मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
२२६ मालतीमाधवे मकरन्दः—इयमार्या योगीश्वरस्य मालत्यभिज्ञानस्योपनेत्री। माधवः—(सकरुणं कृताञ्जलिः।) आर्ये, प्रसीद। कथय, जीवति मे प्रिया सा। सौदामिनी—वत्स, समाश्वसिहि। जीवति सा कल्याणी। माधवमकरन्दौ—(समुच्छ्वास्य।) आर्ये, यद्येवं कथय क एष वृत्तान्त इति। सौदामिनी—अस्ति पुरा करालायतनेऽघोरघण्टः कृपाणपा- णिर्व्यापादितः। माधवः—(सावेगम्।) आर्ये, विरम। ज्ञातो वृत्तान्तः। मकरन्दः—सखे, क इव। माधवः—किमन्यत्। सकामा कपालकुण्डला। मकरन्दः—आर्ये, अप्येवम्। सौदामिनी—एवं यथा निवेदितं वत्सेन। मकरन्दः—भोः, कष्टम्। कुमुदाकरेण शरदिन्दुचन्द्रिका यदि रामणीयकगुणाय संगता। तस्यां तत्कथमस्यास्तत्कण्ठाद्विश्लेषः संभाव्यते ॥ मकरन्दः। अथ मकरन्दः कथं मन्यस इति माधवाधिगमतात्पर्यमाह—यदुपनेत्रीति। सौदामिनी। जीवति न मृता। क्वापि प्राप्तेत्याशयः। माधवमकरन्दौ। अथैष वृत्तान्तः। क्वापि व- र्तते। तदीया चेदं स्रगधिगतेत्येवंरूपः॥ माधवः। अथ पुरा कापालिकोऽघोरघण्टो माधवेन व्यापादित इत्युदन्तदर्शनात्सौदामिनीवाक्यसंपूर्तिमपेक्ष्य तदवश्यमनु- भवसि कपालकुण्डलाकोपस्य फलमिति विघटितस्मृतकपालकुण्डलाप्रतिज्ञो माधवो वदति—आर्ये, विरमेति। अलं प्रयासेन। ज्ञातो मालतीवृत्तान्तः॥ मकरन्दः। अथ मकरन्दोऽश्रुतकपालकुण्डलाप्रतिज्ञः पृच्छति—क इवेति॥ मकरन्दः। सकामा कपालकुण्डलेति वचसो मालतीविनाशप्रतिपादनपरत्वं निश्चित्य जीवति मालतीति दत्ताश्वासां सौदामिनीं पृच्छति—आर्ये, अप्येवमिति। सौदामि- नी। सौदामिनी तु सकामा मालतीहरणेन, न तु व्यापादनेनेत्यभिप्रायेणाह—एवं यथा निवेदितं वत्सेनेति॥ मकरन्दः। अथ मकरन्दो यथानिवेदितं वत्से- नेत्यस्य वचसो मालती नास्तीति संमतिपरत्वमवधार्य भोः, कष्टमित्याह। कुमुदेति। यदि चन्द्रिका रामणीयकगुणार्थं कुमुदसमूहेन सह दैवात्सङ्गता मिलिता, तदा तदसु-
नवमोऽङ्कः। २२७ सुकृतं तदस्तु कतमस्त्वयं विधि- र्यदकालमेघविततिर्व्ययूयुजत् ॥ ४९ ॥ माधवः—हा प्रिये मालति, कथमतिबीभत्समापन्नासि । कथमपि तदाभवस्त्वं कमलमुखि कपालकुण्डलाग्रस्ता । उत्पातधूमरेखाक्रान्तेव कला शशधरस्य ॥ ५० ॥ भगवति कपालकुण्डले, निर्माणमेव हि तदा तव लालनीयं मा पूतनात्वमुपगाः शिवतातिरेव । नैसर्गिकी सुरभिणः कुसुमस्य सिद्धा मूर्ध्नि स्थितिर्न मुसलैर्बत कुट्टनानि ॥ ५१ ॥ सौदामिनी—वत्स, अलमावेगेन । अकरिष्यदसौ पापमतिदुष्करुणैव सा । नाभविष्यमहं तत्र यदि तत्परिपन्थिनी ॥ ५२ ॥ उभौ—(प्रणम्य ।) अतिप्रसन्नमार्यापादैः । तत्कथय का पुनस्त्व- मस्माकमेवंविधो बन्धुः । कृतं भद्रमेव चन्द्रिकया कृतमित्यर्थः । अयं पुनः कतमो विधिरकालजलदवितति- र्विस्तारः कुमुदाकरेण व्ययूयुजद्वियुक्तं चकार । अत्र चन्द्रिका मालती, कुमुदाकरो माधवः, अकालमेघविततिः कपालकुण्डलेत्याशयः ॥ ४९ ॥ अथ माधवो मालती- व्यापादनावस्थां चिन्तयन्नाह—अतिबीभत्समसदृशहिंसनेनातिगर्हितम् । कथ- मपीति । अपिशब्द इवार्थे । कपालकुण्डलया ग्रासीकृता त्वं कीदृश्यसीति भावः । यदि कदाचिदप्युत्पातधूमरेखया चन्द्रकलैका ग्रस्यते तदोपमा तव सा स्यादि- त्यर्थः॥५०॥ भगवतीति । भगवच्छब्दो ज्ञानातिशयवति । तेन प्रकृष्टज्ञानवतीति । निर्माणमिति । मालतीशरीरस्य महता प्रयत्नेन लालनीयमाधुर्यत्वमतिक्रूरस्य राक्षसादेर्लालनीयमाधुर्यस्वभावम् । त्वं पूतनात्वं राक्षसीत्वं मोपगाः । अयमर्थः । अत्र रमणीयत्वं लालने हेतुर्दृष्टान्तमाह—नैसर्गिकीति । सुरभिणः कुसुमस्य स्वाभा- विकी स्थितिः प्रसिद्धा शिरस्येव । ननु बत कष्टं मुसलैर्न तु कुट्टनानि । अत्र तु कपालकुण्डलायाः प्रकृष्टज्ञानत्वेन संबन्धादयमाशयः । यत्किल त्वं तादृक्प्रकृष्ट- ज्ञानतया विचारयसि न तावन्मालती तव साक्षादपकारिणी । न च ते गुरुर्वध्यते, यदर्थं सा व्यापादिता । निर्वापणीयवैरा स्यान् मालती ते । तदर्थतामधिगम्याय- मिविकलो वर्तते । तदाश्वासयेत्याशयः ॥ ५१ ॥ अकरिष्यदिति । असौ क- पालकुण्डला मालतीमरणरूपं कर्म पापमकरिष्यदितिनिष्करुणैव सा । तत्र स्थाने
