कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Kumarasambhavam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा
( २८ ) ( निबन्धनं ) यस्याः सा, तया which was fastened then for the first time Adj of तया—मौञ्ज्या । निबद्धं—( नि+ √बन्ध्+क्त) tied रशनागुणास्पदम्। रशना—मेखला a girdle. रशनागुणाः—रशनायाः गुणाः the cord of a girdle आस्पदं— स्थानं place रशनागुणस्य आस्पदं the place for the cord of a girdle i e, the waist, the thigh or the hip सरागं— रागेण सह (लोहितं) red अकारि—कृतम् was made. Passive Aorist of √कृ to do The waist-band being made of munja grass was very rough and, moreover, it was worn by Parvati for the first time, hence her waist was made red by it CHANGE OF VOICE:—तया वनाय प्रतिक्षणं कृतरोमविक्रिया त्रिगुणा या मौञ्जी बभ्रे, तत्पूर्वनिबद्धा सा अस्याः रशनागुणास्पदं सरागं अकार्षीत् ॥ १० ॥ HINDI TRANSLATION :—उसने वन के निमित्त प्रतिक्षण में रोमाञ्चित करने वाली, तीन लड़ की, मूंज की बनी जिस मेखला को धारण किया, तभी पहिली बार बाँधी हुई, उसने उसकी मेखला बाँधने की जगह (कमर) को लाल कर दिया ॥ १० ॥ ENGLISH TRANSLATION :—Her waist (lit the place for the cord of a girdle was made red by the girdle of Munja grass, comprising three threads, which was fastened then for the first time, which she wore for her penance (and) which made her hair stand erect every moment 10.
( २१ ) Purport in Sanskrit :-पूर्वं तु पार्वती कटिप्रदेशे क्षौमादिनिर्मितां कोमलां काञ्चीं दधार, अधुना तु व्रतनियमानुसारं तया मुञ्जतृणनिर्मिता त्रिरावृत्ता कर्कशा काञ्ची धृता । इयं काञ्ची पारुष्यात् क्षणे क्षणे तस्याः शरीरे रोमाञ्चमकरोत् , यतश्च सा तद्धारणेऽनभ्यस्तासीत्तया तस्याः कटिप्रदेशः संघर्षणेन रक्ती- कृतः ॥ १०॥ विसृष्टरागादधरानिवर्तितः स्तनाङ्गरागारुणिताच्च कन्दुकात । कुशाङ्कुरादानपरिक्षताङ्गुलिः कृतोऽक्षसूत्रप्रणयी तया करः ॥ ११ ॥ विसृष्टेति । तया देव्या विसृष्टरागात् त्यक्तलाक्षारसरञ्जनात् अधरात् अधरोष्ठात् निवर्तितः । निसृष्टरागादिति पाठे नितरां त्यक्तलाक्षारागात् । रागत्यागेन निष्प्रयोजनत्वादिति भावः । तथा ( स्तनाङ्गरागारुणितात् ) स्तनाङ्गरागेण अरुणितात् अरुणीकृतात् पतनसमये तस्य स्तनयोरुपरोधात् इति भावः । कन्दुकात च निवर्तितः । ( कुशाङ्कुरादानपरिक्षताङ्गुलि ) कुशाङ्कुराणामादानेन लवनेन क्षताः व्रणिताः अङ्गुलयो यस्य स तथोक्त करः पाणिः अक्षसूत्रप्रणयी अक्षमालासहचरः कृत । Prose Order :-तया विसृष्टरागात् अधरात् स्तनाङ्ग- रागारुणितात् कन्दुकात च निवर्तितः करः कुशाङ्कुरादानपरि- क्षताङ्गुलि अक्षसूत्र प्रणयी कृतः ॥ ११ ॥ Notes —विसृष्टरागात । विसृष्टः-( वि+ √सृज्+क्तः ) त्यक्तः given up ; left ; removed. √ सृज् to create, changes its meaning when preceded by वि । रागः-( √रञ्ज्+ कु० सं०-४
( ३० ) घञ् ) colour ; the act of colouring. विसृष्टः रागः यस्य, तस्मात् of which painting had been given up, or from which the red colour had disappeared Before taking to the life of ascetism Parvati used to paint her lower lip with lac—dye, but, now she could not attend to such decorations अधरात्—from the lower lip. स्तनाङ्ग- रागारुणितात् । अङ्गरागः—विलेपनम् scented cosmetic ; application of unguents to the body ( especially after bath ). अरुणितात्—रक्तीकृतात् reddened. अरुण + इतच् ( ' तदस्य संजातं तारकादिभ्य इतच् ' पा० ५. २ ३६ ) स्तनयोः अङ्गरागेण अरुणितात् reddened by the unguent of her breasts While playing, the ball sometimes touched the breasts and it so was reddened by