किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पञ्चमः सर्गः
अथ हिमवद्वर्णनमारभते । तत्र पञ्चदशभिः कुलकमाह—
अथ जयाय नु मेरुमहीभृतो रभसया नु दिगन्तदिदृक्षया ।
अभिययौ स हिमाचलमुच्छ्रितं समुदितं नु विलंघयितुं नभः ॥ १ ॥
अन्वयः—अथ सः मेरुमहीभृतः जयाय नु, रभसया दिगन्तदिदृक्षया नु, नभः विलंघयितुं नु समुदितम् उच्छ्रितं हिमाचलम् अभिययौ ।
विग्रहः—महीं बिभर्तीति महीभृत् तस्य = महीभृतः । द्रष्टुमिच्छा दिदृक्षा, दिगन्तानां दिदृक्षा तया = दिगन्तदिदृक्षया ।
अर्थः—अथ = अनन्तरम् । सः = अर्जुनः । मेरुमहीभृतः = सुमेरुपर्वतस्य । जयाय = जयार्थम् । नु ( इति वितर्के ) रभसया = उत्कण्ठया । दिगन्तदिदृक्षया नु = दिशावलोकनेच्छया वा । नभः = आकाशम् । विलंघयितुम् नु = लंघयितुम् वा । समुदितम् = समुत्पतितमिव । उच्छ्रितम् = अत्युन्नतम् । हिमाचलम् = एतन्नामकपर्वतम् । अभिययौ = ययौ । द्रुतविलम्बितवृत्तम् । अत्रोत्प्रेक्षा-लङ्कारः ॥ १ ॥
कोषः—'नु पृच्छायां वितर्के च' इत्यमरः । 'रभसो वेगहर्षयोः' इति वैजयन्ती ।
हिन्दी—(शरद ऋतु की शोभा देखने के पश्चात्) अर्जुन कदाचित् हिमालय को देखने के लिए हिमालय पर्वत पर गये । यह हिमालय इतना ऊँचा था मानो वह सुमेरु पर्वत को अपनी उच्चता से जीतना चाहता हो ! अथवा वह दिशाओं के अवसान अपनी इस उच्चता से देखने को उत्कण्ठित हो रहा हो ! अथवा वह आकाश को पार करना चाहता हो ! ॥ १ ॥
तपनमण्डलदीपितमेकतः सततनैशतमोवृतमन्यतः ।
हसितभिन्नतमिस्रचयं पुरः शिवमिवानुगतं गजचर्मणा ॥ २ ॥
अन्वयः—एकतः तपनमण्डलदीपितम् अन्यतः सततनैशतमोवृतम् पुरः हसितभिन्नतमिस्रचयम् गजचर्मणा अनुगतं शिवम् इव ।
विग्रहः—तपनमण्डलेन दीपितम् = तपनमण्डलदीपितम् । सततेन नैशेन
पञ्चमः सर्गः २७
तमसः वृतम् = सततनैशतमोवृतम् । हसितेन भिन्नः तमिस्रचयः यस्य तम् = हसितभिन्नतमिस्रचयम् । गजस्य चर्म = गजचर्म, तेन गजचर्मणा ।
अर्थः— एकतः = एकस्मिन्भागे । तपनमण्डलदीपितम् = सूर्यमण्डलप्रकाशितम् ! अन्यतः = अन्यस्मिन्भागे । सततनैशतमोवृतम् = अनवरतनिशातमसाऽऽच्छन्नम् । पुरः = अग्रे । हसितभिन्नतमिस्रचयम् = अट्टहासनिरस्ततमस्तोमम् । गजचर्मणा = हस्तिचर्मणा । अनुगतं = पश्चाद्व्याप्तम् । शिवम् = शङ्करम् । इव स्थितम् । अत्रातिशयोक्तिरलङ्कारः ।
कोषः— 'पश्चात्सादृश्ययोरनु' इत्यमरः ।
हिन्दी— इस ( हिमालय ) की उच्चता के कारण सूर्यमण्डल के सामने वाला भाग सदैव दीपित रहता है और उसका विपरीत भाग घने अन्धकार से आवृत रहता है अर्थात् एक भाग में आकाश होता है तो दूसरे में घोर अन्धकार । इससे प्रतीत होता है कि हाथी की खाल ओढ़े हुए, अट्टहास से अन्धकार को फाड़ते हुए यह साक्षात् शिव हों ॥ २ ॥
क्षितिनभःसुरलोकनिवासिभिः कृतनिकेतमदृष्टपरस्परैः ।
प्रथयितुं विभुतामभिनिमितं प्रतिनिधिं जगतामिव शम्भुना ॥ ३ ॥
अन्वयः— अदृष्टपरस्परैः क्षितिनभःसुरलोकनिवासिभिः कृतनिकेतम् शम्भुना विभुतां प्रथयितुम् अभिनिमितं जगतां प्रतिनिधिमिव ।
विग्रहः— अदृष्टाः परस्परे यैस्ते = अदृष्टपरस्परास्तैः तथोक्तैः । क्षितौ नभसि सुरलोके च निवसन्तीति, तैः = क्षितिनभःसुरलोकनिवासिभिः । कृतं निकेतं येन तम् = कृतनिकेतम् ।
अर्थः— अदृष्टपरस्परैः = अदृष्टान्योन्यैः । क्षितिनभःसुरलोकनिवासिभिः = भूर्भुवःस्वर्लोकवासिभिः । कृतनिकेतं = कृतावासम् । शम्भुना = शिवेन । विभुतां = स्वसामर्थ्यम् । प्रथयितुम् = प्रस्तारयितुम् । अभिनिमितम् = निमितम् । जगतां = लोकानां । प्रतिनिधिम् = प्रतिकृतिम् इव स्थितम् । अत्रोत्प्रेक्षालङ्कारः ।
कोषः— 'प्रतिकृतिरर्चा पुंसि, प्रतिनिधिरुपमोपमानं स्यात्' इत्यमरः ।
हिन्दी— पृथ्वी, आकाश तथा सुरलोक वासी परस्पर में अदृष्ट होकर ( एक दूसरे को न देखते हुए ) हिमालय पर्वत पर रहते हैं अत एव प्रतीत होता है कि भगवान् शङ्कर ने अपने यश का प्रचार करने के लिए इस हिमालय को विश्व के प्रतिनिधि रूप में बनाया है ॥ ३ ॥
२८ | किरातार्जुनीयम्
भुजगराजसितेन नभःश्रिता कनकराजिविराजितसानुना । समुदितं निचयेन तडित्वतीं लघयता शरदम्बुदसंहतिम् ॥ ४ ॥
अन्वयः— भुजगराजसितेन नभःश्रिता कनकराजिविराजितसानुना तडित्वतीम् शरदम्बुदसंहतिं लघयता निचयेन समुदितम् ।
विग्रहः— भुजगानां राजा भुजगराजः । भुजगराजवदसौ सितस्तेन = भुजगराजसितेन । नभः श्रयतीति तेन = नभःश्रिता । कनकस्य राज्यः कनकराज्यः, ताभिः विराजिताः सानवः यस्य तेन = कनकराजिविराजितसानुना । शरदः अम्बुदाः शरदम्बुदाः, तेषां संहतिस्ताम् = शरदम्बुदसंहतिम् ।
अर्थः— भुजगराजसितेन = शेषाहिधवलेने । नभःश्रिता = गगनस्पृशा । कनकराजिविराजितसानुना = स्वर्णरेखाशोभितसानुना । तडित्वतीं = विद्युद्युक्ताम् । शरदम्बुदसंहतिम् = शरन्मेघचयम् । लघयता = लघूकूर्वता । निचयेन = समूहेन । समुदितम् = समुद्गतम् । अत्रोपमालङ्कारः ।
कोषः— 'कूटोऽस्त्री शिखरं शृङ्गम्' इत्यत्र निचयशब्दः शृङ्गवाची भवितुमर्हति ।
हिन्दी— शेषनाग के समान श्वेत तथा स्वर्ण रेखाओं से सुशोभित हिमालय का शिखरसमूह इतना ऊँचा है कि वह विद्युद्-युक्त, शरत्कालीन मेघमालाओं को तिरस्कृत कर रहा है ॥ ४ ॥
