मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
६४ मालतीमाधवे लवङ्गिका—जहा भअवदी आणवेदि तं तह एव । अण्णहा तस्सि वरे दुद्दंसणे अदिक्कन्दजोव्वणे किं ति ण विआरिदं अमच्चेण । मालती—(स्वगतम् ।) हा, हदह्नि समुपत्थिदाणत्थवज्जपडणा मन्दभाइणी । लवङ्गिका—ता पसीद । भअवदि, परित्ताहि एत्तो जीवन्तमर- णादो पिअसहिं । तुह वि एसा दुहिदा एव । कामन्दकी—अयि सरले, किमत्र भगवत्या शक्यम् । प्रभ- वति प्रायः कुमारीणां जनयिता दैवं च । यच्च किल कौशिकी शकुन्तला दुष्यन्तमप्सराः पुरूरवसं चकमे उर्वशीत्याख्यानविद आचक्षते, वासवदत्ता च पित्रा संजयाय राज्ञे दत्तमात्मानमुदय- नाय प्रायच्छदित्यादि, तदपि साहसकल्पमित्यनुपदेष्टव्यमेव । सर्वथा [L13
द्वितीयोऽङ्कः । ६५ दुर्दर्शनेन घटतामियमप्यनेन धूमग्रहेण विमला शशिनः कलेव ॥ ८ ॥ मालती—(स्वगतम् ।) हा ताद, तुमं वि मम णाम एवं त्ति जिदं भोगतिण्हाए । अवलोकिता—चिराइदं भअवदीए । णं भणामि अस्सत्थ- चित्तो महाभाओ माहवो त्ति । कामन्दकी—इदं गम्यते । वत्से, अनुजानीहि माम् । लवङ्गिका—(जनान्तिकम् ।) सैहि मालदि, संपदं भअवदीए सकासादो तस्स महाणुहावस्स उद्गमं जाणीमो । १. हा तात, त्वमपि मम नामैवमिति जितं भोगतृष्णया । २. चिरायितं भगवत्या । ननु भणाम्यस्वस्थचित्तो महाभागो माधव इति । ३. सखि मालति, सांप्रतं भगवत्याः सकाशात्तस्य महानुभावस्योद्गमं जानीमः । भजते यः स्वयं प्रीतिं प्रियः स परिकीर्तितः ॥ दुःखे विपदि संमोहे कार्यकार्यालये- ऽपि वा। हितान्वेषी च हितकृद्यः सुहृत्सोऽभिधीयते ॥' इति । तेनातीव विश्रम्भस्था- नत्वं सूचितं न केवलं मित्रमात्रम् । अपि तु सचिवाय स्वकुल्याय नन्दनायात्मजां कार्याद्धेतोर्देवामात्यो निर्वृतिमान्भवतु । संप्रधारणे लोट् । दुर्दर्शनादेवानर्थहेतुना- नेन नन्दनेन सह धूमग्रहेण । धूमकेतुरपि दर्शनादेवानर्थं सूचयति । विमला चन्द्र- कलेव । इयमपि घटतां नियतेर्दुर्लङ्घ्यत्वादिति भावः । इदं च संप्रसारणं मालत्या उद्वेगातिशयजननेन स्वविधेयतानयनार्थम् ॥८॥ मालती । स्वगतम् । हा तात, त्वमपि मम नामैवमिति जितं भोगतृष्णया। त्वमप्यपत्यवत्सलो विवेकी च मम नाम नान्यदीयस्य जनस्य स्नेहैकसम्बनाया दुहितुरपि । एवं जीवितनिरपेक्षः। भोगतृष्णये- त्युक्ते केनान्येन भोगतृष्णा जेतव्या । तस्मात्तया जितम् । अकुण्ठितप्रसरत्वं प्राप्तमि- त्यर्थः । एवं नन्दनस्य दुष्टताममात्यस्य च स्वकार्यैकपरतामुक्त्वा नन्तरं माधवस्य कु- लरूपवैदग्ध्यप्रकाशनेना नुकूल्यं विवक्षन्त्या कामन्दक्या अभिप्रायज्ञावलोकिता गम- नकाल निवेदनव्याजेन प्रसङ्गं संपादयति ॥ अवलोकिता । चिरायितं भगवत्या चिरं विलम्बः कृतः। ननु भणाम्यस्वस्थचित्तो महाभागो माधव इति । त्वरितं गन्तव्य- मिति शेषः । कामन्दकी । इदं गम्यते । इदमिति गमनक्रिया विशेषणम् । प्रत्यक्षत्व- कथनेन संनिधानसूचनार्थमिदम् ॥ लवङ्गिका । जनान्तिकलक्षणं तूक्तम् । उभयो- रभिप्रायज्ञा लवङ्गिका कामन्दक्या विवक्षां मालत्याः शुश्रूषां ज्ञात्वा शनैर्मालत्याः कर्णे वदतीत्यर्थः । सखि मालति, सांप्रतं भगवत्याः सकाशात्तस्य महानुभावस्योद्गममुत्प-
६६ मालतीमाधवे मालती—(जनान्तिकम् ।) १अत्थि मे कोऊहलम् । लवङ्गिका—(प्रकाशम् ।) २को एसो माहवो णाम, जस्सि भअ- वदी एवं सिणेहगुरुअं अत्ताणं धारेदि । कामन्दकी—अप्रस्ताविनी महत्येषा कथा । लवङ्गिका—३तह वि आअक्खिअ भअवदी पसादं करेदु । कामन्दकी—श्रूयताम् । अस्ति विदर्भराजस्यामात्यः समग्रपु- रुषप्रकाण्डचक्रचूडामणिर्देवरातो नाम । यमशेषभुवनमहनीयपुण्यम- हिमानमात्मनः सातीर्थ्योऽपितैव ते जानाति योऽसौ यादृशश्चेति । अपि च । व्यतिकरितदिगन्ताः श्वेतमानैर्यशोभिः सुकृतविलसितानां स्थानमूर्जस्वलानाम् । अगणितमहिमानः केतनं मङ्गलानां कथमिव भुवनेऽस्मिंस्तादृशाः संभवन्ति ॥ ९ ॥ १. अस्ति मे कौतूहलम् । २. क एष माधवो नाम; यस्मिन्भगवत्येवं स्नेहगुरुकमात्मानं धारयति । ३. तथाप्याख्याय भगवती प्रसादं करोतु । तिस्थानं कुलं विशुद्धमिति यावज्जानीमः ॥ मालती । जनान्तिकमेव । अस्ति मे कौतूहलम् । अस्मिन्नर्थे तत्पृच्छेत्यर्थः ॥ लवङ्गिका । प्रकाशम् । क एष माधवो नाम, यस्मिन्भगवत्येवं स्नेहगुरुकमात्मानं धारयति ॥ कामन्दकी । अप्रस्ताविनी प्रस्तावानुपयुक्ता । महती बहुवक्तव्यसद्भावाद्दिस्तृता । शीघ्रं मया गन्तव्यम्। तदिदानीमवसराभावादप्रस्तुतत्वाच्च किमनया । शुश्रूषातिशयोत्पादनार्थमनादरो- क्तिः॥ लवङ्गिका । तथाप्याख्याय भगवती प्रसादं करोतु ॥ कामन्दकी-श्रूय- तामिति । समग्रस्य कृत्स्नस्य पुरुषप्रकाण्डचक्रस्य पुरुषश्रेष्ठसमूहस्य चूडामणिश्चूड़ा- रत्नम् । श्रेष्ठ इत्यर्थः। सातीर्थ्य सहाध्ययनम्। 