कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
महाश्वेतोदन्तोपसंहारवर्णना ७६ ] चन्द्रकला-विद्योतिनीसहिता । ४६६
तन्तं^१ तमेवानुसरन्नन्तरिक्षमुदगात् । पश्यन्त्या एव च मे सर्व एव ते तारागणमध्यम्^२ अविशन् ।
मम तु तेन द्वितीयेनेव प्रियतममरणेन कपिञ्जलगमनेन द्विगुणीकृतशोकायाः सुतरा- मदीर्यत हृदयम् । किंकर्त्तव्यतामूढा च तरलिका मब्रवम्^३— 'अयि ! जानासि ?^४ कथय किमेतदिति । सा तु तदवलोक्य स्त्रीस्वभावकातरतया तस्मिन् क्षणे शोकाभिभाविना भये- नाभिभूता वेपमानाङ्गयष्टिर्मम मरणशङ्कया च वराकी विषण्णहृदया सकरुणमवादीत्— भर्तृ- दारिके ! न जानामि पापकारिणी, किन्तु महदिदमाश्चर्य्यम्, अमानुषाकृतिरेष पुरुषः, समा- श्वासिता चानेन गच्छता सानुकम्पं पित्रेव भर्तृदारिका । प्रायेण चैवंविधा दिव्याः स्वप्नेऽप्य- विसंवादिन्यो भवन्त्या^५कृतयः किमुत साक्षात्^७ । न चाल्पमपि, विचारयन्ती कारणमस्य मि- थ्याभिधाने पश्यामि, अतो युक्तं विचार्योत्मानमस्मात्^८ प्राणपरित्याग-व्यवसायान्निवर्त्तयितुम्,
करं कटिदेशं बध्नन् बन्धनं कुर्वन् । तमेव शशिमण्डलविनिर्गतपुरुषमेव अनुसरन् अनुगच्छन् अन्तरि- क्षम् आकाशम् । पश्यन्त्या अवलोकयन्त्या एव मे अवलोकयन्तीमेव मामनादृत्येत्यर्थः । इहानादरे षष्ठी । ते पुरुषपुण्डरीककपिञ्जलाः तारागणमध्यं नक्षत्रवृन्दमध्यम् अविशन् प्रवेशं चक्रुः ।
ममेति । तेन कपिञ्जलगमनेन द्वितीयेन अपरेण प्रियतममरणेन वक्ष्यमाणपरतेनेव, सर्वथा नैराश्या- दित्याशयः । सुतरां नितान्तम् । अदीर्यत विदीर्णं बभूव । जानासि अवबुध्यसे इति काकुः, जानासि कि- मित्यर्थः । कथय निवेदय ।
सेति । वराकी दीना, सा तरलिका, तत् तेषां गमनम् । स्त्रीस्वभावकातरतया नारीप्रकृतिमभीरुतया शोकाभिभाविना शोकविरुद्धिना शोकात् प्रबलेनेत्यर्थः, भयेन त्रासेन अभिभूता पराजिता वेपमाना कम्प- माना अङ्गयष्टिः । विषण्णहृदया खेदखिन्नचित्ता ।
भर्त्रेति । समानुषाकृतिः दिव्याकृतिः । सानुकम्पं सदयम् । समाश्वासिता परितोषमुत्पादिता । एवंविधा दिव्याः स्वर्गीया आकृतयो मूर्त्तयः स्वप्नेऽपि स्वप्नावस्थायामपि प्रायेण बाहुल्येन अविसंवादिन्यः अव्यभिचारिण्यो भवन्ति नासत्यं ब्रुवत इत्याशयः ।
ननु यद्यसत्यं ब्रूवीत तदा किमित्यत आह—नचेति । विचारयन्ती विमर्शं कुर्वन्ती सती, अस्य पुरुषस्य मिथ्याभिधाने असत्यभाषणे अल्पं स्तोकमपि कारणं हेतुं न पश्यामि नावलोकयामि । प्राणपरि- त्यागस्य असुपरिसृञ्जनरूपस्य व्यवसाय उद्योगस्तस्मात्, आत्मानं मनः निवर्त्तयितुं युक्तं न्याय्यम् । इदं 'न परित्याज्यास्त्वया प्राणा' इत्यादिकम् अस्य वचनम्, आश्वासस्य स्थानं हेतुरित्यर्थः ।
मेरे मित्रको लेकर तुम कहाँ भागे जा रहे हो?' इस प्रकार कहकर क्रुद्ध हो ऊंचा मुखकर, वेगसे अपने उत्तरीय- वल्कळद्वारा कटिदेशमें बन्धन (कमरमें फेंटा) बांध, उस उड़ते हुए पुरुषका अनुसरण करते-करते आकाशमें उड़ गया, और मेरे देखते-देखते ही वे सभी तारागणोंके मध्यमें प्रवेश कर गये ।
परन्तु द्वितीय प्रियतमके मृत्युके समान उस कपिञ्जलके जानेसे मेरा शोक द्विगुणित बढ़ गया और उससे मेरा हृदय अत्यन्त विदीर्ण हो (फट) गया। उस समय किंकर्त्तव्य-विमूढ़ होकर मैंने तरलिकासे कहा-'अरी, तू नहीं जानती है, —कहो यह क्या हुआ ? परन्तु वह इस घटनाको देखकर, स्त्री-स्वभावसे कातर-उस समय शोकसे भी अधिक हुए भयसे अभिभूत हुई-कंपमान शरीर-यष्टिवाली, मेरे मर जानेकी आशङ्कासे खिन्न हृदय हुई, शोकके साथ बोली-'राजकन्ये ! मैं पापिनी इस घटनाके सम्बन्धमें कुछ भी नहीं जानती, किन्तु यह बहुत ही आश्चर्य हो गया ! उस व्यक्तिकी आकृति अलौकिक थी और उस समय वह जाते-जाते पिताके समान दयाके साथ आपको आश्वासन दिया था। प्रायः इस प्रकारके दिव्य पुरुष स्वप्नमें भी मिथ्या नहीं कहते हैं यदि साक्षात् कहें तो कहना ही क्या है ? मैं विचार कर इसके मिथ्या कहनेमें थोड़ासा भी कारण नहीं देखती हूँ, इसलिए विचार कर आपको भी इस प्राण-परित्यागके उद्यमसे मनको निवृत्त करना ही उचित है, विशेषतः इस अवस्था में उसका
१. ग्चोत्तानन्दम् ।
२. तारागणाधिगमध्यम् ।
३. अब्रुवन् ।
४. न जानासि ।
५. क्वचिद् 'कदय' इति पदं नोपलभ्यते ।
६. अत्र 'भारतयः' इत्यापेकः पाठः क्वचित् समुपनम्यते ।
७. साक्षात्कृताः ।
८. युक्तविचारमात्मानम् ।
५८० कादम्बरी- [ कथामुखम्-
अतिमहत् खल्विदं समाश्वासनस्थानमस्यामवस्थायाम्। अपि च तमनुसरन् गत एव कपिञ्जलः, तस्माद्^२ 'कुतोऽयम्, को वायम्, किमर्थञ्च^३ अनेनायमपगतासुरूत्क्षिप्य नीतः, क्व वा नीतः कस्माच्चासम्भावनीयेनामुना पुनः समागमाशाप्रदानेन भर्तृ दारिका समाश्वासिता' इति सर्व-मुपलभ्य^४ जीवितं वा मरणं वा समाचरिष्यसि। 'अदुर्लभं हि मरणमध्यवसितम्^६, पश्चाद-प्येतद्भविष्यति । न च जीवन् कपिञ्जलो भर्तृ दारिकामदृष्ट्वा स्थास्यति, तेन तत्प्रत्यागमनका-लावधयोऽपि तावद्ध्रियन्ताममी प्राणा' इत्यभिदधाना पादयोर्मेऽन्यैपतत्^७ । अहन्तु सकललो-कदुर्लङ्घ्यतया जीविततृष्णायाः, क्षुद्रतया च^८ स्त्रीस्वभावस्य, तया च तद्वचनोपनीतर्यान^९ दुराशा-मृगतृष्णिकया, कपिञ्जलस्य प्रत्यागमनकाङ्क्षया च, तस्मिन् काले तदेव युक्तं मन्यमाना नो-त्सृष्टवती जीवितम् । आशया हि किमित्र न क्रियते । ताञ्च^१० पापकारिणी कालरात्रिप्रतिमां
स्तोति। तस्माच्च कपिञ्जलाद् इत्येतत्सर्वमुपलभ्येति सम्बन्धः। अयं हरयमानः पुरुषः कुतः कस्मात् स्थानात् समात इति शेषः। अनेन पुरुषेण, अपगतासुः निःसृतप्राणः, अयं पुण्डरीकः, किमर्थं कस्मै प्रयोजनाय च उत्क्षिप्य उत्तोल्य नीतः प्रापितः। असम्भावनीयेन अचिन्तनीयेन, अमुना पुरुषेण । इति एतद् सर्वम् उपलभ्य ज्ञात्वा । समाचरिष्यसि विधास्यसि । हि यतः, अध्यवसितुं कर्तुमभिलषितं मरणं मृत्युः, अदुर्लभं न दुष्प्रापम्, अत एव एतन्मरणं पश्चादपि वृत्तान्तोपलब्ध्यनन्तरमपि भविष्यति, अग्निप्रवेशाद्य-नेकोपायविद्यमानत्वादित्याशयः। सदुर्लभमित्यत्र नञः पार्थक्येनैव पाठो विधेयः तस्यैव प्राधान्यात्, यथाम्रुते समासे गुणीभावाद्द्विधेयाविमर्शः स्पष्ट एवेति कुशलाः ।
अथ यदि कपिञ्जलो नागच्छेत्तदा कुतोऽवबोधो भविष्यतीत्यत आह-न चेति । भर्तृदारिकां राजपत्नीम् अदृष्ट्वा अनिरीक्ष्य, न स्थास्यति, मित्रपरवशः सर्वथैव मित्रसदृशत्वेन तेन मया सह अवश्यसमा-श्वासनीयरत्वादित्याशयः । तेन कारणेन, तस्य कपिञ्जलस्य प्रत्यागमनकालः परावर्त्तनसमय एव अवधि-र्येषां ते । न्यपतत् पपात तरलिकाति शेषः ।
अहनिति । जीविततृष्णायाः प्राणधारणगर्भायाः सकलजनदुर्लङ्घ्यतया समग्रजनदुरतिक्रमयतया, स्त्रीस्वभावस्य योषित्प्रकृतेः क्षुद्रतया तुच्छतया । तस्याः तरलिकाया वचनेन उक्तवाक्येन उपनीता उपस्थापिता तया दुराशा विषयसम्भवाभावेऽपि विहितत्वाद् दुष्टा पुण्डरीकस्य भूयः प्राप्तिदृष्टिरैव मृगतृ-ष्णिका मृगमरीचिका तया । प्रत्यागमनकाङ्क्षया परावर्त्तनशक्त्या । मन्यमाना ज्ञायमाना । उत्सृष्टवती त्यक्तवती । हि यतः, आशया किमित्र न क्रियते विधीयते जनैरिति शेषः, अपि स्वाशया सर्वमेव क्रियते इत्यर्थः ।
इह 'दुराशामृगतृष्णिका' इत्यत्र निरङ्गं केवलरूपकम् । तेन अमूलैवेयं दुराशेति व्यज्यत इत्यल-ङ्कारेण वस्तुध्वनिः । अर्थापत्तिश्च । तथा चोक्तरूपकार्थापत्तिम्यानमर्थान्तरन्यासः सङ्कीर्यते ।
तानिति । किञ्च, उत्सन्ननिद्रा विगतनिद्रा । विचेष्टमाना विशेषेण स्पन्दमाना, रेणुकणैः धूलिकणैः धूसरा ईषत्पाण्डुराः तैः तयोक्तैः, अश्रुजलैः नयनाम्बुभिः आर्द्रयोः क्लिन्नयोः कपोलयोर्गण्डयोः सन्दानितैः
यह वाक्य ही बड़े आश्वासनका स्थान है। और भी देखो-कपिञ्जल तो उस व्यक्तिके पीछे-पीछे गया ही है, उससे सब वृत्तान्त आप जानोगी कि वह व्यक्ति कहांसे आया था, कौन था, किसलिए वह मृतकको उठाकर ले गया, कहां ले गया, और किसकारणसे उसने पुनः सम्मिलनकी असम्भावनीय आशा प्रदान कर आपका आश्वासन किया। इसके अनन्तर प्राण-धारण या प्राण-परित्याग इनमें जो हो सकेगा वह निश्चय करना। क्योंकि मरने के लिए आप उद्यत हुई हैं, पर निश्चय हो जाने पर वह कुछ भी दुर्लभ नहीं है-यह तो बादमें भी होगा। कपिञ्जल जीवित रहकर आपको देखे बिना नहीं रह सकेगा, इसलिये वह लौटे तब तक आप इन प्राणोंको धारण करें।' इस प्रकार कहती-कहती वह मेरे पैरों-पर गिर पड़ी-किन्तु जीवनकी आशा छोड़ना सब लोगोंको ही अलङ्घनीय होनेसे स्वभावतः ही स्त्रियोंकी हृदयक्षुद्रवाते, तरलिकाके द्वारा उपस्थित कराए हुए उस व्यक्तिके वचनसे उत्पन्न हुई दुराशारूपी मृगतृष्णासे और कपिञ्जलके फिरसे आनेकी आकाङ्क्षासे मुझे भो उस समयमें प्राणधारण करना ही युक्तियुक्त प्रतीत हुआ और मैंने प्राण-परित्याग नहीं किया। क्योंकि-आशासे लोग क्या नहीं करते?