the paints applied to them कन्दुकातू — from the ball. Like the painting of lip- Parvati had given up playing with ball also निवर्तितः—वारितः turned away The hands were no longer employed for the two acts mentioned above. कुशाङ्कुरादानपरिक्षताङ्गुलिः—कुशस्य अङ्कुराणां आदानेन परि- क्षता अङ्गुलयो यस्य सः the fingers of which were pricked while plucking the tender blades of kusha grass. अक्षसूत्रप्रणयी—( प्रणयः+इनिः ) अक्षाणां सूत्रस्य ( रुद्राक्ष- मालायाः ) प्रणयी ( प्रेमवान् ) the friend of the rosary of Aksha beads, i e, the hand was employed in counting the beads कृतः—was made. The poet means to say that on assuming the role of ascetics, Parvati substi- tuted plucking the kusha grass and counting of beads
( ३१ ) for painting of the lower lip and playing with the ball. CHANGE OF VOICE:— सा विसृष्टरागात् अधराद् स्तनाङ्ग- रागारुणितात् कन्दुकात् च निवर्तितं करं कुशाङ्कुरादान- परिक्षताङ्गुलि अक्षसूत्रप्रणयिनं च कृतवती ॥ ११ ॥ HINDI TRANSLATION:— छूट गया है रंगना जिसका ऐसे ओठ (के रंगने) से तथा स्तनों के अङ्गलेप से लाल हुई गेंद (के खेलने) से निवृत्त हुए हाथ को उसने कुश के अङ्कुरों के काटने से घायल अंगुली वाला और रुद्राक्ष की माला से प्रेम करने वाला (जपने वाला) बना दिया ॥ ११ ॥ ENGLISH TRANSLATION — The hand, which was turned away from her lower lip, the painting of which had been given up, and from the ball reddened by the unguent of her breasts, was made by her such as the fingers of which were pricked by plucking the tender blades of kusha grass (and) the friend of the rosary of Aksha beads 11 PURPORT IN SANSKRIT:— पूर्वं तु पार्वती स्वशरीरशोभार्थे स्वकरेणाधरे लाक्षारसादिरागलेपमकार, मनोविनोदार्थञ्च कन्दुकेन चिक्रीड । तपःकाले तु तयाधररञ्जनं कन्दुकक्रीडनञ्च परित्यक्तमतः स्वकरमनयोरप्रयुज्य तेन पूजार्थं हरिणानां भक्षणार्थं च कुशानां लवनञ्चकार, येन तस्या अङ्गुलयो व्रणयुक्ताः जाताः, अपरञ्च सा तेन करेणानिशं रुद्राक्षमालया जजाप ॥ ११ ॥ महार्हशय्यापरिवर्तनच्युतैः स्वकेशपुष्पैरपि या स्म दूयते । अशेत सा बाहुलतोपधायिनी निषेदुषी स्थण्डिल एव केवलम् ॥ १२ ॥
( ३२ ) महार्हेति । (महार्हशय्यापरिवर्त्तनच्युतैः ) महान् अर्हो मूल्यं यस्याः सा महार्हा श्रष्ठा या शय्या तस्यां परिवर्त्तनेन लुण्ठनेन च्युतैर्भ्रष्टैः स्वकेशपुष्पै अपि या देवी दूयते स्म क्लिश्यति स्म । पुष्पाधिकसौकुमार्यात् इति भावः । सा देवी बाहुलतां उपधत्ते उपधानीकरोति इति बाहुलतोपधायिनी सती केवल संस्तरण- रहिते स्थण्डिले भूमौ एव अशेत शयितवती । तथा निषेदुषी उपविष्टा च । 'कसुश्च' इति क्वसुः । 'उगितश्च' इति ङीप् । भूमावेव शयनादिव्यवहारो न जातु पर्यङ्केत्यर्थः । PROSE ORDER :—या महार्हशय्यापरिवर्त्तनच्युतैः स्वकेश- पुष्पै. अपि दूयते स्म, सा बाहुलतोपधायिनी केवलं स्थण्डिले एव अशेत निषेदुषी च ॥ १२ ॥ NOTES :—महार्हशय्यापरिवर्त्तनच्युतैः । शय्या—(√शीङ्+ क्यप्) शय्यते अत्र इति शय्या a bed. च्युतैः (√च्यु+क्त ) भ्रष्टैः dropped महान् अर्हो (मूल्यं ) यस्याः सा महार्हा ; महार्हायां शय्यायां परिवर्तनेः च्युतानि (तत्पुरुषः) महार्हशय्या- परिवर्त्तनच्युतानि, तैः which were dropped down in her rollings on her costly bed स्वकेशपुष्पैः—स्वस्याः केशानां पुष्पैः by the flowers of her hair, i e, the flowers used for decorating the hair. दूयते स्म—क्लेशं प्राप experienced pain. √दूङ् परितापे to suffer pain, to be sorry, is conjugated as दूयते (लट्) दुदुवे (लिट्) दविष्यते (लृट्) अदविष्ट (लुङ्) स्म is a particle which when used with a present tense or present participle, gives them a past sense. Cf. 'लट् स्मे' पा० ३ २ ११८ । बाहुलतोपधायिनी —प्रशस्तो बाहुः बाहुलता, तां उपधत्ते इति बाहुलतोपधायिनी (√धा+णिनिः+ङीप्) who uses her creeper-like arm as a
