भारतकोश
संग्रह पर लौटें

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

106 मानमेयरहस्यश्लोकवार्तिके

इति वादो निर्विघातः द्व्यणुकावधि संभवेत् । ततोऽणवो निरंशाश्चेत् संयोगस्तत्र दुर्घटः ॥ सांशाश्चेदविशेषस्स्यान्मेरुसर्षपयोरिति । षट्केन युगपद्योगात्परमाणोष्षडंशता ॥ षण्णां समानदेशत्वे पिण्डस्स्यादणुमात्रकः । इति पद्यं विश्रुतं हि यन्माध्यमिकशासनम् ॥ निरंशाऽनेकविषया बुद्धिर्नात्र निदर्शनम् । अंशानपेक्षस्संयोगस्तव नारम्भकः क्वचित् ॥ मूर्तैर्विभूनां संयोगोऽप्यत्र न स्यान्निदर्शनम् । अनिच्छतां विभुद्रव्यं, इच्छतामयमाशयः ॥ प्रवर्त्स्यामो यदि वयं संयोगगुणनिह्नवे । तदा प्रदर्श्येत विभुप्रतिबन्ध्यणुषु त्वया ॥ किंत्वारम्भकसंयोगः प्रदेशनियतो मतः । अन्यत्राङ्गीकृतश्चेति कल्प्येऽप्येष प्रसज्यते ॥ उपलम्भानुसारेण वस्तुसत्ता व्यवस्थिता । तस्मात्त्र्यणुकविश्रान्तिर्वरमित्याह वैदिकः ॥ 6 अतश्च तार्किका नव्या नित्ये महति चाक्षुषे । त्रुटौ विश्रममिच्छन्ति न ह्रस्वपरिमण्डले ॥ परमाणुत्रयेणैव त्र्यणुकारम्भ इष्यते । गवाक्षरन्ध्रदृष्टं वा लाघवात् त्र्यणुकं विदुः ॥

परमाणुवादः 107 जालसूर्यमरीचिस्थं यत्सूक्ष्मं दृश्यते रजः । प्रथमं तत्प्रमाणानां त्रसरेणुरिति स्मृतिः ॥ त्रसरेणुपदं मण्डपादिवद्रूढमिष्यते । त्रिभिश्च सहितो रेणुस्त्रसरेणुरितीपरे ॥ 7 अनन्तावयवत्वं चाप्यणोरिच्छन्ति केचन । विभज्यमाने नाभावपरिशेषः प्रसज्यते ॥ मेरुसर्षपवैधर्म्यं देशव्याप्त्या न संख्यया । व्यक्त्यानन्त्येऽपि जात्योस्तां परताऽपरते यथा ॥ अण्वंशानामनन्तत्वे गन्तॄणां तदतिक्रमः । कदाऽपि न स्यात्, किं न स्याद्वेगातिशयवैभवात्॥ द्युमणेरातपस्सर्पन्नुदयाद्रिशिखामणेः । तत्क्षणं किं न निर्भाति पश्चिमाद्रिशिखण्डकः ॥ नन्वनन्तावयवता मूर्त्तैरवयवैर्मिथः । अन्तरं त्वप्रयच्छद्भिः सर्वदिग्व्याप्तिकारिणी ॥ एकेन सर्षपेणैव पूर्येत सकलं जगत् । अतोऽनवयवाः केचित्स्वीकर्त्तव्याः किलेति चेत् ॥ अनन्तावयवत्वे तु सर्वदिग्व्याप्तिरित्यसत् । तावद्देशोऽपि सौक्ष्म्येणानन्तावयवसंभवात् ॥ सर्वापकृष्टः संघातस्सत्त्वादेरणुरित्यपि । सांख्यैरुक्तं निरंशाऽपि प्रकृतिश्चेति भाषितम् ॥