१. नाश्वासनस्थानम्... । २. तस्मात् । ३. किमर्थं वा। ४. सर्वमिदमुपलभ्य । ५. न दुर्लभं । ६. अध्यवसितम् । ७. पादयोरपतत् । ८. स्त्रीस्वभावतया । ९. दुराशया । १०. पापकारिणी ।
महाश्वेतोदन्तोपसंहारवर्णनम् ७६ ] चन्द्रकला-विद्योतिनीसहिता । ५०१
वर्षसहस्रायमाणां यातनामयीमिव दुःखमयीमिव नरकमयीमिव अग्निमयीमिव उत्सन्ननिद्रो तथैव क्षितितले विचेष्टमाना रेणुकणधूसरैरश्रुजलार्द्रकपोलसन्दानितैर्विमुक्तव्याकुलैः शिरोरुहैरुपारुद्धमुखी निर्दयाक्रन्दजर्जर-स्वर-क्षय-क्षामेण कण्ठेन तस्मिन्नेव सरस्तीरे तरलिकाद्वितीयाक्षपां क्षपितवती ।
प्रत्यूषसि तूत्थाय तस्मिन्नेव सरसि स्नात्वा, कृतनिश्चया, तत्प्रीत्या तमेव कमण्डलुमादाय तान्येव च वल्कलानि तामेवाक्षमालां गृहीत्वा, बुद्ध्वा निःसारतां संसारस्य, ज्ञात्वा च मन्दपुण्यतामात्मनः, निरूप्य चाप्रतीकारदारुणतां व्यसनोपनिपातानाम्, आकल्य दुर्निवारतां शोकस्य, दृष्ट्वा च निष्ठुरतां दैवस्य, चिन्तयित्वा चातिबहुलदुःखतां स्नेहस्य भावयित्वाचानित्यतां सर्वभावानाम्, अवधार्य चाकाण्डभङ्गुरतां सर्वसुखानाम्, अविगणय्य तातमम्बाञ्च, परित्यज्य सह परिजनेन सकलबन्धुवर्गम्, निवर्त्य विषयसुखेभ्यो मनः, संयम्येन्द्रियाणि,
संलग्नैः, विमुक्ताः स्खलितः अत एव व्याकुला विक्षिप्ताः तैः तथोक्तैः शिरोरुहैः केशैः, उपरुद्धमुखी आच्छादितआनना । निर्दयो निष्करुणः अत्युग्रतो य आक्रन्दो रोदनं तेन जर्जरो जीर्णो यः स्वरो ध्वनिः तस्य क्षयेण क्रमिकह्रासेन क्षामः क्षीणः तेन कण्ठेनोपलक्षिता अहम् कालरात्रिम्रतिमां कल्पक्षयकालीनरात्रिसदृशीम्, सर्वाशादूरीकरणादित्याशयः । वर्षाणां सम्वत्सराणां सहस्रं समूहः तद्वदाचरणम्, क्लेशस्य दुःसहत्वादिति भावः । यातनामयीमिव तीव्रवेदना मयीमिव नितान्तक्लेशोत्पादकत्वादिति भावः । दुःखमयीमिव समन्तात् क्लेशानुभवात् । नरकमयीमिव दुर्गतिमयीमिव जुगुप्सितात्यन्तक्लेशजनकत्वादित्याशयः । अग्निमर्यामिव समन्तात्सन्तापोत्पादकत्वात् क्षपां रात्रिम्, क्षपितवती नीतवती ।
इहाद्यार्थोपमा, द्वितीया च द्यक्षवतोपमा । चतुर्षु व्यापयर्थे मयट्प्रत्ययविधानाच्च क्रियोत्प्रेक्षाः, आसां परस्परं नैरपेक्षयेण संसृष्टिः ।
प्रत्यूषसीति । प्रत्यूषसि प्रभाते । तस्मिन्नेव अच्छोदाभिध एव । कृतनिश्चया विहितनिर्णया महेश्वराराधनायामिति शेषः । तत्प्रीत्या पुण्डरीकस्नेहेन कारणेन, तमेव कमण्डलुं तत्करकुण्डिकामेव । तान्येव तद्देहसग्नान्येव वल्कलानि तरुत्वचः । तामेव तदीयामेव । संसारस्य जगतो निःसारताम् अतात्त्विकतां बुद्ध्वा अवगम्य । व्यसनोपनिपातानां विपदुपस्थितीनाम्, अप्रतिकारदारुणतां प्रतिविधानासामर्थ्यभीषणतां निरूप्य निश्चित्य । दुर्निवारतां दुष्प्रतिषेध्यताम् आकल्य विचिन्त्य । अतिबहुलात्येव अत्यधिकान्येव दुःखानि क्लेशाः यत्र तस्य भावस्ताम् । सर्वभावानाम् आत्मातिरिक्तनिखिलवस्तूनाम् अनित्यतां विनश्वरतां भावयित्वा भावनाविषयीकृत्य । अकाण्डे अकाले भङ्गुरतां विनाशित्वम् अवधार्य निश्चित्य । निवर्त्य पराङ्मुखीकृत्य । इन्द्रियाणि लोचनादीनि करणानि संयम्य स्वस्वविषयेभ्यो निरुध्य । अनायानां
तरलिकाके साथ सरोवरके उसी किनारे पर ही कालरात्रिके तुल्य और सहस्रों वर्षोंके समान लम्बी, मानो यातनामयी, दुःखमयी, नरकमयी और अग्निमयी हो ऐसी, उस रात्रिको मैं पापकारिणीने निद्राके बिना ही, उसी, प्रकार पृथ्वी पर लोटते-लोटते (छटपट करते) बिताई । धूलसे धूसर एवं अश्रु-जलसे आर्द्रकपोल पर संलग्न (चिपटे हुए) छूटे-छूटे इधर-उधर बिखरे केशकलापों (बालों) से मेरा मुख आच्छादित हो गया था, बड़े-बड़े चीत्कार (चीखें मार) करके रोनेसे कण्ठका स्वर जीर्ण, शीर्ण और क्षीण हो गया था ।
फिर प्रातःकाल उठकर उसी सरोवरमें स्नान कर, शङ्करकी आराधनाके लिये दृढ़ निश्चय कर, उनके (पुण्डरीकके) प्रति प्रेम होनेसे उसी कमण्डलु, उसी वल्कल और उसी जपमालाको लेकर, संसारकी असारता समझ, अपनी अल्प-पुण्यता जान, उपस्थित [अचिन्तित] विपत्तियोंको प्रतीकार-रहित और भयङ्कर निश्चय समझ कर, शोककी दुर्निवारता विचारकर विधाताकी निष्ठुरता देखकर, स्नेहको आभ्यन्तरिक अधिक परिणाम में ही दुःखोंसे व्याप्त विचार कर, समस्त पदार्थोंकी अनित्यता मानकर, सब सुख ही असमयमें विनष्ट हो जाते हैं ऐसा स्थिर जानकर, पिता और माताका सङ्कोच छोड़कर, परिजनादिकोंके साथ समस्त बन्धुओंका परित्याग कर
१. उत्सन्ननिद्राम् । २. विमुक्तैरव्याकुलैः । ३. बुद्ध्या । ४. ॰॰॰क्षानक्षामेण । ५. क्षपितवती । ६. अस्मिन्न् । ७. मनसः । ८. उपतापानाम् । ९. दुःखबहुलत्वं । १०. परिजनेन मनसा सकल ॰॰ ।
५०२ कादम्बरी- [ कथायाम्-
'गृहीतब्रह्मचर्य्या देवं त्रैलोक्यनाथमनाथशरणम्^२ इमं शरणार्थिनी स्थाणुमाश्रिता^३ ।
अपरेद्युश्च कुतोऽपि समुपलब्धवृत्तान्तस्तातः सहाम्बया सह बन्धुवर्गेणागत्य सुचिरं कृताक्रन्दस्तैस्तैरुपायैः, अभ्यर्थनाभिश्च बह्वीभिः,^४ उपदेशैश्चानेकप्रकारैः, सान्त्वनैश्च नानाविधैः, गृहगमनाय^६ मे महान्तं यत्नमकरोत् । यदा च नेयमस्माद्व्यवसायात् कथञ्चिदपि शक्यते व्यावर्तयितुमिति^७ निश्चयमधिगतवान्, तदा निराशोऽपि दुस्त्यजतया^८ दुहितृस्नेहस्य, पुनः पुनर्मया विसृज्यमानोऽपि, बहून दिवसान् स्थित्वा, सशोक एवान्तर्दह्यमानहृदयो गृहान्^९- यासीत् ।
गते च ताते ततः प्रभृति तस्य जनस्याश्रुमोक्षमात्रेण^१० कृतज्ञतां दर्शयन्ती, तदनुराग-कृश-मिदमपुण्यबहुलमस्तमित-लज्जममङ्गल-भूतमनेक क्लेशायास-सहस्र-निवासं दग्धशरीरकं बहु-विधै^११ नियमशतैः शोषयन्ती,^१२ वन्यैश्च फलं मूलवारिभिर्वर्त्तमाना, जपव्याजेन तद्गुणगणानिव
दीनानां शरणं रक्षकम् इमं पुरोऽवलोक्यमानं स्थाणुं महेशं शरणार्थिनी रक्षार्थिनी । आश्रिता अवलम्बिता ।
अपरेद्युरिति । अपरेद्युः अन्येद्युः, कुतोऽपि कस्मादपि लोकात्, समुपलब्धः प्राप्तः वृत्तान्तो मदीयो-दन्तो येन सः तादृशः । कृताक्रन्दो विहितविलापः तैस्तैरुपायैः करणग्रहणाद्युद्योगैः, अभ्यर्थनाभिः अनुनयैः । उपदेशैः हितवाक्यैः । सान्त्वनैः सान्त्विः इयं महाश्वेता अस्माद् व्यवसायात् व्रताश्रयणरूपव्यवसायात् कथञ्चिदपि केनापि विधिना व्यावर्तयितुं निवर्त्तयितुं न शक्यते न पार्यते इति एवं निश्चयं निर्णयम् अधिगतवान् ज्ञातवान् । निराशोऽपि व्यावर्तने आशारहितोऽपि दुहितृस्नेहस्य आत्मजप्रेम्रणः दुस्त्यजतया दुर्निवारतया । विसृज्यमानोऽपि गृहे गम्यतामित्यभिधीयमानोऽपि । अन्तर्दह्यमानहृदयः अभ्यन्तरप्रज्वलमानचेतः । अयासीत् अगमत् ।
गत इति । ततः प्रभृति तद्दिनादारभ्य । अश्रुमोक्षण-मात्रेण केवलनयनाम्बुत्यागेन, तस्य जनस्य पुण्डरीकस्य सम्बन्धे । दर्शयन्ती प्रकाशयन्ती । तस्य पुण्डरीकस्य अनुरागेण अनुराग्योत्पन्नचिन्तया कृशं सूक्ष्मम्, अपुण्यानि पुण्यविरोधीनि पापानि बहुलानि अधिकानि यत्र तत्, क्लेशातिशयादित्याशयः, अस्तमिता विनाशमुपगता लज्जा त्रपा यस्य तत् विकृतवेशधारण्यादित्यभिप्रायः, अमङ्गलभूतं समस्तानांमशिवस्वरूपं वैधव्यविधानादित्याशयः, अनेकेषां बहूनां क्लेशायासानां कष्टपरिश्रमाणां सहस्रस्य निकरस्य निवासम् आधारम्, दग्धशरीरकं ज्वलितदेहम्, कुत्सायां कः । बहुविधैर्नानाप्रकारैः नियमशतैः उपोषणादिव्रतसमूहैः शोषयन्ती कृशतां प्रापयन्ती । वन्यैः अरण्योत्पन्नैः, फलानि, सस्यानि, मूलानि वृक्षाः, वारीणि सलिलानि तैः, वर्त्तमाना वृत्ति प्राणधारणं विदधाना, जपव्याजेन जापमिषेण
विषय-सुखोंसे मनको निवृत्त कर, एवं इन्द्रियोंका निग्रह कर ब्रह्मचर्यग्रहणपूर्वक शरणार्थिनी होकर, त्रिभुवनके अधीश्वर और अनाथप्रतिपालक इन भगवान् श्रीमहादेवजी का आश्रय (आसरा) लिया ।
दूसरे दिन किसी व्यक्तिसे मेरा समाचार सुनकर मेरे पिता-माता बन्धुवर्गके साथ आकर बहुत काल तक विलाप किये; बाद हस्तधारणादि नानाविध उपायोंसे, अनेक प्रकारके अनुनयसे, अनेक उपदेशोंसे और नानाप्रकारके आश्वासन वाक्यसे मुझे घर जानेके लिए बड़े-बड़े उद्योग किए। उसके बाद जब उनको यह निश्चय समझमें आ गया कि,—इस उद्योगसे इसे किसी प्रकार भी लौटाना सम्भव नहीं है, तब वे निराश हो गये एवं मुझसे बार-बार घर लौट जानेके लिए कहने पर भी, कन्याका स्नेह तजनमें परित्याग कठिन होनेसे, वे कितने ही दिन यहाँ रहकर शोकके साथ ही अन्तर्दह्यमान हृदयसे घर चले गये ।
पिताजीके चले जाने पर उस दिनसे लेकर केवल अश्रुजल (आँसू) गिराकर उस व्यक्तिके प्रति अपनी कृतज्ञता दिखातीं, उसके प्रति प्रेमवश चिन्ता करनेसे दिन दिन क्षीण हुए, इस पाप से परिपूर्ण (भरे), लज्जा-विहीन, सबोंका अमङ्गल-स्वरूप एवं अनेक-सहस्र क्लेश और परिश्रमोंको सहते, इस जले शरीरको, उपवास-प्रभृति नानाविध नियमोंसे शोषण करतीं (सुखाती), वनमें उत्पन्न हुए फल-मूल और जलसे निर्वाह करतीं,
१. निगृह्य । २. ॰नाथं शरणम् । ३. आश्रितवत्यस्मिन् । ४. बहुभिः । ५. परित्सान्त्वनैश्च । ६. गृहगमनाय । ७. यदा तु न कथञ्चिदप्यस्मादध्यवसायाद् व्यावर्तयितुं शक्यत इति । ८. दुस्त्यजतया । ९. गृहान् । १०. जनस्याश्रुमोक्षनमात्रेण किल; देवस्य कृते अश्रुमोक्षमात्रेण । ११. बहुलमपि । १२. क्षपयन्ती । १३. कन्द ।
चन्द्रापीडद्वारा महाश्वेताश्वासनम् ७७] चन्द्रकला-विद्योतिनीसहिता । ५०३
गणयन्ती, त्रिसन्ध्यमत्र सरसि स्नानमुपस्पृशन्ती, प्रतिदिनमर्चयन्ती देवं त्र्यम्बकम्, अस्यामेव गुहायां² तरलिकाया सह दीर्घं शाकमभिममनुभवन्ती सुचिरं न्यवसम्³ । साहमेवंविधा पापकारिणी निर्लक्षणा निर्लज्जा क्रूरा च निःस्नेहा च नृशंसा चं⁴ गर्हणीया निष्प्रयोजनोत्पन्ना निष्फलजीविता निर्नाथा⁵ निरवलम्बना निःसुखा च । किं मया दृष्ट्या पृष्ट्या वां⁶ कृतब्राह्मणवधमहापातक्या करोति महाभागः' इत्युक्त्वा पाण्डुना वल्कलोपान्तेन शशिनमिव शरन्मेघशकलेनाच्छाद्य वदनं दुर्निवारबाष्पवेगमपारयन्ती निवारयितुमुन्मुक्तकण्ठमतिचिरमुच्चैः साऽरोदीत्⁸ । चन्द्रापीडस्तु प्रथममेव तस्या रूपेण विनयेन दाक्षिण्येन च मधुरालापतया च निःस-
तस्य पुण्डरीकस्य गुणगणान् सौन्दर्यादिसमूहान् गणयन्तीव गणनां कुर्वन्तीव, त्रिसन्ध्यं त्रिसायम् । उपस्पृशन्ती कुर्वन्ती, धातूनामनेकार्थत्वादेवमर्थो ज्ञेयः । त्र्यम्बकं त्रिनेत्रं महेशम् अर्चयन्ती पूजयन्ती । अनुभवन्ती साक्षादनुभवविषयीकुर्वन्ती, न्यवसं निवासमकरवम् ।
'इह 'जपव्याजेन' इति विशेषेण 'गणयन्तीव' इत्यत्र सापह्रवा क्रियोत्प्रेक्षा ।
साहमिति । पापकारिणी दुष्कृतविधायिनी कठिनयानोपळम्भात् । निर्लक्षणा शुभलक्षणवर्जिता बालसमय एव वैधव्ययोगात् । निर्लज्जा निरपत्रपा झटित्येवागमनात् । क्रूरा कठोरा एवंविधेऽपि जीवनार्यागात् । निःस्नेहा निष्प्रेमा पुण्डरीकानुप्राणत्यागाभावात् नृशंसा घातुका पित्रोरपि क्लेशनिमित्तत्वात् । गर्हणीया निन्दनीया दुर्भाग्यधिक्यात् । निष्प्रयोजनोत्पन्ना निरर्थकं प्रादुर्भूता कस्याप्युत्पत्ति-फलस्य निष्पादनाभावात् । निष्फलजीवित्री निरर्थकप्राणिता सुखभोगासम्भवात् । निर्नाथा निःस्वामिका स्वाम्यभावात् । निरवलम्बना निराधाना स्वाम्यभावे पित्रोरपि निराकरणाच्च । निःसुखा निरानन्दा च अस्य दारुणशोकस्य बहुकालीनत्वादिति चाशयः । इहाशयविशेषैरेव प्रत्येकविशेषणानामभिहितत्वात् परिकरालङ्कारः । तदुक्तं दर्पणे—
'उक्तैर्विशेषणैः साभिप्रायैः परिकरो मतः ।' इति ।
