भारतकोश
संग्रह पर लौटें

कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Kumarasambhavam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा

DevanagariSanskritpublished268 पृष्ठ

( १०१ ) अर्थ and काम, but devoted herself solely to the acqui- sition of धर्म । एक एव—i e, धर्म एव । प्रतिगृह्य—( प्रति + √ग्रह् +ल्यप् ) स्वीकृत्य having accepted or selected. सेव्यते —आश्रीयते is followed 38 CHANGE OF VOICE :—( हे ) भाविनि, अनेन अद्य मे धर्मेण सविशेषं त्रिवर्गसारेण प्रतिभायते, यत् मनोनिर्विषयार्थकामा त्वं एकं एव प्रतिगृह्य सेवसे ॥ ३८ ॥ HINDI TRANSLATION :—हे श्रेष्ठ अभिप्राय वाली, इससे तो आज मुझे धर्म ही विशेषतया तीनो वस्तुओ ( धर्म, अर्थ, काम ) में श्रेष्ठ ज्ञात होता है, क्योंकि अर्थ और काम से रहित मन वाली तुम ( उसी ) एक को ग्रहण कर पालती हो ॥ ३८ ॥ ENGLISH TRANSLATION —O one of noble intentions, on account of this ( thy conduct ) Dharma strikes me pre-eminently as the best of the group of the three ( viz., Dharma, Artha and Káma ), since this only has been selected and followed by thee, whose mind is free from all thoughts of Artha ( wealth ) and Káma ( desire ) 38 PURPORT IN SANSKRIT :—हे श्रेष्ठाभिप्रायवति पार्वति ! यतस्त्वं बुद्धिमती धर्मार्थकामानां वर्गे अर्थकामावनादृत्य एकं धर्म- मेव कल्याणकरं स्वीकृत्य पालयसि अतोऽहमद्य त्वदाचरणं दृष्ट्वा मन्ये यदेषां त्रयाणां समूहे धर्म एव श्रेष्ठतम , अर्थकामानुसारिणी च लोकानां प्रवृत्तिरनुचिता ॥ ३८ ॥ प्रयुक्तसत्कारविशेषमात्मना न.मां परं संप्रतिपत्तुमर्हसि ।

( १०२ ) यतः सतां संनतगात्रि संगतं मनीषिभिः साप्तपदीनमुच्यते ॥ ३९ ॥ संप्रति मनोरथं जिज्ञासुः प्रस्तौति । प्रयुक्तेति । आत्मना त्वया प्रयुक्तः कृतः सत्कारविशेषः पूजातिशयो यस्य तं प्रयुक्तसत्कारविशेषं मां पर अन्यं संप्रतिपत्तुं अवगन्तुं न अर्हसि । हे संनतगात्रि संन- ताङ्गि । ‘अङ्गगात्रकण्ठेभ्यः’ इति वक्तव्यान् ङीप् । यतः कारणात् मनस ईषिभि मनीषिभिः विद्वद्भिः । शकन्ध्वादित्वात्साधु । सतां संगत सख्यं सप्तभिः पदैः आप्यते इति साप्तपदीनं सप्तपदोच्चारण- साध्यं उच्यते । तच्चावयोरुत्वत्कृतसत्कारप्रयोगादेव सिद्धमित्यर्थः । ‘साप्तपदीनं सख्यम्’ इति निपातनात्साधुः ॥ ३६ ॥ PROSE ORDER —आत्मना प्रयुक्तसत्कारविशेष मां परं संप्रतिपत्तुं न अर्हसि, (हे) संनतगात्रि, यतः मनीषिभिः सतां सङ्गतं साप्तपदीनं उच्यते ॥ ३६ । NOTES —आत्मना—स्वयं by thee thyself i e, not through any attendant or other person प्रयुक्तसत्कार- विशेषं—प्रयुक्तः (कृतः) सत्कारस्य विशेषो यस्मै स, तम् to whom special hospitality has been done परं—अन्यं a different person, a stranger संप्रतिपत्तुं—(सं प्रति+ √पद् + तुमुन्) बोद्धु to know; to regard. Infinitive of √पद् to go, but with प्रति ‘to know.’ संनतगात्रि—सं (सम्यङ्) नतानि गात्राणि यस्याः सा संनतगात्री, तस्याः सम्बो- धने संनतगात्रि (सुन्दराङ्गि) having the body bent or stooping; having rounded limbs; beautiful. ‘नतं चारु सन्नतम्’ इति भाजः । ङीष् is added to form the feminine by the vartika ‘अङ्गगात्रकण्ठेभ्यः वक्तव्यम्’ i e. of

