलोक्यते। अन्या भवत्याः सम्मेलनाद् द्वितीया प्रतिक्रिया चिकित्सा नोपलभ्यते न ज्ञायते। अन्यद् शरणं रक्षकं नालोक्यते न दृश्यते। अन्या गतिः प्रतीकारोपा-यान्तरं नास्ति न विद्यते। अकथ्यमाने तस्मिन्नप्रतिपाद्यमाने महान् बहुः अनर्थोपनिपातो विपदुपस्थितिः जायत उत्पद्यते निजप्राणविनाशसम्भवादित्याशयः। प्राणपरित्यागेनाऽपि जीवितव्यावरोधपेनापि सुहृद-सवः मित्रस्य प्राणाः रक्षणीयाः रक्ष्या इति अस्माद्धेतोः कथयामि प्रतिपादयामि।
इह यद्यपि 'अन्या गतिर्नास्ति' इत्यत्र गतिशब्दस्योपायार्थकत्वमेव व्याख्यानं समुचितम्, तथा-सति 'अपर उपायो नास्ति' इत्यस्य पूर्वमभिहितत्वेनार्थगतपुनरुक्ततादोषः समापतति, तथापि बहुविषा-दनशक्त्यैव न दोषत्वमापादयति किन्तु गुञ्जतामेवापादयतीति न शङ्काकलङ्कावकाशः। तथा च दण्डी—
‘…………कथितं च पदं पुनः। विहिनस्त्यानुवाद्यत्वे विषादे विस्मये कृपि ॥’ इति।
अस्तीति। तददर्शनकोपेन प्रकटितमन्युना मया भवत्याः तव समक्षम् प्रत्यक्षमेव स पुण्डरीकः तथा निष्ठुरं रूक्षम् अभिहित उक्तः अस्तीति सम्बन्धः। अस्तीदिति तदर्थः। वर्तमानसामीप्ये लट् प्रयोगः। तथा तेन प्रकारेण अभिधाय कथयित्वा तं पुण्डरीकं परित्यज्य त्यक्त्वा, उपजातमक्युः उत्पन्नक्रोधः सन्कृष्ट-
यह संसार? देखो, विधाताने यह कैसा अनिर्वचनीय अद्भुत कार्य आरम्भ किया है! स्वयं उपहासके योग्य किसी कार्यको न करने पर भी ईश्वर वैसे मनुष्यको उपहासास्पद बना देता है। मेरी समझमें नहीं आता है कि यह वल्कलधारणके अनुरूप है या जटाधारणके योग्य है, किंवा तपस्याके अनुरूप है अथवा गृहस्थके धर्मोपदेशका अङ्ग है। यह तो केवल अपूर्व विडम्बना हुई है। किन्तु मुझे तो इस वृत्तान्तको अवश्य कहना है, क्योंकि—इसका दूसरा कोई उपाय नहीं है, अन्य कोई प्रतीकार समझमें नहीं आता है, अन्य कोई रक्षक नहीं है, अन्य कोई उपाय नहीं है, जिसे नहीं कहता हूँ तो महाविपत्ति उपस्थित होती है। अपने प्राण-परित्याग करके भी मित्रके प्राणोंकी रक्षा करनी चाहिये—इसीलिए कहता हूँ। तुम्हारे सामने ही मैंने उससे कुपित होकर निष्ठुर वचन कहा था (इसे तुम जानती हो) इसके बाद उसे वहीं पर छोड़ कर और क्रोधके कारण पुष्पचयन भी करना छोड़
१. मन्दत्वात् ।
मदनपीडितपुण्डरीकदशाव० ६६ ] चन्द्रकला-विद्योतिनीसहिता । ४५३
मगमम् । अपयातायाञ्च भवत्यां मुहूर्त्तमिव स्थित्वा एकाकी किमयमिदानीमाचरतीति सञ्जात-वितर्कः प्रतिनिवृत्य विटपान्तरितविग्रहस्तं प्रदेशं व्यलोकयम् । यावत्तत्र तं नाद्राक्षम् , आसीच्च मे मनस्येवम्-'किन्तु मदनपरायत्तचित्तवृत्तिस्तामेवानुसरन् गतो भवेत् , गतायाञ्च तस्यां लब्धचेतनो लज्जया न शक्नोति मे दर्शनपथमुपगन्तुम् ; आहोस्वित् कुपितः परित्यज्य मां गतः, उतान्वेषमाणो मामेव प्रदेशमन्यमितः समाश्रितः स्यात्' इत्येवं विकल्पयन् कञ्चि-त्कालमतिष्ठम् । तेन तु जन्मनः प्रभृत्यनभ्यस्तेन तस्य क्षणमप्यदर्शनेन दूयमानः पुनरचि-न्तयम्-'स कदाचिद्धैर्यस्खलनविलक्षः किञ्चिदनिष्टमपि समाचरेत् । नहि किञ्चिन्न क्रियते ह्रिया । तन्न युक्तमेनमेकाकिनं कर्तुम्' इत्यवधार्यान्वेष्टुमादरमकरवम् । अन्वेषमाणश्च यथा
कुसुमावचयः अहं मन्युनैव त्यक्तपुष्पावचयनः तस्मात् प्रदेशात् स्थानात् अन्यप्रदेशं तदितरवनभागम् अगमम् अव्रजम् । भवत्यां त्वयि अपयातायां गतायां मुहूर्त्तमिव क्षणमिव स्थित्वा अवस्थाय, इदानीं साम्प्रतम् एकाकी अद्वितीयः अयं पुण्डरीकः किमाचरति किं विधत्ते इति सञ्जातवितर्कः उत्पन्नसन्देहः प्रतिनिवृत्य परावृत्य विटपान्तरितविग्रहः शाखाच्छादितशरीरोऽहं तं प्रदेशं स्थानं व्यलोकयम् अपश्यम् ।