( ३३ ) pillow Here the suffix णिनिः is added by ‘व्रते’ पा० ३ २.८० and so it indicates the observance of a vow. The word उपधानं (a pillow) is also derived from धा with उप—(उप + √धा + ल्युट्) उपधीयते इति उपधानम् । केवले —संस्तरणशून्ये uncovered ; bare स्थण्डिले—संस्कृतायां भूमौ on an earth-platform as opposed to a bed ‘स्थण्डिलं संस्कृता भूमिः’ हलायुधः । अशेत—शेते स्म slept Imperfect of √शी to sleep निषेदुषी—(नि + √सद् + क्वसुः + ङीप्) निषसाद sat In निषेदुषी which is a Perfect form लिट् is replaced by क्वसु suffix by ‘भाषायां सद्वसश्रुवः’ पा० ३ ४ १०८ and then ङीप् is added to make it feminine by ‘उगितश्च’ पा० ४ १ ६ । It is well-known that an ascetic is enjoined to sleep or sit on earth or on some other hard thing such as a wooden cot The verse indicates a remarkable change in the life of Parvati. For this Cf. शेते या किल हंसतूलशयने निद्राति सा स्थण्डिले, वस्ते या मृदुलं दुकूलमबला गृह्णाति सा वल्कलम् । या वा चन्दनपङ्कलेपशिशिरे धारागृहे वर्त्तते, पञ्चानामुदितोष्मणां हुतभुजां सा मध्यमासेवते ॥ पार्वती परिणय ४–२। CHANGE OF VOICE :—यया महार्हशय्यापरिवर्त्तनच्युतैः स्वकेशपुष्पैरपि दूयते स्म तया बाहुलतोपधायिन्या केवले स्थण्डिले एव अशय्यत निषेदे च ॥ १२ ॥ HINDI TRANSLATION :—जो अत्यधिक मूल्य वाली सेज पर करवट लेने से गिरे हुए अपने बालों के फूलों से भी कष्ट पाती
( ३४ ) थी, वह अब अपनी लता के समान भुजा का तकिया लगाकर नंगी भूमि पर ही सोती और बैठती थी ॥ १२ ॥ ENGLISH TRANSLATION —She, who would feel pain even by the flowers dropped down from her hair by her rollings on her costly bed, slept and sat on the bare earth-platform, using her creeper-like arm as a pillow 12. PURPORT IN SANSKRIT :—सा गौरी पूर्वं तु महामूल्ये शयने शेते स्म शयनकाले च लुण्ठनेन स्वकेशेभ्यः पतितैः कुसुमै- रपि तस्याः शरीरं पीडामलभत । तस्या देहः पुष्पेभ्योऽपि सुकु- मारतर आसीदित्यर्थः । परं व्रतानुष्ठानकाले सा स्वभुजे उपधा- नीकृत्यास्तरणरहिते भूभागे सुष्वाप निषसाद च ॥ १२ ॥ पुनर्ग्रहीतुं नियमस्थया तया द्वयेऽपि निक्षेप इवार्पितं द्वयम् । लतासु तन्वीषु विलासचेष्टितं विलोलदृष्टं हरिणाङ्गनासु च ॥ १३ ॥ पुनरिति । नियमस्थया व्रतस्थया तया देव्या द्वयेऽपि द्वयं पुनः ग्रहीतुं पुनरानेतुं निक्षेपः अर्पितं इव निक्षेपत्वेनार्पितं किमु । क्वचिद् द्वयीषु इति प्रामादिकः पाठः । कुत्र द्वये किं द्वयमर्पितमित्याह —तन्वीषु लतासु विलास एव चेष्टितं विलासचेष्टितं हरिणाङ्गनासु विलोलदृष्टं चञ्चलावलोकितं च । व्रतस्थायां तस्यां तयोरदर्शना- ल्लतादिषु दर्शनाच्चार्पितमिवेत्युत्प्रेक्षा न तु वस्तुतोऽर्पणमस्तीति भावः ॥ १३ ॥ PROSE ORDER :—नियमस्थया तया विलासचेष्टितं विलो- लदृष्टं च इति द्वयं तन्वीषु लतासु हरिणाङ्गनासु च इति द्वये अपि पुनः ग्रहीतुं निक्षेपः अर्पितं इव ॥ १३ ॥
