भारतकोश
संग्रह पर लौटें

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

प्रत्ययः ।" Wait, what is the letter before प्रत्ययः? Look at L27: "मूलविभुजादिदर्शनात्कप्रत्ययः ।" Wait, 'त्' then 'क' -> 'त्कप्रत्ययः' or 'त् कप्रत्ययः'? It is: "मूलविभुजादिदर्शनात्कप्रत्ययः ।" Then: "ईकारान्तमूकारान्तं च स्त्र्याख्यं शब्दरूपं नदी-" Line 28: "संज्ञं भवति । ईकारान्तम् । कुमारी । गौरी । लक्ष्मीः । शार्ङ्गरवी । ऊकारान्तम् ।" Wait, "लक्ष्मीः"? Yes, "लक्ष्मीः ।" Wait, "शार्ङ्गरवी"? Let's zoom in on "शार्ङ्गरवी": श, ा, र्, ङ्ग, र, व, ी -> शार्ङ्गरवी. Line 29: "ब्रह्मबन्धूः । यवागूः । यू इति किम् । मात्रे । दुहित्रे । स्त्र्याख्याविति किम् ।" Wait, "ब्रह्मबन्धूः"? Yes, 'ब्रह्मबन्धूः ।' "यवागूः ।" "यू इति किम् । मात्रे । दुहित्रे । स्त्र्याख्याविति किम् ।"

Footnote:

  • यत्र परस्मैपदं तत्र तासि च लृप इतीट् प्रतिषेधः ।

६२ ॥ काशिका ॥ १ ॥ ४ ॥ ग्रामणीः । सेनानीः । खलपूः । स्त्र्याख्याग्रहणं किम् । शब्दार्थे स्त्रीत्वएव यथा स्यात् पदान्तराख्ये मा भूत् । ग्रामण्ये स्त्रियै । खलप्वे स्त्रियै । नदीप्रदेशां आङ्नद्या इत्येवमादयः ॥ नेयङुवङ्स्थानावस्त्री ॥ ४ ॥ पूर्वेणातिप्रसक्ता नदीसंज्ञा प्रतिषिध्यते । स्थितिः स्थानम् । इयडुवङोः स्थानमनयोरितीयह्डुवङ्स्थानौ तौ यू नदीसंज्ञौ न भवतः स्त्रीशब्दं वर्जयित्वा । हे श्रीः । हे भूः । अस्त्रीति किम् । हे स्त्रि ॥ वा ऽऽमि ॥ ५ ॥ पूर्वेण नित्ये प्रतिषेधे प्राप्ते आमि विकल्पः क्रियते । इयडुवङ्स्थानौ यू आमि परतो वा नदीसंज्ञौ न भवतः । श्रियाम् । श्रीणाम् । भुवाम् । भूषाम् । अस्त्रीत्येव । स्त्रीणाम् ॥ ङिति ह्रस्वश्च ॥ ६ ॥ दीर्घस्य नदीसंज्ञा विहिता ह्रस्वस्य न प्राप्नोति इयडुवङ्स्थानयोश्च प्रतिषिद्धा । तस्मान्ङिति वा विधीयते । ङिति परतो ह्रस्वश्च व्योः संबन्धी यः स्त्र्याख्यः इयडुवङ्स्थानौ च यू वा नदीसंज्ञौ भवतः । मत्यै । मतये । धेन्वै । धेनवे । श्रियै । श्रिये । भुवै । भुवे । अस्त्रीत्येव । स्त्रियै । स्त्र्याख्या- नित्येव । अग्नये । वायवे । भानवे ॥ शेषो घ्यसखि ॥ ७ ॥ ह्रस्व इति वर्तते । शेषोत्र घिसंज्ञो भवति सखिशब्दं वर्जयित्वा । कश्च शेषः । ह्रस्वमिवर्णोवर्णान्तं यच्च स्त्र्याख्यं स्त्र्याख्यं च यन्न नदीसंज्ञकं स शेषः । अग्नये । वायवे । कृतये । धेनवे । असखीति किम् । सख्या । सख्ये । सख्युः । सख्यौ * ॥ पतिः समासएव ॥ ८ ॥ पतिशब्दस्य घिसंज्ञायां सिद्धायामयं नियमः क्रियते पतिशब्दः समास- एव घिसंज्ञो भवति । प्रजापतिना । प्रजापतये । समासइति किम् । पत्या । पत्ये । एवकार इष्टतो ऽवधारणार्थः । दृढमुष्टिना । दृढमुष्टये ॥ षष्ठीयुक्तश्छन्दसि वा ॥ ९ ॥ पतिरिति वर्तते । पूर्वेण नियमेनासमासे न प्राप्नोतीति वचनमारभ्यते । षष्ठन्तेन युक्तः पतिशब्दः छन्दसि विषये वा घिसंज्ञो भवति । कुलुञ्चानां

  • इत उत्तरं “घिप्रदेशाः द्वन्द्वे चीत्येवमादय" इत्यपि क्व चित्पाठः ॥

॥ काशिका ॥ १ ॥ ४ ॥ ६३

पत्ये नमः। कुलुञ्चानां पत्ये नमः। * षष्ठीग्रहणं किम्। मया पत्या जर- दृष्टिरित्येषाः। छन्दसीति किम्। ग्रामस्य पत्ये ॥ ह्रस्वं लघु ॥ १० ॥ मात्रिकस्य ह्रस्वसंज्ञा कृता तस्यानेन लघुसंज्ञा विधीयते। ह्रस्वमक्षरं लघुसंज्ञं भवति। भेत्ता। छेत्ता। अचीकरत्। अजीहरत्। लघुप्रदेशाः पुगन्त- लघूपधस्य चेत्येवमादयः ॥ संयोगे गुरु ॥ ११ ॥ ह्रस्वमिति वर्तते। पूर्वेण लघुसंज्ञायां प्राप्तायां गुरुसंज्ञा विधीयते। संयोगे परतो ह्रस्वमक्षरं गुरुसंज्ञं भवति। कुण्डा। शिक्ता। भिक्ता। गुरुप्रदेशाः गुरोश्च हल इत्येवमादयः ॥ दीर्घं च ॥ १२ ॥ संयोगइति नानुवर्तते। सामान्येन संज्ञाविधानम्। दीर्घं चाक्षरं गुरु- संज्ञं भवति। ईहांचक्रे। ऊहांचक्रे ॥ यस्मात्प्रत्ययविधिस्तदादि प्रत्यये ऽङ्गम् ॥ १३ ॥ यस्मात्प्रत्ययो विधीयते धातोर्वा प्रातिपदिकाद्वा तदादि शब्दरूपं प्रत्यये परतोऽङ्गसंज्ञं भवति। कर्त्ता। हर्त्ता। करिष्यति। हरिष्यति। औपगवः। कापटवः। यस्मादिति संज्ञिनिर्देशार्थं, तदादीतिसंबन्धात्। प्रत्ययग्रहणं किम्। न्यविशत। व्यक्रीणीत। नेर्विश इत्युपसर्गाद्विधिरस्ति तदादेरङ्गसंज्ञा स्यात्। विधिग्रहणं किम्। प्रत्ययपरत्वमात्रे मा भूत्। स्त्री इयती। तदा- दिवचनं स्यादिनुमर्थम्। करिष्यावः। करिष्यामः। कुण्डानि। पुनः प्रत्यय- ग्रहणं किमर्थम्। लुप्तप्रत्यये मा भूत्। स्वर्यर्थम्। अङ्गप्रदेशा अङ्गस्येत्येवमादयः ॥ सुप्तिङन्तं पदम् ॥ १४ ॥ सुप्तिङिति प्रत्याहारग्रहणम्। सुबन्तं तिङन्तं च शब्दरूपं पदसंज्ञं भवति। ब्राह्मणाः पचन्ति। पदसंज्ञायामन्तग्रहणमन्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधेः प्रतिषेधार्थम्। गौरी ब्राह्मणितरा। पदप्रदेशाः पदस्य पदादि- त्येवमादयः ॥ नः क्ये ॥ १५ ॥ क्यइति क्यचक्यङक्यषां सामान्यग्रहणम्। नान्तं शब्दरूपं क्ये परतः पदसंज्ञं भवति। क्यच्। राजीयति। क्यङ्। राजायते। क्यष्। चर्म्मायति।