किमिति । महाभागः जन्मप्रभृतिकलङ्कपङ्करहितानुपमकीर्त्तिसंयुतविशेषभाग्यशाली भवान्, कृतं कारणविधया संपादितं ब्राह्मणवध एव महापातकं यया तया, मया महाश्वेततया दृष्टया अवलोकितया पृष्टया पृच्छाविषयीकृतया वा किं करोति करिष्यति, अपि तु किमपि नैवेत्यर्थः । भविष्यदर्थे वर्त्तमानता । पाण्डुना श्वेतेन वल्कलोपान्तेन तरुत्वगञ्चलेन शरन्मेघस्य शरत्कालीनघनस्य शकलेन खण्डेन शशिनं चन्द्रमिव वदनं मुखम् आच्छाद्य आवृत्य, दुर्निवारवाष्पवेगं दुष्प्रतिषेध्यनयनाम्बुप्रवाहं निवारयितुं निषेधयितुम् अपारयन्ती अशक्नुवन्ती । उच्चैः तारस्वरेण प्रारोदीत् आक्रन्दत । उपमा ।
च द्वेति । रूपेण सौन्दर्येण विनयेन प्रणिपातादिना, दाक्षिण्येन मार्यवेन, मधुरो मिष्ट आलापः सम्भाषणं यस्याः तस्य भावस्तया । निःसङ्गतया समस्तसंसर्गरहिततया । प्रशान्तत्वेन शान्तिपया-
जपके व्याज (बहाने) से उसके गुण-समूहोंको मानो गणना करती (गिनती) एवं तीनों सन्ध्या सरोवरमें स्नान करती, प्रतिदिन भगवान् शङ्करको अर्चना करती, तरलिकाके साथ दीर्घकालव्यापी इस शोकका अनुभव करती, इसी गुफामें बहुत दिनसे रहती हूँ ।
'मैं इस प्रकारकी पापिनी, शुभलक्षणरहित, निर्लज्ज, कठिनप्रकृति, स्नेह-रहित, नृशंस, निन्दनीय, प्रयोजन-रहित उत्पन्न हुई, निष्फल जीवन-धारण करती, अनाथ, निराधार और दुःखिनी हूँ । ब्रह्महत्यारूप महापातक करनेवाली, मुझे देखकर अथवा पूछकर आप महाभाग क्या करेंगे' ? (अर्थात् आपको क्या लाभ होगा ?) इस प्रकार कहकर, शरत्कालीन मेघखण्डके द्वारा चन्द्रमण्डल के समान, शुभ्रवर्ण वल्कलके किनारेसे मुख-मण्डल को आच्छादित (ढक) कर, दुर्निवार अश्रुवेग रोकनेमें असमर्थ होनेके कारण, उसने मुक्तकण्ठ होकर ऊँचे स्वर (आर्तनाद) से बहुत देर तक रुदन किया ।
चन्द्रापीडकी आदर-बुद्धि तो पहले ही महाश्वेताके प्रति रूप, विनय, सरलता, मधुर वाणी, समस्त संसर्गका
१. स्नात्वा । २. क्वचिदत्र 'तया' इत्यधिकः पाठः समुपलभ्यते । ३. दीर्घशोकं शोकमनुभवन्त्यवसम् । ४. क्वचिद् चकारद्वयं न दृश्यते, क्वचिच्च अतिनृशंसा च कृतघ्ना च इत्यधिकः पाठः । ५. क्वचित् 'निर्नाथा' इत्यपि नावलोक्यते । ६. वा मया । ७. अतिकण्ठन् । ८. प्रारोदीत् ।
| ५०४ | कादम्बरी- | [ कथायाम्- |
|---|
ज्ञतया,^१ चातितपस्वितया च^२ प्रशान्तत्वेन च निरभिमानतया च महानुभावत्वेन च शुचितया चोपरूढगौरवोऽभूत्,^३ तदानीन्तु तेनापरेणं दर्शितसद्भावेन स्ववृत्तान्तकथनेन तया च कृतज्ञतया हृतहृदयः सुतरामा^४रोपितप्रीतिरभवत्। आर्दीकृतहृदयश्च शनैः शनैरेनामभाषत—'भगवति ! क्लेशभीरुरकृतज्ञः सुखासङ्गलुब्धो लोकः स्नेहसदृशं कर्म्मानुष्ठातुमशक्तो निष्फलेनाश्रुपातमात्रेण स्नेहमुपदर्शयन् रोदिति। त्वया तु कर्म्मणैव सर्वमाचरन्त्या किमिव न प्रेमोचितमाचेष्टितम्, येन रोदिषि। तदर्थमाजन्मनः^५ प्रभृति समुपचितपरिचयः प्रेयानप्यसंस्तुत इव^६ परित्यक्तो बान्धवजनः, सन्निहिता अपि तृणावज्ञयावधारिता विषयाः, मुक्तानि^७ आंतशयित-सुनासीरसमृद्धीन्यैश्वर्य्यसुखानि, मृणालिनीवार्तितनीयस्यापि नितरां तनिमानमनुचितैः^८
श्रयणेन, निरभिमानतया निरहङ्कारतया, महानुभावत्वेन महाप्रभावत्वेन, शुचितया पवित्रतया च कारणेन। उपारूढम् उत्पन्नं गौरवं महाश्वेतां प्रति गुरुत्वज्ञानं यस्य स तथोक्तः। दर्शितः प्रकटितः सद्भावः साधुत्वं येन तेन स्ववृत्तान्तकथनेन निजोदन्तनिवेदनेन। कृतज्ञतया उपरतस्यापि स्वामिन उपकाराय व्रतानुष्ठानेनेत्यर्थः। सुतरां नितान्तं यथा स्यात्तथा आरोपिता उपस्थापिता प्रीतिः स्नेहो यत्र सः, अभवत् आसीत्।
आर्दीति । तया प्रीत्या आर्दीकृतहृदयः क्लिन्नीकृतचेतश्च चन्द्रापीडः। एनां महाश्वेताम् अभाषत अवोचत। क्लेशभीरुः दुःखत्रस्त उपरतस्नेहिजनोपकाराय व्रताद्यननुष्ठानादित्याशयः, अत एव च अकृतज्ञः सुखासङ्गलुब्धः सुखभोगमात्रेच्छुको लोको जनः स्नेहसदृशं वात्सल्ययोग्यम्, कर्म आमुष्मिकोपकाराय संयमोपोषणवृत्तोत्सर्गादिकं कृत्यम् अनुष्ठातुम् आचरितुम् अशक्तोऽसमर्थः, क्लेशभीरुत्वादिति कारणादित्याशयः। निष्फलेन निष्प्रयोजनेन अश्रुपातमात्रेण केवलनयनाम्बुनिपातनेन स्नेहं प्रीतिम् उपदर्शयन् बाह्यवृत्त्या प्रकाशयन् लोकेभ्य इति शेषः रोदिति आक्रन्दति। कर्मणैव कर्त्तव्यरूपेणैव, आचरन्त्या व्यवहरन्त्या प्रेमोचितं स्नेहयोग्यं किमिव नाचेष्टितम्, अपि तु सर्वमेव विहितमित्यर्थः। अत एव तदुपकारस्य पर्याप्तत्वाच्च विद्यते रोदनापेक्षेत्याशयः।
तथाविधं कर्मोपपादयितुमाह—तदर्थमिति । तदर्थं पुण्डरीकार्थं नियमानुष्ठानेन पुण्डरीकस्यामुष्मिकोपकारायेत्यर्थः। समुपचितः लालनपालनादिना वर्धितः परिचयः स्नेहो यस्य स तथोक्तः, अत एव प्रेयान् अतिशयेन प्रियोऽपि बान्धवजनः पित्रादिस्वजनवर्गः, असंस्तुतः अपरिचितो जनो लोक इव परित्यक्तः उज्झितः, अन्यथा जनसमागमेन नियमानुष्ठानं व्याहन्येतेत्याशयः। सन्निहिता अपि सामीप्यादनायासेन भोग्या अपीत्यर्थः, विशिनोति बध्नातीति विषयाः स्त्रक्चन्दनवनितादयः, तृणावज्ञया तृणेष्विव अवहेलया, अवधीरिता उज्झिताः। अतिशयिताः तिरस्कृताः सुनासीरस्य सुराधिपस्य समृद्धयः सम्पत्तिनिबन्धनआनन्दा यैस्तानि ऐश्वर्यसुखानि सम्पत्तिभोगानन्दाः, मुक्तानि त्यक्तानि। मृणालिनीव कमलिनीव अवितनीयस्यापि स्वभावत एवात्यन्तकृशापि, तनुः इदं शरीरम्, अनुचितैः नृपपुत्रीत्वेन स्वस्यानुपयुक्तैः संक्लेशैः तपोदुःखैः, नितरां नितान्तम्, तनोर्भावः तनिमा पृथ्वादिभ्वादिमनिच् तं तादृशं
परित्याग, अतितपस्विता, शान्ति-पथावलम्बन, निरहङ्कारिता, महानुभावता और पवित्रतासे अधिक उत्पन्न हो गई थी। किन्तु उस समय तो साधुता प्रकाश कर अपना सब समाचार कहनेसे एवं कृतज्ञतासे उस (चन्द्रापीड) का हृदय मोहित (आकृष्ट) हो गया और अधिक प्रीति आविर्भूत हुई। हृदय आर्द्र हो जानेसे वह उस (महाश्वेता) से धीरे-धीरे कहने लगा—'भगवति ! क्लेशसे त्रस्त होनेवाले, अकृतज्ञ एवं केवल सुखाभिलाषी व्यक्ति सच्चे स्नेहके उपयुक्त कार्य नहीं कर सकते; केवल निरर्थक अश्रुपात करके ही लोक-समाजमें अपना स्नेह दिखानेके लिए रोया करते हैं। किन्तु आपने तो कार्य द्वारा ही सब कुछ करके क्या स्नेहके उपयुक्त नहीं किया, जिससे रुदन करती हो। जन्मसे ही जिनके प्रति आपको स्नेह-वृद्धि होती गई ऐसे अत्यन्त प्रिय बान्धव-जनोंको आप उनके लिए ही अपरिचितके समान छोड़ दी हैं। अनायाससुलभ होने पर भी भोग्य-विषयोंको तृणके समान अवहेलना कर त्याग दी हैं। इन्द्रकी समृद्धि-सुखसे भी उत्कृष्ट समृद्धि सुखको त्याग दी हैं। मृणालके समान स्वभावतः कृश
१. तपस्वितया। २. आसीत्। ३. तेनानेनापरेण। ४. सुतिरामतिदूरम्। ५. आजन्मतः। ६. प्रेयान-संस्तुत इव। ७. विमुक्तानि। ८. उचितैः।
चन्द्रापीडद्वारा महाश्वेताश्वासनम् ७७] चन्द्रकला-विद्योतिनीसहिता । ५०५
संक्लेशैरुपनीता तनुः, गृहीतं ब्रह्मचर्यम्, आयोजितस्तपसि महत्यात्मा, वनिताजनदुष्कर- मप्यङ्गीकृतम्¹ अरण्यावस्थानम्। अपि च, अनायासेनैवात्मा दुःखाभिभूतेः² परित्यज्यते, महीयसा तु यत्नेन गरीयसि क्लेशे निक्षिप्यते केवलम्। यदेतदनुमरणं नाम तदति³निष्फलम्, अविद्वज्जनाचरित एष मार्गः, मोहविलसितमेतत्, अज्ञातपद्धतिरियम्, रभसाचरितमिदम्, ⁴क्षुद्रदृष्टिरेषा, अतिप्रमादोऽयम्, ⁵मौर्य्यस्खलितमिदम्, यदुपरते पितरि भ्रातरि सुहृदि भर्त्तरि वा प्राणाः परित्यज्यन्ते, स्वयञ्चेन्न जहति न परित्याज्याः। अत्र⁶ हि विचार्य्यमाणे स्वार्थे एव प्राणपरित्यागोऽयम्, ⁷असह्यशोकवेदनाप्रतीकारत्वादात्मनः। उपरतस्य तु न कमपि
कृशत्वम्, उपनीता प्रापिता। गृहीतब्रह्मचर्यं स्वीकृतब्रह्मव्रतम्, महति तपसि आत्मा वपुश्चेतश्च, आयो- जितः स्थापितः। 'मृगालानीव' इत्यत्रोपमालङ्कारः। तथा तदुपकारकरणनिरूपणकर्म प्रति अधिकतर- हेतोरुत्तरोत्तरनामसमुच्चयाच्छारः अनयोश्चाङ्गाङ्गिभावसङ्करः।
अपि चेति। दुःखाभिभूतैः क्लेशपराजितैः लोकैः, अनायासेनैव परिश्रममन्तरेणैव आत्मा जीवनं परित्यज्यते उज्झितुं शक्यते, तद्वन्धनाद्यपरिश्रमसाध्यविविधोपायविद्यमानत्वादित्याशयः, तु किन्तु केवलं परं महीयसा गरिष्ठेन यत्नेन प्रयामेन । गरीयसि क्लेशे तपस्याऽनुष्ठानादौ निक्षिप्यते आत्मा आयो- ज्यते, अत एव प्राज्ञस्यागात्तपोऽनुष्ठानं सर्वथा श्रेष्ठ इति तदेव त्वया विदधत्या पुण्डरीकस्य महानुपकार एव विधीयते इत्याशयः।
ननु 'मृतौ म्रियेत या पत्युः सा स्त्री ज्ञेया पतिव्रता' इत्यादिपरःशतवचनेनानुमरणमेव विधीयते, तथा च तदविधाय किं नामोपकृतमित्यत आह- यदेतदिति। यदेतत् अनुमरणम् अन्वारोहणं नाम कामिनारीभिर्विधीयत इति शेषः, तत् अतिनिष्फलं निरर्थकम्। एषः अन्वारोहणलक्षणो मार्गः पन्थाः अविद्वज्जनाचरितः अपण्डितलोकानुष्ठितः। एनत् अनुमरणं मोहविलसितम् अज्ञानविजृम्भितम्। अज्ञान- पद्धतिः अज्ञानमार्गः। रभसाचरितं हठकारित्वम् अविमर्शकारित्वमिति तात्पर्यम्। एषा अनुमरणविषया प्रवृत्तिः क्षुद्रदृष्टिः तुच्छबुद्धीनां ज्ञानम्। अतिप्रमादः नितान्तानवधानता। मौर्येण मूर्खतया स्खलितं विधेयत्रुटिः। पितरि ताते, भ्रातरि सहोदरे, सुहृदि मित्रे, भर्त्तरि प्राणनाथे वा उपरते मृते सति, प्राणा असवः परित्यज्यन्ते परित्यच्यन्ते, कर्मणि प्रयोगोऽयं न तु कर्मकर्त्तरि 'अनायासेन परित्यज्यते' इत्या- दिना दुःखिजनकर्तृकत्यागस्यैवोक्तप्रान्तत्वेन प्राणानां स्वयं कर्तृत्वात्। प्राणाः स्वयम् आत्मनैव चेद्यदि न जहति मुञ्चन्ति तदा ते न परित्याज्या हठान्न निष्कासनीया इत्यर्थः। भग्नप्रक्रमत्वदोषनिराकरणाय 'जहति' इत्यस्य स्थाने 'परित्यजन्ति' इति पाठो विधेयः। एवञ्च 'मृते भर्त्तरि ब्रह्मचर्यमेव मुख्यपक्षः शास्त्रव्यवस्थयावधार्यते, तदशक्तावेव तु तदनुमरणं विधेयमिति सिद्धान्तः पन्थाः।
अत्रेति। हि तथाहि। अत्र अनुमरणे विचार्यमाणे विमर्शविषयीक्रियमाणे सति, अयं प्राणपरित्यागः स्वार्थ एव स्वनििमित्त एव निर्णीयत इति शेषः। कथमियत आह- असह्येति। आत्मनः स्वस्य असह्य- शोकवेदनाया सोढुमशक्यशुगुत्थथायाः प्रतिक्रियत अनेनेति प्रतीकारः तस्य भावस्तत्त्वं तस्मात् निवृ- त्युपायहेतुत्वात्, अविद्यमानेषु प्राणेषु तद्व्यथानुभवासम्भवादित्याशयः। तु किन्तु, उपरतस्य मृतस्य
होने पर भी इस शरीरको, अपने अयोग्य तपस्याके क्लेशते और भी कृश कर (सुखा) डाला है। ब्रह्मचर्यका अवलम्बन किया है, बड़ी भारी तपस्यामें आत्माको नियुक्त किया है और अन्य स्त्रियोंको दुष्कर होने पर भी आपने वनवास स्वीकार किया है। और भी यह देखिए कि संसारमें दुःखसे अभिभूत व्यक्ति जीवनका त्याग तो अनायास ही कर सकते हैं, किन्तु गुरुतर (बड़े बड़े) उद्योग करनेसे उसका त्याग न कर वे केवल उसको भारी क्लेशमें ही नियुक्त करते (टालते) हैं। मरे हुए पतिके पीछे प्राण-परित्याग करना अत्यन्त निष्फल है, यह अज्ञानियोंते अवलम्बित मार्ग है, भ्रमका व्यवहार है, अज्ञानकी रीति है, अविवेकता (बिना विचारे काम) है, असारबुद्धिकी विवेचना है, अत्यन्त अनवधानता है, एवं मूर्खताजनित कर्त्तव्यकी त्रुटि है कि पिता, भ्राता, मित्र अथवा पतिके मरनेके पीछे अपना भी प्राण-परित्याग करे; प्राण यदि अपने आप ही न जांय तो उनका परित्याग करना उचित नहीं। इस विषयमें विचार कर देखनेते प्रतीत होता है कि प्राण-परित्याग करना केवल स्वार्थ है, क्योंकि यह अपनी असह्य-शोक-वेदना का प्रतीकार (मिटानेका उपाय) है, इससे मरे हुए व्यक्तिका कोई भी उपकार नहीं
१. दुष्करमतिशयमङ्गीकृतम् दुष्करमपि कृतम्। २. दुःखाभिहतः परित्यज्यते लघीयसा, दुःखाभिहतेः परित्यज्यन्ते महीयसा न तु। ३. अति निष्फलम्। ४. कुदृष्टिः*! ५. प्रेम। ६. ते। ७. असह्यवेदना। ३२ का०
५०६ कादम्बरी- [ कथायाम्-