यावदिति । यावत् यावत्समयं तत्र तस्मिन् स्थाने तं पुण्डरीकं नाद्राक्षं न व्यलोकयम्, मे मम मनसि चित्ते एव वक्ष्यमाणम् आसीत् तावदासीदित्यर्थः । 'मदनस्य कामस्य परायत्ता अधीनाधीना चित्तवृत्तिः मनोव्यापारः यस्य स तथोक्तः पुण्डरीकः तां कन्यकामेव अनुसरन् अनुव्रजन् किं गतः प्रयातो भवेत् , तस्यां कन्यकायां गतायां प्रयातायां सत्यां च, लब्धचेतनः प्राप्तचैतन्यः लज्जया त्रपया मे मम दर्शनपथम् आलोकनमार्गम् उपगन्तुं प्राप्तुं न शक्नोति न समर्थो भवति; आहोस्वित् अथवा कुपितो मम भर्त्सनेन क्रुद्धः सन् मां सखायं परित्यज्य विहाय गतः प्रस्थितः, उत अथवा मामेव अन्वेषमाणः वीक्षमाणः इतः अस्मात् अन्यम् अपरं प्रदेशं स्थानं समाश्रितः अवलम्बितः स्यात् भवेत्' इत्येवं विकल्पयन् नानाप्रकारां कल्पनां विदधत् कञ्चित्कालं कञ्चित्समयम् अतिष्ठम् स्थितवान् ।
तेनेति । जन्मनः प्रभृति उत्पत्तिदिनमारभ्य अनभ्यस्तेन अपरिचितेन क्षणमपि क्षणकालमपि तस्य पुण्डरीकस्य तेन अदर्शनेन अनवलोकनेन दूयमानः सन्तप्यमानः पुनर्भूप्रः अहम् अचिन्तयं चिन्तितवान्- 'स पुण्डरीकः, धैर्यस्य धृतेः स्खलनेन विलोपेन विलक्षो लज्जितः सन्, कदाचित् कस्मिंश्चित्समये किञ्चिद् अनिष्टमपि उद्वन्धनादिकमवाञ्छितममङ्गलमपि समाचरेत् व्यवहरेत् । ननु तथाविधो मनस्वी कथमवा-ञ्छितं व्यवहरेदित्यत आह—नहीति । हिया लज्जया न क्रियते विधीयते एव किञ्चित् किमपि नहि विद्यत इत्यर्थः, अपि तु सर्वं विधीयत एवेत्यभिप्रायः । इह सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ।
तत्तस्मात् कारणात् एकाकिनम् अद्वितीयं कर्तुं विधातुं न युक्तमुचितम्' इत्यवधार्य एवं पूर्वोक्त-प्रकारेण निश्चित्य अन्वेष्टुं मार्गयितुम् आदरम् उद्योगम् अकरवं व्यदधम् ।
अन्वेपेति । अन्वेषमाणो मृग्यमाणश्चाहं यथा यथा तं पुण्डरीकं नापश्यं न व्यलोकयं तथा तथा
मैं उस स्थानसे दूसरे स्थानमें चला गया । तुम्हारे चले आनेके अनन्तर थोड़ी देर ठहर कर मेरे मनमें इसप्रकार सन्देह उत्पन्न हुआ कि—'इस समय पुण्डरीक अकेला क्या करता होगा ?' यह जाननेके अभिप्रायसे मैं फिर लौट कर एक वृक्षके अन्तरालमें छिप कर उस स्थानकी ओर दृष्टिपात करने लगा । किन्तु जिस समय उस स्थानमें मैने उसको नहीं देखा, उस समय मुझे इसप्रकार मनमें होने लगा कि—'सम्भवतः, अत्यन्त कामाधीन-चित्त होकर वह कहीं उस कन्याके पीछे पीछे तो नहीं गया होगा ? अथवा उस कन्याके अपने घर चले जानेके बाद चेतना आनेसे लज्जाके कारण मेरे सामने उपस्थित होनेमें समर्थ नहीं हो सकता है, या कुपित होकर मुझे छोड़कर चला तो नहीं गया होगा, किंवा मुझे ही अन्वेषण करता करता इस स्थानसे किसी दूसरे स्थानमें तो नहीं चला गया होगा' इस प्रकार मन ही मन नानाविध कल्पना करता करता मैं उस स्थानमें ही थोड़ी देर खड़ा रहा । जन्मकालसे ही एक क्षण भी उनके साथ वियोग नहीं होनेका अभ्यास था, इसलिए तत्काल उसे न देखनेसे सन्तप्त होकर मैं फिरसे चिन्ता करने लगा—'कहीं धैर्य-स्खलनसे लज्जित हो वह कुछ अनिष्ट आचरण भी न कर डाले ! क्योंकि—लज्जाके कारण मनुष्य चाहे जो कुछ भी कर डालता है, इसलिये इसे अकेला रखना उचित नहीं है' इसप्रकार मैं मन ही मन स्थिर कर उसे अन्वेषण करनेके लिए चेष्टा करने लगा । ज्यों ज्यों अन्वेषण करने पर भी वह देखनेमें नहीं आया
१. लज्जमानः। २. जन्मतः। ३. न हि यन्न ।
| ४५४ | कादम्बरी- | [ कथायाम्- |
|---|
यथा नापश्यं तम्, तथा तथा सुहृत्स्नेहकातरेण मनसा तत्तदशोभनमाशङ्कमानस्तरुळता-गाहनानि, चन्दनवीथिकाः, लतामण्डपान्¹, सरःकूलानि च² वीक्षमाणो निपुणमितस्ततो दत्तदृष्टिः सुचिरं व्यचरम्।
अथैकस्मिन् सरःसमीपवर्त्तिनि निरन्तरतया कुसुममय इव मधुकरमय इव परभृतमय इव मयूरमय इवातिमनोहरे वसन्तजन्मभूमिभूते लतागहने कृतावस्थानम्, उत्सृष्टसकलव्यापारतया लिखितमिवोत्कीर्णमिव स्तम्भितमिवोपरतमिव प्रसुप्तमिव योगसमाधिस्थमिव, निश्चलमपि स्ववृत्ताच्चलितम्³, एकाकिनमपि मन्मथाधिष्ठितम्, सानुरागमपि
सुहृत्स्नेहकातरेण मित्रप्रीतिदैन्येन मनसा चित्तेन तत्तदशोभनम् उद्बन्धनादिकममङ्गलम् आशङ्कमानः सन्दिह्यमानः तरुलतानां वृक्षवल्लीनां गहनानि वनानि, चन्दनवीथिकाः चन्दनवृक्षपङ्क्तीः लतामण्डपान् सरसः सरोवरस्य कूलानि तीराणि च निपुणम् एकतानं यथा स्यात्तथा वीक्षमाणो विलोक्यमानः इतस्ततः समन्ताद् दत्तदृष्टिः दत्ताऽवलोकनोऽहं सुचिरं बहुसमयं व्यचरम् अभ्रमम्।
