भारतकोश
संग्रह पर लौटें

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

तदेहि । तूर्णं संभावयावः । (त्वरितं परिक्रामतः ।) मकरन्दः—(विलोक्य ।) दिष्ट्या प्रत्यापन्नचेतनो वयस्यः । सौदामिनी—संवदत्युभयोर्मालतीनिवेदितः शरीराकारः । माधवः—(आश्वस्य ।) अये, प्रतिबोधितवानसि केनापि । (विचिन्त्य ।) नूनमस्यायं नवजलधरप्रभञ्जनस्यानवेक्षितासदवस्थो व्या- पारः । भगवन् पौरस्त्य वायो, भ्रमय जलदानम्भोगर्भान्प्रमोदय चातका- न्कलय शिखिनः केकोत्कण्ठान्कठोरय केतकान् । विरहिणि जने मूर्च्छां लब्ध्वा विनोदयति व्यथा- मकरुण पुनः संज्ञाव्याधिं विधाय किमीहसे ॥ ४२ ॥ मकरन्दः—सुविहितमनेनाखिलजन्तुजीवनेन मातरिश्वना । अपि च । एते केतकसूनसौरभजुषः पौरप्रगल्भाङ्गना- व्यालोलालकवल्लरीविलुठनव्याजोपभुक्ताननाः । किंचोन्निद्रकदम्बकुड्मलपुटीधूलीलुठत्षट्पद- व्यूहव्याहृतिहारिणो विरहिणः कर्षन्ति वर्षानिलाः ॥ ४३ ॥ रन्दः । प्रमुग्धं प्रकृष्टमोहग्रस्तम् । प्रलयावस्थागतमिति यावत् । मकरन्दः । प्रत्यापन्नचेतनः प्रादुर्भूतसंज्ञः॥ सौदामिनी पूर्वमदृष्टमाधवमकरन्दशरीराकारा संप्रति द्वावपि विलोक्याह-संवदतीति । मालत्या यादृश्याकृतिः कथिता तादृश्येव द्वयो- रपीत्यर्थः ॥ माधवः। नूनं शङ्के निश्चितं वा । व्यापारो मन्मोहच्छेदनानुगुणं कर्म । प्रभञ्जनस्य महतोऽस्यामवस्थायां मोह एव चरमदशानुभवप्रतिपक्ष इत्याशयः । स्वमोहविच्छेदनहेतुं प्रभञ्जनमवधार्य तमेवोपालम्भवचोभिर्वाक्यैराह-भ्रमयेति । इतस्ततो मेघान्भ्रमय । जलदानां भ्रमणेन संतापशान्तिर्भविष्यति । अम्भोगर्भ- त्वेन च संपूर्णकामाञ्जरामरणरहितवारिपिपासादितांश्चातकान्प्रमोदय । तथा मयूरा- नेतेनैव हेतुना केकाविषये सामिलाषान्कुरु । तथा केतकान्कठोरय जलसेकव्यतिक- रेण प्रौढान्कुरु । मादृशविरहिणि जने पुनर्दैवान्मूर्च्छां लब्ध्वा तद्वाराप्यात्मव्यथां विनोदयति निराकुर्वाणे । संज्ञारूपं चैतन्यरूपं व्याधिं

२२४ मालतीमाधवे माधवः—देव वायो, तथापि भवन्तमेव प्रार्थये । विकसत्कदम्बनिकुरुम्बपांसुना सह जीवितं घटय मे प्रिया यतः । अथवा तदङ्गपरिवासशीतलं मयि किंचिदर्पय भवांस्तु मे गतिः ॥ ४४ ॥ (कृताञ्जलिः प्रणमति ।) सौदामिनी—सुसमाहितः खल्वभिज्ञानार्पणस्यावसरः । (अञ्- लौ बकुलमालामर्पयति ।) माधवः—(साकूतं सहर्षं सविस्मयं च ।) कथमियमस्मद्विरचिता प्रियास्तनोन्नाहदुर्ललितमूर्तिरनङ्गमन्दिराङ्गणबकुलपादपकुसुममाला । (सम्यङ्निरूप्य ।) कः संदेहः । तथा हि स एवायमस्याः मुग्धेन्दुसुन्दरतदीयमुखावलोक- हेलाविशृङ्खलकुतूहलनिह्नवाय । दुर्न्यस्तपुष्परचितोऽपि लवङ्गिकाया- स्तोषं ततान विषमग्रथितो विभागः ॥ ४५ ॥ (सहर्षोन्मादमुत्थाय ।) चण्डि मालति, इयं विलोक्यसे । (सकोपमिव ।) अयि मदवस्थानभिज्ञे

व्याजेन परिभुक्तप्रगल्भपुरन्ध्रीमुखाः तथा विकचकदम्बकोशरजोऽभ्रभृङ्गसमूहसङ्गशा- रमनोहराः ॥ ४३ ॥ माधवः । यद्यपि त्वया संज्ञारूपव्याधिर्जनितः, तथापि त्वामेव प्रार्थये देवत्वादेव । विकसदिति । यत्र मे प्रिया वर्तते तत्र परागैः सह मत्प्राणाञ्छ्रय । सप्तम्यर्थे सार्वविभक्तिकस्तसिः । तदङ्गसङ्गशीतलं वा किंचिद्वस्तु प्रेरय यत्राहं तिष्ठामि । त्वां विना वने क इदानीं गतिरित्याशयः ॥ ४४ ॥ सुसमाहितः सुष्ठु भद्रः । य एवाञ्जलिः प्रथमप्रणामाञ्जलिर्माधवेन बद्धस्तत्रैवाभिज्ञानस्रजमर्प- यति ॥ माधवः । उन्नाहेनोपरिवर्तनेन दुर्ललितमूर्तिः । उन्नाह उत्सेध इत्यन्ये । मदनमन्दिराजिरकेसरस्रक् । अनङ्गमन्दिरपदमत्र घृणावदर्थे । कः संदेहः । सैवेय- मित्यर्थः । तथा हि स एवास्याः स्रजो विभागः । मुग्धेति । दुर्न्यस्तान्यभद्रीकृत्य निवेशितानि पुष्पाणि तै रचितोऽपि लवङ्गिकायास्तोषं ततान विस्तारयामास । दु- र्न्यस्तपुष्परचितत्वेनैव विषमग्रथितः। दुर्न्यस्तत्वे हेतुमाह—मुग्धेन्दुवत्सुन्दरं यत्त- दीयं मुखं तदवलोकने हेला शृङ्गारजो भावविशेषस्तेन विशृङ्खलमुद्भूतं माधवे यत्कुतूहलं तस्य निह्नवाय । मालतीपरिजनेभ्यो गोपनायेत्यर्थः ॥४५॥ अथासाधा- रणाभिज्ञानलाभेन संनिहितप्रच्छन्नां मालतीं मन्यमानोऽकालव्यसनोन्मादः सको- पमिवाह—स्वस्थदशायां हि परिहासः क्रियते । त्वं पुनरेतर्हि मम दशानभिज्ञा ।