मणिमयूखचयांशुकभासुराः सुरवधूपरिभुक्तलतागृहाः । दधतमुच्चशिलान्तरगोपुराः पुर इवोदितपुष्पवना भुवः ॥ ५ ॥
अन्वयः— मणिमयूखचयांशुकभासुराः सुरवधूपरिभुक्तलतागृहाः उच्चशिलान्तरगोपुराः उदितपुष्पवनाः भुवः पुर इव दधतम् ।
विग्रहः— मणिमयूखानां चयः अंशुकानीव, तैः भासुराः = मणिमयूखचयांशुकभासुराः । सुरवधूभिः परिमुक्ताः लताः गृहा इव = सुरवधूपरिभुक्तलतागृहाः । उच्चानि शिलान्तराणि गोपुराणीव यासु ताः = उच्चशिलान्तरगोपुराः । पुष्पाणां वनानि पुष्पवनानि, उदितानि पुष्पवनानि यासु ताः = उदितपुष्पवनाः ।
अर्थः— मणिमयूखचयांशुकभासुराः = मणिकिरणसमूहवस्त्रभासुराः । सुरवधूपरिभुक्तलतागृहाः = सुराङ्गानोपमुक्तलतागृहाः । उच्चशिलान्तरगोपुराः = उच्चशिलामध्यपुरद्वाराः । उदितपुष्पवनाः = अर्जितकुसुमकाननाः । भुवः = पृथिवीः । पुरः = नगराणि । इव = सदृशम् । दधतम् = धारयन्तम् । अत्रोपमालङ्कारः ।
पञ्चमः सर्गः २९
कोषः—‘किरणोस्रमयूखांशुगभस्तिघृणिरश्मयः’ इत्यमरः।
**हिन्दी—**इस हिमालय के भूभाग नगर के समान है। ये नगर विविध रत्नों की किरणों से भासित तथा देवाङ्गनाओं द्वारा उपभुक्त लतागृहों वाले हैं। ऊँची-ऊँची शिलाओं के बीच के रिक्त स्थान उसके गोपुर (पुर द्वार) हैं और उनमें सुन्दर पुष्पवाटिकाएँ भी हैं ॥ ५ ॥
अविरतोज्झितवारिविपाण्डुभिर्विरहितैरचिरद्युतितेजसा ।
उदितपक्षमिवारतनिःस्वनैः पृथुनितम्बविलम्बिभिरम्बुदैः ॥ ६ ॥
**अन्वयः—**अविरतोज्झितवारिविपाण्डुभिः अचिरद्युतितेजसा विरहितैः आरत-निःस्वनैः पृथुनितम्बविलम्बिभिः अम्बुदैः उदितपक्षम् इव ।
**विग्रहः—**अविरतम् उज्झितवारयः, अत एव विपाण्डवश्च, तैः अविरतोज्झित-वारिविपाण्डुभिः । अचिरद्युतेस्तेजस्तेन = अचिरद्युतितेजसा । आरतं निःस्वनं येषां तैः = आरतनिःस्वनैः । पृथुभिः नितम्बविलम्बिभिः = पृथुनितम्बविलम्बिभिः । उदितानि पक्षाणि यस्य तम् उदितपक्षम् ।
**अर्थः—**अविरतोज्झितवारिविपाण्डुभिः = अविच्छिन्नोज्झितजलपाण्डुभिः । अचिरद्युतितेजसा = विद्युत्तेजसा । विरहितैः = रहितैः । आरतनिःस्वनैः = प्रशान्त-गर्जितैः । पृथुनितम्बविलम्बिभिः = महाकटकसङ्गिभिः । अम्बुदैः = घनैः । उदित-पक्षम् इव = सञ्जातपक्षमिव । स्थितम् । अत्रोत्प्रेक्षालङ्कारः ।
कोषः—‘कटकोऽस्त्री नितम्बोऽद्रेः’ इत्यमरः ।
हिन्दी — इस हिमालय के विपुल नितम्बभाग के समान भूभाग पर बादल उठते रहते हैं । ये उठे हुए बादल अविरल वर्षा करते रहने के कारण भूरे रंग के हो गये हैं। बिजली की चमक समाप्त हो जाने पर भी वे गम्भीर गर्जन कर रहें हैं । वे बादल हिमालय के नये उत्पन्न हुए पंखों के समान दिखलाई पड़ रहे हैं ॥ ६ ॥
दधतमाकरिभिः करिभिः क्षतैः समवतारसमैरसमैस्तटैः ।
विविधकामहिता महिताम्भसः स्फुटसरोजवना जवना नदीः ॥ ७ ॥
**अन्वयः—**आकरिभिः करिभिः क्षतैः समवतारसमैः असमैः तटैः महिताम्भसः विविधकामहिताः स्फुटसरोजवनाः जवनाः नदीः दधतम् ।
**विग्रहः—**समवतारेषु समाः तैः समवतारसमैः । महितानि अम्भांसि यासु,
| ३० | किरातार्जुनीयम् |
|---|
ताः = महिताम्भसः। विविधेभ्यः कामेभ्यः हिताः = विविधकामहिताः। स्फुटानि सरोजानां वनानि यासु ताः = स्फुटसरोजवनाः।
अर्थः—आकरिभिः = आकरजैः। करिभिः = गजैः। क्षतैः = नष्टैः। अमन्दारसमैः = तीर्थसमैः। असमैः = असदृशैः। तटैः = रोधोभिः। महिताम्भसः = श्लाघ्यजलाः। विविधकामहिताः = अनेककामानुकूलाः। स्फुटसरोजवनाः = विकसितकमलकाननाः। जवनाः = वेगवतीः। नदीः = सरितः। दधतम् = धारयन्तम्। अत्र यमकालङ्कारः।
कोषः—'खनिः स्त्रियामाकरः स्यात्' इत्यमरः।
हिन्दी—इस हिमालय पर बहुत सी तेज बहनेवाली नदियाँ हैं। उनके तट अनेकों रत्नों की खानि तथा वे हाथियों के द्वारा नष्ट करके बराबर कर दिये गये हैं जो बड़े सुन्दर लगते हैं। हिमालय पर तीव्रता से बहने वाली नदियाँ पवित्र जलवाली एवं अनेकों कामों में हितकर हैं जिनमें खिले हुए कमलों के वन हैं॥७॥
नवविनिद्रजपाकुसुमतिविषां द्युतिमत्ता निकरेण महाश्मनाम्।
विहितसान्ध्यमयूखमिव क्वचिन्निचितकाञ्चनभित्तिषु सानुषु॥८॥
अन्वयः—नवविनिद्रजपाकुसुमतिविषाम् महाश्मना द्युतिमत्ता निकरेण क्वचित् निचितकाञ्चनभित्तिषु सानुषु विहितसान्ध्यमयूखमिव।
विग्रहः—नवानि विनिद्राणि जपाकुसुमानि = नवविनिद्रजपाकुसुमानि तेषां त्विष इव त्विषो येषां ते तेषाम् = नवविनिद्रजपाकुसुमतिविषाम्। निचिताः काञ्चनभित्तयो येषु, तेषु = निचितकाञ्चनभित्तिषु। सन्ध्याया भवाः सान्ध्याः। विहिताः सान्ध्याः मयूखाः यस्मिन् तम् = विहितसान्ध्यमयूखम्।
अर्थः—नवविनिद्रजपाकुसमात्वषम् = नूतनविकसितजपापुष्पकान्तीनाम्। महाश्मनाम् = मणीनाम्। द्युतिमत्ता = कान्तिमत्ता। निकरेण = समूहेन क्वचित् = कुत्रचित्। निचितकाञ्चनभित्तिषु = संघटितस्वर्णभित्तिषु। सानुषु = शृङ्गेषु। विहितसान्ध्यमयूखम् = कृतसान्ध्यकिरणम्, इव स्थितम्। अत्रात्प्रेक्षालङ्कारः।
कोषः—'ओण्ड्रपुष्पं जपापुष्पं रूपिका ताम्रपुष्पिका' इति वाग्भटः।
