कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
कादम्बरीप्रत्युत्तरवर्णना ८३ ] चन्द्रकला-विद्योतिनीसहिता । ५२३
इव सहृदयः कनीयस्यवसानविरसे कर्मणीदृशे मतिमुपसर्पयेत् ? किमुतातिदुःखामिहतहृदयोऽस्मद्विधो जनः । सुहृद्दुःखखेदिते हि मनसि कैव सुखाशा ? कैव निर्वृतिः ? कीदृशाः सम्भोगाः ? कानि वा हसितानि ? । येनेदृशीं दशामुपनीता प्रियसखी कथमतिदारुणं तमहं विषमिवाप्रियकारिणं कामं सकामं कुर्याम् ? दिवसकरास्तमयेविधुरासु नलिनीषु सहवासपरिचयाच्चक्रवाकयुवतिरिव ^२पतिसमागमसुखानि परित्यजति^३, किमुत नार्यः। अपि च^४ यत्र भर्त्तृविरहविधुरा परिहृतपरपुरुषदर्शना दिवानिशं निवसति प्रियसखी, कथमिव तन्मम हृदयमपरः प्रविशेज्जनः ? । यत्र च भर्त्तृ विरहविधुरा तीव्र^५व्रतकर्शिताङ्गी प्रियसखी, महत्कृच्छ्रमनुभवति, तत्राहमविगणय्यैतद् कथमात्मसुखार्थिनी पाणिं ग्राहयिष्यामि ? कथं वा मम
कैयेव केयत आह—सुनेति । अतिदुःखामिहतहृदयो नितान्तवलेशाभिहतचित्तः अस्मद्विधो जनः किमुत कथ्यते, भवत्या असह्यक्लेशजनितातिकिलेशेनैव मे हृदयमभिहतमित्याशयः ।
ननु सत्यपि परिणामक्लेशदायिनि पाणिग्रहणे कर्मणि सुखादिकमप्यवलोक्यत इत्यत आह— सुहृदिनि । सुहृद्दुःखखेदिते बन्धुजनजनितक्लेशभाराक्रान्ते । निर्वृतिः शान्तिः। दुःखखेदिते हि मनसि सुखादीनां प्रवेशावसर एव न विद्यत इत्याशयः ।
अर्थैवमपि नारुण्यकामः सर्वप्रकारेणैव सकामो विधातव्य इत्यत आह—येनेति । येन कामेन प्रियसखी त्वम् ईदृशीम् एवंविधां दशाम् अत्यन्तकठिनशोकातूरावस्थाम् उपनीता प्रापिता, विषमिव गरलमिव अप्रियकारिणम् अनिष्टविधायिनम् अतिदारुणम् अत्यन्तभीषणं तं कामं कथं केन प्रकारेण सकामं स्वामिसङ्गमेन पूर्णमनोरथं कुर्यां विधातुं शक्नुयाम् , अपि तु कथमपि न, भवत्याः प्रबलवैरित्वेन ममापि वैरत्वादित्याशयः । तथा च नलिनीषु कमलिनीषु दिवसकरस्य रवेः अस्तमयेन पद्मोपान्तरगमनेन विधुरासु क्लिष्टासु सतीषु, सहवासपरिचयात् एकसरोवरवासस्नेहात् चक्रवाकयुवतिरपि रथाङ्गवनितापि पतिसमागमसुखानि स्वामिसङ्गमसौख्यानि परित्यजति जहाति, यत्र तिर्यग्जातिरपीदृशमनुतिष्ठति तत्र किमुत नार्य इत्यर्थः, अतएव त्वयि भर्त्तृवियोगदुःखितायां सत्यां मयापि स्वामिसङ्गमसौख्यं परित्याज्यमेवेत्यभिप्रायः । दृष्टान्तः ।
अपि चेति । यत्र हृदये । परिहृतपरपुरुषदर्शना परित्यक्तस्यान्यपुरुषवीक्षणा । प्रियसखी त्वमित्यर्थः, निवसति अधितिष्ठति निरन्तरचिन्तावशादित्याशयः । अपरो जनः स्वामीत्यर्थः, कथं प्रविशेत् प्रवेशं कुर्यात् कथमपि नेत्यभिप्रायः, तन्नयाया भवत्याः परपुरुषावलोकनाशङ्कया मयेव निवारणादिति तात्पर्यम् ।
यत्रेति । यत्र यदा । तीव्रव्रतेन उग्रनियमेन कर्षितानि शोषितानि अङ्गानि शरीराणि यया सा, प्रियसखी त्वमित्यर्थः । तत्र तदा । एनत्तत्र कृच्छ्रम् अविगणय्य अवहेल्य, आत्मसुखार्थिनी निजसौख्याभिलाषिणी सती, कथं पाणिं करं ग्राहयिष्यामि कथमपि नेत्यर्थः, सहृत्सुखदुःखयोः सहयोवैपरीत्यप्रसक्तेरित्याशयः । कथं वा सुखं सौख्यं भविष्यति कथमपि नेति भावः, क्लेशपूर्णहृदयत्वादिति तात्पर्यम् ।
दुःखित चित्त लोगों-की तो बात ही क्या है? और जो चित्त, सर्वदा ही मित्रके दुःखसे दुःखित है, उसको सुखकी आशा कैसी? वा शान्ति ही कैसी? अथवा सम्भोग ही कैसा? एवं हास-परिहास ही कैसा? विशेषतः, जिसने मेरी प्रियसखीकी ऐसी दशा ला दी है उस अतिदारुण और विषके समान अप्रियकारी—कन्दर्पकी अभिलाषाको क्या मैं पूर्ण करनेमें समर्थ होऊँगी? देखो—सूर्यके अस्त हो जानेसे कमलिनी जब उसके विरहमें विह्वल हो जाती है, तब उसके साथ एक जगह वास करनेके स्नेहसे युवती चक्रवाकपक्षिणी भी पतिके साथ सम्मिलन सुखका परित्याग करती है, ऐसी स्त्रियोंकी तो कहना ही क्या है? विशेषतः, भर्त्तृविरहसे व्याकुल होकर पर-पुरुषका दर्शन पर्यन्त परित्याग करके जो प्रियसखी मेरे हृदयमें रात दिन वास करती है, उस मेरे हृदयमें अन्य पुरुष किस प्रकार प्रवेश कर सकता है? और तुम प्रियसखी जब स्वामीके विरहसे विह्वल होकर गुरुतर व्रतालम्बनेन शरीरका शोषण करती गुरुतर कष्टका अनुभव करती हो, तब मैं इन सबोंको न गिनकर अपने ही सुखाभिलाषिणी होकर पाणि-ग्रहण कराऊँगी, उससे मुझे कैसे सुख मिलेगा? तुम्हारे प्रेमके कारण ही मैंने
१. अस्तमन । २. क्वचिद् ‘पति’ इति पदं नावलोक्यते । ३. त्यजति । ४. क्वचित् ‘अपि च’ इति पदं नास्ति । ५. क्वचित् ‘तीव्र’ पदं न दृश्यते ।
५२४ | कादम्बरी- | [ कन्यायाम्-
सुखं भविष्यति १। त्वत्प्रेम्णा चास्मिन् वस्तुनि मया^१ कुमारिकाजनविरुद्धं स्वातन्त्र्यमालम्ब्या- ङ्गीकृतमयशः, समवधीरतो विनयः, गुरुवचनमतिक्रान्तम्, न गणितो लोकापवादः, वनिताजनस्य सहजमाभरणमुत्सृष्टा लज्जा, स कथय कथमिव पुनरत्र प्रवर्त्तते ? तदयम- ञ्जलिरुपरचितः, प्रणामोऽयम् , इदञ्च पादग्रहणम् , अनुगृहाण माम् , वनमितो गतासि मे जीवितेन सहेति मा कृथाः स्वप्नेऽपि पुनरिममर्थं मनसि' इत्यभिधाय तूष्णीमभूत् ।
महाश्वेता तु तच्छ्रुत्वा सुचिरं विचार्य 'गच्छ, स्वयमेवाहमागत्य यथार्हमाचरिष्यामि' इत्युक्त्वा केयूरकं प्राहिणोत् । गते च केयूरके चन्द्रापीडमुवाच—'राजपुत्र ! रमणीयो हेमकूटः, चित्रा च चित्ररथराजधानी, बहुकुतूहलः किम्पुरुषविषयः, पेशलो गन्धर्वलोकः, सरलहृदया महानुभावा च कादम्बरी, यदि नातिखेदकरमिव गमनं कलयसि, नावसीदति वा गुरुप्रयोजनम् , अदृष्टचरविषयकुतूहलि वा चेतः, सद्द्वचनमनुरुध्यते^३ वा भवान् सुखदायि^४
त्वदिति । त्वत्प्रेम्णा त्वत्स्नेहेन, अस्मिन् वस्तुनि पाणिग्रहणविषये । स्वातन्त्र्यं स्वेच्छाचारित्वम् अवलम्ब्य आश्रित्य अयशोऽकीर्तिः अङ्गीकृतम् स्वीकृतम् । विनयः उपदेशगुणः समवधीरिताः अवज्ञाताः, गुरुवचनं पितृवाक्यम् अतिक्रान्तम् उल्लङ्घितम् , तथा लोकापवादो जनापवादो न गणितो न विचारितः । सहजमाभरणं स्वाभाविकभूषणरूपा लज्जा त्रपा समुत्सृष्टा परित्यक्ता । सा कादम्बरी । अत्र पाणिग्रहणे । सङ्कीर्णतादोषनिवारणाय 'कथये' त्यस्य पृथक् पाठो विधातव्यः ।
तदिति । तत्तस्मात् कारणात् । उपरचितो निबद्धः । पादग्रहणम् अभिवादनम् । इति हेतोः । स्वप्नेऽपि मनसि इममर्थं मत्पाणिग्रहणशिक्षारूपं विषयं पुनर्भूयो मा कृथाः न विदध्याः । तूष्णीमभूत् केयूरक इति शेषः ।
महेति । तच्छ्रुत्वा पूर्वोक्तमाकर्ण्य । विचार्य विमृश्य । आगत्य गत्वा यथार्हं यथायोग्यम् आचरिष्यामि करिष्यामि । प्राहिणोत् प्रेषितवती । आहपूर्वों गम्धातुरिह गमनायैऽवाचक इत्यवाचकत्व- दोषवारणाय 'गत्वा' इत्येव पाठो विधेयः !
गत इति । रमणीयो मनोहरः । चित्रा विविधाश्चर्ययुक्ता । किंपुरुषविषयः किन्नरदेशः, बहूनि नाना- विधानि कुतूहलानि कौतुकोद्दीपकवस्तूनि यत्र सः । पेशलः सुन्दरः, 'धारौ दक्षे च पेशलः' इत्यमरः । सरलहृदया अकुटिलचित्ता, यदि चेत् गमनम् अतिखेदकरमिव अधिकायासजनकमिव न कलयसि नाव- बुध्यसे, गुरुप्रयोजनम् आवश्यकं कार्यं नावसीदति न व्याहतं भवति । अदृष्टो भूतपूर्वं इत्यदृष्टचरः भूत- पूर्वेऽर्थे अदृष्टशब्दाच्चरट्प्रत्ययः । अदृष्टचरः अनिर्णीक्षितपूर्वो यो विषयो देशस्तस्मिन् तन्निरीक्षण इत्यर्थः कुतूहलं कौतुकमस्यास्तीति तत् तादृशम् । अनुरुध्यते रचितुमभिलषति, दैवादिकोऽनुपूर्वी रुधधातुरभिला-
इस विषयमें कुमारियोंके विरुद्ध स्वाधीनताका अवलम्बन कर निन्दा स्वीकार किया; विनयकी अवहेलना की, गुरु-वचनोंका उल्लङ्घन किया, लोकापवाद की गणना नहीं किया, और-स्त्रियोंके सहज भूषण लज्जा का भी परित्याग कर दिया, इसलिए कहो कि—'वह कादम्बरी किस प्रकार ऐसे विषयमें प्रवृत्त हो' ? अतएव मैं यह हाथ जोड़ती हूँ, प्रणाम करती हूँ, पाँव पकड़ती हूँ कि तुम मुझ पर अनुग्रह करो; तुम इस स्थानसे मेरे जीवनके साथ ही वनमें चली गई हो, इसलिए स्वप्नमें भी इस विषयको फिर मनमें मत लाना' इतना कहकर केयूरक चुप हो गया ।
किन्तु महाश्वेताने उसका सन्देश सुनकर बहुत देर तक विचार कर कहा—'तुम जाओ, मैं स्वयं ही वहाँ आकर जैसा उपयुक्त होगा करूँगी'—यों कहकर केयूरकको विदा कर दिया । उसके चले जाने पर वह (महाश्वेता) चन्द्रापीडसे कहने लगी—'राजपुत्र ! हेमकूट पर्वत अत्यन्त मनोहर है, गन्धर्वराज चित्ररथकी राजधानी बहुत ही आश्चर्य है, किन्नुरुप देशमें भी बहुत कौतूहलोद्दीपक वस्तुएँ हैं, गन्धर्वलोक भी बहुत सुन्दर है और कादम्बरी भी सरलहृदया और अत्यन्त उदारप्रकृति है, इसलिए यदि आप वहाँ चलनेमें अत्यन्त परिश्रमकी विवेचना न करें, अथवा किसी गुरुतर कार्यकी हानि नहीं होनी हो, या पहले जो देश नहीं देखे हैं उसे देखनेके लिए आपके मनमें कौतूहल हो, या यदि मेरे अनुरोध की रक्षा करनेकी अभिलाषा करते हों, अथवा किसी आश्चर्य-वस्तुका
१. क्वचित् 'मया' इति पदं नोपलभ्यते । २. अपयशः । ३. अस्मद्वचनम् । ४. भवन्मतिरतिसुखदायि, भवन्मतिः सुखदायि ।
चन्द्रापीडं प्रति महाश्वेतालाप० ८४ ] चन्द्रकला-विद्योतिनीसहिता । ५२५
चा आश्चर्यदर्शनम्,१ अर्हामि वा प्रणयम्२, इममप्रत्याख्यानयोग्यं वा३ जनं मन्यसे, समारूढो वा परिचयलेशः, अनुग्राह्यो वाऽयं जनः, ततो नार्हसि निष्फलां कर्तुमभ्यर्थनामिमाम् । मयैव सह गत्वा हेमकूटमतिरमणीयतानिधानम्, तत्र दृष्ट्वा च मन्निर्विशेषां कादम्बरीम्, अपनीय तस्याः कुमति४मनोमोहविलसितम् , एकमहो विश्रम्य श्वोभूते प्रत्यागमिष्यसि । मम हि निष्कारणबान्धवं भवन्तमालोक्यैव दुःखान्धकारभाराक्रान्तेन महतः कालादुच्छ्वसितमिव चेतसा, श्रावयित्वा स्ववृत्तान्तमिमं सह्यतामिव गतः शोकः । दुःखितमपि जनं रमयन्ति सज्जनसमागमाः । परसुखोपपादनपराधीनश्च भवादृशां गुणोदयः' इत्युक्तवतीञ्चैनां
पार्थेकः । वा अथवा आश्चर्यदर्शनं कुतूहलावलोकनम् अतिसुखदायि अतिशयसौख्यप्रदम् । प्रणयं वा अर्हामि तव स्नेहयोग्या वा भवामि । इमं मद्दृशं जनम् अप्रत्याख्यानयोग्यम् अनिराकरणोचितं मन्यसे कल्पयसि । समारूढः उत्पन्नः परिचयलेशः संस्तवल्वः । अभ्यर्थनां तत्र गमनप्रार्थनां निष्फलां निष्प्रयोजनाम् ।
मय्येति । अतिरमणीयताया नितान्तसुन्दरताया निधानम् आश्चर्यम् । मन्निर्विशेषां सर्वप्रकारेणैव मम सदृशीम् । कुमत्या कुत्सितविमर्शेन यो मनोमोहः 'त्वयि सशोकायां नाहं पाणि ग्राहयिष्यामि' इत्येवंरूपा चित्तभ्रान्तिः तस्य विलसितम् अनुष्ठितम् अपनीय शिथ्या दूरीकृत्य एकम् अहो दिवसं विश्रम्य विश्रामं कृत्वा श्वोभूते परदिने प्रत्यागमिष्यसि आयास्यसि ।
