किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
| १७६ | किरातार्जुनीयम् |
|---|
मल्लि०— भ्रूविलासेति ॥ भ्रूविलासैः सुभगान् सुन्दरान् । वधूनयनानां विभ्रमाननुकर्तुं तैरात्मानं समीकर्तुमिवेति फलोत्प्रेक्षार्थत्वात् । मृदुविलोल्पलाशै- रीषच्चञ्चलदलैः । उत्पलैः । चषकेषु या वीचयो मधूर्मयस्तासु यः कम्पः आददे स्वीकृतः । न तु स्वकम्पस्तस्य विलोलविशेषणेनैवोक्तत्वान्नत्स्वीकारश्च तद्योग एव । पूर्वं नेत्रमात्रसाम्यभाजामुत्पलानां कम्पमानवीचियोगात्तद्भूविलासनेत्रसाम्यं जात- मित्यर्थः ।
हिन्दी — भ्रूविलासोंसे सुन्दर, मानों अप्सराओंके नेत्रोंके विलासोंका अनुकरण करनेके लिए कोमल और चञ्चल पत्तेवाले कमलोंसे पानपात्रोंमें मदिराकी तरङ्गोंसे कम्प स्वीकृत हुआ ॥ ५६ ॥
ओष्ठपल्लवविदंशरुचीनां हृद्यतामुपययौ रमणानाम् ।
फुल्ललोचनवनीलसरोजैरङ्गनास्यचषकैर्मधुवारः ॥ ५७ ॥
मल्लि०—ओष्ठेति । ओष्ठ एव पल्लवस्तस्य विदंशे दशने रुचिरभिलाषो येषां तेषाम् । मुखसुरापानमिषेणाधरं पिपासतामित्यर्थः । रमणानां फुल्लानि लोचनान्येव विनीलसरोजानि येषु तैः अङ्गनास्यचषकैः मधुवारो मधुपानवृत्तिर्हृद्यतां हृदयप्रियतामुपययौ । ‘हृदयस्य प्रिय’ इति यत्प्रत्ययः । ‘हृल्लेखयदण्णखेषु-’ इति हृद्भावः । रमणविशेषणार्थहेतुककाव्यलिङ्गसङ्कीर्णरूपकालङ्कारः ।
हिन्दी—पल्लवरूप ओष्ठको क्षत करनेके लिए अभिलाष करनेवाले प्रियतमों- के विकसित नेत्ररूप नीलकमलोंसे युक्त सुन्दरियोंके मुखरूप चषकों (पानपात्रों) से मदिरापानका व्यापार चित्तका प्रिय हो गया ॥ ५७ ॥
प्राप्यते गुणवतापि गुणानां व्यक्तमाश्रयवशेन विशेषः ।
तत्तथा हि दयिताननदत्तं व्यानशे मधु रसातिशयेन ॥ ५८ ॥
मल्लि०—प्राप्यत इति । गुणवताप्याश्रयवशेन गुणानां विशेषः प्रकर्षः प्राप्यते व्यक्तम् । तत्तथा । यदुक्तं तत्तथैवेत्यर्थः । हि यस्मात् दयितानामाननेन करणेन दत्तं मधु रसातिशयेन स्वादुप्रकर्षेण कर्त्रा व्यानशे व्याप्तम् । विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः ।
हिन्दी—गुणोंसे सम्पन्न भी आश्रयके कारण गुणोंका उत्कर्ष प्राप्त करता है यह स्पष्ट है । क्योंकि प्रियतमाके मुखसे दी गई मदिरा आस्वादके उत्कर्षसे व्याप्त हो जाती है ॥ ५८ ॥
नवमः सर्गः १७७
नवमः सर्गः १७७
वीक्ष्य रत्नचषकेष्वतिरिक्तां कान्तदन्तपदमण्डनलक्ष्मीम् । जज्ञिरे बहुमता प्रमदानामोष्ठयावकनुदो मधुवाराः ॥ ५९ ॥
मल्लि० -- वीक्ष्येति ॥ रत्नचषकेषु स्फटिकादिमणिपात्रेषु । अतिरिक्तां याव- कापगमात्पूर्वाम्यधिकां कान्तस्य यत् दन्तपदमण्डनं तस्य लक्ष्मी शोभां । प्रति- बिम्बतामिति शेषः । वीक्ष्य । ओष्ठयावकनुदोऽधरलाक्षारागहारिणो मधुवारा मधुपानाभ्यासाः प्रमदानां बहुमता अभिमताः । वर्तमाने क्तः । तद्योगत्षष्ठी । जज्ञिरे जाताः । तेषां प्रियानुरागचिह्नप्रकाशकत्वादिति भावः ॥ ५९ ॥
हिन्दी—स्फटिक आदि रत्नोंके पात्रों (प्यालों) में लालीके छूटनेसे पहलेसे भी अधिक, प्रियके दन्तक्षतरूप अलंकारकी शोभाको देखकर ओष्ठकी लालीको मिटानेवाला मदिरापानका अभ्यास सुन्दरियोंको अभीष्ट हुआ ।
लोचनाधरकृताहृतरागा वासिताननविशेषितगन्धा । वारुणी परगुणात्मगुणानां व्यत्ययं विनिमयं नु वितेने ॥ ६० ॥
मल्लि० -- लोचनेति ॥ लोचने चाधरञ्च लोचनाधरम् । 'समुद्राभ्राद्वः—' इति व्यभिचारज्ञापकान्नात्राधरशब्दस्य पूर्वनिपातः । कृतश्चासावाहृतश्चेति विशेषण- समासः । लोचनाधरस्य कृताहृतो रागो यया सा तथोक्तां । लोचनयोः कृतरागाऽ- धरादासम्मन्तादहृतरागा चेत्यर्थः । षष्ठ्याश्चार्थसंबन्धात्सामान्यस्य योगविशेषे पर्यवसाननियमेनाधिकरणोपादानार्थयोराक्षेपात् । तथा चाधरालोचनगुणयो रागत- द्विरहयोः स्थानपरिवृत्तिं कृतवतीत्यर्थः । तथा वासितेन स्वगन्धसंक्रान्तिसुरभितेन आननेन विशेषितोऽतिशयितो गन्धो यस्याः सा । यद्वा—वासितानना चासवार्या- दानेनैव विशेषितगन्धा चेति कृतबहुव्रीहिविशेषणसमासः । उभयथाप्याननसंक्रान्ता- स्वगन्धा स्वसंक्रान्ताननगन्धा चेत्यर्थः । एवंभूता वारुणी मदिरा परगुणात्मगुणानां परयोर्लोचनाधरयोर्गुणौ च परस्याननस्य गुण आत्मनो वारुण्या गुणश्च परगुणात्म- गुणानां व्यत्ययं विनिमयं नु वितेने विस्तारयामास । चित्तेन प्रामादिकी वस्तुपरि- वृत्तिर्व्यत्ययः । बुद्धिपूर्वा तु विनिमयः । अत्र तन्त्रोच्चरितस्य 'परगुण' शब्दस्या- वृत्त्या परगुणौ च परगुणात्मगुणौ चेति विग्रहः कथंचिद्गत्या सोढव्यः । उपमान- पूर्वपदबहुव्रीहिवत् । तथा चायमर्थः---परगुणयोरधरलोचनगुणयो रागतद्विरहयो- र्व्यत्ययं नु विनिमयं नु वितेने, तथा परगुणात्मगुणयोराननगन्धारमगन्धयोश्च व्यत्ययं नु वितेने । अन्यथा कथमन्यस्मिन्नन्यधर्मोपलम्भः संभवतीति भावः । अत्र
१७८ | किरातार्जुनीयम्
लोचनाधरराजयोस्तदभावयोर्वा भेदेऽप्यभेदाध्यवसायादेकत्ववाचोयुक्तिः । तस्मान्मूलातिशयोक्त्यनुप्राणिता चेयं व्यत्ययविनिमययोरन्यतरकरणादुत्प्रेक्षेति संक्षेपः। सा च प्रतीयमाना व्यञ्जकाप्रयोगात् । 'नु' शब्दस्तु संशये ॥ ६० ॥
हिन्दी—नेत्रोंमें राग (लोहित्य) करनेवाली और अधरकी लालिमाको मिटानेवाली, अपने गन्धको संक्रान्तिसे सुरभित मुखसे विशेष गन्धवाली मदिराने दूसरे (नेत्रों और अधरों) के और अपने गुणोंका व्यत्यय (उलटफेर) वा विनिमय (अदल बदल) कर डाला अर्थात् नेत्रों और अधरोंका राग (लालिमा) मिटा दिया वा मुखकी सुगन्धिसे स्वयम् सुगन्धित हो गई ।
तुल्यरूपमसितोत्पलमकष्णोः कर्णगं निरुपकारि विदित्वा ।