( ३५ ) NOTES :—नियमस्था—( $\sqrt{स्था}+$कः ) नियमे तिष्ठतीति नियमस्था, तया by her, who was observing a vow. विलासचेष्टितं—विलासेन चेष्टितं or विलासरूपं चेष्टितं इति विला- सचेष्टितं sportive movements ; coquetry. विलास may be explained as—a form of feminine gesture considered as indicative of amorous sentiments. Cf ‘यानस्थाना- सनादीनां मुखनेत्रादिकर्मणाम् । विशेषस्तु विलासः स्यादिष्टसंदर्श- नादिना ।’ साहित्यदर्पणम् । In idiomatic Hindi it is known as नखरा or हावभाव । विलोलदृष्टं—विलोळं ( चञ्चल ) दृष्टं ( दृष्टिः ) विलोलदृष्टं ( कर्मधारयः ) unsteady glances Here दृष्टं ( $\sqrt{दृश्}+$क्तः ) is a noun and not a Past Part. द्वयं— द्वौ अवयवौ यस्य तत् द्वय ( द्वि+अयच् ) the two things ; having two parts ; a pair अयच् is added by ‘द्वित्रिभ्यां तयस्य अयज्वा’ पा० ५।२।४३ । The alternative form is द्वितयं । Similarly we have त्रितयं or त्रयं ( having three parts ) from त्रि । तन्वीषु—कृशासु slender. तन्वी is fem. from तनु । हरिणाङ्गनासु—हरिणानां अङ्गनाः, तासु ( मृगीषु ) female deer. द्वये—with the two. It is Locative Singular. निक्षेपः—न्यासः a deposit. अर्पितं—दत्तं was given ; was kept. The poet imagines that Parvati who was leading the life of ascetism could not use graceful movements and unsteady glances, hence she had deposited them with creepers and female deer respectively, who used them freely. CHANGE OF VOICE :—नियमस्था सा विलासचेष्टितं तन्वीषु
( ३६ ) लतासु विलोलदृष्टं च हरिणाङ्गनासु इति द्वयं द्वयेऽपि पुनः ग्रहीतुं निक्षेपं इव अर्पितवती ॥ १३ ॥ HINDI TRANSLATION :—( तपस्या के ) नियम के पालन करने वाली उसने ( अपने ) हावभाव और चञ्चल दृष्टि इन दोनों को ( क्रम से ) पतली लताओं और हरिणियों दोनों के पास फिर लेने के लिये धरोहर की तरह रख दिया ॥ १३ ॥ ENGLISH TRANSLATION :—By her, who was observing a vow, had been kept as a deposit to be taken back, the two things with the two, viz., her sportive gesture with the slender creepers and her unsteady glances with the female deer. 13. PURPORT IN SANSKRIT :—तपश्चरन्त्या पार्वत्या स्त्रीजन- सुलभो विलासश्चञ्चलादृष्टिश्च परित्यक्तौ, परं न तत्सर्वदैवापि तु व्रतसमाप्तिपर्यन्तम् । कथं तर्हि सा तौ पुनः प्राप्तुं शक्नुयात् क्व च तौ गताविति विषये कविरुत्प्रेक्षते—यत् सा विलासादिकं सूक्ष्मासु वल्लीषु चपलां दृष्टिश्च मृगीषु निक्षेपरूपेणास्थापयत् ॥ १३ ॥ अतन्द्रिता सा स्वयमेव वृक्षकान् घटस्तनप्रस्रवणैर्व्यवर्धयत् । गुहोऽपि येषां प्रथमाप्तजन्मनां न पुत्रवात्सल्यमपाकरिष्यति ॥ १४ ॥ अतन्द्रितेति । सा देवी स्वयमेव अतन्द्रिता असंजाततन्द्रा- सती । तारकादित्वादच्प्रत्ययः । वृक्षकान् स्वल्पवृक्षान् ‘अल्पे’ इत्यल्पार्थे कः प्रत्ययः । घटस्तनप्रस्रवणै घटावेव स्तनौ तयोः प्रस्र- वणैः प्रस्रुतपयोभिः व्यवर्धयत् । गुहः कुमारोऽपि प्रथमाप्तजन्मनां प्रथमलब्धजन्मनाम् । अग्रजातानामित्यर्थः । येषां वृक्षकाणां सम्बन्धि
( ३७ ) पुत्रवात्सल्यं सुतप्रेम न अपाकरिष्यति । उत्तरत्र कुमारोदयेऽपि न तेषु पुत्रवात्सल्यं निवर्तिष्यत इत्यर्थः ॥ १४ ॥ PROSE ORDER:—अतन्द्रिता सा स्वयमेव वृक्षकान् घटस्तन- प्रस्रवणैः व्यवर्धयत्, गुहोऽपि प्रथमाप्तजन्मनां येषां पुत्रवात्सल्यं न अपाकरिष्यति ॥ १४ ॥ NOTES :—अतन्द्रिता—तन्द्रा सजाता अस्याः इति तन्द्रिता, न तन्द्रिता अतन्द्रिता अनलसा without being slack In (तन्द्रा —इतच् ) इतच् is added by ‘तदस्य संजातं तारकादिभ्य इतच्’ पा० ५.२ ३६ । वृक्षकान्—ह्रस्वो वृक्षः वृक्षकः, तान्, स्वल्पपादपान्, little trees. The suffix कन् is added by ‘ह्रस्वे’ पा० ५.३.