ममेति । हि निश्चितम् । निष्कारणबान्धवं निमित्तव्यतिरेकेण स्वजनं मद्दुःखार्णनेन दुःखितहृदयत्वाडुपदेशपरिश्रमस्वीकाराच्चेत्याशयः, भवन्तं त्वाम् आलोक्यैव निरीक्ष्यैव विद्यमानाया मम दुःखान्धकारभाराक्रान्तेन दुःखतिमिरभारेण क्लेदितेन चेतसा हृदयेन, महतो दीर्घात् कालात् समयात् परम् उच्छुसितमिव प्राणितमिव, एतावत्समयपर्यन्तं चित्तं मृतमिवासीत्, सम्प्रति तेन उच्छासो गृहीत इति तात्पर्यम् । तथा इमं स्ववृत्तान्तं स्वकीयोदन्तं श्रावयित्वा कथयित्वा विद्यमानाया मम शोकः सह्यतां सहनशीलतां गतः प्राप्त इव, 'प्रलापैरेव हृदयं धार्यते शोकक्षोभयोः' इति न्यायादित्याशयः । ननु कस्मादेतदित्यत आह—दुःखितमिति । सज्जनसमागमाः सत्पुरुषसङ्गमाः दुःखितमपि क्लेशितमपि जनं रमयन्ति आनन्दयन्ति, अवलोकनेनैव प्रथमसुखजननद्वारा चिरन्तनक्लेशविनाशनादित्याशयः । इह सामान्येन विशेषसमर्थनादर्थान्तरन्यासः ।
विशेषेण च प्रतिपादयति—परेति । भवादृशां त्वद्विधानां गुणोदयः दयादाक्षिण्यप्रभृतीनां गुणानामभ्युदयः परेषां अन्येषां सुखोपपादने सौख्योत्पादने पराधीनः परायण इत्यर्थः, अतएव मया सह तत्र गत्वा ध्रुवमेव मामानन्दयिष्यसीत्याशयः । चन्द्रापीडस्य सौन्दर्यादिगुणनिकरं दृष्ट्वा नूनं परिसुशन्ती कादम्बरी कृतमपि शपथं परित्यक्ष्यतीति बुद्ध्वा चन्द्रापीडं तत्र प्रापयितुं महाश्वेताया एतावानुद्योग इत्यवधेयम् ।
इतीनि । इति पूर्वोक्तप्रकारेण तच्छ्वर्ती कथितवतीम् । एनां महाश्वेताम् दर्शनात्प्रभृति अवलोकन-
अवलोकन करना यदि आपको सुखदायी हो, अथवा मैं यदि आपके प्रणयके योग्य होऊँ, किंवा इस व्यक्तिका प्रत्याख्यान करना (प्रार्थना न मानना) अनुचित समझते हों अथवा आपके साथ मेरा यदि परिचयका लेश भी उत्पन्न हुआ हो, किंवा यह व्यक्ति यदि आपके अनुग्रहके योग्य हो तो ऐसा होने पर आप मेरी इस प्रार्थनाको निष्फल करनेमें समर्थ नहीं हो सकते । अत्यन्त सौन्दर्यकी आवास-भूमि उस हेमकूट पर्वतपर मेरे ही साथ चलकर वहां मुझसे अभिन्न कादम्बरीको देख, उसके कुसंस्कारजनित चित्तभ्रमका आवरण दूर कर, केवल एक दिन वहां विश्राम लेकर दूसरे दिन आप लौट आइएगा । आप बिना कारणके ही मेरे बन्धु हो गए हैं, इसलिए आपको देख कर ही मेरा चित्त दुःखान्धकारके भारके नीचे दबे रहने पर भी बहुत काल के बाद आज मानो जीवित होकर हलका हुआ, और आपको अपना समाचार सुना कर वह शोक मानो सह्य हो गया है, ऐसा प्रतीत हो रहा है, क्योंकि—सज्जनके साथ संसर्ग दुःखित व्यक्तिको भी आनन्दित कर देता है । विशेषतः, आपके समान महापुरुषोंका गुणसमूह, केवल दूसरेके सुख-सम्पादनमें ही प्रवृत्त रहता है।' [अतएव मेरे साथ आप वहाँ जाकर मुझे अवश्य ही
- १. अस्मच्चिरदर्शनम् ।
- २. अर्हसि वा प्रणयमिमम् 'प्रणयन् ।
- ३. योग्यां वा मन्यते माम् ।
- ४. क्वचित् 'इत' इत्यादिकः पाठः समुदपलभ्यते ।
- ५. कुमतिमियान् ।
५२६ कादम्बरी— [ कथायाम्—
चन्द्रापीडोऽब्रवीत्—‘भगवति ! दर्शनात्प्रभृति परवानयं जनः कर्त्तव्येषु यथेष्टमशङ्किततया नियुज्यताम्’ इत्यभिधाय तया सहैवोदचलत् ।
क्रमेण च गत्वा हेमकूटमासाद्य गन्धर्व्वराजकुलम् , समतीत्य काञ्चनतोरणानि सप्तकक्षान्तराणि कन्यान्तःपुरद्वारमवाप । महाश्वेतादर्शनप्रधावितेन दूरादेव कृतप्रणामेन कनकवेत्रलताहस्तेन ^१प्रतीहारजनेनोपदिश्यमानमार्गः प्रविश्य असंख्येयनारीशतसहस्रसम्बाधम्, स्त्रीमयम्परमिव जीवलोकम् , इयत्तां ग्रहीतुमेकत्र त्रैलोक्य^२स्त्रीर्णामिव संगृहीतम्, अपुरुषमिव सर्गान्तरम् , अङ्गनाद्वीपमिवापूर्व्वमुत्पन्नम् , पञ्चममिव नारीयुगावतारम् , अपरमिव पुरुष-
दिनादारभ्य परवान् पराधीनः सौजन्याधिक्यात्त्वदायत्त इत्यर्थः । अशङ्किततया शङ्कारहिततया नियुज्यतां प्रवर्त्यताम् । उदचलत् प्रस्थानमकरोत् ।
क्रमेणेति । अपि चेति चार्थः । चन्द्रापीडो गत्वा, गन्धर्व्वराजस्य चित्ररथस्य कुलं वाटी यत्र तथोक्तं हेमकूटं तन्नामकपर्वतम् आसाद्य प्राप्य काञ्चनानां सुवर्णानां तोरणानि बहिर्द्वाराणि येषु तथोक्तानि सप्तकक्षान्तःपुराणि समतीत्य व्यतिक्रम्य । अवाप प्राप्तवान् ।
महेति । महाश्वेताया दर्शनेन अवलोकनेन प्रधावितः शीघ्रमागतः तेन । कृतप्रणामेन विहितनमस्कारेण, कनकवेत्रलताः सुवर्णखचितवेतसयष्टयो हस्तेषु करेषु यस्य तेन, प्रतीहारजनेन दौवारिकवृन्देन उपदिश्यमानः वचनव्यक्त्था प्रोच्यमानो मार्गः पन्था यस्य सः, कुमारश्चन्द्रापीडः, कुमारीपुराभ्यन्तरं ददर्शेत्युत्तरेण सम्बन्धः। महाश्वेताविश्वासाच्चन्द्रापीड न कोऽपि निवारितवानित्यवधेयन् । इह नपुंसकलिङ्गद्वितीयेकवचनान्तानि पदानि अग्रेतनस्य ‘कुमारीपुराभ्यन्तरम्’इत्यस्य विशेषणानि बोद्ध्यानि।
असङ्ख्येयेति । असङ्ख्येयानि गणयितुमशक्यानि नारीणां योषितां शतसहस्राणि लक्षाणि तैः सम्बाधं सङ्गाजं व्याप्तमित्यर्थः । इदञ्च ‘लङ्गनाकोपम्’ इत्येतत्पर्यन्तं प्रत्येकविशेषण प्रत्यव कारणमायवधेयम् । एवञ्च अतएव स्त्रीमय नारायणम् अपरम् अतिरिक्तं जीवलोकमिव । जात्युत्प्रेक्षा ।
इयत्तामिति । इयत्तां ग्रहीतुम् एतावर्त्योऽङ्गना इति गणनां ज्ञातुं प्रजापतिना एकत्र एकस्मिन् स्थले संगृहीतम् आनीतं त्रैलोक्यस्य त्रिविष्टपस्य स्त्रैणं स्त्रीसमूहमिंव । उक्तालंङ्कारः ।
अपुरुषमिति । अपुरुषं सर्गान्तरमिव पुरुषरहितामपरां प्रजापतेः सृष्टिमिव । क्रियोत्प्रेक्षा ।
अङ्गनेति । अपूर्वम् अभिनवम् उत्पन्नं सञ्जातम् अङ्गनानां नारीणां द्वीपम् अन्तरीपमिव । जात्युत्प्रेक्षा ।
पञ्चममिति । पञ्चम नारीयुगावतारमिव । सत्यादीनि चत्वारि युगानि तु विद्यन्त एव येषामवतारः ( प्रवर्त्तनम् ) सुपरिचितः, किन्तु नूतनः सोऽयं पञ्चमो नारीयुगावतार इत्यभिप्रायः । क्रियोत्प्रेक्षा ।
अपरमिति । अपरम् अन्यत् पुरुषद्वेषिणः प्रजापतेः सृष्टिकर्तुः निर्माणं सृष्टिमिव । पुरुषद्वेषिपदेन नारीनिर्माणमात्रमेव द्योतितम् । उक्तालंङ्कारः ।
सुखी बनायेंगे यह अभिप्राय है, चन्द्रापीडके सौंदर्यादि गुणोंको देखकर निश्चय ही मोहित होकर मेरी सखी कादम्बरी किए हुए भी शपथको छोड़ देगी, यही समझ कर चन्द्रापीडको वहाँ लेजानेमें महाश्वेताका इतना बड़ा उद्योग था ऐसा यहाँ भावुकोंको समझना चाहिए ]
इसप्रकार महाश्वेताके कहने पर उत्तर देते हुए उसने चन्द्रापीडने कहा—'भगवति, जबसे आपका दर्शन हुआ तबसे ही यह व्यक्ति अपनेको पराधीन समझता है, इसलिए आप निःशङ्कचित्तसे इच्छानुसार इस व्यक्तिको कर्त्तव्य कार्यमें नियुक्त कीजिए' यों कहकर, वह महाश्वेताके साथ ही चल दिया।
क्रमसे जाकर, गन्धर्वराजकी राजधानी हेमकूटपर्वत पर उपस्थित होकर, सुवर्ण-तोरण जहाँ बँधे थे ऐसी सात ड्यौढ़ी लाँघकर चन्द्रापीडने महाश्वेताको देखते ही दौड़कर आते, दूरसे प्रणाम करते, हाथमें सुवर्ण-खचित-वेत्र-यष्टि ( बेंत की छड़ी ) धारण करने दौवारिकगण ( प्रतीहारों ) के आगे आगे बताए हुए मार्गसे, कन्याओंके अन्तःपुरके द्वारमें प्रवेश किया, और प्रवेश करते ही उसने लाखों स्त्रियोंसे परिपूर्ण एक दूसरा मानो नारीमय जीवलोकके समान हो, त्रिभुवनमें कितनी स्त्रियां हैं इसकीसंख्या जाननेके लिए विधाताने मानों त्रैलोक्यके समस्त स्त्रियोंको एकत्र संग्रह किया हो, पुरुष-रहित मानो एक दूसरी सृष्टि हो, स्त्रीलोकमय नूतन और एक द्वीप मानो
१. द्वारपालप्रतीहारी । २. ०*स्त्र्यीणां० । ३. संहृतम् ।
कन्यान्तःपुरवर्णनम् ८५ ] चन्द्रकला-विद्योतिनीसहिता । ५२७
दृष्टेवप्रजापतिनिर्माणम्, अनेक-कल्प-कल्पनार्थमुत्पाद्य स्थापितमिवाङ्गनाकोषम्^१, अतिविस्तारिणा युवतिजनलावण्यप्रभापूरेण प्लावितदिगन्तरेण सिञ्चतेवामृतरसविसरेण दिवसमार्द्रीकुर्वतेव भुवनान्तरालं बहुत-प्रभावर्षिणा^२ मरकतमणिमयेन ^३सर्वतः परिगततया तेजोमयमिव, चन्द्रमण्डलसहस्रैरिव निर्मितसंस्थानम्, ज्योत्स्नयेव घटितसन्निवेशम्, आभरणप्रभाभिरिव-निष्पादितदिगन्तरम्; विभ्रमैरिव कृतसर्वोपकरणम्, यौवनविलासैरिवोत्पादितावयवम्, रतिविलसितैरिव रचित-सञ्चयम्^४, मन्मथाचरितैरिव कल्पितावकाशम्, अनुरागेणेवानुलिप्त-
अनेकेति । अनेककल्पेषु विविधयुगान्तेषु कल्पनार्थं नारीजातिनिर्माणार्थम् उत्पाद्य प्रजापतिना विरचय्य स्थापितं रक्षितम् अङ्गनाकोषं नारीभाण्डागारमिव । जात्युत्प्रेक्षा ।
अतीति । अतिविस्तारिणा सविप्रसारिणा, प्लावित्तानि व्याप्तानि दिगन्तराणि येन, तेन अतएव अमृतरसविसरेण सुधाद्रवप्रवाहेण करणेन, दिवसं वासरं सिञ्चतेव सेचनं विदधतेव, तथा अमृतरसविसरेणैव भुवनान्तरालं विश्वान्तराळम् आर्दीकुर्वतेव क्लिन्नीकुर्वतेव विद्यमानेन, युवतिजनानां तरुणीगणानां लावण्यस्य सौन्दर्यातिशयस्य यः प्रभापूरः कान्तिप्रवाहः तेन कर्त्रा, तथा बहुलप्रभावर्षिणा मरकतमणिमयेन अश्मगर्भ रत्नप्रचुरेण भूपनेन आभरणेन च कर्त्रा, सर्वतः चतुर्दिक्षु परिगतं व्याप्तं तस्य भावस्तत्ता कारणेन, तेजोमयमिव केवलतेजसा रचितमिव, कन्यान्तःपुरम् अतिविस्तार्यादिविशेषणविशिष्टेन युवतिजनलावण्यप्रभापूरेण व्याप्तं तथा मरकतमयभूषनेन च व्याप्तमित्याशयः । चन्द्रमण्डलसहस्रैः निर्मितं रचितं संस्थानम् आकारो यस्य तदिव, तया ज्योत्स्नया चन्द्रिकया घटितो रचितः सन्निवेश आकारो यस्य तदिव, लावण्यप्रभाचन्द्रमण्डलज्योत्स्नानां पाण्डुरत्वसादृश्यादित्याशयः । तथा आभरणप्रभाभिः भूषणकान्तिभिः निष्पादितानि संपादितानि दिगन्तराणि दिगवकाशानि यस्य तदिव, अलङ्कारस्य प्रचुरप्रभावर्णनादित्याशयः ।
इह 'सिञ्चतेव' 'वार्द्रीकुर्वतेव' इति द्वे क्रियोत्प्रेक्षा, तथा 'तेजोमयम्' इत्यत्र निष्पादनक्रियार्थे मयट्प्रत्ययविधानात्तस्याश्चोत्प्रेक्षा क्रियोत्प्रेक्षा, एवं निर्माणघटननिष्पादनामपि क्रियाणामेवोत्प्रेक्षणात्ता अपि तिस्रः क्रियोत्प्रेक्षाः, एतासाञ्च मिथो नैरपेक्ष्येण संसृष्टिः ।
विभ्रमैरिति । विभ्रमैर्विलासैः कृतानि विहितानि सर्वाणि निखिलाणि उपकरणानि सामग्रयो यस्य तदिव । क्रियोत्प्रेक्षा ।
यौवनेति । यौवनविलासैः तारुण्यविभ्रमैः उत्पादिता जनिता अवयवाः प्रदेशा यस्य तदिव । उक्तारङ्कारः पूर्वविलासाः कृत्रिमाः, इह तु प्राकृतिका इति भेदः ।
रतीति । रतेः कामपल्याः विलसितैर्विभ्रमैः रचितो निर्मितः सञ्चयो व्यापारगणो यस्य तदिव । उक्तारङ्कारः ।
मन्मथेति । मन्मथाचरितैः कामदेवाचरितैः कल्पितावकाशं रचितप्रदेशमिव । उक्तारङ्कारः ।
अन्विति । अनुरागेण प्रीत्या अनुलिप्तसकलप्रदेशमिव । उक्तारङ्कारः ।