  • क्षेत्रस्य पत्ये नमः। क्षेत्रस्य पत्यो नम इत्यपि क्व चिदुदाहरणम् ॥

६४ • ॥ काशिका ॥ १ ॥ ४ ॥ चम्मीयते । सिद्धे सत्यारम्भो नियमार्थः । नान्तमेव क्ये परतः पदसंज्ञं भवति नान्यत् । वाच्यति । सुच्यति ॥ सिति च ॥ १६ ॥ यचि भमिति वक्ष्यति तस्यायं पुरस्तादपवादः । सिति प्रत्यये परतः पूर्वं पदसंज्ञं भवति । भवतष्ठक्छसौ । भवदीयः । ऊर्णाया युस् । ऊर्णायुः । ऋतोरण् । छन्दसि घस् । ऋत्वियः ॥ स्वादिष्वसर्वनामस्थाने ॥ १७ ॥ स्वादिष्विति सुशब्दादेकवचनादारभ्य आ कपः प्रत्यया गृह्यन्ते । स्वादिषु प्रत्ययेषु परतः सर्वनामस्थानवर्जितेषु पूर्वं पदसंज्ञं भवति । राजभ्याम् । राजभिः । राजत्वम् । राजता । राजतरः । राजतमः । असर्वनामस्थानइति किम् । राजानौ । राजानः ॥ यचि भम् ॥ १८ ॥ स्वादिष्वसर्वनामस्थानइति वर्तते । पूर्वेण पदसंज्ञायां प्राप्तायां तदप- वादो भसंज्ञा विधीयते । यकारादावजादौ च स्वादौ सर्वनामस्थानवर्जिते प्रत्यये परतः पूर्वं भसंज्ञं भवति । यकारादौ । गार्ग्यः । वात्स्यः । अजादौ । दाक्षिः । प्लाक्षिः ॥ नभोङ्गिरोमनुषां वत्युपसंख्यानम् ॥ * ॥ नभवद् नभस्यत् । अङ्गिरोवद् अङ्गिरस्यत् । मनुर्वद् मनुष्यत् ॥ तृष्वण्वस्वश्वयोः ॥ * ॥ तृष्वण्वि- त्येतत् वस्वश्वयोः परतो भसंज्ञं भवति छन्दसिविषये । तृष्वण्वसुः । तृष्वण्वश्वस्य मेने । भप्रदेशाः भस्येत्येवमादयः ॥ तसौ मत्वर्थे ॥ १६ ॥ भमिति वर्तते । तकारान्तं सकारान्तं शब्दरूपं मत्वर्थीये प्रत्यये परतो भसंज्ञं भवति । उदश्वित्वान् घोषः । विद्युत्वान् बलाहकः । सकारान्तम् । यशस्वी । पयस्वी । तसाविति किम् । तत्तवान् ग्रामः ॥ अयस्मयादीनिच्छन्दसि ॥ २० ॥ अयस्मयादीनि शब्दरूपाणि छन्दसि विषये साधूनि भवन्ति । भपद- संज्ञाधिकारे विधानात्तेन मुखेन साधुत्वमयस्मयादीनां विधीयते । अयस्मयं वर्म । अयस्मयानि पात्राणि । क्व चिदुभयमपि भवति । स सुष्टुभा स ऋक्वता गणेन । पदत्वात्कुत्वं भत्वाज् जश्त्वं न भवति । छन्दसीति किम् । अयोमयं ॥ बहुषु बहुवचनम् ॥ २१ ॥ ङ्याप्प्रातिपदिकात्स्वाद्याः लस्य तिबादय इति सामान्येन बहुवचनं विहितं तस्यानेन बहुत्वसंख्या वाच्यत्वेन विधीयते । बहुषु बहुवचनं भवति ।

बहुत्वस्य वाच्यं भवतीति यावत् । कर्मादयोऽप्यपरे विभक्तीनामर्था वाच्या- स्तदीये बहुत्त्वे बहुवचनं कर्मादिषु बहुषु बहुवचनमित्यर्थः । ब्राह्मणाः पठन्ति । यत्र च संख्या संभवति तत्रायमुपदेशः । अव्ययेभ्यस्तु निःसंख्येभ्यः सामान्यविहिताः स्वादयो विद्यन्तएव ॥ द्व्येकयोर्द्विवचनैकवचने ॥ २२ ॥ द्वित्वेकत्वयोरर्थयोर्द्विवचनैकवचने भवतः । एतदपि सामान्यविहितयो- र्द्विवचनैकवचनयोरर्थाभिधानम् । द्वित्वे द्विवचनं भवति एकत्वे एकवचनं भव- ति । ब्राह्मणौ पचतः । ब्राह्मणः पचति ॥ कारके ॥ २३ ॥ कारकेति । विशेषकमपादानादिसंज्ञाविषयमधिक्रियते । कारकशब्दस्या- धिकारो वेदितव्यः । यदिह कर्त्तुमनुक्रमिष्यामः कारकमित्येवं तद्वेदितव्यम् । कारकशब्दश्च निमित्तपर्यायः । कारकं हेतुरित्यनर्थान्तरम् । कस्य हेतुः । क्रियायाः । वक्ष्यति ध्रुवमपाये ऽपादानम् । ग्रामादागच्छति । पर्वतादवरो- हति । कारकेति किम् । वृक्षस्य पर्णं पतति । कुड्यस्य पिण्डः पतति । अक- थितं च । अकथितं च कारकं कर्मसंज्ञं भवति । माणवकं पन्थानं पृच्छति । कार- केति किम् । माणवकस्य पितरं पन्थानं पृच्छति । कारकसंज्ञाशब्देषु चानेनैव विशेषणेन व्यवहारो विज्ञास्यते ॥ ध्रुवमपाये ऽपादानम् ॥ २४ ॥ ध्रुवं यदपाययुक्तमपाये साध्ये यदवधिभूतं तत्कारकमपादानसंज्ञं भवति । ग्रामादागच्छति । पर्वतादवरोहति । सार्थाद्धीनः । स्वात्यात्पतितः ॥ जुगुप्सावि- रामप्रमादार्थानामुपसंख्यानम् ॥ * ॥ अधर्माज्जुगुप्सते । अधर्माद्विरमति । धर्मात्प्रमाद्यति । अपादानप्रदेशा अपादाने पञ्चमीत्येवमादयः ॥ भीत्रार्थानां भयहेतुः ॥ २५ ॥ बिभेत्यर्थानां त्रायत्यर्थानां च धातूनां प्रयोगे भयहेतुर्यस्तत्कारकमपादा- नसंज्ञं भवति । चौरेभ्यो बिभेति । चौरेभ्य उद्विजते । त्रायत्यर्थानाम् । चौरेभ्यस्त्रा- यते । चौरेभ्यो रक्षति । भयहेतुरिति किम् । अरण्ये बिभेति । अरण्ये त्रायते ॥ पराजेरसोढः ॥ २६ ॥ परापूर्वस्य जयतेः प्रयोगे ऽसोढो यो ऽर्थः सोढुं न शक्यते तत्कारकमपा- दानसंज्ञं भवति । अध्ययनात्पराजयते । असोढ इति किम् । शत्रून्पराजयते ॥ वारणार्थानामीप्सितः ॥ २७ ॥ वारणार्थानां धातूनां प्रयोगे य ईप्सितोऽर्थः तत्कारकमपादानसंज्ञं भव- ५