८६ । घटस्तनप्रस्रवणैः—घटौ एव स्तनौ, तयोः प्रस्रवणैः प्रसृतैः पयोभिः with outpourings from breast-like jars प्रस्रवण —( प्र + √स्रु + ल्युः ) प्रस्रवन्ती कर्त्तरि ल्युः—यु of ल्यु is changed to अन । For a similar idea see ‘यो हेमकुम्भस्तन- निःसृतानां स्कन्दस्य मातु पयसां रसज्ञः ’ रघु० २ ३६ व्यवर्धयत् —( वि + √वृध् + लङ् ) अपोषयत् reared up गुहः Name of a son of Shiva and Parvati, ( popularly regarded as god of war, because he leads the hosts of Shiva against the demon hosts ). He is also known as Kumara, Skanda or Karttikeya. The name Guha may be derived as गूहति देवसेनां इति or ‘स्कन्दत्वात्स्कन्दतां प्राप्तो गुहावासाद्गुहोऽभवत् ’ i e , he is called Guha because he was reared in a cave प्रथमाप्तजन्मनाम्—प्रथमं आप्तं (प्राप्तं) जन्म यैस्ते तेषां who were born before ; being first-born. Parvati being still unmarried Guha was not born as yet and all her affection for her children was devoted
( ३८ ) towards the small trees she reared up पुत्रवात्सल्यं— वत्सलस्य भावः वात्सल्यं (वत्सल + ष्यञ् ) affection पुत्रस्य वात्सल्यं पुत्रवात्सल्यं motherly affection , affection for one’s child. The compound may also be expounded as पुत्रोचितं वात्सल्यं पुत्रवात्सल्यम् ( मध्यमपदलोपी तत्पुरुषः ) । न अपाकरिष्यति—न दूरीकरिष्यति will not set aside. The idea is that even after the birth of Guha, Parvati will continue to love them CHANGE OF VOICE . —अतन्द्रितया तया स्वयमेव वृक्षकाः घटस्तनप्रस्रवणैः व्यवर्ध्यन्त, गुहेनापि प्रथमात्मजन्मनां येषां पुत्रवात्सल्यं न अपाकरिष्यते ॥ १४ ॥ HINDI TRANSLATION —आलस्य रहित हुई वह (पार्वती) अपने आप ही छोटे छोटे वृक्षों को घड़े रूपी स्तनों के जल से सींचती थी ; गुह भी पूर्वोत्पन्न उनके लिये ( पार्वती के ) पुत्र प्रेम को दूर न कर सकेगा ॥ १४ ॥ ENGLISH TRANSLATION—Free from lassitude, she herself reared up the small trees with outpourings from breast-like jars her motherly affection for which, being first born, even Guha would not be able to set aside, 14 PURPORT IN SANSKRIT :—व्रतमाचरन्ती पार्वती सर्वकार्येषु निरलसाभूत्, स्वाश्रमस्थान् ह्रस्वपादपांश्च पुत्रानिव मन्यमाना स्वयमानीतैः कलशजलैरसिञ्चत् । यथा हि माता स्तनपयसा स्वसन्ततिं पुष्णाति एवं सा घटजलैर्वृक्षान् पुपोष इति स्पष्टार्थः । तस्यास्तेषु पुत्रप्रेमानुभूय कविरुत्प्रेक्षते—यत्तस्याः भाविपुत्रस्य कार्त्तिकेयस्योत्पत्त्यनन्तरमपि सा तान् न विस्मरिष्यति, अपि तु तेषु पुत्रवत्स्नेहं करिष्यति ॥ १४ ॥
( ३१ ) अरण्यबीजाञ्जलिदानलालिता- स्तथा च तस्यां हरिणा विशश्वसुः । यथा तदीयैर्नयनैः कुतूहलात् पुरः सखीनाममिमीत लोचने ॥ १५ ॥ अरण्येति । अरण्यबीजाञ्जलिदानलालिता अरण्यबीजानां नीवारादीनामञ्जनयस्तेषां दानेन लालिताः हरिणाः च तस्यां देव्यां तथा विशश्वसुः विश्रम्भं जग्मु । 'समौ विश्रम्भविश्वासौ' इत्यमर । यथा कुतूहलात् औत्सुक्यात् तदीयैः हरिणसम्बन्धिभिः नयनैः नेत्रैः करणैः स्वकीये सखीनां पुरः पुरतः । अनेन तेषां सम्बन्धसहत्वमुक्तम् । अमिमीत । अक्षिपरिमाणतारतम्यज्ञानाय मानं चकारेत्यर्थः । केचित्तु सा पार्वती तदीयैर्नेत्रैः कुतूहलात्पुरोऽग्रे वर्तमानानां सखीनां लोचने अमिमीत व्रतस्थत्वान्नात्मन इत्याहुः । 'माङ् माने' इत्यस्माद्धातोर्लङ् । इयमेव खलु विश्वासस्य परा काष्ठा यदक्षिपीडनेऽपि न क्षुभ्यन्तीति भावः ॥ १५ ॥ PROSE ORDER .—(किं) च अरण्यबीजाञ्जलिदानलालिताः हरिणाः तस्यां तथा विशश्वसु यथा (सा) कुतूहलात् तदीयैः नयनैः (स्व) लोचने सखीनां पुरः अमिमीत ॥ १५ ॥ NOTES :—अरण्यबीजाञ्जलिदानलालिताः—अरण्यस्य बीजानां अञ्जलेः दानेन लालिता ( पालिताः ) fondled by being given handfuls of forest-grain अरण्यबीज means wild rice and such other grain as grow in forest of their own accord. Deer were generally reared up in this manner by maidens living in hermitages. Cf ' श्यामा- कमुष्टिपरिवर्धितको० मृगः ' शकुन्तला० ४ १४ तथा—so much. विशश्वसुः—(वि + √श्वस् + लिट् ) विश्वासं चक्रुः trusted.