08 मानमेयरहस्यश्लोकवार्तिके निरंशा प्रकृतिस्सैव परिणामविभागिनी । अनन्तांशात्मिका चेति विरुद्धं सांख्यदर्शनम् ॥ 8 शास्त्रैकविषयत्वे च परमाणोर्न सिद्ध्यति । नित्यस्पर्शादियोगित्वं भूतानां विकृतित्वतः ॥ निर्धर्मका निराधारा प्रकृतिर्यद्यदिष्यते । निर्धर्मका निराधारा अणवः बौद्धसम्मताः ॥ आगमालम्बने कार्यं कारणे प्रतितिष्ठति । अन्ततः प्रकृतिस्साऽपि परे ब्रह्मणि तिष्ठति ॥ तदपि स्वे महिम्नीति यदि वा नेति चेत्यपि । श्रूयतेऽतो निराधारं सर्वाधारं परं पदम् ॥ वाचक्रवीयाज्ञवल्क्यसंवादोऽप्ययमेव हि । बृहदारण्यकेऽधीतः विचारोऽसौ महान् ततः ॥ 9 जगत्कारणमेवेदं सर्वैर्जिज्ञास्यते ततः । सधर्मकांश्च साधारणान् पीलून् वैशेषिका विदुः ॥ तेभ्योऽपिच परां सूक्ष्मां प्रकृतिं कापिला विदुः । ततोऽपि परमं सूक्ष्मं ब्रह्मोपनिषदा विदुः ॥ 10 सृष्टिप्रलयसंतानं शाबरा न प्रपेदिरे । न कदाचिज्जगच्चैतदनीदृगिति तन्मतम् ॥ केचित्पौराणिकाः कल्पमेकमेव विदुः ततः । तेषामेका सृष्टिरिष्टा प्रलयोऽप्येक एव हि ॥

शरीरवादः 10 एत एव तु कल्पान्तजीववादिन ईरिताः । परे सर्वे सृष्टिभङ्गप्रवाहानादिवादिनः ॥ तस्मात्कारणवाक्यानि सर्वासूपनिषत्स्वपि । लयपूर्वां सृष्टिमाहुः सृष्टिपूर्वो लयो यतः ॥ तत्र वैशेषिकाः सर्वजीवानां मुक्तिवादिनः । ते वै मताः सृष्टिभङ्गप्रवाहस्यान्तवादिनः ॥ ये पुनर्नित्यसंसारवादिवेदान्तिनो बुधाः । तेषां सृष्टिप्रवाहोऽयमनन्तोऽनादिरप्यसौ ॥ नित्यसंसार्यभावेऽपि जीवानन्त्यवचोबलात् । लीलाभूतिर्भगवतोऽनन्तेति सुधियो विदुः । (25) शरीरवादः 1 शरीरस्य स्वरूपं हि विज्ञेयं सर्ववादिभिः । तद्धेयं क्षणिकं चात्मभ्रमकारणमुच्यते ॥ अनुकूलो हि सर्वेषामात्मा, तादात्म्यविभ्रमात् । आनुकूल्यधिया प्रीतिर्देहे यादृशि तादृशि ॥ चेष्टेन्द्रियार्थाश्रयत्वं शरीरत्वं निरुच्यते । इष्टप्राप्त्याद्यनुगुणा क्रिया चेष्टेति कथ्यते ॥ आधेयत्वं विधेयत्वं शेषत्वं नियतं तु यत् । शरीरशब्दप्रवृत्तिनिमित्तमिति कैश्चन ॥

10 मानमेयरहस्यश्लोकवार्तिके वायवीयं तैजसं च जलीयं पार्थिवं तथा । चतुर्विधं शरीरं स्यात् कारणं च चतुर्विधम् ॥ भवेदुपष्टम्भकं तु प्रत्येकमितरत्त्रयम् । आरम्भकं सजातीयमन्यथा जातिसंकरः ॥ तच्छरीरं द्विधं ज्ञेयं मानसं यौनमित्यपि । देवर्ष्याद्या मानसास्स्युः योनिजास्त्वितरे मताः ॥ वाय्वादिषु हि लोकेषु तेते देहा व्यवस्थिताः । इति तार्किकसिद्धान्तः तत्र मीमांसका विदुः ॥ 2 पार्थिवा एव देहाः स्युः ते सर्वे योनिजा मताः । देवाश्च देवलोकाश्च न प्रमाणपदे स्थिताः ॥ विग्रहो हविरादानं युगपत्कर्मसन्निधिः । तृप्तिः फलप्रदानं च देवतानां न विद्यते ॥ ततश्चैतन्यरहितदेवतावादिनस्त्विमे । इन्द्रादिशब्दरूपास्ताः ते शब्दाः स्वाभिधायिनः ॥ सर्वं शब्दात्मकमिति हर्यादिषु वदत्स्विह । शब्दात्मदैवतविदां कोऽपराधोऽतिरिच्यते ॥ 3 अत्रेदमवधातव्यं कुमारिलमुखोद्गतम् । ग्रहैकत्वाधिकरणतन्त्रवार्तिकसंगतम् ॥ ऋग्वेदादिसमूहेषु क्षेत्रज्ञा ये प्रतिष्ठिताः । तेषां वाऽयमभिप्रायः स्याद्विवक्षाऽविवक्षयोः ॥