६६ ॥ काशिका ॥ १ ॥ ४ ॥ ति। प्रवृत्तिविघातो वारणम्। यवेभ्यो गां वारयति। यवेभ्यो गां निवर्त्तय- यति। ईप्सित इति किम्। यवेभ्यो गां वारयति क्षेत्रे॥ अन्तर्द्धौ येनादर्शनमिच्छति ॥ २८ ॥ व्यवधानमन्तर्द्धिः। अन्तर्द्धिनिमित्तं येनादर्शनमात्मन इच्छति तत्का- रकमपादानसंज्ञं भवति। उपाध्यायादन्तर्द्धत्ते। उपाध्यायान्निलीयते। मा मामुपाध्यायो द्राक्षीदिति निलीयते। अन्तर्द्धाविति किम्। चौरान्न दिदृक्षते। इच्छतिग्रहणं किम्। अदर्शनेच्छायां सत्यां सत्यपि दर्शने यथा स्यात्॥ आख्यातोपयोगे ॥ २९ ॥ आख्याता प्रतिपादयिता। उपयोगे नियमपूर्वकं विद्याग्रहणम्। उप- योगे साध्ये य आख्याता तत्कारकमपादानसंज्ञं भवति। उपाध्यायादधीते। उपाध्यायादागमयति। उपयोगइति किम्। नटस्य शृणोति॥ जनिकर्त्तुः प्रकृतिः ॥ ३० ॥ जनेः कर्त्ता जनिकर्त्ता। जन्यस्य जन्मनः कर्त्ता जायमानः तस्य या प्रकृतिः कारणं हेतुः तत् कारकमपादानसंज्ञं भवति। शृङ्गाच्छरो जायते। गोमयाद्वृश्चिको जायते॥ भुवः प्रभवः ॥ ३१ ॥ कर्त्तुरिति वर्त्तते। भवनं भूः। प्रभवत्यस्मादिति प्रभवः। भूकर्त्तुः प्रभवो यस्तत्कारकमपादानसंज्ञं भवति। हिमवतो गङ्गा प्रभवति। काश्मीरेभ्यो वि- तस्ता प्रभवति। प्रथमत उपलभ्यतइत्यर्थः॥ कर्मणा यमभिप्रैति स संप्रदानम् ॥ ३२ ॥ कर्मणा करणभूतेन कर्त्ता यमभिप्रैति तत्कारकं संप्रदानसंज्ञं भवति। अन्वर्थसंज्ञाविज्ञानाद्ददातिकर्मणेति विज्ञायते। उपाध्यायाय गां ददाति। माणवकाय भिक्षां ददाति॥ क्रियाग्रहणमपि कर्त्तव्यम्॥ * ॥ क्रियापि यम- भिप्रैति स संप्रदानम्। श्राद्धाय निगर्हते। युद्धाय संनह्यते। पत्ये शेते। संप्र- दानप्रदेशाः चतुर्थी संप्रदानइत्येवमादयः॥ कर्मणः करणसंज्ञा वक्तव्या संप्रदा- नस्य च कर्मसंज्ञा॥ * ॥ पशुना रुद्रं यजते। पशुं रुद्राय ददातीत्यर्थः॥ रुच्यर्थानां प्रीयमाणः ॥ ३३ ॥ रुचिना समानार्था रुच्यर्थाः। अन्यकर्तृको ऽभिलाषो रुचिः। रुच्यर्थानां धातूनां प्रयोगे प्रीयमाणो यो ऽर्थस्तत्कारकं संप्रदानसंज्ञं भवति। देवदत्ताय रोचते मोदकः। यज्ञदत्ताय स्वदते पूपः। देवदत्तस्याभिलाषस्य मोदकः कर्त्ता। प्रीयमाण इति किम्। देवदत्ताय रोचते मोदकः पथि॥

॥ काशिका ॥ १ ॥ ४ ॥ ४७ श्लाघह्नुङ्स्थाशपां ज्ञीप्स्यमानः ॥ ३४ ॥ श्लाघ ह्नुङ् स्था शप इत्येतेषां ज्ञीप्स्यमानो यो ऽर्थस्तत्कारकं संप्रदान- संज्ञं भवति । ज्ञीप्स्यमानो ज्ञापयितुमिष्यमाणो बोधयितुमभिप्रेतः । देवदत्ताय श्लाघते । देवदत्तं श्लाघमानस्तां श्लाघां तमेव ज्ञापयितुमिच्छतीत्यर्थः । एवं देवदत्ताय ह्नुते । यज्ञदत्ताय ह्नुते। देवदत्ताय तिष्ठते। यज्ञदत्ताय तिष्ठते। देवदत्ताय शपते । यज्ञदत्ताय शपते । ज्ञीप्स्यमान इति किम् । देवदत्ताय श्लाघते पथि ॥ धारेरुत्तमर्णः ॥ ३५ ॥ धारयतेः प्रयोगे उत्तमर्णो यो ऽर्थः तत्कारकं संप्रदानसंज्ञं भवति । उत्त- ममृणं यस्य स उत्तमर्णः । कस्य चोत्तममृणं, यदीयं धनं, धनस्वामी प्रयोक्ता उत्तमर्णः स संप्रदानसंज्ञो भवति । देवदत्ताय शतं धारयति । यज्ञदत्ताय शतं धारयति । उत्तमर्ण इति किम् । देवदत्ताय शतं धारयति ग्रामे ॥ स्पृहेरीप्सितः ॥ ३६ ॥ स्पृह ईप्सायां, चुरादावदन्तः पठ्यते, तस्य ईप्सितो यो ऽर्थस्तत्कारकं संप्रदानसंज्ञं भवति । ईप्सित इत्यभिप्रेत उच्यते । पुष्पेभ्यः स्पृहयति । फलेभ्यः स्पृहयति । ईप्सित इति किम् । पुष्पेभ्यो वने स्पृहयति ॥ क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः ॥ ३७ ॥ अमर्षः क्रोधः । अपकारो द्रोहः । अक्षमा ईर्ष्या । गुणेषु दोषाविष्कर- णमसूया । क्रुधाद्यर्थानां प्रयोगे यं प्रति कोपस्तत्कारकं संप्रदानसंज्ञं भवति । क्रोधस्तावत्कोप एव, द्रोहादयोऽपि कोपप्रभावा एव गृह्यन्ते । तस्मात्सामान्येन विशेषणं यं प्रति कोप इति । देवदत्ताय क्रुध्यति । देवदत्ताय द्रुह्यति । देव- दत्तायेर्ष्यति । देवदत्तायासूयति । यं प्रति कोप इति किम् । भार्यामीर्ष्यति । मैनामन्यो द्राक्षीदिति ॥ क्रुधद्रुहोरुपसृष्टयोः कर्म ॥ ३८ ॥ पूर्वेण संप्रदानसंज्ञायां प्राप्तायां कर्मसंज्ञा विधीयते । क्रुधद्रुहोरुपसृष्टयोरुप- सर्गसंबद्धयोर्यं प्रति कोपस्तत्कारकं कर्मसंज्ञं भवति । देवदत्तमभिक्रुध्यति। देवदत्त- मभिद्रुह्यति । उपसृष्टयोरिति किम् । देवदत्ताय क्रुध्यति । यज्ञदत्ताय द्रुह्यति ॥ राधीक्ष्योर्यस्य विप्रश्नः ॥ ३९ ॥ राधेरीक्षेश्च कारकं संप्रदानसंज्ञं भवति, कीदृशं, यस्य विप्रश्नः, विविधः प्रश्नः विप्रश्नः, स कस्य भवति, यस्य शुभाशुभं पृच्छ्यते । देवदत्ताय राध्यति । देवदत्तायेक्षते । नैमित्तिकः पृष्टः सन् देवदत्तस्य दैवं पर्यालोचयतीत्यर्थः ॥