योषितः सुहृदिव प्रविभेजे लम्भितेक्षणरुचिर्मदरागः ॥ ६१ ॥
मल्लि०—तुल्येति । अक्षणोस्तुल्यरूपमक्षितुल्याकृति योषितः कर्णगं कर्णावतंसीकृतम् । असितोत्पलं निरुपकारि अनुपकारकं विदित्वा ज्ञात्वा । तत्कार्यशोभायाः कर्णान्तविश्रान्तेनाक्षणैव कृतत्वादिति भावः । मदरागः सुहृदिव उत्पलस्य बन्धुरिव । अनिष्टवारकत्वादिति भावः । लम्भितेक्षणरुचिराहितनयनकान्तिः सन् । प्रविभेजे वर्णान्तरापादनेन प्रविभक्तवान् । अवैलक्ष्ण्यकरादक्ष्णो व्यावर्तयामास । ततो विच्छित्तिकरत्वादिति भावः ॥ ६१ ॥
हिन्दी—अप्सराओंकी आँखोंके समान रूपवाले कानका भूषण बनाये गये नीलकमलको उपकार न करनेवाला समझकर मदरागने कमलके मित्रके समान होकर नेत्रोंमें कान्ति प्राप्त कराकर (दूसरा ही वर्ण बनानेसे) दोनोंका विभाग कर डाला ।
क्षीणयावकरसोऽप्यतिपानैः कान्तदन्तपदसंभृतशोभः ।
आययावतितरामिव वध्वाः सान्द्रतामधरपल्लवरागः ॥ ६२ ॥
मल्लि०—क्षीणेति ॥ अतिपानैः क्षीणयावकरसः क्षीणलाक्षारागोऽपि कान्तस्य दयितस्य दन्तपदेन दन्तक्षतेन संभृता शोभा यस्य सः । वध्वा अधरपल्लवरागोऽतितरामतिमात्रम् । 'अति' शब्दात्तरप्प्रत्यये 'किमेत्तिङव्यये-'त्यादिनान्तप्रत्ययः । 'तद्धितश्चासर्वविभक्तिः' इत्यव्ययसंज्ञा । सान्द्रतां घनत्वम् । आययाविव । प्रियोपभोगचिह्नमण्डितानां कामिन्यवयवानां किमन्यैर्मण्डनैरिति भावः । तत्र क्षीणस्यापि
नवमः सर्गः १७९
सान्द्रतेति विरोधात् कान्तदन्तच्छेद्यादिविशेषणगत्या सान्द्रत्वे हेतूक्त्या काव्यलिङ्गं तत्सङ्कीर्णा चोत्प्रेक्षा ॥ ६२ ॥
हिन्दी—मदिराका अधिक पान करनेसे लाक्षारागसे रहित होकर भी प्रियके दन्तक्षतके चिह्नकी शोभासे सम्पन्न, अप्सराके अधरपल्लवकी लाली अत्यन्त गाढ़ी हो गई ।
रागकान्तनयनेषु नितान्तं विद्रुमारुणकपोलतलेषु ।
सर्वगापि ददृशे वनितानां दर्पणेष्विव मुखेषु मदश्रीः ॥ ६३ ॥
मल्लि०—रागेति ॥ वनितानां सर्वगाऽपि सर्वाङ्गगताऽपि । 'अन्तात्यन्त-' इत्यादिना डः । मदश्री रागेण कान्तानि नयनानि येषु तेषु । विद्रुमवदरुणानि कपोलतलानि येषु तेषु । मुखेषु दर्पणेष्विव नितान्तं ददृशे । तेषां नयनादिनैर्मल्येन रागाभिव्यक्तिसंभवादिति भावः ! अत्र मदश्रीः सर्वगतापि मुखेष्वेव ददृश इति विरोधः । तस्य मुखविशेषणैः समाधानात् काव्यलिङ्गानुप्रणितो विरोधावदाभासो-ऽलङ्कारः । स चोपमया संसृज्यते ॥ ६३ ॥
हिन्दी - सुन्दरियोंके समस्त अङ्गोंमें प्राप्त मदकी शोभा रागसे सुन्दर नेत्रों-वाले, प्रवालके समान अरुण (लाल) कपोलोंसे युक्त मुखोंमें दर्पणोंके समान अधिक दिखाई पड़ी ।
बद्धकोपविकृतोरपि रामाश्चारुताभिमततामुपनिन्ये ।
वश्यतां मधुमदो दयितानामात्मवर्गहितमिच्छति सर्वः ॥ ६४ ॥
मल्लि०—बद्धेति ॥ बद्धा कोपेन विकृतिर्याभिस्तास्तथाभूता अपि रामाः कर्म चारुता तासां सौन्दर्यं कर्त्री अभिमततां प्रियवाल्लभ्यम् उपनिन्ये । सौन्दर्यं हि विकृतिमपि रोचयत इति भावः । मधुमदो दयितानां वश्यतां विधेयत्वमुपनिन्ये । तथाहि सर्व आत्मवर्गहितमिच्छति । ततश्चारुता स्त्रीत्वात् स्त्रीणामुपचकार । मधु-मदस्तु पुंस्त्वात् पुंसामिति युक्तमित्यर्थः । अत्र विकृता अप्यभिमताः कुपिता अपि वश्या इति विरोधस्य चारुतामदाभ्यां समाधानादुभयत्रापि विरोधाभासो भवन्नर्था-न्तरन्यासेन संसृज्यते ॥ ६४ ॥
हिन्दी—क्रोधसे कुछ विकार होनेपर भी सुन्दरियोंको सुन्दरताने नायकके प्रियभावको प्राप्त करा दिया । सभी अपने वर्गका हित चाहते हैं, अतः मदिराके मदने भी (पुरुष होनेसे) उन सुन्दरियोंको अपने पतिके वशमें कर दिया ।
१८० | किरातार्जुनीयम्
वाससां शिथिलतामुपनाभि ह्रीनिराममपदे कुपितानि ।
योषितां विदधतो गुणपक्षे निर्ममार्ज मदिरा वचनीयम् ॥ ६५ ॥
मल्लि०—वाससामिति ॥ उपनाभि नाभिसमीपे वाससां शिथिलतां ह्रीनिरासं लज्जात्यागम् । अपदे कुपितानि अस्थानकोपांश्च गुणकोटौ विदधती निवेशयन्ती । दोषानप्येतान्गुणान्कुर्वतीत्यर्थः । मदिराऽपि योषितां वचनीयम् 'न नाभिं दर्शयेत्' इति शास्त्रनिषिद्धाचरणनिन्दां निर्ममार्ज । तया दोषाणामपि वस्त्रशैथिल्यादीनां तदानीं गुणत्वान्न कश्चिद्वचनीयावकाश इत्यर्थः ॥ ६५ ॥
हिन्दी—नाभिके समीपमें वस्त्रोंकी शिथिलता, लज्जाका त्याग अस्थानमें क्रोध दोषस्वरूप होनेपर भी गुणकी कोटिमें रखती हुई मदिराने सुन्दरियोंके शास्त्रनिषिद्ध आचरणकी निन्दाका परिमार्जन कर दिया ॥ ६५ ॥
भर्तृषूपसखि निक्षिपतीनामात्मनो मधुमदोद्यमितानाम् ।
व्रीडया विफल्या वनितानां न स्थितं न विगतं हृदयेषु ॥ ६६ ॥
मल्लि०—भर्तृष्विति ॥ उपसखि सखीसमीपे । समीपार्थेऽव्ययीभावः । आत्मनः स्वदेहान् । 'आत्मा जीवे धृतौ देहे स्वभावे परमात्मनि' । इति वैजयन्ती । भर्तृषु निक्षिपतीनां निपातयन्तीनाम् । भर्तॄणामुपरि पतन्तीनामित्यर्थः । 'आम्नद्योर्नुम्' इति विकल्पात्रुम्भावः । कुतः । मधुमदेनोद्यमितानां प्रेरितानाम् । न तु स्वच्छन्द्येनेति भावः । वनितानामनुरक्तस्त्रीणाम् । 'वनिता जनितात्यर्थानुरागायां च योषित्ति' । इति विश्वः । हृदयेषु विफल्या । अनुचिताचरणादिति भावः । व्रीडया न स्थितं न विगतम् । वैकल्यात्तस्या मदोपाधिकत्वाच्चेति भावः । अत एव नोभयनिषेधविरोधः ॥ ६६ ॥
हिन्दी—सखियोंके समीपमें अपने शरीरको पतिके ऊपर डालती हुई, मदिरा के मदसे प्रेरित स्त्रियोंके हृदयोंमें निष्फल व्रीडाने न तो स्थान पा लिया न गमन ही किया ॥ ६६ ॥
रुन्धती नयनवाक्यविकासं सादितोभयकरा परिरम्भे ।
व्रीडितस्य ललितं युवतीनां क्षीबता बहुगुणैरनुजह्रे ॥ ६७ ॥