( १०३ ) Bahuvrihi compounds having for their last members अङ्ग, गात्र or कण्ठ the feminine is formed either in आ or ई, thus the other form will be संनतागात्रा । मनीषिभिः —( मनीषा+इनिः ) मनीषा (बुद्धि ) एषामस्तीति मनीषिणः, तै मनीषिभिः (विद्वद्भिः) by the thoughtful; wise, or, मनस ईषिभिः, मनीषिभिः । For synonyms of मनीषा Cf. ‘बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः’ इत्यमरः । The suffix इनि is added by ‘व्रीह्यादिभ्यश्च’ पा० ५.२ ११६ । सतां—सज्जनानाम् of good people Genitive plu of सत्, which is declined as, सन्, सन्तौ, सन्तः । सन्तं, सन्तौ, सतः । सता, सद्ब्यां, सद्भिः etc सङ्गतम्—(सं+ √गम्+क्तः) सख्यम् Meeting friendship साप्तपदीनं— (सप्तपदं+खञ्—ईन ) सप्तानां पदानां समाहारः सप्तपदं (द्विगु- समासः ), सप्तपदेन (सप्तभिः पदैः वा ) अवाप्यने इति साप्त- पदीनम् । the word पद has two meanings, viz ‘a word’ and ‘a footstep’, so the expression means ‘which is formed by uttering seven words’ or ‘by walking over seven steps together’ i e., friendship. The word has lost the literal sense and is used for friendship. It is irregularly formed to indicate this meaning by साप्तपदीनं सख्यम्’ पा० ५ २ २२ । ‘सख्यं साप्तपदीनं स्यात्’ इत्यमरः । Cf. ‘संबन्धमाभाषणपूर्वमाहुः’ रघु० २ ३५ । and ‘सतां सप्तपदा मैत्री, सत्सतां त्रिपदा स्मृता । सत्ततामपि ये सन्तस्तेषां मैत्री पदे पदे ।’ Shiva means to say as Parvati and he had uttered a few words to each other they were friends and

( १०४ ) not strangers to each other, and so he was entitled to make further enquiries about her. 39. CHANGE OF VOICE :—आत्मना प्रयुक्तसत्कारविशेषः अहं परः संप्रतिपत्तुं न अर्ह्ये, ( हे ) संनतगात्रि, यतः मनीषिणः सतां सङ्गतं साप्तपदीनं ब्रुवन्ति ॥ ३६ ॥ HINDI TRANSLATION :—( तुमने ) अपने आप जिसका विशेष आदर किया है ऐसे मुझ को कोई दूसरा (अज़नबी) मानना योग्य नहीं है, क्योंकि, हे सुन्दरि, बुद्धिमान् लोग सज्जनो की मित्रता को सात शब्दों के बोलने (या पैरों के चलने) से होने वाली कहते हैं ॥ ३६ ॥ ENGLISH TRANSLATION —It does not behove thee to regard me as a stranger, to whom special hospitality has been accorded by thee, for, O one of stooping body, the friendship of good people is declared by the wise to be formed after seven words have been exchanged between them (or, after seven steps have been walked together) 39 PURPORT IN SANSKRIT :—हे सुन्दरि, अहमत्रागतस्त्वया यथाविधि सत्कृतः त्वया सह मे वार्त्तालापश्च जातः, अतोऽहं त्वदीयो जनो जातः । अधुना त्वयाहं स्वमित्रमेव मन्तव्यः, यतः सज्जनानां मैत्री परस्परं सप्तपदोच्चारणेन सप्तपदगमनेन वा सिध्य- तीति विद्वज्जनानां सम्मतिः । इदानीं तव मित्रत्वान्मे तव हार्दिकी- मिच्छां ज्ञातुमधिकारोऽस्तीति भावः ॥ ३६ ॥ अतोऽत्र किञ्चिद्भवतीं बहुक्षमां द्विजातिभावादुपपन्नचापलः ।

( १०५ ) अयं जनः प्रष्टुमनास्तपोधने न चेद्रहस्यं प्रतिवक्तुमर्हसि ॥ ४० ॥ अत इति। हे तपोधने अतः सख्याद्धेतोः अत्र प्रस्तावे बहुक्षमां बहुक्लिमहाम् । यद्वा क्षमावतीं भवतीं त्वां द्विजातिभावाद् ब्राह्मत्वाद् उपपन्नचापलः सुलभधाष्ट्र्यः अयं जनः । स्वयमित्यर्थः । किञ्चित् प्रष्टुं मनो यस्य स प्रष्टुमनाः प्रष्टुकामः । ‘तुं काममन- सोरपि' इति मकारलोप । रहसि भवं रहस्यं गोप्यं न चेत् प्रति- वक्तुं अर्हसि ॥ ४० ॥ PROSE ORDER :—( हे ) तपोधने, अत्र द्विजातिभावाद् उपपन्नचापलः अयं जनः बहुक्षमां भवतीं किञ्चित् प्रष्टुमनाः (अस्ति) चेद् रहस्यं न प्रतिवक्तुं अर्हसि ॥ ४० ॥ NOTES :—तपोधने—तप एव धनं यस्याः सा तपोधना, सम्बोधने तपोधने, whose treasure consists of penance. अत्र—तपःसम्बन्धे i e, with regard to your penance. द्विजातिभावात्—(√जन्+क्तिन्=जानिः) द्वे जाती ( जन्मनी ) यस्य स द्विजातिः, तस्य भावः द्विजातिभावः, तस्मात् on account of my being a Brahmana द्विजाति means those who have two births viz., one from the mother and the other from the preceptor in the form of initiation. Hence it indicates the first three castes Cf ‘मातुर्यदग्रे जायन्ते द्वितीयं मौञ्जिबन्धनात् । ब्राह्मणक्षत्रियविशस्तस्मादेते द्विजाः स्मृताः।’ मनु० २.१६६ । But, here it means the Brahmana class alone. Ablative is used in the sense of cause. Shiva means to say that Brahmanas are inquisitive by their nature and that he was not an exception