॥ काशिका ॥ १ ॥ ४ ॥ प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्त्ता ॥ ४० ॥ प्रति आङ् इत्येवंपूर्वस्य शृणोतेः कारकं संप्रदानसंज्ञं भवति, कीदृशं, पूर्वस्य कर्त्ता। प्रतिपूर्वं आङ्पूर्वश्च शृणोतिरभ्युपगमे प्रतिज्ञाने वर्तते। स चाभ्युपगमः प- रेण प्रयुक्तस्य सतो भवति। तत्र प्रयोक्ता पूर्वस्याः क्रियायाः कर्त्ता संप्रदानसंज्ञो भव- ति। देवदत्ताय गां प्रतिशृणोति। देवदत्ताय गामा शृणोति। प्रतिजानीतइत्यर्थः॥ अनुप्रतिगृणश्च ॥ ४१ ॥ पूर्वस्य कर्त्तेति वर्तते। अनुपूर्वस्य प्रतिपूर्वस्य च गृणातेः कारकं पूर्वस्याः क्रियायाः कर्तृभूतं संप्रदानसंज्ञं भवति। होत्रे ऽनुगृणाति। होता प्रथमं शंसति तमय्यः प्रोत्साहयति। अनुगरः प्रतिगर इति हि शंसितुः प्रोत्साहने वर्तते। होत्रे ऽनुगृणाति। होतारं शंसन्तं प्रोत्साहयतीत्यर्थः॥ साधकतमं करणम् ॥ ४२ ॥ क्रियाप्रसिद्धौ यत्प्रकृष्टोपकारकं विवक्षितं तत्साधकतमं कारकं करणसंज्ञं भवति। दात्रेण लुनाति। परशुना छिनत्ति। तमब्ग्रहणं किम्। गङ्गायां घोषः। कूपे गर्गकुलम्। करणप्रदेशाः कर्तृकरणयोस्तृतीयेत्येवमादयः॥ दिवः कर्म च ॥ ४३ ॥ पूर्वेण करणसंज्ञायां प्राप्तायां कर्मसंज्ञा विधीयते। दिवः साधकतमं यत्का- रकं तत्कर्मसंज्ञं भवति चकारात्करणसंज्ञं च। अक्षान्दीव्यति। अक्षैर्दीव्यति॥ परिक्रयणे संप्रदानमन्यतरस्याम् ॥ ४४ ॥ साधकतममिति वर्तते। पूर्वेण करणसंज्ञायां प्राप्तायां संप्रदानसंज्ञा अनेन विधीयते। परिक्रयणे साधकतमं कारकमन्यतरस्यां संप्रदानसंज्ञं भवति। परिक्रयणं नियतकालं वेतनादिना स्वीकरणं नात्यन्तिकः क्रय एव। शताय परि- क्रीतो ऽनुब्रूहि। शतेन परिक्रीतो ऽनुब्रूहि। सहस्रेण परिक्रीतो ऽनुब्रूहि। सहस्राय परिक्रीतो ऽनुब्रूहि॥ आधारो ऽधिकरणम् ॥ ४५ ॥ आध्रियन्ते ऽस्मिन् क्रिया इत्याधारः। कर्तृकर्मणोः क्रियाश्रयभूतयोर्धा- रणक्रियां प्रति य आधारस्तत्कारकमधिकरणसंज्ञं भवति। कटे चास्ते। कटे शेते। स्थाल्यां पचति। अधिकरणप्रदेशाः सप्तम्यधिकरणे चेत्येवमादयः॥ अधिशीङ्स्थासां कर्म ॥ ४६ ॥ पूर्वेणाधिकरणसंज्ञायां प्राप्तायां कर्मसंज्ञा विधीयते। अधिपूर्वाणां शीङ् स्था आस इत्येतेषामाधारो यस्तत्कारकं कर्मसंज्ञं भवति। ग्राममधिशेते। ग्राममधितिष्ठति। पर्वतमध्यास्ते॥

॥ काशिका ॥ १ ॥ ४ ॥ ६९ अभिनिविशश्च ॥ ४७ ॥ अभिनिपूर्वस्य विशतेराधारो यस्तत्कारकं कर्मसंज्ञं भवति । ग्राममभि- निविशते । कथं कल्याणे ऽभिनिवेशः, पापेभिनिवेशः, याया संज्ञायास्मिन्यस्मिन् संज्ञिन्यभिनिविशतइति । अन्यतरस्यामिति वर्तते परिक्रयणे संप्रदानमन्यतर- स्यामित्यतः । सा च व्यवस्थितविभाषा विज्ञायते ॥ उपान्वध्याङ्ग्वसः ॥ ४८ ॥ उप अनु अधि आङ् इत्येवंपूर्वस्य वसतेराधारो यस्तत्कारकं कर्मसंज्ञं भवति । ग्राममुपवसति सेना । पर्वतमुपवसति । ग्राममनुवसति । ग्राममधि- सति । ग्राममावसति ॥ वसेरश्यर्थस्य प्रतिषेधो वक्तव्यः ॥ * ॥ ग्रामे उपवसति । भोजननिवृत्तिं करोतीत्यर्थः ॥ कर्तुरीप्सिततमं कर्म ॥ ४९ ॥ कर्तुः क्रियया यदाप्तुमिष्टतमं तत्कारकं कर्मसंज्ञं भवति । कटं करोति । ग्रामं गच्छति । कर्तुरिति किम् । माषेष्वश्वं बध्नाति । कर्मण ईप्सिता माषा न कर्तुः । तमब्ग्रहणं किम् । पयसौदनं भुङ्क्ते । कर्मेत्यनुवर्तमाने पुनः कर्मग्रहण- माधारनिवृत्त्यर्थम् । इतरथा ऽऽधारस्यैव हि स्यात् । गेहं प्रविशतीति । ओदनं पचति सक्तून्पिबतीत्यादिषु न स्यात् । पुनः कर्मग्रहणात् सर्वत्र सिद्धं भवति । कर्मप्रदेशाः कर्मणि द्वितीयेत्येवमादयः ॥ तथायुक्तं चानीप्सितम् ॥ ५० ॥ येन प्रकारेण कर्तुरीप्सिततमं क्रियया युज्यते तेनैव चेत्प्रकारेण यदनी- प्सितं युक्तं भवति तस्य कर्मसंज्ञा विधीयते । ईप्सितादन्यत्सर्वमभीप्सितं द्वेष्य- मितरच्च । विषं भक्षयति । चौरान्पश्यति । ग्रामं गच्छन् वृक्षमूलान्युपसर्पति ॥ अकथितं च ॥ ५१ ॥ अकथितं च यत्कारकं तत्कर्मसंज्ञं भवति । केनाकथित,मपादानादि- विशेषकथाभिः । परिगणनं कर्तव्यम् । दुहियाचिरुधिप्रच्छिभिक्षिविचामुपयोगनिमित्तमपूर्वविधौ । ब्रुविशासिगुणेन च यत्सचते तदकीर्तितमाचरितं कविना ॥ उपयुज्यतइत्युपयोगः, पयः प्रभृति, तस्य निमित्तं गवादि, तस्योपयु- ज्यमानपयःप्रभृतिनिमित्तस्य गवादेः कर्मसंज्ञा विधीयते । पाणिना कांस्यपात्र्यां गां दोग्धि पयः । पात्रादिकमप्युपयोगनिमित्तं तस्य कस्मान्न भवति । नैत- दस्ति । विहिता हि तत्र करणादिसंज्ञा । तदर्थमाह । अपूर्वविधाविति । ब्रुविशासिगुणेन च यत्सचते । ब्रुविशास्योर्गुणः साधनं प्रधानं कर्म यत्रोद्दिष्टं