गुणमावहति¹। न² तावत्तस्यायं प्रत्युज्जीवनोपायः³, न धर्म्मोपचयकारणम्, न शुभलोकोपार्ज- नहेतुः, न ⁴निरयपातप्रतीकारः, न दर्शनोपायः, न परस्परसमागमानिमित्तम् । अन्यामेव स्वकर्म्मफलपरिपाकोपचितामसाववशः⁵ नीयते⁶ भूमिम्, असावप्यात्मघातिनः केवलमेनसा संयुज्यते । जीवंस्तु जलाञ्जलिदानादिना बहूपकरोत्युपरतस्यात्मनश्च, मृतस्तु नोभय- स्यापि । स्मर तावत् प्रियामेकपत्नीं रतिं भगवति भर्त्तरि मकरकेतौ⁷ सकलाबलाजनहृदय-
लोकस्य, कमपि गुणमुपकारं नावति नोत्पादयति, अयं प्राणपरित्याग इत्यन्वयः ।
उक्तं स्पष्टीकरोति—न तावदिति । अयं प्राणपरित्यागः, तस्य उपरतस्य न तावत् प्रत्युज्जीवनोपायः पुनः प्राणधारणप्रतिक्रिया, एवं सर्वत्र सम्बन्धः । धर्मोपचयकारणं पुण्यवृद्धिहेतुः । शुभलोकस्य ब्रह्मलोकादेः अर्जनहेतुः प्राप्तिनिदानम् । निरयपातप्रतीकारः दुर्गतिपतनप्रतिक्रिया । दर्शनोपायः प्राप्तेश्वरावलोकनोधोगः । परस्परसमागमानिमित्तम् अन्योन्यसङ्गमकारणम् अतएव न कमपि गुणमुत्पादयतीत्याशयः ।
प्राणपरित्यागस्य वैपरीत्यमेव फलं प्रदर्शयति—अन्यामिति । असौ अवशः उपरतत्वारपरतन्त्रो जीवः, स्वकर्मणः स्वकृतपापपुण्यलक्षणस्य फलपरिपाकेन फलतश्चा परिणामेन उपचिताम् उपस्थापितां भूमिं कर्मक्षेत्रं स्वर्गं नरकं वा नीयते प्राप्यते, तेन स्वकर्मणैवेति शेषः । इह च अमावृप्युपरतो जीवः, आत्मघातिनः आत्महत्याकर्तुः एनसा तज्जनितपापेन केवलं संयुज्यते संयुक्तो भवति इत्येव केवलं प्राणपरित्यागस्य परिणाम इत्याशयः ।
ननु प्राणधारण एव किं प्रयोजनमित्यत आह—जीवन्निति । उपरतस्य मृतस्य, आत्मनः स्वस्य च बहूपकरोति अधिकतरमुपकारं विदधाति, उपरतस्य ख्याहे भूरिब्राह्मणभोजनादिना तृप्त्युत्पादनात्, स्वस्य च नानाविधधर्मार्जनसम्भवात् 'जीवन्नरो भद्रशतानि बुद्धके' इति न्यायाच्चेत्याशयः । नोभयस्यापि न वोपरतस्य न वा स्वस्येत्यर्थः ।
स्वमतं पुराणेतिहासोक्तदृष्टान्तैः समर्थयति—स्मरेति । सकलानां समस्तानाम् अबलाजनानां स्त्रीलोकानां हृदयहारिणि सौन्दर्येण हृदयाकर्षके, अन्यस्त्रीणामपि चित्ताकर्षकत्वे निजहृदयाकर्षकत्वं सुतरामेवेत्याशयः, भगवति माहात्म्यवति, न पुनः क्षुद्रे इत्याशयः, भर्त्तरि स्वामिनि मकरकेतौ कामदेवे, हरनयनहुतभुजा महेश्वरतृतीयनेत्रवह्निना दग्धेऽपि भस्मीभूतेऽपि असुभिः प्राणैः अविरहिताम् अत्यक्ताम्, प्रियां मदने स्नेहवतीम्, न पुनरप्रियां येन तद्द्वेषादेव शोकाभावेन असून् रक्षेदिह्यभिप्रायः, तथा एक एव पतिर्भर्त्ता यस्यास्ताम् एकपत्नीं सतीम् 'पत्युर्नो यज्ञसंयोगे' इत्यनेन ङीप् नकारादेशश्च ज्ञेयः, न पुनरसतीं येनान्यपतिस्वीकरणादानन्दप्राप्त्या असून् रक्षेत्त्याशयः, रतिं मन्मथपत्नीं स्मर स्मृतिगोचरीकुरु ।
इहोपपादिताशयविशेषैरेव विशेषाणामभिहितत्वात्परिकरालंकारः ।
होता । यह प्राणत्याग मृतव्यक्तिको फिरसे जीवित करने का उपाय नहीं है, उसको धर्मवृद्धिका कारण नहीं है, कोई उत्कृष्ट लोकप्राप्ति करनेका हेतु नहीं है, नरकमें जानेका निवारक नहीं है, मृतव्यक्तिके साथ साक्षात्कार करनेका उपाय नहीं है एवं परस्पर मिलनेका कारण भी नहीं है । पराधीन जीव अपने कर्मफलके अनुसारसे अन्य किसी स्थानमें ले जाया जाता है, किन्तु उस जगह वह (पीछे से मरनेवाला व्यक्ति) आत्मघातीके पापसे केवल लिप्त होता है (प्राणपरित्याग करने का यहां केवल फल है) यदि मनुष्य जीता रहे तो वह जलाञ्जलिदानादि देकर मृतव्यक्तिका और अपना भी अधिकतर उपकार कर सकता है, किन्तु प्राणत्याग करनेसे दोनोंमेंसे एकको भी कुछ लाभ नहीं होता । आप स्मरण कर देखिए कि—सौन्दर्यमें समस्त सुन्दरियोंका हृदया-
१. आपतितः ।
२. न तत्त्यायम् ।
३. योगः ।
४. न च ।
५. नरकपतन ।
६. ॰॰॰फलपाकोपचितां ॰॰॰अवशो, फलाकोपनोतान् ।
७. क्वचित् 'कर्म' इत्यधिकः पाठो दृश्यते ।
८. आत्मघाती ।
९. मकरध्वजे ।
चन्द्रापीडद्वारा महाश्वेताश्वासनम् ७७] चन्द्रकला-विद्योतिनीसहिता । ५०७
हारिणि हरनयनहुतभुजा^१ दग्धेऽप्यविरहितामसुभिः । पृथाञ्च^२ वार्ष्णेयीं शूरसेनसुतामभिरूपे सावज्ञविजित^३-सकल-राजक-मौलि-कुसुमवासितपादपीठे^४ पत्यावखिल भुवन-बलि-भागभुजि पाण्डौ किमिन्दममुनि^६ शापानलेन्धनतामुपगते ऽप्यपरित्यक्तजीविताम् । उत्तराञ्च विराटदुहितरं बालां बालशशिनीव नयनानन्दहेतौ^८ विनयवति विक्रान्ते च पञ्चत्वमभिमन्यावुपगतेऽपि^९ धृतदेहाम् । दुःशलाञ्च^१० धृतराष्ट्रदुहितरं भ्रातृशतोत्सङ्गलालितामतिमनोहरे हर-वर-प्रदान
ननु 'न देवचरितं चरेत्' इति निषेधेन न स दृष्टान्तो भवितुमर्हति अतो लौकिकं कञ्चन दृष्टान्तमुपस्थापयेत्यत आह—पृथामिति। अभिरूपे रमणीये, अतएव प्रियतमे इत्याशयः, सावज्ञं सहेलं विजितं स्वाधीनीकृतं यत् सकलं समस्तं राजकं नृपसमूहः तस्य मौलिकुसुमैः शिरःपुष्पैः वासितं नमस्कारकालीनसम्पर्केण सुगन्धीकृतं पादपीठं समग्रपदासनं यस्य तस्मिन्, अतएव अखिलभुवनस्य समग्रविश्वस्य बलिभागं राजग्राह्यं करं भुनक्तीति तस्मिन्, महावीरे चक्रवर्त्तिनि च न पुनः क्षुद्रे इत्याशयः, पत्यौ पाण्डौ, किमिन्दमाभिधमुनेः शापानलस्य अभिसम्पातवह्नेः इन्धनतां काष्ठत्वम् उपगते प्राप्तेऽपि अपरित्यक्तजीविताम् अनुज्झितप्राणाम्, वृष्णेः अपत्यं स्त्रीति वार्ष्णेयी तां वृष्णिकुलसम्भूताम्, न पुनर्नचिकुलसम्भूतां येनाविनीततया प्राणं त्यजेदिति भावः, शूरसेनस्य राजर्षेः सुतां दुहितरम्, न पुनर्यस्य कस्यचिच्छुद्रस्य दुहितरम् येन पितृवदशिष्टतया प्राणं त्यजेदिति भावः, पृथां कुन्तीं च स्मर । इह पूर्ववत्परिकरः, तथा शापेऽनलत्वारोपः पाण्डौ काष्ठत्वारोपे निमित्तमिति परम्परितरूपकमित्यनयोश्शाङ्गाङ्गिभावसङ्करः।
अत्रायमितिहासः—पुरा किल मृगरूपं धृत्वा मृगीभिर्विपिने रममाणः किमिन्दमो नाम मुनिः मृगयार्थिना पाण्डुना मृगबुद्धया निहतस्तदा स मुनिस्तं शशाप—'रममाणं मां यस्त्वं निहतवान्, अतस्त्वमपि रममाण एव शरीरं त्यक्ष्यसि' इति । ततः कदाचिद्वसन्तप्रभावादुद्दीप्तकामः पाण्डुर्माद्रीं रमयन्नेव तच्छापमाहात्म्यान्ममार, माद्री तु तमनुमृतवती, अनुमृतायामपि तस्यां जीवन्ती कुन्ती युधिष्ठिरप्रभृतीनुत्पाद्य पाल्यामासेति । स्पष्टञ्चायं महाभारतादिपर्वणि ।
ननु ते रतिकुन्त्यौ प्रौढे अहं तु बालातस्ताभ्यां सह मे तुलना नोपयुज्यत इत्यत आह—उत्तरामिति । बालशशिनीव नवोदितचन्द्र इव, नयनानन्दहेतौ नेत्राह्लादकारणेन, अतएव प्रियतम इति भावः, विनयवति शिष्टशालिनि, न पुनरुद्धतस्वभावे येन विरागात् शरीरं त्यजेदित्याशयः, तथा विक्रान्ते पराक्रमवति, न पुनः शक्तिहीने येनावहेलया शरीरं त्यजेदित्यभिप्रायः, अभिमन्यौ पत्यौ, पञ्चत्वं निधनत्वम् उपगते प्राप्तेऽपि धृतदेहां गृहीतशरीराम्, बालां भवद्विधामसमाप्तकामपिपासामित्याशयः, विराटस्य राजर्षेः दुहितरम् आत्मजाम्, न पुनरशिष्टस्य दुहितर येनाशिष्टत्वाच्छरीरं त्यजेदिति भावः उत्तराञ्च स्मर। इह 'बालशशिनीव' इत्यत्र पूर्णोपमा पूर्ववत्परिकरश्च, तया चानयोरङ्गाङ्गिभावसङ्करः।
अथैवमपि मद्धिधा स्वजनादरिणी सती एवंविधा भाग्यहीना काचिदन्याऽवलोकिताऽऽकर्णिता वा किमित्यत आह—दुःशलामिति । हरस्य महेशस्य वरप्रदानेन वर्धितो वृद्धिं प्राप्तो महिमा माहात्म्यं यस्य तस्मिन्, अत एव विशेषप्रीतिपात्रे न तु क्षुद्रे येनावहेलया जीवनधारणं स्यादित्याशयः, अतिमनोहरे अत्यभिरामे, न तु कुरूपे येन विरागात्, प्राणधारणं कुर्यादित्यभिप्रायः, सिन्धुराजे सिन्धुदेशनाथे,
दर्पणकारो और माहात्म्यशाली भर्त्ता कामदेवके, महादेवके तृतीय नयनसे उत्पन्न हुई अग्निसे दग्ध होने पर भी उनकी एकमात्र प्रियतमा परमसती रतिदेवीने प्राणका परित्याग नहीं किया। और अवहेलनासे जीते हुए समस्त राजाओंके नमस्कार करनेके समयमें मस्तकसे गिरे हुए पुष्पोंसे जिनका चरणामन सुगन्धित हुआ था और समस्त भुवनोंमेंसे जिन्होंने राजभाग (कर) ग्रहण किया था और परम-सुन्दर थे, ऐसे अपने पति महाराज 'पाण्डु' के, 'किमिन्दम'-मुनिके शापाग्निसे दग्ध होने पर भी, वृष्णिकुलोत्पन्ना शूरसेनकी कन्या कुन्ती-देवीने अपना प्राण परित्याग नहीं किया था। एवं नवोदित चन्द्रके समान नयनानन्द-दायक, विनीतस्वभाव और पराक्रमशाली अभिमन्युके युद्धमें मरनेपर भी विराटराजाकी पुत्री बाला उत्तराने भी शरीर धारण ही किया था। और दुर्योधन प्रभृति सौ भाइयोंकी गोदमें खिलाई गई, धृतराष्ट्रकी कन्या दुःशला सिन्धुराज जयद्रथ नामके परम सुन्दर
१. हरहुताशनदग्धे, हरहुंकारहुतभुजा दग्धे । २. तथा । ३. सावज्ञावजित । ४. वासिताशेषपादपीठे। ५. दलयभुजि । ६. किन्दममुनि ० ० । ७. उपागतेऽरिविक्रम । ८. जननयनानन्दहेतौ । ९. आगतेऽपि १०. दुःशल्याञ्च दुःशीलां च ।
| ५०८ | कादम्बरी- | [ कथायाम्- |
|---|
वर्द्धितमहिम्नि सिन्धुराजे जयद्रथे अर्जुनेन लोकान्तरमुपनीतेऽप्यकृतप्राणपरित्यागाम्। अन्याश्च रक्षः-सुरासुर-मुनि-मनुज-सिद्ध-गन्धर्व-कन्यका भर्तृरहिताः श्रूयन्ते सहस्रशो विधृतजीविताः। प्रोन्मुच्येतापि जीवितं सन्दिग्धोऽप्यस्य समागमो यदि स्यात्। भगवत्या तु ततः पुनः स्वयमेव समागमसरस्वती समाकर्णिता, अनुभवे च को विकल्पः। कथञ्च तादृशाना-मप्राकृताकृतीनां महात्मनामवितथगिरां गरीयसापि कारणेन गिरि वैतथ्यमास्पदं कुर्यात्।
न तु साधारणमनुष्ये येन क्षुद्रताप्रतीतेः जीवनधारणमुपयुज्यत इत्याशयः, जयद्रथे एतन्नामके पत्यौ, अर्जुनेन पार्थेन लोकान्तरं भवान्तरम् उपनीते प्रापितेऽपि अकृतप्राणपरित्यागाम् अविहितजीवनपरिमोज़-णाम्, भ्रातृशतस्य दुर्योधनप्रभृतेः उत्सङ्गेषु क्रोडेषु लालितां पालिताम्, स्वद्विधामेव स्वजनादरिणीमित्या-शयः, धृतराष्ट्रस्य दुहितरम् आत्मजाम्, न तु यस्य कस्यचित् क्षुद्रस्यात्मजां येनाविनीततया प्राणधारणं कुर्यादित्यभिप्रायः, दुःशलां तन्नाम्नीमबलाञ्च स्मर। इहापि पूर्ववत् परिकरः।
एतावता प्रमाणपूर्णप्रबन्धेनानुमरणादिकमिदानीमिव तदानीं कवेरपि नाभिलषितमासीदित्यव-गम्यत इति सिद्धान्तवागीशमहाशया आशयं वर्णयन्ति।
अन्या इति। रक्षांसि राक्षसाः, सुरा देवाः, असुरा दैत्याः, मुनयस्तापसाः, मनुजा मानवाः, सिद्धा विद्याधरादयः, गन्धर्वा देवगायकाः, एतेषां कन्यकाः पुत्र्यः भर्तृरहिता विधृतजीविता अविहितप्राणपरि-त्यागा अन्याः पूर्वोक्तव्यतिरिक्ताः सहस्रशः श्रूयन्ते आकर्ण्यन्ते पुराणवृद्धमुखादिभ्य इति शेषः।
प्रोन्मुच्येतापीति। तदापि जीवितं प्राणितं प्रोन्मुच्येत परित्यज्येत, यदि चेद् अस्य उपरतस्य समा-गमः सङ्गमः सन्दिग्धोऽपि स्यात् भविष्यति न भविष्यति वेति सन्दिहानोऽपि स्यात्, परन्तु स सङ्गमो न संशयितः, अपि तु सर्वथैवासम्भावनीयः, अतएव तन्निमित्तं प्राणत्यागः कथङ्कारमपि नोपयुज्यत इत्या-शयः। तु किन्तु भगवत्या त्वया स्वयम् आत्मनैव ततो महापुरुषात् पुनर्भूर्यः समागमसरस्वती 'भूयोऽपि भवत्या अनेन सह भविष्यति सङ्गमः' इति समागमविषया वाक् समाकर्णिता श्रुता, अतएव अनुभवे च स्वस्यैव प्रत्यक्षे च को विकल्पः सन्देहः, अपि तु न कोऽपीत्यर्थः। अतः सम्मिलनावश्यम्भावात्तन्नि-मित्तं भवत्यावश्यं प्राणधारणं विधेयमित्याशयः।
अथ सा यदि मिथ्या भवेदित्याह—कथमिति। न विद्यते प्राकृती इतरजनसाधारणी लौकिकी आकृतिः आकारो येषां तेषाम्, अतएव महात्मनां महापुरुषाणाम्, सुतरामेव अवितथगिराम् असत्य-वाचाम्, गरीयसापि कारणेन उत्कृष्टेनापि हेतुना, गिरि वचने वैतथ्यम् असत्यत्वं कर्तृ, कथम् आस्पदं