( १०६ ) to this उपपन्नचापलः । उपपन्नं-( उप+√पद्+क्तः ) संभाव्यं; प्राप्तम् is produced or aroused. चापलं-( चपल+अण् ) चपलस्य भावः चापलम् ( धृष्टता ) agitation, want of patience उपपन्नं चापलं यस्य स उपपन्नचापलः i. e, who has become curious अयं जनः- i. e, I myself बहुक्षमां-बहुः क्षमा यस्यां सा बहुक्षमा, ताम् or बहु क्षाम्यतीति बहुक्षमा ताम् One possessed of great forbearance, who forgives much who is capable of bearing great hardships It gives the reason why Shiva makes bold to make enquiry प्रष्टुमनाः-( √प्रच्छ्+तुमुन्+मनाः ) प्रष्टुं मनो यस्य स प्रष्टुमना desirous of asking something. The nasal of the infinitive is dropped before काम and मनस् by ' तुं काममनसोरपि ' । रहस्यं-( रहस्+यत् ) रहसि भवं रहस्यं ( गोप्यं ) a secret प्रतिवक्तुं-( प्रति+√वच्+तुमुन् ) to tell me Some books read प्रतिबोधयिष्यसि ( thou wilt kindly let me know) instead of प्रतिवक्तुमर्हसि ॥ ४० ॥ Change of Voice :-( हे ) तपोधने, अतः अत्र द्विजाति- भावाद् उपपन्नचापलेन अनेन जनेन बहुक्षमां भवतीं किञ्चित् प्रष्टुमनसा ( भूयते ), चेद् रहस्येन न ( भूयते ) तर्हि ( त्वया ) प्रतिवक्तुं अर्ह्यते ॥ ४० ॥ Hindi Translation :-हे तपस्विनि, इस लिये इस ( तुम्हारी तपस्या ) के बारे में, ब्राह्मण होने के कारण प्रगल्भ हुआ यह व्यक्ति ( मैं ) अत्यन्त सहनशील आप से कुछ पूछने की इच्छा वाला है, यदि कोई गुप्त बात न हो तो आप उत्तर देने की कृपा करें ॥ ४० ॥

( १०७ ) ENGLISH TRANSLATION —Hence, O one whose riches consist of penance, this I, in whom curiosity is aroused on account of my being a Brahmana, am desirous of asking something to thee, who is capable of great forbearance. If it be not a secret, thou mayst kindly give a reply 40 PURPORT IN SANSKRIT :—यतोऽहं त्वत्तोऽभिन्नः, ब्राह्मण- त्वाच्च तव विषये ज्ञ तु मे महत्कुतूहलम्, अतोऽहं त्वां किञ्चित्प्रष्टु- मिच्छामि । त्वया च क्रोधो न कार्यो यतस्त्वं तपस्विनी बहुतमा- युक्ता च । हे तपस्विनि पार्वति, अधुना यद्यस्मिन् विषये किञ्चिद् गोप्यं न भवेत् तर्हि कृपया कथनीयम् ॥ ४० ॥ कुले प्रसूतिः प्रथमस्य वेधस- स्त्रिलोकसौन्दर्यमिवोदितं वपुः । अमृग्यमैश्वर्यसुखं नवं वय- स्तपः फलं स्यात्किमतः परं वद ॥ ४१ ॥ प्रष्टव्यमाह । कुल इति । प्रथमस्य वेधसः हिरण्यगर्भस्य कुले अन्ववाये । प्रसूतिः उत्पत्तिः । 'यज्ञार्थं हि मया सृष्टो हिमवान- चलेश्वरः ' । इति ब्रह्मपुराणवचनात् । वपुः शरीरं त्रिलोकसौन्दर्यं त्रयाणां लोकानां सौन्दर्यं इव उदितं एकत्र समाहृतम् । ऐश्वर्यसुखं संपत्सुखं अमृग्यं अन्वेषणीयं न भवति । किं तु सिद्धमेवेत्यर्थः । वयः नवम् । यौवनमित्यर्थः अतः परं अतोऽन्यत् किं तपःफलं स्यात् वद अस्ति चेदिति शेषः । न किञ्चिदस्तीत्यर्थः ॥ ४१ ॥ PROSE ORDER :—प्रथमस्य वेधसः कुले प्रसूतिः, वपुः त्रिलोकसौन्दर्यमिव उदितम्, ऐश्वर्यसुखं अमृग्यम्, वयः नवम्, अतः परं किं तपः फलं स्याद् इति वद् ॥ ४१ ॥