६० ॥ काशिका ॥ १ ॥ ४ ॥ तेन यत्संबध्यते, तदकीर्तितमाचरितं कविना, तदकथितमुक्तं सूत्रकारेण । दुहि, गां दोग्धि पयः । याचि, पौरवं गां याचते । रुधि, गामवरुणद्धि व्रजम् । प्रच्छि, माणवकं पन्थानं पृच्छति । भित्ति, पौरवं गां भित्ते । चिञ्, वृक्षमव- चिनोति फलानि । ब्रुवि, माणवकं धर्मं ब्रूते । शासि, माणवकं धर्ममनुशास्ति ॥ गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्त्ता स णौ ॥ ५२ ॥ अर्थशब्दः प्रत्येकमभिसंबध्यते । गत्यर्थानां बुद्ध्यर्थानां प्रत्यवसानार्थानां च धातूनां तथा शब्दकर्मकाणामकर्मकाणां च अण्यन्तानां यः कर्त्ता स ण्यन्तानां कर्मसंज्ञो भवति । गच्छति माणवको ग्रामम् । गमयति माणवकं ग्रामम् । याति माणवको ग्रामम् । यापयति माणवकं ग्रामम् । गत्यर्थेषु नीवह्योः प्रतिषेधो वक्तव्यः ॥ * ॥ नयति भारं देवदत्तः । नाययति भारं देवदत्तेन । वहति भारं देवदत्तः । वाहयति भारं देवदत्तेन ॥ वहेरनियन्तृकर्तृकस्येति वक्तव्यम् ॥ * ॥ इह प्रतिषेधो मा भूत् । वहन्ति यवान् बलीवर्दाः । वाहयति यवान् बलीवदानिति । बुद्धि । बुध्यते माणवको धर्मम् । बोधयति माणवकं धर्मम् । वेत्ति माणवको धर्मम् । वेदयति माणवकं धर्मम् । प्रत्यवसानमभ्यवहारः । भुङ्क्ते माणवक ओद- नम् । भोजयति माणवकमोदनम् ॥ अश्नाति माणवक ओदनम् । आशयति माण- वकमोदनम् ॥ आदिखाद्योः प्रतिषेधो वक्तव्यः ॥ * ॥ अत्ति माणवक ओद- नम् । आदयते माणवकेनौदनम् । खादति माणवकः । खादयति माणवकेन ॥ भक्तेरहिंसार्थस्य प्रतिषेधो वक्तव्यः ॥ * ॥ भक्षयति पिण्डीं देवदत्तः । भक्षयति पिण्डीं देवदत्तेनेति । अहिंसार्थस्येति किम् । भक्षयन्ति बलीवर्दाः सस्यं, भक्ष- यन्ति बलीवर्दान्सस्यम् । शब्दकर्मणाम् । अधीते माणवको वेदम् । अध्याप- यति माणवकं वेदम् । पठतिमाणवको वेदम् । पाठयति माणवकं वेदम् ।' अकर्मकाणाम् । आस्ते देवदत्तः । आसयति देवदत्तम् । शेते देवदत्तः । शाय- यति देवदत्तम् । एतेषामिति किम् । पचत्योदनं देवदत्तः । पाचयत्योदनं देवदत्तेनेति । अण्यन्तानामिति किम् । गमयति देवदत्तो यज्ञदत्तं, तमपरः प्रयुङ्क्ते, गमयति देवदत्तेन यज्ञदत्तं विष्णुमित्रः ॥ हृक्रोरन्यतरस्याम् ॥ ५३ ॥ अणि कर्त्ता स णाविति वर्तते । हरतेः करोतेश्चाण्यन्तयोर्यः कर्त्ता स ण्यन्तयोरन्यतरस्यां कर्मसंज्ञो भवति । हरति भारं माणवकः । हारयति भारं माणवकं माणवकेनेति वा । करोति कटं देवदत्तः । कारयति कटं देवदत्तं देवदत्तेनेति वा ॥ अभिवादिवृशोरात्मनेपदउपसंख्यानम् ॥ * ॥ अभिवादति गुरुं देवदत्तः । अभिवादयते गुरुं देवदत्त देवदत्तेनेति वा । पश्यन्ति भृत्या राजा-

॥ काशिका ॥ १ ॥ ४ ॥ ६१

नम् । दर्शयते भृत्यान् राजानं दर्शयते भृत्यैरिति वा । आत्मनेपदइति किम् । दर्शयति चैत्रं मैत्रमपरः । प्राप्तविकल्पत्वाद् द्वितीयेव । अभिवादयति गुरुं माणवकेन पिता । अप्राप्तविकल्पत्वात्तृतीयेव ॥ स्वतन्त्रः कर्त्ता ॥ ५४ ॥ स्वतन्त्र इति प्रधानभूत उच्यते । अगुणीभूतो यः । क्रियाप्रसिद्धौ स्वात- न्त्र्येण विवक्ष्यते तत्कारकं कर्तृसंज्ञं भवति । देवदत्तः पचति । स्थाली पचति । कर्तृप्रदेशाः कर्तृकरणयोस्तृतीयेत्येवमादयः ॥ तत्प्रयोजको हेतुश्च ॥ ५५ ॥ तदिति ह्यनन्तरः कर्ता परामृश्यते । तस्य प्रयोजकः तत्प्रयोजकः । निपातनात्समासः । स्वतन्त्रस्य प्रयोजको यो ऽर्थः तत्कारकं हेतुसंज्ञं भवति चकारात्कर्तृसंज्ञं च । संज्ञासमावेशार्थश्चकारः । कुर्वाणं प्रयुङ्क्ते । कारयति ।

? It's डिनुङ,(orडिडुङ) 8. वश्चम,orवश्चम्,? There is a virāma/halanta: वश्चम्,9.श्लिकम्,orश्लिक्कम्,? It's श्लिकम्,10.म्वकम्,orय्वकम्,? It looks like म्वकम्,(orश्वकम्) 11. सानुकम्,12.नुकम्,`

Line 33: धन्नं, दौः, सुष्ठु, भाजक्, अले, वद, वाद, कीम्, एते ऽधिकाः पुस्तकान्तरेषु । Wait, let's look at word 1: Is it धन्नं, or धन्वं,? Looking closely at line 33, word 1: धन्वं, - the second consonant is 'व' with an anusvāra dot on top! Wait, look at 'वव' in line 32: 'व' has a rounded belly. In 'धन्वं', the conjunct is 'न्व': 'न्' + 'व' with anusvāra: धन्वं,. Word 2: दौः, or द्यौः,? Look

मा भूत्। असेस्त्वाचेत्वजोप्रसर्गद्याकुर्या मस्तिष्यंचपर इति षत्वं प्रसज्येत। चकारः संज्ञासमावेशार्थः। प्रणीतम्। अभिषिक्तम्। गतिरनन्तर इति स्वर उपसर्गो- दिति णत्वषत्वे च भवतः। कारिकाशब्दस्योपसंख्यानम् ॥ * ॥ कारिकाकृत्य। कारिकाकृतम्। यत्कारिकाकरोति। पुनश्चनसौ छन्दसि गतिसंज्ञौ भवत इति वक्तव्यम् ॥ * ॥ पुनरुत्स्यूतं वासो देयम्। गतिर्गताविति निघातो भवति । चनोहितः। गतिरनन्तर इतिस्वरः। गतिप्रदेशाः कुगतिप्रादय इत्येवमादयः॥ ऊर्यादिच्चिडाचश्च ॥ ६१ ॥ ऊर्यादयः शब्दाः च्यन्ता डाजन्ताश्च क्रियायोगे गतिसंज्ञा भवन्ति । च्चिडाचोः कृञ्वस्तियोगे विधानं तत्साहचर्यादूर्यादीनामपि तैरेव योगे गतिसंज्ञा विधीयते। ऊरीउररीशब्दावङ्गीकरणे विस्तारे च। ऊरीकृत्य। ऊरीकृतम्। यदू- रीकरोति। उररीकृत्य। उररीकृतम्। यदुररीकरोति। पापी। ताली। आताजी। वेताली। धूली। शकला। संशकला। ध्वंसकला। भ्रंशकला। एते शकलादयो हिंसायाम्। शकलाकृत्य। संशकलाकृत्य। ध्वंसकलाकृत्य। भ्रंशकलाकृत्य। गुलुगुधा पीडार्थे। गुलुगुधाकृत्य। सजूः सहार्थे। सजूःकृत्य। फलू, फली, विक्ली, आक्ली, इति विकारे। फलूकृत्य। फलीकृत्य। विक्लीकृत्य। आक्लीकृत्य। आलोष्ठी, कराली, केवाली, शेवाली, वर्षाली, मस्मसा, मसमसा, एते हिंसायाम्। वषट्। वौषट्। श्रौषट्। स्वाहा। स्वधा। बन्धा। प्रादुस्। श्रत्। आविस्र्। च्यन्ताः खल्वपि। शुक्लीकृत्य। शुक्लीकृतम्। यच्छुक्लीकरोति। डाच्। पटपटाकृत्य। पटपटाकृतम्। यत्पटपटाकरोति ॥ अनुकरणं चानितिपरम् ॥ ६२ ॥ इतिः परो यस्मादिति बहुव्रीहिः। अनुकरणमनितिपरं क्रियायोगे गतिसंज्ञं भवति। खाट्कृत्य। खाट्कृतम्। यत् खाट्करोति। अनितिपरमिति किम्। खाडिति कृत्वा ‘निरष्ठीवत् ॥ आदरानादरयोः सदसती ॥ ६३ ॥ प्रीत्यतिशय आदरः * । परिभवोदासीन्यमनादरः। आदरानादरयोर्व- र्तमानं सदसच्छब्दौ गतिसंज्ञौ भवतः। सत्कृत्य। सत्कृतम्। यत्सत्करोति। असत्कृत्य। असत्कृतम्। यदसत्करोति। आदरानादरयोरिति किम्। सत्कृत्याकाष्ठं गतः। असत्कृत्या काष्ठं गतः ॥ भूषणे ऽलम् ॥ ६४ ॥