अथेति। अथ अनन्तरं सरःसमीपवर्त्तिनि सरोवरनिकटस्थायिनि निरन्तरतया कुसुमैः सान्द्रतया कारणेन कुसुममये प्रसूनै रचिते इव, मधुकरैर्निरन्तरतया मधुकरमय इव भ्रमरमय इव, परभृतैर्निरन्तरतया परभृतमय इव कोकिलै रचित इव, तथा मयूरैर्निरन्तरतया मयूरमय इव कलापिमय इव, अतिमनोहरे नितान्तरमणीये वसन्तस्य मधुसमयस्य जन्मभूमिभूते उत्पत्तिस्थानस्वरूपे एकस्मिन् लतागहने लतामयविपिने कृतावस्थानं विहितावस्थितिं तमहमुद्राक्षमृत्युत्तरेण सम्बन्धः।
इह प्रकृतविषये मयट्प्रत्ययविधानात् 'कुसुममय इव' इत्यादिश्चतसृणामेव क्रियोत्प्रेक्षाणां परस्परं नैरपेक्ष्येण संसृष्टिः।
उत्सृष्टेति। उत्सृष्टाः स्वदधीनत्वात् परित्यक्ताः सकलाः समस्ता व्यापारा अङ्गप्रत्यङ्गचेष्टादयो येन तस्य भावस्तया कारणेन, लिखितं चित्रितमिव, उत्कीर्णं प्रस्तरादिकं निस्तक्ष्य रचितमिव, स्तम्भितमिव केनचित् जड़ीकृतमिव, उपरतभिव मृतमिव, प्रसुप्तं शयितमिव, तथा योगस्य चित्तवृत्तिनिरोधस्य यः समाधिः अन्तिमाङ्गं केवलमर्थनिर्भासनरूपं तत्र तिष्ठतीति तमिव।
इहापि 'लिखितमिव' इत्यारभ्य 'योगसमाधिस्थमिव' इत्यन्तं षण्णामेव क्रियोत्प्रेक्षाणां मिथो नैरपेक्ष्येण संसृष्टिः।
निश्चलमिति। निश्चलं स्थिरमपि स्ववृत्तात् निजकर्त्तव्यात् चलितमिति विरोधः, अप्रवृत्तमिति तत्परिहारः। एकाकिनमसहायमपि मन्मथेन कन्दर्पेण सहायकेन अधिष्ठितमधिष्ठितमिति विरोधः मन्मथस्य केवलं मनोवृत्तित्वात्तत्परिहारः। अनुरागेण रक्तिम्ना सह विद्यत इति सानुरागस्तमपि पाण्डुतां श्वेतताम् आवहन्तम् आदधानमिति विरोधः, सानुरागं प्रियतमायामासक्तमपीति तत्परिहारः। शून्यान्तःकरणमपि
त्यों त्यों सुहृत्स्नेहसे मेरा मन विह्वल हो गया, और उसके विषयमें नानाविध अमङ्गलकी आशङ्का होने लगी। वृक्षों और लताओंकी कुञ्जमें, चन्दनवृक्षकी पङ्क्तियोंमें लतामण्डपों और सरोवरके तीर पर देखते देखते, पुन्नानुपुङ्खरूपसे इतस्ततः भलीभाँति दृष्टिपात करता करता मैंने बहुत समय तक विचरण किया।
उसके बाद सरोवरके निकटवर्त्ती एक अत्यन्त मनोहर वसन्त-कालकी जन्मभूमिके समान लताकुञ्ज (लतामय वन) के मध्य में, जो सघन पुष्प होनेके कारण उस लतामय वनके पुष्पनिर्मितके समान, सघन भ्रमरोंके कारण भ्रमरनिर्मितके समान असंख्य कोकिलोंके रहनेके कारण कोकिल-निर्मितके समान एवं बहुतर मयूरोंके रहनेके कारण मयूरनिर्मितके समान प्रतीत होता था, मैंने उसे बैठे देखा। अङ्गप्रत्यङ्गके स्पन्दनादि समस्त व्यापारोंको भी परित्याग कर दिया था, इसलिए वह चित्रितके समान, क्षोदितके समान, स्तम्भित (स्तब्ध) के समान, मरे हुएके समान, निद्रितके समान, एवं योग-समाधिस्थितके समान हो, ऐसा दीखता था। निश्चल होनेपर भी वह अपने कर्त्तव्यसे चलायमान (परिभ्रष्ट) हो गया था, सहायशून्य होने पर भी कामदेव उसके साथ लगा
१. चन्दनवीथिकाल्लतामण्डपान् "मण्टपिकाः।
२. सरस्तीराणि च।
३. सुवृत्ताव।
मदनपीडितपुण्डरीकदशा० ६६ ] [ चन्द्रकला-विद्योतिनीसहिता । ४५५
पाण्डुतामावहन्तम्, शून्यान्तःकरणमपि हृदयनिवासिदयितम्, तूष्णीकमपि कथितमदन- वेदनातिशयम्, शिलातलांपविष्टमपि मरणे व्यवस्थितम्, शापप्रदानभयादिवादत्त- दर्शनेन कुसुमायुधेन सन्ताप्यमानम्, अतिनिष्पन्दतया हृदयनिवासिनीं प्रियां द्रष्टुमन्तः- प्रविष्टैरैवासह्यमन्तापसन्त्रासप्रलीनैरिव मनःक्षोभप्रकुपितैरिव उन्मुच्य गतैरिन्द्रियैः शून्यी- कृतशरीरम्, निष्पन्दनिमीलितेनान्तर्व्वलन्मदनदहनधूमाकुलिताभ्यन्तरेणेव पक्ष्मान्तरे-विव- रवान्तानेकधारमनवरतमीक्षणयुगलेन बाष्पजलदुर्द्दिनमुत्सृजन्तम्, आलोहिनीमधराप्रभा-