मल्लि०—रुन्धतीति ॥ नयनानां वाक्यानां च विकासं प्रागल्भ्यं रुन्धती प्रतिबध्नन्ती । तथा परिरम्भे आलिङ्गने सादितौ स्तम्भितौ उभौ करौ यया सा युवतीनां संबन्धिनां क्षीबता मत्तता । कर्तरि क्तः । 'अनुपसर्गात्फुल्लक्षीबकृशो-
नवमः सर्गः | १८१
| नवमः सर्गः | १८१ |
|---|
ल्हाघाः' इति निपातनात्साधुः । क्षीबो मत्तः तस्य भावः क्षीबता । त्वत्तलोगुण-वचनस्य पुंवद्भावो वक्तव्यः । बहुगुणैर्दृष्टिसङ्कोचादिभिर्ब्रीडितस्य व्रीडायाः । भावे क्तः । ललितं विलासम् । अनुजहेऽन्वचक्रे । कर्तरि लिट् । व्रीडाकार्यकरत्वाद् व्रीडानुकरणमित्युपमालङ्कारः ॥ ६७ ॥
हिन्दी--नेत्रों और वाक्योंके विलासको रोकती हुई तथा आलिङ्गनमें दोनों हाथोंको स्तब्ध (निश्चल) बनानेवाली युवतियोंकी मदिराकी मत्तताने नेत्रसङ्कोच आदि बहुतसे गुणोंसे लज्जाके विलासका अनुकरण कर लिया ॥ ६७ ॥
योषिदुद्धतमनोभवरागा मानवत्यपि ययौ दयिताङ्कम् ।
कारयत्यनिभृता गुणदोषे वारुणी खलु रहस्यविभेदम् ॥ ६८ ॥
मल्लि०--योषिदिति ॥ उद्धतो मनोभवेन यः रागः प्रीतिः सा यस्याः सा योषित् मानवत्यपि दयितस्याङ्कं ययौ । यतो मानाद्रागो बलीयानिति भावः । लाघवशेषं परिहरति--कारयतीति । अनिभृता चञ्चला । न कार्यकारिणीत्यर्थः । वारुणी मदिरा गुणेषु दोषेषु न विषये । सर्वोऽपि द्वन्द्वो विभावयैश्चद्वन्द्वति । रहस्यविभेदं रहस्यभङ्गं कारयति खलु । बलान्निगूह्यावपि गुणदोषौ प्रकाशयतीत्यर्थः । यतोऽतिगूढरागप्रकटनं प्रकटनानभ्यासश्च प्रमत्ताया न लाघवमावहति । अबुद्धिपूर्वकत्वादिति भावः ॥ ६८ ॥
हिन्दी--कामदेवके कारण उत्कृष्ट प्रीतिवाली स्त्री मानवती (प्रणयसे कोप करनेवाली) होकर भी प्रियके उत्सङ्गमें स्वयम् चली गई । चञ्चल मदिरा गुणों और दोषोंके विषयमें भी रहस्य भङ्ग करा देती है ॥ ६८ ॥
आहिते नु मधुना मधुरत्वे चेष्टितस्य गमिते नु विकासम् ।
आबभौ नव इवोद्धतरागः कामिनीष्ववसरः कुसुमेशोः ॥ ६९ ॥
मल्लि०--आहिते इति ॥ मधुना मद्येन चेष्टितस्य रतिव्यापारस्य मधुरत्वे माधुर्य आहिते नु संपादिते नु प्रागसत्येव मनोहरत्वे संप्रत्युत्पादिते वा । विकासं गमिते नु प्राक्सत्येव माधुर्ये प्रकर्षं प्रापिते वा । उद्धतराग उद्रिक्तरागः । अत एव कुसुमेशोः कामिनीषु अवसरः प्रदेशो नव इवाबभौ । नित्यसन्निहितोऽपि मदनः कामिनीषु मदकृततारुण्यालङ्कृतचेष्टोमाधुर्याद्रागोदये सत्यपूर्ववदुद्भूतोऽभूदित्यर्थः । संशयानुप्राणितेयमुत्प्रेक्षा ॥ ६९ ॥
हिन्दी--मद्यसे रमण क्रियाकी मधुरताको सम्पादन करने पर वा विकासको
२८२ किरातार्जुनीयम्
प्राप्त करने पर अधिक रागवाला कामदेवका स्त्रियोंमें प्रवेश न्यासा होकर शोभित हुआ ॥ ६९ ॥
मा गमन्मदविमूढधियो नः प्रोज्झ्य रन्तुमिति शङ्कितनाथाः ।
योषितो न मदिरा भृशमीपुः प्रेम पश्यति भयान्यपदेऽपि ॥ ७० ॥
मल्लि०--मा गमन्निति । शङ्कितनाथा अविश्वस्तपुरुषा योषितो मदेन विमूढधियः स्तब्धबुद्धयो नोऽस्मान् प्रोज्झ्य विसृज्य । नञ्पूर्वाद्बुञ्जतेः समासेनञ्पूर्वं क्त्वा ल्यप् । रन्तुं मा गमन् न गच्छन्तु इति ! मतीपयेति शेषः । गमेर्माङि लुङ् । 'न माङ्योगे' इत्यडागमप्रतिषेधः । मदिरां भृशमतिमात्रं नेपुनैच्छन् स्म। किन्तु भर्तृवियोगभयादोषदेन यपुरित्यर्थः । तथा हि--प्रेम स्नेहः । अपदेऽस्थानेऽपि भयानि अनिष्टानि पश्यत्युत्प्रेक्षते । शङ्कत इति यावत् । शङ्काहेतो प्रेम्णि कर्तृत्वोपचारः ॥ ७० ॥
हिन्दी--पुरुषमें विश्वास न करनेवाली स्त्रियां मदसे स्तब्ध बुद्धिवाली होकर हमलोगोंको छोड़कर प्रियतम रमण करनेके लिए अन्यत्र न जायं ऐसी बुद्धिसे मदिराकी ज्यादा इच्छा नही करती थीं, जैसे कि प्रेम अस्थानमें भी अनिष्टोंको देखता है ॥ ७० ॥
चित्तनिर्वृतिविधायि विविक्तं मन्मथो मधुमदः शशिभासः ।
संगमश्च दयितैः स्म नयन्ति प्रेम कामपि भुवं प्रमदानाम् ॥ ७१ ॥
मल्लि०--चित्तेति ॥ चित्तस्य निर्वृत्तिविधायि सुखकरं विविक्तं रहः । 'विविक्तं रहसि स्मृतम्' इति विश्वः । मन्मथो मधुमदो मद्यमदः शशिभासश्चन्द्रिका दयितैः सह संगमश्च । 'वृद्धो यूना-' मिति निर्देशात् 'सह' शब्दाप्रयोगेऽपि सहार्थे तृतीया । एतानि प्रमदानां स्त्रीणां प्रेम वियोगासहत्वावस्थामंभोगं कामपि भुवं काञ्चिदशां नयन्ति स्म । रत्यवस्थामप्यतिक्रम्य शृङ्गारावस्थां क्रीडामयीं निन्युरित्यर्थः । 'प्रेमाभिलाषो रागश्च स्नेहः प्रेमरतिस्तथा । शृङ्गारश्चेति संभोगः समावस्थः प्रकीर्तितः ॥' इत्युक्तं रमरत्नाकरे । 'प्रेक्षा दिदृक्षा रम्येषु तच्चिन्ताप्यभिलाषकः । रागस्तत्सङ्गबुद्धिः स्यात्स्नेहस्तत्प्रवणःक्रिया । तद्वियोगासहं प्रेम रतिस्तत्सहवर्तनम् । शृङ्गारस्तत्समं क्रीडा संभोगः सप्तधा क्रमा ॥' इति ॥ ७१ ॥
हिन्दी--चित्तको सुख देनेवाला एकान्तमें कामदेव, मदिराका मद, चाँदनी
नवमः सर्गः १८३
और प्रियके साथ समागम ये सब स्त्रियोंके प्रेमको किसी ( अनिर्वच्य ) अवस्थामें पहुँचा देते थे ॥ ७१ ॥
धाष्टर्यलङ्घितयथोचितभूमौ निर्दयं विलुलितालकमाल्ये ।
मानिनीरतिविधौ कुसुमेषुर्मत्तमन इव विभ्रममाप ॥ ७२ ॥
मल्लि०— धाष्टर्येति ॥ धाष्टर्येनप्रागल्भ्येन लङ्घितातिक्रान्ता यथोचिता योग्या भूमिर्मर्यादा यस्मिंस्तथोक्ते । चुम्बनताडनमणितसीत्कारफूत्कारादिषु स्वयमच्छृङ्खलवृत्तिरिति भावः । निर्दयं यथा तथा विलुलितानि आकर्षणाकुलितानि अलका माल्यानि च यस्मिंस्तस्मिन् । मानिनीरतिविधौ सुरत कुसुमेषुः कामो मत्तमत्तो मत्तप्रकार इव विभ्रमं विजृम्भणम् । आप प्राप । मत्तः किं न करोतीति भावः । कारयितरि कर्तृत्वापचारादुत्प्रेक्षा ॥ ७२ ॥