उत्पन्न हुआ हो, पञ्चम नारीगुण मानो अवतीर्ण हुआ हो, पुनरुद्देशते विधाता ने मानो दूसरे संसारका निर्माण किया हो, अनेक कल्पोंमें निर्माण करनेके लिए उत्पन्न कर तैयार रखा हुआ स्त्रियोंका मानो भण्डार हो—ऐसा उस अन्तःपुर ( रनिवास ) के अभ्यन्तरका भाग देखा । अमृतरसकी धारासे ही दिशाओंको प्लावित करता ( डुबाता ) दिनको मानों सींचता, संसारके समस्त मध्यस्थानको मानो आर्द्र करता, प्रचुर मरकतमणिमय प्रभाको बरसाता, अत्यन्त विस्तृत होता ( फैलता ) हुआ युवतियोंका लावण्यकान्तिका प्रवाह वहाँ सर्वत्र व्याप्त था जिससे वह मानों आलोकमय हो, हजारों चन्द्रमण्डलोंसे मानों निर्माण किया गया हो, चन्द्रिकासे मानों प्रस्तुत किया हो, अलङ्कार के आलोक ही से मानों उसकी दिशाओंका अवकाश बनाया गया हो, कृत्रिम हावभावसे ही मानों समस्त सामग्री सम्पादित किए हों, स्वाभाविक यौवन-विलाससे ही मानों उसके समस्त अवयव निर्मित हुए हों, रतिदेवीके विभ्रमद्वारा ही मानों कार्यकाल की सृष्टि की हुई हो, कामदेवके आचरणों से ही मानों अन्तःपुर निर्माण कराया हो, अनुराग-
१. 'कोशम्' ।
२. बहुल··· ।
३. क्वचिदिदं 'भूषनेनेव' इत्यादिकः पाठः क्वचिन्न दृश्यते ।
४. विरचित··· ।
| ५२८ | कादम्बरी- | [ कथायाम्- |
|---|
सकलप्रदेशम्१, शृङ्गारमयमिव, सौन्दर्यमयमिव, सुरताधिदैवतमयमिव, कुसुमशरमयमिव, कुतूहलमयमिव, आश्चर्यमयमिव, सौकुमार्यमयमिव२, कुमारः कुमारीपुराभ्यन्तरं ददर्श।
अतिबहुलतया च तस्य कन्याकाजनस्य समन्तादाननद्युतिभिरिन्दुबिम्बवृष्टिमिव पतन्तीम्, अपाङ्गविक्षेपैश्चलितकुवलयवनमयोमिव क्रियमाणामवनीम्, अनिभृत३-भ्रूलताविभ्रमैः काम-कार्मुक-विलास-शतानीव४ प्रचलितानि, शिरसिंजकलापान्धकारैर्बहुलपक्ष-प्रदोष-सार्थानिव सम्बध्नतः, स्मितप्रभाभिरुत्फुल्लकुसुमधवलानिव वसन्तदिवसान् सञ्चरतः, श्वसितानिल-परिमलैर्मलयमारुतानिव परिश्रमतः, कपोलमण्डलालोकैर्माणिक्यदर्पणसहस्राणीव स्फुरितानि
शृङ्गारेति। शृङ्गारमयमिव सम्भोगमयमिव, सौन्दर्यमयमिव रूपातिशयमिव, सुरताधिदैवतमयमिव मैथुनाधिष्ठात्रीमयमिव, कुसुमशरमयमिव कामबाणमयमिव कुतूहलमयमिव कौतुकमयमिव, सौकुमार्यमयमिव, मार्दवमयमिव ददर्श अवलोकयामास। एषु सर्वेषु व्याप्तौ मयट्प्रत्ययविधानात्तस्याश्च क्रियारूपत्वेनोत्प्रेक्षालङ्कारः।
अतिबहुलेति। किञ्च, चन्द्रापीडः, तस्य कन्याकाजनस्य अतिबहुलतया अत्यन्ताधिकतया कारणेन, आननद्युतिभिः तस्यैव कन्याकाजनस्य मुखकान्तिभिः करणैः, समन्तात् सर्वतः इन्दुबिम्बवृष्टिमिव चन्द्रमण्डलवर्षणमिव 'अद्राक्षीत्' इत्युत्तरेण सम्बन्धः इत्थमम्यत्रापि।
इहाननद्युतिप्रसरणेषु इन्दुबिम्बवर्षणोत्प्रेक्षणात्क्रियोत्प्रेक्षा, तेन च वदनानामिन्दुमण्डलसादृश्यं प्रतीयत इत्यलङ्कारेणालङ्कारध्वनिरूह्नेयः। इत्थमन्यत्राऽप्यूहनीयम्।
अपाङ्गेति। अपाङ्गविक्षेपैः कटाक्षपातः, अवनिं पृथिवीम्, चलितं कम्पितं कुवलयवनं नीलोत्पल-समूहः तन्मयीं क्रियमाणां विधीयमानामिव। क्रियोत्प्रेक्षा।
अनिभृतेति। अनिभृताः स्फुटा ये भ्रूलतयोर्विभ्रमा नर्त्तनानि तैः प्रचलितानि शरप्रक्षेपगाय स्पन्दनरूपाणि कामकार्मुकस्य मन्मथचापस्य विलासशतानीव विभ्रमसमूहानिव। इह जात्युत्प्रेक्षा। तथा चक्रावसाम्यादुपमानोपमेयभावः।
शिरसीति। शिरसिजकलापाः केशसमूहा एव श्यामलत्वसादृश्यादन्धकाराः तैः सम्बध्नतः सम्मिलतः, बहुलपक्षाणां कृष्णपक्षाणां प्रदोषसार्थानिव रजनीमुखसमयसमूहानिव। इह निरङ्गं केवलरूपकम्, जात्युत्प्रेक्षा चेत्युभयोरङ्गाङ्गिभावसङ्करः। 'सङ्घसङ्घातपुञ्जौघसार्थयूथकदम्बकाः' इति भागुरिः।
स्मितेति। स्मितप्रभाभिः ईषद्धास्यकान्तिभिः, सञ्चरतः व्रजतः उत्फुल्लकुसुमधवलान् विकसितपुष्पश्वेतान् वसन्तदिवसान् सुरभिवासरानिव। जात्युत्प्रेक्षा।
श्वसितेति। श्वसितानिलस्य निःश्वासवायोः परिमलैः सौरभैः परिश्रमतः सञ्चरतः मलयमारुतानिव दक्षिगानिलानिव। उक्तोलङ्कारः।
कपोलेति। कपोलमण्डलानां गण्डसमूहानाम् आलोकैः दीप्तिभिः स्फुरितानि प्रसारतानि माणिक्यदर्पणसहस्राणीव रत्नादर्शदशशतानीव। उक्तोलङ्कारः।
द्वारा ही मानों समस्त प्रदेश लीपा हो एवं मानों वह शृङ्गार-मय हो, सौन्दर्य-मय हो, सम्भोग-देवता-मय हो, मदन-बाण-मय हो, कौतुक-मय हो, आश्चर्य-मय हो, सौकुमार्य-मय एवं [ प्रेम-मय ] हो—ऐसा वह प्रतीत होता था। उसने और भी वहाँ—कन्याओंके अगणित संख्या होनेके कारण सम्मस्त दिशाओंमें ही उनके मुखकी शोभासे मानों चन्द्रमण्डलोंकी वर्षा होती हो; उनके कटाक्ष-पातसे भूमि मानों चलित-नीलोत्पल वनमय होती हो; स्पृष्टरूपमें भ्रूलताओंके नर्त्तनसे बहुतुर कामधनुप ही मानो भ्रमित होता हो; केशकलाप-रूप अन्धकारके रहनेसे कृष्णपक्षके असंख्य प्रदोष-काल ही मानों सम्मिलित हुए हों, ईषद् हास्यके प्रभा-प्रकाशसे कितने वसन्तकालके दिन ही मानो विकसित पुष्पसे धवलवर्ण होकर विचरण करते हों, निःश्वास वायुके परिमलसे मलयाचलका वायु ही मानों परिभ्रमण करती हो; कपोलमण्डलोंके प्रभा-प्रकाशित होनेसे मानो असंख्य मणिनय दर्पण ही दीप्त होते (जगमगाते) हों; पाणितलकी रक्तिमा (हथेलियोंके लाल रंग) से जीवलोक मानों रक्त-
१···प्रवेशम्। २. प्रेममयमिव। ३. अभिनिभृत···। ४. कामकार्मुकबनानीव, शतानि, विलासता। ५. केशनि।
कन्यापुरेदन्तवर्णना ८५ ] चन्द्रकला-विद्योतिनीसहिता । ५२६
करतलरागेण रक्तकमलवनवर्षिणमिव जीवलोकम् ; कररुहकिरणस्फुरणेन कुसुमयुवशरसङ्घैरिव संच्छादितानि दिगन्तराणि, आभरणकिरणैरिन्द्रायुधजालकैरिवोड्डीयमानानिव भवनमयूरवृन्दानि, यौवनविकारैरुत्पाद्यमानानिव मन्मथसहस्राण्यद्राक्षीत् ।
उचितव्यापारव्यपदेशेन कुमारिकाणां सखीहस्तावलेम्बेषु पाणिग्रहणानि, वेणुवाद्येषु चुम्बनव्यतिकरान्, वीणासु कररुहव्यापारान्, कन्दुकक्रीडासु करतलप्रहारान् भवनलतालककलस कण्ठेषु भुजलतापरिष्वङ्गान्, लीलादोलासु नितम्ब-स्तन-प्रेङ्खितानि, ताम्बूलवीटिकाखण्डनेषु दशनोपचारान्, बकुलविटपेषु मधुगण्डूषप्रचारान्, अशोकलताताडनेषु चरणाभिघातान्, उपहारकुसुमस्खलनेषु सीत्कारान्, अतिरिक्तं सुरतमिवाभ्यस्यन्तीनामपश्यत् ।
करेति । करतलानां हस्ततलानां रागेण रक्तिम्ना, जीवलोकं रक्तकमलवनवर्षिणमिव कोकनदसमूहवृष्टिकारिणमिव । इह क्रियोत्प्रेक्षा ।
कररुहेति । कररुहा नखाः तेषां किरणस्फुरणेन प्रभाप्रसरणेन, दिगन्तराणि कुसुमायुधस्य कामस्य शरसङ्घैः बाणसमूहैः संच्छादितानि समावृतानीव । उत्प्रेक्षालङ्कारः ।
आभरणेति । आभरणकिरणा भूषणरश्मयः इन्द्रायुधानीव शक्रधनूंषीव यद्वा आभरणकिरणा एव इन्द्रायुधानि तेषां जालकैः उत्पतिभिः समूहैः, उड्डीयमानानि व्योम्नि उड्डयनं विधीयमानानि भवनमयूरवृन्दानीव गृहकलापिमण्डलानीव, तद्वद्विविधवर्णविचित्रत्वादित्याशयः । इह किमुपमा किंवा रूपकमिति सन्देहसङ्करेण स्वाङ्गा जात्युत्प्रेक्षा ।
यौवनेति । यौवनविकारैः तारुण्यविकृतिभिः कन्यकाजनेन उत्पाद्यमानानि लायमानानि मन्मथसहस्राणीव मदनसमूहानिव । जात्युत्प्रेक्षा ।
उचितेति । चन्द्रापीडः, उचितव्यापारव्यपदेशेन विधेयकृत्यसम्पादनव्याजेन अतिरिक्तं मिश्रप्रदसुरतमित्यर्थः सुरतं मम्नोगम् लम्यस्यन्तीनाम् अभ्यासं विदधतीनामिव तासां कुमारिकाणाम् एतान्याचरपाम्पदयदिष्टप्रिप्रेमेन सम्बन्धः । नान्येव सम्भोगकालीनाचाराणिन प्रकटयति-सखीत्यादिना । सखीहस्तावम्बेषु सहचरीद्वारा-हस्तवारणेषु, पाणिग्रहणानि सम्भोगकालीनप्रियतमद्वारा-हस्तावडम्बनानि । वेणुवाद्येषु वंशीवादनेषु चुम्बनव्यतिकरान् मुखसंयोगव्यापारान् । वीणासु वल्लकीवादनेषु, कररुहव्यापारान् नखक्षतानि । कन्दुकक्रीडासु गेन्दुकखेलासु करतलप्रहारान् हस्ततलाघातान् । भवनलतानां गृहवल्लीनां ये सेककलसाः सेचनघटाः तेषां कण्ठेषु ग्रीवासु, भुजलताभ्यां बाहुवल्लीभ्यां परिष्वङ्गान् आलिङ्गनानि । लीलादोलासु क्रीडाप्रेङ्खासु तत्र दोलनेष्वित्यर्थः नितम्बयोः स्तनयोः कुचयोश्च प्रेङ्खितानि आस्फालनानि । ताम्बूलवीटिकानां नागवल्लीदलवीटिकानान् लवखण्डनेषु चर्वणेषु, दशनोपचारान् दन्तसञ्चालनानि । बकुलावटपेषु केसरतरुषु, मधुगण्डूषप्रचारान् मधुपुष्पप्रस्फुटनाय वदनपूर्णमद्यप्रक्षेपान् । उपहाराय कुसुमानि उपहारकुसुमानि शोभासम्पादनाय यानि रचनारूपेण भूमिस्यापितानि प्रसूननि तेषु स्खलनेषु पतनेषु, सीत्कारान् दन्तुरदशनावातादिषु व्यथासूचकान् 'सीत्' इत्येवं सुक्ष्मध्वनिविशेषान्
कमलोंकी वर्षा करता हो; नखोंके किरण प्रसारित होने (फैलने) से आठों दिशाएँ मानों हजारों कामबाणोंसे आच्छादित हो (छा) गई हों; इन्द्रधनुषके समान आभूषणोंके किरणसमूहके ऊपर उठते रहने से गृहपालित (पालतू) मयूरगण ही मानो उड़ते हों; एवं तत्रत्य कन्याओंके यौवनविकारसे ही मानो हजारों कामदेव उत्पन्न होते हों-इस प्रकार देखा ।
उन कुमारियोंके, कर्त्तव्यकार्य करनेके बहानेसे सखियोंके द्वारा हाथ पकड़नेमें पाणि-ग्रहण, वंशी बजानेमें मुखसंयोग व्यापार, वीणा बजानेमें नख-व्यापार, गेंद खेलनेमें करतल (हथेली) प्रहार, भवनस्थित लताओंका सिञ्चन करनेके लिए कलश कण्ठपर रखनेमें भुजाश्लिष्ट, हिंडोले पर झूलनेमें नितम्बस्तनका आस्फालन (सङ्घट्टन), ताम्बूलवीटिकाओंके चर्वण (पान की बीड़ी चबाने) में दन्ताभ्यापार, बकुल (मौलसरी) वृक्षोंमें पुष्प निकलनेके लिए मुखपूर्ण-मद्यका प्रक्षेप, अशोक वृक्षोंको ताड़न करनेमें चरणाघात, शोभासम्पादनके लिए भूतल-
१. कररुहस्फुरणेन । २. संच्छादितानिदिगन्तराणि, संच्छादितान्यवदिगन्तराण् । ३. किरणनिकर । ४. भुवन । ५. द्रुवन्.... । ६. ०००लम्बं । ७. क्वचित् 'ताम्बूल'-पदं न दृश्यते । ८. वकुलद्रुम-करोइडेषु क्रीडाम्डहप्रप्रणनानि । ९. शीत्कारान् ।
| ५३० | कादम्बरी- | [कथायाम्- |
|---|
यत्र च^१ कन्यकाजनस्य कपोलतलालोक एव मुखप्रक्षालनम्, लोचनान्येव कर्णोत्पलानि, हसितच्छवय एवाङ्गरागाः, निश्वासाः^२ एवाधिवासगन्धप्रयुक्तयः, अधरद्युतिरेव कुङ्कुमानुलेपनम्^३, आलापा एव तन्त्रीनिनादाः, भुजलता एव चम्पकमालाः,^४ करतलान्येव लीलाकमलानि, स्तना एव दर्पणाः, निजदेहप्रभैवांशुकावगुण्ठनम्, जघनस्थलान्येव विलासमणिशिलातलानि कोमलाङ्गुलिराग एव चरणालक्तरसः, नखमणिमरीचय एव कुट्टिमोपहारकुसुमप्रकराः। यत्र चालक्तरसोऽपि^५ चरणातिभारः, बकुलमालिकामेखलाकलनमपि गमनविघ्न-
शब्दाम्। पुष्पमध्ये चरणस्खलनेन नार्यो भूतलपातसम्भावनाभयात् 'सीत्कारान्' कुर्वन्तीति तासां सौन्दर्यातिशयो ध्वन्यत इत्यवधेयम्। इह सापह्नवा क्रियोत्प्रेक्षा।