हृदयनिवासिदयितं मनोनिवासिवल्लभमिति विरोधः, हृदये दयितानिवासस्य सत्त्वे तस्य शून्यत्वस्य विरू- द्धत्वादित्यभिप्रायः, शून्यं विषयान्तरविचारवर्जितम् अन्तःकरणं हृदयं यस्य तमिति तत्परिहारः । तूष्णीं शीलमस्येति तूष्णीकः तं मौनालम्बनमपि कथितो निरूपितो मदनवेदनायाः कामपीडायाः अतिशय आधिक्यं येनेति मौनकथनयोरेकत्रासम्भवाद्वाविरोधः, कथितः शरीरस्तम्भादिना बोधित इति तत्परि- हारः । शिलातले प्रस्तर्रतले उपविष्टमासीनमपि मरणे व्यवस्थितं विशेषेणावस्थितमित्येकस्य युगपद्धि- ष्ठानद्वयवृत्तित्वे विरोधः, व्यवस्थितं कृतनिश्चयमिति तत्परिहारः । इह प्रत्येकविशेषण एव विरोधाभासः ।
शापेति । शापप्रदानस्य अभिसम्पातदानस्य भयात्त्रासादिव अदृष्टदर्शनेन अदृश्यशरीरेणेत्यर्थः, कुसुमायुधेन मदनेन सन्तप्यमानं पीड्यमानम् । इह हेतूत्प्रेक्षा ।
अतीति । अतिनिष्पन्दतया अतिनिष्क्रियतया हृदयनिवासिनीं मनःस्थायिनीं प्रियां दयितां द्रष्टुम् अवलोकयितुम् अन्तःप्रविष्टैरिव अन्तर्गतैरिव, असह्यसन्तापात् असोढव्यसंज्वरात् यः सन्त्रासो भयं तेन प्रलीनैः लुक्कायितैरिव, तथा मनसो हृदयस्य क्षोभेण सञ्चलनेन असन्मार्गप्रापणेनेत्यर्थः प्रकु- पितैः कुद्धैरिव, स्वेषां यद्युकात्वादेव नितान्तशिष्टत्वादिवाशयः, अत एव उन्मुच्य निजनिजस्थानं परि- त्यज्य गतैः प्रस्थितैः इन्द्रियैः करचरणादिभिः शून्यीकृतं परित्यक्तं शरीरं वपुर्यस्य तमिव विद्यमानम्, अन्यथैवंविधा निष्क्रियता न स्यादित्याशयः ।
इह 'अन्तःप्रविष्टैरिव' इत्यादयस्तिस्रो वाच्याः क्रियोत्प्रेक्षाः, 'शून्यीकृतम्' इत्यत्र च शरीरशून्यो- करणोत्प्रेक्षणादिवादिप्रयोगासत्त्वाच्च प्रतीयमाना क्रियोत्प्रेक्षा, इत्यासामङ्गाङ्गिभावसङ्करः ।
निष्पन्देति । निष्पन्दं निष्क्रियं च तत् निमीलितं मुद्रितञ्चेति तेन तादृशेन, अत एव अन्तरभ्यन्तरे ज्वलतः सन्दीप्तस्य मदनदहनस्य कामाग्नेः धूर्मैः आकुलितं व्याप्तम् अभ्यन्तरम् अन्तर्यस्य तेनेव विद्य- मानेन, अन्तर्धूमव्याप्तौ लोचनमुद्रणस्य प्राकृतिकत्वादित्याशयः ईक्षणयुगलेन लोचनद्वयेन करणेन, पक्ष्मान्तरविवरेभ्यः चक्षुर्लोममध्यभागेभ्यो वान्ता उद्गीर्णा अनेका विविधा धाराः प्रवाहा यस्य तत्, बाष्पजलदुर्द्दिनम् अश्रुसलिलवृष्टिम् उत्सृजन्तं वर्षन्तम् ।
इह 'मदन एव दहनः' इत्यत्र निरङ्ग केवलरूपकम्, पदार्थहेतुकं काव्यलिङ्गम्, क्रियोत्प्रेक्षा चेत्ये- तेषामङ्गाङ्गिभावसङ्करः ।
आलोहिनीति । हृदयं मानसं प्रदहतः प्रज्वलतः अनङ्गाग्नेः मदननलस्य ऊर्ध्वंसंसर्पिणीम् उपरि-
था (कामार्त्त था), रक्तवर्ण होने पर भी पाण्डुवर्ण धारण किया था (तुम्हारे प्रति अनुरक्त हुआ था, एवं तुम्हारे ही विरहसे पाण्डुवर्ण धारण किया था ), उसका अन्तःकरण शून्य होने पर भी हृदयमें कोई प्रियजन वास करता था (अन्तःकरणमें अन्य विषयकी चिन्ता नहीं थी, केवल तुम्हारी ही चिन्ता रहती थी ), मौनावलम्बन करते रहने पर भी अत्यधिक कामवेदना प्रकट करता था (नानाविध भङ्गीद्वारा कामवेदना सूचित करता था ), प्रस्तरखण्डके ऊपर बैठे रहने पर भी वह मृत्युकी शरणमें था (निश्चय कर लिया था । शापप्रदानके भयसे ही मानो अदृष्ट रह कर कामदेव उसको सन्तप्त करता था, अत्यन्त निश्चल होने के कारण उसकी इन्द्रियाँ मानो हृदयनिवासिनी प्रियाको देखनेके लिए अन्दर प्रवेश कर गई हों, असह्य सन्तापके भयसे ही मानो छिप गई हों अथवा मनका असत्मार्गमें जानेके कारण क्रोधित होकर अपने अपने स्थानका परित्याग कर गई हों इस प्रकार उसका शरीर मानो इन्द्रियोंसे शून्य दीखता था । निश्चल और मुद्रित (मिचे हुए)—अन्तःप्रज्वलित कामाग्निके धूमसे अभ्यन्तरमें मानो व्याकुल हुए—उसके नेत्रोंमैसे नयनलोमके अन्तराल (दोनों बीच) में होकर असंख्य
१. अतिनिःस्पन्दतया ।
२. अक्षि्पक्ष्मान्तर*** ।
| ४५६ | कादम्बरी- | [ कथायाम्- |
|---|
मनङ्गाग्नेः प्रदहतो हृदयम्¹ ऊर्ध्वसंसर्पिणीं शिखामिवादाय निष्पतद्भिरुच्छ्वासैस्तरलीकृतास- न्नलताकुसुमकेशरम्, वामकपोलशयनीकृत-करतलतया समुत्सर्पद्भिर्मलैर्नखांशुभिर्विमली- कृतमच्छाच्छचन्दन-रस-रचित-लालाटिकामिव लालाटदेशमुद्वहन्तम्, अचिरापनीत-पारि- जात-कुसुम-मञ्जरी-कर्णपूरत्तयो² सशेषं परिमलामोद-लोभोपसर्पिणा कलविरुतच्छलेन मदन- सम्मोहनमन्त्रमिव जपता मधुकरकुलेन सनीलोत्पलमिव सतमालपल्लवमिव श्रवणदेशं दधा- नम्, उत्कण्ठा-ज्वर-रोमाञ्चव्याजेन प्रतिरोम-कूप-निपतितानां मदनशराणां कुसुमशर-शल्यं-