हिन्दी — धृष्टतासे योग्य मर्यादाके उल्लङ्घनवाले, निर्दयताके साथ आकर्षणसे आकुल केशपाश और मालासे युक्त ऐसे मानिनियोंके रतिविधानमें कामदेव स्वयम् मत्त-सा होकर वृद्धिको प्राप्त हुआ ॥ ७२ ॥
शीधुपानविधुरेषु वधूनां निघ्नतामुपगतेषु वपुःषु ।
ईहितं रतिरसाहितभावं वीतलक्ष्यमपि कामिषु रेजे ॥ ७३ ॥
मल्लि०—शीध्विति ॥ शीधुपाननेन मद्यपानेन विधुरेषु विह्वलेषु । 'मैरेयमासवः शीधुः' इत्यमरः । अत एव वपुःषु अङ्गेषु निघ्नतां प्रियपराधीनताम् । उपगतेषु सत्सु । 'अधीनो निघ्न आयत्तः' इत्यमरः । वधूना संबन्धिनि रतिरसे सुरतरसास्वाद आहितभावं दत्तचित्तं कामिषु विषय ईहितं चुम्बनताडनादिचेष्टितं वीतलक्ष्यं निर्विषयम् । अस्थानकृतमपीत्यर्थः । रेजे । रागिणा स्खलितमपि शोभते इति भावः ॥ ७३ ॥
**हिन्दी—**मदिरा पीनेसे विह्वल सुन्दरियोंके अंगोंके प्रियतमके अधीन होनेपर उनके सुरतरसके आस्वादमें दत्तचित्त कामुकोंकी चेष्टा अस्थानमें किया गया होकर भी शोभित हुआ ॥ ७३ ॥
अन्योन्यरक्तमनसामथ बिभ्रतीनां चेतोभुवो हरिसखाप्सरसां निदेशम् ।
वैबोधिकध्वनिविभावितपश्चिमार्घा सा संहृतेव परिवृत्तिमिमाय रात्रिः ॥
मल्लि०—अन्योन्येति ॥ अथ हरिसखा इन्द्रसचिवा गन्धर्वास्तेषाम् । अप्सरसां चान्योन्यरक्तमनसां परस्परानुरक्तचित्तानां चेतोभुवः कामस्य निदेशमाज्ञां
१८४ | किरातार्जुनीयम्
बिभ्रतीनां स्मरविधेयानाम् । तासु रममाणस्येवेत्यर्थः । 'षष्ठी चानादरे' इति षष्ठी। विबोधः प्रबोधनं शीलमेषां ते वैबोधिका वैतालिकाः । 'शीलम्' इति ठक् । तेषां ध्वनिभिर्मङ्गल रवैर्विभावितोऽप्यूहितो ज्ञातः पश्चिमोऽर्धश्चरमभागो यस्याः सा तथोक्ता सा रात्रिः संहृना संक्षिप्तवेत्युत्प्रेक्षा । सुखिनां भूयानपि कालो लघीय़ानिव भवतीति भावः । परिवृत्ति विवृत्तिम् । इयाय । प्रभातकल्पोऽभूदित्यर्थः ॥ ७४ ॥
हिन्दी—परस्पर अनुरक्त चित्तवाले और कामदेवकी आज्ञाका पालन करते हुए अप्सराओं तथा गन्धर्वोंको वैतालिकोंकी आवाजोंसे जाने जातहुए अन्तिम भाग वाली रात संकुचित सी होकर परिवर्त्तनको प्राप्त हुई ॥ ७४ ॥
निद्राविनोदितनितान्तरतिक्लमानामायामिविमङ्गलनिनादविबोधितानाम् ।
रामासु भाविविरहाकुलितासु यूनां तत्पूर्वतामिव समादधिरे रतानि ॥
मल्लि०—निद्रेति ॥ निद्रया विनोदिताऽपनीतो नितान्तमत्यर्थं यो रतः क्लमः स येषां तेषाम् । आगामिभिरायामवद्भिर्दीर्घैर्मङ्गलनिनादैर्वैबोधिकैर्ध्वनिभि विबोधितानां यूनां रामासु । 'सुन्दरी रमणी रामा' इत्यमरः । भाविविरहेणाकुलितासु सतीषु रतानि तान्येव पूर्वाणि प्रथमानि तत्पूर्वाणि तेषां भावः तत्पूर्वता तांम्। भावे तलप्रत्ययः । समादधिरे प्रापुरिवेत्युत्प्रेक्षा । आद्यसुरतवदादादरात्प्रवृत्तनि इत्यर्थः । यदुत्तरकालं दुर्लभं तदतितृष्णयानुभूयत इत्यर्थः ॥ ७५ ॥
हिन्दी—निद्रासे जिनके सम्भोगकी ग्लानि दूर की गई है, दीर्घ मङ्गल ध्वनिसे जगाये गये उन तरुण पुरुषोंका सुन्दरियोंके भावी विरहसे आकुल होनेपर संभोग क्रिया मानों पहलेकी अवस्था ( नवीनता ) को प्राप्त हुई ॥ ७५ ॥
कान्ताननं सुरतखेदनिमीलिताक्षं संवाहितुं समुपयानिव मन्दमन्दम् ।
हर्म्येषु माल्यमदिरापरिभोगगन्धानाविश्चकार रजनीपरिवृत्तिवायुः ॥
मल्लि०---कान्तेति ॥ सुरतखेदेन निमीलितान्यक्षीणि येन तं स्त्रीसमूहं संवाहितुं सेवितुमिव । खेदापनोदार्थमङ्गमर्दनं कर्तुमिवेत्यर्थः । 'संवाहनं वाहनेऽपि नरादेरङ्गमर्दने' । इति विश्वः । 'वाहृ प्रयत्ने' इति धातोर्ण्यन्तात्तुमुन् । अन्यथा णिज्ग्रहणे संवाहयितुमिति स्यात् । मन्दमन्दं मन्दप्रकारम् । 'प्रकारे गुणवचनस्य' इति द्विर्भावे कर्मधारयवद्भावात्सुपो लुक् । समुपयान् संवान् । रजनीपरिवृत्तिवायुर्निशावसानमरुत् । हर्म्येषु माल्यानि च मदिरा च परिभोगो विमर्दश्च तेषां गन्धा-
नवमः सर्गः | १८५
| नवमः सर्गः | १८५ |
|---|
नाविश्चकार। बहिःप्रसारयामासेत्यर्थः। अत्र सेवयितुमिवेत्युत्प्रेक्षा। मान्द्यगुणमूलत्वाद् गुणनिमित्तक्रियाफलोत्प्रेक्षा ॥ ७६ ॥
हिन्दी— संभोगके परिश्रमसे आँखोंको मूंदनेवाली स्त्रियोंकी मानों सेवा करनेके लिये धीरे-धीरे बहती हुई रात्रिके अवसानकी हवाने महलोंपर माला, मदिरा और परिभोगकी सुगन्धियोंको बाहर फैला दिया ॥ ७६ ॥
आमोदवासितचलाधरपल्लवेषु निद्राकषायितविपाटललोचनेषु।
व्यामृष्टपत्रतिलकेषु विलासिनीनां शोभां बबन्ध वदनेषु मदावशेषः ॥७७॥
आमोदेति ॥ आमोदेन मद्यगन्धेन वासिताः सुरभिताश्चञ्चलतरुक्तत्वात्स्फुरन्तश्चाधरपल्लवा येषु तेषु निद्रया कषायितानि अषकलुषानि विपाटलानि लोचनानि येषु तेषु । 'कषायैस्तुवरे न स्त्री निर्यासे रक्तकादिके। सुरभावपटौ रक्ते सुन्दरे लवणेऽपि च' । इति केशवः । व्यामृष्टानि अमृष्टानि पत्राणि तिलकाश्च येषां तेषु विलासिनीनां वदनेषु मदावशेषः शोभां बबन्ध । मण्डनान्तराभावे मदशेष एव मण्डनं बभूवेत्यर्थः । स्त्रीणां मद एव विभूषणमिति भावः ॥ ७७ ॥
हिन्दी -- मदिराके गन्धसे सुगन्धित चञ्चल अधरपल्लवोंवाले, नींदसे अलसाये लाल नेत्रोंवाले जिनके पत्र और तिलक मिट गये हैं सुन्दरियोंके ऐसे मुखमें मदके अवशिष्ट भागने शोभाको सम्पन्न किया ॥ ७७ ॥
गतवति नखलेखालक्ष्यतामङ्गरागे समददयितपीताताम्रबिम्बाधराणाम्।
विरहविधुरमिष्टासत्सखोवाङ्गनानां हृदयमवललम्बे रात्रिसंभोगलक्ष्मीः ॥
इति भारविकृतौ महाकाव्ये किरातार्जुनीये नवमः सर्गः ।