हिन्दी—इस हिमालय पर नवीन (ताजे) खिले हुए जपापुष्प (गुड़हल)
पञ्चमः सर्गः
३१
के समान कान्तिवाली मणियां शोभित हो रही हैं। इस प्रकार मणिसमूह के प्रकाश से युक्त, हेमयुक्त चोटियों पर कहीं-कहीं सन्ध्याकालीन किरणें भी दिखलाई पड़ती हैं ॥ ८ ॥
पृथुकदम्बकदम्बकराजितं ग्रथितमालतमालवनाकुलम् ।
लघुतुषारतुषारजलश्च्युतं धुतसदानसदानन्दन्तिनम् ॥ ९ ॥
अन्वयः—पृथुकदम्बकदम्बकराजितम् ग्रथितमालतमालवनाकुलम् लघुतुषारतुषारजलश्च्युतं धुतसदानसदानन्दन्तिनम् ।
विग्रहः—कदम्बवत् कदम्बकानि, तैः कदम्बकदम्बकैः । पृथुभिः कदम्बकदम्बकैः राजितम्=पृथुकदम्बकदम्बकराजितम् । ग्रथितमालैः तमालवनैः आकुलम्=ग्रथितमालतमालवनाकुलम् । लघुतुषारं यत्तुषारजलम् = लघुतुषारतुषारजलम् । लघुतुषारतुषारजलं श्च्योतति यः, तम् = लघुतुषारतुषारजलश्च्युतम् । सदाननाः दन्तिनः = सदाननदन्तिनः । सदानाः ये सदाननदन्तिनः सदानसदाननदन्तिनः । धुताः सदानसदाननदन्तिनः येन तम् धुतसदानसदाननदन्तिनम् ।
अर्थः—पृथुकदम्बकदम्बकराजितम् = बृहत्स्तबकनीपकुसुमराजितम् । ग्रथितमालतमालवनाकुलम् = पंक्तिबद्धतमालवनाकीर्णम् । लघुतुषारतुषारजलश्च्युतम् = अल्पसीकरहिमोदकवर्षम् । धुतसदानसदानन्दन्तिनम् = धृतमदशोभनाननगजम् ।
कोषः—'कदम्बमाहुः सिद्धार्थे नीपे च निकुरम्बके' इति विश्वः । 'कालस्कन्धस्तमालः स्यात् तापिच्छोऽपि' इत्यमरः । 'तुषारो हिमसीकरो' इति शाश्वतः ।
हिन्दी—यह हिमालय बड़े-बड़े कदम्बपुष्पों से युक्त, पुष्पमाला के सदृश तमालवन से पूर्ण, बिन्दु-बिन्दु तुषार-कणों को टपकाता हुआ तथा मदवाले सुन्दर सूंड़ों वाले हाथियों से परिपूर्ण है ॥ ९ ॥
रहितरत्नचयान्न शिलोच्चयानपलताबभवना न दरीभुवः ।
विपुलिनाम्बुरुहा न सरिद्वधूरकुसुमान्दधतं न महोरुहः ॥ १० ॥
अन्वयः—रहितरत्नचयान् शिलोच्चयान् न दधतम्, अलताबभवनाः दरीभुवः न ( दधतम् ), विपुलिनाम्बुरुहाः सरिद्वधूः न ( दधतम् ) अकुसुमान् महीरुहः न दधतम् ।
३२ किरातार्जुनीयम्
विग्रहः—रत्नचयैः रहिताः तान् । अपगतानि लताभवनानि यासुस्तास्तथोक्ताः । विगतानि पुलिनानि अम्बुरुहाणि च यासां ताः = विपुलिनाम्बुरुहाः । सरितः वध्व इव ताः = सरिद्वधूः ।
अर्थः—रहितरत्नचयान् = त्यक्तरत्नसमूहान् । शिलोच्चयान् = शिखराणि न दधतम् । अपलताभवनाः = लतागृहरहिताः । दरीभुवः = गुहाप्रदेशान् न दधतम् । विपुलिनाम्बुरुहाः = विगतपुलिनजलरुहाः । सरिद्वधूः = सरिताबालाः = न दधतम् । अकुसुमान् = पुष्परहितान् । महीरुहः = वृक्षान् न दधतम् ।
कोषः—‘दरी तु कन्दरो वा स्त्री देवखातबिले गुहा’ इत्यमरः ।
हिन्दी—इस हिमालय के शिखर रत्नराशियों से रिक्त नहीं हैं। इसकी कन्दरायें लताभवनों से हीन नहीं हैं। इसमें बहनेवाली वधूरूपी नदियाँ पुलिनों तथा कमल पुष्पों से रहित नहीं हैं और न इसमें फल-फूलरहित वृक्ष ही हैं ॥ १० ॥
व्यथितसिन्धुमनीरशनैः शनैरमरलोकवधूजघनैर्घनैः ।
फणभृतामभितो विततं ततं दयितरम्यलताबकुलैः कुलैः ॥ ११ ॥
अन्वयः—अनीरशनैः घनैः अमरलोकवधूजघनैः शनैः व्यथितसिन्धुं दयितरम्यलताबकुलैः फणभृतां कुलैः अभितः ततं विततम् ।
विग्रहः—निर्गताः रशनाः येभ्यस्तैः = नीरशनैः, न नीरशनैरनीरशनैः । अमरलोकानां वध्वः, तासां जघनैः = अमरलोकवधूजघनैः । व्यथिताः सिन्धवः यस्मिंस्तम् = व्यथितसिन्धुम् । दयिताः रम्याः लताबकुलाः = दयितरम्यलताबकुलास्तैः दयितरम्यलताबकुलैः । फणानि बिभ्रतीति फणभृतः, तेषां = फणभृताम् ।
अर्थः—अनीरशनैः = ध्वनिमेखलैः । घनैः = निबिडैः । अमरलोकवधूजघनैः = देवाङ्गनाजघनैः । शनैः = मन्दम् । व्यथितसिन्धुम् = क्षोभितनदोकम् । दयितरम्यलताबकुलैः = प्रियरम्यलताकेसरैः । फणभृतां = सर्पाणां, कुलैः = समूहैः । अभितः = परितः । ततम् = व्याप्तम् । विततम् = विस्तृतम् ।
कोषः—‘विशारदो मद्यगन्धो बकुलः स च केसरः’ इति वैद्यके ।
हिन्दी—इस हिमालय के प्रदेश में बहनेवाली नदियाँ देवाङ्गनाओं के
पञ्चमः सर्गः ३३
पञ्चमः सर्गः ३३
मेखलायुक्त स्थूल जघनों के द्वारा मन्द-मन्द आकुलित रहती हैं अर्थात् उनमें सुरसुन्दरियां जलक्रीड़ा करती हैं। चन्दनादि की प्रिय लताओं और केसर के लिए मतवाले बने हुए साँप झुण्ड के झुण्ड हिमालय के वन में रहते हैं। इस प्रकार यह हिमालय चारो ओर फैला हुआ है ॥ ११ ॥
ससुरचापमनेकमणिप्रभैरपपयोविशदं हिमपाण्डुभिः ।
अविचलं शिखरैरुपबिभ्रतं ध्वनितसूचितमम्बुमुचां चयः ॥ १२ ॥
अन्वयः—अनेकमणिप्रभैः हिमपाण्डुभिः शिखरैः ससुरचापम् अपपयोविशदम् अविचलं ध्वनिसुचितम् अम्बुमुचां चयम् उपबिभ्रतम् ।
विग्रहः—अनेकाः मणिप्रभाः येषां तैः अनेकमणिप्रभैः । हिमेन पाण्डुभिः=हिमपाण्डुभिः । सुरचापेन सहितम्=ससुरचापम् । अपगतं पयः यस्मात् सः=अपपयाः । अपपयाः अत एव विशदश्च तम् = अपपयोविशदम् । ध्वनितेन सूचितम् = ध्वनितसूचितम् । अम्बूवनि मुञ्चन्तीत्यम्बुमुचस्तेषाम् = अम्बुमुचाम् ।
अर्थः—अनेकमणिप्रभैः = बहुमणिप्रभैः । हिमपाण्डुभिः = हिमपीतैः । शिखरैः = सानुभिः । ससुरचापम् = सेन्द्रचापम् । अपपयोविशदम् = निर्जलविशदम् । अविचलं = निश्चलम् । ध्वनितसूचितम् = गर्जितज्ञापितम् । अम्बुमुचाम् = मेघानाम् । चयम् = राशिम् । उपबिभ्रतम् = धारयन्तम् । अत्र सन्देहालङ्कारः ।