यत्रेति। यत्र कन्यान्तःपुरे कन्यकाजनस्य कुमारिकावर्गस्य कपोलतलालोक एव गण्डस्थलदीप्तिरेव, मुखं प्रक्षाल्यते अनेनेति मुखप्रक्षालनं तदुपयोगिसलिलस्वरूपम्। अनेन गण्डस्थलानां सौन्दर्यातिशयो ध्वन्यते। लोचनानि नयनान्येव कर्णोत्पलानि श्रवणभूषणानि, अनेन नयनानां नीलत्वं विस्तृतत्वञ्च प्रत्याय्यते। हसितच्छवय एव हास्यकान्तय एव अङ्गरागा विलेपनानि, अनेन हास्यद्युतीनां नितान्तवैशद्यं सूच्यते। निश्वासाः श्वासमरुत एव अधिवासगन्धप्रयुक्तयः देहसंस्काराय गन्धमाल्यादिप्रयोगाः, अनेन निश्वासानाम् अत्यन्तसौगन्ध्यं द्योत्यते। 'संस्कारो गन्धमाल्याद्यैः स्यात्तदधिवासनम्' इत्यमरः। एषु सर्वत्र यथासम्भवम् 'आसीत्, आसन्' वा क्रियापदं योजनीयम्। इत्थमग्रेऽपि अधरद्युतिरेव ओष्ठच्छविरेव कुङ्कुमानुलेपनं कुङ्कुमाङ्गरागः, एतेन तयोरभ्यन्तररक्तत्वं व्यज्यते। आलापा एव सम्भाषणान्येव तन्त्रीनिनादाः वीणाध्वनयः, अनेन तेषां परममधुरस्वरस्त्वमवगम्यते। भुजलता एव बाहुवल्ल्य एव चम्पकमाला हेमपुष्पस्रजः, अनेन तासामत्यन्तमृदुलगौरत्वं बोध्यते। करतलान्येव हस्ततलान्येव लीलाकमलानि क्रीडार्थपङ्कजानि, अनेन करतलानामालोहितत्वं प्रतीयते। स्तना वक्षोजा एव दर्पणा मुकुराः, एतेन निर्मलत्वं गम्यते। निजदेहप्रभैव स्वशरीरद्युतिरेवे अंशुकावगुण्ठनं वस्त्रावरणम्, अनेन शरीरप्रभाबाहुल्यं द्योत्यते। जघनस्थलान्येव कटिपुरोभागप्रदेशा एव विलासमणिशिलातलानि विभ्रमरत्नप्रस्तरतलानि, अनेन तेषां विस्तीर्णता उज्ज्वलता स्वच्छता च व्यज्यते। कोमलाङ्गुलिराग एव मृदुलचरणाङ्गुलिस्वाभाविकारक्तिमैव चरणालक्तरसः पाद्याक्तरसः, अनेन रागाधिक्यं सूच्यते। नखमणीनां चरणनखपरिहितानाभरणानां. मरीचयः किरणा एव कुट्टिमेषु बद्धभूमिषु उपहारकुसुमप्रकराः शोभासम्पादनाय विक्षिप्तप्रसूनसमूहाः, अनेन नखरत्नकिरणानां प्रतिपदं पुञ्जीभावो व्यज्यते।
इह प्रत्येकवाक्ये निरङ्गकेवलरूपकमलङ्कारः 'मुखं तव कुरङ्गाक्षि ! सरोजमिति नान्यथा' इति साहित्यदर्पणोदाहृतवदित्यवधेयम्।
यत्रेति। किञ्च, यत्र कन्यकासमुदाये अलक्तरसोऽपि पादयोर्यावकरसलेपोऽपि चरणातिभारः पादयोर्भारयितः, आसीदिति शेषः। एवमग्रेऽपि सौकुमार्यातिशयात् पादरागोऽपि भरायित इत्यभिप्रायः।
न्यस्त पुष्पोंके पतन होनेमें पीड़ाम्यञ्जक शब्द सीत्कार, यह सब उस (चन्द्रापीड, ने, अतिरिक्त सम्भोग-व्यापारको मानो ये स्त्रियां अभ्यास करती हों इस प्रकार, उनको देखा।
एवं जिस स्थानमें कन्याओंके गण्डस्थल (कपोल) का लावण्य ही मुखप्रक्षालन [जल] था; नयनयुगल ही कर्णोत्पल थे; हास्यकी शोभा ही अङ्गलेप था; निश्वासवायु ही शरीरसंस्कारके लिए सुगन्धित द्रव्यके प्रयोग थे; और अधर-प्रभा ही कुङ्कुमलेप था। परस्पर उनका आलाप ही तन्त्रीका झङ्कार (वीणाका शब्द) था, भुजलता ही चम्पकपुष्पकी माला थी; करतल ही लीला-कमल थे; कुच-मण्डल ही दर्पण थे; अपने शरीरकी कान्ति ही आवरण-वस्त्र था; जघनस्थल ही विलास करनेके मणिशिलातल थे; कोमल अङ्गुलियोंकी रक्तिमा (रंग) ही चरणोंका अलक्तक (महावर) था; एवं नखके ऊपर प्रदत्त रत्नोंकी किरणें ही बद्ध-भूमि (चबूतरे) पर शोभासम्पादनके लिए विक्षिप्त (बिखरे) पुष्पसमूह थे।
और जहाँ पर, अलक्तक (महावर) का रक्त भी चरणोंको अत्यन्त भार मालूम होता था; बकुल-पुष्पकी
१. यस्य च। २. निःश्वासाः। ३. कुङ्कुममुखावलेपनम्। ४. चम्पकदैक्षक्यमालाः। ५. यत्र चालक्तरसोऽपि।
कन्यापुरवृत्तान्तवर्णनं ८५] चन्द्रकला-विद्योतिनीसहिता। ५३१
करम्, अङ्गरागगौरवमप्यधिकश्वासनिमित्तम्, अंशुकभारोऽपि ग्लानिकारणम्, मङ्गलप्रतिसरवलयविवृतिरपि करतलविधुतिहेतुः, अवतंसकुसुमधारणमपि श्रमः, कर्णपूर-कमल-मधुकर-पक्ष-पवनोऽप्यायासकरः।
तथा च यत्र सखीदर्शनेऽप्यकृतहस्तावलम्बनमुत्थानमतिसाहसम्, प्रसाधनेषु हारभारसहिष्णुता स्तनकार्कश्यप्रभावः, कुसुमावचयेषु द्वितीयकुसुमग्रहणमप्ययुवतिजनोचितम्, कन्यकाविज्ञानेषु माल्यग्रथनम् असुकुमारजनव्यापारः, देवताप्रणामेषु मध्यभागभङ्गोऽतिविस्मयकरः।
बकुलकलिका केशरगुम्फनमेव मेखला काञ्ची तस्याः कटनमपि जघनपुरोभागे धारणमपि गमनविघ्नकरं गतिप्रतिबन्धकम्, तदन्तभारप्रसादानाशक्तित्वात्सद्यः। अङ्गरागगौरवमपि देहलिप्ताङ्गरागद्रव्यभारोऽपि श्वासनिमित्तम् अतिशङ्खाधिक्यात्कारणम्, परिश्रमसम्पादकत्वादित्यभिप्रायः। सर्वत्र सौकुमार्यातिशयद्योतनायैव युक्तिरिति। अंशुकभारोऽपि परिधृतसूक्ष्मवस्त्रगुरुत्वमपि ग्लानिकारणम्। मङ्गलप्रतिसरः माङ्गल्यदिकहस्तसूत्रमेव वलयं कटकं तस्य विवृतिर्धारणमपि करतलविधुतिहेतुः हस्तकम्पननिमित्तम्, मणिविष्याद्यनुभवादिति भावः। अवतंसकुसुमधारणमपि कर्णभूषणपुष्पविचितिरपि श्रमः परिश्रमोत्पादकः, भारावगमादित्यभिप्रायः। कर्णपूरकमलेषु श्रोत्रावर्तमीनूनपङ्कजेषु ये मधुकरा भ्रमराः तेषां पक्षपवनोऽपि पक्षकम्पनेोत्थवायुरपि आयासकरः खेदकरः, प्राचुर्यबोधादिति भावः।
इह प्रत्येकवाक्य एवामन्वये सम्बन्धहतपतिशयोक्तिः, तेन च तासां कन्यकानां नितान्तसौकुमार्यं व्यज्यत इत्यलङ्कारेण वस्तुध्वनिः।
अथ विशिष्टप्रकारैरपि तासामतीव सौकुमार्यं निरूपयितुमाह—तथा चेति। अपि चेति तदर्थः। मखीदर्शनेषु सम्मितवातानासु सहचरीषु अवलोकितास्वित्यर्थः, न कृतं शङ्कवेनावगमराभावात् विहितं हस्तावलम्बनं सेविकाया हस्तधारणं यत्र तद्योक्तं यत् उत्थानम् अभ्यर्थनाय शरीरोत्थानं तदपि अतिसाहसं हठकारित्वम्, अनेन निरतिशयदाक्षिण्यं निरतिशयसौकुमार्यं च प्रतीयते। प्रसाधनानि अङ्गभूषणानि तेषु वा हारस्य मुक्तामालाया भारसहिष्णुता भारसहनशीलता सा स्तनकार्कश्यप्रभावः केवलकुचकाठिन्यमाहात्म्यम्, न पुनरन्यावयवानामित्याशयः, अनेनान्यान्यवदानां निरतिशयकोमलत्वं कुचयोर्निरतिशयकाठिन्यं च ध्वन्यते। कुसुमावचयेषु पुष्पचयनक्रियासु द्वितीयकुसुमग्रहणम् एकस्मादनन्तरं कुसुमसमवचयोऽपि स्युवतिजनोचितम् अन्तरङ्गीजनयोग्यम्, न तु सुकर्कशपुरुषयोग्यमित्यर्थः, एकपुष्पग्रहणमेव तस्याः पर्याप्तम्, द्वितीयस्य पुष्पस्य ग्रहणं तु कठिनत्वादुतस्तस्यैवोचितमिति सरलार्थः, अनेन कोमलतातिशयो व्यज्यते। कन्यकाविज्ञानेषु तत्तत्कुमारीजनयोग्यशिक्षणकलासु मध्ये माल्यग्रथनं केवलकुसुमगुम्फनं तदपि असुकुमारजनव्यापारः कर्कशपुरुषकृत्यम्, अनेनापि निरतिशयसौकुमार्यं प्रतीयते। देवताप्रणामेषु देवेभ्यो नमस्कारसमयेषु मध्यमभागभङ्गः कटिभागस्य द्वैधीभावो यन्न जातः स द्वैधीभावाभावः अतिविस्मयकरः अत्यन्ताश्चर्यकरः, तासां मध्यभागा एवमिवकृशा आसन्, यत्प्रणामसमये शिरोऽवनमने नङ्गसम्भावतैवासीत्, अत एव यद्भङ्गो न जातः तदत्यन्ताश्चर्यकरमित्याशयः। यद्वा—मध्यभागभङ्गे जघनपुरःप्रदेश (कटि) द्वैधीभावः, नात्यन्ताश्चर्योत्पादकः, अत्यन्तक्षीणत्वेन सम्भववत्त्वात्, केवलनमनेन गात्र-
मालाके कमरमें चन्द्रहार (करधनी) धारण करना भी चलनेमें विघ्न करता था; अङ्गरागका भार भी परिश्रम-जनक होनेसे अत्यन्त श्वासका कारण था; पहिने हुये सूक्ष्म-वस्त्रका भार भी ग्लानिका कारण होता था; माङ्गलिक हस्त-सूत्रका कङ्कण धारण भी हस्त-कम्पका कारण था; नेलकनों पुष्पधारण भी परिश्रम उत्पन्न करता था; एवं कानमें पहने हुए कमल पर बैठे भ्रमरोंके पंखोंका पवन भी क्लेश उत्पन्न करता था।
एवं जिस अन्तःपुरमें मिलनेके लिए नवरत सखियोंको देख कर परिचारिकाओंके सहारा दिए बिना जो कोई कुमारिका खड़ी हो जाती थी उसे देख अन्यान्य इन्दिराएँ—उसने अत्यन्त साहस कार्य किया ऐसा विवेचन करती थीं; शृङ्गार करनेमें पहने हारका भार सहन करना [उनके] स्तनकी कठिनता का ही प्रभाव था; पुष्प तोड़ने के समय में एकसे दूसरा पुष्प तोड़ना भी उन युवतियोंके लिए असम्भव था; कन्याओंके शिल्प-कलाके मध्यमें, केवल जो माला गूँथी थी, उसे भी कठिन लोगोंका कार्य गिन जाता था; और देवताओंको नमस्कार करनेके समयमें (झुकनेके कारण) इनके मध्यभाग नहीं टूटे इसे न हो कोई यह अधिक
१. वातोऽपि। २. दर्शनेऽपि। ३. सङ्कुलाननम्। ४. ०युव०। ५. नात्यन्तप्रणम्।
५३२ कादम्बरी- [ कथायाम्-
तस्य चैवंविधस्य १किञ्चिदभ्यन्तरमतिक्रम्य इतश्चेतश्च परिभ्रमतः कादम्बरीप्रत्यास- न्नस्य परिजनस्य शुश्राव तांस्तानतिमनोहरानालापान् । तथाहि—'लवलिके ! कल्पय केतकी- धूलिभिर्लवलीतन्नालवालमण्डलानि । २सारसिके ! गन्धोदक-कनक-दीर्घिकासु३ विकिर रत्नबालुकाम् । मृणालिके ! कृत्रिमकमलिनीषु कुङ्कुमरेणुमुष्टिभिश्च्छुरय ४यन्त्रचक्रवाकमिथु- ५नानि । ६मकरिके ! कर्पूरपल्लवरसेनाधिवासय गन्धपात्राणि । रजनिके ! ७तमाल-वीथिकान्ध- कारेषु निधेहि ८मणिप्रदीपान् । कुमुदिके ! स्थगय ९शकुनिकुलरक्षणाय मुक्ताजालैर्दाडिमी- फलानि । निपुणिके ! १०लिख ११मणिशालभञ्जिकास्तनेषु कुङ्कुमरसपत्रभङ्गान् । उत्पलिके ! परा-
स्यैव भङ्ग इति कियदाश्चर्यकरस्त्वभवदेवेत्याशयः, अतएव 'अति'पदप्रयुक्तिरपि सङ्गता भवतीत्यवधेयम् । अनेन मध्यभागानामत्यन्तकृशत्वं सूच्यते । इहापि प्रत्येकवाक्य एव असम्बन्धे सम्बन्धरूपातिशयोक्तिर्ज्ञेया ।
तस्येति । तस्य कुमारीपुरस्य । परिभ्रमतः पर्यटतः कादम्बर्या गन्धर्वराजपुत्र्याः प्रत्यासन्नस्य सर्वदा समीपवर्तिनः । शुश्राव आकर्णयामास चन्द्रापीड इति शेषः ।
तथाहीति । 'लवलिके !' इति कस्याश्चित् सम्बोधनम् । एवमग्रेऽपि यथायोगं समुन्नेयम् । केतकीधूलिभिः केतकीपुष्परजोभिः, लवलीलतानां लवलीवल्लीनां यानि आलवालानि आवापाः तेषां मण्डलानि उपरि वेष्टनानि कल्पय रचय 'आवापो भाण्डपचने परिवेषालवालयाः' इति रामाश्रमी ।
सागेति । गन्धोदकं सुरभिजलं तेन पूर्णेपु कनकदीर्घिकासु सुवर्णपट्टवेष्टितखातवापीषु रत्नवालुकां मणिसिकतां विकिर विक्षिप ।
मृनेति । कृत्रिमकमलिनीषु कृत्रिमपद्मजमयदीर्घिकासु कुङ्कुमरेणुमुष्टिभिः यन्त्रचक्रवाकमिथुनानि कृत्रिमयन्त्रात्मकचक्रवाकद्वन्द्ववृन्दान् छुरय रक्षय ।
मकेति । कर्पूरपल्लवयोः घनसारकिसलययोः रसेन द्रवेण, अधिवासय अधिकसुगन्धीनि विधेहि ।
रजेति । तमालवीथिकानां तापिच्छवृक्षपङ्क्तीनाम् अन्धकारेषु तिमिरेषु देशेषु मणिप्रदीपान् रत्नप्रदीपान् निधेहि स्थापय ।
कुमुदीति । शकुनिकुलरक्षणाय पक्षिसमूहानिवारणाय मुक्ताजालैः मुक्तासमूहैः दाडिमीफलानि स्थगय आच्छादय ।
निपुणीति । मणिशालभञ्जिकाः रत्नरचितस्त्रीपुत्तलिकाः तासां स्तनेषु कुचेषु कुङ्कुमरसैः कुङ्कुमद्रवैः पत्रभङ्गान् पत्रावलीः लिख चित्रीकुरु ।
उत्पेति । कनकसंमार्जनीभिः सुवर्णबहुरीभिः कदलीगृहस्य उद्यानस्थरम्भा मण्डपस्य मरकतवेदि-
आश्चर्य-जनक नहीं था।