मल्लि०--गतवतीति ॥ अङ्गरागेऽङ्गविलेपने नखलेखासु नखपदेषु लक्ष्यतां दृश्यतां गतवति सति । विमर्दात्तन्मात्रावशेषे सतीत्यर्थः । 'किंच बिम्बतुल्या अधरा बिम्बाधरा । 'शाकपार्थिवादिष्वाममध्यमपदलोपी समानाधिकरणसमासः' इति वामनः । समदैर्दयितैः पीताः पीडिता अत एवातिपीडनात् आत्ताम्रा आसमन्ताद्रक्ता बिम्बाधरा यासां तासामङ्गनानां संबन्धि विरहेणालिङ्गन वियोगेन विधुरं विह्वलं हृदयम् । रात्रिसंभोगलक्ष्मीः । नखपदादिशोभेत्यर्थः । इष्टाप्ता सत्सखीव निपुणसहचरीवावललम्बे धारयामास । प्रियसम्भागचिह्नशोभा स्पष्टा बभूवेत्यर्थः । प्रियो-
१८६ | किरातार्जुनीयम्
पभोगचिह्नशोभावलोकनलालसाः कथं विरहमसहन्तेत्यर्थः । श्रुतिपूर्णोपमालङ्कारः । मालिनीवृत्तम् । लक्षणं तूक्तम् ॥ ७८ ॥
इति किरातार्जुनीयकाव्यव्याख्यायां घण्टापथसमाख्यायां नवमः सर्गः समाप्तः ।
हिन्दी--अप्सराओंके अङ्गरागमे विमर्दके कारण नखक्षतचिह्नमात्रके दूर होनेपर मदवश प्रियके अत्यन्त पीडा करनेसे विम्बफलके समान लाल अधरवाली सुन्दरियोंके विरहके कारण विह्व... हृदयको रातकी संभोगशोभाने प्रिय सखीकी तरह अवलम्बन (सहारा) दिया ॥ ७८ ॥
किरातार्जुनीय महाकाव्यका नवम सर्गका अनुवाद समाप्त हुआ ॥
दशमः सर्गः
अथागन्तुकसहजशोभासम्पन्नतया समग्रसाधनाः स्त्रियो मुनिमनःप्रलोभनार्थं प्रस्थिता इत्याह—
अथ परिमलजामवाप्य लक्ष्मीमवयवदीपितमण्डनश्रियस्ताः ।
वसतिमभिविहाय रम्यहावाः सुरपतिसूनुविलोभनाय जग्मुः ॥ १ ॥
मल्लि०--अथेति ॥ अथ प्रभाते परिमलजा संभोगसंभूता लक्ष्मी शोभां । अवाप्य । 'संभोगः स्यात्परिमले' इति वैजयन्ती । संभोगान्स्त्रियः शोभन्त इति भावः । एतेनागन्तुकशोभासंपत्तिरुक्ता । अत एव सुरतादिवर्णनस्य प्रस्तुतोपयोगित्वं चोक्तम् । अथ सहजशोभासपत्तिमाह—अवयवेति । अवयवैः स्तनादिभिर्दीपिता मण्डिता च मण्डनश्रीः प्रसाधनशोभा याभिस्ताः । रम्यहावा मनोहरविलासहास्ताः स्त्रियः । 'हावो विलासश्चेष्टायाम्' इति विश्वः । वसति शिबिरम् । अभिविहाय सर्वतस्त्यक्त्वा सुरपतिसूनोरर्जुनस्य विलोभनाय जग्मुः । अत्रावयवदीपकत्वेन प्रसिद्धस्य मण्डनस्य तद्दीप्यत्वासंबन्धेऽपि संबन्धाभिधानादवयवसोन्दर्यातिशयद्योतनार्थत्वादतिशयोक्तिरलङ्कारः । अस्मिन्सर्गे पुष्पिताग्रावृत्तम्—'अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा' । इति लक्षणात् ॥ १ ॥
दशमः सर्गः
१८७
हिन्दी— तब (प्रातःकालमें) संभोगसे उत्पन्न शोभा पाकर स्तन आदि अवयवोंसे प्रसाधनकी शोभाको प्रकाशित और अलंकृत करती हुई मनोहर विलास-वाली स्त्रियाँ निवासस्थान छोड़कर अर्जुनको लुभानेके लिए चलीं ॥ १ ॥
द्रुतपदमभियातुमिच्छतीनां गगनपरिक्रमलाघवेन तासाम्।
अवनिषु चरणः पृथुस्तनीनामलघुनितम्बतया चिरं निषेदै ॥ २ ॥
मल्लि०— द्रुतेति ॥ गगनपरिक्रमलाघवेन गगनगमनवेगेन द्रुतपदं यथा तथा, अभियातुं गन्तुमिच्छतीनाम्। किंच, पृथुस्तनीनां तासामप्सरसाम्। किंच, अलघुनितम्बतया न लघवो नितम्बा यासां तासां भावस्तत्ता तया स्थूलनितम्बतया चरणोऽवनिषु चिरं निषेदै स्थितम्। अभ्याशपाटवेन मनसा त्वरमाणानामपि तासां स्तनजघनभाराच्चरणा नोत्तस्थुरित्यर्थः ॥ २ ॥
हिन्दी— आकाशमें गमनके वेगसे शीघ्रतापूर्वक अभियान करनेकी इच्छा करती हुई स्थूल स्तनोंवाली उन अप्सराओंके नितम्बके भारी होनेसे पैर जमीनपर बहुत समय रह गये ॥ २ ॥
निहितसरसयावकैर्बभासे चरणतलैः कृतपद्धतिर्वधूनाम् ।
अविरलवितेव शक्रगोपैररुणितनीलतृणोलपा धरित्री ॥ ३ ॥
मल्लि०— निहितेति ॥ निहिता आरोपिताः सरसयावकाः सान्द्रलाक्षारागा येषु तैर्वधूना चरणतलैरङ्घ्रिन्यासैः कृतपद्धतिः कृतमार्गरंखा । अत एव अरुणता अरुणीकृता नीलास्तृणोलपास्तृणानि दूर्वादीन्युल्पा बल्वजाख्यास्तृणविशेषाश्च यस्याः सा । 'उल्पा बल्वजाः प्रोक्ताः' इति हलायुधः । 'उलपा उशीरत्तृणानि' इति क्षीरस्वामी । ब्राह्मणपरिव्राजकवदुलपानां पृथङ्निर्देशः । धरित्री शक्रगोपैरिन्द्रगोपाख्यैः कीटकैः । 'इन्द्रगोपस्त्वग्निरजः' इति हैमः । अविरलं यथा तथा वितता व्याप्तेवेत्युत्प्रेक्षा । बभासे ॥ ३ ॥
हिन्दी— गीले लाक्षारागवाले रखे गये अप्सराओंके चरणन्यासोंसे मार्गरंखा बनाई गई अतएव लाल किये गये नीले रंगके दूर्वा आदि तृण और बल्वजवाली धरती इन्द्रगोपों (बीरबहूटियों) से निरन्तर व्याप्त-सी होकर शोभित हुई ॥ ३ ॥
ध्वनिरगविवरेषु नूपुराणां पृथुरशनागुणशिञ्जितानुयातः।
प्रतिरवविततो वनानि चक्रे मुखरसमुत्सुकहंससारसानि ॥ ४ ॥
मल्लि०— ध्वनिरिति ॥ अगविवरेषु नगरन्ध्रेषु । गुहास्वित्यर्थः । प्रतिरवैः
१८८ किरातार्जुनीयम्
प्रतिध्वनिभिर्विततः संमूर्च्छितः पृथुभो रशनागुणानां शिञ्जितैः स्वनितैरनुयाताऽनु- गतः। मिलित इति यावत्। 'स्वनिते वस्त्रपर्णानां भूषणानां तु शिञ्जितम्' इत्यमरः नूपुराणां ध्वनिभिर्ध्वानिर्येनानि मुखराः शब्दायमानाः समुत्सुका उत्कण्ठिता हंसाः सारसाश्च येषां तानि चक्रे। अत्र हंसादिपु मुनरसमुत्सुकीकरणरूपेण वस्तुना तेषां नूपुरादिक्ष्वनौ तादृश्याद्धंससारसान्तरकूजितभ्रान्तिप्रतीतेर्भ्रान्तिमदलङ्कारो व्यज्यते।
**हिन्दी—**गुफाओंमें प्रतिध्वनियोंसे बढ़े हुए अप्सराओंकी मोटी करधनीके रस्सियोंकी आवाजोंमें मिली हुई नूपूरोंकी आवाजने वनोंको शब्द करने हुए उत्कण्ठित हंसों और सारसोंसे युक्त बना डाला॥ ४॥
अवचयपरिभोगवन्ति हिंस्रैः सहचरितान्यमृगाणि काननानि। अभिदधुरभितो मुनिं वधूभ्यः समुदितसाध्वसविह्वलं च चेतः ॥ ५॥