नवमोऽङ्कः । २२५ प्रयान्तीव प्राणाः सुतनु हृदयं ध्वंसत इव ज्वलन्तीवाङ्गानि प्रसरति समन्तादिव तमः । त्वराप्रस्तावेऽयं न खलु परिहासस्य विषय- स्तदक्षणोरानन्दं वितर मयि मा भूरकरुणा ॥ ४६ ॥ (सर्वतो दृष्ट्वा सनिर्वेदम् ।) कुतोऽत्र मालती ! (बकुलमालां प्रति ।) अये प्रियाप्रणयिनि, परमोपकारिण्यसि । निष्प्रत्यूहाः प्रियसखि यदा दुःसहाः संबभूवु- र्मोहोद्दामव्यसनगुरवो मन्मथोन्मादवेगाः । तस्मिन्काले कुवलयदृशस्त्वत्समाशलेषणं वा प्राणत्राणं प्रगुणमभवन्मत्परिष्वङ्गकल्पः ॥ ४७ ॥ (सकरुणं निःश्वस्य ।) आनन्दनानि मदनज्वरदीपनानि गाढानुरागरसवन्ति तदा तदा च । स्नेहाकराणि मम मुग्धदृशश्च कण्ठे कष्टं स्मरामि तव तानि गतागतानि ॥ ४८ ॥ (हृदये निधाय मूर्च्छति ।) मकरन्दः—(उपसृत्य ।) सखे, समाश्वसिहि । माधवः—(समाश्वस्य ।) मकरन्द, किं न पश्यसि कुतोऽपि स- हसैव मालतीस्नेहस्वहस्तस्य लाभः । तत्कथं मन्यसे किमेतदिति । तथा हि । प्रयान्तीति । प्राणा निःसरन्तीव । हृदयं स्फुटतीव । अङ्गानि ज्व- लन्तीव । तमो मोहः प्रसरतीव । तन्मम जीवितरक्षणाय त्वरया प्रस्तावेऽयम् । न पुनः स्वशरीरप्रच्छादनरूपस्य परिहासस्य विषयः । तवात्ममूर्तिप्रकटनेन मे नय- नयोरानन्दं देहि । निर्माया भवेत्यर्थः ॥ ४६ ॥ अथ मालतीमपश्यन्केसरस्रजमु- न्मादाच्चेतनामिव मन्यमानः प्राह—निष्प्रत्यूहा इति । यथा तस्या मन्मथोन्मा- दवेगाः संबभूवुः समुद्भूतास्तस्मिन्काले प्राणत्राणमेव यथा स्यादेवं मत्परिष्वङ्गकल्प आश्लेष इव समभवत् । कीदृग्भूता मन्मथोन्मादवेगा इत्यपेक्षायां निष्प्रत्यूहा नि- र्विघ्नाः । अप्रतिहता इत्यर्थः । तथा देहव्यथनेन गुरवः । तदयमाशयः । यत्तदा तत्प्राणहेतुस्तस्यास्त्वमासीस्तदिदानीं त्वयापि त्यक्ता न जीवतीति ॥४७॥ आन- न्दनानीति । हे बकुलमाले, मम कण्ठे तव गतागतानि कष्टं यथा स्यादेवं स्म- रामि । गतागतविशेषणान्याह—आनन्दनानि कामज्वरोत्तेजनानि । तथा गाढा- नुरागो यो रस आसक्तिस्तद्वन्ति तथा स्नेहनिबिडानि ॥ ४८ ॥ स्वहस्तलाभो मा- लत्यासाधारणाभिज्ञानलाभः । तत्कथं मन्यस इति पदस्याशयः । तत्किल जीवन्त्यां

२२६ मालतीमाधवे मकरन्दः—इयमार्या योगीश्वरस्य मालत्यभिज्ञानस्योपनेत्री। माधवः—(सकरुणं कृताञ्जलिः।) आर्ये, प्रसीद। कथय, जीवति मे प्रिया सा। सौदामिनी—वत्स, समाश्वसिहि। जीवति सा कल्याणी। माधवमकरन्दौ—(समुच्छ्वास्य।) आर्ये, यद्येवं कथय क एष वृत्तान्त इति। सौदामिनी—अस्ति पुरा करालायतनेऽघोरघण्टः कृपाणपा- णिर्व्यापादितः। माधवः—(सावेगम्।) आर्ये, विरम। ज्ञातो वृत्तान्तः। मकरन्दः—सखे, क इव। माधवः—किमन्यत्। सकामा कपालकुण्डला। मकरन्दः—आर्ये, अप्येवम्। सौदामिनी—एवं यथा निवेदितं वत्सेन। मकरन्दः—भोः, कष्टम्। कुमुदाकरेण शरदिन्दुचन्द्रिका यदि रामणीयकगुणाय संगता। तस्यां तत्कथमस्यास्तत्कण्ठाद्विश्लेषः संभाव्यते ॥ मकरन्दः। अथ मकरन्दः कथं मन्यस इति माधवाधिगमतात्पर्यमाह—यदुपनेत्रीति। सौदामिनी। जीवति न मृता। क्वापि प्राप्तेत्याशयः। माधवमकरन्दौ। अथैष वृत्तान्तः। क्वापि व- र्तते। तदीया चेदं स्रगधिगतेत्येवंरूपः॥ माधवः। अथ पुरा कापालिकोऽघोरघण्टो माधवेन व्यापादित इत्युदन्तदर्शनात्सौदामिनीवाक्यसंपूर्तिमपेक्ष्य तदवश्यमनु- भवसि कपालकुण्डलाकोपस्य फलमिति विघटितस्मृतकपालकुण्डलाप्रतिज्ञो माधवो वदति—आर्ये, विरमेति। अलं प्रयासेन। ज्ञातो मालतीवृत्तान्तः॥ मकरन्दः। अथ मकरन्दोऽश्रुतकपालकुण्डलाप्रतिज्ञः पृच्छति—क इवेति॥ मकरन्दः। सकामा कपालकुण्डलेति वचसो मालतीविनाशप्रतिपादनपरत्वं निश्चित्य जीवति मालतीति दत्ताश्वासां सौदामिनीं पृच्छति—आर्ये, अप्येवमिति। सौदामि- नी। सौदामिनी तु सकामा मालतीहरणेन, न तु व्यापादनेनेत्यभिप्रायेणाह—एवं यथा निवेदितं वत्सेनेति॥ मकरन्दः। अथ मकरन्दो यथानिवेदितं वत्से- नेत्यस्य वचसो मालती नास्तीति संमतिपरत्वमवधार्य भोः, कष्टमित्याह। कुमुदेति। यदि चन्द्रिका रामणीयकगुणार्थं कुमुदसमूहेन सह दैवात्सङ्गता मिलिता, तदा तदसु-