शरीरवादः 111 महाभौतिकदेहस्थाः यथाऽऽत्मानस्सचेतनाः । किंचिदर्थं विवक्षन्ति न विवक्षन्ति चापरम् ॥ तेषामन्तर्गताऽपीच्छा तद्वाक्यार्थविचारिभिः । ज्ञायते शब्दशक्त्यैव स्फुरन्तीव बहिःस्थिता ॥ देहभेदप्रकाराश्च कर्मशक्तिवशानुगाः । प्रकृत्यारम्भवैचित्र्यात् दृश्यन्ते परमात्मनाम् ॥ पार्थिवावयवप्रायाः शेषतोयाद्यनुग्रहात् । जरायुजादयो देहाः दृष्टा भुवि चतुर्विधाः ॥ भूतान्तरानुबद्धेन तोयेनैव विनिर्मिताः । श्रूयन्ते वारुणे लोके देहाः स्वच्छाङ्गलक्षणाः ॥ अन्तरिक्षे च बहवः प्राणिनो वातनिर्मितैः । भ्रमन्ति लघुभिस्सूक्ष्मैः देहैर्भूम्याद्यनुग्रहात् ॥ स्वर्लोके तैजसप्रायाः देहाः शुद्धप्रभान्विताः । आप्यायन्ते विकीर्णेन भानवीयेन तेजसा ॥ ये हि स्वर्गं यन्ति लोकं जनाः पुण्यकृतस्त्विह । ज्योतींषि तेषामेतानि नक्षत्राणीति वै श्रुतिः ॥ तथा व्योमशरीरोऽपि परमात्मा श्रुतौ श्रुतः । इज्यते वारिणा नित्यं यः खं ब्रह्मेति चोदितः ॥ रूपस्पर्शादयो येऽपि महाभूतगुणाः स्थिताः । प्रत्येकमात्मनां तेपि देहास्सम्भोगहेतवः ॥

  1. शब्दब्रह्मेति यच्चेदं शास्त्रं वेदाख्यमुच्यते तदप्यधिष्ठितं सर्वं एकेन परमात्मना ॥ तथर्ग्वेदादयो देहाः प्रोक्ता येऽपि पृथक्पृथक् भोग्यत्वेनात्मनां तेऽपि चैतन्यानुगतास्स तेषां चान्तर्गतेच्छानां वाक्यार्थप्रतिपादने विवक्षा वाऽविवक्षा वा ज्ञायते शब्दशक्ति विधिशक्त्या गृहीतं यत्तत्सर्वं हि विवक्षित तयैव तु परित्यक्तं व्याख्येयमविवक्षितम् शब्दब्रह्मात्मनोऽप्येवं सर्ववेदानुसारिणः । विवक्षा वाऽविवक्षा वा वक्तव्या विधिशा अनादिनिधनेऽप्येवं वेदे वेदार्थगोचरे । व्याख्यानं मुख्यवृत्त्याऽपि स्याद्विवक्षाऽवि 5 अथ कापिलसिद्धान्ते शरीरपरिकल्पना विस्तरेणोदिता तत्र सारांशोऽयं निरूप्यते विशेषाः स्थूलनामानः पञ्च स्युः भूतलक्ष तन्मात्रलक्षणाः पञ्चाविशेषास्सूक्ष्मलक्षण विशेषाः त्रिविधाः ज्ञेयाः सूक्ष्मदेहोऽत्रच स्थूलदेहो द्वितीयः स्यात् प्रभूतस्तदनन्तर आ सर्गात्प्रतिसर्गान्तं याः पुंसां सन्ति बुद्धयहंकारतन्मात्रेन्द्रियसंहतिलक्षणाः ॥