इस प्रकारके कन्यान्तःपुरके थोड़ा भीतर जाने पर उसने कादम्बरीके समीप रहनेवाली—इतस्ततः विचरण करती—परिचारिकाओंके विविध प्रकारके मनोहर आलाप श्रवण किया । जैसे—'अरी लवलिके ! केतकी-पुष्पके परागसे लवली-लताओंके आस पास आलवाल ( क्यारी ) के ऊपर मण्डल ( गोलाकार भित्ति ) निर्माण कर; सागरिके ! सुगन्धितजलसे परिपूर्ण सुवर्णमय रत्नकी रेती बिछा; अरी मृणालिके ! कृत्रिम-पद्ममय सरोवरमें जो समन्त यन्त्रमय ( कलके ) चक्रवाक और चक्रवाकी हैं, उनपर कुङ्कुमकी झुकनी मुट्ठी भर भर कर रक्षित कर; मकरिके ! कर्पूरके जल और पल्लवके रस डालकर गन्धद्रव्यके पात्रोंको सुवासित ( सुगन्धित ) कर, रजनिके ! तमाल-वृक्षोंकी अंधेरी पंक्ति ( कुञ्ज ) में मणिमय प्रदीपोंको रख; अरी कुमुदिके ! पक्षियोंसे रक्षा करने ( बचाने ) के लिए दाड़िमफलों ( अनारों ) को मोतियोंकी जालियोंसे आच्छादित कर दे; अरी निपुणिके ! मणि-मय पुत्तलिकाओं ( पुतलियों ) के कुचमण्डल पर कुङ्कुमरससे फूलपत्ते चित्रित कर दे; उत्तलिके ! स्वर्ण-सम्मार्जनी
१. ०न्तरमवक्रम्य । २. सारसिके । ३. गन्धोदकदीर्घिकासु, कनकनदिकासु । ४. क्षोद ।
५. क्वचित् 'यन्त्र'पदं नास्ति । ६. युग्लानि । ७. मन्दारिके००। ८. भवनतमाल००भवनदीर्घिकातमाल ।
९. मणिदीपान् । १०. रक्षणार्थन् । ११. लेखय । १२. मणिस्तम्भा००।
कन्यापुरोदन्तवर्णन० ८५ ] चन्द्रकला-विद्योतिनीसहिता । ५३३
मृश कनकसम्मार्जनीभिः१ कदलीगृहमरकतवेदिकाम्२ । केसरिके३ ! सिञ्च मदिरारसेन बकुलकुसुममालगृहाणि । मालतिके ! पाटलय सिन्दूररेणुना कामदेवगृहदन्तवलभिकाम् । नलिनिके ! पायय कमलमधुरसं भवनकलहंसान् । कदलिके ! नय धारागृहं गृहमयूरान् । कमलिनिके ! प्रयच्छ चक्रवाकशावकेभ्यो४ मृणालक्षीररसम् । चूतलतिके५ ! देहि पञ्जर-पुंस्कोकिलेभ्यश्चूतकलिकाङ्कुराहारम् । पल्लविके ! भोजय मरिचाग्रपल्लवदलानि भवनहारीतान् । लवङ्गिके ! विक्षिर्पं६ चकोरपञ्जरेषु पिप्पलीतण्डुलै-शकलानि । मधुकरिके ! विरचय कुसुमाभरणकानि । मयूरिके ! सङ्गीतशालायां विसर्जय किन्नरमिथुनानि । कन्दलिके ! समारोहय क्रीडापर्वतशिखरं जीवञ्जीवमिथुनानि । हरिणिके ! देहि पञ्जरशुकसारिकाणा-मुपदेशम्८ इत्येतानि९ अन्यानि च परिहासजल्पितान्यश्रौषीत् ।
काम्, परामृश संमार्ज्य ।
केसेति । मदिरारसेन सुराद्रवेण वकुलकुसुममालगृहाणि केसरपुष्पस्रग्विभूषितभवनानि सिञ्च सेचनं विधेहि ।
मालेति । सिन्दूररेणुना नागभूषणरजसा कामदेवगृहस्य मदनभवनस्य दन्तवलभिकां गजदन्तरचितचूड़ां पाटलय श्वेतरक्तीकुरु ।
नलीति । भवनकलहंसान् गृहकादम्बवान् कमलमधुरसं पङ्कजमरन्दद्रवं पायय पानं कारय ।
कडेति । गृहमयूरान् भवनकलापिनः धारागृहं सलिलोद्गारयन्त्रसंयुक्तं भवनं नय प्रापय ।
कमेति । चक्रवाकशावकेभ्यः रथाङ्गशिशुभ्यः मृणालक्षीररसं कमलविसनिर्यासं प्रयच्छ प्रदेहि ।
चूतेति । पुमांसः पुरुषाश्च ते कोकिलाः परभृताश्चेति पुंस्कोकिलाः, पञ्जरस्थायिनश्च ते पुंस्कोकिलाः पञ्जरपुंस्कोकिलाः तेभ्यः चूतकलिकाङ्कुराहारम् आम्रकोरकप्ररोहमयमशनम् देहि प्रयच्छ ।
पल्लविक इति । भवनहारीतान् गृहपालित ‘हारिल’ लोकप्रसिद्धपक्षिविशेषान् मरिचाग्रपल्लवदलानि श्वेतशोभाञ्जनाग्रकिसलयपर्णानि भोजय प्राशय ।
लवङ्गिक इति । चकोरपञ्जरेषु विषसूचकवंशदलेषु पिप्पलीनां मागधीनां तण्डुलशकलानि अभ्यन्तरस्थबीजखण्डानि निक्षिप ।
मध्विति । कुसुमाभरणकानि पुष्पमयाणि भूषणानि, अनुकम्पायां कः । विरचय कल्पय ।
मय्विति । सङ्गीतशालायां गीतवाद्यनृत्यशालायां किन्नरमिथुनानि तुरगवदनद्वन्द्वानि विसर्जय गानादिसम्पादनार्थं प्रेरय ।
कन्देति । जीवञ्जीवमिथुनानि चकोरपक्षिद्वन्द्वानि ‘जीवञ्जीवश्चकोरकः’ इत्यमरः । क्रीडापर्वतशिखरं शैलाशिखरमग्रिमं समारोहय आरोहणं कारय ।
हरिणिक इति । पञ्जरशुकसारिकाणां बन्धनगृहस्थितकीरसारिकाणाम् उपदेशं हितशिक्षां देहि प्रयच्छ । एतानि आदेशवचनानि अन्यानि अपराणि च परिहासजल्पितानि नर्मभाषितानि अश्रौषीत्
(झाडू) द्वारा कदली-गृहके मरकतमय वेदिका (चबूतरे) को परिष्कृत (साफ) कर; केसरिके ! मदिरारस लेकर बकुल-पुष्पोंके माला-गृहको सिक्तकर (छिड़क); अरी मालतिके ! सिन्दूरकी रेणुद्वारा, कामदेव-गृहकी हाथीदाँतकी-अटारीको रञ्जित (गुलावी) कर दे; अरी नलिनिके ! गृह-पालित कलहंसोंको कमल-मधुका रस पान कराओ; कदलिके ! गृह-पालित-मयूरोंको धारा-गृहमें ले जाओ; अरी कमलिनिके ! चक्रवाकके बच्चोंको मृणाल-क्षीर-रस दो; चूतलतिके ! पिंजरेमें बैठे कोकिलोंको आम्रकोरकाङ्कुर (आमके बौर) का आहार दो; पल्लविके ! गृह-पालित हारीत-पक्षियोंको मरिचपल्लवके दलाग्र (मिर्चके कोमलपत्तौँके टुकड़े) भोजन कराओ; अरी लवङ्गिके ! चकोर-पक्षीके पिंजरेमें पिप्पलीके अभ्यन्तरस्थ बीजखण्डों (तण्डुलके टुकड़ों) को निक्षेप कर (डाल); मधुकरिके ! पुष्पोंका आभूषण निर्माण कर; मयूरिके ! किन्नर-दम्पतियोंको सङ्गीतशालामें गानकरनेके लिए भेज दे; अरी कन्दलिके ! चकोर और चकोरीको क्रीडा-पर्वतके शिखर पर आरोहण करा (चढ़ा) दे; अरी हरिणिके ! पिंजरेमें बैठे शुक-सारिकाओं (तोते-मैने) को उपदेश दे ।' ये सब वाक्य एवं इसके अतिरिक्त अन्यान्य
१. कमलमार्जनीभिः, संमार्जनीभि । २. वेदिकाः । ३. कुसुमिके ! । ४. चक्रवाकेभ्यः । ५. चूतकलिके ! । ६. निक्षिप । ७. दल । ८. सारिकोपदेशम् । ९. एतानि ।
| ५३४ | कादम्बरी- | [ कथायाम्- |
|---|
तथाहि—'चामरिके ! मिथ्यामुग्धतां प्रकटयन्ती कमभिसन्धातुमिच्छसि ? अयि यौवनविलासैरुन्मत्तीकृते ! विज्ञातासि, या त्वं स्तन-कलस-भारावनम्यमानमूर्तिर्मणिस्तम्भ-मयूरानालम्बसे³। परिहासकाङ्क्षिणि ! रत्नभित्तिपतितमात्मप्रतिबिम्बमालपसि⁴। पवनहतो-त्तरीयांशुके ! हारप्रभायासितकरतला सङ्कलयसि⁵। मणिकुट्टिमेषूपहारकमलस्खलनभीते ! निजमुखप्रतिबिम्बकानि परिहरसि । निजसौकुमार्य-गर्व-खर्वित-बिसप्रसून-सौभाग्ये ! जालं-
आकर्णितवान् । एतद्धि कुमारीपुराध्यक्ष्या निखिलाः परिचारिकाः सम्बोध्य सम्बोध्य निजनिजव्यापारे नियोजयन्तीत्यवधेयम् । प्रायेणान्वर्थनामिका इमाः । अनेन कादम्बर्याः सुविशाला खलु विलासोपकरण-सम्पत्तिर्व्यञ्जिता भवति ।
परिहासभाषितानि प्रकटयति—तथाहीति । मिथ्यामुग्धताम् असत्यमार्दवतां प्रकटयन्ती प्रदर्श-यन्ती । अभिसन्धातुं भावप्रकटनेन वञ्चयितुम् इच्छसि अभिलषसि । अनेन क्वापि क्षुविचेष्टादिकं बोधयित्वा परिहसितम् ।
अयीति । अयीति कोमलामन्त्रणे । यौवनविलासैः तारुण्यविभ्रमैः उन्मत्तीकृते मदमत्तीकृते ! विज्ञातासि सम्यग्रूपेण त्वं मया विदितासि । स्तनकलसयोः कुचकलसयोः भारेण गुरुत्वेन अवनम्यमाना मूर्तिः स्वहृपं यस्याः तथोक्ता त्वं मणिस्तम्भेषु रत्नस्थूणासु ये मयूराः रत्नराचता एव कलापिनः तान् आलम्बसे आलिङ्गसि । अनेन कुचकण्डूयनापनोदनाय त्वं मणिमयूरानारिलप्स्यसीति परिहसितम् ।
परीति । परिहासकांक्षिणि परिहामभिलाषिणि ! रत्नभित्तिपतितं मणिकुड्यसंक्रान्तम्, आत्मप्रति-बिम्बं निजप्रतिरूपम् आलपसि परिभाषसे परिश्रमेणेत्याशयः। अनेन कस्यचिच्चिन्तया त्वं बाह्यबोधशून्या-सीति परिहसितम् । इह निजप्रतिबिम्बे अपरतरुणीभ्रमाद् भ्रान्तिमानलङ्कारः प्रतीयत इति कुशलाः ।
पवनेति । पवनेन समीरणेन हृतं नीतम् उत्तरीयां शुकम् उपरिव्यवस्त्रं यस्यास्तत्सम्बोधनम् । आयामितकरतला पुनस्तद्ग्रहणप्रयासेन परिश्रमितहस्ता, उत्तरीयां शुकं परिहितवक्षोपरिस्थितवस्त्रम् आदातुं ग्रहीतुं वारंवारं प्रसारणादित्याशयः, हारप्रभां हारद्युति सङ्कलयसि उत्तरीयवस्त्रम् मन्यसे । अनेन हारप्रभायामुत्तरीयवसनं संसूच्य परिहसितम्, अत एवेहापि उक्तालंङ्कारः प्रतीयते ।
मणिकुट्टीति । उपहारकमलानि शोभासम्पादनाय भूमौ विक्षिप्तानि पङ्कजानि तेषु स्खलनभीता पतनत्रस्ता या तत्सम्बुद्धौ रूपम् । मणिकुट्टिमेषु रत्नबद्धभूमिषु निजमुखप्रतिबिम्बकानि स्ववदनप्रतिच्छा-यानि परिहरसि त्यक्त्वा व्रजसि, तदुपहारपद्मभ्रान्त्येत्याशयः । अनेन निजवदनप्रतिच्छायासु उपहारपद्म-भ्रान्तिबोधनेन शून्यहृदयत्वं बोधयित्वा परिहसितम् । इहापि पूर्ववदलङ्कारः प्रतीयते ।
निजेति । निजसौकुमार्यगर्वेण स्वमार्दवाहङ्कारेण खर्वितं न्यूनीकृतं बिसप्रसूनस्य पङ्कजस्य सौभाग्यं मार्दवं यया सा तत्सम्बुद्धौ रूपम्, अतएव सौकुमार्याधिक्याद्यच्चोदितसूर्यालोकभ्रान्त्यापि छत्रीकरणफल-
परिहास-वाक्यों को उसने सुना ।
जैसे—'अरी चामरिके ! तू यों मिथ्या मुग्धता प्रकाश कर किसको वञ्चना करनेकी इच्छा करती हो ? अरी यौवनविलासोन्मत्ते ! वह हमने जान लिया कि—कलशतुल्य स्तनयुगलके भारके कारण शरीरके अवनत हो (झुक) जानेसे तू मणिस्तम्भके मयूरोंका आलिङ्गन करती है; अरी परिहासकाङ्क्षिणि ! तू तो मणिमय भित्तिमें पड़े हुए अपने ही प्रतिबिम्बके साथ आलाप (बातचीत) करती है;–हे शून्यहृदये ! वायु तुम्हारे उत्तरीय वस्त्रको उड़ा ले गया है, उसको समेटनेके बदले तू तो हाथको परिश्रान्त कर अपने हारकी प्रभाको उत्तरीयवस्त्र (दुपट्टा) समझती हो; अरी बाह्यज्ञानशून्ये ! तू तो मणिवद्ध भूतल पर शोभासम्पादनके लिए रखे कमलों पर गिरनेके भयसे अपने मुखप्रतिबिम्बोंको ही छोड़कर जाती है; अरी कोमलाङ्गि ! तू अपने कोमलताके अभिमानमें कमलकी
१. वृथा ।
२. ज्ञाता ।
३. '''स्तम्भनमयूरानवलम्बते ।
४ '''प्रतिनामाल्पयसि न
५. आकलयसि ।
६. क्वचित् 'निजसौकुमार्य '''इत्यारभ्य 'जाल' पर्यन्तं न विद्यते । क्वचिच्च सम्पूर्णतन्तोषनान्तमेव पदं न दृश्यते ।
कन्यापुरोदन्तवर्णनम् ८१ ] चन्द्रकला-विद्योतिनीसहिता । ५३५
वातायनपतितपद्मरागालोकं^१ प्रति बालातपशङ्कया^२ करतलमातपत्रीकरोषि । खेद-स्रस्त^४-हस्त-गलित-चामरे^५ ! नखमणिमयूख^३कलापमाधूनोषि' इत्येतान्यन्यानि च शृण्वन्नेव कादम्बरी-भवनसमीपम् उपययौ^७ । पुलिनायमानमुपवनलता-गलित-कुसुम-रेणु-पटलैः, दुर्दिनायमाननिभृत-परभृत-नख-क्षताङ्ग^८-सहकारफल-रस-वर्षैः, नीहारायमाणमलिन-विप्रकीर्णैर्वकुल-सेक-सीधु-धारा-धूलिभिः,
सुप्रस्थितमित्याशयः । 'विसप्रसूनराजीवपुष्कराम्भोरुहाणि च' इत्यमरः । जालवातायने जालरूपे गवाक्षे पतितः संस्पृष्टः पद्मरागस्य लोहितमणेः आलोकः प्रकाशः तं प्रति तद्विषये, बालातपशङ्कया प्रत्यग्रोदित-सूर्यप्रकाशभ्रान्त्या करतलं स्वहस्तमेव आतपत्रीकरोषि तत्प्रतिषेधेच्छया छत्रीकरोषि ।
इह लोहितकमणिप्रकाशे बालातपभ्रान्त्या भ्रान्तिमानलङ्कारः । विसप्रसूनादपि तेऽधिकं सौकुमार्यं येन हि नवोदितसूर्यालोकभ्रान्त्यापि सातपत्रकरव्यापारैवेति परिहासः ।