मल्लि०—अवचयेति ॥ अवचयः पुष्पफलादिच्छेदनं पारभोग उपभोगस्त- द्वन्ति। हिंस्रा घातुका व्याघ्रादयः। 'शराधघातुको हिंस्रः' इत्यमरः। तै सहच- रिताः सहचरन्तः। कर्तरि क्तः। 'मतिबुद्धो—'त्यादिसूत्रेण चकारात् शीलिता- दिवद्वर्तमानार्थता। अन्ये हिंस्रेतरे मृगा हरिणादयो येषु तानि सहचरितान्यमृगाणि काननानि। तथा समुदितेन साध्वसेन विह्वलं विवशं चेतश्च वधूभ्यः। 'क्रिया- ग्रहणमपि कर्तव्यम्' इति संप्रदानत्वाच्चतुर्थी। अभितो मुनिमानदधुः। आसन्नं सूचयामासुरित्यर्थः। अवचनादिलिङ्गचतुष्टयेनासन्नो मुनिरित्यन्वमायतेऽर्थः ॥५॥
**हिन्दी—**फूल और फल आदियोंका छेदन (तोड़ना) और उपभोगसे युक्त, व्याघ्र आदि हिंस्र जन्तुओंके साथ चलते हुए, अन्य (हिंस्र जन्तुओंसे भिन्न) मृगोंवाले वनने तथा उत्पन्न हुए भयसे विह्वल चित्तने भी अप्सराओंको मुनि (अर्जुन) पास ही हैं ऐसी सूचना दे दी ॥ ५ ॥
नृपतिमुनिपरिग्रहेण सा भूः सुरसचिवाप्सरसां जहार तेजः। उपहितपरप्रभावधाम्नां न हि जयिनां तपसामलङ्घ्यमस्ति ॥ ६॥
मल्लि०—नृपतिमुनिपरिग्रहेणेति। सा भूर्नृपतिरेव मुनिस्तस्य परिग्रहेणाऽ- धिष्ठानेन हेतुना सुरसचिवानां गन्धर्वाणामप्सरसां च तेजो जहार। तदाश्रमप्रवेशादेव निस्तेजस्का अभूवन्नित्यर्थः। ननु कथं मानुषेण तेजसाऽमानुषं तेजो निरस्तमित्या- शङ्क्याह—हि यस्मात् उपहित आहिते परमे प्रभावधाम्नी सामर्थ्यतेजसी येषां
दशमः सर्गः १८९
दशमः सर्गः १८९
तेषा जयिनां जयनशीलानाम् । 'महताम्' इति पाठे महतामुत्कटानाम् । तपसा- मलङ्घ्यं नास्ति । किमप्यसाध्यं नास्तीति भावः ॥ ६ ॥ हिन्दी--राजमुनि ( अर्जुन ) के अधिष्ठानसे उस भूमिने गन्धर्वों और अप्सराओंके तेजका अपहरण कर डाला, क्योंकि उत्तम सामर्थ्य और तेजवाले जयशील पुरुषोंकी तपस्याओंसे कुछ भी असाध्य नहीं है ।
सचकितमिव विस्मयाकुलाभिः शुचिसिकतास्वतिमानुषाणि ताभिः । क्षितिषु ददृशिरे पदानि जिष्णोरुपहितकेतुरथाङ्गलाञ्छनानि ॥ ७ ॥
मल्लि०--सचकितमिति ॥ विस्मयाकुलाभिस्ताभिः स्त्रीभिः कर्त्रीभिः शुचयः सिकता यासु तासु । पादरेखाभिव्यक्तियोग्यास्वित्यर्थः । क्षितिषूपहितानि विन्यस्तानि केतुरथाङ्गलाञ्छनानि रेखास्वरूपध्वजचक्राण्येव चिह्नानि येषु तान्यत एव, अतिमानुषाणि जिष्णोरर्जुनस्य पदानि सचकितमिव सभयमिव यथा तथा ददृशिरे दृष्टानि । अद्भुतवस्तुदर्शनाद्भयविस्मयौ भवत इति भावः ॥ ७ ॥
हिन्दी--आश्चर्यसे आकुल उन अप्सराओंने पवित्र बालूसे युक्त पृथ्वीमें रखे गये ध्वज और चक्रके रेखारूप चिह्नोंवाले अर्जुनके मनुष्येतर पदचिह्नोंको आश्चर्य और भयसे देखा ।
अतिशयितवनान्तरद्युतीनां फलकुसुमावचयेऽपि तद्विधानाम् । ऋतुरिव तरुवीरुधां समृद्ध्या युवतिजनैर्जगृहे मुनिप्रभावः ॥ ८ ॥
मल्लि०--अतिशयितेति ॥ अतिशयिता अतिक्रान्ता वनान्तराणां द्युति- र्याभिस्तासाम् । युतः । फलानां कुसुमानां चावचयेऽपि लवनेऽपि सैव विधा प्रकारो यासां तद्विधानाम् । तथैव समग्राणामित्यर्थः । तरूणां वीरुधां च समृद्ध्या लिङ्गेन युवतिजनैर्मुनिप्रभावः ऋतुरिव जगृहे निश्चितः । कारणतयेति शेषः । उपमा- लङ्कारः ॥ ८ ॥
हिन्दी--अन्य वनोंकी कान्तिको मात करनेवाली, फलों और फूलोंको चुन लेनेपर भी पहलेकी तरह परिपूर्ण पेड़ों और फैली हुई लताओंकी समृद्धिसे अप्सराओंने 'ऋतुके समान यह मुनिका प्रभाव है' ऐसा निश्चय किया ।
मुदितकिसलयः सुराङ्गनानां ससलिलवल्कलभारभुग्नशाखः । बहुमतिमधिकां ययावशोकः परिजनतापि गुणाय सद्गुणानाम् ॥ ९ ॥
मल्लि०--मुदितेति ॥ ससलिलमार्द्रं यद्वल्कलं तदेव भारस्तेन भुग्नशाखो
१९० [किरातार्जुनोयम्
नम्रशाखः 'वल्कं वल्कलमस्त्रियाम्' इत्यमरः । अत एव मृदितकिसलयो विलुलित- पल्लवः । 'क्वचित्क' इति प्रतिषेधान्न मृदेर्गुणः । अशोको वृक्षविशेषः । सुराङ्गना- नामप्सरसां सम्बन्धिनीम् । अधिकां बहुमति तत्कर्तृकसम्मानं सज्जनसेवो धन्योऽय- मिति ययौ प्राप । ननु सेवकेषु का श्लाघेत्यत्राह—परोति । सद्गुणानां महता परिजनतापि अनुचरत्वमपि । भावे तल् । गुणायोत्कर्षाय । भवतीति शेषः । एनेन तासां मुनेः प्रभावदर्शनादेव तस्यारवश्यं गम्यते ॥ ९ ॥
हिन्दी—जलसे युक्त (आर्द्र) वल्कलके भारसे झुकी हुई शाखासे युक्त अतएव मृदित पल्लवोंवाला अशोक वृक्ष अप्सराओंका अधिक सम्मानका पात्र हुआ, क्योंकि महापुरुषोंका अनुचर होना भी उत्कर्षका कारण हो जाता है।
यमनियमकृशीकृतस्थिराङ्गः परिददृशे विधुतायुधः स ताभिः ।
अनुपमशमदीप्ततागरीयान् कृतपदपङ्क्तिरथर्वणेव वेदः ॥ १० ॥
मल्लि०—यमेति ॥ यमो देशकालानपेक्षया शुद्धिहेतुरहिंसादिः नियमस्त्व- दपेक्षया शुद्धिहेतुस्तपःस्वाध्यायादिः ताभ्यां कृशीकृतान्यपि स्थिराणि दृढान्यङ्गानि यस्य सः । विधुतायुधो धृतशस्त्रोऽत एव तपःशस्त्रयुक्तः सोऽर्जुनः शमः शान्तिरभ्यु- दयकाण्डे दीप्तता उग्रताऽभिचारकाण्डे ताभ्यामनुपमाभ्यां गरीयानुद्गतः । अथर्वणा वसिष्ठेन कृता रचिता पदानां पङ्क्तिरानुपूर्थी यस्य स वेदः । चतुर्थवेद इत्यर्थः । अथर्वणस्तु मन्त्रोद्धारो वसिष्ठकृत इत्यागमः । स दृढ ताभिः स्त्रीभिः परिददृशे दृष्टः ॥ १० ॥
हिन्दी—यम (अहिंसा आदि) और नियम (तपस्या आदि) से कृश किये गये परन्तु दृढ़ अङ्गोंवाले तथा आयुध लिये हुए अर्जुनको अनुपम शान्ति और उग्रतासे उन्नत अथर्वा (वशिष्ठ) से की गई पदोंकी आनुपूर्वी वाला अथर्ववेदके समान अप्सराओंने देखा।
अथ चतुर्भिस्तमेव विशिनष्टि शशधर इत्यादिभिः—
शशधर इव लोचनाभिरामैर्गगनविसारिभिरंशुभिः परीतः ।
शिखरनिचयमेकसानुसस्था सकलमिवापि दधन्महीधरस्य ॥ ११ ॥
मल्लि०—शशधर इति ॥ शशधरश्चन्द्र इव लोचनाभिरामैर्नेत्राह्लादकरैर्गगन- विसारिभिरंशुभिस्तेजोभिः परीतो व्याप्तोऽम्बन्यदेकं सानु सथ यस्य सः । एकदेश-