  • प्रीतिसंभ्रम इति पाठान्तरम्।

७४ ॥ काशिका ॥ १ ॥ ४ ॥ अलमिति प्रतिषेधे सामर्थ्ये पर्याप्तौ भूषणे चेति विशेषणमुपादीयते । भूषणे यो ऽलंशब्दः स गतिसंज्ञो भवति । अलंकृत्य । अलंकृतम् । यदलं- करोति । भूषणादिति किम् । अलं भुक्त्वा ओदनं गतः ॥ अन्तरपरिग्रहे ॥ ६५ ॥ अन्तरशब्दो ऽपरिग्रहार्थे गतिसंज्ञो भवति । परिग्रहः स्वीकरणं तदभावे गतिसंज्ञा विधीयते । अन्तर्हत्य । अन्तर्हतम् । यदन्तर्हन्ति । अपरिग्रह इति किम् । अन्तर्हत्वा मूषिकां श्येनो गतः । परिगृह्य गत इत्यर्थः । अन्तरशब्दस्याङ्कि- विधिखात्वेषूपसर्गसंज्ञा वक्तव्या ॥ * ॥ अन्तर्द्धः । अन्तर्द्धिः । अन्तर्द्धायति ॥ कणेमनसी श्रद्धाप्रतीघाते ॥ ६६ ॥ कणेशब्दो मनश्शब्दश्च श्रद्धाप्रतीघाते गतिसंज्ञौ भवतः । कणेहत्य पयः पिबति । मनोहत्य पयः पिबति । तावत्पिबति यावदस्याभिलाषो निवृत्तः । श्रद्धा प्रतिहतेत्यर्थः । श्रद्धाप्रतीघात इति किम् । कणे हत्वा गतः । मनो हत्वा गतः ॥ पुरो ऽव्ययम् ॥ ६७ ॥ असिप्रत्ययान्तः पुरःशब्दो ऽव्ययं स गतिसंज्ञो भवति । समासस्वरो- पचाराः प्रयोजनम् । पुरस्कृत्य । पुरस्कृतम् । यत्पुरस्करोति । अव्ययमिति किम् । पूः, पुरौ, पुरः कृत्वा काण्डं गतः ॥ अस्तं च ॥ ६८ ॥ अस्तंशब्दो मकारान्तो ऽव्ययमनुपलब्धौ वर्तते स गतिसंज्ञो भवति । अस्तंगत्य सविता पुनरुदेति । अस्तंगतानि धनानि । यदस्तंगच्छति । अव्यय- मित्येव । अस्तं काण्डम् । क्षिप्तमित्यर्थः ॥ अच्छ गत्यर्थवदेषु ॥ ६९ ॥ अच्छशब्दो ऽव्ययमभिशब्दस्यार्थे वर्तते । स गत्यर्थेषु धातुषु वदतौ च गतिसंज्ञो भवति । अच्छगत्य । अच्छगतम् । यदच्छगच्छति । वदतौ । अच्छोद्य । अच्छोदितम् । यदच्छवदति । अव्ययमित्येव । उदकमच्छं गच्छति ॥ अदो ऽनुपदेशे ॥ ७० ॥ अदःशब्दस्त्यदादिषु पठ्यते सोऽनुपदेशे गतिसंज्ञो भवति । उपदेशः परार्थः प्रयोगः । स्वयमेव तु यदा बुद्ध्या परामृशति तदा नास्त्युपदेश इति सो ऽस्य विषयः । अदःकृत्य । अदःकृतम् । यददःकरोति । अनुपदेश इति किम् । अदः हत्वा काण्डं गत इति परस्य कथयति ॥ तिरो ऽन्तर्द्धौ ॥ ७१ ॥ अन्तर्द्धिर्व्यवधानम् । तत्र तिरःशब्दो गतिसंज्ञो भवति । तिरोभूय ।

॥ काशिका ॥ १ ॥ ४ ॥ ७५ तिरोभूतम् । यत् तिरोभवति । अन्तर्द्धाविति किम् । तिरो भूत्वा स्थितः । पार्श्वतो भूत्वेत्यर्थः ॥ विभाषा कृञि ॥ ७२ ॥ अन्तर्द्धाविति वर्तते । प्राप्तविभाषेयम् । तिरःशब्दः करोतौ परतो विभाषा गतिसंज्ञो भवति । तिरःकृत्य । तिरस्कृत्य । तिरस्कृतम् । यत्तिरस्करोति । तिर- स्कृत्वा । तिरःकृत्वा । अन्तर्द्धावित्येव । तिरः कृत्वा काष्ठं तिष्ठति ॥ उपाजेन्वाजे ॥ ७३ ॥ विभाषा कृञीति वर्तते । उपाजेऽन्वाजेशब्दौ विभक्तिप्रतिरूपकौ निपातौ दुर्बलस्य सामर्थ्याधाने वर्तेते तौ कृञि विभाषा गतिसंज्ञौ भवतः । उपाजेकृत्य । उपाजे कृत्वा । अन्वाजेकृत्य । अन्वाजे कृत्वा ॥ साक्षात्प्रभृतीनि च ॥ ७४ ॥ विभाषा कृञीति वर्तते । साक्षात्प्रभृतीनि शब्दरूपाणि कृञि विभाषा गतिसंज्ञानि भवन्ति । साक्षात्प्रभृतिषु च्व्यर्थवचनम् ॥ * ॥ साक्षात्कृत्य । साक्षा- त्कृत्वा । मिथ्याकृत्य । मिथ्या कृत्वा । साक्षात् । मिथ्या । चिन्ता । भद्रा । लौचना । विभाषा । संपत्का । आस्था । अमा । श्रद्धा । प्राजर्या । प्राजरुहा । बीजर्या । बीजरुहा । संसर्या । अर्थे । लवणम् । उष्णम् । शीतम् । उदकम् । आर्द्रम् । गतिसंज्ञासंनियोगेन लवणादीनां मकारान्तत्वं निपात्यते । अग्नौ । वशे । विकम्पने । विहसने । प्रहसने । प्रतपने । प्रादुस् । नमस् । आविस् ॥ अनत्याधानउरसिमनसी ॥ ७५ ॥ विभाषाकृञीति वर्तते । अत्याधानमुपश्लेषषं तदभावे ऽनत्याधाने उर- सिमनसी शब्दौ विभाषा कृञि गतिसंज्ञौ भवतः । उरसिकृत्य । उरसि कृत्वा । मन- सिकृत्य । मनसि कृत्वा । अनत्याधानइति किम् । उरसि कृत्वा पाणिं शेते ॥ मध्येपदेनिवचने च ॥ ७६ ॥ विभाषा कृञीति वर्तते । चकारादनत्याधानइति च । मध्ये पदे निवचने इत्येते शब्दा अनत्याधाने विभाषा कृञि गतिसंज्ञा भवन्ति । मध्येकृत्य । मध्ये कृत्वा । पदेकृत्य । पदे कृत्वा । निवचनं वचनाभावः । निवचनेकृत्य । निवचने कृ- त्वा । वाचं नियम्येत्यर्थः । अनत्याधानइत्येव । हस्तिनः पदे कृत्वा शिरः शेते ॥ नित्यं हस्तेपाणावुपयमने ॥ ७७ ॥ कृञीति वर्तते हस्ते पाणौ इत्येतौ शब्दौ कृञि नित्यं गतिसंज्ञौ भवत उपयमने । उपयमनं दारकर्म । पाणौकृत्य । हस्तेकृत्य । दार कर्म कृत्वेत्यर्थः । उपयमनइति किम् । हस्ते कृत्वा कार्षापणं गतः ॥