गामिनीं शिखां ज्वालामिव, आलोहिनीम् आरक्ताम् अधरप्रभाम् ओष्ठशोभाम् आदाय गृहीत्वा निष्प- तद्भिर्निःसरद्भिः उच्छ्वासैर्निःश्वासैः करणैः, तरलीकृता आन्दोलिता आसन्नलतानां समीपवल्लीनां कुसुम- केसराः पुष्पकिञ्जल्का येन तम् ।
इह 'अनङ्गाग्नेः' इत्यत्र निरङ्गकेवलरूपकम् , 'शिखामिव' इत्यत्र श्रौत्युपमा चेत्यनयोरङ्गाङ्गिभाव- सङ्करः । केचित्तु- 'शिखामिव' इत्यत्र जात्युत्प्रेक्षामिति वदन्ति । 'आलोहिनीम्' इत्यत्र 'वर्णादनुदात्तात्तो- पधात्' इत्यनेन ङीप् तत्सन्नियोगेन तस्य नकारादेशश्च ज्ञेयः ।
वामेति । वामकपोलस्य सव्यगण्डस्य शयनीकृतं तल्पीकृतम् आश्रयीकृतमित्यर्थः करतलं वाम- पाणितलं येन तस्य भावस्तया कारणेन, विस्तारितवामकरतले वामकपोलस्थापनेन वामकरनखरश्मीनां भाले सञ्चरणादित्यर्थः, समुत्सर्पद्भिर्भाले समुद्गच्छद्भिः नखांशुभिः पुनर्भववरश्मिभिः, विमलीकृतं धवली- कृतम्, अत एव अच्छाच्छेन अत्यन्तविशदेन चन्दनरसेन मलयजद्रवेण रचिता निर्मिता ललाटिका तिलकविशेषो यस्मिन् तमिव विद्यमानं ललाटदेशं भालप्रदेशम् उद्वहन्तं धारयन्तम् । इह तिलकविशेष- निर्माणोल्लेखनात्क्रियोत्प्रेक्षा । 'पत्रपाश्या ललाटिका' इत्यमरः ।
अचिरेति । अचिरं सद्यः अपनीतः महाश्वेतार्यै समर्पणाय अपसारितः पारिजातकुसुममञ्जरीरूपः मन्दारपुष्पवल्लरीरूपः कर्णपूरः श्रवणभूषणं यस्य तस्य भावस्तया कारणेन, सशेषः तत्कालेऽप्यवशिष्टो यः परिमलः सौरभं तस्य य आमोदः तदनुभवजप्रहर्षः तस्य लोभेन लिप्सया उपसर्पिणा निकटस्थायिना, कलविरुतच्छलेन स्वीयमधुरावव्यक्तशब्दव्याजेन, मदनस्य कामस्य संमोहनमन्त्रं वशीकरणमन्त्रं जपता जापं विदधतेव विद्यमानेन, मधुकरकुलेन भ्रमरसमूहेन करणेन, सनीलोत्पलमिव सेन्दीवरमिव, सतमाल- पल्लवमिव सतापिच्छकिसलयमिव विद्यमानम्, भ्रमरगणस्य नीलोत्पलतमालपल्लवसदृशतयाऽवगम्य- मानत्वादित्याशयः । श्रवणदेशं कर्णप्रदेशं दधानं धारयन्तम् ।
इह 'कलविरुतच्छलेन मदनसंमोहनमन्त्रमिव' इत्यत्र सापह्नवा क्रियोत्प्रेक्षा, 'सनीलोत्पलमिव' 'सतमालपल्लवमिव' इत्युभयत्र च गुणोत्प्रेक्षेत्येतासां मिथो नैरपेक्ष्येण संसृष्टिः ।
उत्कण्ठेति । उत्कण्ठया मदनौत्सुक्येन यो ज्वरः अन्तर्दाहः तेन ये रोमाञ्चाः पुलकाः तेषां व्याजेन कपटेन, अङ्गलग्नं शरीरसंसक्तम्, प्रतिरोमकूपनिपतितानां प्रत्येकरोमकूपलग्नानां मदनशराणां काम- बाणानां मध्ये ये कुसुमशराः प्रसूनलक्षणा बाणाः तेषां शल्यशकलनिकरम् अग्रखण्डजालम्, बिभ्राणं दधानमिव, रोमाञ्चो नास्ति, मन्वे प्रतिरोमकूपं निपतितास्ते बाणा निर्गताः किन्तु निमग्नः अग्रखण्डस्तु रोमकूपेषु लग्न इत्यभिप्रायः ।
धाराओंसे अविश्रान्त अश्रु-जलकी वर्षा हो रही थी, हृदयको दग्ध करती मदनाग्निकी ऊर्ध्वगामिनी ज्वालाके समान आरक्तवर्ण अधरकी कान्तिको लेकर बाहर निकलते उच्छ्वासोंसे समीपवर्ती लताओंके पुष्प-केशर कम्पित हो रहे थे; बाएँ हाथके ऊपर बायाँ कपोल रखने के कारण ऊर्ध्वगामी निर्मल नख-किरणोंसे निर्मल ललाटदेश मानो अतिस्वच्छ चन्दन-रसके तिलकसे शोभित था; थोड़ी ही देर पहले कानमेंसे पारिजात-पुष्पकी मञ्जरी हटाये जानेसे उसकी बची हुई सुगन्धके लोभसे आकृष्ट हुए भ्रमरगण उपस्थित होकर अस्पष्ट मधुरध्वनिके व्याजसे मानो काम- देवका सम्मोहन मन्त्र जप करते थे, इससे प्रतीत होता था कि मानो उसने कानमें नील-कमल अथवा तमाल- पल्लव धारण किया हो; उत्कण्ठाके सन्तापमें हुए रोमाञ्चके व्याजसे मानो प्रत्येक रोमकूपमें निपतित कामदेवके
१. हृदयात् । २. कुसुमकर्णपूरत्या । ३. अशेष... । ४. कुसुमशरकेशरशल्य... ।
मदनपीडितपुण्डरीकदशा० ६६] चन्द्रकला-विद्योतिनीसहिता । ४५७