दशमः सर्गः १९१
दशमः सर्गः १९१
स्योऽपोत्यर्थः । महीधरस्येन्द्रकीलस्य सकलं शिखरनिचयमपि दधत् आवृण्वन्निवेत्युत्प्रेक्षा ॥ ११ ॥
हिन्दी--चन्द्रमाके समान नेत्रोंको सुखदेने वाले आकाशमें फैले हुए तेजसे व्याप्त, आकाशके समान एकदेशमें स्थित होकर भी अर्जुन इन्द्रकील पर्वतके समस्त शिखर-समूहको व्याप्त करते हुए-से प्रतीत हो रहे थे ।
सुरसरिति परं तपोऽधिगच्छन् विधृतपिशङ्गवृहज्जटाकलापः । हविरिव विततः शिखासमूहैः समभिलषन्नुपवेदि जातवेदाः ॥ १२ ॥
मल्लि०—सुरेति ॥ पुनः, सुरसरिति गङ्गाकूले परं तपोऽधिगच्छन्नर्जयन् । फलाभिलाषेनेति शेषः । हविः समभिलषन्नित्युपमानविशेषणमप्यर्थात् । तथा विधृतः पिशङ्गवृहज्जटाकलापो येन सः । अत एव उपवेदि वेद्याम् । विभक्त्यर्थेऽव्ययीभावः । शिखासमूहैर्ज्वालाजालैर्विततो विस्तृतो हविराज्यादिकं समभिलषन् । जातवेदो हिरण्यम् । भोज्यं कर्मफलमिति यावत् । यस्मादिति जातवेदा वह्निरिव स्थितः ॥ १२ ॥
हिन्दी--गङ्गाके तटपर कठिन तपस्या करते हुए पीले लम्बे जटाकलापको धारण किये हुए अर्जुन अतएव वेदिके समीप ज्वालासमूहसे विस्तृत हविका अभिलाष करते हुए अग्निदेवके समान प्रतीत हो रहे थे ।
सदृशमतनुमाकृतेः प्रयत्नं तदनुगुणामपरैः क्रियामलङ्घ्याम् । दधदलघु तपः क्रियानुरूपं विजयवतीं च तपःसमां समृद्धिम् ॥ १३ ॥
मल्लि०--सदृशमिति ॥ पुन.. आकृतेर्वपुषः । 'आकृतिः कथिता रूपे सामान्यवपुषोरपि' इति विश्वः । सदृशं तुल्यमतनुं महान्तं प्रयत्नमुद्योगं दधत् । तथा तदनुगुणां प्रयत्नानुकूलामपरैरन्यैरलङ्घ्याम् । कर्तुमशक्यमित्यर्थः । क्रियां व्यापारं दधत् । तथा क्रियानुरूपं क्रियानुगुणमलघु गुरु तपो दधत् । तथा विजयवतीं सर्वोत्कर्षवतीं विजयफलां वा तपःक्रियानुरूपां तपःसमां समृद्धिमैश्वर्यं दधत् । अत्र पूर्वं प्रत्युत्तरस्य विशेषणतया स्थापनात्प्रथमैकावल्यलंकारः--'यथापूर्वं परस्य विशेषणतया स्थानं एकावली' इति सर्वस्वसूत्रात् ॥ १३ ॥
हिन्दी--शरीरके समान महान् उद्योगको करते हुए उसीके अनुकूल दूसरोंसे अलङ्घनीय कर्मको करते हुए और धर्मके अनुकूल बड़ी तपस्याको करते हुए उसी
| १९२ | किरातार्जुनीयम् |
|---|
तरह विजय युक्त तपस्याके समान ऐश्वर्यको धारण करते हुए (अर्जुन विद्यमान थे)।
चिरनियमकृशोऽपि शैलसारः शमनिरतोऽपि दुरासदः प्रकृत्या ।
ससचिव इव निर्जनेऽपि तिष्ठन्मुनिरपि तुल्यरुचिस्त्रिलोकभर्तुः ॥ १४ ॥
मल्लि०—चिरनियमेति ॥ पुनश्च, चिरनियमेन दीर्घकालतपसा कृशः क्षीणाङ्गोऽपि शैलसारः । उपमानपूर्वपदो बहुव्रीहिः । शमे निरतोऽपि प्रकृत्या स्वभावेन दुरासदो दुर्धर्षो निर्जने विजने देशे तिष्ठन्नपि ससचिवः सपरिवार इव । किञ्च, मुनिरपि ऐश्वर्यरहितोऽपीत्यर्थः । त्रयाणां लोकानां भर्तुरिन्द्रस्य । 'तद्धितार्थ-'त्यादिनोत्तरपदसमासः । तुल्यरुचिः समानतेजाः 'अपि' शब्दः सर्वत्र विरोधद्योतनार्थः । स च मुनेरतर्क्यमहिमत्वेन निरस्त इति विरोधाभासत्वं—‘विरोधाभासत्वं विरोधः’ इति सूत्रात् ॥ १४ ॥
**हिन्दी—**अर्जुन दीर्घकालकी तपस्यासे दुर्बल होकर भी पर्वतके समान सारसे युक्त थे, शान्तिमें तत्पर होकर भी स्वभावसे दुर्धर्ष थे, एकान्तमें रहते हुए भी परिवारवाले-से थे और मुनि होकर भी त्रैलोक्यके स्वामी (इन्द्र) के समान तेजस्वी थे।
तनुमवजितलोकसारधाम्नीं त्रिभुवनगुप्तिसहां विलोकयन्त्यः ।
अवययुरमरस्त्रियोऽस्य यत्नं विजयफले विफलं तपोधकारे ॥ १५ ॥
मल्लि०--तनुमिति ॥ अवजिते तिरस्कृते लोकानां सारधाम्नी सत्वतेजसी यया ताम् । 'अन उपधा-' इत्यादिना ङीप् । त्रयाणां भुवनानां समाहारः त्रिभुवनम् । 'तद्धितार्थे-'त्यादिना समाहारार्थे तत्पुरुषः । पात्रादित्वान्स्त्रीत्वप्रतिषेधः । तस्य गुप्तौ रक्षणे सहां समर्थाम् । पचाद्यच् । तनुं मूर्तिं विलोकयन्त्योऽमरस्त्रियोऽप्सरसो विजयफले विजयार्थे तपोधकारे तपोऽनुष्ठानेऽस्यार्जुनस्य यत्नं विफलमवययुर्मनिरे । त्रैलोक्याधिपत्यादिमहाफलसाधनसमर्थस्य तुच्छफलाभिलाषा मत्तमातङ्गमांसभोगोचितस्य कण्ठीरवस्य जीर्णतृणचर्वणोत्कण्ठेव न शोभामावहतीति भावः। अत्र विशिष्टतनुविलोचनस्य स्त्रीविशेषणार्थकयत्ननहेतुत्वोक्त्या पदार्थहेतुकं काव्यलिङ्गमलंकारः ॥ १५ ॥
**हिन्दी—**तीन लोकोंके सार और तेजको तिरस्कार करनेवाली मूर्तिको देखती
दशमः सर्गः
हुईं अप्सराएँ विजयरूप फलवाली तपस्याके अनुष्ठानमें इन ( अर्जुन ) के यत्नको विफल समझने लगीं ॥ १५ ॥
मुनिदनुतनयान् विलोभ्य सद्यः प्रतनुबलान्यधितिष्ठतस्तपांसि ।
अलघुनि बहु मेनिरे च ताः स्वं कुलिशभृता विहितं पदे नियोगम् ॥ १६ ॥
मल्लि०—मुनीति ॥ प्रतनुबलानि अनुत्कृष्टसाराणि तपस्यधितिष्ठतोऽनुतिष्ठतो मुनीन् दनुतनयान् दानवांश्च सद्यस्तत्क्षणमेव विलोभ्याकृष्य चिरात् कुलिशभृता शक्रेण । अलघुनि महति पदे स्थाने विहितं दत्तं स्वं स्वकीयं नियोगमधिकारं ताः स्त्रियो बहु यथा तथा मेनिरे । निकृष्टपदवृत्तीनामुत्कृष्टपदलाभो महान् । बहुमानमूलमिति भावः । विलोभ्य मेनिरे इत्यन्वयः । यद्वा—विलोभ्य लोभं कारयित्वा विहितं शक्रेणेत्यन्वयात् समानकर्तृत्वनिर्वाहः ॥ १६ ॥
हिन्दी—उत्कर्षसे रहित सारवाली तपस्या करने हुए मुनि और दानवों-( असुरों ) को शीघ्र ही लुभाकर इन्द्रसे उत्कृष्ट स्थानमें दिये गये अपने अधिकारको उन अप्सराओंने बहुत समझा ॥ १६ ॥
अथ कृतकविलोभनं विधित्सौ युवतिजने हरिसूनुदर्शनेन ।
प्रसभमवततार चित्तजन्मा हरति मनो मधुरा हि यौवनश्रीः ॥ १७ ॥