'सतीर्थ्यास्त्वेकगुरवः' इत्यमरः । व्य- तिकरितेति । श्वेतमानैर्धवलीभवद्भैर्यशोभिर्व्यतिकरिता जातव्यतिकरा दिगन्ता येषां ते । व्यतिकरो मिश्रीभावः ऊर्जस्वलानां प्रबलानाम् । राशीभूतानामिति या- वत् । सुकृतविलसितानां भागधेयविजृम्भणानाम् । 'प्रकृतविलसितानाम्' इति पाठे स्वभावोत्कर्षाणां स्थानमास्पदम् । अगणितमहिमानोऽपरिच्छेद्यानुभावा मङ्गलानाम- भ्युदयानां केतनं चिह्नभूता वा यत्र ते तत्र मङ्गलमिति । तादृशा अस्मिन्भुवने कथ- मिव संभवन्ति । न कथंचिदित्यर्थः । व्यतिकरितेति । व्यतिकरो व्याप्तिर्मसृणं वास्य संजातो येभ्यो येषु दिगन्तेषु । चेतयन्ति चेतयमानानि । केतनं चिह्नं मङ्गला- नामभ्युदयानां यन्न तादृशाः पुरुषास्तत्र मङ्गलमित्याशयः । ऊर्जस्वलानां तेजस्विनां शूराणां स्थानमुत्पत्तिः। एतेन सहजशूरो माधव इति भावः । अत एव श्मशाने मा-
द्वितीयोऽङ्कः । ६७ मालती—(सहर्षम् १) सेहि, तं क्खु भअवदीए गहीदनामहेअं सवहा तादो सुमरेदि । लवङ्गिका—सेहि, समं किल भअवदीए गुरुसआसादो किज्जा- हिगमो किदो त्ति तक्कालवेदिणो मन्तअन्ति । कामन्दकी— तत उदयगिरेरिवैक एष स्फुरितगुणद्युतिसुन्दरः कलावान् । इह जगति महोत्सवस्य हेतु- र्नयनवतामुदियाय बालचन्द्रः ॥ १० ॥ लवङ्गिका—(अपवार्य ।) अवि णाम माहवो हवे । कामन्दकी— असौ विद्याशाली शिशुरपि विनिर्गत्य भवना- दिहायातः संप्रत्यविकलशरच्चन्द्रवदनः । १. सखि, तं खलु भगवत्या गृहीतनामधेयं सर्वथा तातः स्मरति । २. सखि, समं किल भगवत्या गुरुसकाशाद्विद्याधिगमः कृत इति त- त्कालवेदिनो मन्त्रयन्ते । ३. अपि नाम माधवो भवेत् । लतीविपत्तिस्तारे कृतनिबन्ध्नो भविता । शूरानुरागिण्यो हि युवतयो भवन्तीत्यपि दर्शितं भवतीति व्याख्यानान्तरम् ॥ ९ ॥ मालती । सखि, तं खलु भगवत्या गृहीतनामधेयं सर्वथा तातः स्मरति । स्वयं देवरातनामाग्रहणे मालत्या भाविश्वशुर- त्वव्यवसायो बीजम् ॥ लवङ्गिका । समं किल तयोर्भगवत्या गुरुसकाशाद्विद्या- धिगमः कृत इति तत्कालवेदिनो मन्त्रयन्ते ॥ कामन्दकी—तत इत्यादि । ततोऽस्माद्देवरातादुदयगिरेरिवैक एषः । पित्रोरेकपुत्रतयातीव प्रेमपदत्वमुक्तम् । स्फुरिताः प्रकाशा गुणा गाम्भीर्यादय एव द्युतयस्ताभिः सुन्दरः । कलावांश्चतुःषष्टिक- लाभिज्ञः । इह जगति नयनवतां चक्षुष्मन्मात्रस्य सर्वस्यापि प्राणिजातस्य महोत्सवस्य हेतुराह्लादकारी । लावण्यसंपदनेनोक्ता । बालश्चन्द्र इव बालचन्द्रः । प्रथमयौवनमने- नोक्तम् । उदियायोद्भूतः । श्लेषोपमागर्भो रूपकालंकारः ॥ १० ॥ लवङ्गिका । अपि नाम माधवो भवेत् । यत्र तवानुरागः स एव माधव एवंगुणविशिष्टः संभाव्यत इत्यर्थः ॥ कामन्दकी—असाविति । असौ देवरातनन्दनो विद्याभिः शालत इति विद्याशाली शिशुः सन्नपि भवनाद्विनिर्गत्य संप्रतीहायातः संपूर्णशरच्चन्द्रवदनः । यस्यावलोकनप्रदेशे । यत्र स्थित्वा सोवलोकयते तत्रेत्यर्थः । नारीणां पौरयोषितामु-
६८ मालतीमाधवे यदालोकस्थाने भवति पुरमुन्मादतरलैः कटाक्षैर्नारीणां कुवलयितवातायनमिव ॥ ११ ॥ तदत्र च बालसुहृदा मकरन्देन सह विद्यामान्वीक्षिकीमधीते । स एष माधवो नाम । मालती-(सानन्दं जनान्तिकम् ।) सेहि लवङ्गिए, सुदं महाउल- प्पसूदो महाभाओ त्ति । लवङ्गिका-(जनान्तिकम् ।) सेहि, कुदो वा महोअहिं वज्जिअ पारिजाअस्स उग्गमो । कामन्दकी—अहो कालातिपातः । संप्रति हि क्षिपन्निद्रामुद्रां मदनकलहच्छेदसुभगा- मुपात्तोत्कम्पानां विहगमिथुनानां प्रथमतः । १. सखि लवङ्गिके, श्रुतं महाकुलप्रसूतो महाभाग इति । २. सखि, कुतो वा महोदधिं वर्जयित्वा पारिजातस्योद्गमः । न्मादतरलैरकुण्ठितप्रसरैर्लोलैश्च कटाक्षैः पुरमिदं कुवलयितवातायनं संजातकुव- लयगवाक्षमिव भवति । पूर्णचन्द्रदर्शनेन कुवलयोल्लासो हि युक्तः । सकलवनि- तालोचनीयलावण्यस्य तस्याभिलाषवती भवतीत्यहो ते सौभाग्यमिति भावः ॥ ११ ॥ तदत्रेति । लदनुरागाविष्ट एव विद्याभ्यासव्याजेनेहागत्य वर्तत इति भावः । स इति । य एष कथितो देवरातात्मजः स एव माधव इत्यस्मा- भिर्निर्दिष्ट इत्यर्थः । मालती । सखि लवङ्गिके, श्रुतं महाकुलप्रसूतो माधव इति ॥ लवङ्गिका । सखि, कुतो वा महोदधिं वर्जयित्वा पारिजातस्योद्गमः । पारिजातकल्पात्त्वादृशादेव महोदधिकल्पादुत्पत्तिमर्हति, न तु क्षुद्रपल्वलकल्पान्नी- चादित्यर्थः । तदनेन 'निःश्वस्य । कुशलमिव' इत्यादिना 'स एष माधवो नाम' इत्यन्तेन संदर्भेण प्रासङ्गिकनन्दनवृत्तान्तसूचनम्, तद्गुणहीनत्वम्, पितुः स्वकार्यपर- तयापत्यस्नेहराहित्यम्, शकुन्तलावृत्तान्तस्य निषेधमुखेन सूचनम्, तुल्यसंविधानेन माधवसमागमोपायनिवेदनम्, तद्गुणप्रख्यापनेन तत्रानुरागदृढीकरणं चेत्येतावतो- ऽर्थस्य कामन्दक्या तटस्थयैव संविधानचातुर्येण कृतत्वात्पताकास्थानमिदम्। यथा- 'आगन्तुकेन भावेन यदभिव्यक्तिकारकम् । वस्तुनो भाव्यवस्थस्य पताकास्थान- कं तु तत् ॥ अतीतानागते कार्ये कथ्येते यत्र वस्तुनः । अन्यापदेशव्याजेन पता- कास्थानकं तु तत् ॥' इति । अत एव कामन्दकी वक्ष्यत—'अवलोकिते, साधु संप्रति मया तटस्थयैव मालतीं प्रति निसृष्टार्थदूत्यस्य लघूकृतो भारः' इति ॥ कामन्दकी । अहो कालातिपातः । प्रस्तुतकथाव्यासङ्गवशादतिक्रान्तः कालोऽपि न विचारित इत्यर्थः । कालातिपातमेवाह—संप्रति हि । क्षिपन्निति । विहगमिथुनानां