कोषः—‘प्रभादृग्विषिखस्त्वङ्भाभाश्छेविद्युतिदीप्तयः’ इत्यमरः ।
हिन्दी—हिमालय के शिखर अनेकों मणियों की कान्ति से युक्त तथा बर्फ के कारण शुभ्रवर्णवाले हैं । उस पर इन्द्रधनुषयुक्त, जल से रिक्त होने के कारण शुभ्रवर्णवाली मेघमालाएँ ढकी रहती हैं । वे मेघमालाएं गर्ज-गर्ज कर अपना परिचय देती हैं ॥ १२ ॥
विकचवारिरुहं दधतं सरः सकलहंसगणं शुचि मानसम् ।
शिवमगात्मजया च कृतेर्ष्याया सकलहं सगणं शुचिमानसस् ॥ १३ ॥
अन्वयः—विकचवारिरुहं सकलहंसगणं शुचि मानसं सरः ( दधतम् ) कृतेर्ष्या अगात्मजया सकलहं सगणं शुचिमानसं शिवं च दधतम् ।
विग्रहः—विकचानि वारिरुहाणि सन्ति यस्मिन् तत् = विकचवारिरुहम् ।
३ कि०
३४ | किरातार्जुनीयम्
कलहंसानां गणाः कलहंसगणास्तैः सहितम् = सकलहंसगणम् । कृता ईर्ष्या यया तया = कृतेर्ष्यया । अगस्य आत्मजा, तया = अगात्मजया । कलहेन सहितं = सकलहम् । गणैः सहितम् = सगणं । शुचि मानसं यस्य तम् = शुचिमानसम् ।
अर्थः— विकचवारिरुहम् = विकसितकमलम् । सकलहंसगणम् = कलहंस-युतम् । शुचि = पवित्रम् । मानसं सरः = मानसरोवरं सरः ( दधतम् ) कृतेर्ष्यया = विहितेर्ष्यया । अगात्मजया = पार्वत्या । सकलहं = सविवादम् । सगणम् = सप्रमथम् । शुचिमानसं = पूतमानसम् । शिवम् = शङ्करम् । च दधतम् = धारयन्तम् । अत्र यमकालङ्कारः ।
कोषः— 'कदम्बः कलहंसः स्यात्' इत्यमरः ।
हिन्दी— यह हिमालय पर्वत खिले हुए कमल तथा अनेक प्रकार के हंस-पक्षियों से युक्त मानसरोवर झील को धारण किये हुए हैं । ईर्ष्या-युक्त ( कुपित ) पार्वती जी व भूत-प्रेतादिकों के सहित विशुद्ध मनवाले शङ्कर जी यहाँ निवास करते हैं ॥ १३ ॥
ग्रहविमानगणानभितो दिवं ज्वलयतौषधिजेन कृशानुना ।
मुहुरनुस्मरयन्तमनुक्षपं त्रिपुरदाहमुमापतिसेविनः ॥ १४ ॥
अन्वयः— दिवम् अभितः ग्रहविमानगणान् ज्वलयता ओषधिजेन कृशानुना अनुक्षपम् उमापतिसेविनः त्रिपुरदाहम् मुहुः अनुस्मरयन्तम् ।
विग्रहः— ग्रहाः च विमानानि च ग्रहविमानानि, तेषां गणान्तान् = ग्रह-विमानगणान् । ओषधिभ्यः जातस्तेन = ओषधिजेन । क्षपा क्षपा = अनुक्षपम् । उमायाः पतिः = उमापतिः, तं सेवन्ते ये तान् = उमापतिसेविनः । त्रयाणां पुराणां समाहारस्त्रिपुरम्, तस्य दाहस्तम् = त्रिपुरदाहम् ।
अर्थः— दिवम् अभितः = दिवोऽभिमुखम् । ग्रहविमानगणान् = चन्द्रादि-देवयानान् । ज्वलयता = प्रदीपयता । ओषधिजेन = तृणविशेषजन्येन, कृशानुना = अग्निना । अनुक्षपम् = प्रतिक्षपम् । उमापतिसेविनः = प्रमथादीन् । त्रिपुरदाहम् = त्रिपुरज्वालनम् । मुहुः = वारंवारम्, अनुस्मरयन्तम् = स्मरयन्तम् । अत्र स्मरणालंकारः ।
कोषः— 'व्योमयानं विमानोऽस्त्री' इत्यमरः ।
हिन्दी— इस हिमालय पर चारो ओर चन्द्रादिग्रहों के विमानों का प्रकाश
पञ्चमः सर्गः ३९
तृणविशेष से उत्पन्न अग्नि से शिव के प्रमथादिगणों को त्रिपुरदाह का बारम्बार स्मरण कराता है। अर्थात् यहाँ वनौषधियों का भण्डार है ॥ १४ ॥
विततशीकरराशिभिरुच्छ्रितैरुपलरोधविवर्तिभिरम्बुभिः ।
दधतमुन्नतसानुसमुद्धतां धृतसितव्यजनामिव जाह्नवीम् ॥ १५ ॥
अन्वयः—विततशीकरराशिभिः उच्छ्रितैः उपलरोधविवर्तिभिः अम्बुभिः धृतसितव्यजनाम् इव उन्नतसानुसमुद्धतां जाह्नवीम् दधतम् ।
विग्रहः—विततैः शीकराणां राशिभिः = विततशीकरराशिभिः। उपलानां रोधः, उपलरोधः, तेन विवर्तिभिः = उपलरोधविवर्तिभिः । धृतम् सितं व्यजनं यया ताम् = धृतसितव्यजनाम् । उन्नताः सानवः = उन्नतसानवस्तेषु समुद्धता ताम् = उन्नतसानुसमुद्धताम् ।
अर्थः—विततशीकरराशिभिः = विस्तृतशीकरपुञ्जैः । उच्छ्रितैः = उत्पतितैः । उपलरोधविवर्तिभिः = प्रस्तररोधविवर्तिभिः । अम्बुभिः = जलैः । धृतसितव्यजनाम् = गृहीतशुभ्रचामराम् । इव । उन्नतसानुसमुद्धताम् = उच्चपर्वतश्रेणिभागे वहन्तीम् । जाह्नवीम् = जह्नुकन्यां गङ्गाम् । दधतम् = धारयन्तम् । अत्रोत्प्रेक्षालंकारः ।
कोषः—'प्रस्थः सानुरस्त्रियाम्' इत्यमरः ।
हिन्दी—इस हिमालय पर जाह्नवी गंगा बहती है। गङ्गा के प्रवाह में पत्थरों के पड़ जाने से जल टकरा कर विशाल जलकणों के द्वारा झरने फव्वारे के समान ऊर्ध्वगति से बहते लगते हैं। इस प्रकार हिमालय की ऊँची चोटियों पर बहती हुई गङ्गा शुभ्र चामर धारण किये हुए प्रतीत होती है ॥ १५ ॥
अनुचरेण धनाधिपतेरथो नगवलोकनविस्मितमानसः ।
स जगदे वचनं प्रियमादरान्मुखरताऽवसरे हि विराजते ॥ १६ ॥
अन्वयः—अथो धनाधिपतेः अनुचरेण नगवलोकनविस्मितमानसः सः आदरात् प्रियं वचनं जगदे । हि मुखरता अवसरे विराजते ।
विग्रहः—धनानामधिपतिस्तस्य = धनाधिपतेः । अनुचरतीत्यनुचरस्तेन अनुचरेण । नगस्य विलोकनं = नगवलोकनम्, तेन = नगवलोकनेन । विस्मितं मानसं यस्य सः = विस्मितमानसः ।
अर्थः—अथो = अनन्तरम् । धनाधिपतेः = कुबेरस्य । अनुचरेण = यक्षेण ।
३६ | किरातार्जुनीयम्