मल्लि०—अथेति ॥ अथ अनन्तरं कृतकविलोभनं कृत्रिमं विलोभनं विधित्सौ विधातुमिच्छौ । वि-पूर्वाद्धातोः सन्नन्तादुप्रत्ययः । युवतिजने हरिसूनोरर्जुनस्य दर्शनेन चित्तजन्मा कामः प्रसभं बलात् अवततार । देवतरं वञ्चयितुमागतस्य मोहो भवति, यतः स्वयं मुनिवञ्चनप्रवृत्ताः स्त्रियस्तेन वञ्चिता इत्यर्थः । युक्तं चैतत् । हि यस्मात् । मधुरा मनोहरा यौवनश्रीमंनो हरति । बलादिति शेषः । १७ ।
हिन्दी—अनन्तर कृत्रिम मोहनकर्म करने की इच्छा करनेवाली अप्सराओंमें अर्जुनके दर्शनसे चित्तजन्मा ( कामदेव ) अकस्मात् अवतीर्ण हो गया, क्योंकि मधुर यौवनकी शोभा मनको हर लेती है ॥ १७ ॥
सपदि हरिसखैर्वधूनिदेशाद् ध्वनितमनोरमवल्लकीमृदङ्गैः ।
युगपदृतुगणस्य संनिधानं वियति वने च यथायथं वितेने ॥ १८ ॥
मल्लि०—सपदीति ॥ सपदि वधूनां निदेशात्प्रयोगात् ध्वनिता नादिता मनोरमा वल्लक्यी वीणा मृदङ्गाश्च यैस्तैर्हरिसखैर्गन्धर्वैर्वियति आकाशे वने च युगपदृतुगणस्य ऋतुषट्कस्य संनिधानमाविर्भावो यथायथं यथास्वम् । असंकरेणे-
१३ कि०
| १९४ | किरातार्जुनीयम् |
|---|
स्त्यर्थः । 'यथास्वं तु यथायथम्' इति निपातः । वितेने विस्तारे । उद्दीपनानि संपादितेत्यर्थः ॥ १८ ॥
**हिन्दी—**उसी क्षण अप्सराओंकी आज्ञासे मनोहर बीन और पखावज बजाकर गन्धर्वोने आकाश और वनमें एक ही बार वसन्त आदि छः ऋतुओंका आविर्भाव अलग-अलग विस्तृत कर दिया ॥ १८ ॥
अथ वर्षाक्रमेण ऋतून्वर्णयति-- सजलेत्यादि-- सजलजलधरं नभो विरेजे विवृतिमियाय रुचिस्तडिल्लतानाम् । व्यवहितरतिविग्रहैर्वितेने जलगुरुभिः स्तनितैर्दिगन्तरेषु ॥ १९ ॥
मल्लि०— सजलेति । सजला जलधरा यस्मिंस्तत् । नभो विरेजे । तडिदेव लता इव तासां रुचिः प्रभा विवृतिं विजृम्भणम् । इयाय । तथा व्यवहितरतिविग्रहैर्दू रीकृतरतिप्रकल्पितप्रणयकलहैर्जलगुरुभिः । जलभाराद् गम्भीरैरित्यर्थः । स्तनितैर्गर्जितैः । दिगन्तरेषु वितेने विततेर्भावि भावे लिट् । अकर्मकत्वं वैवक्षिकम् । अत एव दिगन्तरेष्वित्यधिकरणत्वेन प्रयोगः । अन्यथा कर्मत्वमेव स्यात् ॥ १९ ॥
**हिन्दी—**जलसे पूर्ण मेघवाला आकाश शोभित हुआ। लताकी तुल्य बिजलियोंकी चमक समृद्धिको प्राप्त हुई। रमण क्रियामें कलह हटानेवाले जलके भारसे गम्भीर मेघगर्जन दिगन्तोंमें विस्तृत हो गया ॥ १९ ॥
परिसुरपतिसूनुधाम सद्यः समुपदधन्मुकुलानि मालतीनाम् । विरलमपजहार बद्धबिन्दुः सरजसतामवनेरपां निपातः ॥ २० ॥
**मल्लि०—**परीति ॥ परिसुरपतिसूनुधाम अर्जुनाश्रमं प्रति । परीति लक्षणार्थे कर्मप्रवचनीयस्य योगाद् द्वितीया । यद्वा—वर्जनार्थस्य तस्यात्र विरोधादभिव्यक्त्यर्थोऽव्ययीभावः । तथा च सुरपतिसूनुधाम्नोत्यर्थः । सद्यो मालतीनां जातीलतानाम् । 'सुमना मालती जातिः' इत्यमरः । मुकुलानि समुपदधत् जनयन् । विरलं यथा तथा बद्धबिन्दुरपां निपातो वृष्टिरवनेः संबन्धिनी सरजसतां सरजस्कत्वम् । 'अव्ययं विभक्ति'त्यादिसूत्रेण साकल्यार्थेऽव्ययीभावः 'समासान्तनिपातश्च बहुव्रीह्यर्थस्तु लक्ष्यते । अव्ययीभावदर्शनं तु प्रायिकम्' इति केचित् । अपजहार । धूलिं शमयामासेत्यर्थः ॥ २० ॥
**हिन्दी—**अर्जुनके आश्रममें चमेलीके पुष्पोंके मुकुलोंको उत्पन्न करती हुई विरलरूपसे बिन्दुको टपकानेवाली जलवृष्टिने भूमिकी धूलको मिटा दिया ॥ २० ॥
दशमः सर्गः १९५
प्रतिदिशमभिगच्छताभिमृष्टः ककुभविकाससुगन्धिनानिलैन । नव इव विभभौ सचिचजन्म गतधृतिराकुलितश्च जीवलोकः ॥२१॥ मल्लि०—प्रतिदिशमिति । दिशि दिशि प्रतिदिशम् । यथार्थेऽव्ययीभावः । शरत्प्रभृतित्वात् समासान्तनिपातः । अभिगच्छता संद्वाता ककुभानि अर्जुनकुसुमानि । ‘इन्द्रद्रुः ककुभोऽर्जुनः’ । तेषां विकासेन सुगन्धिना मनोज्ञगन्धेन गन्धस्येखे तदेकान्तग्रहणं प्रायिकम् । अनिसेनाभिमृष्टः संस्पृष्टोऽत एव सचित्तजन्मा । कामाक्रान्त इत्यर्थः । अत एव गतधृतिर्गतधैर्य आकुलितः क्षोभितश्च । रति प्रतीति भावः । एवंभूतो जीवलोको नव इव अवस्थान्तरप्राप्त्या अपूर्व इव विभभौ माति स्मेत्युत्प्रेक्षा ॥ २१ ॥ हिन्दी—अर्जुन वृक्षके फूलोंके विकाससे सुगन्धवाली प्रतिदिशामें बहती हुई हवासे स्पर्श किया गया अतएव कामावेशसे आक्रान्त, धैर्यरहित और क्षुब्ध किया गया जीवलोक अपूर्व-सा होकर शोभित हो गया ॥ २१ ॥
व्यथितमपि भृशं मनो हरन्ती परिणतजम्बुफलोपभोगहृष्टा । परभृतयुवतिः स्वनं वितेने नवनवयोजितकण्ठरागरम्यम् ॥ २२ ॥ मल्लि०—व्यथितमिति । व्यथितं दुःखितमपि मनो भृशं हरन्ती । किमुत सुखितमिति भावः । जम्ब्वाः फलं जम्बु । ‘बृहंतं च फले जम्ब्वा जम्बुः स्त्री जम्बु जाम्बूवम्’ इत्यमरः । ‘जम्ब्वा वा’ इत्यणभावपक्षेऽपि ‘फले लुक्’ इति लुक् । ‘लुक्तद्धितलुकि’ इति स्त्रीप्रत्ययनिवृत्तिः । जम्बु च तत्फलं चेति सामान्यविशेषयोः सहनिर्देशः । यद्वा—जम्ब्वाः फलमिति विग्रहः । ‘इको ह्रस्वोऽङ्यो गालवस्य’ इति ह्रस्वः । तस्य परिणतस्योपभोगेन हृष्टा । अत एव परभृतयुवतिः कोकिलाङ्गना नवनवं नवप्रकारं यथा तथा योजितेन संपादितेन कण्ठरागेण कण्ठमाधुर्येण रम्यम् । सौम्यमित्यर्थः । स्वनं स्वरं वितेने । वर्षास्वपि मधुराः स्वराः कोकिलाया इति प्रसिद्धिः ॥ २२ ॥ हिन्दी—दुःखित चित्तको भी बार-बार हरण करती हुई पके हुए जम्बूफलके उपभोगसे प्रसन्न कोयलने नये ढंगसे सम्पादित कण्ठकी मधुरतासे मनोहर स्वरका विस्तार किया ॥ २२ ॥
अभिभवति मनः कदम्बवायौ मदमधुरे च शिखण्डिनां निनादे । जन इव न धृतेश्चचाल जिष्णुर्न हि महतां सुकरः समाधिभङ्गः ॥२३॥