( १०८ ) NOTES :—प्रथमस्य—सर्वाद्यस्य the first or primeval. ब्रह्मणः of Brahman , the creator or progenitor of mankind ‘ ब्रह्मा प्रजापतिर्वेधा विधाता विश्वसृड्विधिः ’ इत्यमरः। वेधस् is declined as वेधाः वेधसौ, वेधसः । वेधसं, वेधसौ, वेधसः । वेधसा, वेधोभ्याम् etc प्रसूतिः—birth The mountain Himālaya, the father of Pārvatī, was created by Brahman. Cf ‘ यज्ञार्थं हि मया सृष्टो हिमवान- चलेश्वरः ’ quoted above by Mallīnāth त्रिलोकसौन्दर्य— त्रयश्च ते लोकास्त्रिलोकः, तस्य सौन्दर्य त्रिलोकसौन्दर्य the beauty of the three worlds The comp of त्रिलोक should not be expounded as त्रयाणां लोकानां समाहारः in which case we should expect it to be त्रिलोकी । सौन्दर्य—( सुन्दर+ष्यञ् ) सुन्दरस्य भावः सौन्दर्य beauty. उदितं—( उद् +√ इ+क्तः ) उत्पन्नं manifested at one place For the idea Cf ‘ सा निर्मिता विश्वसृजा प्रयत्नादेकस्थ- सौन्दर्यदिदृक्षयेव ’ कुमारसम्भवम् १ ४६ । Pārvatī being excessively handsome she has been regarded as if the manifestation at one place of the beauty of all the three worlds. ऐश्वर्यसुखम्—( ईश्वर+ष्यञ् ) ऐश्वर्यस्य ( सम्पत्तेः ) सुखं happiness of affluence. ऐश्वर्य means wealth of every kind अमृग्यं—( √ मृग् to search+यत् ) न मृग्यं अमृग्यम् not to be sought for. The suffix is added by ‘ अचो यत् ’ पा० ३ । ६७ । Pārvatī did not need hanker after any kind of wealth for her father's residence was the home of every sort of wealth. वयः —age. नवं—नूतनं fresh, i. e. young age. अतः परम्—

( १०६ ) besides this—the things enumerated in the first three lines of the verse तपः फलं—तपसः फलं the fruit of penance Shiva means to say that Parvati being already in possession of all those things, namely noble birth, excessive beauty, happiness of wealth and young age, for the acquisition of which people generally resort to practise penance, he failed to understand the cause of her penance and so asked the question 41. CHANGE OF VOICE :—प्रथमस्य वेधसः कुले प्रसृत्या ( भूयते ), वपुषा त्रिलोकसौन्दर्येण इव उदितेन ( भूयते ), ऐश्वर्य- सुखेन अमृग्येन ( भूयते ), वयसा नवेन ( भूयते ), अतः परं केन तपः फलेन भूयेत इति ( त्वया ) उच्यताम् ॥ ४१ ॥ HINDI TRANSLATION :—( मनुष्य जाति के ) प्रथम उत्पादक ब्रह्मा के वंश में ( तुम्हारा ) जन्म है, शरीर मानो तीनों लोकों की सुन्दरता एकत्रित हो गई हो, सम्पत्ति का सुख (तुम्हें) ढूँढना नहीं, आयु नई है, तो बताओ तो इससे बढ़ कर और क्या तपस्या का फल हो सकता है ? ॥ ४१ ॥ ENGLISH TRANSLATION —( Thy ) birth is in the family of Brahman, the first creator ; body is as if it were the manifestation of the ( collected ) beauty of the three worlds , happiness of affluence need not be sought after ( by thee ), age is fresh Then, please tell what else than these can be the fruit of penance ? 41 कु० सं०—३

( ११० ) PURPORT IN SANSKRIT :— संसारे प्रायेण जनाः श्रेष्ठकुल- जन्मार्थं, सौन्दर्यार्थं, सम्पत्त्यर्थं, यौवनार्थं वा नानाविधानि तपांसि कुर्वन्ति, परं तानि सर्वाण्यपि ते स्वभावतः सिद्धानि—आद्यब्रह्मणः कुले ते जन्म जातम्, तव देहस्त्रयाणामपि लोकानां एकत्रीकृतं लावण्यमिवास्ति, तव पितुर्गृहंनस्त्रिलैश्वर्यस्य निधानम्, आयुश्च ते नूतनम् । तर्हि त्वं किमर्थं कठिनं तप आचरसि ? त्वं बुद्धिमती कारणं विना न तपस्यसि—तदेव कारणमहं ज्ञातुकामः ॥ ४१ ॥ भवत्यनिष्टादपि नाम दुःसहा- न्मनस्विनीनां प्रतिपत्तिरीदृशी । विचारमार्गप्रहितेन चेतसा न दृश्यते तच्च कृशोदरि त्वयि ॥ ४२ ॥ भवतीति । दुःसहात् सोढुमशक्यात् अनिष्टाद् भर्त्रादिकृतात् अपि मनस्विनीनां धीरस्त्रीणां ईदृशी तपश्चरणलक्षणा प्रतिपत्तिः प्रवृत्तिः । ‘ प्रतिपत्तिस्तु गौरवे । प्राप्तौ प्रवृत्तौ प्रागल्भ्ये ’ इति केशवः । भवति नाम । नामेति संभावनायाम् । विचारमार्गप्रहितेन विचारमार्ग प्रहितेन चेतसा चित्तेन तद् अनिष्टं च हे कृशोदरि त्वयि न दृश्यते । विचार्यमाणे तदपि नास्त्यसंभावितत्वा- दित्यर्थः ॥ ४२ ॥ PROSE ORDER :—दुःसहाद् अनिष्टादपि मनस्विनीनां ईदृशी प्रतिपत्तिः भवति नाम, ( परं ) ( हे ) कृशोदरि, विचारमार्गप्रहितेन चेतसा तत् च त्वयि न दृश्यते ॥ ४२ ॥ NOTES :—दुःसहात्—( दुर्+√सह्+खल् ) दुःखेन सह्यते इति, तस्मात् which can be borne with difficulty. Adjective of अनिष्टात्—(√ इष्+क्तः) न इष्टात् अनिष्टात् from an undesirable thing; an evil ; a wrong.