नगावलोकनेन = पर्वतदर्शनेन। विस्मितमानसः = चकितचेताः। सः = अर्जुनः। सादरात् = सम्मानात्, प्रियं = प्रियकरं, वचनं = वाक्यम्। जगदे = कथितः। हि = यतः। मुखरता = अपृष्टभाषित्त्वम्। अवसरे = उचितकाले। विराजते = शोभते। अत्रार्थान्तरन्यासालङ्कारः। कोषः—'मङ्गलानन्तरारम्भप्रश्नकात्स्न्येष्वथो अथ' इत्यमरः। **हिन्दी—**तदनन्तर कुबेर के सेवक 'यक्ष' ने पर्वत-शोभा देखने के कारण आश्चर्य-चकित-मन अर्जुन से सादर प्रिय वचनों में कहना आरम्भ किया। क्योंकि अवसर पर बिना पूछे कुछ कहना भी शोभा ही देता है॥ १६॥
अलमेष विलोकितः प्रजानां सहसा संहतिमंहसा विहन्तुम्। घनवर्त्म सहस्रधेव कुर्वन् हिमगौरैरचलाधिपः शिरोभिः॥ १७॥
**अन्वयः—**हिमगौरैः शिरोभिः घनवर्त्म सहस्रधा कुर्वन् इव एषः अचलाधिपः विलोकितः प्रजानाम् अंहसां संहतिम् सहसा विहन्तुम् अलम्।
**विग्रहः--**हिमेन गौराणि हिमगौराणि तैः = हिमगौरैः। घनानां वर्त्म = घनवर्त्म। अचलानाम् अधिपः = अचलाधिपः (हिमालयः)। विशिष्टतया लोकितः = विलोकितः।
**अर्थः—**हिमगौरैः = हिमशुभ्रैः। शिरोभिः = सानुभिः। घनवर्त्म = मेघमार्गम्। सहस्रधा = सहस्रसंख्यकं। कुर्वन् = विदधत्। इव = समः। एषः = निर्दिष्टः। अचलाधिपः = नगाधिराजः। विलोकितः = दृष्टः। प्रजानां = जनानाम्। अंहसाम् = पापानाम्। संहति = समूहम्। सहसा विहन्तुं = दूरीकर्तुम्। अलम् = समर्थः। अत्रोत्प्रेक्षालङ्कारः।
कोषः—'अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः' इत्यमरः।
**हिन्दी—**हिम-शुभ्र शिखरों से मेघमार्ग को सहस्रधा (हजारो खण्ड) करता हुआ यह हिमालय दर्शनमात्र से ही लोगों के समस्त पापों को सहसा दूर कर देता है॥ १७॥
इह दुरधिगमैः किञ्चिदेवागमैः सततमसुतरं वर्णयन्त्यन्तरम्। अमुमतिविपिनं वेद दिग्व्यापिनं पुरुषमिव परं पद्मयोनिः परम्॥ १८॥
**अन्वयः—**इह असुतरम् अन्तरम् दुरधिगमैः आगमैः किञ्चिद् एव सततं वर्णयन्ति अतिविपिनं दिग्व्यापिनम् अमुम् परं पुरुषम् इव परं पद्मयोनि वेद!
पञ्चमः सर्गः [३७]
विग्रहः— सुतरं न भवतीत्यसुतरम् । दुःखेन अभिगमः = दुरभिगमः । अत्यन्तं विपिनम् = अतिविपिनम् । पद्मं योनिः यस्य सः = पद्मयोनिः । दिक्षुव्यापिनम् = दिग्व्यापिनम् ।
अर्थः— इह = अस्मिन् पर्वते । असुतरम् = दुस्तरम् । अन्तरम् = मध्यम्, तत्त्वं वा । दुराधिगमैः = दुरारोहैः, दुर्ग्रहैर्वा । आगमैः = शास्त्रैः । किञ्चिद् एव सततं = निरन्तरम् । वर्णयन्ति = कथयन्ति । अतिविपिनम् = अतिगहनम् । दिग्व्यापिनम् = दिक्षु व्याप्तम् । अमुम् = पर्वतम् । परं पुरुषं = परमात्मानम् । इव । परम् = अव्ययम् । पद्मयोनिः = ब्रह्मा । वेद = जानाति । नान्य इति । अत्रोपमायमकयोः संसृष्टिः । क्षमावृत्तम् ।
कोषः— ‘दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः’ इत्यमरः ।
हिन्दी— इस हिमालय पर इसके आन्तरिक तत्त्व का दुर्गम्य पुराणादिकों द्वारा कुछ ही (सीमित) वर्णन किया जाता है । अतिगहन एवं दिशाओं में फैले हुए (व्याप्त) परम पुरुष (ब्रह्म) के समान इस पर्वत को ब्रह्मा जी ही जान सकते हैं, अन्य कोई नहीं ॥ १८ ॥
रुचिरपल्लवपुष्पलतागृहैरुपलसज्जलजैर्जलराशिभिः ।
नयति सन्ततमुत्सुकतामयं धृतिमतो रुपकान्तमपि स्त्रियः ॥ १९ ॥
अन्वयः— अयं रुचिरपल्लवपुष्पलतागृहैः उपलसज्जलजैः जलराशिभिः उपकान्तं धृतिमतीः अपि स्त्रियः सन्ततम् उत्सुकतां नयति ।
विग्रहः— रुचिराणि पल्लवानि पुष्पाणि लतागृहाणि च = रुचिरपल्लवपुष्पलतागृहाणि तैः । उपलसद्भिः जलजैः = उपलसज्जलजैः । जलानां राशयस्तैः जलराशिभिः । कान्तस्य समीपे = उपकान्तम् ।
अर्थः— अयम् = हिमालयः । रुचिरपल्लवपुष्पलतागृहैः = मनोज्ञदलकुसुमलताभवनैः । उपलसज्जलजैः = शोभितकमलैः । जलराशिभिः = सरोवरादिभिः । उपकान्तं = प्रियपार्श्वे । धृतिमतोः = धैर्यवतीः । अपि । स्त्रियः = नारीः । सततं = निरन्तरम् । उत्सुकताम् = औत्सुक्यम् । नयति = प्रापयति । अत्रातिशयोक्तिरलङ्कारः । द्रुतविलम्बितवृत्तम् ।
कोशः— ‘पल्लवोऽस्त्री किसलयम्’ इत्यमरः ।
हिन्दी— रुचिर पल्लवों, पुष्पों एवं लतागृहों से तथा कमल से सुशोभित
| ३८ | किरातार्जुनीयम् |
|---|
तड़ागों द्वारा यह हिमालय पर्वत, प्रियतम के पास मानिनी स्त्रियों को भी सदैव उत्सुक बना देता है अर्थात् यथा मानिनी स्त्रियाँ भी अपने प्रियतम के पास पहुँचने पर मान को खोकर प्रिय-मिलन के लिये उत्कण्ठित हो जाती हैं तथैव विरक्त पुरुष भी हिमालय के सौन्दर्य को देख कर अनुरक्त हो जाता है ॥ १९ ॥
सुलभैः सदा नयवताऽयवता निधिगुह्यकाधिपरमैः परमैः ।
अमुना धनैः क्षितिभृतातिभृता समतीत्य भाति जगती जगती ॥२०॥
अन्वयः—नयवता अयवता सदा सुलभैः निधिगुह्यकाधिपरमैः परमैः धनैः अमुना क्षितिभृता अतिभृता जगती जगती समतीत्य भाति ।
विग्रहः—निधिनां गुह्यकानां च अधिपः=निधिगुह्यकाधिपः, तं रमयन्तीति तैः=निधिगुह्यकाधिपरमैः ।
अर्थः—नयवता=नीतिमन्ता । अयवता=भाग्यवता । सदा=सर्वदा । सुलभैः=सुप्राप्यैः । निधिगुह्यकाधिपरमैः=नवनिधि-कुवेररमैः । परमैः=महद्भिः । धनैः=वित्तैः । अमुना=अनेन । क्षितिभृता=हिमालयपर्वतेन । अतिभृता=पूर्णा सती । जगती=पृथ्वी । जगती=स्वर्गपाताललोको । समतीत्य=अतिक्रम्य । भाति=शोभते । अत्र काव्यलिङ्गस्य यमकेन संसृष्टिः । प्रमिताक्षरावृत्तम् ।