नवमोऽङ्कः। २२७ सुकृतं तदस्तु कतमस्त्वयं विधि- र्यदकालमेघविततिर्व्ययूयुजत् ॥ ४९ ॥ माधवः—हा प्रिये मालति, कथमतिबीभत्समापन्नासि । कथमपि तदाभवस्त्वं कमलमुखि कपालकुण्डलाग्रस्ता । उत्पातधूमरेखाक्रान्तेव कला शशधरस्य ॥ ५० ॥ भगवति कपालकुण्डले, निर्माणमेव हि तदा तव लालनीयं मा पूतनात्वमुपगाः शिवतातिरेव । नैसर्गिकी सुरभिणः कुसुमस्य सिद्धा मूर्ध्नि स्थितिर्न मुसलैर्बत कुट्टनानि ॥ ५१ ॥ सौदामिनी—वत्स, अलमावेगेन । अकरिष्यदसौ पापमतिदुष्करुणैव सा । नाभविष्यमहं तत्र यदि तत्परिपन्थिनी ॥ ५२ ॥ उभौ—(प्रणम्य ।) अतिप्रसन्नमार्यापादैः । तत्कथय का पुनस्त्व- मस्माकमेवंविधो बन्धुः । कृतं भद्रमेव चन्द्रिकया कृतमित्यर्थः । अयं पुनः कतमो विधिरकालजलदवितति- र्विस्तारः कुमुदाकरेण व्ययूयुजद्वियुक्तं चकार । अत्र चन्द्रिका मालती, कुमुदाकरो माधवः, अकालमेघविततिः कपालकुण्डलेत्याशयः ॥ ४९ ॥ अथ माधवो मालती- व्यापादनावस्थां चिन्तयन्नाह—अतिबीभत्समसदृशहिंसनेनातिगर्हितम् । कथ- मपीति । अपिशब्द इवार्थे । कपालकुण्डलया ग्रासीकृता त्वं कीदृश्यसीति भावः । यदि कदाचिदप्युत्पातधूमरेखया चन्द्रकलैका ग्रस्यते तदोपमा तव सा स्यादि- त्यर्थः॥५०॥ भगवतीति । भगवच्छब्दो ज्ञानातिशयवति । तेन प्रकृष्टज्ञानवतीति । निर्माणमिति । मालतीशरीरस्य महता प्रयत्नेन लालनीयमाधुर्यत्वमतिक्रूरस्य राक्षसादेर्लालनीयमाधुर्यस्वभावम् । त्वं पूतनात्वं राक्षसीत्वं मोपगाः । अयमर्थः । अत्र रमणीयत्वं लालने हेतुर्दृष्टान्तमाह—नैसर्गिकीति । सुरभिणः कुसुमस्य स्वाभा- विकी स्थितिः प्रसिद्धा शिरस्येव । ननु बत कष्टं मुसलैर्न तु कुट्टनानि । अत्र तु कपालकुण्डलायाः प्रकृष्टज्ञानत्वेन संबन्धादयमाशयः । यत्किल त्वं तादृक्प्रकृष्ट- ज्ञानतया विचारयसि न तावन्मालती तव साक्षादपकारिणी । न च ते गुरुर्वध्यते, यदर्थं सा व्यापादिता । निर्वापणीयवैरा स्यान् मालती ते । तदर्थतामधिगम्याय- मिविकलो वर्तते । तदाश्वासयेत्याशयः ॥ ५१ ॥ अकरिष्यदिति । असौ क- पालकुण्डला मालतीमरणरूपं कर्म पापमकरिष्यदितिनिष्करुणैव सा । तत्र स्थाने

३५८ मालतीमाधवे सौदामिनी—ज्ञास्यथ खल्वेतत् । (उत्थाय ।) इयमिदानीमहं गुरुचर्यातपस्तन्त्रमन्त्रयोगाभियोगजाम् । इमामाकर्षिणीं सिद्धिमातनोमि शिवाय वः ॥ ५३ ॥ (समाधवा निष्क्रान्ता ।) मकरन्दः—आश्चर्यम् । व्यतिकर इव भीमस्तामसोवैद्युतश्च क्षणमुपहतचक्षुर्वृत्तिरुद्भूय शान्तः । (विलोक्य । सभयम् ।) कथमिव न वयस्यस्तत्किमेतत्किमन्यत् (विचिन्त्य ।) प्रभवति हि महिम्ना स्वेन योगीश्वरीयम् ॥ ५४ ॥ (सवितर्कम् ।) किमयनर्थ इति संप्रति मूढोऽस्मि । अपि च । अस्तोकविस्मयमविस्मृतपूर्ववृत्त- मुद्भूतनूतनभयज्वरजर्जरं नः । यदि तत्परिपन्थिनी विरोधिनी नाहमभविष्यम् । एतेन हतवत्येव परं न तु व्यापा- दितवतीत्याश्वासयति ॥ ५२ ॥ सौदामिनी । ज्ञास्यथ फलेनैव याहं भवतोरित्या- शयः । गुर्विति । गुरुचर्याविशिष्टमनुष्ठानम्, तपश्चान्द्रायणादि, तन्त्रं मण्डलवर्त- नादि, मन्त्रस्ताराप्रभृतिदेवीनां तन्त्रस्य वागमस्य वा मन्त्रः, योगः समाधिः एष्वभि- योगादभ्यासाज्जातामिमामाकर्षिणीं सिद्धिंयुष्माकं कल्याणाय विस्तारयामि ॥५३॥ मकरन्देनानुपलक्षिता समाधवा ॥ व्यतिकर इति । व्यतिकरो विवर्तः, मिश्री- भावो वा । भीमो भयंकरः । तमोमयो विद्युन्मय इवोपहतचक्षुर्वृत्तिर्निरस्ततद्विष- यनिरूपणशक्तिः । क्षणमात्रमुत्पात्यास्तमितः । विद्याप्रभावादेवं महान्धतमसं महा- प्रकाशश्चासीदित्यर्थः । प्रशान्ते व्यतिकरे माधवमपश्यन्कथमिह न वयस्यः । कपालकुण्डलाप्रेरिता माधवं श्रीपर्वतं नीतवतीति सभयत्वे बीजम् । किमन्यदिति योगीश्वरीत्वेन योगसिद्धिरूपेण माहात्म्येन प्रभवति । माधवमपहर्तुं कृतवतीत्येवमा- शयः ॥ ५४ ॥ किमयं माधवापहरणरूपो व्यापारो मालतीसमागमरूपत्वेनानुरूपः किमप्यसदृशकर्मप्रतिपादकत्वेनानुरूप इत्यर्थः । अस्तोकेति । आनन्दशो- काभ्यां शबलत्वमसंभिन्नत्वं च गच्छति । अस्तीवाश्चर्यं तावद्व्यतिकरदर्शनेन तथा तादृगाश्चर्यप्रभावादविस्मृतमालतीव्यापादादिरूपानुभूतवृत्तम्, तथोत्पन्नप्रत्यग्रमाध- वानिष्टशङ्काजनितभयसंतापज्वरम्, तदेकास्मिन्नेव क्षणे पूर्वं सौदामिन्या वाक्यदाने-