शकल-निकरमिवाङ्गलग्नं बिभ्राणम्, दक्षिणकरेण च स्फुरित-किरणनिकरं¹ करतल-स्पर्श-सुख-कण्टकितामिव मुक्तावलीमविनयपताकामुरसि धारयन्तम्; मदनवशीकरणचूर्णेनेव कुसुम-रेणुना तरुभिराहन्यमानम्, आत्मरागमिव संक्रामयद्भिरासनैरनिलचलितैः² अशोकपल्लवैः स्पृश्यमानम्, सुरताभिषेकसलिलैरिवाभिनवपुष्पस्तबकमधुशीकरैर्वनश्रियाभिषिच्यमानम्, अलिनिवह-निपीयमान-परिमलैरुपति पतद्भिश्म्पककुङ्मलैस्तत्शरशल्यकैरिव³ सधूमैः कुसुम-
इहापि सापह्रवा क्रियोत्प्रेक्षा । ननु कामदेवस्य पुष्पबाणत्वेनैव प्रसिद्धिः, तदतिरिक्तशराणामप्रसिद्ध-त्वात् ; तथा च सति 'मदनशराणाम्' इत्यत्र शरपदेन प्रसिद्धकुसुमशराणामेव ग्रहोपपत्तौ पुनः 'कुसुमशरे'त्यस्योपादानेनाधिकपदत्वदोषप्रसक्तिरिति चेत् ? सत्यम्, तद्वारणाय तत्पदपरित्यागस्यैवौचित्यादिति सुधीभिराकलनीयम् ।
दक्षिणेति । किञ्चेति चार्थः । दक्षिणकरेण अपसव्यहस्तेन, उरसि वक्षसि, स्फुरितः प्रदीप्तः किरण-निकरः रश्मिसमूहो यस्याः ताम्, अत एव करतलस्य पाणितलस्य स्पर्शेन संयोगेन यत् सुखम् आनन्दः तेन कण्टकितां सञ्जातपुलकामिव विद्यमानाम्, रश्मिसमूहस्य रोमाञ्चवदवगतेरित्याशयः, तथा अविनयस्य मदनावेशरूपदुर्व्यवहारस्य पताकां वैजयन्तीमिव विद्यमानां मुक्तावलीं भवदीयं हारं धारयन्तं दधानम् ।
इह पदार्थहेतुकं काव्यलिङ्गमलङ्कारः, तथा 'करतलस्पर्श-सुखकण्टकितामिव' इत्यत्र वाच्या क्रियोत्प्रेक्षा, 'अविनयपताकाम्' इत्यत्र प्रतीयमाना जात्युत्प्रेक्षेत्येतासामङ्गाङ्गिभावसङ्करः ।
मदनेति । तरुभिः वृक्षैः कर्तृभिः, मदनस्य कामदेवस्य वशीकरणचूर्णेनेव लोकसंमोहनकारकचूर्णेनेव कुसुमरेशुना पुष्पधूलिना करणेन आहन्यमानं शरीरोपरि निक्षेपात्ताड्यमानमिव ।
इह 'वशीकरणचूर्णेनेव' इत्यत्र वाच्या जात्युत्प्रेक्षा, 'आहन्यमानम्' इत्यत्र प्रतीयमाना क्रियोत्प्रेक्षा, अनयोश्चाङ्गाङ्गिभावसङ्करः ।
आत्मेति । आसनैः समीपस्थायिभिः, अनिलचलितैः पवनान्दोलितैः आत्मरागं स्वकीयलौहित्यमेव रागमनुरागं संक्रामयद्भिः पुण्डरीके सञ्चारयद्भिरिव विद्यमानैः अशोकपल्लवैः वञ्जुलकिसलयैः स्पृश्यमानं सङ्घट्यमानम् ।
इह लौहित्यरागयोर्धर्मनिरेकेऽपि श्लेषेणाभेदरोपादतिशयोक्तिः, 'संक्रामयद्भिरिव' इत्यत्र क्रियोत्प्रेक्षा चेत्युभयोरङ्गाङ्गिभावसङ्करः ।
सुरतेति । वनश्रिया अरण्यलक्ष्म्या कर्या सुरताभिषेकमलिलैरिव मम्भोमराज्याभिषेकजलैरिव, अभिनवा नूतना ये पुष्पस्तबकाः प्रसूनगुच्छाः तेषां मधुशीकरैः मकरन्दकणैः करणैः, अभिषिच्यमानम् अभिषेक्तविषयीक्रियमाणमिव ।
इचाद्या वाच्या जात्युत्प्रेक्षा, अन्या तु प्रतीयमाना क्रियोत्प्रेक्षेत्युभयोरङ्गाङ्गिभावसङ्करः ।
अतिनिवहेति । कुसुमशरेण पुष्पबाणेन कामेनेत्यर्थः, कर्त्रा, सधूमैः अग्निसंयुतत्वाद् धूमयुक्तैः कुसुम-तोपरिश्यमनुत्तरसादृश्यादगमायेनाद्विशेषणम्, नतशरशल्यकैरिव अग्निसमेतस्वीयश्याणाग्रैरिव विद्यमानैः, चम्पककोरकपीडासादृश्यावगमाय तमेतिपदम्, अलिनिवहेन मधुकलगणेन निपीयमानाः सवहुमानम् चुम्व्यमानाः परिमलाः सौरभाणि येषां तैः, पुण्डरीकस्यैवोपरि पतद्भिः निपतद्भिः चम्पककुङ्मलैः हेम-
कुसुम-बाणोंका अग्रभाग ( नोक ) वह अङ्ग पर धारण कर रहा था; उसने दक्षिण हाथमे छाती पर मुक्तावलीको रख दिया था, चहुँदिक् उसकी किरणें फैल जानेसे प्रतीत होता था कि मानो कर-तल-स्पर्शके सुखसे वह रोमाञ्चित हो गई हो, एवं अन्याय आचरणकी पताका के समान देखनेमें आ रही हो; वृक्षसमूह, कामदेवके वशीकरण चूर्णके समान अपने पुष्प-रेणु द्वारा मानो उस पर आघात करते थे; समीपवर्त्ती वायुचलित अशोक-पल्लव मानो ( उसके शरीर पर ) अपना राग सञ्चारित करते करते ही उसका स्पर्श करते थे; वनलक्ष्मी रतिराज्यमें अभिषेक करनेके जलके समान अभिनव पुष्पके गुच्छोंके मधुकणसे मानो उसको अभिषिक्त करती ( स्नान कराती ) थी । सौरभके लोभसे भ्रमरगण जिस पर बैठे थे ऐसी चम्पा-फूल की कलिया उसके शरीर पर पड़नीं थीं, जिनसे ऐसा प्रतीत होता था कि मानो कामदेव तप्त की हुई धूमसंयुक्त अग्निरूप अपने बाणों की नोकों से उसे प्रहार
१. स्फुरितनखकिरणनिकरम् ।
२. ॰चलितैः ।
३. तन्मुखैरिव ।
२६ का०