खेदेति । खेदेन मञ्चालनपरिश्रमेण त्रस्तात् शिथिलात् हस्तात् करात् गलितं प्रच्युतं चामरं बाल-व्यजनं यस्यास्तत्सम्बुद्धौ रूपम्, अतएव बालव्यजनभ्रान्त्या नखमणिरश्मिसमूहान्दोलनमित्याशयः । नखमणीनां नखस्थापिताभरणरत्नानां मयूखकलापं रश्मिसमूहम् आधूनोषि चालयस्यजनभ्रान्त्यान्दोल-यसि । इह हि वाचकशब्दाभावादुत्प्रेक्षालङ्कारः प्रतीयते । तयाविधभ्रान्तिवशाच्चोपहासप्रतीतिः । इत्येतानि पूर्वोक्तानि अन्यानि एतदतिरिक्तानि च वाक्यानि शृण्वन्नेव आकणर्यन्नेव कादम्बरीभवनं गन्धर्वराजपुत्री-गृहम् उपययौ जगाम चन्द्रापीड इति शेषः ।
पुलिनेति । उपवनं पार्श्ववर्त्युद्यानं तस्य लताभ्यो वल्लीभ्यो गलितानि पतितानि यानि कुसुमरेणु-पटलानि पुष्पपरागपुञ्जानि तैः पुलिनायमानं श्वेतत्वसादृश्यात् बालुकामयवदाचरन्तम् । इत आरभ्य द्वितीयान्तानि पदानि अग्रेतनस्य 'मार्गमद्राक्षीत्' इत्यत्र मार्गमित्यस्य विशेषणान्यवगन्तव्यानि ।
दुर्दिनेति । अनिभृताश्चञ्चला ये परभृताः कोकिलाः तेषां नखैः नखरः क्षतानि विदीर्णानि अङ्गानि अवयवा येषां तथोक्तानां सहकारफलानां पार्श्वस्थानाम्राम्रफलानां रसवर्षैः, दुर्दिनायमानं दृष्टित्वासम्पदा-चरन्तम् ।
नीहारेति । अनिलविप्रकीर्णैः पवनविक्षेपैः वकुलानां केसराणां वृक्षाणां सेके कुसुमप्रस्फुटनाय सेचनकाले सीधुधाराणां सुन्दरीवदनमद्यप्रवाहाणां धूलिभिः कणैः, नीहारायमाणं श्वेतत्वसादृश्यात् तुहिनपुञ्जवदाचरन्तम् ।
ननु 'रेणुर्द्वयोः स्त्रियां धूलिः' इत्यमरेण धूलिशब्दस्य स्त्रीलिङ्गत्वेन कथमिह पुंल्लिङ्गतेति चेत् ? सत्यम् 'द्विरदघटाकुम्भभित्तिसम्भवेन धातुंधूलिने'ति प्रयोगात् 'धूलिः पुंस्यपि' इत्यमरटीकायां रघुनाथोपा-ध्यायापनिरासात् ।
कोमलताको भी न्यून करती हो, अतएव गवाक्ष जाल (खिड़कियों की जाली) में पड़े पद्मरागमणिके प्रकाशको ही नवोदित सूर्यालोक समझ कर उसे निवारण करनेके लिए छत्र करती (छतरी का काम लेती) हो; अरी अवले ! आन्दोलन-जनित परिश्रमसे तेरे हाथमेंसे चामर गिर पड़ा है—इसे तू जानती नहीं है और केवल नखमणियों ही चामर समझकर आन्दोलन किया (हिलाया) करती है—इस प्रकारके और अन्यान्य अनेक प्रकारके वाक्योंको सुनते-सुनते ही चन्द्रापीड जाकर कादम्बरीके भवनके समीप उपस्थित हुआ (आया) ।
वहाँ उपस्थित होकर उसने एक मार्गको देखा; वह मार्ग पार्श्ववर्ती उद्यानकी लताओंके फूलोंमेंसे पराग गिरनेसे पुलिन (बालुकामय) के समान लगता था; चञ्चल (•आर करती) कोकिलोंके नखसे क्षत-विक्षत (फुँदरे) हुए आम्रोंके फलका रस वर्षण होने (टपकने) से वहाँ वृष्टिके दिनके समान दीखता था; पवनसे इतस्ततः विक्षिप्त किए (बिखरे) हुए—पुष्पविकासके लिए बकुलवृक्षके ऊपर सुन्दरी मुखमद्यधाराके-कणोंसे वह
१. अवलोकम् । २. आशङ्किनी । ३. सानन्दं । ४. खेदग्रस्त••• । ५. कलितचामरा, कलितचामरैः । ६. किरण••• । ७. भवनमुपसृत्य ययौ, भवनमुपययौ । ८. ०क्षताग्रन••• ।
२३६ कादम्बरी- [ कथायाम्-
काञ्चनद्वीपायमानं चम्पकदलोपहारैः१, नीलाशाोक२वनायमानं कुसुम-प्रकर-पतित-मधुकर-वृन्दान्धकारैः, तथा च सञ्चरतः३ स्त्रीजनस्य रागसागरायमाणं चरणालक्तकरसविस्तरैः, अमृतोत्पत्तिदिवसायमानमङ्गरागामोदैः, चन्द्रलोकायमानं दन्तपत्रप्रभामण्डलैः४, प्रियङ्गुवनायमानं कृष्णागुरुपत्रभङ्गैः५, लोहितायमानं कर्णपूराशोकपल्लवैः६, धवलायमानं चन्दनरसविलेपनैः, हरितायमानं शिरीषकुसुमाभरणैः, अथ सेवार्थमागतेनोभयत ऊर्ध्वस्थितेन स्त्रीजनेन प्राकारेणेव लावण्यमयेन कृतदीर्घरथ्यामुखाकारं मार्गमद्राक्षीत्। तेन चान्तर्निपतन्तम्७ आभरण-
काञ्चनेति। चम्पकानां हेमकुसुमानां यानि दलानि पर्णानि तेषाम् उपहारैः शोभासम्पादनाय प्रक्षेपैः, काञ्चनद्वीपायमानं पीतत्वसादृश्यात् सुवर्णद्वीपवदाचरन्तम्।
नीलेति। कुसुमप्रकरेषु पुष्पसमूहेषु पतितानि उपविष्टानि मधुकरवृन्दान्येव भ्रमरपुञ्जान्येव अन्धकाराः तिमिराणि तैः नीलाशाोकवनायमानं श्यामाशाोकारण्यायमानम्।
तथेति। तथा च किञ्चेत्यर्थः। सञ्चरतो गच्छतः स्त्रीजनस्य वनितावर्गस्य चरणालक्तरसानां पादरञ्जनार्थयावकरसानां विस्तरैः प्रसरणैः, रागसागरायमाणं रक्तिम्नः पयोधिबदाचरन्तम्।
अमृतेति। अङ्गरागाणां विलेपनानाम् आमोदैः परिमलैः, अमृतोत्पत्तिदिवसवत् पीयूषोत्पत्तिदिनवदाचरन्तम्।
चन्द्रेति। दन्तपत्राणि गजदन्तरचितपत्राकारश्रवणभूषणानि येषां प्रभामण्डलैः कान्तिसमूहैः चन्द्रलोकायमानं शुभ्रप्रकाशप्रसरणसादृश्याच्चन्द्रलोकवदाचरन्वम्।
प्रियङ्ग्चिति। कृष्णागुरोः काकतुण्डस्य पत्रभङ्गैः पत्राकारतिलकविशेषैः, प्रियङ्गुवनायमानं श्यामत्वसादृश्यात् फलिनीलताविपिनवदाचरन्तम्।
लोहितेति। कर्णपूरभूताः श्रवणालङ्कारीभूता ये अशोकपल्लवाः कङ्कोलकिसलयाः तैः लोहितायमानं रक्तवदाचरन्तम्।
धवलेति। चन्दनरसस्य मलयजद्रवस्य विलेपनैः अङ्गरागैः, धवलायमानं श्वेतवदाचरन्तम्।
हरितेति। शिरीषस्य कपीतनस्य कुसुमाभरणैः पुष्पाscienceलङ्कारैः, हरितायमानं हरित्त्वर्णयुक्तवदाचरन्तम्।
अथेति। अथ अनन्तरम्। उभयतः पार्श्वद्वययोः, लावण्यमयेन सौन्दर्यमयेन सेवार्थं परिचर्यार्थम् आगतेन आयातेन प्राकारेणेव प्राचीरेणेव ऊर्ध्वस्थितेन उपरि विद्यमानेन दण्डायमानेनेत्यर्थः स्त्रीजनेन योषिद्वर्गेण, कृतो विहितः दीर्घरथ्यामुखवत् विस्तृतप्रतोलीमुखवत् आकारो यस्य तम्। प्राग्यदीर्घरथ्याया मुखभागे उभयतो वृत्तिः मध्ये च स्वस्त्यायानो दीर्घा मार्गोऽवलोकयत इत्यभिप्रायः। मार्गं पन्थानम् अद्राक्षीत् आलोकितवान् महाश्वेतया सह गच्छंश्चन्द्रापीड इति शेषः। जात्युत्प्रेक्षा।
तेनेति। वहन्तं प्रसरन्तम्, नद्याः सरितो वेगिकावत् कचकलापवेणीवत् (अर्थात् सरतः) यो जलप्रवाहः सलिलधारा तमिव, तेन मार्गेण च अन्तर्निपतन्तम् अभ्यन्तरादायान्तं संपिण्डितम्
मार्ग मानो तुषार-राशिके समान दीखता था; शोभा-सम्पादनके लिए एकत्रित चम्पकपुष्पके पत्रके ढेरसे वह मानो सुवर्णमय एक द्वीपके समान प्रतीत होता था; विविध स्थानमें विक्षिप्त (बिखेरे) सन्तान्य पुष्पसमूहके ऊपर बैठे हुए भ्रमरोंके अन्धकारसे वह मानो नीलवर्ण अशोक-वनके समान शोभामान था। वहाँ सुन्दरियाँ सर्वदा ही इतस्ततः विचरण करती थीं, अत एव उनके चरणोंके अलक्तक (महावर) रससे वह मानो रक्तिमाके समुद्रके समान देखनेमें आता था; अङ्गलेपके सौरभसे वह मानो अमृतोत्पत्ति-दिनके समान हो; हस्ति-दन्त-निर्मित कर्णभूषणके आलोकसे वह मानो चन्द्रलोकके समान हो; स्तन-कपोलादि स्थानमें गोरोचनकी पत्राकार तिल-रेखाओंसे जड़ित रहनेके कारण मानो प्रियङ्गुलताओके वनके समान हो; अशोकपल्लवके कर्णभूषणसे मानो रक्तवर्ण हो गया हो; शरीरमें लगाए चन्दनमय अङ्गलेपसे मानो धवलवर्णके समान बन गया हो; और शिरीष-पुष्पके आभूषणोंसे मानो हरिद्वर्णके समान प्रतीत हो-ऐसा दीखता था। कादम्बरीकी सेवा करनेके लिए आई हुई, दोनों बगल खड़ी हुई स्त्रियोंसे मानो लावण्यके समान हो ऐसा—दीर्घरथ्याके सम्मुखभाग (चौड़ी सड़कके मुख) के आकारवाला मार्ग उसने देखा। और भी उसने देखा कि—केशपाशवेणीके समान सरल नदीका स्रोत
१. चम्पकोपहारेः। २. लीलाशाोक...। ३. सञ्चरन्। ४. पत्रमण्डलैः। ५. प्रियङ्गुवनायमानं रोचनातिलकभङ्गिभिः, नीलायमानं कृष्णागुरुपत्रभङ्गैः। ६. कर्णाशोकपल्लवैः। ७. निपतितम्।
- कादम्बरीदर्पणे ८६ ] . चन्द्रकला-विद्योतिनीसहिता । १२७
किरणालोकं मणिकुट्टिमं नदीवेणिकाजलप्रवाहमिव वहन्तमपश्यत् । तन्मध्ये च प्रतिस्रोत इव गत्वा प्रतीहारीमण्डलाधिष्ठितपुरोभागं श्रीमण्डपं ददर्श । तत्र च मध्यभागे पर्यन्तरचितमण्डलेनाध उपविष्टेन¹ चानेकसहस्रसंख्येन परिस्फुरदाभरणसमूहेन कल्पलतानिवहेनेव कन्याकाजनेन परिवृताम्, नीलांशुकप्रच्छदपटप्रावृतस्य नातिमहतः² पर्यङ्कस्योपाश्रये धवलोपधानन्यस्त-द्विगुण-भुजलतावष्टम्भेनावस्थिताम्, महावराहदंष्ट्रावलम्बिनीमिव महीं, विस्तारिणि देहप्रभाजालजले³ भुजलताविक्षेपपरिश्रमैः प्रतरन्तीभिरिव चामरग्राहिणीभिरुपवीज्यमानाम्, निपतितप्रतिविम्बतयाऽधस्तान्मणिकुट्टिनेषु
एकत्रीभूतम् चामर० किरणालोकं नानामण्युत्प्रभाप्रवाहम् अपश्यत् दृष्टवान् । इहोपमाऽलङ्कारः ।
तदिति । किञ्च, तस्य चामरकिरणालोकस्य मध्ये प्रतिस्रोत इव गत्वा स्रोतसि तरङ्गानुसारेण स्रोतोऽन्तरमिव व्रजित्वा चन्द्रापीडः, प्रतीहारीमण्डलेन द्वारपालिकासमूहेन अधिष्ठित आश्रितः पुरोभागः संमुखदेशो यस्य तं तथोक्तम्, श्रीम्युक्तं मण्डपः तम् अनेकविधाद्भुतकान्तिशोभितम् एकं भवनमित्यर्थः ददर्श अवलोकितवान् । इह श्रौतीनोपमाऽलङ्कारः ।
तत्रेति । अपि च, चन्द्रापीडः, तत्र श्रीमण्डपे मध्यभागे 'कादम्बरीं ददर्श' इत्यग्रिमविद्यया क्रियया सम्बन्धः । इह श्रीलिङ्गद्वितीयेकवचनान्तानि पदानि अग्रेतनस्य 'कादम्बरीम्' इत्यस्य विशेषणानि बोध्यानि । पर्यङ्केषु पर्यङ्कप्रान्तदेशेषु रचितं विहितं मण्डलं मण्डलरूपेणावस्थानं येन तेन, अधः पर्यङ्काधोभागे उपविष्टेन आसीनेन, अनेकानि बहूनि सहस्राणि दशशतानि सङ्ख्या गणना यस्य तेन, परिस्फुरन् दीप्यमान आभरणसमूहः भूषणगुञ्जो यस्य तेन, तथा कल्पलतानां मन्दारवल्लीनां निवहेन समूहेनेव विद्यमानेन च कन्याकाजनेन कुमारीगणेन परिवृतां परिवेष्टिताम् । कल्पलता अपि अर्थिजनमनोरथपूरणानानेकविद्याभूषायुक्ता इत्युभयोः सादृश्यम्, अत्रोत्प्रेक्षाऽलङ्कारः ।
नीलेति । नीलांशुकमेव नीलवसनमेव प्रच्छदपट आस्तरणवस्त्रं तेन प्रावृतस्य उपर्याच्छादितस्य नातिमहतः स्वल्पविस्तृतस्य पर्यङ्कस्य पल्यङ्कस्य उपाश्रये पार्श्वदेशे, धवलं शुभ्रं यत् उपधानम् तच्छीर्षकं तत्र न्यस्ता स्थापिता द्विगुणा भुजनयग्रन्थिसुन्नलया द्विरावृत्ता या भुजलता वामबाहुवल्ली तस्या अवष्टम्भेन आश्रयणेन अवस्थिताम् ।
रूव इव महावराहस्य नारायणस्य शूकराख्यद्वतीयावतारस्य दंष्ट्रावलम्बिनी दन्ताश्रितां महीं वसुधामिव विद्यमानाम् । तथा च धवलोपधानन्यस्तभुजलता कादम्बरी महींव इत्युपमा, भुजलतावष्टम्भस्य वराहदंष्ट्रासाम्यादिति ।
विस्तारिणीति । विस्तारिणि परितः प्रसारिणि, कादम्बर्या देहप्रभाजालमेव शरीरकान्तिसमूह एव जलं सलिलं तस्मिन्, भुजलताः चामरग्राहिणीनां परिचारिकाणां बाहुलना एव विक्षेपाः सेवनीयदण्डाः तेषां परिश्रमैः आन्दोलनैः प्रतरन्तीभिः भ्रमन्तीभिरिव विद्यमानाभिः, चामरग्राहिणीभिः बालव्यजनधारिणीभिः परिचारिकाभिः उपवीज्यमानां सञ्चाल्यमानाम् । इह परम्परितरूपकं क्रियोत्प्रेक्षा चेत्युभयोः सङ्कीर्णावावडरः । चामरचालनार्थं हस्तो न कम्प्यते अपि तु जले हस्तक्षेपेन तास्तरन्ति इत्यभिप्रायः ।
निपतितेति । अवस्ताद् अधः मणिकुट्टिमेषु रत्नबद्धभूमिषु निपतितप्रतिविम्बतया सङ्क्रान्तप्रति-