नवमोऽङ्कः । २२९ एकक्षणत्रुटितसंघटितप्रमोह- मानन्दशोकशबलं समुपैति चेतः ॥ ५५ ॥ तदत्र कान्तारावसाने सहास्मद्वर्गेण प्रविष्टां भगवतीमनुसृत्य वृत्तान्तमेनं कथयामि । (इति निष्क्रान्ताः सर्वे ।) इति महाकविश्रीभवभूतिविरचिते मालतीमाधवे नवमोऽङ्कः । न त्रुटितो मालतीविपज्जः पश्चान्माधवादर्शनसंघटितो मोहो यत्र मनसि तत्तादृक् ॥ ५५ ॥ कामन्दक्येवातीन्द्रियार्थदर्शिनीदृगपूर्वाश्चर्यविचारक्षमेति तस्यै निवेदयामि ॥ शबरस्वामिप्रीत्या प्रकरणरत्नाकरेऽत्र भवभूतेः । सारोद्धारे मन्दरमकृत कृती व्याकृतिं नान्यः ॥ इति श्रीनान्यदेवस्य कृतौ विबुधरत्नावल्यां मालतीमाधव- टीकायां नवमाङ्कविवरणम् ॥

दशमोऽङ्कः। (ततः प्रविशति कामन्दकी मदयन्तिका लवङ्गिका च।) कामन्दकी—(सकरुणं साश्रम्।) हा वत्से मालति, मदङ्कालङ्- कारिणि, कासि। देहि मे प्रतिवचनम्। आ जन्मनः प्रतिमुहूर्तविशेषरम्य- ण्याचेष्टितानि तव संप्रति तानि तानि। चाटूनि चारुमधुराणि च संस्मृतानि देहं दहन्ति हृदयं च विदारयन्ति ॥ १ ॥ अपि च। पुत्रि, अनियतरुदितस्मितं विराज- त्कतिपयकोमलदन्तकुङ्मलाग्रम्। वदनकमलकं शिशोः स्मरामि स्खलदसमञ्जसमुग्धजल्पितं ते ॥ २ ॥ इतरे—(साश्रम्।) हों पिअसहि, सुप्पसण्णमुहचन्दसुन्दरि, कहिं गदासि। को दे सरीरस्स देवदुविलासपरिणामो एका- किणीए उवणदो।

दशमोऽङ्कः । २४१ कामन्दकी—(सविशेषखेदम् ।) हा वत्सौ, अभिनवरागरसोऽयं भवतोः कृतकौतुकः परिष्वङ्गः । लवलीलवङ्गयोरिव नियतिमहावात्यायाभिहतः ॥ ३ ॥ लवङ्गिका—(सोद्वेगम् ।) हंदास, वज्जमअहिअअ, सव्वहा णि- संसेसि । (इति हृदयमाहत्य पतति ।) मदयन्तिका—सहि लवङ्गिए, णं भणामि खणमेत्तं वि दाव समस्सस । लवङ्गिका—मैदअन्तिए, किं करेमि । दिढवज्जलेवपडिवद्धाणि- च्चलं विअ जीविदं मं ण परिच्चअदि । कामन्दकी—वत्से मालति, जन्मनः प्रभृति वल्लभतरा ते लव- ङ्गिका । तत्किमुज्जिहानजीवितां नानुम्पसे । इयं हि उज्ज्वलालोकया स्निग्धा त्वया त्यक्ता न राजते । मलीमसमुखी वर्तिः प्रदीपशिखया यथा ॥ ४ ॥ १. हताश, वज्रमयहृदय, सर्वथा नृशंसमसि । २. सखि लवङ्गिके, ननु भणामि क्षणमात्रमपि तावत्समाश्वसिहि । ३. मदयन्तिके, किं करोमि दृढवज्रलेपप्रतिबद्धनिश्चलमिव जीवितं मां परित्यजति । हा प्रियसखि, सुप्रसन्नमुखचन्द्रसुन्दरि, क्व गतासि । कस्ते शरीरस्य दैवदुर्विलास- परिणाम एकाकिन्या उपनतः । हा महाभाग माधव, उदितास्तमितमहोत्सवो जीव- लोकः संवृत्तः। कामन्दकी। वत्सा च वत्सश्च वत्सौ । मालतीमाधवावित्यर्थः । अ- भिनवेति । भवतोराश्लेषो नियतिरूपया दैवरूपया वात्या पवनमण्डलेन निरस्तः। कीदृशः परिष्वङ्गः । नूतनो रागो रसो यत्र । 'रागोद्वेगः समाप्तिः' इति कामसूत्र- दर्शनात् । राग एव रसः । रस्यत इति व्युत्पत्त्या रसः शृङ्गार इत्यन्ये । कृतकौ- तुकः कृतमङ्गलः । उपमानमाह—यथा लवलीलवङ्गयोरुद्याने विदग्धमायिकाना- यकाभ्यामुत्पाद्यत्वेन कल्पितविवाहाभाससमये कृतकौतुकयोः परिष्वङ्गो वात्या- ऽभिहत इत्यर्थः ॥३॥ लवङ्गिका । हताश, वज्रमयहृदय, सर्वथा नृशंसमसि ॥ मदयन्तिका। सखि लवङ्गिके, ननु भणामि क्षणमात्रमपि तावत्समाश्वसिहि ॥ लवङ्गिका । मदयन्तिके, किं करोमि । दृढवज्रलेपप्रतिबद्धनिश्चलमिव जीवितं मां न परित्यजति । कामन्दकी । उज्जिहानजीविता निःसरत्प्राणा । उज्ज्व- लेति । इयं लवङ्गिका त्वयि स्निग्धा स्नेहवती त्वद्वियोगदुःखादेव म्लानमुखी त्वयोज्ज्वलदर्शनया परित्यक्ता न शोभते । यथोज्ज्वलोद्योततया दीपशिखया त्यक्ता मा० २१

Here is the complete and accurate line-by-line transcription of the provided page in Devanagari Markdown:

२३२ मालतीमाधवे कथं त्वं कल्याणि, कामन्दकीं त्यजसि । नन्वकरुणे, मदीयचीवरा- ञ्चलोष्मणैव ते प्रगुणितान्यङ्गानि । स्तन्यत्यागात्प्रभृति सुमुखि दन्तपाञ्चालिकेव क्रीडायोगं तदनु विनयं प्रापिता वर्धिता च । लोकश्रेष्ठे गुणवति वरे स्थापिता त्वं मयैव स्नेहो मातुर्मयि समधिकस्तेन युक्तस्तवापि ॥ ५ ॥ (सवैक्लव्यम् ।) हा चन्द्रमुखि, संप्रति निराशास्मि संवृत्ता । अकारणस्मेरमनोहराननः शिखाललाटार्पितगौरसर्षपः । तवाङ्कशायी परिवृत्तभाग्या मया न दृष्टस्तनयः स्तनंधयः ॥ ६ ॥ लवङ्गिका—भअवदि, पसीद । णिस्सहाम्हि जीविदुव्वहणे । साहं इमादो गिरिप्पपादादो अत्ताणं अव