पतिके,—जिसकी महिमा महादेवके वरदानसे बढ़ गई थी [ यहाँका कथा-प्रसङ्ग ऐसा है कि—द्यूत-पराजित पाण्डव द्रौपदीके साथ वनमें वास कर रहे थे। किसी समय सिन्धुराज जयद्रथने शिकार खेलनेके लिए वन में प्रवेश किया। उसने अत्यन्त सुन्दरी द्रौपदी को देखा। वाद उस पर मोहित होकर वह उसे अपहरण कर ले गया। पाण्डव उस समय वहाँ नहीं थे। जब वे लौटे तब जयद्रथ का कृत्य देखकर उसके पीछे दौड कर द्रौपदीको छुड़ा लाये। भीमसेनने तो जयद्रथको अधिक तङ्ग किया पर वादमें द्रौपदीके कहनेसे छोड़ दिया। उसके वाद जयद्रथने कठिन तपस्या करके सदाशिव भगवान् आशुतोषको प्रसन्न किया और उनसे पाँचों पाण्डवोंको मारनेका वरदान माँगा। शङ्करने कहा—यह सम्भव नहीं पर तुम पार्थ (अर्जुन) के अतिरिक्त, अन्य पाण्डवोंको संग्राम क्षेत्रमें पराजित कर सकोगे ] अर्जुनके हाथसे मारे जाने पर भी उसके पीछे प्राण-परित्याग नहीं किया था। इसी प्रकार अन्य भी राक्षस, देव, दानव, मुनि, मनुष्य और सिद्ध गन्धर्वोके मध्यमें हजारों कन्याओंके विषयमें सुना जाता है कि—उन्होंने भर्तृ-रहित (विधवा) होने पर भी जीवन धारण किये थे।
मृत-व्यक्तिके साथ फिरसे मिलन 'हो सकता है, नहीं भी हो सकता है' इस प्रकारका संशय भी यदि रहे, तो ऐसा होने पर भी प्राण-परित्याग किया जा सकता है। किन्तु आपने तो अपनेसे ही, उस महापुरुषके मुखसे पुनर्मिलन होनेकी वाणी अच्छी तरहसे श्रवण किया है, इसलिए अपने प्रत्यक्षीकृत विषयमें (अनुभव हो जाने पर) उसमें क्या शङ्का हो सकती है। विशेषतः, गुरुतर कारण रहने पर भी उस प्रकारकी अलौकिक आकृति और सत्यवादी महापुरुषोंके वाक्यमें, मिथ्याभाव आकर किस प्रकार प्रतिष्ठा प्राप्त कर सकता है? (अर्थात् उन लोगों
१. क्वचित् 'जयद्रथे' इति पाठो नावलोक्यते । २. वह्वयः । ३. विधुर । ४. सन्दिग्धो यदि समागमः स्यात् । ५. स्वयमेव तन्पुनः समागमवचः श्रुतम् ।
चन्द्रापीडद्वारा महाश्वेताश्वासनम् ७७] चन्द्रकला-विद्योतिनीसहिता । ५०६
उपरतेन च सह जीवन्त्याः कीदृशी समागतिः, अतो निःसंशयमसमुपजातकारुण्यो महात्मा पुनः प्रत्युज्जीवनार्थमेवैनमुत्क्षिप्य सुरलोकं नीतवान् । अचिन्त्यो हि महात्मनां प्रभावः, बहुप्रकाराश्च संसारवृत्तयः, चित्रञ्च दैवम्, आश्चर्यातिशययुक्ताश्च तपःसिद्धयः, अनेकविधाश्च कर्म्मणां शक्तयः। अपि च सुनिपुणमपि विमृशद्भिः किमिवान्यत्तदपहरणे कारणमाशङ्कयेत जीवितेप्रदानादृते । न चासम्भाव्यमिदमवगन्तव्यं भगवत्या, चिरप्रवृत्त एष पन्थाः। तथाहि, विश्वावसुना गन्धर्वराजेन मेनकायामुत्पन्नां प्रमद्वरां नाम कन्यकामाशीविषविलुप्तजीवितां स्थूलकेशाश्रमे भार्गवस्य च्यवनस्य नप्ता प्रमतितनयो मुनिकुमारको रुरुर्नाम स्वायु-
प्रविष्टां कुर्यात् विदध्यात् , अपि तु न कथमपीत्यर्थः । अतो नूनमेव सम्मिलनं भविष्यतीत्यभिप्रायः ।
नन्वपरतजीवितयोश्च सङ्गमः सर्वथैवासम्भव इत्यत आह—उपरतेति । उपरतेन मृतेन । जीवन्त्याः प्राणधारणं कुर्वन्त्यास्तव । समागतिः सङ्गतिः, अतोऽस्माद्धेतोः निःसंशयं निःसन्दिग्धम् । उपजातकारुण्यः उत्पन्नदयः । प्रत्युज्जीवनार्थमेव पुनः प्राणाऽऽधानार्थमेव, एनं पुण्डरीकम् । नीतवान् प्रापितवानित्यनुमीयत इत्याशयः ।
ननु पुनः प्राणाऽऽधाने तस्य किं नाम सामर्थ्यमित्यत आह—अचिन्त्य इति । महात्मनां महानुभावानां प्रभावो महिमा अचिन्त्यः अनाकलनीयः, सुतरां स महानुभाव स्वमाहात्म्येनैवैनं प्रत्युज्जीवयेदिति भावः । संसारप्रवृत्तयः जगद्व्यापाराश्च बहुप्रकारा अनेकभेदभिन्नाः, तस्मादप्यस्य प्राणधारणसम्भावनेत्याशयः । दैवं भागधेयं च चित्रम् आश्चर्यसामर्थ्यकम्, अस्मादप्यस्य जीवनसम्भावनेत्याशयः । तपःसिद्धयश्च आश्चर्यातिशययुक्ताः अद्भुताधिक्यसहिताः, स्वस्यैव तस्य तद्विद्यमानत्वात्प्राणधारणसम्भावनेति भावः । कर्म्मणां पूर्वोपार्जितशुभाशुभानां शक्तयः सामर्थ्यानि अनेकविधा नानाप्रकाराः, तस्मादप्यस्य जीवनप्राप्त्याशेत्यभिप्रायः ।
अथान्यप्रयोजनमपेक्ष्यैव तदपहरणं सञ्जातं भवेदिति चेत्तत्राह—अपि चेति । सुनिपुणम् अत्यन्तसूक्ष्मं यथा स्यात्तथा विमृशद्भिरपि चेतसा-वितर्कयद्भिरपि अस्माभिः तदपहरणे मृतकुमारापहरणे जीवितेप्रदानादृते प्राणदानं विना, कारणं निमित्तं किमिव लाशङ्कयेत सन्देहविषयीक्रियेत ।
ननु मृतस्य प्रत्युज्जीवनं सर्वथासम्भवमेवेत्यत आह—नचेति । भगवत्या त्वया इदं प्रत्युज्जीवनम् असम्भाव्यमानम् अघटमानमिति न चावगन्तव्यं न ज्ञातव्यम् । एष प्रत्युज्जीवनलक्षणः पन्थाः पद्धतिः चिरप्रवृत्तः बहुकालादेव प्रचलितः, अतो नासम्भाव्यमित्याशयः ।
अथ तदवलोकितं समाकर्णितं वा चेद्दर्शयेत्यत आह—तथाहिति । विश्वावसुना एतन्नामकेन गन्धर्वराजेन मेनकायां तदाख्यायां योषित्ति उत्पन्नां प्रादुर्भूतां प्रमद्वरामिति नाम्नीं कन्याकां पुत्रीम् आशीविषेण सर्पेण विलुप्तं विनाशितं जीवितं श्वसितं यस्यास्ताम् 'आशीस्तालुगता जिह्वा तया विद्धो न जीवति' इति रामाश्रमी । स्थूलकेशस्य तन्नामकमुनेः आश्रमे, भार्गवस्य भृगुवंशोत्पन्नस्य च्यवनस्य तदाख्यमुनेः नप्ता पौत्रः प्रमितेः तत्संज्ञकस्य मुनेः तनय आत्मजो रुरुस्तन्नामा मुनिकुमारकः स्वायुषोऽर्धेन योजितवान् स्वकीयायुषोऽर्धं संयोज्य जीवितवानित्यर्थः । इदमितिवृत्तं महाभारतादि पर्वण्येवम्—
की वार्ता झूठ नहीं हो सकती )। मरे हुए व्यक्तिके साथ जीते हुए व्यक्तिका मिलन किस प्रकार हो सकता है ? इसलिए इस विषयमें किसी प्रकारका सन्देह नहीं है कि—आपके दुःखको देखकर उस महापुरुषको दया उत्पन्न हो गई इसलिए वे महात्मा फिरते उनको जीवित करनेके लिए ही, उठा कर सुरलोकमें ले गए हैं । क्योंकि महात्माओंका प्रभाव अचिन्त्य (विचारनेका अविषय ) होता है, संसारकी वृत्तियाँ अनेक प्रकार की होती हैं दैवकी शक्ति भी विचित्र है; तपस्याकी सिद्धि भी अत्यन्त आश्चर्यकारिणी है एवं धर्म और अधर्मकी शक्ति भी नाना प्रकारकी होती हैं । फिर अत्यन्त सूक्ष्म विचार करने पर भी उनको उठा ले जानेके विषयमें जीवन-दानसे अतिरिक्त अन्य किस कारणकी आशङ्का की जा सकती है ? इस ( मृत व्यक्तिको फिरसे जीवनदान कराने ) में आपको असम्भव नहीं मानना चाहिए, क्योंकि—यह पद्धति तो चिरकालसे ही चली आ रही है । देखिए—गन्धर्वराज विश्वावसुसे मेनकामें उत्पन्न हुई प्रमद्वरा नामकी कन्या जब सर्पके काटनेसे मर गई तब स्थूलकेशके आश्रममें भृगुनन्दन च्यवन के पौत्र और प्रमतिके पुत्र रुरु-नामक मुनिकुमारने अपने अपने आयुका आधा भाग देकर उसको बचा दिया था । महावीर अर्जुन, जब अश्वमेधीय अश्वके पीछे जाते २ मणिपुरमें उपस्थित हुए थे और संग्राममें
१. तद् ।
२ ०"प्रवृत्तयः प्रकृतयः ।
३. तज्जीवितव ।
४. अत्र 'सर्वथा' इति क्वचिदधिकः पाठः ।
५. क्वचिद् च्यवनस्येति पदं न विद्यते ।
५१० कादम्बरी- [ कथायाम्-
षोऽर्द्धेन योजितवान् । अर्जुनञ्चाश्वमेधतुरगानुसारिणम्¹ आत्मजेन बभ्रुवाहननाम्ना समर-शिरसि शरापहृतप्राणम्², उलूपी³ नाम नागकन्यका सोच्छ्वासमकरोत् । अभिमन्युतनयञ्च परीक्षितम्⁴ अश्वत्थामास्त्रपावकपरिप्लुष्टम्, उदरादुपरतमेव विनिर्गतम्⁵, उत्तराप्रलापोपजनितकृपो भगवान् वासुदेवो दुर्लभानसून प्रापितवान्⁶, उज्जयिन्याञ्च सान्दीपनि⁷-द्विज-तनयम-
स्थूलकेशाश्रमस्य नदीतीरे विश्वावसुना मेनकायामुत्पादिता काचित्कन्या। स्वाश्रमे तामादाय पालयामास स हि मुनिः। अथ तारुण्ये वयसि विद्यमानां भृगोः प्रपौत्रो रुरुस्तां दृष्ट्वा भृशं मुमोह। अहर्निशं तमेव विचिन्त्यमानं सर्वदा सर्वकार्येषूदासीनं स्वपुत्रं निरीक्ष्य प्रमतिः स्थूलकेशं तां दातुं ययाचे। सोऽपि सुमुहूर्त्तं करिष्याम्यवश्यं परिणयमिति प्रतिश्रुतवान्। ततश्च तदर्थं सामग्रीमेकीकरणाय कृतः सुमहानुद्योगः। अथ कोऽपि सर्पः प्राङ्गणे क्रीडन्तीं तां प्रमद्वरां दृष्टवान्। तद्दृष्ट्वा तन्निवासिनो मुनयः पर्य्यतुशुचुः। रुरुस्तद्वियोगे प्राणमपि त्यक्तुमचेष्टत। ततो देवदूताः समागत्योचुः-कथमेवं करोषि यदि तज्जीवनं कामयसे तदा स्वायुषोऽर्द्धं तस्यै प्रयच्छ। अथ विश्वावसुसहिता देवदूता धर्मराजमुपेत्य प्रणिपत्य च निवेदयामासुस्तद्वृत्तान्तम्। ततो धर्मराजेन स्वायुषोऽर्धदानेनाज्ञप्तो रुरुस्तां जीवयित्वा विधिनोपयेमे।
अर्जुनमिति। अश्वमेधस्य यः तुरगोऽश्वः तदनुगामिनं तदनुयायिनं बभ्रुवाहननाम्ना एतदभिधेयेन आत्मजेन पुत्रेण, समरशिरसि सङ्ग्राममूर्द्धनि शरेण शरताडनेन अपहृता विनाशिताः प्राणा जीवननि यस्य तं तादृशम्, उलूपी एतन्नामिका अर्जुनविवाहिता नागकन्या बभ्रुवाहनविमाता। सोच्छ्वासं सञ्जीवनमणिसंस्पर्शनेन सञ्जीवनम् अकरोत् कृतवती। इदमितिवृत्तमश्वमेधपर्वण्येवम्-
तथाहि-राज्ञा युधिष्ठिरेणाश्वमेधयज्ञनिमित्तं सर्वतो विजयाय चाश्वं मुमोच, रक्षंश्च ससैन्योऽर्जुनस्तमनुजगाम। सर्वत्रकृतविजयोऽर्जुनो मणिपुरराज्यशासकं सकलगुणवरिष्ठं चित्राङ्गदायासुरपन्नं बभ्रुवाहनं पुत्रं प्राप्तवान्। पितुः समागमनं श्रुत्वा बहुशोऽभ्यर्थितः सम्मानितश्च बहुभिरुपहारैर्बभ्रुवाहनः पित्रा भर्त्सितः विमात्रा नागकन्यया तत्क्षणं भुवं विदार्य समागतया च सोत्साहितो युद्धाय समुद्युक्तो बभूव। ततश्च तत्र विपाक्तैर्वाणैर्गतासूनिवाकरोत्पितरम्। स्वयमपि तत्प्रहितनिशितशरैर्जर्जरीकृतशरीरो मुमूर्च्छ च। अथ चित्राङ्गदस्तन्माता बहुशो विलप्योळूपीं जुगुप्सितं कर्मैतत्त्वया विहितमिति ब्रुवन्ती तामधोमुखं नयन्ती स्वामिजीवनाय पन्थानमन्वेषयन्ती मूर्च्छितपुत्रमप्यगणयन्ती अनशनेन प्राणोत्सर्गमपि कर्तुं यतमाना चासीत्। तस्मिन्नेव काले बभ्रुवाहनः संज्ञामवाप, अवाप्य च गतासुं तातं निरीक्ष्य पर्य्यनुशुशोच। तज्जीवनायोदूर्पा बहुशोऽभ्यर्थ्यमानस्तद्विरहे स्वयमप्यनशनेन मर्तुमियेष। ततश्चोलूपी सञ्जीवनमणि स्मरणेनोपस्थितमादाय बभ्रुवाहनाय दत्तवती। तेन हृदये विन्यस्तः सुप्तोत्थित इवार्जुनः उत्थायात्मजं हृदयेन परिष्वज्य प्रशंसयामासेति।
अमीति। अश्वत्थामा द्रोणाचार्यसुतः तस्य अस्त्रपावकेन शस्त्राग्निना परिप्लुष्टं सर्वतो भस्मीभूतम्, उदरात् गर्भाशयाद् उपरतं मृतमेव विनिर्गतं निःसृतम्, एवंविधम् अभिमन्युतनयम् अर्जुनपौत्रं परीक्षितम्, उत्तरायाः प्रलापेन विलापेन जनिता उत्पादिता कृपा करुणा यस्य तादृशो भगवान् वासुदेवो नारायणः दुर्लभान् दुष्प्रापान् असून प्रापान् प्रापितवान् प्रदत्तवान्। अश्वस्येव स्थाम और्जियमस्येति अश्वत्थामा, पृषोदरादित्वात्साधु।
इदमपीतिवृत्तमश्वमेधपर्वण्येवम्-अर्जुनेन द्रोणाचार्येण पितरि हतेऽतीवक्रुद्धोऽश्वत्थामा उत्तरागर्भस्थं परीक्षितं ब्रह्मास्त्रेण गतासुमकरोत्। जन्म समये मृत एव पुत्रो जात इति श्रुत्वा शोकविह्वलाः कुन्त्यादयः समभवन्। तत्र कुन्ती करुणाभिर्वचोभिर्भगवन्तं वासुदेवमभ्यर्थयामास जीवनदानायेति। जातदयो भगवान् सूतिकागृहं प्रविश्य तत्राप्युत्तरयाऽभिमन्युपत्न्या बहुशोऽभ्यर्थितः पूर्वप्रतिज्ञातक्रमेण तं जीवयामासेति।
उज्जयिन्यामिति। उज्जयिन्यां विशालायाम्। स एव भगवान् वासुदेव एव, सन्दीययति प्रज्वाल-
हनके ही पुत्र बभ्रुवाहनने शरप्रहार करके उनके प्राण हर लिए थे तब नागकन्या अर्जुनभार्या उलूपीने सञ्जीवनीमणिका स्पर्श कराकर उसे जीवित किया था। अभिमन्युके पुत्र परीक्षित जब अश्वत्थामाके आग्नेयास्त्र द्वारा सर्वतोभावसे दग्ध हो (जल) कर मृत अवस्थामें ही गर्भसे निकले थे तब उत्तराके विलापसे दयालु होकर भगवान् श्रीकृष्णने फिरसे उन्हें दुर्लभ प्राण-दान किया था और उज्जयिनीमें त्रिभुवन-वन्दितचरण वही भगवान् सान्दीपनि-
१. ०°तुरगानुगामिनम्।
२. शरेण हृतप्राणम्।
३. उल्पा।
४. परिक्षितम्।
५. निर्गतम्!