( ४० ) √श्वस् ' to breathe ' means ' to trust ' when preceded by वि । विश्वसिति ( लट् ) विशश्वास ( लिट् ) व्यश्वसीत् ( लुङ् ) । कुतूहलात्—out of curiosity. तदीयैः—( तद् + छः—ईय् ) तेषां इमानि तदीयानि, तैः belonging to them ( fawns ). लोचने—स्वकीये नेत्रे her own eyes. सखीनां पुरः:—in the very presence of her friends. The fawns were so much tamed that they would not mind the presence of Parvati's friends. अमिमीत—( √माङ् + लङ् ) Measured. Imperfect 3rd person Sing. of √मा ' to measure. ' माति ( लट् ) ममौ ( लिट् ) मास्यति ( लृट् ) अमासीत् ( लुङ् ) । Some commentators, thinking it improper for Parvati to compare her own eyes with those of the fawns, construe the third and the fourth lines as—कुतूहलात् तदीयैः नयनैः पुरः सखीनां लोचने अमिमीत i. e., out of curiosity she measured the eyes of her friends before her ( पुरः ) with theirs. But this does not seem to be the idea of the author, who is expected to describe the eyes of Parvati and not those of her friends, and, secondly in that case we would expect सखीनां लोचनानि and not सखीनां लोचने । CHANGE OF VOICE:—अरण्यबीजाञ्जलिदानलालितैः हरिणैः तस्यां तथा विशिश्वसे यथा ( तया ) कुतूहलात् तदीयैः नयनैः लोचने सखीनां पुरः अमीयेताम् ॥ १५ ॥ HINDI TRANSLATION :—जंगली अन्नों की मुट्ठियों के देने से पले हुए मृग उसका इतना विश्वास करते थे कि वह उत्सुकता- वश ( अपनी ) सहेलियों की उपस्थिति में ही उनकी आंखों से ( अपनी ) आंखें नापा करती थी ॥ १५ ॥
( ४१ ) ENGLISH TRANSLATION —And the fawns, by being given handfuls of forest-grains, trusted her so much that, out of curiosity, she used to measure (her own) eyes with theirs in the presence of her friends 15 PURPORT IN SANSKRIT —पार्वती नीवारादिभिर्वनधान्यैः हरिणान् पोषति स्म अन्यप्रकारेण च तेषु स्निह्यति स्म । तस्याः वात्सल्यं पुत्रवत्पालनञ्चानुभूय हरिणास्तस्यामतिशयमनुरक्ता जाता- स्तस्याः लेशमात्रमपि न बिभ्यति स्म । सापि तेषां निर्भीकत्व- मालोक्य कुतूहलवशात् स्वसखीनां समक्षमेव हरिणानां नेत्रैः स्वनेत्रे माति स्म । एवं सा तैस्सह मनोविनोदं कुर्वन्ती तान्बह्व- मन्यत ॥ १५ ॥ कृताभिषेकां हुतजातवेदसं त्वगुत्तरासङ्गवतीमधीतिनीम् । दिदृक्षवस्तामृषयोऽभ्युपागम- न्न धर्मवृद्धेषु वयः समीक्ष्यते ॥ १६ ॥ कृतेति । कृताभिषेकां कृतस्नानां हुतजातवेदसं हुताग्निकाम् । कृतहोमामित्यर्थः। त्वचा वल्कलेनोत्तरासङ्गवतीमुत्तरीयवतीं त्वगुत्त- रासङ्गवतीम् । अधीतमस्या अस्तीति अधीतिनीं स्तुतिपाठादि कुर्वन्तीम् 'इष्टादिभ्यश्च' इतीनि प्रत्ययः । तां देवीं दिदृक्षवः द्रष्टु- मिच्छवः ऋषयः मुनयः अभ्युपागमन् समुपागताः । न चात्र कनिष्ठसेवादोष इत्याह—धर्मवृद्धेषु वयो ज्यैष्ठ्यं न प्रयोजकमित्यर्थः। तथा च मनुः—'न तेन वृद्धो भवति येनास्य पलितं शिरः । यो वा युवाप्यधीयानस्तं देवाः स्थविरं विदुः ॥ ' इति ॥ १६ ॥ PROSE ORDER :—कृताभिषेकां हुतजातवेदसं त्वगुत्तरासङ्ग- वतीं अधीतिनीं तां दिदृक्षवः ऋषयः अभ्युपागमन्, धर्मवृद्धेषु वयः न समीक्ष्यते ॥ १६ ॥
( ४२ ) NOTES :—कृताभिषेकां—कृतः अभिषेक ( स्नानं ) यया सा, तां who had taken a bath. अभिषेकः—( अभि+√सिच्+ घञ् ) स्नानम् Here it refers to the sacred bath taken thrice a day हुतजातवेदसं-हुतः जातवेदाः (अग्नि.) यया सा, तां who had offered oblations to the fire. जातवेदस्—अग्निः। ‘कृपीटयोनिज्वलनो जातवेदास्तनूनपात्’ इत्यमरः। This word is सकारान्त and is declined as—जातवेदाः, जातवेदसौ, जातवेदसः। जातवेदसं, जातवेदसौ, जातवेदसः। जातवेदसा जात- वेदोभ्यां, जातवेदोभिः etc, त्वगुत्तरासङ्गवतीं—त्वचा (वल्कलेन) उत्तरासङ्गवती, तां who possessed an upper garment of bark, or, त्वगेव उत्तरासङ्गोऽस्यास्तीति तत्पुरुषान्मतुप् (उत्तरासङ्ग+मतुप्+ङीप्)। उत्तरासङ्ग means ‘the upper garment.’ अधीतिनीम्—(अधीत+इनिः+ङीप्) अधीतं (वेदाध्ययनं) अस्या अस्तीति अधीतिनी, तां one who was occupied with the study of the Vedas अधीतं—(अधि +√इङ् to read+क्तः) well-read; learned इनि is added by ‘इष्टादिभ्यश्च’ पा० ५ २ ८८, then ङीप् is added to make it feminine These four adjectives describe the daily routine of Parvati's life दिदृक्षवः—(√दृश्+सन्+उ) द्रष्टुं इच्छवो दिदृक्षवः, or द्रष्टुमिच्छन्ति दिदृक्षन्ति, ते दिदृक्षवः desirous of seeing (her) This is Nom. Plu. of दिदृक्षु Desiderative noun from √दृश् ‘to see.’ Similarly are formed चिकीर्षु, जिज्ञासु, जिगमिषु etc, from √कृ, √ज्ञा and √गम् respectively. अभ्युपागमन्—(अभि+उप+आ+ √गम्+लङ्) approached. धर्मवृद्धेषु—धर्मेण वृद्धेषु in case of those who are old in spiritual attainments or
( ४३ ) advanced in virtue वयः—आयुः age समीक्ष्यते—is seen. Passive Present of √ईक्ष् ‘ to see. ’ The idea is that it is no wonder that even older and learned sages used to visit her, because she was very much advanced in spiritual attainments For this very idea Cf. ‘गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वयः’ उत्तररामचरितम् ४-११। ‘प्रकृतिरियं सत्त्ववतां न खलु वयस्तेजसो हेतुः’ नीति- शतक, ४८ । and ‘तेजसां हि न वयः समीक्ष्यते’ रघु० ११, १ । CHANGE OF VOICE: —कृताभिषेका हुतजातवेदाः त्वगुत्तरा- सङ्गवती अधीतीना सा दिदृक्षुभिः ऋषिभिः अभ्युपागम्यत, (विद्वांसः) धर्मवृद्धेषु वय न समीक्षन्ते ॥ १६ ॥ HINDI TRANSLATION: —स्नान करने वाली, अग्निहोत्र करने वाली, पेड़ की छाल को धारण करने वाली और (वेद को) पढ़ने वाली उसके पास उसे देखने की इच्छा वाले ऋषि आते थे। धर्म में बढ़े हुए व्यक्तियों की आयु नहीं देखी जाती ॥ १६ ॥ ENGLISH TRANSLATION —Sages came there, desirous of seeing her, who used to take sacred baths, to offer oblations to the fire, to put on bark as her upper gar- ment and to recite (sacred texts), age is not taken into consideration in case of those who are advanced in virtue 16. PURPORT IN SANSKRIT: —व्रतस्था पार्वती प्रतिदिनं वारत्रय स्नाति स्म, नियमपूर्वकमग्निहोत्रं विदधाति स्म, महार्हाणि वस्त्राणि परित्यज्य वल्कलमेव धत्ते स्म तथा वेदादीनां पठनं करोति स्म। एवं गुणवतीं तपस्विनियमयुक्तां च तां मुनयो
( ४४ ) बहुमन्यमानास्तस्याः दर्शनार्थं तत्समीपं गच्छन्ति स्म । सा अल्प- वयस्कापि ऋषिभिः पूजितेति विषये कविः कथयति—यद् धर्मवृतां पुरुषाणामादरानादरे तेषामायु अकिञ्चित्करं भवति । अल्पवयस्का अपि तेऽन्येषां पूज्या भवन्ति ॥ १६ ॥ विरोधिसत्त्वोज्झितपूर्वमत्सरं द्रुमैरभीष्टप्रसवार्चितातिथि । नवोटजाभ्यन्तरसंभृतानलं तपोवनं तच्च बभूव पावनम् ॥ १७॥ विरोधीति । विरोधिसत्त्वोज्झितपूर्वमत्सरं विरोधिभिः सत्त्वैर्गो- व्याघ्रादिभिरुज्झितपूर्वमत्सर त्यक्तपूर्ववैरम् । हिंसारहितमित्यर्थः । द्रुमैः अभीष्टप्रसवार्चितातिथि अभीष्टप्रसवेनेष्टफलेणार्चिताः पूजिताः अतिथयो यस्मिंस्तत्तथोक्तम् । नवोटजाभ्यन्तरसम्भृतानलं नवानामुट- जानां पर्णशालानामभ्यन्तरेषु सम्भृताः सचिता अनला अग्नयो यस्मिंस्तत्तथोक्तम् । तत् च तपोवन पावयतीति पावनं बभूव । अहिंसातिथिसत्काराग्निपरिचर्याभिर्जगत्पावनं बभूवेत्यर्थः ॥ १७ ॥ PROSE ORDER —( कि ) च विरोधिसत्त्वोज्झितपूर्वमत्सरं द्रुमैः अभीष्टप्रसवार्चितातिथि नवोटजाभ्यन्तरसंभृतानलं तत् तपोवनं पावनं बभूव ॥ १७ ॥ NOTES —विरोधिसत्त्वोज्झितपूर्वमत्सरम्। विरोधि—(विरोध +इनि ) विरोधो वैरं अस्यास्तीति विरोधिन्, ते विरोधिनः inimical ; hostile. उज्झित—( उज्झू+क्त ) abandoned मत्सरः—वैरम् antipathy ; hostility ‘मत्सरोऽन्यशुभद्वेषे’ इत्यमरः । पूर्वमत्सर means ‘ the natural antipathy ’ that exists between some pairs of animals such as cow and tiger, peacock and snake, etc विरोधिभिः सत्त्वैः (प्राणिभिः)