कामन्दकी—ननु लवङ्गिके, कामन्दक्यपि नातः परं वत्सा- वियोगेन जीविष्यति । समश्चायमुत्कण्ठावेग आवयोः । किंच, संगमः कर्मणां भेदाद्यदि न स्यान्न नाम सः । प्राणानां तु परित्यागे संतापोपशमः फलम् ॥ ७ ॥ लवङ्गिका—जहाँ तुम्हे आणवेत्थ । (इत्युत्तिष्ठति ।) कामन्दकी—(सदयं वीक्ष्य ।) वत्से, मदयन्तिके । मदयन्तिका--किं२ आणवेध । अग्गेसरीहोहि त्ति । अवहिदह्मि । लवङ्गिका—सँहि, पसीद । विरम एत्तो अत्तणो वावादणादो । मा अ एणं जणं विसुमरेसि । मदयन्तिका—(सकोपमिव ।) ॲपेहि । णह्मि दे वसंवदा । कामन्दकी—हन्त, निश्चितं वराकया । १. यथा यूयमाज्ञापयथ । २. किमाज्ञापयथ, अग्रेसरीभवेति । अवहितास्मि । ३. सखि, प्रसीद । विरमैतस्मादात्मनो व्यापादनात् । मा चैनं जनं विस्मारिष्यसि । ४. अपेहि । नास्मि ते वशंवदा । करोतु, येन जन्मान्तरेऽपि तावत्प्रियसखीं प्रेक्षिष्ये । संगम इति। मरणचि- न्तायाः संगमो भविष्यतीत्याशङ्क्य यद्यपि शुभाशुभकर्मणां भिन्नलोकप्राप्तिहेतूनां भेदात्कदाचित्संगमः स्यान्न वा स्यान्नाम । तत्फलं मरणफलं भवतु । मालती- मरणरूपदुःखोपशमरूपं भविष्यतीत्यर्थः ॥ ७ ॥ लवङ्गिका । यथा यूयमाज्ञाप- यथ । उत्तिष्ठति पतनायेति शेषः ॥ कामन्दकी । सदयं लवङ्गिकां वीक्ष्य । लवङ्गिकां धारयेति वक्तुमक्षमा मदयन्तिकामाकारयति । मदयन्तिका तु मालती- वियोगदुःखमसहमाना लवङ्गिकाविनाशमपि द्रष्टुमसमर्थाह—मदयन्तिका । कि- माज्ञापयेथेति । लवङ्गिकायास्त्वम्रेसरीभवेति । अवहितास्मि सावधानास्मि तथा व्यापारे ॥ लवङ्गिका । सखि, प्रसीद । विरमैतस्मादात्मनो व्यापादनात् । आत्मा- नमुद्दिश्य—मा चैनं जनं विस्मारिष्यसि ॥ मदयन्तिका । शिखरात्पतितुं कृत- निश्चया लवङ्गिकां सकोपमिवाह—अपेहि । नास्मि ते वशंवदा । अवश्यं मरिष्या- मीत्याशयः । वशंवदा या भवत्याः सैव स्मरिष्यतीत्याशयः ॥ कामन्दकी । निश्चितं शरीरपातनकर्मांनया । वराकीत्यनुकम्पायाम् । मदयन्तिका मकरन्दपरा- क्रमक्रीतमात्मनो जीवितं तदायत्तं त्यक्तुं मनसा मकरन्दं जीवितेश्वरं प्रणमति ॥

२३४ मालतीमाधवे मदयन्तिका—(स्वगतम् ।) १णाह मअरन्द, णमो दे । लवङ्गिका—भअवदि, अअं एव्व महुमदीसोत्तसंदाणिदपवि- त्तमेहलो महीहरविटङ्को । कामन्दकी—कृतमिदानीं प्रस्तुतान्तरायेण । (सर्वाः पतितुमिच्छन्ति ।) (नेपथ्ये ।) आश्चर्यम्, व्यतिकर इव भीमस्तामसो वैद्युतश्च क्षणमुपहतचक्षुर्वृत्तिरुद्भूय शान्तः । कामन्दकी—(विलोक्य साद्भुतहर्षम् ।) कथमिह मम वत्सस्तत्किमेतत् मकरन्दः—(प्रविश्य ।) किमन्य- त्प्रभवति हि महिम्ना स्वेन योगीश्वरीयम् ॥ ८ ॥ १. नाथ मकरन्द, नमस्ते । २. भगवति, अयमेव मधुमतीस्रोतस्संदानितपवित्रमेखलो महीधरवि- टङ्कः । मदयन्तिका । नाथ मकरन्द, नमस्त इति ॥ लवङ्गिका । भगवति, अयमेव मधुमतीस्रोतसः संदानितत्वेन पवित्रमेखलो महीधरविटङ्कः । 'कपोतपालिकायां तु विटङ्कं पुंनपुंसकम्' इत्यमरः । मधुमती नदी ॥ कामन्दकी । प्रकृतमत्र मरणम् । तदन्तरायः कालक्षेपरूपः ॥ व्यतिकर इति श्लोको व्याख्यातपूर्वः ॥ कामन्दकी । साश्चर्यं सहर्षं च । वदतीति शेषः । अयमीदृशो व्यतिकरः सं- प्रदायोपदेशपरम्परापरिपक्वसमाधिप्रभवप्रकृष्टाभ्युदयसूचकः कथमन्यत्र संभाव्यते मदन्तेवासिव्यतिरेकेण । तद्व्यतिकरदर्शनमद्भुतहर्षयोर्निमित्तमिति भावः । तत्कथं मम वत्सो मकरन्दो दृश्यत इति शेषः । तद्दर्शितफलं तावद्व्यतिकररूपेण शुभ- निमित्तेन व्यतिकरनिदानमप्यस्मादेव ज्ञातव्यमित्याशयः । तत्किमेतदिति का- मन्दकीप्रश्नवाक्यैकदेशं प्रति कथाजिज्ञासापरमवगम्य मकरन्दः प्रविश्य व- दति—किमन्यदिति । इयं कापि योगीश्वरी प्रकृष्टयोगर्द्धिः । तत्प्रभावादयं व्यतिकर इत्यभिप्रायः । कामन्दकीप्रभृतिभिश्च प्रकृष्टहर्षपूर्यमाणमकरन्दनयनचे- ष्टाभिः कुशलिनी मालती समास्तेति निर्णीतमिति प्रतीयमानोऽर्थः । अत एव