३५८ मालतीमाधवे सौदामिनी—ज्ञास्यथ खल्वेतत् । (उत्थाय ।) इयमिदानीमहं गुरुचर्यातपस्तन्त्रमन्त्रयोगाभियोगजाम् । इमामाकर्षिणीं सिद्धिमातनोमि शिवाय वः ॥ ५३ ॥ (समाधवा निष्क्रान्ता ।) मकरन्दः—आश्चर्यम् । व्यतिकर इव भीमस्तामसोवैद्युतश्च क्षणमुपहतचक्षुर्वृत्तिरुद्भूय शान्तः । (विलोक्य । सभयम् ।) कथमिव न वयस्यस्तत्किमेतत्किमन्यत् (विचिन्त्य ।) प्रभवति हि महिम्ना स्वेन योगीश्वरीयम् ॥ ५४ ॥ (सवितर्कम् ।) किमयनर्थ इति संप्रति मूढोऽस्मि । अपि च । अस्तोकविस्मयमविस्मृतपूर्ववृत्त- मुद्भूतनूतनभयज्वरजर्जरं नः । यदि तत्परिपन्थिनी विरोधिनी नाहमभविष्यम् । एतेन हतवत्येव परं न तु व्यापा- दितवतीत्याश्वासयति ॥ ५२ ॥ सौदामिनी । ज्ञास्यथ फलेनैव याहं भवतोरित्या- शयः । गुर्विति । गुरुचर्याविशिष्टमनुष्ठानम्, तपश्चान्द्रायणादि, तन्त्रं मण्डलवर्त- नादि, मन्त्रस्ताराप्रभृतिदेवीनां तन्त्रस्य वागमस्य वा मन्त्रः, योगः समाधिः एष्वभि- योगादभ्यासाज्जातामिमामाकर्षिणीं सिद्धिंयुष्माकं कल्याणाय विस्तारयामि ॥५३॥ मकरन्देनानुपलक्षिता समाधवा ॥ व्यतिकर इति । व्यतिकरो विवर्तः, मिश्री- भावो वा । भीमो भयंकरः । तमोमयो विद्युन्मय इवोपहतचक्षुर्वृत्तिर्निरस्ततद्विष- यनिरूपणशक्तिः । क्षणमात्रमुत्पात्यास्तमितः । विद्याप्रभावादेवं महान्धतमसं महा- प्रकाशश्चासीदित्यर्थः । प्रशान्ते व्यतिकरे माधवमपश्यन्कथमिह न वयस्यः । कपालकुण्डलाप्रेरिता माधवं श्रीपर्वतं नीतवतीति सभयत्वे बीजम् । किमन्यदिति योगीश्वरीत्वेन योगसिद्धिरूपेण माहात्म्येन प्रभवति । माधवमपहर्तुं कृतवतीत्येवमा- शयः ॥ ५४ ॥ किमयं माधवापहरणरूपो व्यापारो मालतीसमागमरूपत्वेनानुरूपः किमप्यसदृशकर्मप्रतिपादकत्वेनानुरूप इत्यर्थः । अस्तोकेति । आनन्दशो- काभ्यां शबलत्वमसंभिन्नत्वं च गच्छति । अस्तीवाश्चर्यं तावद्व्यतिकरदर्शनेन तथा तादृगाश्चर्यप्रभावादविस्मृतमालतीव्यापादादिरूपानुभूतवृत्तम्, तथोत्पन्नप्रत्यग्रमाध- वानिष्टशङ्काजनितभयसंतापज्वरम्, तदेकास्मिन्नेव क्षणे पूर्वं सौदामिन्या वाक्यदाने-
नवमोऽङ्कः । २२९ एकक्षणत्रुटितसंघटितप्रमोह- मानन्दशोकशबलं समुपैति चेतः ॥ ५५ ॥ तदत्र कान्तारावसाने सहास्मद्वर्गेण प्रविष्टां भगवतीमनुसृत्य वृत्तान्तमेनं कथयामि । (इति निष्क्रान्ताः सर्वे ।) इति महाकविश्रीभवभूतिविरचिते मालतीमाधवे नवमोऽङ्कः । न त्रुटितो मालतीविपज्जः पश्चान्माधवादर्शनसंघटितो मोहो यत्र मनसि तत्तादृक् ॥ ५५ ॥ कामन्दक्येवातीन्द्रियार्थदर्शिनीदृगपूर्वाश्चर्यविचारक्षमेति तस्यै निवेदयामि ॥ शबरस्वामिप्रीत्या प्रकरणरत्नाकरेऽत्र भवभूतेः । सारोद्धारे मन्दरमकृत कृती व्याकृतिं नान्यः ॥ इति श्रीनान्यदेवस्य कृतौ विबुधरत्नावल्यां मालतीमाधव- टीकायां नवमाङ्कविवरणम् ॥
दशमोऽङ्कः। (ततः प्रविशति कामन्दकी मदयन्तिका लवङ्गिका च।) कामन्दकी—(सकरुणं साश्रम्।) हा वत्से मालति, मदङ्कालङ्- कारिणि, कासि। देहि मे प्रतिवचनम्। आ जन्मनः प्रतिमुहूर्तविशेषरम्य- ण्याचेष्टितानि तव संप्रति तानि तानि। चाटूनि चारुमधुराणि च संस्मृतानि देहं दहन्ति हृदयं च विदारयन्ति ॥ १ ॥ अपि च। पुत्रि, अनियतरुदितस्मितं विराज- त्कतिपयकोमलदन्तकुङ्मलाग्रम्। वदनकमलकं शिशोः स्मरामि स्खलदसमञ्जसमुग्धजल्पितं ते ॥ २ ॥ इतरे—(साश्रम्।) हों पिअसहि, सुप्पसण्णमुहचन्दसुन्दरि, कहिं गदासि। को दे सरीरस्स देवदुविलासपरिणामो एका- किणीए उवणदो।
दशमोऽङ्कः । २४१ कामन्दकी—(सविशेषखेदम् ।) हा वत्सौ, अभिनवरागरसोऽयं भवतोः कृतकौतुकः परिष्वङ्गः । लवलीलवङ्गयोरिव नियतिमहावात्यायाभिहतः ॥ ३ ॥ लवङ्गिका—(सोद्वेगम् ।) हंदास, वज्जमअहिअअ, सव्वहा णि- संसेसि । (इति हृदयमाहत्य पतति ।) मदयन्तिका—सहि लवङ्गिए, णं भणामि खणमेत्तं वि दाव समस्सस । लवङ्गिका—मैदअन्तिए, किं करेमि । दिढवज्जलेवपडिवद्धाणि- च्चलं विअ जीविदं मं ण परिच्चअदि । कामन्दकी—वत्से मालति, जन्मनः प्रभृति वल्लभतरा ते लव- ङ्गिका । तत्किमुज्जिहानजीवितां नानुम्पसे । इयं हि उज्ज्वलालोकया स्निग्धा त्वया त्यक्ता न राजते । मलीमसमुखी वर्तिः प्रदीपशिखया यथा ॥ ४ ॥ १. हताश, वज्रमयहृदय, सर्वथा नृशंसमसि । २. सखि लवङ्गिके, ननु भणामि क्षणमात्रमपि तावत्समाश्वसिहि । ३. मदयन्तिके, किं करोमि दृढवज्रलेपप्रतिबद्धनिश्चलमिव जीवितं मां परित्यजति । हा प्रियसखि, सुप्रसन्नमुखचन्द्रसुन्दरि, क्व गतासि । कस्ते शरीरस्य दैवदुर्विलास- परिणाम एकाकिन्या उपनतः । हा महाभाग माधव, उदितास्तमितमहोत्सवो जीव- लोकः संवृत्तः। कामन्दकी। वत्सा च वत्सश्च वत्सौ । मालतीमाधवावित्यर्थः । अ- भिनवेति । भवतोराश्लेषो नियतिरूपया दैवरूपया वात्या पवनमण्डलेन निरस्तः। कीदृशः परिष्वङ्गः । नूतनो रागो रसो यत्र । 'रागोद्वेगः समाप्तिः' इति कामसूत्र- दर्शनात् । राग एव रसः । रस्यत इति व्युत्पत्त्या रसः शृङ्गार इत्यन्ये । कृतकौ- तुकः कृतमङ्गलः । उपमानमाह—यथा लवलीलवङ्गयोरुद्याने विदग्धमायिकाना- यकाभ्यामुत्पाद्यत्वेन कल्पितविवाहाभाससमये कृतकौतुकयोः परिष्वङ्गो वात्या- ऽभिहत इत्यर्थः ॥३॥ लवङ्गिका । हताश, वज्रमयहृदय, सर्वथा नृशंसमसि ॥ मदयन्तिका। सखि लवङ्गिके, ननु भणामि क्षणमात्रमपि तावत्समाश्वसिहि ॥ लवङ्गिका । मदयन्तिके, किं करोमि । दृढवज्रलेपप्रतिबद्धनिश्चलमिव जीवितं मां न परित्यजति । कामन्दकी । उज्जिहानजीविता निःसरत्प्राणा । उज्ज्व- लेति । इयं लवङ्गिका त्वयि स्निग्धा स्नेहवती त्वद्वियोगदुःखादेव म्लानमुखी त्वयोज्ज्वलदर्शनया परित्यक्ता न शोभते । यथोज्ज्वलोद्योततया दीपशिखया त्यक्ता मा० २१
Here is the complete and accurate line-by-line transcription of the provided page in Devanagari Markdown:
२३२ मालतीमाधवे कथं त्वं कल्याणि, कामन्दकीं त्यजसि । नन्वकरुणे, मदीयचीवरा- ञ्चलोष्मणैव ते प्रगुणितान्यङ्गानि । स्तन्यत्यागात्प्रभृति सुमुखि दन्तपाञ्चालिकेव क्रीडायोगं तदनु विनयं प्रापिता वर्धिता च । लोकश्रेष्ठे गुणवति वरे स्थापिता त्वं मयैव स्नेहो मातुर्मयि समधिकस्तेन युक्तस्तवापि ॥ ५ ॥ (सवैक्लव्यम् ।) हा चन्द्रमुखि, संप्रति निराशास्मि संवृत्ता । अकारणस्मेरमनोहराननः शिखाललाटार्पितगौरसर्षपः । तवाङ्कशायी परिवृत्तभाग्या मया न दृष्टस्तनयः स्तनंधयः ॥ ६ ॥ लवङ्गिका—भअवदि, पसीद । णिस्सहाम्हि जीविदुव्वहणे । साहं इमादो गिरिप्पपादादो अत्ताणं अव
कामन्दकी—ननु लवङ्गिके, कामन्दक्यपि नातः परं वत्सा- वियोगेन जीविष्यति । समश्चायमुत्कण्ठावेग आवयोः । किंच, संगमः कर्मणां भेदाद्यदि न स्यान्न नाम सः । प्राणानां तु परित्यागे संतापोपशमः फलम् ॥ ७ ॥ लवङ्गिका—जहाँ तुम्हे आणवेत्थ । (इत्युत्तिष्ठति ।) कामन्दकी—(सदयं वीक्ष्य ।) वत्से, मदयन्तिके । मदयन्तिका--किं२ आणवेध । अग्गेसरीहोहि त्ति । अवहिदह्मि । लवङ्गिका—सँहि, पसीद । विरम एत्तो अत्तणो वावादणादो । मा अ एणं जणं विसुमरेसि । मदयन्तिका—(सकोपमिव ।) ॲपेहि । णह्मि दे वसंवदा । कामन्दकी—हन्त, निश्चितं वराकया । १. यथा यूयमाज्ञापयथ । २. किमाज्ञापयथ, अग्रेसरीभवेति । अवहितास्मि । ३. सखि, प्रसीद । विरमैतस्मादात्मनो व्यापादनात् । मा चैनं जनं विस्मारिष्यसि । ४. अपेहि । नास्मि ते वशंवदा । करोतु, येन जन्मान्तरेऽपि तावत्प्रियसखीं प्रेक्षिष्ये । संगम इति। मरणचि- न्तायाः संगमो भविष्यतीत्याशङ्क्य यद्यपि शुभाशुभकर्मणां भिन्नलोकप्राप्तिहेतूनां भेदात्कदाचित्संगमः स्यान्न वा स्यान्नाम । तत्फलं मरणफलं भवतु । मालती- मरणरूपदुःखोपशमरूपं भविष्यतीत्यर्थः ॥ ७ ॥ लवङ्गिका । यथा यूयमाज्ञाप- यथ । उत्तिष्ठति पतनायेति शेषः ॥ कामन्दकी । सदयं लवङ्गिकां वीक्ष्य । लवङ्गिकां धारयेति वक्तुमक्षमा मदयन्तिकामाकारयति । मदयन्तिका तु मालती- वियोगदुःखमसहमाना लवङ्गिकाविनाशमपि द्रष्टुमसमर्थाह—मदयन्तिका । कि- माज्ञापयेथेति । लवङ्गिकायास्त्वम्रेसरीभवेति । अवहितास्मि सावधानास्मि तथा व्यापारे ॥ लवङ्गिका । सखि, प्रसीद । विरमैतस्मादात्मनो व्यापादनात् । आत्मा- नमुद्दिश्य—मा चैनं जनं विस्मारिष्यसि ॥ मदयन्तिका । शिखरात्पतितुं कृत- निश्चया लवङ्गिकां सकोपमिवाह—अपेहि । नास्मि ते वशंवदा । अवश्यं मरिष्या- मीत्याशयः । वशंवदा या भवत्याः सैव स्मरिष्यतीत्याशयः ॥ कामन्दकी । निश्चितं शरीरपातनकर्मांनया । वराकीत्यनुकम्पायाम् । मदयन्तिका मकरन्दपरा- क्रमक्रीतमात्मनो जीवितं तदायत्तं त्यक्तुं मनसा मकरन्दं जीवितेश्वरं प्रणमति ॥