द्वितीयोऽङ्कः । ६१ दधानः सौधानामलघुषु निकुञ्जेषु घनता- मसौ संध्याशङ्खध्वनिरनिभृतः खे विचरति ॥ १२ ॥ वत्से, सुखं स्थीयताम् । (इत्युत्तिष्ठति ।) मालती—(अपवार्य १) कहं उवहारीकिदम्हि राइणो तादेण । राआराहणं क्खु तादस्स गुरुअं, ण उण मालदी । (सास्रम् ।) हा ताद, तुमं वि मह णाम एवं ति सबहा जिदं भोअतिण्हाए । (सानन्दम् ।) कहं महाउलप्पसूदो सो महाभाओ । सुट्ठु भणिदं पि- असहीए कुदो वा महोअहिं वज्जिअ पारिजादस्स उग्गमो त्ति । अवि णाम तं उणो वि पेक्खिस्सं । लवङ्गिका—२अवलोइदे, इदो एदिणा संजवणेण ओदरम्ह । कामन्दकी—(अपवार्य १) अवलोकिते, साधु संप्रति मया तट- स्थ
७० मालतीमाधवे वरेऽन्यस्मिन्दोषः पितरि विचिकित्सा च जनिता पुरावृत्तोद्वारैरपि च कथिता कार्यपदवी । स्तुतं माहाभाग्यं यदभिजनतो यच्च गुणतः प्रसङ्गाद्वत्सस्येत्यथ खलु विधेयः परिचयः ॥ १३ ॥ (इति निष्क्रान्ताः सर्वे ।) इति महाकविश्रीभवभूतिविरचिते मालतीमाधवे द्वितीयोऽङ्कः । परमल्पमेवावशिष्टमित्यर्थः । कृतांशं कर्तव्यांशं च विशेषतो निरूपयति—वरे इति । अन्यस्मिन्वरे नन्दने दोषः । पितरि विचिकित्साप्रलसंदेहमूलं वैमुख्यं च जनितं यद्वात्स्यायनसूत्रं कन्यासं प्रयुक्तकाधिकरणे निसृष्टार्थदूतीकृत्यनिरूपणप्रक- रणेऽन्यवरपितॄणां च दोषानभिप्रायविरुद्धान्प्रतिपादयेदिति मातापित्रोश्च गुणान- भिज्ञतामनपेक्षतां लुब्धतां शठतां चपलतां बान्धवानां प्रतिपादयेदिति पूर्वसूत्रा-
तृतीयोऽङ्कः । (ततः प्रविशति बुद्धरक्षिता ।) बुद्धरक्षिता — (परिक्रम्य आकाशे ।) १अवलोइदे, अवि जाणासि कहिं भअबदी । अवलोकिता — (प्रविश्य ।) २बुद्धरक्खिदे, किं पमुद्धासि । जो को- वि कालो भअवदीए पिण्डपारणवेलं विसज्जिअ मालदीं अणुवट्ट- माणाए । बुद्धरक्षिता — ३हुं । तुमं उण कहिं पत्थिदासि । अवलोकिता — ४अहँ क्खु भअवदीए माहवसआसं अणुप्पे- सिदा । संदिट्ठं अ तस्स संकरउरसंबन्धि कुसुमाअरुज्जाणं गदुअ कुज्जणिउञ्जपेन्तरत्तासोअगहणे चिट्ठेत्ति । गदो अ तत्थ माहवो । १. अवलोकिते, अपि जानासि क्व भगवती । २. बुद्धरक्षिते किं प्रमुग्धासि । यः कोऽपि कालो भगवत्याः पिण्डपा- रणवे
७२ मालतीमाधवे बुद्धरक्षिता—¹अवलोइदे, किं ति माहवो तत्थ अणुप्पेसिदो । अवलोकिता—²अज्ज किसणचउद्दसित्ति जणणीए समं मा- लदी संकरउरं गमिस्सदि । तदो एवं किल सोहग्गं वड्ढइ त्ति दे- वदाराहणणिमित्तं सहत्थकुसुमावअअं उद्दिसिअ लवङ्गिआदुदीअं मालदिं तं एव्व कुसुमाअरुज्जाणं आणिस्सदि । तदो अण्णोण्णदंसणं भविस्सदि त्ति । तुमं उण कहिं पत्थिदा सि । बुद्धरक्षिता—³अहं क्खु संकरउरं एव्व पत्थिदाए पिअसहीए मदअन्तिआए आमन्तिदा । अदो भअवदीए पादवन्दणं कदुअ तहिं एव्व गच्छामि । अवलोकिता—⁴तुमं क्खु भअवदीए जस्सिं पओअणे णिउत्ता तत्थ को उत्तन्दो । बुद्धरक्षिता—⁵मए क्खु भअवदीए समादेसेण तासु तासु विस्स-
१. अवलोकिते, किमिति माधवस्तत्रानुप्रेषितः । २. अद्य कृष्णचतुर्दशीति जनन्या समं मालती शंकरपुरं गमिष्यति । तत एवं किल सौभाग्यं वर्धत इति देवताराधननिमित्तं स्वहस्तकुसुमावचय- मुद्दिश्य लवङ्गिकाद्वितीयां मालतीं तदेव कुसुमाकरोद्यानमानेष्यति । ततो- ऽन्योन्यदर्शनं भविष्यतीति । त्वं पुनः क्व प्रस्थितासि । ३. अहं खलु शंकरपुरमेव प्रस्थितया प्रियसख्या मदयन्तिकया आमन्त्रिता । अतो भगवत्याः पादवन्दनं कृत्वा तत्रैव गच्छामि । ४. त्वं खलु भगवत्याः यस्मिन्प्रयोजने नियुक्ता तत्र को वृत्तान्तः । ५. मया खलु भगवत्याः समादेशेन तासु तासु विस्रम्भकथास्वीदृशस्ता-
गतश्च तत्र माधवः । बुद्धरक्षिता । अवलोकिते, किमिति माधवस्तत्रानुप्रे- षितः । अवलोकिता । अद्य कृष्णचतुर्दशीति जनन्या समं मालती शंकरपुरं गमिष्यति । तत एवं किल सौभाग्यं वर्धत इति देवताराधननिमित्तं स्वहस्तकुसु- मावचयमुद्दिश्य लवङ्गिकाद्वितीयां मालतीं तदेव कुसुमाकरोद्यानमानेष्यति । भगवत्येवेति शेषः । ततोऽन्योन्यदर्शनं भविष्यतीति । त्वं पुनः क्व प्रस्थितासि ॥ बुद्धरक्षिता । अहं खलु शंकरपुरमेव प्रस्थितया प्रियसख्या मदयन्तिकया- मन्त्रिताहूता । अतो भगवत्याः पादवन्दनं कृत्वा तत्रैव गच्छामि ॥ अवलो- किता । त्वं खलु भगवत्या यस्मिन्प्रयोजने मदयन्तिकामकरन्दसंघटनरूपे नि- युक्ता तत्र को वृत्तान्तः । वर्तत इति शेषः । बुद्धरक्षिता । मया खलु भगवत्याः समादेशेन तासु तासु विस्रम्भकथास्वीदृशस्तादृश इति मकरन्दस्योपरि प्रियसख्या