दशमोऽङ्कः । २३५ (नेपथ्ये *) कथमतिदारुणो जनावमर्दः संवर्त्तते । मालत्यपायमधिगम्य विरक्तचेताः सांसारिकेषु विषयेषु च जीविते च । निश्चित्य वह्निपतनाय सुवर्णबिन्दु- मभ्येति भूरिवसुरित्यधुना हताः स्मः ॥ ९ ॥ मदयन्तिकालवङ्गिके—झत्ति मालदीमाहवाणं दंसणब्भुदओ झत्ति अव्वाहिदं अ । कामन्दकीमकरन्दौ—दिट्ठ्या । कष्टं भोः आश्चर्यम् । किमयमसिपत्रचन्दनरसच्छटासारयुगपदवपातः । अनलस्फुलिङ्गकलितः किमयमभ्रः सुधावर्षः ॥ १० ॥ संजीवनौषधिविषव्यतिकरमालोकतिमिरसंभेदम् । अद्य विधिरशनिशशधरमयूखसंवलनमनुकुरुते ॥ ११ ॥ (नेपथ्ये ।) हौ ताद, विरम । उत्सुअम्हि ते वदनकमलदंसणस्स पसीद । १. झटिति मालतीमाधवयोर्दर्शनाभ्युदयो झटित्यत्याहितं च । २. हा तात, विरम । उत्सुकास्मि ते वदनकमलदर्शनस्य । प्रसीद । सं- पतनाद्विरताः सर्वोः ॥८॥ नेपथ्य इति । दारुणदुःखजनकत्वात्सत्पतनस्य द्रष्टॄणां संमर्दः । मालतीति । पुनरपि तथैवापहृतेति सामान्यतोऽधिगम्य ज्ञात्वा सांखा- रिकेषु संसारभूतेषु विषयेषु जीवितेषु चोपरतमनाः पुनश्च तमेवापायं निश्चित्य वह्निप्रवेशनाय सुवर्णबिन्दुसंज्ञकं शिवायतनमभ्येतीति हताः स्म इति परिजनवचः ॥९॥ मदयन्तिकालवङ्गिके । झटिति मालतीमाधवयोर्दर्शनाभ्युदयो जातप्राय इव जातः। झटित्यत्याहितं महाभीतिश्च भूरिवसुविनाशशङ्कया ॥कामन्दकीमक- रन्दौ । मालतीमाधवयोरभ्युदयेन सहर्षो,भूरिवसुदहनप्रवेशाच्च सखेदौ । किमिय- मिति । किमयं भूरिवसुदहनप्रवेशश्रवणमालतीमाधवप्रत्यासन्नदर्शनव्यतिकरोऽसि- पत्रचन्दनरसच्छटासारत्वमुभयेम् । एवमुत्तरार्धेऽपि युज्यते । किमयं व्यतिकरो मेघं विना देहदहनकरणादमृतवर्षः ॥ १० ॥ संजीवनेति । अद्य विधिर्भाग्यम- स्माकं कर्तृ द्वयोरत्यन्तविपरीतक्रिययोर्दुःखसुखनिमित्तयोर्वस्तुनोरुद्वेगानन्दजनक- त्वेन मेलनमनुकुरुते । तथथा संजीवनौषधिविषयोर्व्यतिकरो मिश्रणं तथा प्रका- शतिमिरयोः संभेदः संगमः । तथा वज्रचन्द्रकरयोः संमेलनमिति ॥ ११ ॥ नेपथ्ये । हा तात, विरम । उत्सुकास्मि ते वदनकमलदर्शनस्य । प्रसीद । संभा-

२३६ मालतीमाधवे संभावेहि मं। कहं मम कारणादो समत्थलोआलोअन्तरालविक्खम्भ- णिम्मलेकमङ्गलप्पदीपभूदं अत्ताणं परिच्चअसि । मए उण अलज्जाए णिरणुकोसाए तुह्मे परिच्चत्ता । कामन्दकी—हा वत्से, मालति । जन्मान्तरादिव पुनः कथमपि लब्धासि यावदयमपरः । उपराग इव शशिकलां कवलयितुमुपस्थितोऽनर्थः ॥ १२ ॥ इतरे—हा पियसहि । (ततः प्रविशति मुग्धां मालतीं धारयन्माधवः ।) माधवः — कष्टं भोः । एषा प्रवासं कथमप्यतीत्य याता पुनः संशयमन्यथैव । को नाम पाकाभिमुखस्य जन्तो- रद्वाराणि दैवस्य पिधातुमीष्टे ॥ १३ ॥ मकरन्दः—सखे, अथ क सा योगिनी । माधवः— श्रीपर्वतादिहाहं सत्वरमपतं तयैव सह सद्यः । करुणवनेचरवचनादन्तरितां तां न पश्यामि ॥ १४ ॥ भावय माम् । कथं मम कारणात्समस्तलोकालोकान्तरालविष्कम्भनिर्मलैकम्- ङ्गलप्रदीपभूतमात्मानं परित्यजसि । मया पुनरलज्जया निरनुक्रोशया यूयं परित्यक्ताः । १. हा प्रियसखि । वय माम् । कथं मम कारणात्समस्तलोकालोकान्तरालविष्कम्भनिर्मलैक मङ्गलप्र- दीपभूतमात्मानं परित्यजसि । मया पुनरलज्जया निरनुक्रोशया यूयं परित्यक्ताः ॥ कामन्दकी। जन्मेति। अपरोऽनर्थो भूरिवसुविनाशहेतुरनलप्रवेशरूपः कपाल- कुण्डलामिव त्वां कवलयितुमुपस्थितः । कापालिकाभिभवक्लेशैः क्षीणत्वेन शशि- कलामात्रसमानामनर्थ उपराग इवेत्यर्थः ॥ १२ ॥ माधवः । एषेति । जन्तोः प्राणिनो दैवस्य भाग्यस्य । पुराकृतस्य कर्मण इति यावत् । पाकाभिमुखस्य संनि- हितसुखदुःखादिरूपफलदानप्रवणस्य द्वाराणीव द्वाराणि दुःखानुत्पत्तिनिमित्तान्तरा- णि पुराकृतकर्माव्यतिरिक्तानि परिदृश्यमानानि निराकर्तुमीष्टे । प्रभवतीत्यर्थः ॥१३॥ मकरन्दः । या त्वामादाय निष्क्रान्ता सा क गता ॥ श्रीपर्वतादिति । श्री- पर्वतात्तयैव योगिन्या सह सत्वरं यथा स्यादेवमत्रापतमागतोऽस्मि । वनेचरस्य