६. भगवांश्चराचरगुरुर्वासुदेवो दुर्लभैरसुभियोजिवान्।
७. सन्दी पनि।
चन्द्रापीडद्वारा महाश्वेताश्वासनम् ७७ ] चन्द्रकला-विद्योतिनीसहिता । ५१२
न्तकपुरादपहृत्य त्रिभुवनवन्दितचरणः स एवानीतवान्¹। अत्रापि² कश्चिदेवमेवं भविष्यति । तथापि³ किं क्रियते, क उपालभ्यते⁴ । प्रभवति हि भगवान् विधिः, बलवती च नियतिः, आत्मैच्छया न शक्यमुच्छ्रसितुमपि, अतिपिशुनानि चास्यैकान्तनिष्ठुरस्य दैवहतकस्य विलसितानि⁵ न क्षमन्ते⁶ दीर्घकालमव्याजरमणीयं प्रेम । प्रायेण च निसर्गत एवानयत⁷-स्वभावभङ्गुराणि-सुखानि, आयत-स्वभावाणि च दुःखानि । तथाहि कथमप्येकस्मिन् जन्मनि समागमः, जन्मान्तरसहस्राणि च विरहः⁹, प्राणिनाम् । अतो नार्हस्यनिन्द्यमात्मानं निन्दितुम्, आपतन्ति हि संसारपथमतिगहनमवतीर्णानामेते वृत्तान्ताः, धीरा हि तरन्त्यापदम्' इत्येवंविधैरन्यैश्च मृदु-
यनि यज्ञाग्निमिरिति सन्दीपनः तस्यापत्यं पुमान् सान्दीपनिः तन्नामा कश्चिद्ब्राह्मणः तस्य तनयं पुत्रम् अन्तकपुराद् यमपुराद् अपहृत्य आनीतवान् प्रापितवान् ।
पुरा किल उपात्तविद्ययो रामकृष्णयोरनुरोधेन गुरुः सान्दीपनिः पञ्चजनदैत्यापहृतं निजपुत्रं गुरुदक्षिणोरूपेण कामयाञ्चक्रे । भगवान् वासुदेवस्तु सागरं प्रविश्य पञ्चजनं विनाश्य, तत्राप्राप्तं गुरुतनयं यमपुरादानीय गुरुदक्षिणीचकारेति हरिवंशपुराणीयकथा ।
अत्रापीति । अत्रापि अस्मिन् पुण्डरीकोदन्तेऽपि, कश्चित् केनापि प्रकारेण एवमेव प्रत्युज्जीवनरूपपुनर्जीवनम् । क उपालभ्यते निन्द्यते । विधिः स्रष्टा, प्रभवति सर्व विधातुं शक्नोति, बलवती वीर्यवती नियतिर्माग्यं च प्रभवति । उच्छ्वसितुं श्वासप्रश्वासी विधातुमपि । अनिष्ठुरस्य अत्यन्तनिर्दयस्य अस्य दैवहतकस्य दुर्मार्गस्य अतिपिशुनानि अत्यन्तखलानि विलसितानि चरित्राणि कर्तृनि, अव्याजं निष्कपटम् अत एव रमणीयं मनोहरं प्रेम दीर्घकालं बहुसमयं न क्षमन्ते सहन्ते ।
प्रायेणेति । प्रायेण बाहुल्येन निसर्गतः स्वभावत एव अनायतस्वभावानि सदीर्घाणि सङ्क्षिप्तानीत्यर्थः, च तानि भङ्गुराणि नश्वराणि चेति तानि सुखानि सानन्दाः, आयतस्वभावानि दीर्घाणि असंक्षिप्तानीत्यर्थः स्थायीनि च दुःखानि क्लेशाः । अस्य विषयस्य स्फोरणाय वाचस्पतिभृतो भामतीग्रन्थोऽवलोकनीयः ।
तथाहीति । प्राणिनां संसारिणां कथमपि महता क्लेशेन । समागमः सम्मेलनम्, जन्मान्तरसहस्राणि भवान्तरसहस्राणि च यावत् विरहो वियोगः ।
प्रकृतम् आश्वासनवचनमुपसंहरति—अत इति । अनिन्द्यम् अगर्ह्यम् आत्मानं स्वम्, निन्दितुं गर्हितुं नार्हसि न योग्याऽसि, हि यतः, एते वृत्तान्ता एतादृशा आपद्रूपा व्यापाराः, अतिगहनम् अत्यन्तभीषणं संसारपथं संसृतिमार्गम् अवतीर्णानाम् आयातानां सांसारिकजनानां समीप इत्यर्थः आपतन्ति उपरिपतन्ता भवन्ति, तत्र तु धीरा हि धैर्यशालिन एव आपदं कष्टं तरन्ति तत्पारं प्राप्नुवन्ति, न पुनर्धीरा इत्यर्थः, अत एव धैर्यमाश्रित्य समयं प्रतीक्षस्वेत्याशयः । इह सामान्येन विशेषसमर्थनादर्थान्तरन्यासः ।
इत्येवमिति । एवंविधैः एतादृशैरूपैः अन्यैश्च मृदुभिः सुकुमारैः उपसान्त्वनैः आश्वासनवचनैः
नामक एक ब्राह्मणके पुत्रको यम-गृहसे निकाल कर लाए थे। इसलिए इस घटनामें भी इस रूपका ही कुछ होगा। ऐसा होने पर भी क्या किया जाय ? किसकी निन्दा करें ? भगवान् विधाता ही सब कर सकते हैं, भाग्य प्रबल है, किन्तु कोई भी अपनी इच्छासे श्वास-प्रश्वास भी नहीं ले सकता, विशेषतः—अत्यन्त निष्ठुर 'दुष्ट दैवके चरित्र भी अति क्रूर हैं, इसलिए वह अकृत्रिम मनोहर प्रेमको दीर्घकाल तक सहन नहीं कर सकता। प्रायः करके देखने में आता है कि—सुख, स्वभावसे ही अल्पकालस्थायी, किन्तु दुःख, विस्तृत और चिरस्थायी होता है। देखिए—प्राणियोंका किसी एक जन्ममें किसी प्रकारसे मिलन हो जाता है किन्तु विरह, सहस्र जन्मान्तर तक रहता है। इसलिए अपनी अनिन्दनीय आत्माकी निन्दा करना समुचित नहीं है, क्योंकि—अत्यन्त भयङ्कर संसारके मार्गमें अवतीर्ण होकर चलते हुए मनुष्योंको ऐसी ऐसी विपत्तिरूपा घटनाएँ अवश्य ही उपस्थित होती रहती हैं। तब उसके मध्यमें धीरजवालेके ही व्यक्ति उक्त विपत्तिका पार पाते हैं' ऐसे ऐसे अनेक प्रकार के कोमल सान्त्वनावाक्योंसे
१. पुरात्त्रिभुवनवन्दितचरणः स एवानीतवान् । २. कचित् 'अत्रापि' इति पाठो न विद्यते । ३. क्वचिद् 'तथापि' इत्यनेनः पाठः । ४. किमुपालभ्यते । ५. विलसितानि । ६. क्षमते । ७. अनायुक्त*** । ८. अनायुक्त*** । ९. एकजन्ममागमो बहूनि जन्मान्तरसहस्राणि तु विरहः।
| ५१२ | कादम्बरी- | [ कथायाम्- |
|---|
भिरुपसान्त्वनैः संस्थाप्य तां पुनरपि, निर्झरजलेनाञ्जलिपुटोपनीतेनानिच्छन्तीमपि बलात् प्रक्षालितमुखीमकारयत् ।
अत्रान्तरे च श्रुतंमहाश्वेतावृत्तान्तोपजातशोक इव समुत्सृष्टदिवसव्यापारो रविरपि भगवानधोमुखतामयासीत् अथ क्षीणे दिवसे, परिणत-प्रियङ्गु-मञ्जरी-रजोनिभेनं पिञ्जरिम्णा-रज्यमाने^३ विलम्बिनि ब्रध्नमण्डले, अविरल-कुसुम्भं कुसुम-रस-रक्त-दुकूल-कोमलेन चास्तात-पेन मुच्यमानेषु॑ दिक्मुखेषु, चकोर-नयन-तारका-कान्तिना चं पिङ्गलिम्ना विलिप्यमाने तिरो-हितनीलिम्नि व्योम्नि, कोकिल-विलोचन-च्छवि-बभ्रूणि चारुणयतिं साध्ये भुवनमर्चिषि, यथाप्रधानमुन्मिषत्सु ग्रहग्रामेषु, वनमहिषमलीमसवपुषि चं लोचनमुपि' मुपित-तारकापथ-
संस्थाप्य प्रकृतिस्थां विधाय, चन्द्रापीडः अञ्जलिपुटोपनीतेन निर्झरजलेन प्रस्रवणसलिलेन, अनिच्छन्ती-मपि वक्त्रप्रक्षालनमभिलषन्तीमपि तां महाश्वेतां बलात् हठात् पुनरपि भूयोऽपि प्रक्षालितमुखीं धौता-ननाम् अकारयत् व्यधापयत् ।
अत्रेति । क्लिष्टोति चार्थः, अत्रान्तरे अस्मिन्नवसरे, श्रुतेन आकर्णितेन महाश्वेताया वृत्तान्तेन उदन्तेन उपजातः उत्पन्नः शोको यस्य स तथोक्त इव सन्, समुत्सृष्टः उज्झितो दिवसव्यापारो दिनकृत्यम् प्रकाश-दानरूपं गृहकृत्यञ्च येन सः, अन्योऽप्युपपन्नशोकः गृहकृत्यं परित्यज्य अधोमुखतां गच्छति ।
अतएवेह कार्येण सूर्ये शोकव्यथितनायकव्यवहारसमारोपात् समासोक्तिः, शोकोरवश्युत्प्रेक्षणात् क्रियोत्प्रेक्षा चेत्युभयोरङ्गाङ्गिभावसङ्करः ।
अथेति । दिवसे वासरे । परिणता पक्का या प्रियङ्कुमञ्जरी फलिनीवल्लरी तस्या रजोनिभेन पराग-सदृशेन, पिञ्जरस्य भावः इति पिञ्जरिमा पृथ्वादिभ्वानिद्मनिच् प्रत्ययः, तेन पिङ्गलवर्णेन रज्यमानो पिञ्जरतां नीयमाने, ब्रध्नमण्डले सूर्यविम्बे विलम्बिनि गगनावश्रोहिणि सति । आर्योपमा ।
अविरलेति । किञ्च, दिङ्मुखेषु, अविरलं सान्द्रं यत् कुसुम्भकुसुमानां महारजनपुष्पाणां रसेन निर्यासेन रक्तं रुषितं दुकूलं सूक्ष्मवस्त्र तद्वत् कोमलेन मृदुलेन सुखस्पर्शनेत्यर्थः 'कुसुम्भं हेमनि महारजने ना कमण्डलो' इति मेदिनी, अस्तातपेन अस्तसामयिकसूर्यालोकन, मुच्यमानेषु यथाक्रमं परित्यज्यमानेषु सत्सु । लुप्तोपमा ।
चकोरेति । अपि च, तिरोहितः सायङ्कालीनातपप्रसरादाच्छादितो नीलिमा यस्य तस्मिन् व्योम्नि गगने, चकोरस्य विषसूचकस्य पक्षिणो नयनयोर्लोचनयोः तारकावत् कनीनिकावत् कान्तिः शोभा यस्य तथोक्तेन, पिङ्गलिम्ना पिङ्गलवर्णेन विलिप्यमाने विलेपनविषयीक्रियमाणे सति । उक्तालङ्कारः ।
कोकिलेति । अपि च, कोकिलस्य पिकस्य विलोचनच्छविरिव नेत्रकान्तिरिव, बभ्रु पिङ्गलं तस्मिन्, सान्ध्ये सायङ्कालीने अर्चिषि तेजसि, भुवनं संसारम् अरुणयति भारक्तं विदधति सति । उक्तालङ्कारः ।
यथेति । ग्रहग्रामेषु नक्षत्ररूपशुक्रादिग्रहसमूहेषु, यथाप्रधानं मुख्यानामुदयानुरोधेनेत्यर्थः, उन्मि-षत्सु उदयेन द्योतमानेषु सत्सु ।
वनेति । वनमहिषस्येव अरण्यरक्ताक्षस्येव मलीमसं मलिनं वपुः स्वरूपं यस्य तस्मिन्, लोचनं नयनं
उस (महाश्वेता) को प्रकृतिस्थ करके चन्द्रापीडने फिर अञ्जलिपुटमें झरनेका जल लाकर, इच्छा नहीं रहने पर भी बलपूर्वक (हठसे) उसका मुखप्रक्षालन कराया (मुँह धुलाया) ।
उसी समय भगवान् सूर्य भी महाश्वेताका वृत्तान्त श्रवण करनेसे मानो शोक-खिन्न होकर दिवसव्यापार परित्याग कर अधोमुख हो गये । उसके बाद जब दिन क्षीण हो (शेष रह) गया; आकाशमें लटकता हुआ सूर्य-मण्डल पकी हुई प्रियङ्गुलताकी मञ्जरी के रेणुके समान पिङ्गल वर्ण रंगसे रञ्जित हो (रँग) गया; कुसुभके फूलके रससे रँगे हुए और घन सूक्ष्म-वस्त्रके समान कोमल अस्तकालीन सूर्यालोक (धूप) ने क्रमशः समस्त दिशाओंके मुखोंको छोड़ दिया; आकाशका नीला रंग दूर हो गया, क्रमशः चकोर पक्षीके नयनकी कनीनिकाके समान कान्ति सम्पन्न पिङ्गलवर्णसे समस्त आकाश लिप्त हो गया; कोकिलके नेत्रोंके समान पिङ्गलवर्ण सन्ध्याके आलोकसे जगत् लाल हो गया; नक्षत्रसमूह प्रधानोंके अनुक्रमसे उदय पाने लगे; वन-महिषके समान मलिन (श्याम) वर्णवाला,
१. अत्रान्तरे महा। २. ॰॰॰रजोनिभे। ३. दिरज्यमानेऽपि। ४. क्वचित् 'कुसुम्भ' इति पदं नोपलभ्यते। ५. विमुच्यमानेषु। ६. ॰॰॰तारकाकारकान्तिना। ७. अरुणायति। ८. ग्रहग्रामगीषु। ९. वनमलीमसवपुषि। १०. 'लोचनमुपि' इति पाठो हि क्वचिन्न दृश्यते।
महाश्वेतावन्द्रापीडयोः सन्ध्यावन्दन० ७८] चन्द्रकला-विद्योतिनीसहिता । ५१३
प्रथिम्नि कालिमानमातन्वति शार्व रे तमसि, अतनु-तिमिर-तिरोहित-हरितभासुं गहनतां या-न्तीषु तरुराजिषु, रजनि-जल-विन्दु-जाल-जनित-जडिम्नि बहल-वन-कुसुम-परिमलानुमित-गमने चलित लता-विटप-गहने³ प्रवृत्ते च पवने, निद्रा-निभृत-पतत्रिणि त्रियामामुखे, महा-श्वेता मन्दं मन्दमुत्थाय भगवतीमुपास्य पश्चिमां सन्ध्याम्, कमण्डलुजलेन प्रक्षालितचरणा वल्कलशयनीये सखेदमुष्णञ्च निःश्वस्य निषसाद । चन्द्रापीडोऽप्युत्थाय सकुसुमं प्रस्रवणजला-ञ्जलिमवकीर्य्यं कृतमन्ध्याप्रणामस्तस्मिन्, द्वितीये शिलातले मृदुभिर्लतापल्लवैः शय्यामक-ल्पयत् । उपविष्टश्च तस्यां पुनःपुनः तमेव मनसा महाश्वेतावृत्तान्तमन्वभावयत् । आसी-
मुष्णाति अवलोकनसामर्थ्यमपहरतीति तस्मिन् । अनेन गाढत्वमुपपादितम् । मुषितः अपहृतो व्या-प्याऽवलोकननिरोधेनाऽपवत् बोधितः तारकापथस्य आकाशस्य प्रथिमा विस्तारो येन तस्मिन्, अनेन सर्वव्यापिरवं द्योतितम् । शर्वर्या रात्रेरियमिरित शावरं तस्मिन् 'तस्येदम्' इत्यण् , तमसि अन्धकारे, कालिमान संभारस्य श्यामलिमानम् आतन्वति विस्तारयति सति ।
इह लुप्तोपमा वृत्यनुप्रासश्च अनयोः परस्परं नैरपेक्ष्येण संसृष्टिः ।
अतन्विति । अतनुभिर्निबिडैः तिमिरैः अन्धकारैः तिरोहिता आच्छादिता हरिता हरिद्वर्णा भाः कान्तयो यासां तासु, तरुराजिषु वृक्षपङ्क्तिषु गहनताम् अन्तरालानवलोकनेन सान्द्रतां यान्तीषु गच्छ-न्तीषु सत्सु । वृत्यनुप्रासः ।
रजनीति । रजनिविन्दुजालं तुषारकणसमूहः तेन जनिता उत्पादिता जडिमा शीतलता यस्य तस्मिन्, बहलैः अत्यधिकैः वनकुसुमानाम् अरण्यपुष्पाणां परिमलैः सुगन्धिभिः अनुमितं ज्ञापितं गमनं यस्य तस्मिन्, तथा चलितं कम्पितं लताविटपानां वल्लरीकिसलयानां गहनं ( वनं ) समूहो येन तस्मिन्, पवने समीरे च प्रवृत्ते वहति सति । त्रयाणां विशेपणानां यथाक्रममुपादानेन शैत्यमन्दत्व-सुगन्धत्वानि गुणत्रयाण्युक्तानीत्यभिधेयम् ।
इह वृत्यनुप्रासश्छेकानुप्रासावन्त्यानुप्रासा यथोचितमूहनीयाः ।
निद्रेति । निद्रया प्रमीलया निभृता निःशब्दाः पतत्रिणः पक्षिणो यत्र तस्मिन्, त्रियामामुखे प्रदोषसमये प्रवृत्ते सति ।
महेति । मन्दं मन्दं शनैः शनैः उत्थाय, भगवतीं माहात्म्यवतीं पश्चिमां सन्ध्यां सायङ्कालीन-सन्ध्याम् उपास्य उपासनां कृत्वा, कमण्डलुजलेन कुण्डिकानीरेण प्रक्षालितचरणा धौतपादा वल्कल-शयनीये तनुत्वक्शय्यायां सखेदं सखिन्नम् उष्णं च निःश्वस्य निःश्वासं प्रमुच्य निषसाद उपविवेश ।