तृतीयोऽङ्कः । ७२
म्भकहासु ईरिसो तादिसो त्ति मअरन्दस्स उवरि पिअसहीए मद- अन्तिआए परोक्खाणुराओ तहा दूरं आरोविदो जहा से मणोरहो अवि णाम तं पेक्खामि त्ति । अवलोकिता—साहु बुद्धरक्खिदे, साहु । एहि गच्छह्म । (इति निष्क्रान्ते ।) प्रवेशकः । (प्रविश्य ।) कामन्दकी— तथा विनयनम्रापि मया मालत्युपायतः । नीता कतिपयाहोभिः सखीविस्रम्भसेव्यताम् ॥ १ ॥ संप्रति हि व्रजति विरहे वैचित्र्यं नः प्रसीदति संनिधौ रहसि रमते प्रीत्या वाचं ददात्यनुवर्तते ।
दृश इति मकरन्दस्योपरि प्रियसख्या मदयन्तिकायाः परोक्षानुरागस्तथा दूरमारोपितो यथैवमस्या मनोरथोऽपि नाम तं पश्यामीति । १. साधु बुद्धरक्षिते साधु । एहि गच्छावः । मदयन्तिकायाः परोक्षनुरागस्तथा दूरमारोपितो यथैवमस्या मनोरथोऽपि नाम तं पश्यामीति ॥ अवलोकिता । साधु बुद्धरक्षिते, साधु । एहि गच्छावः । इति निष्क्रान्ते ॥ प्रवेशकः ॥ अथावलोकितासूचितप्रवेशा प्रविशति कामन्दकी । कामन्दकी—तथेति । तथा तेन प्रकारेण गुरुजनोचितभक्तिश्रद्धयोपलक्षि- तेन विनयेन कुलकन्यकाजनोचितस्वभावेन नम्रा प्रह्लापि मालती मयोपायतः । सतततत्समीपावस्थानम्, विदग्धभङ्गया कुन्तलविरचनम्, स्तनमुकुलगण्डफलकेषु चित्रपत्रलेखनम्, सहाक्षक्रीडानिर्मालापैर्र्विनोदनम्, अपूर्ववस्तूपहरणमित्येवमादि- बहुप्रकारेणोपायेन कतिपयैरल्पैरेवाहोभिः सखीषु लवङ्गिकादिषु यो विस्रम्भः साध्वसलज्जाशङ्कापरित्यागेन स्वमनोगतसर्वस्वनिवेदनं मदुक्तस्य जीवितव्यस्या- प्यङ्गीकरणं क्षणमपि मद्विरहासहिष्णुत्वमित्यादिरूपस्नेहोत्कर्षस्तेन सेव्यतामनुरञ्ज- नीयताम् । तत्र भजनमनुरञ्जनरूपमेव नीता । प्रापितेत्यर्थः ॥ १ ॥ विस्रम्भमेव दर्शयति—व्रजतीति । नोऽस्माकं विरहे वैचित्यं चित्तवैकल्यम्, मनःखेद- मिति यावत् । व्रजति गच्छति । संनिधौ पुनः प्रसीदति निर्वृत्तन्तःकरणा भवति । रहस्येकान्ते रमते चिरकालं सखीभ्योऽपि यन्न कथितं तादृशनर्मरहस्यनिवेदनैः क्रीडति । प्रीत्या वाचं ददाति प्रियमेव सर्वदा भाषते, न तु कदाचिदप्यन्यथा ।
७४ मालतीमाधवे गमनसमये कण्ठे लग्ना निरुध्य निरुध्य मां सपदि शपथैः प्रत्यावृत्तिं प्रणम्य च याचते ॥ २ ॥ इदं च तत्र साधीयः प्रत्याशानिबन्धनम् । शाकुन्तलादीनितिहासवादा- न्प्रस्तावितानन्यपरैर्वचोभिः । श्रुत्वा मदुत्सङ्गनिवेशिताङ्गी चिराय चिन्तास्तिमितत्वमेति ॥ ३ ॥ तदद्य माधवसमक्षमुत्तरमुपक्रमिष्यामः । (नेपथ्याभिमुखमवलोक्य ।) वत्से, इत इतः । (ततः प्रविशति मालती लवङ्गिका च ।) मालती—(स्वगतम् ।) कहं उवहारीकिदम्हि राह्णो तादेण । राआराहणं क्खु तादस्स गुरुअं, ण उण मालदी । (सास्रम् ।) हा
१. कथमुपहारीकृतास्मि राज्ञस्तातेन । राजाराधनं खलु तातस्य गुरुकम्, ‘देयं ददाति’ इति पाठे देयं कर्पूरादिकं प्रीतिदानं ददातीत्यर्थः । तथानु- वर्तेत आनुकूल्येनाभ्युत्थानासनप्रदानादिनोपचरति । तथा स्वसमीपान्मठं प्रति गमनावसरे मदीयकण्ठासङ्गिवलयीकृतबाहुपाशा मां बहुशो निरुध्य सर्वथा गन्तव्यमिति मया निर्बध्यमाना सपदि प्रत्यावृत्तिं तस्मिन्नेव च क्षणे पुनरागमनं शपथैरिदानीमेव यदि नागच्छसि तर्हि गुरुं ते स्वहस्तेन मारि- तवत्यसि ममान्यथाभावमाचरितवत्यसीत्येवमादिभिरनेकरनतिक्रमणीयैः प्रमाण- वचनैः प्रणम्य मामेवं याचते । प्रार्थयत इत्यर्थः ॥ २ ॥ इदं चेति वक्ष्य- माणं च साधीयो दृढतरं प्रत्याशायाः सर्वथा मदुक्तमसौ करिष्यत्येवंरूपाया निबन्धनं निमित्तम् । किं तदित्यत आह—शाकुन्तलादीनिति । अन्य- परैरन्यः स्वव्यतिरिक्तो जनः परस्तात्पर्यगोचरो येषां तैर्मुखतोऽन्योद्देशेन प्रवृ- त्तवदवभासमानैर्वस्तुतस्तु खोपदेशायैव प्रवृत्तैर्वचोभिः प्रस्तावितान्मया मत्प्रेरितेन वा सखीजनेन प्रसङ्गिताञ्शकुन्तलावृत्तान्तप्रमुखानितिहासवादाञ्श्रुत्वा मदुत्स- ङ्गनिवेशिताङ्गी यथेष्टविनियोगार्हस्त्वैष जनस्तदस्य मरणं जीवितं वा त्वदेकाय- त्तमित्यात्मानं निवेदयन्तीव मदङ्कविनिपातितशरीरा चिरकालं चिन्तया कथं मया शकुन्तलादिवत्कर्तव्यं को वात्राभ्युपाय इति विचारेण स्तिमितत्वं निश्चेष्टतामेति प्राप्नोति । इत्येतत्साधीयः प्रत्याशानिबन्धनमित्यर्थः । स एष श्लोकद्वयार्थो रति- रहस्ये दूतीवशीभूतनायिकारूपवर्णनसमये कथितः । यथा—‘एवं प्रयुज्यमाने लक्षयितव्यस्तदीय आकारः । दृष्ट्वा ब्रवीति सस्मितमन्तिक एवोपविशतीति ॥ पृच्छति भोजनशयने चाह्वानं दिशति रहसि वा मिलती । निःश्वसति जृम्भयति च स्ववित्तमस्यै ददाति किंचिद्वा ॥ यान्तीमेष्यसि पुनरिति वदति तथा साम- वादिनी भवति ॥’ इत्यादि ॥ ३ ॥ तदिति । माधवस्य समीप एवोत्तरमुपरितनं