२३४ मालतीमाधवे मदयन्तिका—(स्वगतम् ।) १णाह मअरन्द, णमो दे । लवङ्गिका—भअवदि, अअं एव्व महुमदीसोत्तसंदाणिदपवि- त्तमेहलो महीहरविटङ्को । कामन्दकी—कृतमिदानीं प्रस्तुतान्तरायेण । (सर्वाः पतितुमिच्छन्ति ।) (नेपथ्ये ।) आश्चर्यम्, व्यतिकर इव भीमस्तामसो वैद्युतश्च क्षणमुपहतचक्षुर्वृत्तिरुद्भूय शान्तः । कामन्दकी—(विलोक्य साद्भुतहर्षम् ।) कथमिह मम वत्सस्तत्किमेतत् मकरन्दः—(प्रविश्य ।) किमन्य- त्प्रभवति हि महिम्ना स्वेन योगीश्वरीयम् ॥ ८ ॥ १. नाथ मकरन्द, नमस्ते । २. भगवति, अयमेव मधुमतीस्रोतस्संदानितपवित्रमेखलो महीधरवि- टङ्कः । मदयन्तिका । नाथ मकरन्द, नमस्त इति ॥ लवङ्गिका । भगवति, अयमेव मधुमतीस्रोतसः संदानितत्वेन पवित्रमेखलो महीधरविटङ्कः । 'कपोतपालिकायां तु विटङ्कं पुंनपुंसकम्' इत्यमरः । मधुमती नदी ॥ कामन्दकी । प्रकृतमत्र मरणम् । तदन्तरायः कालक्षेपरूपः ॥ व्यतिकर इति श्लोको व्याख्यातपूर्वः ॥ कामन्दकी । साश्चर्यं सहर्षं च । वदतीति शेषः । अयमीदृशो व्यतिकरः सं- प्रदायोपदेशपरम्परापरिपक्वसमाधिप्रभवप्रकृष्टाभ्युदयसूचकः कथमन्यत्र संभाव्यते मदन्तेवासिव्यतिरेकेण । तद्व्यतिकरदर्शनमद्भुतहर्षयोर्निमित्तमिति भावः । तत्कथं मम वत्सो मकरन्दो दृश्यत इति शेषः । तद्दर्शितफलं तावद्व्यतिकररूपेण शुभ- निमित्तेन व्यतिकरनिदानमप्यस्मादेव ज्ञातव्यमित्याशयः । तत्किमेतदिति का- मन्दकीप्रश्नवाक्यैकदेशं प्रति कथाजिज्ञासापरमवगम्य मकरन्दः प्रविश्य व- दति—किमन्यदिति । इयं कापि योगीश्वरी प्रकृष्टयोगर्द्धिः । तत्प्रभावादयं व्यतिकर इत्यभिप्रायः । कामन्दकीप्रभृतिभिश्च प्रकृष्टहर्षपूर्यमाणमकरन्दनयनचे- ष्टाभिः कुशलिनी मालती समास्तेति निर्णीतमिति प्रतीयमानोऽर्थः । अत एव
दशमोऽङ्कः । २३५ (नेपथ्ये *) कथमतिदारुणो जनावमर्दः संवर्त्तते । मालत्यपायमधिगम्य विरक्तचेताः सांसारिकेषु विषयेषु च जीविते च । निश्चित्य वह्निपतनाय सुवर्णबिन्दु- मभ्येति भूरिवसुरित्यधुना हताः स्मः ॥ ९ ॥ मदयन्तिकालवङ्गिके—झत्ति मालदीमाहवाणं दंसणब्भुदओ झत्ति अव्वाहिदं अ । कामन्दकीमकरन्दौ—दिट्ठ्या । कष्टं भोः आश्चर्यम् । किमयमसिपत्रचन्दनरसच्छटासारयुगपदवपातः । अनलस्फुलिङ्गकलितः किमयमभ्रः सुधावर्षः ॥ १० ॥ संजीवनौषधिविषव्यतिकरमालोकतिमिरसंभेदम् । अद्य विधिरशनिशशधरमयूखसंवलनमनुकुरुते ॥ ११ ॥ (नेपथ्ये ।) हौ ताद, विरम । उत्सुअम्हि ते वदनकमलदंसणस्स पसीद । १. झटिति मालतीमाधवयोर्दर्शनाभ्युदयो झटित्यत्याहितं च । २. हा तात, विरम । उत्सुकास्मि ते वदनकमलदर्शनस्य । प्रसीद । सं- पतनाद्विरताः सर्वोः ॥८॥ नेपथ्य इति । दारुणदुःखजनकत्वात्सत्पतनस्य द्रष्टॄणां संमर्दः । मालतीति । पुनरपि तथैवापहृतेति सामान्यतोऽधिगम्य ज्ञात्वा सांखा- रिकेषु संसारभूतेषु विषयेषु जीवितेषु चोपरतमनाः पुनश्च तमेवापायं निश्चित्य वह्निप्रवेशनाय सुवर्णबिन्दुसंज्ञकं शिवायतनमभ्येतीति हताः स्म इति परिजनवचः ॥९॥ मदयन्तिकालवङ्गिके । झटिति मालतीमाधवयोर्दर्शनाभ्युदयो जातप्राय इव जातः। झटित्यत्याहितं महाभीतिश्च भूरिवसुविनाशशङ्कया ॥कामन्दकीमक- रन्दौ । मालतीमाधवयोरभ्युदयेन सहर्षो,भूरिवसुदहनप्रवेशाच्च सखेदौ । किमिय- मिति । किमयं भूरिवसुदहनप्रवेशश्रवणमालतीमाधवप्रत्यासन्नदर्शनव्यतिकरोऽसि- पत्रचन्दनरसच्छटासारत्वमुभयेम् । एवमुत्तरार्धेऽपि युज्यते । किमयं व्यतिकरो मेघं विना देहदहनकरणादमृतवर्षः ॥ १० ॥ संजीवनेति । अद्य विधिर्भाग्यम- स्माकं कर्तृ द्वयोरत्यन्तविपरीतक्रिययोर्दुःखसुखनिमित्तयोर्वस्तुनोरुद्वेगानन्दजनक- त्वेन मेलनमनुकुरुते । तथथा संजीवनौषधिविषयोर्व्यतिकरो मिश्रणं तथा प्रका- शतिमिरयोः संभेदः संगमः । तथा वज्रचन्द्रकरयोः संमेलनमिति ॥ ११ ॥ नेपथ्ये । हा तात, विरम । उत्सुकास्मि ते वदनकमलदर्शनस्य । प्रसीद । संभा-