( १११ ) Mallinatha says भर्त्रादिकृतान् i e, done by one's hus- band or others. मनस्विनीनां—( मनस् + विनिः + ङीप् ) प्रशस्तं मनो विद्यते यासां ताः मनस्विन्यः, तासां, (अभिमानवतीनाम्) high- minded or virtuous ladies ईदृशी—( इदम् + √दृश् + कञ्

  • ङीप् ) इयमिव दृश्यते इति ईदृशी such; like it. कञ् is added by ' त्यदादिषु दृशोऽनालोचने कञ् ' पा० ३ २. ६० । प्रतिपत्तिः—( प्रति + पद् + क्तिन् ) प्रवृत्तिः a course of action ; inclination. ' प्रतिपत्तिस्तु गौरवे । प्राप्तौ प्रवृत्तौ प्रागल्भ्ये ' इति केशवः । नाम—संभाव्यते an indeclinable used in the sense of possibility कृशोदरि—( कृश + उदर + ङीप् ) कृशं उदरं ( कटिप्रदेशः ) यस्याः सा कृशोदरी, सम्बोधने कृशोदरि O one of slender waist The suffix ङीप् is added option- ally by ' नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ' पा० ४ १ ५५ । i e, a Bahuvrīhi compound ending in नासिका etc optionally takes ङीप् So the other form is कृशोदरा । Some books give तनोदरि for कृशोदरि, It also means the same विचारमार्गप्रहितेन—विचारस्य मार्गे प्रहितं विचार- मार्गप्रहितं, तेन directed through channel of thought i e, after thinking चेतसा—चित्तेन by the mind. तत्— तदनिष्टं i e a wrong done to you त्वयि—with regard to you. न दृश्यते—न ज्ञायते is not known 42. CHANGE OF VOICE :—दुःसहाद् अनिष्टाद् अपि मनस्वि- नीनां ईदृश्या प्रतिपत्त्या भूयते नाम, ( हे ) कृशोदरि, विचारमार्ग- प्रहितं चेतः तत् च त्वयि न पश्यति ॥ ४२ ॥ HINDI TRANSLATION :—न सहने योग्य बुराई से भी मानिनी स्त्रियों का ऐसा (कार्य करने को) मन का झुकाव हो

( ११२ ) सकता है, (परन्तु) हे सुन्दर कटि वाली, विचार करने वाले मन से तुम्हारे बारे में वह भी (सम्भव) नहीं दीखता ॥ ४२ ॥ ENGLISH TRANSLATION —Such a course of action is possible in case of high minded ladies on account of any wrong (done to them), but, O one of slender waist, no such wrong is known in thy case by the mind directed through the channel of thought. 42 PURPORT IN SANSKRIT.—लोके कदाचिद् भर्त्रादिभि- सम्बन्धिभिस्तिरस्कृताः मानिन्यो नायस्तपोऽर्जन स्वीकुर्वन्ति, परं हे सुमध्यमे, त्वामन्तरेण तु एतदपि तपस्यायाः कारणं न ज्ञायते ॥ ४२ ॥ अलभ्यशोकाभिभवेयमाकृति— र्विमानना सुभ्रु कुतः पितुर्गृहे । पराभिमर्शो न तवास्ति कः करं प्रसारयेत् पन्नगरत्नसूचये ॥ ४३ ॥ अनिष्टाभावमेव प्रपञ्चयति । अलभ्येति । हे सुभ्रु । इयं त्वदीया आकृतिः मूर्त्तिः अलभ्यशोकाभिभवा अलभ्यो लब्धुमनर्हः शोकेन भर्त्राद्यवमानजेन दुःखैनाभिभवस्तिरस्कारो यस्या सा तथोक्ता । दृश्यत इति शेष । असंभावितश्चायमर्थ इत्याह पितुर्गृहे विमानना अवमानः कुतः । न संभाव्यत एवेत्यर्थः । न चाप्यन्यस्माद्वा- बीत्याह पराभिमर्शः परधर्षणं तु तव नास्ति । पन्नगरत्नसूचये फणिशिरोमणिशलाकां ग्रहीतुमित्यर्थः । ‘ क्रियार्थोपपदस्य च कर्मणि स्थानिनः ’ इति चतुर्थी । करं हस्तं कः प्रसारयेत् । सुभ्र इत्यत्र भ्रूशब्दस्योवङ्स्थानीयत्वात् ‘नेयङुवङ्स्थानावस्त्री'

( ११३ )