६६ ॥ काशिका ॥ १ । ४ ॥ प्राध्वं बन्धने ॥ ७८ ॥ कृञीति वर्तते । प्राध्वमिति मकारान्तमव्ययमानुकूल्ये वर्तते, तदानु- कूल्यं बन्धनहेतुकं यदा भवति, तदा प्राध्वंशब्दः कृञि नित्यं गतिसंज्ञो भवति । प्राध्वंकृत्य । बन्धन इति किम् । प्राध्वं कृत्वा शकटं गतः ॥ जीविकोपनिषदावौपम्ये ॥ ७९ ॥ कृञीति वर्तते । जीविका उपनिषदित्येतौ शब्दौ चौपम्ये विषये कृञि गतिसंज्ञौ भवतः । जीविकाकृत्य । उपनिषत्कृत्य । औपम्य इति किम् । जीविकां कृत्वा गतः ॥ ते प्राग्धातोः ॥ ८० ॥ ते गत्युपसर्गसंज्ञकाः धातोः प्राक् प्रयोक्तव्याः । तथा चैवोदाहृताः । तेप्राग्वचनमुपसर्गार्थम् । गतयो ह्यनन्तराः ॥ छन्दसि परे ऽपि ॥ ८१ ॥ प्राक् प्रयोगे प्राप्ते छन्दसि परेऽप्यनुज्ञायन्ते । छन्दसि विषये गत्युप- सर्गसंज्ञकाः परेऽपि पूर्वेऽपि प्रयोक्तव्याः । न च परेषां प्रयुज्यमानानां संज्ञाकार्ये किं चिदस्ति । केवलं परप्रयोगेऽपि क्रियायोग एवामस्तीति ज्ञाप्यते । याति त्रि हस्तिना । हन्ति नि मुष्टिना । निहन्ति मुष्टिना ॥ व्यवहिताश्च ॥ ८२ ॥ व्यवहिताश्च गत्युपसर्गसंज्ञकाः छन्दसि दृश्यन्ते । आ मन्द्रैरिन्द्र हरि- भिर्याहि मयूररोमभिः । आयाहि ॥ कर्मप्रवचनीयाः ॥ ८३ ॥ कर्मप्रवचनीया इत्याधिकारो वेदितव्यः । यानित ऊर्ध्वमनुक्रमिष्यामः कर्मप्रवचनीयसंज्ञास्ते वेदितव्याः । यदधिकोरीश्वर इति यावद्वक्ष्यति । कर्मप्रवच- नीयप्रदेशाः कर्मप्रवचनीययुक्ते द्वितीयेत्येवमादयः ॥ अनुर्लक्षणे ॥ ८४ ॥ अनुशब्दो लक्षणे द्योत्ये कर्मप्रवचनीयसंज्ञो भवति । शाकल्यस्य संहिता- मनु प्रावर्षत् । अनुवृक्षमन्वसिञ्चत् । अगस्त्यमन्वसिञ्चन्नापः । किमर्थमि- दमुच्यते । यावता लक्षणेत्थंभूताख्यानेति सिद्धैवानोः कर्मप्रवचनीयसंज्ञा । हेत्वर्थे तु वचनं हेतुतृतीयां बाधित्वा द्वितीयेव यथा स्यात् ॥ तृतीयार्थे ॥ ८५ ॥ अनुशब्दस्तृतीयार्थे द्योत्ये कर्मप्रवचनीयसंज्ञो भवति । नदीमन्ववसिता सेना । पर्वतमन्ववसिता सेना । पर्वतेन संबद्धेत्यर्थः ॥

॥ काशिका ॥ १ ॥ ४ ॥ ७७ हीने ॥ ८६ ॥ हीन इति न्यून उच्यते स चोत्कृष्टापेक्षः । तेनेयं हीनोत्कृष्टसंबन्धे संज्ञा विधीयते । हीने द्योत्ये ऽयमनुः कर्मप्रवचनीयसंज्ञो भवति । अनुशाकटा- यनं वैयाकरणाः । अन्वार्जुनं योद्धारः ॥ उपोधिके च ॥ ८७ ॥ उपशब्दः अधिके हीने च द्योत्ये कर्मप्रवचनीयसंज्ञो भवति । उप खार्यां द्रोणः । उप निष्के कार्षापणम् । हीने । उप शाकटायनं वैयाकरणाः ॥ अपपरी वर्जने ॥ ८८ ॥ अपपरी शब्दौ वर्जने द्योत्ये कर्मप्रवचनीयसंज्ञौ भवतः । प्रकृतेन संब- न्धिना कस्य चिदनभिसंबन्धो वर्जनम् । अप त्रिगर्त्तेभ्यो वृष्टो देवः । परि । परि त्रिगत्र्तेभ्यो वृष्टो देवः । वर्जनेति किम् । ओदनं परिविञ्चति ॥ आङ्मर्यादावचने ॥ ८९ ॥ आङित्येष शब्दः मर्यादावचने कर्मप्रवचनीयसंज्ञो भवति । अवधिर्म- र्यादा । वचनग्रहणादभिविधिरपि गृह्यते । आ पाटलिपुत्राद्वृष्टो देवः । आकुमारं यशः पाणिनेः । आ सांकाश्यात् । आ मथुरायाः । मर्यादावचनेति किम् । ईषदर्थे क्रियायोगे च मा भूत् ॥ लक्षणेत्थंभूताख्यानभागवीप्सासु प्रतिपर्य्यनवः ॥ ९० ॥ लक्षणे इत्थंभूताख्याने भागे वीप्सायां च विषयभूतायां प्रति परि अनु इत्येते कर्मप्रवचनीयसंज्ञा भवन्ति । लक्षणे तावत् । वृक्षं प्रति विद्योतते विद्युत् । वृक्षं परि । वृक्षमन्विति । इत्थंभूताख्याने । साधुर्देवदत्तो मातरं प्रति । मातरं परि । मातरमनु । भागे । यदत्र मां प्रति स्यात् । मां परि स्यात् । मामनु स्यात् । वीप्सायाम् । वृक्षंवृक्षं प्रति सिञ्चति । परि सिञ्चति । अनु सिञ्चति । लक्षणादि- ष्विति किम् । ओदनं परिविञ्चति । यद्य परिशब्दयोगे पञ्चमी कस्मान्न भवति पञ्चम्यपाङ्परिभिरिति । वर्जनविषये सा विधीयते, अपशब्दसाहचर्यात् ॥ अभिरभागे ॥ ९१ ॥ लक्षणादिष्वेव भागवर्जितेष्वभिः कर्मप्रवचनीयसंज्ञो भवति । वृक्षमभि विद्योतते । साधुर्देवदत्तो मातरमभि । वृक्षंवृक्षमभि सिञ्चति । अभागेति किम् । भागः स्वीक्रियमाणोंशः । यदत्र ममाभिष्यात् तद्दीयताम् । यदत्र मम भवति तद्दीयतामित्यर्थः ॥ प्रतिः प्रतिनिधिप्रतिदानयोः ॥ ९२ ॥ मुख्यसदृशः प्रतिनिधिः । दत्तस्य निर्यातनं प्रतिदानम् । प्रतिनिधिप्रति-

९८ ॥ काशिका ॥ १ ॥ ४ ॥ चये प्रतिदानविषये च प्रतिः कर्मप्रवचनीयसंज्ञो भवति । अभिमन्युरर्जुनतः प्रति । माषानस्मै तिलेभ्यः प्रति यच्छति ॥ अधिपरी अनर्थकौ ॥ ९३ ॥ अधिपरी शब्दौ अनर्थकौ अनर्थान्तरवाचिनौ कर्मप्रवचनीयसंज्ञौ भवतः । कुतोऽध्यागच्छति । कुतः पर्यागच्छति । गत्युपसर्गसंज्ञाबाधनार्था कर्मप्रवचनीय- संज्ञा विधीयते ॥ सुः पूजायाम् ॥ ९४ ॥ सुशब्दः पूजायामर्थे कर्मप्रवचनीयसंज्ञो भवति । सु सिक्तं भवता । सु स्तुतं भवता । धात्वर्थः स्तूयते । उपसर्गसंज्ञाश्रयं षत्वं न भवति । पूजाया- मिति किम् । सुषिक्तं किं तवात्र ॥ अतिरतिक्रमणे च ॥ ९५ ॥ अतिशब्दः अतिक्रमणे चकारात्पूजायां च कर्मप्रवचनीयसंज्ञो भवति । नि- न्द्येऽपि वस्तुनि क्रियाप्रवृत्तिरतिक्रमणम् । अति सिक्तमेव भवता । अति स्तुतमेव भ- वता । पूजायाम् । अति सिक्तं भवता । अति स्तुतं भवता । शोभनं कृतमित्यर्थः ॥ अपिः पदार्थसंभावनान्ववसर्गगर्हासमुच्चयेषु ॥ ९६ ॥ पदार्थे संभावने ऽन्ववसर्गे गर्हायां समुच्चये च वर्तमानः अपिः कर्मप्र- वचनीयसंज्ञो भवति । पदान्तरस्याप्रयुज्यमानस्यार्थः पदार्थः । सर्पिषोऽपि स्यात् । मधुनोऽपि स्यात् । मात्रा बिन्दुः स्तोकमित्यस्यार्थे ऽपिशब्दो वर्तते । संभाव- नमधिकार्थवचनेन शक्तेरप्रतिघाताविष्करणम् । अपि सिञ्चेन्मूलकसहस्रम् । अपि स्तुयाद्राजानम् । अन्ववसर्गः कामचारानुज्ञा । अपि सिञ्च । अपि स्तुहि । गर्हा निन्दा । धिग्जाल्मं देवदत्तमपि सिञ्चेत्पलाण्डुम् । अपि स्तुया- द्वृषलम् । समुच्चये । अपि सिञ्च । अपि स्तुहि । सिञ्च च स्तुहि च । उप- सर्गसंज्ञाबाधनात् षत्वं न भवति ॥ अधिरीश्वरे ॥ ९७ ॥ ईश्वरः स्वामी स च स्वमपेक्षते । तदयं स्वस्वामिसंबन्ध कर्मप्रवचनीय- संज्ञो भवति । तत्र कदा चित्स्वामिनः कर्मप्रवचनीयविभक्तिः सप्तमी भवति कदा चित्स्वात् । अधि ब्रह्मदत्ते पञ्चालाः । अधि पञ्चालेषु ब्रह्मदत्तः ॥ विभाषा कृञि ॥ ९८ ॥ अधिः करोतौ विभाषा कर्मप्रवचनीयसंज्ञो भवति । यदत्र मामधिक- रिष्यति । कर्मप्रवचनीयसंज्ञापक्षे गतिसंज्ञाबाधनात् तिङि चोदात्तवतीति निघातो न भवति ॥