२३६ मालतीमाधवे संभावेहि मं। कहं मम कारणादो समत्थलोआलोअन्तरालविक्खम्भ- णिम्मलेकमङ्गलप्पदीपभूदं अत्ताणं परिच्चअसि । मए उण अलज्जाए णिरणुकोसाए तुह्मे परिच्चत्ता । कामन्दकी—हा वत्से, मालति । जन्मान्तरादिव पुनः कथमपि लब्धासि यावदयमपरः । उपराग इव शशिकलां कवलयितुमुपस्थितोऽनर्थः ॥ १२ ॥ इतरे—हा पियसहि । (ततः प्रविशति मुग्धां मालतीं धारयन्माधवः ।) माधवः — कष्टं भोः । एषा प्रवासं कथमप्यतीत्य याता पुनः संशयमन्यथैव । को नाम पाकाभिमुखस्य जन्तो- रद्वाराणि दैवस्य पिधातुमीष्टे ॥ १३ ॥ मकरन्दः—सखे, अथ क सा योगिनी । माधवः— श्रीपर्वतादिहाहं सत्वरमपतं तयैव सह सद्यः । करुणवनेचरवचनादन्तरितां तां न पश्यामि ॥ १४ ॥ भावय माम् । कथं मम कारणात्समस्तलोकालोकान्तरालविष्कम्भनिर्मलैकम्- ङ्गलप्रदीपभूतमात्मानं परित्यजसि । मया पुनरलज्जया निरनुक्रोशया यूयं परित्यक्ताः । १. हा प्रियसखि । वय माम् । कथं मम कारणात्समस्तलोकालोकान्तरालविष्कम्भनिर्मलैक मङ्गलप्र- दीपभूतमात्मानं परित्यजसि । मया पुनरलज्जया निरनुक्रोशया यूयं परित्यक्ताः ॥ कामन्दकी। जन्मेति। अपरोऽनर्थो भूरिवसुविनाशहेतुरनलप्रवेशरूपः कपाल- कुण्डलामिव त्वां कवलयितुमुपस्थितः । कापालिकाभिभवक्लेशैः क्षीणत्वेन शशि- कलामात्रसमानामनर्थ उपराग इवेत्यर्थः ॥ १२ ॥ माधवः । एषेति । जन्तोः प्राणिनो दैवस्य भाग्यस्य । पुराकृतस्य कर्मण इति यावत् । पाकाभिमुखस्य संनि- हितसुखदुःखादिरूपफलदानप्रवणस्य द्वाराणीव द्वाराणि दुःखानुत्पत्तिनिमित्तान्तरा- णि पुराकृतकर्माव्यतिरिक्तानि परिदृश्यमानानि निराकर्तुमीष्टे । प्रभवतीत्यर्थः ॥१३॥ मकरन्दः । या त्वामादाय निष्क्रान्ता सा क गता ॥ श्रीपर्वतादिति । श्री- पर्वतात्तयैव योगिन्या सह सत्वरं यथा स्यादेवमत्रापतमागतोऽस्मि । वनेचरस्य
दशमोऽङ्कः । २३७ कामन्दकीमकरन्दौ—महाभागे, पुनः परित्रायस्व नः । किमर्थमन्तर्हितासि । मदयन्तिकालावङ्गिके—सँहि मालदि, णं भणामि सहि मा- लदि त्ति । (सोत्कम्पम् ।) भअवदि, परित्ताहि । चिरणिरुद्धणिस्सास- णिच्चलं से हिअअं । हा अमच्च, हा पिअसहि, तुह्मे दुवे वि पर- प्परावसाणस्स कारणं जादा । कामन्दकी—हा वत्से मालति । माधवः— हा प्रिये मालति । मकरन्दः—हा प्रियसखि । (सर्वे मोहमुपगम्य पुनः संज्ञां लभन्ते ।) कामन्दकी—तत्किमेष झटिति पाट्यमानादिवाम्बुदादम्बुनि- वहः परिस्खलन्नस्मान्प्रीणयति । माधवः—(सोच्छ्वासम् ।) अये, प्रत्यापन्नचेतनेव मालती । तथा- ह्यस्याः भवति विततश्वासोन्नाहप्रणुन्नपयोधरं हृदयमपि च स्निग्धं चक्षुर्निजप्रकृतौ स्थितम् । १. सखि मालति, ननु भणामि सखि मालतीति । भगवति, परित्रा- यस्व । चिरनिरुद्धनिःश्वासनिश्चलमस्या हृदयम् । हा अमात्य, हा प्रिय- सखि, युवां द्वावपि परस्परावसानस्य कारणं जातौ । वचनं भूरिवसुर्वह्निपतनाय सुवर्णबिन्दुमभ्येतीत्येवंरूपम् । तस्मादनन्तरमन्तर्हितां न पश्यामि ॥ १४ ॥ कामन्दकीमकरन्दौ । किमर्थं तिरोहितासि । मालतीविप- न्निराकरणद्वारेदानीमपि भूरिवसुविनाशरुपमालतीविपत्तित्रासेन पुनर्नोऽस्मान्परि- त्रायस्वेत्यर्थः । मदयन्तिकालावङ्गिके । सखि मालति, ननु भणामि सखि मालतीति । विलापोक्तिप्रभेदोऽयम् । भगवति, परित्रायस्व । चिरनिरुद्धनिःश्वासनिश्च- लमस्या हृदयम् । हा अमात्य, हा प्रियसखि, युवां द्वावपि परस्परावसानस्य कारणं जातौ । द्वयोरपि विनाशहेतुरित्याशयः ॥ कामन्दकी । पाट्यमानादिवेति स्वाभाविकवर्षविलक्षणाकाण्डप्रवृत्तारम्भः पतननिमित्तकोकिरियम् । प्रीणयति संतर्प- यति । जीवयतीत्यर्थः ॥ माधवः । प्रत्यापन्नचेतनेव प्रत्यापन्नजीवितेव । तल्लिङ्गा- न्याह—भवतीति । प्रथमं निरुद्धः पश्चाद्विततो विस्तारितो यः श्वासोन्नाहस्तेन प्रणुन्नौ पयोधरौ यत्र हृदये तत्तादृक् । उन्नाह उच्छ्रायः । चक्षुरपि च यन्मोहप्र- भावादस्निग्धमासीत्तत्प्रकृतौ तत्स्वभावे स्थितं मुग्धमभूदित्यर्थः । अत्र निजेति
? No, it has a vertical line and a hook, like 'ति'! Wait, let's look at the letters after 'जलदाम्बु':
- ध
- ?