इति नदीसंज्ञाप्रतिषेधान् ' अम्बार्थनद्योर्ह्रस्वः । इति ह्रस्वत्वं नास्ति । तेन ह्रस्वः प्रामादिकः इति केचित् । अन्ये तु ' अप्राणि- जातेश्चारज्ज्वादीनाम् ' इत्यत्र अलावूः कर्कन्धूः इत्युकारान्तादप्यूङ्- प्रत्ययमुदाजहार भाष्यकार एतस्मादेव ज्ञापकात् क्वचिदूकारान्त- स्याप्यूङन्तत्वान्नदीत्वे ह्रस्वत्वमित्याहुः । अत एवाह वामनः— ' ऊकारान्तादप्यूङ्प्रवृत्तेः इति । ' ' सुभ्रूः कुतस्तातगृहेऽवमाननम् ' इति पाठान्तरकरणं तु साहसमेवात्रोपपत्तिसम्भवात् । अन्यत्रापि ' सुभ्रु त्वं कुपितेत्यपास्तमशनं त्यक्ता कथा योषिताम् ' इत्यादि- प्रयोगदर्शनाद्वंशस्थवृत्ते पादादौ जगणभङ्गप्रसङ्गाच्चेत्यलं गोष्ठीभिः ॥ ४३ ॥ PROSE ORDER :—(हे) सुभ्रु, इयं आकृतिः अलभ्यशोका- भिभवा, (किञ्च) पितुः गृहे विमानना कुतः, तव पराभिमर्शः न अस्ति, कः पन्नगरत्नसूचये करं प्रसारयेत् ? ॥ ४३ ॥ NOTES :—सुभ्रु—शोभने भ्रुवौ यस्याः सा सुभ्रू, तस्याः सम्बोधने O thou of beautiful eye-brows According to the author of Siddhántakaumudi the Vocative sin- gular of सुभ्रू should be सुभ्रूः and not सुभ्रु as given here, because the long ऊ is shortened in Voc sing of only those words which are termed as नदीसंज्ञक ( i. e, the words of feminine gender ending in long ई or ऊ ) by 'अम्बार्थनद्योर्ह्रस्वः' पा० ७ ३ ।१०७। i e, the words meaning ' mother ' and नदीसंज्ञक are shortened in the Voc. sing, and as the word सुभ्रू is not termed as such because of the rule ' नेयङुवङ्स्थानावस्त्री ' पा० १.४.४ । which means that the words of which ई or ऊ are replaced by इयङ् or उवङ्, with the exception of स्त्री

( ११४ ) are not termed as नदी, its ऊ should not have been shortened But Mallinatha defends it by saying that according to the Bhashyakara (Patanjali) the shorten- ing of the final vowel may be allowed in rare cases, for in his commentary on ‘अप्राणिजातेश्चारज्जवादीनामुप- संख्यानम्’ he has given the instance of अलाबु, कर्कन्धू। thereby indicating that sometimes ऊकारान्त words may take ऊङ् and be नदीसंज्ञक so that they can shorten their vowel in the Voc sing Vamana also supports this view by saying ‘ऊकारान्तादप्यूङ्प्रवृत्तेः’ Thus ऊङ् will be added to सुभ्रू and then its ऊ not being replaced by उवङ् it will be termed as नदी, which means it will be shortened in Voc sing Other poets also have used it in short उ, for instance Cf ‘सुभ्रु त्वं कुपितेत्यपास्त- मशनं०’ quoted by Mallinatha इय—this, i e, yours. अलभ्यशोकाभिभवा—(√लभ्+यत्) न लभ्यो शोकश्च अभि- भवश्च (तिरस्कारश्च) यया सा अलभ्यशोकाभिभवा which is incapable of grief and humiliation Or, न लभ्यः शोकेन अभिभवो यया सा which is incapable of the humiliation of grief It is a supposition that beautiful persons can not be subject to misery विमानना—(√मान्+युच्) अपमानः insult, disrespectful treatment. In कुतः (किम् +तसिल्) किम् is changed to कु by ‘कु तिहोः पा० ७.२.१४। परामर्शः—(√मृश् to touch+घञ्) परेण अभि- मर्शः परामर्शः being touched or outraged by others. पन्नगरत्नसूचये। पन्नगः—(पन्न+√गम्+डः) पन्नं गच्छतीति

( ११५ ) पन्नग (सर्पः) creeping low, i e, a serpent. रत्नस्य सूचिः रत्नसूचिः (the sharp point of the gem ), पन्नगस्य रत्न- सूचिः पन्नगरत्नसूचिः. तस्यै पन्नगरत्नसूचये ( सर्पमणिशलाकामा- दातुं ) the sharp point of the serpent's gem, i e., in order to catch it by its end. The Dative in सूचये is used because of ‘क्रियार्थोपपदस्य कर्मणि स्थानिनः’ पा० २.३.१४ । i e, the object governed by an infinitive mood not actually used but implied, is put in the Dative Thus सूचये means सूचिं ग्रहीतुम् । करं—हस्त an arm प्रसारयेत्—(प्र + √सृ + णिच् + लिङ्) may extend or stretch out As it is not possible to catch hold of the gem of a serpent's hood, so it was imposible for any one to threaten the person of Parvati 43 CHANGE OF VOICE :—(हे) सुभ्र, अनया आकृत्या अलभ्य- शोकाभिभवया (भूयते), पितुः गृहे विमाननया कुतः (भूयते), तव पराभिमर्शेन न भूयते, केन पन्नगरत्नसूचये करः प्रसार्येत ? ॥ ४३ ॥ HINDI TRANSLATION :—हे सुन्दर भौं वाली, यह तुम्हारा रूप दुःख से पीडित होने योग्य नहीं है, ( और फिर ) पिता के घर पर अपमान कैसा ? तुम्हें कोई दूसरा व्यक्ति छू (धमका) भी नहीं सकता, (क्योंकि) कौन साँप की मणि की नोक के (लेने के) लिये हाथ बढ़ायेगा ? ॥ ४३ ॥ ENGLISH TRANSLATION —O one of beautiful eye- brows, this ( thy ) form is incapable of the humiliation of grief, and whence can there be any disrespectful treatment at the father's house? Nor can there be any