चन्द्रेति । सकुसुमं सपुष्पं प्रस्रवणजलाञ्जलि निर्झरसलिलाञ्जलिम् अवकीर्य सूर्य लक्षयीकृत्यार्घत्वेन निक्षिप्य, कृतो विहितौ सन्ध्याप्रणामौ सन्ध्येष्टदेवतानमस्कारौ येन सः, तस्मिन् मण्डपिकास्थले द्वितीये तत्स्वीकृतादन्यस्मिन् शिलातले प्रस्तर्रतले मृदुभिः सुकुमारैः लता पल्लवैः बल्लीकिसलयैः शय्यां शयनी-यम् अकल्पयत् अकरोत् ।
उपेति । तस्यां शय्यायाम् । महाश्वेतावृत्तान्तं महाश्वेतोदन्तम् अन्वभावयत् अचिन्तयत् । अयं कुसु-
लोगोंकी दृष्टि-शक्तिको लोप करता, आकाशके विस्तारको ह्रास करता, रात्रिका अन्धकार उत्तरोत्तर सर्वत्र अधिक कालिमाको विस्तार करने लगा; अपना हरा रंग गाढ़े ( घने ) अन्धकारमें तिरोहित हो ( ढक ) जानेसे वृक्षोंकी झाड़ियाँ और भी गहन होने लगीं; रात्रिके शिशिरविन्दुओंसे शीतलता उत्पन्न करती-वन्य पुष्पोंके प्रचुर सौरभसे जिसके चलनेकी सूचना होती थी ऐसी-लता और वृक्षोंको कुञ्जोंको कँपाती हवा बहने लगी; और प्रदोषकाल उपस्थित होनेसे पक्षीगण निद्राके कारण नि शब्द हो गए, तब महाश्वेता धीरे धीरे उठ कर माहात्म्यशालिनी सायं सन्ध्याकी उपासना कर, कमण्डलुके जलसे पैर धोकर, विषादके साथ उष्ण निःश्वास ( गरम सांस ) लेकर अपने वल्कलमय शय्या ( बिछौने ) के ऊपर जा बैठी । इतनेमें चन्द्रापीडने भी उठ कर कुसुमोंके सहित अञ्जलिपुटसे झरनेका जल लेकर सूर्यके उद्देश्यसे अर्घ दिया, बाद सन्ध्या और इष्टदेवताको नमस्कार कर कोमल लता-पल्लव-द्वारा उस द्वितीय शिलातल पर शय्या निर्माण किया (बिछौना विछाया)। उसके बाद उस
¹'हरिततासु हरितासु । ² वनराजिषु, तारवोषु; राजिपु । ³ वने प्रवृत्ते निद्रा । ⁴ उष्णं निःश्वस्य । ⁵ अवकीर्य सन्ध्यां प्रणाम । कृत****** । ⁶ क्वचिदिरुच्चिनं दृश्यते ।
कादम्बरी समागम, प्रणय विकास व पत्रलेखा संवाद
| ५१४ | कादम्बरी- | [ कथायाम्- |
|---|
च्चास्य मनसि—'एवं नामायम्^१ अप्रतीकारदारुणो दुर्विषहवेगः कष्टः कुसुमायुधः, यदने- नाभिभूता महान्तोऽप्येवमनपेक्षितकालक्रमाः समुत्सारितधैर्याः^२ सद्यो जीवितं जहति^३ सर्वथा नमो भगवते^४ त्रिभुवनाभ्यर्चितशासनाय मकरकेतनाये'ति ।
( समाप्तो महाश्वेतावृत्तान्तः )
पुनः पप्रच्छ चैनाम्—'भगवति ! सा तव^५ परिचारिका वनवासव्यसनमित्रं दुःखस- ब्रह्मचारिणी तरलिका क्व गता' इति ।
अथ साऽकथयत्—'महाभाग ! यन्मया कथितममृतसम्भवमप्सरसां कुलम्, तस्मा- न्मदिरेति नाम्ना मदिरायतेक्षणा^६ कन्यकाभूत् । तस्याश्चासौ सकलगन्धर्व-कुल-मुकुट-कुड्मल-
मायुधो मदनः एवं नाम इत्थं किल अप्रतीकारः प्रतिक्रियारहितः अत एव दारुणो भीषणः दुर्विषहो दुःखेन सोढुं शक्यो वेगो जवो यस्य सः, कष्टः क्लेशकरः । यद्, यस्मात्, अनेन कुसुमायुधेन आभिभूता आक्रान्ता महान्तोऽपि जनाः, अनपेक्षितकालक्रमा असोढकालक्षेपाः तथा समुत्सारितं कामेनेव दूरीकृतं धैर्यं येषां ते तादृशाः सन्तः, सद्यस्तत्कालं जीवितं प्राणितं जहति परित्यजन्ति । त्रिभुवनेन त्रिविष्टपवासिना लोकेन अभ्यर्चितं पूजितं शासनमादेशो यस्य तस्मै, मकरकेतनाय मदनाय नमोऽस्तु ।
( समाप्तश्चायं महाश्वेतावृत्तान्तः )
'यद्यापि प्रासङ्गिकं वृत्तं पताकेत्यभिधीयते' इति दर्परोक्तदिशा कादम्बर्या महाश्वेतावृत्तान्त एकपताकास्थानपातीत्यवधेयम् ।
अथ कादम्बरीवृत्तान्तोपक्रमः—
कादम्बरीवृत्तान्तं निरूपयितुं पुनः प्रश्नं कारयति—पुनरिति । एनां महाश्वेताम् । वनवासः अरण्यवसतिरेव व्यसनं विपत्तिः तत्र मित्रं सहायकीभूता तथा दुःखे सब्रह्मचारिणी समानतीर्थवासिनी समानक्लेशभोगिनीत्यर्थः ।
अथेति । अमृतसम्भवं पीयूषोत्पन्नम् अप्सरसां कुलमन्ववायः, यन्मया कथितं प्रागभिहितम्, तस्मात् कुलात्, मदिरा मद्यं तदुन्मादसोन्मादकत्वान्मदिरेति संज्ञा, मदिरावत् मत्तखञ्जनवत् आयते विस्तृते ईक्षणे नयने यस्याः सा । 'मदिरा (स्त्री) मत्तखञ्जनः....मद्यम्' इति शब्दकल्पद्रुमः ।
तस्या इति । अपि च, असौ ख्यातनामा, सकलस्य समग्रस्य गन्धर्वकुलस्य देवगायकवंशस्य मुकुटकुड्मलं किरीटाग्रमेव पीठं पदासनं तत्र प्रतिष्ठितौ स्थापितौ चरणौ पादौ यस्य सः, समस्तगन्धर्वराजचक्र-
शय्याके ऊपर बैठ कर वह महाश्वेताके वृत्तान्तके विषय में बारम्बार मन-ही-मन विचार करने लगा । इसके मनमें यह हुआ कि—'यथार्थमें इस क्लेशदायक कामदेवका वेग असहनीय है और प्रतीकार रहित होनेसे बड़ा भयंकर है। क्योंकि इसके आक्रमण करने पर प्रधान व्यक्ति भी कालविलम्ब सहन करनेमें समर्थ नहीं होते; उनके भी धैर्य नष्ट हो जाते हैं, तत्काल ही वे जीवनका त्याग कर देते हैं, अतएव त्रिभुवनके लोग जिसके आदेशकी पूजा करते हैं, उस भगवान् कामदेवको सब प्रकारसे नमस्कार है ।'
[ यहां महाश्वेताका वृत्तान्त समाप्त हुआ ]
फिर उस (चन्द्रापीड) ने महाश्वेतासे पूछा—'माहात्म्यशालिनि ! वनवासरूपी विपत्तिके समय की सहाय और दुःखभोगकी सहचरी आपकी वह परिचारिका तरलिका कहाँ गई ?
तदनन्तर महाश्वेता बोली—'महाभाग, मैं आपसे पहले कह चुकी हूँ कि, अमृतसे एक अप्सराओंका वंश उत्पन्न हुआ है, उस वंशमें मत्त-खञ्जनके समान नेत्रोंवाली मदिरा नामकी एक कन्या उत्पन्न हुई । समस्त गन्धर्व-
१. एवमयम् । २. समवधारितधैर्याः । ३. जहाति । ४. सकलत्रिभुवन । ५. त्वत्परि । ६. मदिरायतेक्षणा ।
कादम्बरीजन्मादिवर्णना ७९ ] चन्द्रकला-विद्योतिनीसहिता । ५६५
पीठप्रतिष्ठित-चरणो देवश्चित्ररथः पाणिमग्रहीत्। अपरिमित$^१$गुणकृष्टहृदयश्चान्यवनितादुर्लभेन$^२$ अधःकृताशेषान्तःपुरेण हेमपट्टलाञ्छनेन छत्र-वेत्र-चामर-चिह्नेन महादेवीशब्देन परं प्रीतः प्रसादमकरोत्। अन्योन्यप्रेमसंवर्द्धनपगयोश्च तयोर्यौवनसुखानि सेवमानयोः$^३$ बालेनाश्चर्य-भूतमेकजीवितमिव पित्रोः, अथवा सर्वस्यैव$^४$ गन्धर्वकुलस्य वा जीवलोकस्य, दुहितूरत्नमुदपादि कादम्बरीति नाम्ना। सा च मे$^५$जन्मतः प्रभृत्येकासन-शयन$^६$-पानाशना परं प्रेमस्थानम-खिलविश्रम्भधाम द्वितीयमिव हृदयं बालमित्रम्। एकत्र तया मया च नृत्यगीतादिकलासु$^७$ कृताः परिचयाः, शिशुजनोचिताभिश्च क्रीडाभिरनियन्त्रणनिर्भरमपनीतो बालभावः।
वर्तीत्यर्थः, देवश्चित्ररथः, तस्या मदिरायाः पाणिं हस्तम् अग्रहीत् पाणिग्रहणमकरोदित्यर्थः।
अकरोदिति। अपि च, अपरिमिला असंख्याता ये गुणा मदिरायाः सौन्दर्यविनयादयः तैः आकृष्टम् आकर्षितं हृदयं चेतो यस्य स तथोक्तश्चित्ररथः परं प्रीतः सन्, अन्यवनितादुर्लमेन अन्यस्त्रीदुष्प्रापेण, अधःकृतं न्यूनीकृतम् अशेषं समग्रम् अन्तःपुरस्यनारीजनो येन तेन, हेमपट्टः सुवर्णफलकम् उपवेशनाय तासमर्पणमित्यर्थः लाञ्छनं चिह्नं यस्य तेन, छत्रम् आतपत्रम्, वेत्रं यष्टिः चामरं बालव्यजनम्, च परि-चर्यार्थं नृत्यसहितभेतरसमर्पणमित्यर्थः, चिह्नं लाञ्छनं यस्य तेन, महादेवीशब्देन पट्टराज्ञीबोधकमहा-देवीत्युपाधिप्रदानेन प्रसादम् अनुग्रहम् अकरोत्।
अन्योन्येति। अन्योन्यं परस्परं यत् प्रेमः संवर्धनं प्रणयस्य आनुकूल्याचरणं तत्र परयोः यत्नवतोः तयोः सतोः, तयोर्मदिराचित्ररथयोः यौवनसुखानि तारुण्यानन्दाः सेवमानयोर्भुञ्जानयोः। पित्रोः मातृ-जनकयोः, अथवा सर्वस्यैव समस्तस्यैव गन्धर्वकुलस्य देवगायकवंशस्य, वा अथवा सर्वस्यैव जीवलोकस्य मनुष्यलोकस्य, एकजीवितमिव अद्वितीयं जीवनमिव अद्भुतसौन्दर्यादिसमस्तगुणनिधित्वादित्याशयः। कादम्बरी मद्यम्, सौन्दर्येण तद्वच्चित्तोन्मादकत्वात् कादम्बरीति नाम। 'गन्धोत्तमा प्रसन्नेराकादम्बर्यः परिस्रुता। मदिरा कश्यमद्येऽपि' इत्यमरः। क्रियोत्प्रेक्षा।
सेति। जन्मतः प्रभृति उत्पत्तिदिनादारभ्य एकम् अभिन्नस्थानोपन्नम् आसनम् उपवेशनम्, शय-नम्, पानम् अशनं भोजनञ्च यस्याः सा, परं प्रेमस्थानं नितान्तप्रणयपात्रम्, अखिलविश्रम्भधाम निखि-लविश्वासभाजनं द्वितीयम् अपरं हृदयं स्वान्तमिव बालमित्रं शैशवसुहृद्। द्रव्योत्प्रेक्षा।
एकत्रेति। परिचया अभ्यासाः। शिशुजनोचिताभिः बालजनयोग्याभिः क्रीडाभिः खेलाभिः, निय-न्त्रणस्य बाधाया अभावः अनियन्त्रणं तस्य निर्भरः आधिक्यं यस्मिन् कर्मणि तद्यथा स्यात्तथा नितान्त-बाधारहितमित्यर्थः। बालभावः शैशवम्, अपनीतः अतिक्रान्तः।
घुटने मुकुटाग्ररूपी पाद-पीठ पर चरणयुगल रखनेवाले सुप्रसिद्ध देव चित्ररथने उससे पाणिग्रहण (विवाह) कर लिया और उस (मदिरा) के अनन्त गुण-गणसे आकृष्ट-चित्त होकर महाराजने उसको, अन्य स्त्रियोंको दुर्लभ सब अन्तःपुरमें उच्चता दिखानेवाला हेमपट्ट (बैठनेके लिए सुवर्णफलक) से चिह्नित और छत्र, वेत्र, चामर-रूपी चिह्न प्राप्त करनेवाले भृत्योंसे युक्त, 'महादेवी' की उपाधि (पद) को परम-प्रीतिपूर्वक देकर अनुग्रह किया। अब उन दोनोंमें परस्पर प्रेम बढ़ रहा था और वे यौवनका समस्त सुख भोग करने लगे तब कुछ कालमें उनको, माता-पिताके अथवा समस्त गन्धर्वकुलके किंवा समस्त जीव-लोकके ही मानो एकमात्र जीवनके समान, आश्चर्य करनेवाला एक कादम्बरी नामका कन्या-रत्न उत्पन्न हुआ। वह और मैं जन्मकालसे ही एक साथ बैठती, एक साथ शयन करती (सोती), एक साथ ही पान और भोजन करती थीं, इससे उसके साथ मेरा अत्यन्त प्रेम हो गया, वह मेरा पूर्ण विश्वासपात्र हुई और द्वितीय हृदयके समान वह मेरी बाल्यावस्थासे ही सखी हुई। हम दोनोंने नृत्य-गीतादि कलाविद्याओं का साथ ही अभ्यास किया और बालोचित नानाविध क्रीड़ा करते करते हमारा अबोध बाल्यकाल पूर्ण स्वतन्त्रतामें आनन्दसे बीता। बाद उसने मेरे शोक-वृत्तान्तको सुन कर, उसपर शोकसे
१. क्वचिद् 'अपरिमित' इति पाठो नोपलभ्यते।
२. वनितादुर्लभेन।
३. अनुमन्तोः।
४. सकलस्यैव।
५. जन्मनः, माजन्मनः।
६. क्वचिद् 'शयन' इति पदं नास्ति।
७. गीतनृत्यकलासु गोतनृत्यादिकासु कलासु।
| ५१६ | कादम्बरी- | [ कथायाम्- |
|---|
सा चामुमैव मदीयेन हतवृत्तान्तेन समुपजातशोका निश्चयमार्काषीत्—‘नाहं कथञ्चिदपि सशोकायां महाश्वेतायामात्मनः पाणिं ग्राहयिष्यामि’ इति। सखीजनस्य पुरतः सशपथमभिहितवती च—‘यदि कथमपि मामनिच्छन्तीमपि बलात्तातः कदाचित् कस्मैचिद्दातुमिच्छति^२, ^३तदाहमनशनेन वा हुताशनेन वा रज्ज्वा वा विषेण वा नियतमात्मानमुत्स्रक्ष्यामि’ इति। सर्वञ्च तदात्मदुहितुः कृतनिश्चयं ^४निश्चलभाषितं कर्णपरम्परया परिजनसकाशाद्गन्धर्वराजश्चित्ररथः स्वयमशृणोत्। ^५गच्छति काले समुपारूढनिर्भरयौवनामालोक्य सुतां^६ बलवदुपता^७पपरवशः क्षणमपि न ^८धृतिमलभत। एकापत्यतया चातिप्रियतया च न ^९शक्तः किञ्चिदपि तामभिधातुम्। अपश्यंश्चान्यदुपयान्तरम्, इदमत्र प्राप्तकालमिति मत्वा, तया महादेव्या मदिरया सहावधार्य क्षीरोदनामानं ^१०कञ्चुकिनं ‘वत्से ! महाश्वेते ! ^११त्वद्व्यतिकरेणैव दग्धहृदयानामिदमपरमस्माकमुपस्थितम्, ^१२इदानीन्तु ^१३कादम्बरीमनुनेतुं त्वं शरणम्’ इति
सेति। हतवृत्तान्तेन दुष्टोदन्तेन, समुपजातशोका समुत्पन्नशोका। कथञ्चिदपि केनचित्प्रकारेणापि। आत्मनः स्वस्य पाणिं नाहं ग्राहयिष्यामि, महाश्वेतायाः शोकनिवृत्तौ तद्विवाहं करिष्यामीत्याशयः। अनिच्छन्तीमपि अनभिलषन्तीमपि। दातुमिच्छति दित्सति। अनशनेन भोजनपरित्यागेन, हुताशनेन तत्र प्रवेशेन, रज्ज्वा उद्बन्धनेन, विषेण विषमक्षणेन वा, नियतं निश्चितम् आत्मानं निजशरीरम्, उत्स्रक्ष्यामि परित्यक्ष्यामि।
सर्वमिति। आत्मदुहितुः निजसुतायाः। निश्चलभाषितं शपथवचनम्, कर्णपरम्परया श्रोत्रप्रणालिकया। सुतां पुत्रीं कादम्बरीम्, समुपारूढं समुत्पन्नं निर्भरम् अतिशायि यौवनं तारुण्यं यस्याः ताम्, बलवतो महतः उपतापस्य सन्तापस्य परवशः अधीनः। धृतिं धैर्यम् न अलभत न प्राप्तवान्। एकापत्यतया एकसन्ततितया, न शक्तः समर्थः।