विस्तार प्रवाहित होता ई. इसीप्रकार अन्तःपुरस्थित एकत्रित चामरोंके किरण, उस उस मार्गसे निकलता था। वह (चन्द्रापीड) प्रतिस्रोतके समान उस किरणपुञ्जके मध्य होकर अब आगे गया तब उसने नानाविध अलौकिक-शोभा-शोभित एक श्रीमण्डप (गृह) देखा जिसके आगे प्रतिहारियोंका मण्डल बैठा था।
उस श्रीमण्डपके मध्यभाग (बीच) में, पलङ्गके चारों ओर नीचे कल्पलतानसमूहके समान मण्डलाकारसे बैठी, और देदीप्यमान आभूषणोंसे शोभित होती—अनेक सहस्र कन्याओंसे परिवृत, उसने नीलवर्णके एक आस्तरणवस्त्र (चादर) से आच्छादित ढके हुए जो बहुत विशाल न था ऐसे—एक पर्यङ्क (पलङ्ग) के मध्यमें श्वेतवर्ण उपधान (तकिए) पर वक्र करके रखी वाम-बाहुलताके अवलम्बन (सहारे) से बैठी हुई, प्रलयव महावराहकी दंष्ट्रापर लम्बित ठहरती पृथिवीके समान देखनेमें शोभायमान, कादम्बरीको उस (चन्द्रापीड) ने देखा। उसकी शरीरकान्तिके विस्तीर्ण जलमें, अपने अपने भुजलतास्प क्षेपोदण्ड सञ्चालनपूर्वक मानो
१. '०मण्डलेनोपविष्टेन, मण्डलेनाधोऽपविष्टेन ।
२. क्वचित् 'नाति' इति पदं न दृश्यते, क्वचित् 'नातिमहतः' इत्येव दृश्यते ।
३. जालके, लजाये ।
१४ का०
| ५३८ | कादम्बरी- | [ कथायाम्- |
|---|
नागैरिवापह्रियमाणाम्, उपान्ते च रत्नभित्तिषु दिक्पालैरिव पृथक् पृथक्¹ नीयमानाम् उपरि मणिमण्डपेष्वमरैरिवोत्क्षिप्यमाणाम्, हृदयमिव प्रवेशितां महामणिस्तम्भैः, आपीतामिव भवनदर्पणैः, अधोमुखेन श्रीमण्डपमध्योत्कीर्णेन विद्याधरलोकेन गगनतलमिवारोप्यमाणाम्, चित्रकर्मच्छलेनावलोकनकुतूहलसम्पुञ्जितेन त्रिभुवनेनेव परिवृताम्, भूषण-रव-प्रनृत्त-शिखि-शते² चित्र-चन्द्रकेण भवनेनापि कौतुकोत्पादितलोचनसहस्रेणेव दृश्यमानाम्, आत्म-परिजनेनापि दर्शनलोभादुपार्जितदिव्यचक्षुषेवानिमिषनयनेन निर्वर्ण्यमानाम्, लक्षणैरपि
च्छायतया कारणेन, नागैः पातालतलवासिभिः सर्पैः अधस्तात् अपह्रियमाणामिव अन्यत्र नीयमानामिव। अनेन लावण्यातिशयादस्यां सर्पाणामप्यनुरागो व्यञ्जितः। अपि च, उपान्ते निकटे रत्नभित्तिषु मणिकुड्येषु निपतितप्रतिविम्बतया कारणेन, दिक्पालैः इन्द्रप्रभृतिभिर्दशभिर्दिक्पतिभिः पृथक् पृथक् नीयमानामिव प्राप्यमाणामिव, परित एव प्रतिबिम्बपतनादित्यभिप्रायः। अनेनास्यां दिगीश्वराणामप्यासक्तिः सूचिता। उपरि मणिमण्डपेषु ऊर्ध्वस्थरत्नमयच्छद्दिःषु निपतितप्रतिविम्बतया कारणेन, अमरैर्देवैः उत्क्षिप्यमाणामिव उत्तोल्य नीयमानामिव। अनेनास्यां देवानां भावावेशः प्रकाशितः। इह प्रत्येकविशेषण एव क्रियोत्प्रेक्षा।
हृदयमिति। महामणिस्तम्भैः महारत्नस्थूणाभिः हृदयं प्रवेशितामिव चित्तान्तर्गतामिव तेष्वपि प्रतिबिम्बपतनादित्यभिप्रायः। भवनदर्पणैः भित्तिलग्नादर्शैः, आपीतामिव कण्ठाधःकृतामिव, तेष्वपि प्रतिबिम्बपतनादित्याशयः। तथा अधोमुखेन, श्रीमण्डपस्य मध्ये छदिषि उत्कीर्णेन रत्नप्रस्तरं निस्तक्ष्य रचितेन, विद्याधरलोकेन विद्याधरपुत्तलिकाभिः गगनतलम् आकाशतलम् आरोप्यमाणामिव स्थाप्यमानामिव, तेष्वपि प्रतिच्छायापतनादिति भावः। अनेन चैतन्यरहितानामपि भावावेशप्रकाशनादस्या निरतिशयं सौन्दर्यं द्योतितम्। इहाऽप्युक्तरूपेणैवालङ्काराः।
चित्रेति। चित्रकर्मच्छलेन आलेख्यमूर्त्तिव्याजेन, अवलोकनकुतूहलात् कादम्बर्या एव वीक्षणकौतुकात् सम्पुञ्जितेन साक्षात्पिण्डीभावेन, त्रिभुवनेन त्रिविष्टपस्थितसमस्तवस्तुना, परिवृतामिव आच्छादितामिव। इह सापह्नवा क्रियोत्प्रेक्षा। अनेन तत्रानेकविधमालेख्यं तस्याश्च निरतिशयं सौन्दर्यं ध्वन्यते।
भूषणेति। भूषणानाम् आभरणानां रवेण शब्देन प्रनृत्तं नर्त्तनाय प्रवृत्तं यत् शिखिशतं कलापिसमूहः तस्य चित्रचन्द्रका विविधवर्णमेचका यत्र तेन, भवनेनापि तेन श्रीमण्डपेनापि कौतुकेन कादम्बरीवीक्षणकुतूहलेन उत्पादितं जनितं लोचनसहस्रं नयनसमूहं येन तथोक्तेनेव सता मेचकानां नयनतुल्यत्वादित्याशयः, दृश्यमानमिव प्रेक्ष्यमाणामिव। क्रियोत्प्रेक्षा। अनेन तस्याः कलापिसम्पत्तिः सौन्दर्यातिशयश्च प्रतीयते।
आत्मनेति। आत्मनः स्वस्य परिजनेनापि परिचारिकावर्गेणापि, दर्शनलोभात् कादम्बर्या एवावलोकनतृष्णातः उपार्जितानि तपसा प्राप्तानि दिव्यानि निमेषरहितत्वात् स्वर्गीयाणि चक्षूंषि लोचनानि येन तथोक्तेनेव, अनिमिषनयनेन मता, निर्वर्ण्यमानाम् अवलोक्यमानाम्। उपार्जनक्रियोत्प्रेक्षणादुत्प्रेक्षालङ्कारः। अस्या निरतिशयसौन्दर्यं च ध्वन्यते।
लक्षणैरिति। लक्षणैरपि ध्वजवज्रप्रभृतिभिः सर्वसुलक्षणचिह्नैरपि रागाविष्टैरिव कादम्बर्यामासक्ति-
विचरण करती रहती ही चामरधारिणी परिचारिकाएँ चामर-आन्दोलन (ढुग) करती थीं; नीचेकी मणिमय-भूमिमें कादम्बरीके प्रतिबिम्ब पड़नेके कारण, पातालवासी नागगण ही मानो उसे नीचे लिए जाते थे; एव समीपवर्त्ती मणिमय भित्ति (दीवारों) में प्रतिबिम्ब पड़नेके कारण, इन्द्रादिदिक्पालगण ही मानो उसको पृथक् पृथक् रूपमें लिए जाते थे, और ऊपरके मणिमय तलमें, प्रतिबिम्ब पड़नेके कारण, अन्यान्य देवगण ही मानो उसे उठाकर लिए जाते थे। बड़े-बड़े मणिमय स्तम्भोंने मानो उसको अपने हृदयके भीतर प्रवेश कराया था भवन-दर्पणोंने मानो उसका पान किया था; और श्रीमण्डपमें अधोमुखसे उत्कीर्ण (खोदे) हुए विद्याधरमूर्त्तियां मानो उसको आकाशमें उठाकर लेजाती थीं—चित्रित प्रतिमूर्त्तिके ब्याज (बहाने) से त्रिभुवन ही मानो उसके दर्शन करनेके कुतूहलसे आस-पासमें एकत्रित होकर परिवेष्टन किए (घेर लिए) थे। श्रीमण्डप भी मानो उसको देखनेके कौतुकसे आभूषणोंका शब्द सुनकर नाचने सैकड़ों मयूरोंके विचित्र चन्द्रक-रूपी हजारों नेत्रोंसे देखता था; उसके परिजनवर्ग भी, दर्शन करनेके लोभसे ही मानो दिव्य-नेत्र प्राप्त किए हों इस प्रकार निर्निमेष दृष्टि-
१. क्वचित् 'पृथक् पृथग्'ति नास्ति ।
२. क्वचिदिह' 'चित्तन' इति पदमधिकं विद्यते ।
कादम्बरीवर्णना ८६ ] चन्द्रकला-विद्योतिनीसहिता । ४३६
रागातिरेकेणावधिष्टितमर्वाङ्गीम्, अकृतपुण्यमिव मुञ्चन्तीं बालभावम्, अदत्तमपि मन्मथा- वेश-परवशेनैव गृह्यमाणां यौवनेन, अविचलित-चरणराग-दीधितिभिरिव निर्गताभिः अलक्त- करसपाट लित-लावण्यजल-वेणिकाभिरिव गलिताभिः, निवसित-रक्तांशुक-दशा शिखाभिरिव अवलम्बिताभिः, पादाभरण-रक्तांशुलेखा-सन्देहदायिनीभिः, अतिकोमलतया नखविवरेण वमन्तीभिरिव रुधिरधारावर्षमङ्गुलीभिरुपेताभ्यां क्षितितलतारागणमिव नखमणिमण्डल- मुद्वहद्भ्यां विद्रुमरसनदीमिव चरणाभ्यां प्रवर्त्तयन्तीम्, नूपुर-मणि-किरणचक्रवालेन गुरु-
गृहीतैरिव विद्यमानैः, अधिष्ठितानि आश्रितानि सर्वाणि समन्तानि अङ्गानि अवयवा यस्याः ताम् । ध्वज- वज्रादिचिह्नानि यानि तस्यास्तत्तदङ्गेषु विद्यन्ते, तान्यपि कादम्बर्यामासक्तिवशादाश्रितानीति क्रियोत्प्रेक्षा। अनेन सर्वसुलक्षणसम्पत्त्वं सूचितम् ।
अकृतेति । न कृतं विहितं पुण्यं सुकृतं येन तमिव, बालभावं शैशवं मुञ्चन्तीं त्यजन्तीम् । इह भावा- भिमानिनी क्रियोत्प्रेक्षा । सुकृतं विना कादम्बर्याः कायस्पर्शोऽपि न भवतीति सूचितम् ।
अदत्तमिति । अदत्तमपि जनकादिभिरसमर्पितमपि मन्मथावेशपरवशेनैव कामावेगपरावशीनेन सता यौवनेन तारुण्येन स्वयमेव गृह्यमाणां स्वीक्रियमाणाम्, कामावेगपरवशा हि पित्रादिसमर्पणस्य प्रतीक्षां न विदधते । परमार्थतस्तु यौवनं कामावेगपरवशं भवत्येव स्वाभाविकम् । गुणोत्प्रेक्षा। तादृश्याद्रमश्च व्यञ्जितः।
अविचलितेति । इह तृतीयाबहुवचनान्तानि पदानि अग्रेतनस्य 'अङ्गुलीभिः' इत्यस्य विशेषणानि । निर्गताभिः पादरागादेव प्रकर्टिताभिः अविदलिता निष्क्रान्ताः चरणयोः पादयोः रागस्य लौहित्यस्य या दीधितयः किरणाः ताभिरिव विद्यमानाभिः, सर्वत्र लौहित्यसादृश्यादियदाशयः । जात्युत्प्रेक्षा । गलिताभिः चरणद्वयादेव स्यन्दिताभिः, अलक्तरसेन यावकद्रवेण पाटलीतं आरक्तीकृतं यत् लावण्यमेव निरति- शयसौन्दर्यमेव जलं तस्य वेणिकाभिः धाराभिरिव विद्यमानाभिः । इह जात्युत्प्रेक्षा सा च निरङ्गकेवलरूप- केण सङ्कीर्णा । अवलम्बिताभिः, लम्बनानाभिः, निवसितं परिधानीकृतं यत् रक्तांशुकं लोहितवसनं तस्य दशाशिखाभिः वस्त्राग्रैरिव । वस्तुरुत्प्रेक्षा । पादाभरणानां चरणपरिहितनूपुराणां या रक्तांशुलेखा लोहि- तदीधितिश्रेणी तस्याः सन्देहं भ्रमं ददतीति ताभिः । इह भ्रान्तिमान् । अतिकोमलतया अत्यन्तमुदुल- तया कारणेन नखविवरेण नखान्तरेण करणेन रुधिरधारावर्षं रक्तप्रवाहवृष्टिं वमन्तीभिः उद्गिरन्तीभिः इतिविद्यमानाभिः । क्रियोत्प्रेक्षा । एवंविधाभिः अङ्गुलीभिः तादृशाक्ताभिः उपेताभ्यां युक्ताभ्याम्, नखस्य पृथिवीतलस्य तारागणमिव नक्षत्रमण्डलमिव वर्तुलोञ्चलत्वसादृश्यादियाशयः, नखमणि- मण्डलं नखाख्यद्रौणिपुञ्जरत्ननिकरम्, उद्वहद्भ्यां धारयद्भ्याम्, चरणाभ्यां पादाभ्यां करणाभ्याम्, विद्रुमर- मस्य प्रवालगिर्याख्यस्य नदीं सरितं प्रवर्त्तयन्तीम् अवतारयन्तीमिव विद्यमानां कादम्बरीम् । तथा च 'चर- णाभ्यां विद्रुमरसनदीमिव प्रवर्त्तयन्तीम्' इति विशेषणवाक्यास्यायं निर्गलितोऽर्थः—कोमलरक्तयोश्चरणयोः अरुणा प्रभा मन्दवान् प्रसरति अत एव विद्रुमरसनदीप्रवर्त्तनस्योत्प्रेक्षा । पादौ च अङ्गुलीभिस्तेनैव, अङ्गुष्ठ- यश्च पादरागरुचिना इव, लावण्यजलवेणिका इव इत्यादिनिश्शेषवार्तानिर्गजित इत्यहो कवयितुश्चातुर्य्यम् ।
नूपुरेति । गुर्वीः बृहत्यः निस्रवन्त्यः कटिपश्चाद्भागयोः मदेन भारेण चिन्नं क्लान्तं यत् ऊरुयुगलं
(रक्षक) से उसकी सेवा करते थे; समस्त शुभलक्षण भी उसमें अवशेष रूपपर था मानों उसके समस्त अवयवोंमें अधिष्ठित (आबद्ध) हुए थे; शैशवावस्था ने पुण्य नहीं किया है इसलिए ही मानों उसने उनका परित्याग कर (छोड़ दी थी; पिता-माताके द्वारा दान नहीं किए जाने पर भी, मन्मथकाल के आवेश से ही मानों पराधीन हो- कर मानों अपने से ही उसका ग्रहण किया था; चरणोंको स्थिर रक्तिमा (रंग) की किरणों मान बाहर निकलती थीं, अलक्तक-रस-रंजित (अलता, महावर के रस से युक्त हुए) लावण्यजलकी धारा बहती हो, पूर्व परिहित (पहने हुए) रक्ताम्बरकी किनारीके अग्रभाग (पल्लीकी कोरें) मानो लटकता हुआ हो, ऐसे पादाभरणोंमेंसे निसृत होती-लालवर्ण किरणोंकी लताओका भ्रम उत्पन्न कराती और अत्यधिक कोमल होनेके कारण नखान्द्रद्वारा मानो रुधिरधारा वमन करती (उगलती) अंगुलियोंवाले भूतलके नक्षत्रसमूहके समान नखमणि-मण्डलको संवह्नित चरणोंसे वह मानो प्रवालनदीके रसकी एक नदीकी सृष्टि करती थी; उसके नूपुरोंके मणियोंमेंसे निकलने किरणों-
१. ०मर्वाङ्गाम्, सर्वत्रैववत् ।
२. गलिताभिय, विनिसृताभिः
३. निर्गमितम्...