( ४५ ) उज्झितः ( त्यक्त ) पूर्वः मत्सरः यस्मिन् तत् in which the previous antipathy was abandoned by the hostile beasts It is not uncommon that the presence of holy persons has effect on the life of wild beasts, and references to such an effect are made at a number of places in Sanskrit poetry. द्रुमैः—वृक्षैः by the trees. अभीष्टप्रसवार्चितातिथि । अभीष्ट—( अभि+√इष्+क्तः ) वाञ्छितं desired प्रसवः—फलं fruits ‘ स्यादुत्पादे फले पुष्पे प्रसवे गर्भमोचने ’ इत्यमरः । अर्चिताः—पूजिताः, सत्कृताः were served with अभीष्टै प्रसवै अर्चिता अतिथयो यस्मिन् तत् where the guests were honoured ( or served with ) desired fruits For the idea Cf ‘ तस्यातिथीनामधुना सपर्या स्थिता सुपुत्रेष्विव पादपेषु ’ रघु० १३ ४६ । नवोटजाभ्यन्तरसंभृता- नलम् । उटजः—पर्णशाला a hut made of leaves ( residence of hermits ). ‘ पर्णशालोटजोऽस्त्रियाम् ’ इत्यमरः । संभृताः— ( सं√ भृञ्_+क्तः ) आहिताः maintained, kindled. नवानां ( नूतननिर्मितानां ) उटजानां अभ्यन्तरे संभृताः अनलाः ( अग्नयः ) यस्मिन् तत् in which ( sacred ) fires were kindled in the newly built cottages. These three are Adjectives of तपोवनं ( the penance-forest ) where Parvati practised penance. पावनं—पावयति इति पावनं ( पवित्रम् ) purifying or holy. CHANGE OF VOICE :—( किं ) च विरोधिसत्त्वोज्झितपूर्व- मत्सरेण द्रुमैः अभीष्टप्रसवार्चितातिथिना नवोटजाभ्यन्तरसंभृता- नलेन तेन तपोवनेन पावनेन बभूवे ॥ १७ ॥ HINDI TRANSLATION :— जिसमें ( एक दूसरे से ) शत्रुता कु० सं०—५
( ४६ ) करने वाले जन्तुओं ने पुराने वैर को छोड़ दिया था, जिसमें वृक्षों द्वारा वाञ्छित फलों से अतिथियों का सत्कार किया जाता था और जिसकी नई कुटियों में अग्नि सञ्चित रहती थी ऐसा वह तपस्या का वन पवित्र होगया ॥ १७ ॥ ENGLISH TRANSLATION —The penance-forest also became holy, where the previous antipathy was given up by the hostile beasts, where the guests were served with the desired fruits by the trees, and where the ( sacred ) fires were maintained in newly built huts of leaves 17 PURPORT IN SANSKRIT —पार्वत्या आदर्शचरित्रेण तत्त- पोवनमपि पवित्रीकृतम् । तत्रस्थैर्वनजन्तुभिः स्वाभाविको विरोध- स्त्यक्तः—गोव्याघ्रादयः प्रेम्णा परस्परं व्यवहरन्तिस्म । पादपाः स्वफलैरतिथीनां सत्कारं चक्रुः । पर्णशालावासिनो मुनयश्च सनियममग्निहोत्रादिकं धर्मकृत्यं विदधुः । एवं पार्वत्यास्तपोवनं स्वयं पवित्रमन्येषां च पवित्रताकारकमभूत् ॥ १७ ॥ यदा फलं पूर्वतपःसमाधिना न तावता लभ्यममंस्त काङ्क्षितम् । तदानपेक्ष्य स्वशरीरमार्दवं तपो महत्सा चरितुं प्रचक्रमे ॥ १८ ॥ यदेति । सा देवी यदा यस्मिन् काले तावता तावत्प्रमाणेन पूर्वतपःसमाधिना पूर्वेणानुष्ठीयमानप्रकारेण तपोनियमेन काङ्- क्षितं फलं लभ्यं लब्धुं शक्यं न अमंस्त अशक्यममंस्तेत्यर्थः तदा तत्काले । अविलम्बेनेत्यर्थः । स्वशरीरमार्दवं स्वशरीरस्य मार्दवं
( ४७ ) मृदुत्वं सौकुमार्यं अनपेक्ष्य अविगणय्य महत् दुस्तरं तपः चरितुं साधयितुं प्रचकमे उपचक्रमे ॥ १८ ॥ PROSE ORDER :—सा यदा तावता पूर्वतपःसमाधिना काङ्क्षितं फलं लभ्यं न अमंस्त, तदा स्वशरीरमार्दवं अनपेक्ष्य महत् तपः चरितुं प्रचकमे ॥ १८ ॥ NOTES :—तावता—( तावत् + टा ) तत् परिमाणमस्येति तावत् , तेन by that much तावत् is formed by adding वतुः to तत् and by lengthening the vowel of तत् by ' आ सर्वनाम्नः ' पा० ६ ३ ६१ । पूर्वतपःसमाधिना — तपसः समाधिना तपः समाधिना . पूर्वेण तपःसमाधिना पूर्वतपःसमाधिना ( उपरि- वर्णिततपोनियमेन ) by the penance she had been practis- ing तपःसमाधिः — penance. समाधिः—( सम् + आ + √धा +कि ; ) concentration of thoughts काङ्क्षितं—(√ काङ्क्ष् +क्तः) desired लभ्यं—( √लभ् + यत् ) प्राप्यं obtainable अमंस्त—she thought Aorist third pers sing. of √ मन् to think. मन्यते ( लट् ) मेने ( लिट् ) मंस्यते ( लृट् ) । स्वशरी- रमार्दवम् । मार्दव—(मृदु + अण् ) मृदोः भावः मार्दवं (कोमलत्वं) tenderness , delicacy अण् is added by ' इगन्ताच्च लघुपू्र्वात् ' पा० ५. १. १३१ । to form Abstract noun. स्वस्याः शरीरस्य मार्दवं स्वशरीरमार्दवं delicacy of her own body. अनपेक्ष्य—(न + अप् + √ ईक्ष् + ल्यप् ) not minding. प्रचकमे— ( प्र + √क्रम् + लिट् ) आरेभे began. The √ क्रम् ' to walk ' when preceded by प्र or उप् and means ' to begin ' is conjugated as आत्मनेपदी । Cf. ' प्रोपाभ्यां समर्थाभ्याम् ' पा० १. ३. ४२., but प्रक्रामति he goes, उपक्रामति comes CHANGE OF VOICE : — तया यदा तावता पूर्वतपःसमा-