॥ काशिका ॥ १ । ४ ॥ ७९ लः परस्मैपदम् ॥ ९९ ॥ ल इति षष्ठी सादेशापेक्षा । लादेशाः परस्मैपदसंज्ञा भवन्ति । तिप्, तस्, झि । सिप्, थस्, थ । मिप्, वस्, मस् । शतृक्वसू च । परस्मैपदप्रदेशाः सिचि वृद्धिः परस्मैपदेष्वित्येवमादयः ॥ तङानावात्मनेपदम् ॥ १०० ॥ तङिति प्रत्याहारो नवानां वचनानाम् । आन इति शानच्कानचोर्ग्र- हणम् । पूर्वेण परस्मैपदसंज्ञायां प्राप्तायां तङानयोरात्मनेपदसंज्ञा विधीयते । त, आताम्, झ । थास्, आथाम्, ध्वम् । इट्, वहि, महिङ् । आनः खल्व- पि । शानच्कानचौ । ल इत्येव । कतीह निघ्नानाः । आत्मनेपदप्रदेशा अनु- दात्तङित आत्मनेपदमित्येवमादयः ॥ तिङस्त्रीणित्रीणि प्रथममध्यमोत्तमाः ॥ १०१ ॥ तिङोऽष्टादश प्रत्ययाः नव परस्मैपदसंज्ञकाः नवात्मनेपदसंज्ञकाः तत्र परस्मैपदेषु त्रयस्त्रिकाः यथाक्रमं प्रथममध्यमोत्तमसंज्ञा भवन्ति । आत्मनेप- देष्वपि त्रयस्त्रिकाः प्रथममध्यमोत्तमसंज्ञा भवन्ति । तिप्, तस्, झि, इति प्रथमः । सिप्, थस्, थ, इति मध्यमः । मिप्, वस्, मस्, इत्युत्तमः । आत्म- नेपदेषु त, आतां, झ, इति प्रथमः । थास्, आथाम्, ध्वम्, इति मध्यमः । इट्, वहि, महिङ्, इत्युत्तमः । प्रथममध्यमोत्तमप्रदेशाः शेषे प्रथम इत्येवमादयः ॥ तान्येकवचनद्विवचनबहुवचनान्येकशः ॥ १०२ ॥ तान्येकवचनद्विवचनबहुवचनसंज्ञानि भवन्ति * एकशः एकैकं पदम् । तिबित्येकवचनम् । तसिति द्विवचनम् । झि इति बहुवचनम् । एवं सर्वत्र । एकवचनद्विवचनबहुवचनप्रदेशाः बहुषु बहुवचनमित्येवमादयः ॥ सुपः ॥ १०३ ॥ तिङां त्रिकेष्वेकवचनादिसंज्ञा विहिताः संप्रति सुपां त्रिकेषु विधीयन्ते । सुपश्च त्रीणित्रीणि पदानि एकश एकवचनद्विवचनबहुवचनसंज्ञानि भवन्ति । सु इत्येकवचनम् । औ इति द्विवचनम् । जसिति बहुवचनम् । एवं सर्वत्र ॥ विभक्तिश्च ॥ १०४ ॥ त्रीणित्रीणीत्यनुवर्तते । त्रीणित्रीणि विभक्तिसंज्ञाश्च भवन्ति सुपस्ति- ङश्च । विभक्तिप्रदेशा अष्टन आ विभक्तावित्येवमादयः ॥

  • तानि तिङस्त्रीणित्रीणि भूत्वैकवचनद्विवचनबहुवचनसंज्ञानि भवन्तीत्यपि क्व चि- त्पाठः ।

४० ॥ काशिका ॥ १ ॥ ४ ॥ युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः ॥ १०५ ॥ लस्येत्यधिकृत्य सामान्येन तिङादयो विहितास्तेषामयं पुरुषनियमः क्रियते । युष्मद्युपपदे सति व्यवहिते चाव्यवहिते सति समानाधिकरणे समा- नाभिधेये तुल्यकारके स्थानिनि प्रयुज्यमाने ऽप्यप्रयुज्यमानेऽपि मध्यमपुरुषो भव- ति । त्वं पचसि । युवां पचथः । यूयं पचथ । अप्रयुज्यमानेऽपि । पचसि । पचथः । पचथ ॥ प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च ॥ १०६ ॥ प्रहासः परिहासः क्रीडा । प्रहासे गम्यमाने मन्योपपदे धातोर्मध्यमपु- रुषो भवति, मन्यतेश्चोत्तमः स चैकवद्भवति । एहि मन्ये ओदनं भोक्ष्यस इति, नहि भोक्ष्यसे, भुक्तः सोऽतिथिभिः । एहि मन्ये रथेन यास्यसि, नहि यास्यसि, यातस्तेन ते पिता । मध्यमोत्तमयोः प्राप्तयोः उत्तममध्यमौ विधीयेते । प्रहा- स इति किम् । एहि मन्यसे ओदनं भोक्ष्य इति । सुष्ठु मन्यसे, साधु मन्यसे ॥ अस्मद्युत्तमः ॥ १०७ ॥ उत्तमपुरुषो नियम्यते । अस्मद्युपपदे समानाभिधेये प्रयुज्यमानेऽप्यप्रयु- ज्यमानेपि उत्तमपुरुषो भवति । अहं पचामि । आवां पचावः । वयं पचामः । अप्रयुज्यमानेपि । पचामि । पचावः । पचामः ॥ शेषे प्रथमः ॥ १०८ ॥ शेष इति मध्यमोत्तमविषयादन्य उच्यते । यत्र युष्मदस्मदी समानाधि- करणे उपपदे न स्तः तत्र शेषे प्रथमपुरुषो भवति । पचति । पचतः । पचन्ति ॥ परः संनिकर्षः संहिता ॥ १०९ ॥ परशब्दो ऽतिशये वर्तते । संनिकर्षः प्रत्यासत्तिः । परो यः संनिकर्षो वर्णानामर्धमात्राकालव्यवधानं स संहितासंज्ञो भवति । दध्यत्र । मध्वत्र । संहिताप्रदेशास्संहितायामित्येवमादयः ॥ विरामो ऽवसानम् ॥ ११० ॥ विरतिर्विरामः । विरम्यतेनेनेति वा विरामः । सोऽवसानसंज्ञो भवति । दधि । मधु । वृक्षः । प्लक्षः । अवसानप्रदेशाः खरवसानयोर्विसर्जनीय इत्येवमादयः ॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ प्रथमाध्यायस्य चतुर्थः पादः ॥ समाप्तश्चाध्यायः ॥ शुभम् ॥