कोषः—'अयः शुभावहो विधिः' इत्यमरः । 'अस्त्री पद्मो महापद्मः शंखो मकरकच्छपौ । मुकुन्दकुन्दनीलाश्च खर्व्वश्च निधयो नव' इत्यमरः ।
हिन्दी—नीतिमान् व भाग्यवान् पुरुषों से सदैव सुलभ, नवनिधियों और यक्षाधिप कुबेर के सर्वोत्तम धनों से पूर्ण इस हिमालय के द्वारा पृथ्वी, स्वर्ग तथा पाताल लोकों को भी जीत कर शोभित हो रही है ॥ २० ॥
अखिलमिदममुष्य गौरीगुरोस्त्रिभुवनमपि नैति मन्ये तुलाम् ।
अधिवसति सदा यदेनं जनैरविदितविभवो भवानीपतिः ॥ २१ ॥
अन्वयः—अमुष्य गौरिगुरोः इदम् अखिलं त्रिभुवनम् अपि तुलां न एति मन्ये । यद् एनं जनैः अविदितविभवः भवानीपतिः सदा अधिवसति ॥ २१ ॥
विग्रहः—गौर्याः गुरुः=गौरीगुरुः, तस्य=गौरीगुरोः । त्रयाणां भुवनानां
पञ्चमः सर्गः ३९
समाहार इति त्रिभुवनम्। अविदितो विभवो यस्य सः=अविदितविभवः। भवान्याः पतिः=भवानीपतिः।
**अर्थः—**अमुष्य=अस्य। गौरीगुरोः=गौरीपितुर्हिमालयस्य। इदम्=निदिष्टम्। अखिलं=निखिलं। त्रिभुवनम्=स्वर्गभूपातालत्रिलोकम्। अपि। तुलां=समतां। न एति=न गच्छति। इति मन्ये। यद्=यतः। एनम्=हिमवन्तम्। जनैः=लोकैः। अविदितविभवः=अज्ञातविभवः। भवानीपतिः=शिवः। सदा=सर्वदा। अधिवसति=निवसति। अत्र प्रभावृत्तम्॥ २१॥
कोषः—'उमा कात्यायनी गौरी काली हैमवतीश्वरी' इत्यमरः।
**हिन्दी—**इस गौरीगुरु (पार्वती जी के पिता) हिमालय की तुलना में यह सम्पूर्ण त्रिभुवन भी नही टिक सकता है क्योंकि इसपर भवानीपति शङ्कर जी का निवास है जिनकी महिमा लोग नहीं जान पाते हैं॥ २१॥
वीतजन्मजरसं परं शुचि ब्रह्मणः पदमुपेतुमिच्छताम्।
आगमादिव तमोपहादितः सम्भवन्ति मतयो भवच्छिदः॥ २२॥
**अन्वयः—**वीतजन्मजरसं ब्रह्मणः परं शुचि पदम् उप एतुम् इच्छताम् आगमाद् इव तमोपहात् इतः भवच्छिदः मतयः सम्भवन्ति।
**विग्रहः—**वीते जन्मजरसौ यस्य तत्=वीतजन्मजरसम्। तमः अपहन्तीति तमोपहस्तस्मात्=तमोपहात्। भवं छिन्दन्तीति भवच्छिदः।
**अर्थः—**वीतजन्मजरसम् = निवृत्तजन्मजरसम्। ब्रह्मणः = परमात्मनः। परम्=उत्कृष्टम्। शुचि=पवित्रम्। पदम्=स्थानम्। उपैतुम्=प्राप्तुम्। इच्छताम्=अभिलषताम्। आगमात्=शास्त्राद् इव। तमोपहात्=अज्ञाननिवर्त्तकात्। इतः=हिमाद्रेः। भवच्छिदः=संसारनिवर्तिकाः। मतयः=बुद्धयः। संभवन्ति = जायन्ते। अत्र रथोद्धतावृत्तम्।
कोषः—'ब्रह्मात्मभूः सुरज्येष्ठः परमेष्ठी पितामहः' इत्यमरः।
**हिन्दी—**जन्म तथा जरा (बुढ़ापा) से रहित ब्रह्म के परम पवित्र पद को प्राप्त करने (मोक्ष) की अभिलाषावाले पुरुषों के लिये अज्ञाननिवृत्ति करने वाले शास्त्र के समान इस हिमालय पर्वत से ही भवबन्धन से मुक्त होने वाली बुद्धियां उत्पन्न होती हैं अर्थात् मुमुक्षुओं को तत्त्वज्ञान की प्राप्ति इस हिमालय से ही होती है॥ २२॥
४० किरातार्जुनीयम्
दिव्यस्त्रीणां सचरणलाक्षारागा रागापाते निपतितपुष्पापीडाः ।
पीडाभाजः कुसुमचिताः साशंसं शंसन्त्यस्मिन्सुरतविशेषं शय्याः ॥२३॥
अन्वयः—अस्मिन् सचरणलाक्षारागाः निपतितपुष्पापीडाः पीडाभाजः कुसुमचिताः दिव्यस्त्रीणां शय्याः रागापाते साशंसं सुरतविशेषं शंसन्ति।
विग्रहः—चरणलाक्षारागैः सः वर्त्तन्त इति ताः सचरणलाक्षारागाः। निपतिताः पुष्पापीडाः यासु ताः = निपतितपुष्पापीडाः। पीडां भजन्तीति ताः पीडाभाजः। कुसुमैश्चिताः = कुसुमचिताः। आशंसेन सहितं = साशंसम्। दिव्याः स्त्रियः = दिव्यस्त्रियस्तासां = दिव्यस्त्रीणाम्।
अर्थः—अस्मिन् = अत्र हिमालये। सचरणलाक्षारागाः = सपदलाक्षारसाः। निपतितपुष्पापीडाः = भ्रष्टकुसुमशेखराः। पीडाभाजः = विमर्दभाजः, कुसुमचिता = पुष्पव्याप्ताः। दिव्यस्त्रीणाम् = देवाङ्गनानाम्। शय्याः = तल्पानि। रागापाते = रागोद्रेके सति। साशंसम् = सतृष्णम्। सुरतविशेषम् = सुरतवैशिष्ट्यम्। शंसन्ति = सूचयन्ति। अत्र संसृष्टिरलङ्कारः, जलधरमालावृत्तञ्च।
कोषः—'शिखास्वापीडशेखरो' इत्यमरः।
हिन्दी—इस हिमालय पर चरणों में लगाये हुए महावर से रञ्जित मुरझाये हुए फूलोंवाली, विमर्दित तथा फूलों से व्याप्त (युक्त) देवाङ्गनाओं की शय्याएं (तल्प) रागोद्रेक होने पर ललचाती हुई रति के विशिष्ट आनन्द को सूचित करती हैं॥२३॥
गुणसम्पदा समधिगम्य परं महिमानमत्र महिते जगताम् ।
नयशालिनि श्रिय इवाधिपतौ विरमन्ति न ज्वलितुमोषधयः ॥२४॥
अन्वयः—जगतां महिते अत्र ओषधयः नयशालिनि अधिपतौ श्रिय इव गुणसम्पदा परं महिमानं समधिगम्य ज्वलितुं न विरमन्ति।
विग्रहः—नयः शीलम् अस्येति तस्मिन् = नयशालिनि। गुणानां सम्पद, तया = गुणसम्पदा।
अर्थः—जगतां महिते = जगद्भिः पूजिते। अत्र = अस्मिन् हिमालये। ओषधयः = तृणज्योतींषि। नयशालिनि = नीतिसम्पन्ने। अधिपतौ = राज्ञि। श्रियः = सम्पदः। इव = सदृशम्। गुणसम्पदा = क्षेत्रगुणसम्पत्त्या। परं महिमानम् = प्रकाशसामर्थ्यम्। समधिगम्य = प्राप्य। ज्वलितुम् = प्रकाशितुम्। न विरमन्ति = न विरामं कुर्वन्ति। अविरामं ज्वलन्तीत्यर्थः।
पञ्चमः सर्गः ४१