तृतीयोऽङ्कः । ७५ ताद, तुमं वि मह णाम एवं ति सबहा जिदं भोअतिण्हाए । (सान- न्दम् ।) कहं महाउलप्पसूदो सो महाभाओ । सुहु भणिदं पिअस- हीए कुदो वा महोअहिं वज्जिअ पारिजादस्स उग्गमो त्ति । अवि णाम तं उणो वि पेक्खिस्सं । लवङ्गिका—सैहि, एसो क्खु महुरमहुरसाइमञ्जरिकवल- णकेलिकलकोइलउलकोलाहलाउलिदसहआरसिहरुड्डीणचडुलचञ्चरी- अणिअरवइअरुद्दलिददलकरालचम्पआहिवासमणोहरो मरालजहणप- रिणाहुद्वहणमन्थरोरुभरविसंठुलक्खलिदचलनसंचलणोवणीअसेअसी- अरसुहाबिन्दुज्जलमुद्धमुहचन्दचन्दणाअमाणसीअलफंसो तुमं परिस्स- अदि कुसुमाअरुज्जाणमारुदो । ता पिअसहि, इदो परिक्कमावो । (परिक्रम्य प्रविशतः ।) न पुनर्मालती । हा तात, त्वमपि मम नामैवमिति सर्वथा जितं भोगतृष्णया । कथं महाकुलप्रसूतः स महाभागः । सुष्ठु भणितं प्रियसख्या कुतो वा महो- दधिं वर्जयित्वा पारिजातस्योद्गम इति । अपि नाम तं पुनरपि प्रेक्षिष्ये । १. सखि, एष खलु मधुरमधुरसार्द्रमञ्जरीकवलनकेलिकलकोकिलकुलकोला- हलाकुलितसहकारशिखरोड्डीनचटुलचञ्चरीकनिकरव्यतिकरोद्दलितदलकराल- चम्पकाधिवासमनोहरो मरालजघनपरिणाहोद्वहनमन्थरोरुभरविसंस्थुलस्खलि- तचरणसंचरणोपनीतस्वेदशीकरसुधाबिन्दूज्ज्वलमुग्धमुखचन्द्रचन्दनायमानशी- तलस्पर्शस्त्वां परिष्वजति कुसुमाकरोद्यानमारुतः । तत्प्रियसखि, इतः परिक्रमावः । कार्यजातमद्योपक्रमिष्यामः ॥ 'नेपथ्य—' इत्यादि 'पुनः प्रेक्षिष्ये' इत्यन्तं गतार्थः ॥ लवङ्गिका । सखि, एष खलु मधुरेण मधुरसेनाद्रीणां भृशं क्लिन्नानां मञ्जरीणां कवलनमेव केलिस्तया कलोऽत्यन्तमधुरो यः कोकिल- कुलकोलाहलस्तेनाकुलितात्सहकारशिखरादुत्त्रासेनोड्डीनानां चतुलानां चञ्चरीक- निकराणां व्यतिकरेण विमर्देनोद्दलितदलानांमूर्ध्वं विकसितपत्राणां करालानां दन्तुराणाम् । 'करालो दन्तुरे तुङ्गे विशाले विकचेऽपि च' इति वचनात् । चम्पकानां चाम्पेयकुसुमानामधिवासेन मनोहरः । मरालस्य समवृत्तस्य । 'मरालं समवृत्तं स्यात्' इति वचनात् । जघनपरिणाहस्य नितम्बप्राग्भागविस्तारस्योद्व- हनभारेण मन्थरं मन्दं तथोरुभरेण विसंस्थुलं विषमं स्खलितं यच्चरणसंचरणं पादगमनं तेनोपनीतैः खेदशीकरैरेव सुधाबिन्दुभिरुज्ज्वलस्य मुग्धमुखचन्द्रस्य स्वकीयस्य चन्दनायमानः शीतलस्पर्शो यस्य स त्वां परिष्वजति कुसुमा- करोद्यानमारुतः । तदितः परिक्रमावः ॥ 'गतश्च तत्र माधवः' इति सूचितो ८ मालतीमा०
५६ मालतीमाधवे ( ततः प्रविशति माधवः । ) माधवः—हन्त, परागता भगवती । इयं हि मम आविर्भवन्ती प्रथमं प्रियायाः सोच्छ्वासमन्तःकरणं करोति । निदाघसंतप्तशिखण्डियूनो वृष्टेः पुरस्तादचिरप्रभेव ॥ ४ ॥ दिष्ट्या लवङ्गिकाद्वितीया मालत्यपि । आश्चर्यमुत्पलदृशो वदनामलेन्दु- सांनिध्यतो मम मुहुर्जडिमानमेत्य । जात्येन चन्द्रमणिनेव महीधरस्य संधार्यते द्रवमयो मनसा विकारः ॥ ५ ॥ माधवः प्रविशति । माधवः । हन्तेति हर्षे । परागताभिमुखमागता । परेत्यु- पसर्गोऽत्राभिमुख्यद्योतकः । आविर्भवन्तीति । प्रियायाः प्रथममाविर्भवन्ती प्रकटीभवन्ती भगवती प्रियतमायाः पुनर्दर्शननैराश्यान्मृतप्रायं ममान्तःकरणं दयितागमनसूचकतया सोच्छ्वासं सजीवं करोति । कथमिव निदाघसंतप्तस्य मयूरस्य वृष्टेः पुरस्तादाविर्भवन्ती संनिहितां वृष्टिं सूचयन्ती । अचिरप्रभा विद्यु- दिवेत्युपमा । तत्र माधवस्य मालतीदर्शनाभिलाषो द्वितीयाङ्कगतमालतीवृत्तान्त- नन्दनवृत्तान्तविच्छेदे प्राप्ते पुनर्दर्शनहेतुत्वेनाच्छेदकारणत्वाद्बिन्दुः । यथा— ‘अवान्तरार्थविच्छेदे बिन्दुरच्छेदकारणम्’ इति । अत्र च तृतीयचतुर्थाङ्काभ्यां पुनरन्योन्यसंदर्शनात्मकावान्तरप्रयोजनसंघटितैकभावकथांशनिरूपकाभ्यां नि- र्दिष्टस्य बिन्दोश्चतुर्थाङ्के ‘तत्सर्वथा संगमनाय यत्नः प्राणव्ययेनापि मया विधेयः’ इति वक्ष्यमाणस्य यत्नस्य समन्वयादुपजातम् ‘तदास्यताम् । किंचिदा
सो विलसनं" -> "विलास इव विलासो विलसनं"
Line 24:
"कान्तिप्रकर्षस्तेन लुलितैराविलैः । भग्नैरिति यावत् । अलसैः क्रियास्वनुन्मु-"
Wait, let's re-verify: "लुलितैराविलैः" - wait, in the text:
Is it "लुलितैराविलैः" or "लुलितैरविलैः"?
Look at the vowel:
There is an आ-कार on त? "तैर" then "ा"? No, "लुलितैरावि्लैः" - look between र and व:
There is an आ-कार: 'रा'! So "लुलितैरावि..." then 'लैः': "लुलितैराविलैः".
Wait, what is after that?
"भग्नैरिति यावत् ।"
Wait, let's look at "भग्नैरिति":
भ (bha)
ग्न (gna) with ै (ai)
then what is that stroke? Is it "भग्नप्रायैरिति"? No, it's "भग्नैरिति" - there's just a duplicate matra or broken type. Let's transcribe भग्नैरिति यावत् ।.