( ११६ ) insult from others , ( for ) who can stretch his arm for ( snatching away ) the pointed end of a serpent's gem ? 43. Purport in Sanskrit — हे शोभनभ्रूयुक्ते पार्वति, ‘सामुद्रिकलक्षणयुक्ता आकृतयोऽनिष्टभाजो न दृष्टाः’ इति न्यायात् शुभलक्षणोपेतं ते सुन्दरं रूपं दुःखयोग्यं नास्ति । कुमारित्वात् भर्तृकृतानिष्टस्य तु शङ्केव नास्ति, परं ते पिताऽपि त्वयि नितरां स्निह्यति अतस्तव जनकस्य गृहेऽपि तेऽपमानः केनापि कर्तुं न शक्यत । भर्तृपित्राद्यतिरिक्तः कश्चिदन्यस्त्वां तिरस्कुर्यादिति शङ्कायाप्यलम्, न हि कश्चिदपि सर्पस्य शिरोमणिं ग्रहीतुं उद्यमं करोति। यथा हि सर्पमणेर्ग्रहणं दुष्करमेवमेव ते धर्षणमपीति तात्पर्यम् ॥ ४३ ॥ किमित्यपास्याभरणानि यौवने धृतं त्वया वार्धकशोभि वल्कलम् । वद प्रदोषे स्फुटचन्द्रतारका विभावरी यद्यरुणाय कल्पते ॥ ४४ ॥ किमिति । हे गौरि किमिति केन हेतुना यौवने त्वया आभर- णानि अपास्य विहाय । वृद्धस्य भावो वार्धकम् । मनोज्ञादित्वात् वुञ्प्रत्ययः । ‘वार्धकं वृद्धसंघाते वृद्धत्वे वृद्धकर्मणि’ इति विश्वः । तत्र शोभत इति वार्धकशोभि वल्कलं धृतम् । प्रदोषे रजनीमुखे स्फुटाः प्रकटाश्चन्द्रस्तारकाश्च यस्याः सा स्फुटचन्द्रतारका विभावरी रात्रिः अरुणाय सूर्यसुताय कल्पते यदि अरुणं गन्तुं कल्पते किम् । वद ब्रूहि । ‘क्रियार्थोपपदस्य’ इत्यादिना चतुर्थी । दीप्यमान- शशाङ्कतारके प्रदोषे यद्यरुण उदेति ततो विभूषणापहारेण तव वल्कलधारणं संघटत इति भावः ॥ ४४ ॥ ‘

( ११७ ) PROSE ORDER :—( हे गौरि ), त्वया यौवने आभरणानि अपास्य वार्द्धकशोभि वल्कलं किं इति धृतम् ? यदि स्फुटचन्द्र- तारका विभावरी प्रदोषे अरुणाय कल्पते ( तर्हि ) वद ॥ ४४ ॥ NOTES :—यौवने—( युवन् + अण् ) यूनो भावः यौवनम्, तस्मिन् in young age अपास्य—( अप + √ अस् to throw

  • ल्यप् ) त्यक्त्वा having cast वार्द्धकशोभि । वार्द्धकम्— ( वृद्ध + वुञ्—अक् ( वृद्धस्य भावः वार्द्धकम् old age The suffix वुञ् which is replaced by अक् is added by ‘ द्वन्द्व- मनोज्ञादिभ्यश्च ’ पा० ५ १ १३३ । वार्द्धके शोभते इति वार्द्धकशोभि (√ शुभ् to shine + णिनिः) which looks good in old age, suitable in old age Adj of वल्कलम्—a bark garment, which is generally put on by ascetics स्फुट- चन्द्रतारका—स्फुटाः ( प्रकाशमानाः ) चन्द्रः तारकाश्च यस्यां सा स्फुटचन्द्रतारका in which the moon and the stars are shining विभावरी—( वि + √ भा to shine + वनिप् + ङीप् ) विभाति इति विभावरी, रात्रिः night. ‘ विभावरीतमस्विन्यौ रजनी यामिनी तमी ’ इत्यमरः । The suffix ङीप् is added to make it fem. by ‘ वनो र च ’ पा० ४ १.७ । which is also responsible for changing the न of वनिप् into र । प्रदोषे— रात्रिमुखे; रात्रे पूर्वभागे during the first part of night, { i e, when the night is in its youth ) ‘ प्रदोषो रजनी- मुखम् ’ इत्यमरः । अरुणाय—for the dawn. अरुण is described as the son of कश्यप and विनता and the elder brother of गरुड । He has no thighs and so is known as अनूरु । He is also personified as the charioteer of the sun. Note that अरुण also means ‘ red ’