पञ्चमः सर्गः ४१
कोशः—'ओषध्यः फलपाकान्ताः स्युः' इत्यमरः ।
**हिन्दी—**लोकपूज्य इस हिमालय पर्वत पर ओषधियां क्षेत्र-सम्पत्ति से सदैव परम शक्ति प्राप्त करके उसी प्रकार प्रकाशित होती रहती हैं यथा नीति-सम्पन्न राजा में सम्पदाएँ सन्ध्यावन्दन-पूजन-तर्पणादि गुणों से विकसित होती हैं ॥ २४ ॥
कुररीगणः कृतरवस्तरवः कुसुमानताः सकमलं कमलम् ।
इह सिन्धवश्च वरणावरणाः करिणां मुदे सनलदानलदाः ॥ २५ ॥
**अन्वयः—**इह कुररीगणः कृतरवः, तरवः कुसुमानताः, कमलं, सकमलम्, वरणावरणाः सनलदानलदाः सिन्धवश्च करिणां मुदे ।
**विग्रह।—**कुररीणां गणः = कुररीगणः । कुसुमैः आनताः = कुसुमानताः । कमलैः सहितम् = सकमलम् । वरणा आवरणं यासां ताः = वरणावरणाः । अनलं द्यन्तीति = अनलदाः, सनलदाश्च ताः अनलदाः = सबलदानलदाः ।
**अर्थः—**इह = अस्मिन् हिमालये । कुररीगणः = कुररीपक्षिसमूहः कृतरवः = विहितकूजितः । तरवः = द्रुमाः । कुसुमानताः = पुष्पावनताः । कमलं = जलम् । सकमलम् = सजलजम् । वरणावरणाः = वरुणवृक्षावरणाः । सनलदानलदाः = सोशीरसन्तापच्छिदः । सिन्धवः = नद्यः । करिणां = गजानाम् । मुदे = हर्षाय । भवन्तीति शेषः ।
कोषः—'कमलं जलपद्मयोः' इति विश्वः । 'वरणो वरुणः सेतुः तिक्तशाकः कुमारकः' इत्यमरः ।
**हिन्दी—**इस हिमालय पर पक्षिगण कलरव करते रहते हैं, वृक्ष पुष्पभार से झुके रहते हैं और जल अथवा जलाशय कमलों से आच्छन्न रहते हैं। यहाँ वृक्षों से घिरी हुई, उशीर-युक्त तथा सन्ताप मिटा कर शान्ति देनेवाली सरिताएँ हाथियों को प्रसन्न बनाती हैं अर्थात् इन नदियों में हाथी जल-क्रीडाएँ करते हैं ॥ २५ ॥
सादृश्यं गतमपनिद्रचूतगन्धेरामोदं मदजलसेकजं दधानः ।
एतस्मिन् मदयति कोकिलानकाले लीनालिः सुरकरिणां कपोलकाषः ॥
**अन्वयः—**एतस्मिन् अपनिद्रचूतगन्धैः सादृश्यं गतं मदजलसेकजम् आमोदं दधानः लीनालिः सुरकरिणां कपोलकाषः अकाले कोकिलान् मदयति ।
**विग्रहः—**अपनिद्राणां चूतानां गन्धास्तैः = अपनिद्रचूतगन्धैः । मदजलस्य
| ४२ | किरातार्जुनीयम् |
|---|
सेचनं = मदजलसेचनं, तस्माज्जातं = मदजलसेकजम् । लीनाः अलयः यस्मिन् स = लीनालिः । सुराणां करिणस्तेषाम् = सुरकरिणाम् । कष्यते अनेन इति काषः । कपोलानां काषः = कपोलकाषः ।
अर्थः--एतस्मिन् = अस्मिन् हिमालये । अपनिद्रचूतगन्धैः = फुल्लाग्रपुष्पगन्धैः । सादृश्यम् = साम्यम् । गतं = प्राप्तम् । मदजलसेकजम् = मदजलसेचनजातम् । आमोदं = परिमलं । दधानः = बिभ्राणः । लीनालिः = संसक्तभृङ्गः । सुरकरिणां = देवनागागानाम् । कपोलकाषः = कपोलकषणस्थानं, द्रुमस्कन्धादिः । अकाले = वसन्तातिरिक्ते कालेऽपि । कोकिलान् = पिकान् । मदयति = मत्ततां नयति । अत्र विभावनालङ्कारः ।
कोषः--'आम्रश्चूतो रसालोऽसौ सहकार' इत्यमरः ।
हिन्दी—इस हिमालय पर फूली हुई आम्रमञ्जरियों की गन्ध के सदृश मदजल बहने से उत्पन्न सुरभित पवनयुक्त, भौरों से व्याप्त तथा सुरगजों के कपोलों से घषित वृक्षादि स्थान वसन्त काल न होने पर भी कोयलों को मतवाली बना देते हैं। अर्थात् उपर्युक्त सुगन्ध से प्रभावित होकर अकाल में ही कोयलें कूकने लगती हैं ॥ २६ ॥
सनाक्ववनितं नितम्बरुचिरं चिरं सुनिनदंनदैर्वृतममुम् ।
मता फणवतोऽवतो रसपरापरास्तवसुधा सुधाऽधिवसति ॥ २७ ॥
अन्वयः—सनाक्ववनितं नितम्बरुचिरं सुनिनदैः नदैः वृतम् अमुम् अवतः फणवतः मता रसपरापरास्तवसुधा सुधा चिरम् अधिवसति ।
विग्रहः—नाकस्य वनिताः = नाकवनिताः । नाकवनिताभिः सहितस्तं = सनाक्ववनितम् । नितम्बैः रुचिरम् = नितम्बरुचिरम् । सुन्दरैः निनदैः = सुनिनदैः । रसेन परा परास्ता वसुधा = रसपरापरास्तवसुधा ।
अर्थः—सनाक्ववनितं = साप्सरस्कम् । नितम्बरुचिरं = कतकरुचिरम् । सुनिनदैः = सुघोषैः । नदैः = सरिद्भिः । वृतम् = युक्तम् । अमुम् = इमं हिमालयम् । अवतः = अधोलोकरक्षकस्य । फणवतः = नागराजस्य वासुकेः । मता = इष्टा । रसपरा = स्वादोत्कृष्टा । परास्तवसुधा = त्यक्तभूलोका । सुधा = अमृतम् । चिरम् अधिवसति = वसति । अत्र समासोक्तिरलङ्कारः, जलोद्धतगतिर्वृत्तञ्च ।
कोषः—'विहायसोऽपि नाकोऽपि द्युरपि स्यात्तदव्ययम्' । इत्यमरः ।
पञ्चमः सर्गः [४३]
हिन्दी— इस हिमालय पर अप्सराओं का निवास है, इसका मध्य भाग नितम्ब के समान रुचिर है, यहाँ कल-कल निनादिनी नदियाँ बहती हैं। पाताल लोक के रक्षक नागराज वासुकी की प्रिय, समस्त स्वादों को फीका बनानेवाली भूलोक को त्याग की हुई सुधा भी यहीं प्राप्त होती है, अन्यत्र नहीं ॥ २७ ॥
श्रीमल्लताभवनमोषधयः प्रदीपाः
शय्या नवानि हरिचन्दनपल्लवानि ।
अस्मिन् रतिश्रमनुदश्च सरोजवाताः
स्मर्तुं दिशन्ति न दिवः सुरसुन्दरीभ्यः ॥ २८ ॥
अन्वयः— अस्मिन् श्रीमल्लताभवनम् ओषधयः प्रदीपाः नवानि हरिचन्दन-पल्लवानि शय्याः रतिश्रमनुदः सरोजवाताः च सुरसुन्दरीभ्यः दिवः स्मर्तुं न दिशन्ति।
विग्रहः— श्रीमल्लता एव भवनम् = श्रीमल्लताभवनम्। हरिचन्दनानां पल्लवानि = हरिचन्दनपल्लवानि। रतिजातः श्रमः = रतिश्रमः = तं नुदन्तीति रतिश्रमनुदः। सरोजानां वाताः = सरोजवाताः। सुराणां सुन्दर्यस्ताभ्यः = सुरसुन्दरीभ्यः।