Line 25: "खैरङ्गैर्मनोभवाग्निं ज्वलयति दीपयति । हृदयं मदयति हर्षपरवश
७८ मालतीमाधवे मालती—सैहि, देण इदो वि अवरस्सि अवचिणुह्म । कामन्दकी—(मालतीं परिष्वज्य ।) अयि, विरम विरम । निःसहा जातासि । स्खलयति वचनं ते संश्रयत्यङ्गमङ्गं जनयति मुखचन्द्रोद्भासिनः स्वेदबिन्दून् । १. सखि तेनेतोऽप्यपरस्मिन्नवचिनुवः । अपरिमेयान्यपरिच्छेद्यान्याश्चर्याणि यत्र तदाचार्यकं कामतन्त्रोपदेशकौशलं भग- वत्याः। यत्प्रसादादिदानीमिहैकाकिनीं कुसुमावचयसंभ्रमसंस्रमानांशुकतया स्फुटं विभाव्यमानसर्वावयवसौन्दर्यशालिनीं प्रियतमां योऽहमन्तर्हित एव निःशङ्कम- वलोकयन्नमृतसरसि निमग्न इव भवामीत्यर्थः । अनेन पूर्वं दृष्टायाः पश्चादन्तरित- दर्शनाया मालत्याः पुनरनुसरणात्परिसर्पो नामाङ्गमुक्तम् । यथा-'परिसर्पस्तु बीजस्य दृष्टनष्टानुसर्पणम्' इति ॥ मालती । सखि, तेनेतोऽप्यपरस्मिन्नवचिनुवः । अन्यस्मिन्प्रदेशे॥अथ कामन्दकी प्रच्छन्नस्थापितमाधवसमीपं मालतीमुपायेनानीय ततोऽन्यत्र जिगमिषन्तीं तां निरुध्य तत्रैव स्थापयितुमाह—कामन्दकी— अयीति । निःसहा पर्यटनासमर्था जाता । कुत इत्यत आह—स्खलय- तीति । हे सुभ्र । सुभ्रूशब्दस्योवङ्स्थानत्वेन नदीसंज्ञाप्रतिषेधादपि 'अम्बार्थन- द्योर्ह्रस्वः' इति ह्रस्वाप्राप्तावपि 'विमानना सुभ्रु कुतः पितुर्गृहे' इत्यादि महाकवि- प्रयोगदर्शनात्साधुत्वं सुभ्रुशब्दस्य ज्ञेयम् । खेदः पुष्पावचयजनितश्रमः । 'मनः- शरीरयोः खेदः क्रियातिशयतः श्रमः' इति वचनात् । त्वयि वल्लभालोक- नेन वल्लभकर्मकेण गाढाभिलाषायाः कामिन्या अवलोकनेन सर्वथा सर्वेणापि प्रकारेण तुल्यं यथा स्यात्तथा विलसति । वल्लभमवलोकयन्त्या येऽनुभावास्ते श्रम- वशात्त्वय्यपि दृश्यन्त इति नर्मगर्भोक्तिः । अथ च लतान्तरितवल्लभकर्तृकालो- कनेन त्वद्गोचरेण तुल्यमेककालतयैकालम्बनतया च सह वर्तत इत्यपि प्रतीतिः । किंच वल्लभकर्तृकावलोकनजनिता एवैतेऽनुभावा न श्रमप्रभावाः, तेन विलोक- यन्तं वल्लभमजानानाया अपि ते तत्कटाक्षसंस्पर्शमात्रेण चन्द्रकान्तस्येव चन्द्रक- रसंपर्कमात्रेणैवंविधो विकार इत्यहो ते गाढानुरागित्वमिति प्रतिपाद्यां मालतीं प्रत्यपह्नवातिशयोक्तिध्वनिः । एवमियं रक्षिजनसहस्ररक्षिताप्युपायेन मयैव पुनर्ब- ल्भालोकनगोचरतां नीता, न तु भवत्येति लवङ्गिकां प्रति ध्वनिः । तदालो- कनमार्गमियमानीता । तद्विश्रम्भमवलोकयेति तटस्थं माधवं प्रत्यस्यास्त्वदनुरागेण त्वया विलोक्यमानायास्तामत्र संनिहितमजानानाया अप्येते विकारा इत्यहो ते युवतिजनहृदयाकर्षणप्रावीण्यमिति तमेव प्रतिव्यज्यत इति बहुधा व्यङ्ग्यस्योद्भा- वयितुं प्रतिश्लोकं प्रतिपदं च शक्यत्वेऽपि विस्तरभयादस्माभिरुपेक्षितम् । कथं तुल्यतेत्यपेक्षायां श्रमप्रियदर्शनयोः कार्यसाम्यमाह—ते वचनं स्खलयति गद्गदं
तृतीयोऽङ्कः । मुकुलयति च नेत्रे सर्वथा सुभ्रु खेद- स्त्वयि विलसति तुल्यं वल्लभालोकनेन ॥ ८ ॥ (मालती लज्जां नाटयति ।) लवङ्गिका—सोहणं भअवदीए आणत्तं । माधवः—हृदयंगमः परिहासः । कामन्दकी—तदास्यताम् । किंचिदाख्येयमाख्यातुकामास्मि । (सर्वा उपविशन्ति ।) कामन्दकी—(मालत्याश्चुबुकमुन्नमय्य ।) शृणु चित्रमिदं सुभगे । १. शोभनं भगवत्याज्ञप्तम् । करोति । श्रमादपि स्खलितवाग्भवति । प्रियतमदर्शनादपि गद्गदाख्यः सात्त्विक- भावो भवति । यथा—'मदप्रमोदव्रीडादेर्वाक्स्तम्भो गद्गदं विदुः' इति ॥ अङ्गमङ्गं प्रत्यवयवं संश्रयति । सर्वेष्ववयवेष्वभिव्याप्तो वर्तत इत्यर्थः । वल्लभालोकनपक्षे तु अङ्गं कर्तृ । अङ्गमवयवान्तरं कर्मभूतं श्रमवशात्संश्रयतीति श्रमाख्यः सात्त्वि- कभाव उक्तः । तल्लक्षणं तूक्तम् । अस्मिन्पाठे वल्लभालोकनेन तुल्यमिति सहो- क्तिनिर्वाहकं वल्लभालोकनस्य कर्तृत्वेन प्रक्रान्तस्य परित्यागेन कर्त्रन्तरस्वीकारात् । न च व्यङ्ग्यत्वादस्यार्थस्यायमदोष इति वाच्यम् । तुल्यमिति सहार्थतुल्यशब्दबला- दुभयोरपि वाच्यत्वेन व्यङ्ग्यत्वाभावात् । वल्लभालोकनजनितानुभावाभिव्यक्तो हि शृङ्गारो व्यङ्ग्यः । न तु वल्लभालोकनव्यापारः । तस्मात् 'संशयति' इति पाठः श्रेयान् । अङ्गमङ्गं संशयति स्रस्तं करोति । अङ्गसादोऽनेनोक्तः । स चोभयत्र साधारण एव । मुखचन्द्र उद्भासनशीलान्स्वेदकणान्जनयति । अनेन स्वेदो द्वयो- रपि साधारणो दर्शितः । यथाह—'वपुर्जलोद्गमः स्वेदो रतिधर्मश्रमादिभिः' इति । नेत्रे च मुकुलयति । यदाह—'निःश्वासस्वेदसीत्काराः संकोचो मुखनेत्रयोः । एते श्रमस्यानुभावाः' इति । पक्षान्तरे च सुखपारवश्यान्नेत्रसंमीलनं स्तम्भाख्यं सात्त्वि- कभावं व्यनक्ति । सहोक्तिदीपकयोः संकरः ॥ ८ ॥ लवङ्गिका । शोभनं भगव- त्याज्ञप्तम् । माधवः । परिहासो नर्मवचनम् । अनेन नर्माङ्गमङ्गमुक्तम् । यथा— 'परिहासवचो नर्म' इति । कामन्दकी—तदास्यतामित्यादि । किंचिदाख्येय- मल्पमेव वक्तव्यम् ॥ चुबुकं वदनाधोभागं लज्जावनतमुन्नमय्य । आहेति शेषः । शृण्वित्यादि । रतिरहस्यवचनप्रतीकोपादानं कामन्दक्या वक्ष्यमाणस्य नायक- विरहातिशयस्य दूतीव्यापारतया शास्त्रसिद्धतां सूचयितुम् । यदाह—'उत्पाद्य सौम- नस्यं ब्रूयात्सुभगे शृणुष्व यच्चित्रम् । चित्रं किमयं व्यतिकरमसौ युवा कुसुमसुकु- मारः ॥ दृष्टिभुजङ्गीदष्टस्तव सखि संदेहमारूढः । श्वसिति स्विद्यति मुह्यति संतापोऽप्यस्य कोऽपि दुर्वारः ॥ त्वन्मुखचन्द्रसुधारसमप्राप्य प्राणिता नासौ । स्वप्नेऽपि तस्य नेह कदापि सुभगे विकारोऽभूत् ॥' इति । सुभगे इति संबोधन॑ त्वदीयसौभाग्यमीदृशं येनैकाकी पित्रोरेकपुत्रो माधवः कुलालम्बनं श्रवण-