४. ददातिरिति ।
५. वामिनीभिरिव ।
६. बहुभिर्मिः ।
| ५४० | कादम्बरी- | [ कथायाम्- |
|---|
नितम्ब-भर-खिन्नोरुयुगलं-सहायतामिव कर्तुमुद्गच्छता स्पृश्यमानजघनभागाम्, प्रजापति-कर-दृढ-निपीडित॑-मध्यभाग-गलितं जघन-शिलातल-प्रतिघाताल्लावण्य॑स्रोत इव द्विधागत-मूरुद्वयं दधानाम्, सर्वतः प्रसारित-दीर्घ-मयूख-मण्डलेनेर्ष्यया परपुरुषदर्शनमिव निरुन्धता³ कुतूहलेन विस्तारमिव तन्वता स्पर्शसुखेन रोमाञ्चमिव मुञ्चता काञ्चीदाम्ना नितम्बबिम्बस्य विरचित-परिवेषाम्, निपतित-सकल-लोक-हृदय-भरेणेवातिगुरुनितम्बाम्, उन्नतकुचान्तरित-मुख-दर्शन-दुःखेनैव क्षीयमाण-मध्यभागाम्, प्रजापतेः स्पृशतोऽतिसौकुमार्यात् अङ्गुली-
सखिद्वन्द्वं तस्य सहायताम् ऐकदेशिकनितम्बभारवहनेन साहाय्यम्, कर्तुं विधातुमिव उद्गच्छता ऊर्ध्वं वजता, नूपुरयोः पादकटकयोः मणिकिरणानां रत्नश्मीनां चक्रवालेन मण्डलेन स्पृश्यमानौ स्पर्शविष-यीक्रियमाणौ जघनभागौ जघनदेशौ यस्यास्ताम् । इह क्रियाफलोत्प्रेक्षा ।
प्रजापतीति । प्रजापतेः सृष्टिकर्तुः कराभ्यां हस्ताभ्यां दृढनिपीडितः रचनासमये नितान्तकृशत्वस-म्पादनाय अत्यन्तनियन्त्रितो यो मध्यभागः कटिदेशः तस्माद् गलितं प्रच्युतम्, अथ च जघनमेव ऊरु-रेव शिलातलं प्रस्तरमलं गुरुत्वात् कर्कशत्वाच्चेत्याशयः, तेन प्रतिघातात् कारणात् द्विधागतं द्विधाविभक्तं लावण्यस्रोत इव सौन्दर्यप्रवाह इव, ऊरुद्वयं जघनयुगलं दधानां धारयन्तीम् ।
इह घायुत्प्रेक्षा, सा च निरङ्गकेवलरूपकेन सङ्कीर्णा । अनेन च मध्यभागस्यातीव कृशत्वम् । जघनभागस्य गुरुत्वं कर्कशत्वञ्च, ऊरुद्वयस्य च लावण्यमयत्वं प्रतीयत इत्यलङ्कारेण वस्तुध्वनिः ।
सर्वत इति । सर्वतः प्रसारितं परितो विस्तारितं मयूखमण्डलं किरणसमूहो येन तेन, अतएव ईर्ष्यया परपुरुषदर्शनम् अन्यपुरुषावलोकनं निरुन्धतेव अवरोधं विदधतेव निजावरणादित्याशयः, कुतूह-लेन कौतुकेन विस्तीर्णस्यापि विस्तारं विशालं तन्वतेव विदधतेव निजरश्मिभिरित्याशयः, तथा स्पर्श-सुखेन संश्लेषानन्देन रोमाञ्चं पुलकं मुञ्चता त्यजंतेव निजरश्मिषु पुलकभ्रममुत्पादयतेत्यर्थः, काञ्ची-दाम्ना रशनागुणेन नितम्बबिम्बस्य विरचितो विहितः परिवेषः परिवेष्टनं यस्यास्ताम् ।
इह 'निरुन्धतेव' 'तन्वतेव' 'त्यजतेव' इति त्रिष्वेव क्रियोत्प्रेक्षालङ्कारः, 'रोमाञ्चम्' इत्यादौ वृत्त्यनु-प्रासश्छेकानुप्रासावलङ्कारावित्येतेषां परस्परं नैरपेक्ष्येण संसृष्टिः ।
निपतितेति । निपतितानि अत्यन्तरमणीयत्वादारूढानि सकलानां समस्तानां लोकानां जनानाम् यानि हृदयानि चेतांसि तेषां भरेण भारेणेव अतिगुरु अत्यन्तविशालो नितम्बो यस्यास्ताम् । इह हेतूत्प्रेक्षा ।
उन्नतेति । उन्नताभ्याम् उच्चाभ्यां कुचाभ्यां स्तनाभ्याम् अन्तरितं निजोच्चत्वाद् व्यवहितं यद् मुखदर्शनं वदनावलोकनं तस्य दुःखेनेव कृच्छ्रेणेव कारणेन क्षीयमाणः कृशत्वं प्राप्यमाणो मध्यभागः कटि-देशो यस्यास्ताम् । इहाप्युक्तालंकारः ।
प्रजेति । अतिसौकुमार्यात् कादम्बरीवपुषोऽतीवमार्दवत्त्वाद्धेतोः स्पृशतः सर्जनसमये दृघतः प्रजापतेः
विशाल नितम्बयुगलके भारसे खिन्न हुई जंघाओंकी मानो सहायता करनेके लिए ही—ऊँचे उठकर जघनस्थलका स्पर्श करती थी; उसके निर्माण करनेके समयमें विधाताके हाथसे अत्यन्त दबाव पाकर मध्यभाग (कमर) में से विगलित होकर (गल कर) गिरा, जघनरूपी शिलातलके प्रतिघात (टक्कर) से दो भाग में विभक्त हुआ लावण्य-स्रोतके समान हो ऐसे ऊरु-युगलको वह धारण की थी; चारों ओर दूर तक किरणें फैलाकर, ईर्ष्यावश मानो; पर-पुरुषके अवलोकनका निवारण करते, कौतूहलसे मानो और भी अधिक विस्तार उत्पन्न करते, और स्पर्शसुखद्वारा अपने किरणोंमें रोमाञ्च-भ्रमको मानो उत्पादन करते चन्द्रहारने उसके नितम्ब-बिम्बका परिवेष्टन कर रखा था । (आकृष्ट होकर) गिरे हुए सब लोगोंके हृदयके भारसे ही मानो उसके नितम्बमण्डल अत्यन्त भारी हो गए थे; उन्नत स्तनमण्डलके व्यवहित हो जानेके कारण, मुखका दर्शन न मिलनेके दुःखसे ही मानो उसका मध्यभाग (कमर) क्षीण हो गया था; शरीर अत्यन्त कोमल होनेके कारण, निर्माण करनेके समयमें स्पर्श करते हुए
१. सहायम्, सहायतन्द् । २. प्रजापतिदृढनिपीडित । ३. क्वचिदिह 'जल' इत्यधिकः पाठः । ४. तन्व्यता । ५. सौकुमार्याद् ।
कादम्बरीवर्णना ८६ ] चन्द्रकला-विद्योतिनीसहिता । ५४१
मुद्रामिव निमग्नां नाभिमण्डलीम्¹ आवर्त्तिनीमुद्वहन्तीम्, त्रिभुवन-विजय-प्रशस्ति-वर्णावली-मिव लिखितां मन्मथेन रोमराजिमञ्जरीं² बिभ्राणाम्, अन्तःप्रविष्ट कर्ण-पल्लव-प्रतिबिम्बेनाति-भरे³स्विद्यमानहृदय-करतल-प्रेर्यमाणेनेव निष्पतता मकरकेतुपादपीठेन स्तनभरेण भूषिताम्, अधोमुख-कर्णाभरण-मयूखाभ्यामिव प्रसूताभ्याममल-लावण्य-जल-मृणाल-काण्डाभ्यां⁴ बाहुभ्यां नख-किरण-विसर-वर्षिणा च माणिक्यवलयगौरवश्रमवशात्⁵ स्वेदजल-धाराजालकमिव मुञ्च-ता करयुगलेन समुद्भासिताम्, स्तनभारावनम्यमानमाननमिवोन्नमयता हारेणोद्यैः⁶ करैर्गृहीत-
स्रष्टुः निमग्नां देहे प्रविष्टाम् अङ्गुल्या अङ्गुल्यस्य मुद्रां चिह्नमिव आवर्त्तिनीम् आवर्त्तवत् अम्भसां भ्रमिवत् मध्यगतौ यस्यास्तादृशीं नाभिमण्डलीम् उद्वहन्तीं धारयन्तीम् । जात्युत्प्रेक्षा ।
त्रिभुवनेति । मन्मथेन कामेन लिखितां 'सौन्दर्येणानया त्रिभुवनं विजितम्' इति कामदेवसदृशेन ( निर्णायकेन ) लिपीकृतामित्यर्थः स्वस्य त्रिभुवनविजयस्य प्रशस्तिवर्णावलीम् आत्मप्रशंसावोधकाक्षर-पङ्क्तिमिव रोमराजिमञ्जरीं तनूरुहसमूहवल्लरीं बिभ्राणां दधानाम् । उक्तालंकारः ।
अन्तरिति । अन्तःप्रविष्टं निर्मलत्वादन्तर्गतं कर्णपल्लवप्रतिबिम्बं श्रवणकिसलयप्रतिच्छाया यस्य तेन अतिभरेण कुचयोरत्यन्तभारेण स्विद्यमानं पीड्यमानं हृदयं वक्षस्तेन कर्त्रा करतलेन ( हृदयपतितमेतद्वि-म्बमेव हृदयस्य करतलं तेन ) 'करणेन' प्रेर्यमाणेन नोद्यमानेन, अतएव च निष्पतता निःसरता, मकर-केतोः कामस्य पादपीठेनेव पदासनेनेव विद्यमानेन स्तनभरेण भारवत् कुचमण्डलेन भूषितां मण्डिताम् । अयमाशयः—स्रष्टु हृदयं कामपीठातितस्तनभारेण नितान्तं स्विन्नम्, अतएव कर्णपल्लवप्रतिविम्वरूपेण आत्मनः ( हृदयस्य ) करतलेन तत् ( स्तनरूपं कामपदासन्म् ) खेदभरासहनतया बहिर्निस्सार्यमाण-मस्ति, अतएव तु क्रमेण बहिर्निस्सरतीति । उक्तालंकारः अतएव हि कुचयोर्निर्मलत्वं कामोद्दीपकत्वं विशालत्वञ्च ध्वन्यत इत्यलङ्कारेण वस्तुध्वनिः ।
अधोमुखेति । प्रसूताभ्यां सुदूरपर्यन्तं विस्तृताभ्याम्, अधोमुखयोः अवाङ्मुखयोः कर्णाभरणयोः सुवर्णरचितश्रवणालङ्कारयोः मयूखाभ्यां स्थूलरश्मिभ्यामिव विद्यमानाभ्याम् । उक्तालंकारः, अतएव च भुजयोर्निर्मलत्वं ध्वन्यते । तथा श्रमलं स्वच्छं यत् लावण्यमेव जलं तस्य मृणालकाण्डाभ्यां बिसदण्ड-रूपाभ्यां बाहुभ्यां भुजाभ्यां समुद्भासितां शोभितामिति सम्बन्धः । इह परम्परितरूपकम्, अतएव च भुजयोर्मार्द्दवत्वं प्रतीयते । तथा नखकिरणानां करशाखारश्मीनां विसरं समूहं वर्षति वृष्टिं करोतीति तेन, अतएव माणिक्यवलययोः रत्नमयकटकयोः गौरवेण उद्वहनभारेण यः श्रमः तद्वशात्, अनेन नितान्तको-मलत्वं ध्वन्यते, स्वेदजलधाराणां प्रस्वेदसलिलप्रवाहाणां जालकं समूहमिव मुञ्चता त्यजता करयुगलेन हस्तद्वयेन च समुद्भासितम् ।
इह नखकिरणसमूहे स्वेदसलिलप्रवाहसमूहत्वमुत्प्रेक्षितमिति जात्युत्प्रेक्षा ।
स्तनेति । स्तनयोर्वक्षोजयोः भारेण अवनम्यमानं नम्रत्वं नीयमानम् आननं मुखम् उन्नमयतेव उच्चैः कुर्वतेव विद्यमानेन, हारेण मुक्ताकलापेन कर्त्रा, उच्चैः उत्तोलितैः करैः रश्मिभिरेव हस्तैः करणैः, गृहीतः चिबुकदेशः अधराघोभागो यस्यास्ताम् ।
विधाताके मानो अङ्गुष्ठ का चिह्न जिसके भीतर निमग्न हो गया हो ऐसे-नदीके जलावर्त्तके समान-गोल नाभि-मण्डलको उसने धारण किया था; कामदेवने मानो अपने त्रिभुवन-विजयकी कीर्त्तिसूचक वर्णमाला लिखकर रखा हो इस प्रकारकी रोमपंक्तिको वह धारण करती थी; कामदेवके पादपीठके समान भारी उसका स्तन-युग—इस प्रकार बाहर निकल पड़ा था मानो कर्णपल्लवके प्रतिबिम्बका अन्तःप्रवेश हो जानेके कारण हृदय, अत्यन्त भारसे परिश्रान्त हो (थक) कर नीचे दब जानेसे, हस्तद्वारा उसको ठेल देता (सरकता) हो; उसके बाहु; मानो कर्णा-भरणके अधोमुख फैलती किरणोंके समान एवं निर्मल लावण्य-जलमें उगे मृणालदण्डके समान प्रतीत होते थे; नखोंमेंसे बरसते किरणोंके मेहसे उसके दोनों हाथ ऐसे दीखते थे मानो मणिनय-वलय (कङ्कण) पहननेके भारसे श्रान्त होकर घर्मजल (पसीने) की धारा गिराते हों; स्तनके भारसे अवनत हुए (नीचे झुके) मुखमण्डलको मानो फिरसे उन्नत (ऊँचा) करनेके लिए किरणमय हस्त उठा करके हार उसके चिबुकदेश (अधराधो भाग),
१. नाभिमण्डलम्, नाभित्थलीम् ।
२. रोमराजी ।
३. ॰॰॰मर॰॰॰ ।
४. ॰॰॰मृणालकान्त्यामिव, मृणालाभ्याम् ।
५. वहनश्रमात् ।
६. रुच्चैः ।
| ५४२ | कादम्बरी- | [ कथायाम्- |
|---|
चिबुकदेशाम्, अभिनवयौवनपवनक्षोभितस्य रागसागरस्य तरङ्गाभ्यामिवोद्गताभ्यां विद्रुम-लतालोहिताभ्यामधराभ्यां रक्तावदातस्वच्छकान्तिना च मदिरारसपूर्णमाणिक्यशुक्तिसम्पुटच्छविना कपोलयुगलेन रति-परिवादिनी-रत्नकोण-चारुणा नासावंशेन च विराजमानम्, गतिप्रसरनिरोधि श्रवणकोपादिव किञ्चिदारक्तापाङ्गेन निजमुखलक्ष्मीनिवासदुग्धोदधिना लोचनयुगलेन लोचनमयमिव^१ जीवलोकं कर्तुमुद्यताम्, उन्मदयौवनकुञ्जरमदराजिभ्यां मनः-
इह 'उन्नामयता इव' इत्यत्र क्रियोत्प्रेक्षा, करशब्दश्लेषमूलकेन चिबुककर्मकस्पर्श-ग्रहणयोरभेदाध्यवसायेनातिशयोक्तिश्चेत्युभयोरङ्गाङ्गिभावसङ्करः।
अभिनवेति। अभिनवं नूतनं यौवनं तारुण्यमेव पवनः चापल्यकारणत्वाद्वायुः तेन क्षोभितस्य उद्वेलितस्य रागोऽनुराग एव सागरः समुद्रः तस्य, उद्गताभ्याम् उत्थिताभ्यां तरङ्गाभ्यां वीचिभ्यामिव, तया विद्रुमलतावत् प्रवालवततिवत् लोहिताभ्यां रक्ताभ्याम् अधराभ्यां दन्तच्छदाभ्यां विराजमानां शोभमानामिविति सम्बन्धः। तथा रक्ता लोहिता च सावदाता धवला च स्वच्छत निर्मला च कान्तिद्युतिर्यस्य तेन, अतएव मदिरारसेन मद्यद्रवेण पूर्णं यत् माणिक्यशुक्तिसम्पुटं रत्नमयशुक्तिपुटं तद्वत् छविर्द्युतिर्यस्य तेन, कपोलयुगलेन गण्डद्वयेन च विराजमानम्। तथा रतेः कामपत्न्याः या परिवादिनी सप्ततन्त्रीयुता वीणा तस्या रत्नकोणवत् मणिमयवादनदण्डवत् चारुणा रमणीयेन, कामोद्दीपनसूचनाय 'रतिपरिवादिनी' इत्यभिहितम्। नासावंशेन नासिकादण्डेन च विराजमानम्।
इह '******यौवनपवने'त्यत्र 'रागसागर' इत्यत्र च परम्परितरूपकम्, 'तरङ्गाभ्याम्' इत्यत्र जात्युत्प्रेक्षा, '******लतालोहिताभ्याम्' इत्यत्र लुप्तोपमा चेत्येतेषामङ्गाङ्गिभावसङ्करः। '******सम्पुटच्छविना' इत्यत्र '******रत्नकोणचारुणा' इत्यत्र च लुप्तोपमालङ्कारः। तथा 'तरङ्गाभ्याम्' इत्यत्र रक्तविशेषणानुपादानेन न्यूनपदत्वदोषस्तु न शङ्क्यः, 'रक्तौ च क्रोधरागौ' इति कविसमयानुसारान् अनुरागसागरस्य रक्तत्वेन वक्तस्तरङ्गयोरपि रक्तत्वावगमादिति कुशलाः। 'विपञ्ची सा तु तन्त्रीभिः सप्तभिः परिवादिनी' इत्यमरः।
गतीति। गतिप्रसरनिरोधिनोः श्रवणयोः कोपादिव स्वस्य गतिवेगनिरोधोत्पन्नो यः श्रोत्रद्वयं प्रति क्रोधस्तस्मादिवेत्यर्थः, किञ्चिदारक्तौ ईषदालोहितौ अपाङ्गौ प्रान्तदेशौ यस्य तेन, अनेन नेत्रद्वयस्य श्रोत्रान्तविस्तृतत्वं प्रतीयते। निजम् आत्मसम्बन्धि यन्मुखं वदनं तस्य लक्ष्मीः शोभैव श्रीः तस्या निवासे वसतौ दुग्धोदधिना क्षीरसमुद्रेण, अनेन नयनयोरेव मुखशोभोत्पादकत्वं ध्वन्यते। एवंविधेन लोचनयुगलेन नेत्रद्वयेन जीवलोकं लोचनमयमिव निजावलोकनाय केवलनेत्रग्राह्यमिव कर्तुमुद्यतां विधातुं तत्पराम्, अनेन नेत्रद्वयस्यानुपमसौन्दर्यं ध्वन्यते।
इह 'गति*********कोपादिव' इत्यत्र हेतूत्प्रेक्षालङ्कारः '******लक्ष्मीनिवासे'त्यादौ श्लिष्टपरम्परितरूपकम्। 'लोचनमयमिव' इत्यत्र क्रियोत्प्रेक्षा। तथा 'लोचनयुगलेन लोचनमयमिव' इत्यत्र लोचनपदस्य द्विरुपादानात् पुनरुक्ततादोषः समापतति, तेन 'तन्मयमिव' इति पाठविधानेनादोषात्।
उन्मदेति। यौवनं तारुण्यमेव कुञ्जरो दुष्प्रतिषेध्यवेगत्वादस्ती इति यौवनकुञ्जरः, उन्मद उन्मत्तो
दाढ़ी को धारण करता था; उसके प्रवालके समान रक्तवर्ण ओष्ठयुगल, नवयौवन-रूप वायु-वेगसे उद्वेलित (क्षोभ पाए हुए) अनुराग सागरमेंसे उठती तरंगोंके समान दीखते थे; उसके गण्डयुगल (गाल) की शोभा, निर्मल और श्वेतरक्त-मिश्रित (स्वच्छ गुलाबी) थी, अत एव वे गण्डयुगल, मद्य-रससे परिपूर्ण मणिमय शुक्तिकाके सम्पुटके समान दीप्ति पाते थे; उसकी नासिका, रति-देवीके वीणा के रत्नमयवादनदण्ड (मिजराब) के समान विशेष सुन्दर लगती थी; उसका नयन युगल, अपने मुख-लक्ष्मीके बसने का क्षीरसागरस्वरूप था; जिसके प्रान्तभाग कोने और भी दीर्घ होनेके लिए अपने गतिके मार्गमें विघ्न डालते कानों पर मानो क्रुद्ध होकर ही ईषद् आरक्तवर्ण (जरा-सा लाल) हो गए थे; उससे समस्त जीवलोकको मानो वह लोचनमय करनेको उद्यत हुई थी; मदमत्त यौवन-हस्तीकी दो मद-जल-रेखाके समान दोनों भौंहें और अनुरक्त कामदेवके
^१. नयनमयमिव ।