अर्थः— अस्मिन् = हिमाद्रौ। श्रीमल्लताभवनम् = समृद्धिमल्लतागृहम्। ओषधयः = तृणज्योतींषि एव। प्रदीपाः = दीपाः। नवानि = नूतनानि। हरिचन्दनपल्लवानि = चन्दनदलानि। एव शय्याः = तल्पानि। रतिश्रमनुदः = सुरतश्रमच्छेदकाः। सरोजवाताः = कमलगंधपवनाः च। सुरसुन्दरीभ्यः = देवाङ्गनाभ्यः। दिवः = स्वर्गम्। स्मर्त्तुम् = स्मरणं कर्त्तुम्। न दिशन्ति। अर्थात् न विस्मारयन्ति।
कोषः— 'हरिचन्दनमाख्यातं गोशीर्षे सुरपादपे' इति विश्वः।
हिन्दी— इस हिमालय पर सुन्दर लताकुंज ही भवन हैं, ओषधियाँ ही दीपक हैं, चन्दन वृक्ष के नूतन पल्लव ही शय्याएँ हैं, रतिश्रम को दूर करनेवाला कमलगन्धयुक्त वायु प्रवाहित होता रहता है। इस प्रकार सौन्दर्य युक्त हिमालय सुराङ्गनाओं को स्वर्ग तक भुला देता है ॥ २८ ॥
ईशार्थमम्भसि चिराय तपश्चरन्त्या यादोविलंघनविलोलविलोचनायाः ।
आलम्बनाग्रकरमत्र भवो भवान्याः श्च्योतन्निदाघसलिलाङ्गुलिना करेण ॥
४२ किरातार्जुनीयम्
सेचनं = मदजलसेचनं, तस्माज्जातं = मदजलसेकजम् । लीनाः अलयः यस्मिन् स = लीनालिः । सुराणां करिणस्तेषाम् = सुरकरिणाम् । कष्यते अनेन इति काषः । कपोलालां काषः = कपोलकाषः ।
अर्थः-- एतस्मिन् = अस्मिन् हिमालये । अपनिद्रचूतगन्धैः = फुल्लाम्रपुष्प-गन्धैः । सादृश्यम् = साम्यम् । गतं = प्राप्तम् । मदजलसेकजम् = मदजलसेचनजातम् । आमोदं = परिमलं । दधानः = बिभ्राणः । लीनालिः = संसक्तभृङ्गः । सुरकरिणां = देवनागानाम् । कपोलकाषः = कपोलकषणस्थानं, द्रुमस्कन्धादिः । अकाले = वसन्तातिरिक्ते कालेऽपि । कोकिलान् = पिकान् । मदयति = मत्ततां नयति । अत्र विभावनालङ्कारः ।
कोषः--- ‘आम्रश्चूतो रसालोऽसौ सहकार’ इत्यमरः ।
हिन्दी— इस हिमालय पर फूली हुई आम्रमञ्जरियों की गन्ध के सदृश मदजल बहने से उत्पन्न सुरभित पवनयुक्त, भौरों से व्याप्त तथा सुरगजों के कपोलों से घर्षित वृक्षादि स्थान वसन्त काल न होने पर भी कोयलों को मतवाली बना देते हैं। अर्थात् उपर्युक्त सुगन्ध से प्रभावित होकर अकाल में ही कोयलें कूकने लगती हैं ॥ २६ ॥
सनाकवनितं नितम्बरुचिरं चिरं सुनिनदैर्नदैर्वृतममुम् ।
मता फणवतोऽवतो रसपरापरास्तवसुधा सुधाधिवसति ॥ २७ ॥
अन्वयः— सनाकवनितं नितम्बरुचिरं सुनिनदैः नदैः वृतम् अमुम् अवतः फणवतः मता रसपरापरास्तवसुधा सुधा चिरम् अधिवसति ।
विग्रहः— नाकस्य वनिताः = नाकवनिताः । नाकवनिताभिः सहितस्तं = सनाकवनितम् । नितम्बैः रुचिरम् = नितम्बरुचिरम् । सुन्दरैः निनदैः = सुनिनदैः । रसेन परा परास्ता वसुधा = रसपरापरास्तवसुधा ।
अर्थः— सनाकवनितं = साप्सरस्कम् । नितम्बरुचिरं = कटकरुचिरम् । सुनिनदैः = सुघोषैः । नदैः = सरिद्भिः । वृतम् = युक्तम् । अमुम् = इमं हिमालयम् । अवतः = अधोलोकरक्षकस्य । फणवतः = नागराजस्य वासुकेः । मता = इष्टा । रसपरा = स्वादोत्कृष्टा । परास्तवसुधा = त्यक्तभूलोका । सुधा = अमृतम् । चिरम् अधिवसति = वसति । अत्र समासोक्तिरलङ्कारः, जलोद्धतगतिर्वृत्तञ्च ।
कोषः— ‘विहायसोऽपि नाकोऽपि द्यौरपि स्यात्तदव्ययम्’ । इत्यमरः ।
पञ्चमः सर्गः । ४३
हिन्दी— इस हिमालय पर अप्सराओं का निवास है, इसका मध्य भाग नितम्ब के समान रुचिर है, यहाँ कल-कल निनादिनी नदियाँ बहती हैं। पाताल लोक के रक्षक नागराज वासुकी को प्रिय, समस्त स्वादों को फीका बनानेवाली भूलोक को त्याग की हुई सुधा भी यहीं प्राप्त होती है, अन्यत्र नहीं ॥ २७ ॥
श्रीमल्लताभवनमोषधयः प्रदीपाः
शय्या नवानि हरिचन्दनपल्लवानि ।
अस्मिन्नरतिश्रमनुदश्च सरोजवाताः
स्मर्तुं दिशन्ति न दिवः सुरसुन्दरीभ्यः ॥ २८ ॥
अन्वयः— अस्मिन् श्रीमल्लताभवनम् ओषधयः प्रदीपाः नवानि हरिचन्दनपल्लवानि शय्याः रतिश्रमनुदः सरोजवाताः च सुरसुन्दरीभ्यः दिवः स्मर्तुं न दिशन्ति ।
विग्रहः— श्रीमल्लता एव भवनम् = श्रीमल्लताभवनम् । हरिचन्दनानां पल्लवानि = हरिचन्दनपल्लवानि । रतिजातः श्रमः = रतिश्रमः = तं नुदन्तीति रतिश्रमनुदः । सरोजानां वाताः = सरोजवाताः । सुराणां सुन्दर्यस्ताभ्यः = सुरसुन्दरीभ्यः ।
अर्थः— अस्मिन् = हिमाद्रौ । श्रीमल्लताभवनम् = समृद्धिमल्लतागृहम् । ओषधयः = तृणज्योतींषि एव । प्रदीपाः = दीपाः । नवानि = नूतनानि । हरिचन्दनपल्लवानि = चन्दनदलानि । एव शय्याः = तल्पानि । रतिश्रमनुदः = सुरतश्रमच्छेदकाः । सरोजवाताः = कमलगन्धपवनाः च । सुरसुन्दरीभ्यः = देवाङ्गनाभ्यः । दिवः = स्वर्गम् । स्मर्त्तुम् = स्मरणं कर्त्तुम् । न दिशन्ति । अर्थात् न विस्मारयन्ति ।
कोषः— 'हरिचन्दनमाख्यातं गोशीर्षे सुरपादपे' इति विश्वः ।
हिन्दी— इस हिमालय पर सुन्दर लताकुंज ही भवन हैं, ओषधियाँ ही दीपक हैं, चन्दन वृक्ष के नूतन पल्लव ही शय्याएं हैं, रतिश्रम को दूर करनेवाला कमलगन्धयुक्त वायु प्रवाहित होता रहता है। इस प्रकार सौन्दर्य युक्त हिमालय सुराङ्गनाओं को स्वर्ग तक भुला देता है ॥ २८ ॥
ईशार्थमम्भसि चिराय तपश्चरन्त्या यादोविलंघनविलोलोचनायाः ।
आलम्बनाग्रकरमत्र भवो भवान्याः श्च्योतन्निदाघसलिलाञ्जलिना करेण ॥