८० मालतीमाधवे मालती—१अवहिदम्हि । कामन्दकी—अस्ति तावदेकदा प्रसङ्गतः कथैंन्न एव मया मा- धवाभिधानः कुमारः, यस्त्वमिव मामकीयस्य मनसो द्वितीयं बन्धनम् । लवङ्गिका—२सुमरामो । कामन्दकी—स खलु मदनोद्यानयात्रादिवसात्प्रभृति दुर्मनाय- मानः परवानिव शरीरोपतापेन । तथाहि । यदिन्दावानन्दं प्रणयिनि जने वा न भजते व्यनक्त्यन्तस्तापं तदयमतिधीरोऽपि विषमम् । प्रियङ्गुश्यामाङ्गप्रकृतिरपि चापाण्डु मधुरं वपुः क्षामं क्षामं वहति रमणीयश्च भवति ॥ ९ ॥ लवङ्गिका—३ऐंदं वि तस्सिं अवसरे भअवदिं तुवराअन्तीए अवलोइदाए उदीरिअं आसि । जह अस्सद्धसरीरो माहवो त्ति । १. अवहितास्मि । २. स्मरामः । ३. एतदपि तस्मिन्नवसरे भगवतीं त्वरयन्त्यावलोकितयोदीरितमासीत् । यथाऽस्वस्थशरीरो माधव इति । मात्रादेवात्रागत्य वर्तत इत्यादि स्फुटम् ॥ मालती । अवहितास्मि ॥ कामन्दकी । प्रसङ्गतोऽस्वस्थशरीरो माधव इत्यवलोकितोक्तिप्रसङ्गात् । मनसो बन्धनम् । बध्नात्यन्यत्र गमनं निरुध्य स्वैकायत्तं करोतीति ॥ बन्धनं विश्रान्तिस्थानम् । प्रेमभाजनमित्यर्थः । लवङ्गिका । स्मरामः ॥ कामन्दकी—स इति । दुर्मनायमानो दुःखितमनस्क इवाचरन् । परवा- निति परवशः । मदनोद्यानयात्रेत्यनेन प्राथमिकान्योन्यदर्शनप्रतीतेश्चक्षुःप्रीति- रुक्ता । दुर्मनायमान इति चित्तासङ्गः । तामुद्दिश्यासौ मदनेन तास्ता दशाः प्रापित इति निवेदयितुमवस्थान्तराण्याह—यदिन्दाविति । इन्दावमृतमय- शरीरे सकललोकाह्लादके प्रणयिनि निरतिशयप्रेमभाजने जने वा यदयमानन्दं निर्वृतिविशेषं न भजते ततोऽयमतिधीरोऽपि धैर्यवानपि विषममतिदुःसहमन्त- स्तापं व्यनक्ति द्योतयति । अरतिसंतापाख्यमवस्थाद्वयमनेनोक्तम् । तथा प्रियङ्गुः फलिनीलता तद्वच्छ्यामाङ्गप्रकृतिः स्वाभाविकी देहकान्तिर्यस्य स तादृशोऽपि चापाण्डु विरहजनितपाण्डिमवत्तथापि मधुरं माधुर्यगुणवत् । 'सर्वावस्थासु चेष्टानां माधुर्यं मृदुकारिता' इति माधुर्यलक्षणम् । क्षामं क्षाममत्यन्तकृशीभूतं वपुर्वहति । न चायं व्याधिनिमित्तः कार्श्यपाण्डुतादिरित्याह—रमणीयः कान्ति- मात्रावशेषेण मनोहराकारश्च भवति । कार्श्य नामावस्थोक्ता । अनुमानविरोधयोः संसृष्टिः ॥ ९ ॥ लवङ्गिका । एतदपि तस्मिन्नवसरे भगवतीं त्वरयन्त्यावलोकि-
तृतीयोऽङ्कः । ८१ कामन्दकी—यावदहमश्रृणवं मालत्येवास्य मन्मथोन्मादहेतु- रिति । ममापि स एव निश्चयः । कुतः । अनुभवं वदनेन्दुरुपागम- न्नियतमेष यदस्य महात्मनः । क्षुभितमुत्कलिकातरलं मनः पय इव स्तिमितस्य महोदधेः ॥ १० ॥ माधवः—अहो उपन्यासशुद्धिः । अहो मम च महत्त्वारोपणे यत्नः । अथवा । शास्त्रे प्रतिष्ठा सहजश्च बोधः प्रागल्भ्यमभ्यस्तगुणा च वाणी । कालानुरोधः प्रतिभानवत्त्व- मेते गुणाः कामदुघाः क्रियासु ॥ ११ ॥ तया निवेदितमासीत् । यथास्वस्थशरीरो माधव इति । कामन्दकी—याव- दिति । मन्मथकृतोन्माद उन्मथनं कर्णाकर्णिकया श्रुत्वाहम्प्येतदेवं निर- णैषम् । अन्यथा तद्धैर्यचलनायोगादिति भावः । अनुभवमिति । एष इति मालतीमुखं चुबुकदेशे गृहीत्वा निर्दिशति । वदनेन्दुरस्य प्रकृतत्वेन बुद्धि- स्थस्य लतान्तरिततया च पुरोवर्तिनो माधवस्यानुभवं समुपागमद्दर्शनविषयतां प्राप्तः । नियतं निश्चितं सर्वथास्यैवंविधविषमदशाविपाकहेतुभूतं तदाननेन्दुदर्शनं जातमिति साध्यते । यतो महात्मनोऽतिगम्भीराशयस्य स्तिमितस्य निस्तरङ्गस्य महोदधेः पय इवोत्कलिकातरलमुत्कण्ठया कल्लोलैश्च तरलं सत्क्षुभितमपहतधैर्य- मुद्वेलं च संजातम् । यथा पयोनिधेः पूर इन्दुदर्शनादेव क्षुभ्यति न तूष्णीमेवं माध- वमनःक्षोभेऽपि त्वन्मुखेन्दुदर्शनमेव निमित्तमिति कार्यकारणमनुमीयत इत्यर्थः । रूपकोपमाभ्यामङ्गाङ्गिभावेन संकीर्णमनुमानमलंकारः ॥ १० ॥ माधवः—अहो इति । उपन्यासस्य प्रतिपादनप्रकारस्य शुद्धिः पूर्वापरविरोधादिदोषराहित्यम् । महत्त्वस्यारोपणे मय्यविद्यमानस्यापि समुद्रसाम्यसंपादनाध्यारोपे यत्नो निबन्धनम्। अथवा नैतादृशानामिदमाश्चर्यम् । कुत इत्यत आह—शास्त्र इति । शास्त्रे प्रतिष्ठा शङ्काकलङ्करहितसम्यग्ज्ञानरूपा परिनिष्ठितिः । सहजः स्वाभाविको बोधोऽनभ्यस्ते- ष्वपि सूक्ष्मप्रमेयरहस्येषु स्वारसिकप्रसरणशालिनी प्रज्ञा । प्रागल्भ्यं प्रौढोक्तिवैचक्ष- ण्यम् । 'निःसाध्वसत्वं प्रागल्भ्यं प्रयोगेष्वपि सर्वतः' इत्युक्तरूपं वा । तथाभ्यस्ताः- प्रयत्नसंपाद्या गुणाः प्रसादमाधुर्यादयो यस्याः सा वाणी । कालानुरोधो वचनावसर- निरीक्षणम् । प्रतिभानवत्त्वं तादात्मिकनवनवोल्लेखशालिप्रतिभावत्त्वमित्येते गुणाः क्रियासु साधयितुमिष्टासु कामदुघा मनोरथपूरकाः । तेनैतद्गुणगरिष्ठतया भगवत्या