दशमोऽङ्कः । २३७ कामन्दकीमकरन्दौ—महाभागे, पुनः परित्रायस्व नः । किमर्थमन्तर्हितासि । मदयन्तिकालावङ्गिके—सँहि मालदि, णं भणामि सहि मा- लदि त्ति । (सोत्कम्पम् ।) भअवदि, परित्ताहि । चिरणिरुद्धणिस्सास- णिच्चलं से हिअअं । हा अमच्च, हा पिअसहि, तुह्मे दुवे वि पर- प्परावसाणस्स कारणं जादा । कामन्दकी—हा वत्से मालति । माधवः— हा प्रिये मालति । मकरन्दः—हा प्रियसखि । (सर्वे मोहमुपगम्य पुनः संज्ञां लभन्ते ।) कामन्दकी—तत्किमेष झटिति पाट्यमानादिवाम्बुदादम्बुनि- वहः परिस्खलन्नस्मान्प्रीणयति । माधवः—(सोच्छ्वासम् ।) अये, प्रत्यापन्नचेतनेव मालती । तथा- ह्यस्याः भवति विततश्वासोन्नाहप्रणुन्नपयोधरं हृदयमपि च स्निग्धं चक्षुर्निजप्रकृतौ स्थितम् । १. सखि मालति, ननु भणामि सखि मालतीति । भगवति, परित्रा- यस्व । चिरनिरुद्धनिःश्वासनिश्चलमस्या हृदयम् । हा अमात्य, हा प्रिय- सखि, युवां द्वावपि परस्परावसानस्य कारणं जातौ । वचनं भूरिवसुर्वह्निपतनाय सुवर्णबिन्दुमभ्येतीत्येवंरूपम् । तस्मादनन्तरमन्तर्हितां न पश्यामि ॥ १४ ॥ कामन्दकीमकरन्दौ । किमर्थं तिरोहितासि । मालतीविप- न्निराकरणद्वारेदानीमपि भूरिवसुविनाशरुपमालतीविपत्तित्रासेन पुनर्नोऽस्मान्परि- त्रायस्वेत्यर्थः । मदयन्तिकालावङ्गिके । सखि मालति, ननु भणामि सखि मालतीति । विलापोक्तिप्रभेदोऽयम् । भगवति, परित्रायस्व । चिरनिरुद्धनिःश्वासनिश्च- लमस्या हृदयम् । हा अमात्य, हा प्रियसखि, युवां द्वावपि परस्परावसानस्य कारणं जातौ । द्वयोरपि विनाशहेतुरित्याशयः ॥ कामन्दकी । पाट्यमानादिवेति स्वाभाविकवर्षविलक्षणाकाण्डप्रवृत्तारम्भः पतननिमित्तकोकिरियम् । प्रीणयति संतर्प- यति । जीवयतीत्यर्थः ॥ माधवः । प्रत्यापन्नचेतनेव प्रत्यापन्नजीवितेव । तल्लिङ्गा- न्याह—भवतीति । प्रथमं निरुद्धः पश्चाद्विततो विस्तारितो यः श्वासोन्नाहस्तेन प्रणुन्नौ पयोधरौ यत्र हृदये तत्तादृक् । उन्नाह उच्छ्रायः । चक्षुरपि च यन्मोहप्र- भावादस्निग्धमासीत्तत्प्रकृतौ तत्स्वभावे स्थितं मुग्धमभूदित्यर्थः । अत्र निजेति

? No, it has a vertical line and a hook, like 'ति'! Wait, let's look at the letters after 'जलदाम्बु':

  1. ?
  2. ? Wait, count: ज (1) ल (2) दा (3) म्बु (4) धै (5) ति (6) नौ (7) य (8) स्याः (9) । Wait, "जलदाम्बुधैति नौ यस्याः" has 9 aksharas. Let's count: सा (1) यो (2) गि (3) नी (4) य (5) म (6) ति (7) र (8) य (9) वि (10) घ (11) टि (12) त (13) ज (14) ल (15) दा (16) म्बु (17) ... Wait! What meter is verse 17? Let's check line 11: वा-ग-मृ-त-ज-ल-सा-रो (8 syllables) ज-ल-द-ज-ला-सा-र-म-ति-शे-ते (11 syllables) Total = 19 syllables? No, line 11 is: "वागमृतजलसारो जलदजलासारमतिशेते ॥ १७ ॥" Wait, how many syllables? वा (1) ग (2) मृ (3) त (

दशमोऽङ्कः । २३९ अङ्गकैस्तुहिनसङ्गशीतलैः पुत्रि मां प्रियसखीं च जीवय ॥ १८ ॥ माधवः—वयस्य मकरन्द, संप्रत्युपादेयो माधवस्य जीवलोकः संवृत्तः । मकरन्दः—(सहर्षम् ।) एवमेवैतत् । इतरे—पिअसहि, मणोरहातिकान्तदंसणे, संभावेहि अम्हे परि- स्सङ्गेण । मालती—हा २ पिअसहिओ । (इत्युभे आलिङ्गति ।) कामन्दकी—वत्सौ, किमेतत् । माधवमकरन्दौ—भगवति, कपालकुण्डलाकोपदुर्जातजनितापदः । वयमभ्युद्धृताः कृच्छ्रान्निर्वन्धादार्ययानया ॥ १९ ॥ कामन्दकी—कथमघोरघण्टवधविजृम्भितमेतत् । लवङ्गिकामदयन्तिके—३अहो अच्चरिअं । पुणरुत्तदारुणस्स परिणामरमणिज्जत्तणं विहिणो । सौदामिनी—(प्रविश्य ।) भगवति, स एष चिरंतनोऽन्तेवासी जनः प्रणमति । १. प्रियसखि, मनोरथातिक्रान्तदर्शने, संभावयास्मान्परिष्वङ्गेण । २. हा प्रियसख्यौ । ३. अहो आश्चर्यम् । पुनरुक्तदारुणस्य परिणामरमणीयत्वं विधेः । जीवतु। हिमसङ्गशीतलैस्तवावयवैर्मां प्रियसखीं च जीवयेत्यर्थः। आलिङ्गनदानादिति भावः ॥ १८ ॥ इतरे । प्रियसखि, मनोरथातिक्रान्तदर्शने संभावयास्मान्परिष्वङ्गेण॥ मालती । हा प्रियसख्यौ ॥ कामन्दकी । किमेतदिति माधवमकरन्दौ प्रति प्रश्नः। अथ तयोरिदमुत्तरम्—भगवति, कपालकुण्डलेति। दुर्जातं मालत्य- पहरणवृत्तान्तरूपं तज्जनितापदो वयं कृच्छ्रादपायान्निर्वन्धादतिप्रयत्नादुद्धृताः ॥ १९ ॥ कामन्दकी। अघोरघण्टे माधवेन निहते सति यत्तदन्तेवासिन्या माधवं प्रत्यपकाररूपो मालतीहरणद्वारा व्यापारस्तत्किलाघोरघण्टवधविजृम्भितमिति ॥ लवङ्गिकामदयन्तिके। अहो आश्चर्यम्। पुनरुक्तदारुणस्य परिणामरमणीयत्वं विधेः । पुनरुक्तमिव पुनरुक्तं पुनःपुनर्मालतीहरणम् । परिणामरमणीयत्वं चान्ते- ऽक्षतमालतीलाभेन ॥ सौदामिनी । अन्तेवासी जन इत्यात्मनः पुँल्लिङ्गनिर्देशा-