| ४५८ | कादम्बरी- | [ कथामुखम्- |
|---|
-शरेण ताड्यमानम्, अतिबहलधनामोद-मत्त-मधुकर-निकर झंकार-निस्वनैः^१ हुङ्कारैरिव दक्षि- -णानिलेन निर्भर्त्स्यमानम्, मदकल-कोकिल-कुल-कोलाहलैर्वसन्त-जय-शब्द-कलकलैरिव मधु- मासेनाकुलीक्रियमाणम्, प्रभातचन्द्रमिव पाण्डुतया परिगृहीतम्, निदाघगङ्गाप्रवाहमिव कृशिमानमागतम्^२, अन्तर्गतानलं चन्दनविटपमिव म्लायन्तम्, अन्यमिव, अदृष्टपूर्वमिव, अपरिचितमिव, जन्मान्तरमित्रोपगतम्^३, रूपान्तरेणेव परिणतम्, आविष्टमिव महाभूता- धिष्ठितमिव ग्रहगृहीतमिवोन्मत्तमिव छलितमिवान्धमिव बधिरमिव मूकभिव विलासमय- मिव मदनमयमिव, परायत्तचित्तवृत्तिम्, परां कोटिमधिरूढं मन्मथावेशस्य^४, अनभिज्ञेय-
पुष्पकमुकुलः ताड्यमानमिव आहन्द्यमानमिव। उक्तालंकारः।
अतिबहलेति। दक्षिपानिलेन मलयमारुतेन कर्त्रा, हुङ्कारैरिव भर्त्सनबोधकस्वीयहुंझाब्दैरिव, अति- बहलेन अत्यधिकेन वनामोदेन काननमौरभेण मत्तस्य मदविह्वलतस्य मधुकरनिकरस्य भ्रमरसमूहस्य झङ्कारनिस्वनैः झङ्कारलक्षणशब्दैः करणैः, निर्भर्त्स्यमानमिव तिरस्कारपूर्वकं भाष्यमाणमिव।
इह हुङ्काराणां शब्दत्वेन गुणत्वादाया वाच्या गुणोत्प्रेक्षा द्वितीया तु प्रतीयमाना क्रियोत्प्रेक्षेत्यु- भयोरङ्गाङ्गिभावसङ्करः।
मदकलेति। मधुमासेन चैत्रमासेन कर्त्रा, वसन्तस्य समयस्य जयशब्दकलकलैरिव मदकलस्य- मदमत्तस्य कोकिलकुलस्य परभृद्गणस्य कोलाहलैः कलकलैः करणैः, आकुलीक्रियमाणम् अधिक्रीक्रिय- माणम्। इह गुणोत्प्रक्षा।
प्रभातेति। प्रभातचन्द्रः प्रातःकालीनशशी तमिव पाण्डुरतया परिगृहीतं शरीरे अवलम्बितम्। निदाघे ग्रीष्मसमये यो गङ्गायाः प्रवाहः तमिव, कृशिमानं कृशत्वम् आगतं प्राप्तम्। अन्तर्गतः अभ्यन्तरे प्राप्तः अनलोऽग्निः मदनानलक्ष यस्य तम्, चन्दनविटपमिव मलयजशाखामिव म्लायन्तं म्लानतां व्रजन्तम्। इह प्रतिविशेषण एव पूर्णोपमा।
अन्यमिति। अन्यमिव पूर्वस्माद्भिन्नमिव, अदृष्टपूर्वमिव अनवलोकितपूर्वमिव, अपरिचितमिव असंस्तुतमिव, जन्मान्तरं भवान्तरम् उपगतमिव प्राप्तमिव, तथा रूपान्तरेण परिणतमिव।
इहाद्यास्तिस्रो जात्युत्प्रेक्षाः। अन्ययोस्तु प्रत्येकं क्रियोत्प्रेक्षा।
आविष्टमिति। आविष्टं डाकिनीप्रभृतिभिरभिभूतभिव, महाभूतैर्वैतालैः अधिष्ठितम् आश्रितमिव, ग्रहैः पूतनाप्रभृतिभिर्दुष्टग्रहैः गृहीतं क्षतमिव। उन्मत्तम् उन्मादरोगविकारयुक्तमिव। छलितं केनचित् वञ्चितमिव। अन्धं गताक्षमिव, बधिरं श्रवणेन्द्रियरहितमिव, मूकम् अस्पष्टवाचमिव, विलासमयं विभ्रम व्याप्तमिव, तथा मदनमयम् अनङ्गव्याप्तमिव।
इह 'उन्मत्तमिव' इत्यत्र 'अन्धमिव' इत्यादिषु त्रिषु च प्रत्येकं गुणोत्प्रेक्षालङ्कारः, अवशिष्टेषु- क्रियोत्प्रेक्षालङ्कारो ज्ञेयः।
परेति। परस्य जनस्य महाश्वेताया इत्यर्थः, आयत्ता अधीना चित्तवृत्तिर्मनोव्यापारो यस्य तम,
करता था, दक्षिण वायु अपने हुंकारके समान वनमैसे निकलते प्रचुर सौरभसे मत्त हुए मधुकरांकी गुंजारसे मानो भर्त्सना करते (फटकारते) थे; वसन्तकालके जयध्वनिके कोलाहलके समान, मदमत्त कोकिलगणके कोलाहलसे चैत्रमास, उसको विह्वल कर रहा था; उस समय वह प्रभात-कालीन चन्द्ररेखाके समान पाण्डुवर्ण (फीका) दीखता था; ग्रीष्म-कालीन गङ्गा-प्रवाहके समान वह कृश हो गया था; अन्तःप्रविष्ट अग्निसे युक्त चन्दनवृक्षकी शाखाके समान म्लान हो (कुम्हला) गया था; उसे देखने पर दूसरेके समान, पहले जिसे कभी नहीं देखा है ऐसे व्यक्तिके समान एव अपरिचितके समान प्रतीत होता था, और वह मानो प्राप्त किया था, रूपान्तरमें परिणत हुआ था, डाकिनी आदि उसके अन्दर प्रवेश कर गई थी, महाभूतोंसे अधिष्ठित हो गया था, पूतनाप्रभृति किन्हीं दुष्ट ग्रहोंसे ग्रसित हो गया था, और वह उस समय उन्मत्तके समान, प्रतारितके समान, अन्धके समान, बधिरके समान, मूकके समान एवं विलासितामय और काममयके समान प्रतीत हो रहा था; उसकी चित्तवृत्ति पराधीन हो गई थी, एवं
१^** निःस्वनैः। २. कृशिमागतम्। ३. उपनतम्। ४. मदनावेशस्य !