८२ मालतीमाधवे कामन्दकी — यतस्तेन जीवितादुद्विजमानेन दुष्करमपि न किं- चिन्न क्रियते । तथा हि । धत्ते चक्षुर्मुकुलिनि रणत्कोकिले बालचूते मार्गे गात्रं क्षिपति बकुलामोदगर्भेस्य वायोः । दावप्रेम्णा सरसबिसिनीपत्रमात्रोत्तरीय- स्ताम्यन्मूर्तिः श्रयति बहुशो मृत्यवे चन्द्रपादान् ॥१२॥ मालती — (स्वगतम् ।) ऐवं दुक्करं करेदि सो । कामन्दकी — तदेवं प्रकृत्या सुकुमारः कुमारः कदाचिदप्य- न्यत्रापरिक्लिष्टपूर्वस्तपस्वी । यतः शक्यमनेन मरणमप्यनुभवितुम् । १. एवं दुष्करं करोति सः उपन्यासशुद्ध्यादिकं किमाश्चर्यमित्यर्थः ॥ ११ ॥ कामन्दकी — यत इति । जीवितादुद्विजमानेन लया विना जीवनमशक्यमिति तत्रोद्वेगवता विरहिजनस्य दुष्करमपि न किंचिन्न क्रियत इति । किंतु सर्वमपि जीवितद्वेषिणा तेन क्रियत एवेत्यर्थः । तदेवाह — तथा हि । धत्त इति । मुकुलिनी कोरकिते कोरकाणा- मेव तीक्ष्णाग्रसरसायकत्वेन मन्मथशरधीभूते । रणत्कोकिल इत्यनेन कंदर्पसैन्य- कलकलायमानपिककुलालापवाचालतया यावच्छब्दः श्रूयते तावत्संनिहितप्रदेश- गमनमप्यशक्यं किमुत दर्शनमित्युक्तम् । तस्मिन्बालतया मनोहरे सहकारे वृक्ष- विशेषे दृष्टिविषसर्प इव चक्षुर्धत्ते । भवितव्यं भवत्विति दृष्टिं निपातयतीत्यर्थः । किं च केसरकुसुमपरिमलमिलितस्य वायोश्चन्दनाचलमन्दसमीररणस्य मार्गे समरसमय- समापतन्नाराचधारासंपातसंनिहितशत्राववस्थितप्रदेश इव गात्रं क्षिपति । किम- नेन दुःखानुभवनिर्देयशरीरेणेति सङ्कृतंपरामृश्यत इति । तथा तापप्रशमनार्थं परिजनस्थापितार्द्रकमलिनीपत्रमात्राप्रावरणः । ताम्यन्ती ग्लानिमुपयान्ती मूर्तिर्य- स्यासौ । केनापि शिशिरोपचारेणानिर्वापणीयोऽयं तापस्तदद्य दवदहनज्वालासं- क्लेश एव निर्वापणौषधम् 'उष्णमुष्णेन शाम्यति' इति न्यायादित्येवं झटिति शरीर- त्यागसाधकतमत्वेन तत्कालापेक्षिते दावे प्रेम्णा पक्षपातेन विरहिजनदावानल- ज्वालायामानांश्चन्द्रपादान्मृत्यवे तत्क्षणप्राणनिर्गमनाय श्रयति । तदेवमनपेक्षितजी- वनोऽयमतिदुष्करं कुर्वन्नपि साहसं त्वामेव सकलविषानलादिसंस्तम्भनौषधीमन- वरतमन्तःकरणे धारयन्नमङ्गलशङ्काभाजनं भवतीत्यर्थः । अत्रैक
मालती—सेहि, अत्तणो कारणादो मच्चलोभालंकारभूदस्स तस्स किं वि आसंकमाणा भूदाविट्ठा विअ ण जाणामि किं पडि- बज्जिदित्ति । माधवः—दिष्ट्या, अनुकम्पितोऽस्मि भगवत्या । लवङ्गिका—भेअवदी एवंवादिणि त्ति आचक्खिअदि । अ- ह्माणं वि भद्दिदारिआ भवणासण्णरज्झामुहमुहुत्तमण्डणस्स तस्स एव्व बहुसो अणुहूद्दंसणा भविअ रविकरासिलिट्ठमुद्धकमलिनीकन्दसु- न्दरावअवसोहाविभाविआणङ्गवेअणावइअररमणिज्जा वि परिअणं दूणेदि । णाहिणन्दइ कलाकीलाओ । केवलं मिलाअन्तक्कन्तहत्थप- ल्लत्थगण्डमण्डला दिअहो गमेइ । अवि अ विअसिदारविन्दमरन्द- १. सखि, आत्मनः कारणान्मर्त्यलोकालंकारभूतस्य तस्य किमप्याशङ्क- माना भूताविष्टेव न जानामि किं प्रतिपत्स्यत इति । २. भगवत्येवंवादिनीत्याख्यायते । अस्माकमपि भर्तृदारिका भवनास- न्नरथ्यामुखमुहूर्तमण्डनस्य तस्यैव बहुशोऽनुभूतदर्शना भूत्वा रविकराश्लि- ष्टमुग्धकमलिनीकन्दसुन्दरावयवशोभाविभावितानङ्गवेदनाव्यतिकररमणीयापि परिजनं दूनयति । नाभिनन्दति कलाक्रीडाः केवलं म्लायमानकान्तहस्तपर्य- स्तगण्डमण्डला दिवसान्नमयति । अपि च विकसितारविन्दमकरन्दविष्यन्द- इति । अनुभूतपूर्वलाद्विकारस्य दुःसहत्वमुक्तं कदाचिदिति । तपस्यनुकम्पनीयः । यद्वा त्वत्समागमायैव महते पुरुषार्थाय त्वद्विरहव्यथानुभवलक्षणं सुदुष्करं तपश्चर- तीति तपस्वी । कुमार इति प्रागकृतदारपरिग्रहत्वं पित्रोः कुशलित्वं च व्यज्यते ॥ मालती । सखि, आत्मनः कारणान्मर्त्यलोकालंकारभूतस्य तस्य किमप्याशङ्कमाना भूताविष्टेव न जानामि किं प्रतिपत्स्यत इति । किमपीति मरणं निर्दिशति । भगवतीव- चनस्य किमुत्तरं देयमित्यहं न जानामि । त्वमेव यथोचितं मदवस्थानिवेदनादिकमु- त्तरं देहीत्याशयः ॥ माधवः—दिष्ट्येति । भाग्यवशादेव मदवस्थां प्रकटयन्त्या भगवत्यानुकम्पितोऽस्मि । यद्वा जनान्तिकमपि लतामात्रान्तरितत्वादन्तिकस्थेन माधवेन श्रुतं वाक्यमिति तद्वचनाकर्णनहर्षवशादियमुक्तिः ॥ लवङ्गिका । भग- वत्येवंवादिनीत्याख्यायते । अस्माकमपि भर्तृदारिका भवनासन्नरथ्यामुखमुहूर्तम- ण्डनस्य तस्यैव बहुशोऽनुभूतदर्शना भूत्वा । चक्षुःप्रीतिरेनेनोक्ता । रविकराश्लिष्ट- मुग्धकमलिनीकन्दसुन्दरावयवशोभाविभावितानङ्गवेदनाव्यतिकररमणीयापि प- रिजनं दूनयति । अङ्गग्लानिः पाण्डिमा च कथितः । नाभिनन्दति कलाक्रीडाः नृत्यगीतादयः कलाः । अरतिरुक्ता । केवलं म्लायमानकान्तहस्तपर्यस्तगण्डम- ण्डला दिवसान्नमयति । चिन्ता सूचिता । अपि च विकसितारविन्दमकरन्दविष्य-