२४० मालतीमाधवे कामन्दकी—अये, भद्रम्। सौदामिनि। माधवमकरन्दौ—कथमियं सा भगवत्याः पक्षपातस्थानमाद्य- शिष्या सौदामिनी। यतः सर्वमधुना संगच्छते। कामन्दकी— एह्येहि भूरिवसुजीवितदानपुण्य- संभारधारिणि चिरादसि हन्त दृष्टा। दत्तप्रमोदमभिनन्दय मे शरीर- मालिङ्ग्य सौहृदनिधे विरम प्रणामात् ॥ २० ॥ अपि च। वन्द्या त्वमेव जगतः स्पृहणीयसिद्धि- र्देवंविधैर्विलसितैरतिबोधिसत्त्वैः। यस्याः पुरा परिचयप्रतिबद्धबीज- मुद्भूतभूरिफलशालि विजृम्भितेन ॥ २१ ॥ मदयन्तिकालवङ्गिके—१ईअं सा अज्जा सौदामिणी। १. इयं सार्या सौदामिनी। त्कपालकुण्डलागृहीतमालतीपरित्राणरूपमात्मनः पुरुषार्थसाधकत्वं सूचयति। चि- रंतनः प्रथमाप्तदीक्षः सिद्धमन्त्रेणाचार्येण प्रथमप्रकृष्टमन्त्रः प्रकृष्टशिष्यभावादि- त्याशयः॥ माधवमकरन्दौ। कथंशब्द आश्चर्य। पक्षपातस्थानं स्मारयति पू- र्वशिष्या सौदामिनीति। स्वतन्त्रेषु स्थानेषु सौदामिनीस्मरणात्सत्सर्वमिदं मालती- विपत्प्रतीकारव्यापाररूपमेतत्सर्वं संगच्छते संगतं भवति। युज्यत इत्यर्थः। ए- ह्येहीति। भूरिवसुजीवितदानेन यः पुण्यसंभारस्तद्धारेण। जीवितदानं च माल- तीभूरिवसुविपन्निवारणद्वारम्। हन्त हर्षे। तदीदृगत्यन्ताभीष्टद्वयसंपादनेन दत्त- प्रमोदमपि मद्वपुरालिङ्गनेनानन्दय। प्रणामाद्विरम। त्वमेव जीवितदायित्वेनानुगु- णोत्कर्षेण च प्रणम्या मयेत्याशयः। 'गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वयः' इत्यादिवचनात् ॥ २० ॥ एतदेवोत्तरश्लोकेन व्यक्तीकरोति-वन्द्येति। एवंविधैः परोपकारफलैर्विलसितैर्व्यापारैरतिबोधिसत्त्वैरतिक्रान्तबोधिसत्त्वैः। मनो- गतागमेषु ब्रह्ममायापीह बोधसङ्ख्येन कथिता(?)जीवितव्ययेनापि परार्थसाधनैक- व्यापारैर्विलसितैस्त्वमेव वन्द्या जगतः। तन्मम वन्दनाद्विरमेत्यर्थः। स्पृहणीया सिद्धिर्यस्याः सा तादृशी मन्त्रसिद्धिरस्माकमपि स्पृहणीया। यस्यास्तव विजृम्भि- तेनेदृशव्यापारेण तद्बीजं मालतीमाधवतत्प्रताननिधानमद्भुतप्रचुरफलशाल्यभूदि-

दशमोऽङ्कः । २४१ मालती—बोढम् । इमाए क्खु भववदीसंबन्धपक्खवादिणीए णि- ब्भच्छिअ कवालकुण्डलं अत्तणो आवसहं उवणिज आसासिदम्हि । किं अ केसरावलीसाभिण्णाणहत्थाए इह आगत्तूण सब्वे तुम्हे संधारिदा । इतराः—सुँप्पसण्णा णो कणिठ्ठा भववदी । मकरन्दमाधवौ—अहो नु खलु भोः । अपि चिन्तामणिश्चिन्तापरिश्रममपेक्षते । इदं त्वचिन्तितं मन्ये कृतमाश्चर्यमार्यया ॥ २२ ॥ सौदामिनी—(स्वगतम् ।) हन्त, लज्जयति मामत्यन्तसौजन्यमे- तेषाम् । (प्रकाशम् ।) भगवति, एतत्प्रहृष्टनन्दनाभिनन्दितेन राज्ञा प- द्मावतीश्वरेण भूरिवसोः प्रत्यक्षमभिलिख्य पत्रमायुष्मतो माधवस्य प्रे- षितम् । (लेखमर्पयति

१४२ मालतीमाधवे तेनेयं मदयन्तिकापि भवतः प्रीत्यै तव प्रेयसे मित्राय प्रथमानुरागघटिताप्यस्माभिरुत्सृज्यते ॥ १३ ॥ (माधवमुद्दिश्य सहर्षम् ।) वत्स, श्रूयताम् । माधवः—श्रुतम् । इदानीं सर्वथा कृतार्थोऽस्मि । मालती—दिट्ठिआ एदं वि दाव अवगदं हिअअस्स सङ्कासल्लं । लवङ्गिका—संपदं णिरवसेसं पूरिआ माहवसिरिणो मणोरहा । मकरन्दः—(पुरोऽवलोक्य ।) कथमवलोकिताबुद्धरक्षिते कलहंसश्च दूरतः समागतानस्मान्वीक्ष्य तत्रैव हर्षनिर्भरं नृत्यन्त इत एवागच्छन्ति । (ततः प्रविशतोऽवलोकिताबुद्धरक्षिते कलहंसश्च ।) ते—(विविधं नृत्यं कृत्वा सर्व उपसृत्य सप्रमाणं कामन्दकीं प्रति ।) अउँ मअवदि कज्जाणिहाणे । (माधवं प्रति ।) जअ मअरन्दणन्दण माहव पुण्णचन्द, दिट्ठिआ वड्ढसि । (सर्वे सस्मितं पश्यन्ति ।) १. दिष्ट्या एतदपि तावदपगतं हृदयस्य शङ्काशल्यम् । २. सांप्रतं निरवशेषं पूरिताः श्रीमाधवस्य मनोरथाः । ३. जय भगवति कार्यनिधाने । जय मकरन्दनन्दन माधव पूर्णचन्द्र, दिष्ट्या वर्धसे । निरस्तविपदि महाकुले जामातरि त्वयि प्रीतिरुचितेत्याशयः । तेन हेतुना पूर्वानु- रागेण प्राणात्ययनरूपेण योजितापि तव प्रीत्यर्थं तव मित्राय मकरन्दायास्माभिर्दीयते इत्यर्थः ॥ १३ ॥ माधवमुद्दिश्य कामन्दकी वदति—श्रूयतामिति । माधवः । निखिलार्थ इति शेषः । नृपतिनन्दनादिना सर्वथा कृतार्थोऽस्मीत्यर्थः ॥ मा- लती । दिष्ट्या, एतदपि तावदपगतं हृदयस्य शङ्काशल्यम् ॥ लवङ्गिका । सांप्र- तं निरवशेषं पूरिताः श्रीमाधवस्य मनोरथाः । प्राकृते पूर्वनिपातस्यानियमतया श्री- शब्दस्योत्तरनिपातलक्षणं भवति ॥ कार्यनिधानशब्दादण्प्रत्ययेन निधानसंबन्धरू- पं सर्वं कार्यजातं त्वयैकया निष्पादितमिति त्वमेव कार्याणां निधिः । जय मकर- न्दनन्दन माधव पूर्णचन्द्र । मकरन्दस्य मदयन्तिकालाभादपि माधवस्य मालती- लाभ एवातिशयानन्द इति मकरन्दनन्दनत्वे वाचोयुक्तिः । पापवृद्धिपक्षपर्यन्त- त्वेन पूर्णश्चन्द्रः । संप्राप्ताखण्डमनोरथतयास्य पूर्णचन्द्रस्योक्तिः । दिष्ट्या वर्धसे । सस्मितं पश्यति । तेषां प्रमोदवृत्तमिति शेषः । भगवत्यन्तेवासिन्यवलोकिता नृत्य-