- ? Wait, count: ज (1) ल (2) दा (3) म्बु (4) धै (5) ति (6) नौ (7) य (8) स्याः (9) । Wait, "जलदाम्बुधैति नौ यस्याः" has 9 aksharas. Let's count: सा (1) यो (2) गि (3) नी (4) य (5) म (6) ति (7) र (8) य (9) वि (10) घ (11) टि (12) त (13) ज (14) ल (15) दा (16) म्बु (17) ... Wait! What meter is verse 17? Let's check line 11: वा-ग-मृ-त-ज-ल-सा-रो (8 syllables) ज-ल-द-ज-ला-सा-र-म-ति-शे-ते (11 syllables) Total = 19 syllables? No, line 11 is: "वागमृतजलसारो जलदजलासारमतिशेते ॥ १७ ॥" Wait, how many syllables? वा (1) ग (2) मृ (3) त (
दशमोऽङ्कः । २३९ अङ्गकैस्तुहिनसङ्गशीतलैः पुत्रि मां प्रियसखीं च जीवय ॥ १८ ॥ माधवः—वयस्य मकरन्द, संप्रत्युपादेयो माधवस्य जीवलोकः संवृत्तः । मकरन्दः—(सहर्षम् ।) एवमेवैतत् । इतरे—पिअसहि, मणोरहातिकान्तदंसणे, संभावेहि अम्हे परि- स्सङ्गेण । मालती—हा २ पिअसहिओ । (इत्युभे आलिङ्गति ।) कामन्दकी—वत्सौ, किमेतत् । माधवमकरन्दौ—भगवति, कपालकुण्डलाकोपदुर्जातजनितापदः । वयमभ्युद्धृताः कृच्छ्रान्निर्वन्धादार्ययानया ॥ १९ ॥ कामन्दकी—कथमघोरघण्टवधविजृम्भितमेतत् । लवङ्गिकामदयन्तिके—३अहो अच्चरिअं । पुणरुत्तदारुणस्स परिणामरमणिज्जत्तणं विहिणो । सौदामिनी—(प्रविश्य ।) भगवति, स एष चिरंतनोऽन्तेवासी जनः प्रणमति । १. प्रियसखि, मनोरथातिक्रान्तदर्शने, संभावयास्मान्परिष्वङ्गेण । २. हा प्रियसख्यौ । ३. अहो आश्चर्यम् । पुनरुक्तदारुणस्य परिणामरमणीयत्वं विधेः । जीवतु। हिमसङ्गशीतलैस्तवावयवैर्मां प्रियसखीं च जीवयेत्यर्थः। आलिङ्गनदानादिति भावः ॥ १८ ॥ इतरे । प्रियसखि, मनोरथातिक्रान्तदर्शने संभावयास्मान्परिष्वङ्गेण॥ मालती । हा प्रियसख्यौ ॥ कामन्दकी । किमेतदिति माधवमकरन्दौ प्रति प्रश्नः। अथ तयोरिदमुत्तरम्—भगवति, कपालकुण्डलेति। दुर्जातं मालत्य- पहरणवृत्तान्तरूपं तज्जनितापदो वयं कृच्छ्रादपायान्निर्वन्धादतिप्रयत्नादुद्धृताः ॥ १९ ॥ कामन्दकी। अघोरघण्टे माधवेन निहते सति यत्तदन्तेवासिन्या माधवं प्रत्यपकाररूपो मालतीहरणद्वारा व्यापारस्तत्किलाघोरघण्टवधविजृम्भितमिति ॥ लवङ्गिकामदयन्तिके। अहो आश्चर्यम्। पुनरुक्तदारुणस्य परिणामरमणीयत्वं विधेः । पुनरुक्तमिव पुनरुक्तं पुनःपुनर्मालतीहरणम् । परिणामरमणीयत्वं चान्ते- ऽक्षतमालतीलाभेन ॥ सौदामिनी । अन्तेवासी जन इत्यात्मनः पुँल्लिङ्गनिर्देशा-
२४० मालतीमाधवे कामन्दकी—अये, भद्रम्। सौदामिनि। माधवमकरन्दौ—कथमियं सा भगवत्याः पक्षपातस्थानमाद्य- शिष्या सौदामिनी। यतः सर्वमधुना संगच्छते। कामन्दकी— एह्येहि भूरिवसुजीवितदानपुण्य- संभारधारिणि चिरादसि हन्त दृष्टा। दत्तप्रमोदमभिनन्दय मे शरीर- मालिङ्ग्य सौहृदनिधे विरम प्रणामात् ॥ २० ॥ अपि च। वन्द्या त्वमेव जगतः स्पृहणीयसिद्धि- र्देवंविधैर्विलसितैरतिबोधिसत्त्वैः। यस्याः पुरा परिचयप्रतिबद्धबीज- मुद्भूतभूरिफलशालि विजृम्भितेन ॥ २१ ॥ मदयन्तिकालवङ्गिके—१ईअं सा अज्जा सौदामिणी। १. इयं सार्या सौदामिनी। त्कपालकुण्डलागृहीतमालतीपरित्राणरूपमात्मनः पुरुषार्थसाधकत्वं सूचयति। चि- रंतनः प्रथमाप्तदीक्षः सिद्धमन्त्रेणाचार्येण प्रथमप्रकृष्टमन्त्रः प्रकृष्टशिष्यभावादि- त्याशयः॥ माधवमकरन्दौ। कथंशब्द आश्चर्य। पक्षपातस्थानं स्मारयति पू- र्वशिष्या सौदामिनीति। स्वतन्त्रेषु स्थानेषु सौदामिनीस्मरणात्सत्सर्वमिदं मालती- विपत्प्रतीकारव्यापाररूपमेतत्सर्वं संगच्छते संगतं भवति। युज्यत इत्यर्थः। ए- ह्येहीति। भूरिवसुजीवितदानेन यः पुण्यसंभारस्तद्धारेण। जीवितदानं च माल- तीभूरिवसुविपन्निवारणद्वारम्। हन्त हर्षे। तदीदृगत्यन्ताभीष्टद्वयसंपादनेन दत्त- प्रमोदमपि मद्वपुरालिङ्गनेनानन्दय। प्रणामाद्विरम। त्वमेव जीवितदायित्वेनानुगु- णोत्कर्षेण च प्रणम्या मयेत्याशयः। 'गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वयः' इत्यादिवचनात् ॥ २० ॥ एतदेवोत्तरश्लोकेन व्यक्तीकरोति-वन्द्येति। एवंविधैः परोपकारफलैर्विलसितैर्व्यापारैरतिबोधिसत्त्वैरतिक्रान्तबोधिसत्त्वैः। मनो- गतागमेषु ब्रह्ममायापीह बोधसङ्ख्येन कथिता(?)जीवितव्ययेनापि परार्थसाधनैक- व्यापारैर्विलसितैस्त्वमेव वन्द्या जगतः। तन्मम वन्दनाद्विरमेत्यर्थः। स्पृहणीया सिद्धिर्यस्याः सा तादृशी मन्त्रसिद्धिरस्माकमपि स्पृहणीया। यस्यास्तव विजृम्भि- तेनेदृशव्यापारेण तद्बीजं मालतीमाधवतत्प्रताननिधानमद्भुतप्रचुरफलशाल्यभूदि-
दशमोऽङ्कः । २४१ मालती—बोढम् । इमाए क्खु भववदीसंबन्धपक्खवादिणीए णि- ब्भच्छिअ कवालकुण्डलं अत्तणो आवसहं उवणिज आसासिदम्हि । किं अ केसरावलीसाभिण्णाणहत्थाए इह आगत्तूण सब्वे तुम्हे संधारिदा । इतराः—सुँप्पसण्णा णो कणिठ्ठा भववदी । मकरन्दमाधवौ—अहो नु खलु भोः । अपि चिन्तामणिश्चिन्तापरिश्रममपेक्षते । इदं त्वचिन्तितं मन्ये कृतमाश्चर्यमार्यया ॥ २२ ॥ सौदामिनी—(स्वगतम् ।) हन्त, लज्जयति मामत्यन्तसौजन्यमे- तेषाम् । (प्रकाशम् ।) भगवति, एतत्प्रहृष्टनन्दनाभिनन्दितेन राज्ञा प- द्मावतीश्वरेण भूरिवसोः प्रत्यक्षमभिलिख्य पत्रमायुष्मतो माधवस्य प्रे- षितम् । (लेखमर्पयति
१४२ मालतीमाधवे तेनेयं मदयन्तिकापि भवतः प्रीत्यै तव प्रेयसे मित्राय प्रथमानुरागघटिताप्यस्माभिरुत्सृज्यते ॥ १३ ॥ (माधवमुद्दिश्य सहर्षम् ।) वत्स, श्रूयताम् । माधवः—श्रुतम् । इदानीं सर्वथा कृतार्थोऽस्मि । मालती—दिट्ठिआ एदं वि दाव अवगदं हिअअस्स सङ्कासल्लं । लवङ्गिका—संपदं णिरवसेसं पूरिआ माहवसिरिणो मणोरहा । मकरन्दः—(पुरोऽवलोक्य ।) कथमवलोकिताबुद्धरक्षिते कलहंसश्च दूरतः समागतानस्मान्वीक्ष्य तत्रैव हर्षनिर्भरं नृत्यन्त इत एवागच्छन्ति । (ततः प्रविशतोऽवलोकिताबुद्धरक्षिते कलहंसश्च ।) ते—(विविधं नृत्यं कृत्वा सर्व उपसृत्य सप्रमाणं कामन्दकीं प्रति ।) अउँ मअवदि कज्जाणिहाणे । (माधवं प्रति ।) जअ मअरन्दणन्दण माहव पुण्णचन्द, दिट्ठिआ वड्ढसि । (सर्वे सस्मितं पश्यन्ति ।) १. दिष्ट्या एतदपि तावदपगतं हृदयस्य शङ्काशल्यम् । २. सांप्रतं निरवशेषं पूरिताः श्रीमाधवस्य मनोरथाः । ३. जय भगवति कार्यनिधाने । जय मकरन्दनन्दन माधव पूर्णचन्द्र, दिष्ट्या वर्धसे । निरस्तविपदि महाकुले जामातरि त्वयि प्रीतिरुचितेत्याशयः । तेन हेतुना पूर्वानु- रागेण प्राणात्ययनरूपेण योजितापि तव प्रीत्यर्थं तव मित्राय मकरन्दायास्माभिर्दीयते इत्यर्थः ॥ १३ ॥ माधवमुद्दिश्य कामन्दकी वदति—श्रूयतामिति । माधवः । निखिलार्थ इति शेषः । नृपतिनन्दनादिना सर्वथा कृतार्थोऽस्मीत्यर्थः ॥ मा- लती । दिष्ट्या, एतदपि तावदपगतं हृदयस्य शङ्काशल्यम् ॥ लवङ्गिका । सांप्र- तं निरवशेषं पूरिताः श्रीमाधवस्य मनोरथाः । प्राकृते पूर्वनिपातस्यानियमतया श्री- शब्दस्योत्तरनिपातलक्षणं भवति ॥ कार्यनिधानशब्दादण्प्रत्ययेन निधानसंबन्धरू- पं सर्वं कार्यजातं त्वयैकया निष्पादितमिति त्वमेव कार्याणां निधिः । जय मकर- न्दनन्दन माधव पूर्णचन्द्र । मकरन्दस्य मदयन्तिकालाभादपि माधवस्य मालती- लाभ एवातिशयानन्द इति मकरन्दनन्दनत्वे वाचोयुक्तिः । पापवृद्धिपक्षपर्यन्त- त्वेन पूर्णश्चन्द्रः । संप्राप्ताखण्डमनोरथतयास्य पूर्णचन्द्रस्योक्तिः । दिष्ट्या वर्धसे । सस्मितं पश्यति । तेषां प्रमोदवृत्तमिति शेषः । भगवत्यन्तेवासिन्यवलोकिता नृत्य-
? or त्?