मदनपीडितपुण्डरीकदशा० ६६ ] चन्द्रकला-विद्योतिनीसहिता । ४५६
पूर्वाकारं तमहमद्राक्षम्।
अपगतनिमेषेण चक्षुषा तद्वस्थं चिरमुद्वीक्ष्य समुप्रजातविषादो वेपमानेन हृदये- नाचिन्तयम्-'एवं नामायम^१तिदुर्विषहवेगः मकरकेतुः, येनानेन क्षणेनायमीदृशमवस्थान्तरम्^२ अप्रतीकारमुपनीतः। कथमेवमेकपदे व्यर्थीभवेदेवंविधो ज्ञानराशिः। अहोबत महच्चित्रम्, तथा नामायमाशैशवाद्धीरप्रकृतिरस्खलितवृत्तिर्मम चान्येषाञ्च मुनिकुमाराणां स्पृहणीय- चरित आसीत्। अद्य^४ तु इतर इव परिभूय ज्ञानम्, अवगणय्य तपःप्रभावम्, उन्मूल्य गाम्भीर्यम्, मन्मथेन जडीकृतः। सर्वथा दुर्लभं यौवनमस्खलित'मिति।
उपसृत्य च तस्मिन्नेव शिलातलैकपार्श्वे समुपविश्य ^५अंसदेशावसक्तपाणिः तमनु-
मन्मथावेशस्य मदनावेशस्य परां कोटिम् अन्तिमावस्था अधिकारुढम् आरूढम्, अनभिश्रेय हृदन्तया सभियोदुमशक्यः पूर्वाकार आधाकृतिर्यस्य तम्, तं पुण्डरीकम् अहम् अद्राक्षम् अपश्यम् ।
अपगतेति। अपगतनिमेषेण निर्निमेषेण चक्षुषा नेत्रेण, सा तथोक्ता प्रतिपादितरूपा अवस्था यस्य तम्, चिरं बहुकालम् उद्वीक्ष्य विलोक्य समुप्रजातः समुत्पन्नो विषादः खेदो यस्य सः वेपमानेन त्रासात् कम्पमानेन हृदयेन चेतसा अचिन्तयम् चिन्तामकरवम् 'एवं नाम इत्थम्भूत्तः, अतिदुर्विषहो नितान्त- दुःसहो वेगो यस्य तादृशः अयं मकरकेतुः कामः, येन कारणेन अनेन मकरकेतुना, क्षणेनैव क्षणकालेनैव अयं पुण्डरीकः ईदृशम् एवंविधम् अवस्थान्तरं दशान्तरम् उपनीतः प्रापितः।
उक्तविपर्यये असम्भवं दर्शयति-कथमिति। एवंविधः एतादृशः ज्ञानराशिः ज्ञानसमूहः एकपदे सहसा एवम् अनेन प्रकारेण कथं व्यर्थीभवेत् निरर्थकीभवेत्। इह सम्भावनायां लिङ्। अहो वतेत्येकमेव पदं विस्मयविषादसूचकमव्ययम्। महच्चित्रं महदाश्चर्यम्। तथा नाम तेन प्रकारेण, अयं पुण्डरीकः आशै- शवात् आपाशवात् धीरप्रकृतिः स्थिरस्वभावः, अस्खलितवृत्तिः सन्मार्गादपरिश्रष्टचरित्रः मम कपिञ्जलस्य अन्येषाम मुनिकुमाराणां तपस्विवालकानां स्पृहणीयचरितम् अभिलषणीयचरित्रम् आसीत् अभूत्।
अद्येति। तु किन्तु, अद्य मन्मथेन कामेन ज्ञानं बोधं परिभूय विजित्य विलोप्येत्यर्थः, तपःप्रभावं तपोमाहात्म्यम् अवगणय्य अवज्ञाया, तथा गम्भीर्यम् अनन्यथाविधेयप्रकृतिम् उन्मूल्य उच्छेद्य, इतरः साधारणलोक इव जडीकृतः मूढतां नीतः, येन हि सर्वथा सर्वप्रकारेण अस्खलितं सन्मार्गादपरिश्रष्टं यौवनं तारुण्यं संसारे दुर्लभं दुष्प्रापम्, सुतरां मन्मथेनैवं विधातुं शक्यत इत्याशयः। इतिपदस्य 'अचिन्तयम्' इत्यनेन पूर्वेण सम्बन्धः। इह सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः।
उपेति। अपिचेति चार्थः। उपसृत्य समीपमागत्य तस्मिन्नेव पूर्वनिर्दिष्ट एव शिलातलैकपार्श्वे प्रस्तर- तलभागे समुपविश्य समवस्थाया अंसदेशे पुण्डरीकस्य स्कन्धभागे अवसक्तः सलग्नः पाणिः करो यस्य स
वह कामावेशकी चरम सीमा पर पहुँच गया था और उसकी पहलेकी आकृति थोड़ी भी पहचानमें नहीं आती थी।
ऐसी दशामें उसको निर्निमेष नयनसे (एकटक) बहुत देर तक देख कर मुझे बहुत विषाद हुआ; एवं मेरा हृदय कांपने लगा; उस समय मैं चिन्ता करने लगा-'इस प्रकारका स्वरूप वास्तवमें अत्यन्त-असह्य-वेगशाली कामदेवका है; क्योंकि-उक्त (काम) ने एक क्षणमें ही इसकी ऐसी दुर्दशा कर डाली है कि उससे बचनेका उपाय नहीं! नहीं तो, इस प्रकारकी ज्ञान-राशि एक साथ क्यों व्यर्थ हो गई! आह! बड़ा ही आश्चर्य है! बाल्यकालसे ही इसकी धीर-प्रकृति और अस्खलित (अक्षुण्ण) चरित्र था कि मेरे और अन्यान्य मुनिकुमारोंको इसके चरित्र श्लाघनीय थे। किन्तु उसे ही आज कामदेवने ज्ञानका पराभव कर, तपःप्रभावकी अवहेलना कर और गम्भीर्यका नाश कर साधारण मनुष्योंके समान इसे मोहाच्छन्न कर (जड़ बना) दिया है! क्योंकि-सभी प्रकारसे ही सन्मार्गसे परिभ्रष्ट न हुआ हो, इस प्रकारका यौवन संसारमें दुर्लभ है।'
इसके बाद मैं समीपमें जाकर उसी प्रस्तरखण्ड (शिलातल) के किनारे पर बैठ, उसके स्कन्धदेशमें
१. अतिदुर्विषयवेगः। २. अवस्थान्तरप्रकारम्। ३ ॰न्नित्तवृत्तिः। ४. अद्य तु। ५. अंसावसक्तपाणितकम्।