अपश्यन्निति। अन्यदुपयान्तरम् अन्यप्रकारमुपायमित्यर्थः, अतएव नार्थगतपुनरुक्ततादोष इत्यर्थः। प्राप्तकालम् उचितसमयम्। अवधार्य विमर्शन निश्चीय। कञ्चकिनमिति प्रेषितवानित्युत्तरक्रियायाः कर्म। त्वद्व्यतिकरेणैव तवोदन्तेनैव दग्धं शोकानलेन ज्वलितं हृदयं मनो येषां तेषाम्, अस्माकम्, इदमपरं क्लेशदम् उपस्थितं प्राप्तम्, कादम्बर्या निजपाणिग्रहणे अननुमद्युत्पादितमित्याशयः। अनुनेतुम् अनुनयेन पाणिग्रहणे सम्मतिं विधातुं त्वमेव शरणम् अस्माकमवलम्बनम्, त्वदर्थमेवैवंविधशपथविधानात् त्वद्वाक्याधीनत्वाच्चेत्याशयः।
विह्वल हो, निश्चय किया कि—'महाश्वेताके शोकातुर रहने पर मैं किसी प्रकारसे भी अपना पाणिग्रहण (विवाह) नहीं करूंगी'। और सखियोंके समक्ष उसने शपथ-पूर्वक कहा कि—'मेरी इच्छा न रहने पर भी पिता यदि बलपूर्वक किसी समय किसीके भी हाथमें मुझे देना चाहेंगे तो मैं अनशन अथवा अग्निप्रवेश किंवा उद्बन्धन (फांसी लगा) अथवा विषभक्षण कर निश्चय ही प्राण-त्याग कर दूंगी। अपनी पुत्रीके किए हुए इस निश्चय और शपथ-वचनको किसी परिजनके द्वारा स्वयं गन्धर्वराज चित्ररथने कर्ण-परम्परासे श्रवण किया। फिर कुछ समय व्यतीत होने पर उस (कादम्बरी) का पूर्ण यौवनकाल उपस्थित देखकर उनको अत्यधिक सन्ताप हुआ, और क्षण भरके लिए भी धैर्य नहीं मिला। केवल एक ही सन्तानके और उस पर अत्यधिक स्नेह होनेके कारण वे उससे कुछ भी कहनेके लिए समर्थ न हुए। दूसरे किसी उपायको नहीं देख कर 'इस समय यही उचित है' इस प्रकार मनमें मानकर उस महादेवी मदिराके साथ आलोचनापूर्वक स्थिर कर, आज ही प्रातःकाल मेरे समीप 'क्षीरोद' नामक कञ्चुकीको यह सन्देश कह कर भेजा कि—'पुत्री महाश्वेते ! केवल तुम्हारे वृत्तान्तसे ही शोकानलमें हृदय दग्ध हो गया है; उस पर एक और दुःख उपस्थित हो गया है, इस लिए इस समय कादम्बरीको अनुनय वचनोंसे
१. समुत्पन्न····।
२. इच्छेत्।
३. ततः।
४. कृतनिश्चलभाषितम्, कृतनिश्चयनिश्चलभाषितन्।
५. इह 'अतिप्रेमतया' इत्यधिकः पाठः कचिदुपलभ्यते।
६. स तां।
७. बलवद्द्दूयमानः।
८. सन्तप्तापेन बलवद्द्दूयत न क्षणमपि धृतिमलभत।
९. शक्नोति।
१०. क्वचित् 'ब्रूहि गत्वा वधः' इत्याधिकः पाठः।
११. तद्व्यतिरेकेणैव।
१२. क्वचित् 'तु' पदं न विद्यते।
१३. कादम्बरीव्यतिकरे।
चन्द्रोदयवर्णना ८० ] चन्द्रकला-विद्योतिनीसहिता । [ ५१७
सन्दिश्य मत्समीपमद्यैव प्रेषितवान् । ततो मया गुरुवचनगौरवेण सखीप्रेम्णा च क्षीरोदेन सार्द्धं सा तरलिका—'सखि ! कादम्बरि ! किं दुःखितमपि जनमतिशयं दुःखयसि । जीवन्तीमिच्छसि चेन्मां तत्कुरु गुरुवचनमवितथम्' इति सन्दिश्य विसर्जिता । नातिचिरं गतायाञ्च तस्यामनन्तरमेवेमां भूमिमनुप्राप्तो महाभागः' इत्यभिधाय तूष्णीमभवत् ।
अत्रान्तरे लाञ्छनच्छलेन विडम्बयन्निव शोकानलदग्धमध्यं महाश्वेताहृदयम्, उद्वहन्निव मुनिकुमारवधमहापातकम्, दर्शयन्निव चिरकाललग्नं दक्षशापानलदाहचिह्नम्, अविरलभस्माङ्गरागधवलः कृष्णमृगाजिन-प्रावृताद्ध वामस्तन इवाम्बिकायाः, धूर्जटिजटामण्डल-
तत इति । गुरुवचनगौरवेण पूज्यवाक्यानुल्लङ्घ्यतया । सा तरलिका 'विसर्जिता' इत्युत्तरेण सम्बन्धः । दुःखितमपि पीडितमपि जनं मामित्यर्थः, अतितराम् अतिशयेन दुःखयसि पीडयसि निजपाणिग्रहणे शपथपूर्वकासम्मत्येत्याशयः। तत्तदा, गुरुवचनं पितुराज्ञावाक्यम् अवितथं कुरु निजपाणिग्रहणेऽनुमति-दानेन सत्यं विधेहि, अन्यथाऽहं प्राणत्यागं करिष्यामीत्याशयः। 'तत्' इत्यस्य स्थाने 'तदा' इत्येव पाठो विधेयः, अन्यथावाचकत्वदोषस्य वारयितुमशक्यत्वात् ।
नातीति । तस्यां तरलिकायां नातिचिरं नातिपूर्वं गतायां प्रस्थितायां महाभागो भवान् इमां भूमि स्थानमिमम् अनुप्राप्तः अन्वागतः ।
अत्रेति । अत्रान्तरे अस्मिन् समये । धूरिव जटास्येति धूम्रारिभूता जटा यस्य वेति धूर्जटिः महेश्वरः तस्य जटामण्डलशूपायाः चूडायाः मणिः रत्नम् । अनेनास्य महाम्यवत्त्वं द्योतितम् । भगवान् तारका-राजश्चन्द्रः, लाञ्छनच्छलेन क्रोडस्थमृगाङ्ककपट्रेन, शोकानलेन शुग्वह्निना दग्धं ज्वलितं मध्यम् अभ्यन्तरं यस्य तत्तथोक्तं महाश्वेताया। हृदयं मानसं विडम्बयन्निव अनुकुर्वन्निव, लाञ्छनच्छलेन मुनिकुमारस्य पुण्डरीकस्य वधः कामसाहाय्येन हत्यैव महापातकं महापापं तत् उद्वहन्निव हृदये धारयन्निव, महापात-कस्य मालिन्येन वर्णना कविसमयप्रसिद्ध्या बोध्यम् । तथा च दर्पणे—'मालिन्यं व्योम्नि पापे' इति । तथा लाञ्छनच्छलेन चिरकाललग्नं दक्षशापानलेन दक्षप्रजापत्यभिसम्पातवह्निना यो दाहः तस्य चिह्नं लाञ्छनं दर्शयन्निव प्रकटयन्निव जनानीति शेषः, अविरलेन सान्द्रेण भस्मना विभूत्यैवाङ्गरागेण धवलः श्वेतः तथा कृष्णमृगस्य कृष्णसारस्य अजिनेन चर्मणा प्रावृतम् आच्छादितम् अर्द्धं यस्य स तथोक्तः । चन्द्रस्यैकभागे धवलत्वात् अन्यभागे च कलङ्कमालिन्यात् तत्सादृश्यनिरूपणायेदं विशेषणद्वयोपादान-मित्यवधेयम् । अम्बिकायाः पार्वत्याः वामस्तन इव दक्षिणेतरकुच इव उदगात् उदितवान् । अर्धनारी-श्वरसमयेऽम्बिकाया वामेतरस्तनस्य महेश्वरशरीरान्तर्भावेनानवलोकनात् । 'वामस्तन' इति स्वरूपमात्र-मभिहितम् ।
इहाद्यस्तिस्रः सापह्नवाः क्रियोत्प्रेक्षाः अनन्तरा च श्रौतोपमा इत्यासां परस्परं नैरपेक्ष्येण संसृष्टिः । पद्मपुराणीयोऽयमितिहासः—'पुरा किल चन्द्रः दक्षप्रजापतेः अश्विन्द्यादिसप्तविंशतिकन्यका विधिनोपयम्य तासु रोहिण्यामेव नितरामासक्तो बभूव । ततः पितरं समेत्योचुस्ताः स्वस्वावहेलनाम् , अनन्तरं तासा-
अनुकूल करनेमें एकमात्र तुम ही हम लोगों का आश्रय हो ।' इस पर मैंने गुरुजनके आदेशके प्रति गौरव और सखी के प्रति प्रेमके कारण क्षीरोदके साथ तरलिकाको भेजा है, और यह सन्देश भेजा कि—'सखि, कादम्बरी ! तू दुःखिनी व्यक्तिको और भी दुःखिनी क्यों करती हो ? तू यदि मुझे जीवित देखनेकी अभिलाषा करती हो तो माता-पिताका वचन सत्य करो।' उसके जानेके थोड़ी देर पीछे ही आप इस स्थानमें उपस्थित हुए हैं। इतना कह कर वह चुप हो गई ।
इस बीचमें कलङ्कके ब्याज (बहाने) से मानो शोकानलसे दग्ध (जले) हुए मध्यवाले महाश्वेताके हृदयका अनुकरण करता, मुनिकुमारकी हत्याके महापातकको ही मानो धारण करता, चिरकालसे संलंग्न दक्ष मुनिके शापाग्निके दाहका चिह्न हो मानो दिखाता [ चन्द्रमाने अश्विनी-प्रभृति २७ दक्षकी पुत्रियोंसे परिणय किया था, किन्तु वह विशेषतः रोहिणीमें ही अनुरक्त रहा। जब दक्षको यह समाचार मिला तब उसने उसे (चन्द्रको) शाप दिया कि—'तू यक्ष्मारोगसे अभिभूत हो जाओगे'] एवं अधिक भस्म लगानेसे शुभ्रवर्ण हुए और कृष्णसार (मृग) के चर्मसे अर्ध-आच्छादित (आधे ढके) पार्वतीके वाम-स्तनके समान शोभायमान होता, महादेवके जटा-मण्डलके
१. इह 'तदनुगतार्थ' इत्यधिकः पाठः क्वचिदुपलभ्यते ।
२. क्वचित् 'अद्यैव' इति पाठो नास्ति ।
३. प्रत्युपसि ।
४. अतः ।
५. तस्मिन्नन्तरे ।
६. क्वचित् 'कृष्ण' इति पदं न विद्यते ।
५१८ = कादम्बरी- [ कथायाम्-
चूडामणिर्भगवातुदगात्तारकाराजः।
क्रमेण चोद्गते गगनमहापयोधिपुलिने सर्वलोकनिद्रामङ्गलकलसे कुमुदबान्धवे विघटितकुमुदवने धवलितदशदिशि शङ्खश्वेते श्वेतातपत्रायमाणे मानिनीमानशत्रौ शुचिशोचिषि शशाङ्कमण्डले, शशिकरकलापकलितासु व्रजन्तीषु कृशिमानमौडुवीषु प्रभासु, प्रस्रवत्सु, च कैलासशशिमणिशिलानां सर्वतः स्रोतःस्राविषु प्रस्रवणेषु मृणालकन्दलिनि चार्वास्कन्दपतित-चन्द्रकर इव विलुप्तकमलवनशोभे भात्यच्छोदसरःपयसि, "समुपोढमोहनिद्रे च द्राघीयोमनुरोधात् दक्षेण निखिलास्वेव तुल्यरागो भवत्विति योजितोऽपि चन्द्रस्तथा विधातुं नाचेष्टत। तथैव तमवलोक्य दक्षः 'त्वं यक्ष्मरोगो भव' इति शशाप' इति।
क्रमेणेति। किञ्च, गगनम् आकाश एव महापयोधिः अपरिमितनिर्मलनीलत्वसादृश्यात् समुद्रः तस्य पुलिनं श्वेतत्वसादृश्यात्तोयोत्थितवालुकामयभूमिः तस्मिन्, सप्तानां लोकानां भूप्रभृतीनां निद्रा-निमित्तं मङ्गलकलसो निद्रामङ्गलकलसः तत्स्वरूपे, निद्राकालीनावस्थानात् श्वेतत्वाद् गोलाकारत्वाच्चे-त्याशयः। कुमुदानां कैरवाणां बान्धवे प्रस्फुटनकरणाद्बन्धुभूते। विघटितं प्रस्फुटितं कुमुदवनं कैरवा-रण्यं येन तस्मिन्। धवलिता चन्द्रिकया श्वेतीकृता दश दिशो येन तस्मिन्, शङ्खवत् श्वेते धवले। श्वेतातपत्रवदाचरतीति श्वेतातपत्रायमाणं तस्मिन्। मानिनीनां सुन्दरीणां मानशत्रौ नितान्तोद्दीपक-त्वान्मानभङ्गविधायिनि। तथा शुचीनि श्वेतानि शोचींषि कान्तयो यस्य तस्मिन्, एवंविधे शशाङ्कमण्डले चन्द्रबिम्बे, क्रमेण उद्गते ऊर्ध्वमुत्थिते सति।
इह 'परम्परितरूपकम्, निरङ्गं केवलरूपकम्, लुप्तोपमा, व्यङ्गतोपमा, च्छेकानुप्रासः' इति तथा-क्रममलङ्कारा बोध्याः। तथा 'कुमुदबान्धव' इत्यत्र 'विघटितकुमुदवन' इत्यत्र च कुमुदशब्दस्योपादा-नात् पुनरुक्ततादोषः समापतति तद्वारगाय' 'विघटितडून' इति पाठो विधेयः।
शशीति। शशिकरैश्चन्द्ररश्मिभिः कलितासु आवृतासु, उडूनां तारकाणामिमा इत्यौडुव्यस्तासु प्रभासु दीप्तिषु, कृशस्य अल्पस्य भावः कृशिमा तं तादृशम्, पृथ्वादिभ्योऽणिमनिच्। व्रजन्तीषु प्राप्नुवन्तीषु सतीषु।
इह कृशत्वप्राप्तिं प्रति चन्द्ररश्मिनाच्छादितत्वं निमित्तमिति पदार्थहेतुकं काव्यलिङ्गम्।
प्रस्रवंति। किञ्च, सर्वतश्चतुर्दिक्षु स्रोतांसि स्रावयन्ति चन्द्ररश्मिसम्पर्केण निष्कासयन्तीति तेषु, कैलासस्य रजताद्रेः शशिमणिशिलानां चन्द्रकान्तमणीनां प्रस्रवणेषु निर्झरेषु, प्रस्रवत्सु क्षरत्सु सत्सु। वृत्त्यनुप्रासः। तथा... 'प्रस्रवत्सु' इत्यस्यार्थगतपुनरुक्तदोषवारणाय परित्याग एव साधीयान्; ...'प्रस्रवणेषु सर्वतः स्राविषु' इत्यनेनैव गतार्थत्वात्।
मृणालेति। अपि च, मृणालानां बिसानां कन्दलानि अभिनवप्ररोहा अस्य सन्तीति तस्मिन्, अवस्कन्दाय पङ्कजानामेवाक्रमणाय पतितः चन्द्रस्य करो रश्मिः पाणिश्च यत्र तस्मिन् तयोक्त इव, अत-एव विलुप्ता सङ्कोचाद्विनाशमुपगता कमलवनशोभा पङ्कजारण्यश्रीः यस्य तस्मिन्, अच्छोदसरसः अच्छो-दाभिधानसरोवरस्य पयसि जले, भाति राजति सति। इहाक्रमणाय चन्द्ररश्मिपतननोत्प्रेक्षणात्क्रियो-त्प्रेक्षा। 'कन्दलस्तु कपाले स्यादुपरागे नवाङ्कुरे' इति विश्वः।
समुपोढेति। अपि च, विरहिणि वियोगिनि रात्र्यागमे चक्रवाकदम्पत्योर्वियोगस्य प्राकृतिकत्वा-
चूड़ामणि और माहात्म्यशाली चन्द्रमाका उदय हुआ।
क्रमशः जब आकाश-रूपी महासमुद्रका पुलिनस्वरूप, भू-प्रभृति सप्तलोकका माङ्गलिक निद्रा-कलसस्वरूप, कुमुद-बान्धव, कुमुद-वनको प्रस्फुटित करनेवाला, दशों दिशाओंको शुभ्रवर्ण करनेवाला, शङ्खके समान शुभ्रवर्ण और मानिनियोंका मान-भङ्ग करने (उतारने), वाला, श्वेतच्छत्रके समान शोभित, शुभ्रकिरण चन्द्रमण्डल उदय होता गया; चन्द्रकिरणोंसे आच्छादित (ढँक जाने) के कारण नक्षत्रोंका आलोक (तारोंकी प्रभा) जब क्षीण होता गया; कैलासपर्वतस्थ स्रोतों निःसारणकारी चन्द्रकान्त-मणिकी शिलाओंके झरनोंमेंसे सब दिशाओंमें जलकी धारा बहने लगी; अभिनव मृणालके अङ्कुरसे भरे अच्छोदसरोवरके जलमें कमलोंकी शोभा विलुप्त हो जानेसे चन्द्रमाकी किरणें मानो आक्रमण करनेके लिए ही जल पर गिरी हुई दीखने लगीं; रात्रि उपस्थित हो जानेके
१. समस्त।
२. श्वेतिमानमातन्वति, शङ्खश्वेतायमाने।
३. ०मानदस्यौ।
४. क्वचित् 'शुचिशोचिषि' इति पदं नोपलभ्यते।
५. शशाङ्के।
६. क्वचिदिह 'कलाप' इति पदन्नास्ति।
७. कवलितासु।
८. 'आनम्रतासु।
९. अवश्याय।
१०. इह 'पवनवशाद' इत्यधिकः पाठः क्वचिदुपलभ्यते।