Wait: नावग्रहा then ल्यस्त? Look at line 13: नावग्रहाल्यस्तशङ्काः - wait, look at the letter between 'हा' and 'स्त':
It has a vertical right stroke, and on the left, a loop at the bottom like 'ल'? Or is it 'त्' + 'य'?
Wait, in old font: 'त्' + 'य' is written as 'त्य'. But look at: there is a 'ल' shape? No, look at line 13: नावग्रहाल्यस्तशङ्काः vs नावग्रहात्यस्तशङ्काः.
Actually, could it be नावग्रहात्त्यस्तशङ्काः? There is a horizontal line across the vertical: like ल्य or त्य?
Wait, look at line 32 in commentary:
प्रत्यस्तशङ्का निःशङ्काः ।
In the main text, it's clearly a misprint or variant for प्रत्यस्तशङ्काः or त्यस्तशङ्काः.
Look at the glyph: it has 'त्' and 'य' stacked? No, it looks like त्यस्तशङ्काः (नावग्रहात्यस्तशङ्काः). Let's transcribe नावग्रहात्यस्तशङ्काः.
* Wait, let's check line 5:
२४४ मालतीमाधवे न्यथा वस्तु प्रवृत्तम्, अन्यथा वचनमस्याः । यतः श्रावकावस्थाया- मसत्सौदामिनीसमक्षं तयोः प्रवृत्तेयं प्रतिज्ञावाभ्यामपत्यसंबन्धः कर्तव्य इति । प्रधानप्रकृतिकोपस्त्वेवं परिहृतः । मालती—^१अहो संवरणम् । मकरन्दमाधवौ—(आश्चर्यम् ।) जयन्ति खलु महतां विसंवा- दिन्यः प्रत्यायिन्यः कल्याणा नीतयः । कामन्दकी—वत्स, यत्प्रागेव मनोरथैर्वृतमभूत्कल्याणमायुष्मतो- स्तत्पुण्यैर्मदुपक्रमैश्च फलितं क्लेशैश्च मच्छिष्ययोः । निष्णातश्च समागमोऽपि विहितस्त्वत्प्रेयसः कान्तया संप्रीतौ नृपनन्दनौ यदपरं प्रेयस्तदप्युच्यताम् ॥ २४ ॥ माधवः—(सहर्षम् ।) अतः परं मम प्रियमस्ति तथापीदमस्तु भरतवाक्यम्— १. अहो संवरणम् । यामुपदेशसमये प्रीत्या परिग्रहाय नानादिगन्तवास्तव्यजनसाहचर्यमासीदिति । सौदामिनीसमक्षमिति । तेन सौदामिन्येवात्र साक्षिणी । यद्यथा वस्तुव्या- पाराभ्यां तयोः संनिधानमेव तत्प्रियंकरत्वेन । इयं तु विपत्प्रतीकारं कृतवतीत्या- शयः । अवश्यमावाभ्यामपत्यसंबन्धः कर्तव्य इत्यात्मनः प्रवृत्तिसमयनिश्चितं कुट्टनीभावं समस्तलोकसमक्षपरिसृतं पृच्छति । अनेनैव साक्षात्प्रतिषेधः । को- पायः । शिवस्तदुपाय इति निर्वहणार्थं स्मारयति ॥ मालती । अहो संवरण- मिति । अहो अत्युक्तौ । संवरणं हि तद्विशेषतस्तु बालक्रीडादित्यादि प्रतिसंहि- तम् ॥ मकरन्दमाधवौ । विसंवादिन्यो विप्रलम्भकाः । प्रत्यायिन्यः प्रत्यय- युक्ताः । प्रत्ययशब्दस्य प्रभावपर्यायत्वात्प्रभावश्च दुर्घटोऽपि कार्यस्य झटिति संघटनेनोन्नेयः । कल्याणाः शुभाः । जयन्तीति च स्तुतौ च कथं भवत्याः सुमे- धसो नीतिर्विपर्यस्यते । मुखसंधिसूचितमनुसंधेयम् । कामन्दकी । यत्प्रा- गेवेति । कल्याणं करग्रहणरूपं पुण्यैः प्रागाचरितैरा राधकैरुपकारकैर्मदुपक्रमैः संनिपत्यकारकैर्मम बुद्धिव्यापारैः करणभूतैस्तत्कल्याणं फलितम् । तथा शिष्य- योर्भूरिवसुदेवरातयोरभिमतं पाणिग्रहणं स्यादित्येवंरूपचिन्ताजन्यखेदाः फलिताः । तद्वत्प्रेयसो मकरन्दस्य कान्तया मदयन्तिकया सह निष्णातो निपुणः समागमो विहितः कृतः । तथा संप्रीतौ राजनन्दनाविति यौ प्राग्विचिन्तितौ तौ
दशमोऽङ्कः । २४५ शिवमस्तु सर्वजगतां परहितनिरता भवन्तु भूतगुणाः । दोषाः प्रयान्तु शान्तिं सर्वत्र सुखी भवतु लोकः ॥ २५ ॥ कामन्दकी—एवमस्तु । (इति निष्क्रान्ताः सर्वे ।) इति महाकविश्रीभवभूतिविरचिते मालतीमाधवे दशमोऽङ्कः । वः संप्रीतौ संजातप्रीतिसंयुक्तौ ॥ २४ ॥ अतः किमपरं प्रियतरं किमस्ति तदप्युच्यताम् । साधयामि इत्यादिपदैः क्रमेण विप्रादिशूद्रपर्यन्ताश्च चत्वारो वर्णा आशंसाविषयाः (?) ॥ २५ ॥ शबरस्वामिप्रीत्या प्रकरणरत्नाकरे तु भवभूतेः । सारोद्धारं मन्दरमकृत कृती व्याकृतिं नान्यः ॥ अतिदुस्तरोऽल्पमतिना पावनकर्मप्रसादनो हि मुदा । हारं हारं व्याख्यामाश्रित्य प्रकरणोदधिस्तीर्णः ॥ इति श्रीशिलाभट्टीयान्वयश्रीहरिचन्द्रसूनोस्त्रिपुरारिपदाम्भो- जभृङ्गायमानमानसस्य श्रीनान्यदेवस्य कृतौ मालती- माधवीयटीकायां दशमाङ्कविवरणम् ॥