( ११८ ) hence the red colour which pervades the sky before the sunrise This gives it the title of ' the harbinger of the dawn.' In अरुणाय the Dative is used because the sense of infinitive is understood अरुणाय—अरुणं गन्तुं , अरुणोदयं कर्त्तुम् । Cf ‘ क्रियार्थोपपदस्य च० ’ quoted in the notes on पन्नगरत्नसूचये in the 43rd verse above. कल्पते—प्रभवति to be able or fit for Shiva means to say as the night in its youth can not think of the dawn, so Parvati also should not have thought of putting on bark garments in her youth The connection between the moon and the stars and Aruna on one hand and the ornaments and bark garment on the other is made all the more effective when their respective lustre and colour are taken into consideration Ornaments glitter like the moon and the stars, while bark is of the same colour as the dawn 44 CHANGE OF VOICE :—( हे गौरि ) त्वं यौवने आभरणानि अपास्य वार्धकशोभि वल्कल किमिति धृतवती ? यदि स्फुटचन्द्र- तारकया विभावर्या प्रदोषे अरुणाय कल्प्यते तर्हि ( त्वया ) उद्य- ताम् ॥ ४४ ॥ HINDI TRANSLATION :—( हे पार्वति ) तुम ने युवावस्था में आभूषणों को छोड़ कर वृद्धावस्था में अच्छी लगने वाली वृक्ष की छाल क्यों धारण कर ली है ? बता तो सही, कहीं चमकते हुए चन्द्रमा तथा तारों वाली रात्रि प्रारम्भ में ही प्रभात में परिणत हो सकती है ? ॥ ४४ ॥

( ११६ ) ENGLISH TRANSLATION — How is it that having aban doned ornaments, thou hast, in youth, put on a bark- garment fit for the old age? Say if the night at its beginning, full of shining moon and stars, is fit to receive the dawn 44 PURPORT IN SANSKRIT :— एष ते भूषणधारणसमयो न तु वल्कलधारणस्य, तर्हि, हे पार्वति ! केन कारणेन त्वया भूषणानि त्यक्त्वा वृद्धावस्थायोग्यं वल्कलधारणं कृतम् ? किं कदाचिदेतद् भवितुं शक्नोति यच्चन्द्रतारकैः शोभमाना रात्रिःअकाल एव प्रभाते परिणता भवेत् ? यथा हि रात्रे प्रारम्भ एव शशाङ्कतारका अस्तं गच्छेयु अरुणांश्चोदय गच्छेदिति असंगतमेवमेव नवे वयसि तव आभरणानि त्यक्त्वा वल्कलधारणमसंगतम् ॥ ४४ ॥ दिवं यदि प्रार्थयसे वृथाश्रमः पितुः प्रदेशास्तव देवभूमयः । अथोपयन्तारमलं समाधिना न रत्नमन्विष्यति मृग्यते हि तत् ॥ ४५ ॥ तप प्रयोजनं निराकर्तुमाह । दिवमिति । दिवं स्वर्गं प्रार्थयसे कामयसे यदि तर्हि श्रम तपश्चरणप्रयास वृथा निष्फलः । यदि स्वर्गार्थं तप्यसे तत श्रमं मा कार्षी । कुत । तव पितुः हिमवतः प्रदेशा देवभूमय । स्वर्गपदार्था तत्रत्या इत्यर्थः । अथ उपयन्तारं वरं प्रार्थयसे तर्हि समाधिना तपसा अलम् । न कर्त्तव्यमित्यर्थ । निषेध्यस्य निषेधं प्रति करणात्वात्तृतीया । तथा हि । रत्नम् । कर्तृ । न अन्विष्यति न मृगयते । ग्रहीतारमिति शेषः । किन्तु तत् रत्नं मृग्यते । ग्रहीतृभिरिति शेषः । न हि वरार्थे त्वया तपसि वर्तितव्यं किन्तु तेनैव त्वदर्थमिति भावः ॥ ४५ ॥

( १२० ) PROSE ORDER —यदि दिवं प्रार्थयसे ( तर्हि ) श्रमः वृथा, ( यतः ) तव पितुः प्रदेशाः देवभूमयः ( सन्ति ), अथ उपयन्तारं ( प्रार्थयसे ताह् ) समाधिना अलम्, रत्नम् न अन्विष्यति हि तद् मृग्यते ॥ ४५ ॥ NOTES —दिव—स्वर्ग heaven. प्रार्थयसे—अभिलषसि seek श्रमः—effort ; penance ‘ अभ्यासे शस्त्रविद्यादौ वेदे तपसि च श्रमः ’ इति भोजः । पितुः — जनकस्य i e., of the Himalaya देवभूमयः—देवानां भूमय देवभूमयः the land of gods, i. e, where the gods live So, when the regions of your father are the land of gods it is no use trying to seek heaven उपयन्तार—( उप+√यम्+तृच् ) वरं husband √यम् to restrain, when preceded by उप means ‘ to marry. ’ समाधिना—तपसा austerities Instru- mental is used with अलम्, when it means ‘ enough of ‘ अलं—न कर्त्तव्यमित्यर्थ i e., do not practise it न अन्विष्यति—न मृगयते does not seek रत्नं is the subject of अन्विष्यति and its object ग्राहकं ( a customer ) is under- stood Similarly in the clause तद् मृग्यते, तद् ( a jewel ) is the object and the subject ग्राहकैः ( by the customers ) is understood मृग्यते—अन्विष्यते is sought for Passive voice present tense of √मृग् to seek The expression ‘ न रत्नमन्विष्यति मृग्यते हि तत् ’ is a general statement which means that it is not the business of jewels or other valuable things to find out customers for them- selves, but they are sought for by customers So Shiva means to say that Parvati being possessed