शरीरवादः 113

ते सूक्ष्मदेहाः नियताः लिङ्गाख्याः प्रथमा इमे । षाट्कौशिकाः स्थूलदेहाः ये मातापितृसंभवाः ॥ निवर्तन्ते प्रजायन्ते प्रभूताः स्थावरा मताः । घटादीनां निवेशोऽत्रेत्येवं त्रैविध्यमीरितम् ॥ इति सांख्योक्तसिद्धान्तं प्राय इच्छन्ति सूरयः । नैयायिकादयो नोपयन्तीदं तत्त्वविप्लवात् ॥ विभ्वात्मवादे गत्युक्तिस्सर्वत्रैवौपचारिकी । जन्मान्तरोपपत्तिश्च स्थितस्यैव भविष्यति ॥ कुमारिलश्चात्मवादे मीमांसाश्लोकवार्तिके । अन्तराभवदेहस्तु निषिद्धो विन्ध्यवासिना ॥ तदस्तित्वे प्रमाणं हि न किञ्चिदिति पद्यतः । विन्ध्यवासिमतं प्राह सांख्यस्स्याद्विन्ध्यवास्यसौ ॥ 6 तथौपनिषदैः कैश्चिल्लिङ्गदेहो मतो यथा । पञ्चप्राणमनोबुद्धिदशेन्द्रियसमान्वितम् ॥ अपञ्चीकृतभूतोत्थं सूक्ष्माङ्गं भोगसाधनम् । परं चाप्यपरं चेति द्विधा तत्परिकीर्तितम् ॥ परं हिरण्यगर्भीयं तन्महत्तत्त्वशब्दितम् । अपरं त्वस्मदादीनां सोऽहंकार इतीर्यते ॥ पञ्चीकृतेभ्यो भूतेभ्यश्चान्येषां सृष्टिरिष्यते । लिङ्गं मतं भेदविदां भेदाभेदविदामपि ॥

M.R. 15

114 मानमेयरहस्यश्लोकवार्तिके 7 प्राग्देहाकृष्टभूतांशसंघसंपत्तिमान् पुमान् । अणुस्संसरतीत्येकैर्लिङ्गदेहो न चेष्यते ॥ भूतसूक्ष्मपरिष्वङ्गविषयं शास्त्रमुच्यते । गतिसाधनमेवेदं न चेष्टं भोगसाधनम् ॥ आरम्भवादे सांकर्यं जात्यादेः स्थूल इष्यते । उपाधिसंकरन्यायादिति केचन जानते ॥ कुर्वद्रूपत्वाख्यजातिवादभङ्गाय संकरः । दोषोऽभ्युपगतः प्राज्ञैरिति तत्त्वविदो विदुः ॥ 8 अवस्थावाइपक्षे तु नैव तस्य प्रसञ्जनम् । इत्याभिप्रेत्य बहुभिः शरीरं पाञ्चभौतिकम् ॥ क्षणिकं हेयमित्यादि बहुधा विजुगुप्स्यते । संरम्भस्तु तदत्यन्तभिन्ननित्यात्मधीफलः ॥ तत्सिद्धिश्च विरागस्य हेतुस्स्यादिति तन्मतम् । क्षणात्मवादे देहात्मवादे तत्सूपपादितम् ॥ द्रष्टृणामिह सर्वेषामास्थाया हि परिक्षयः । परमोद्देश्य इति च सर्वथा सुव्यवस्थितम् ॥ (26) इन्द्रियवादः 1 शरीरस्यैवेन्द्रियत्वात् नेन्द्रियं नाम किंचन । इति शाक्यविशेषा हि प्राहुर्लोकायता अपि ॥

इन्द्रियवादः 115 त्वगेकमेव वा तत्स्यात् मनो वाऽप्येकमेव वा । इति कश्चित्सौगतानां सिद्धान्त इति गम्यते ॥ कल्प्यते शक्तिभेदश्चेत् शक्तिरेवेन्द्रियं भवेत् । इत्ययुक्तं, वरं धर्मिकल्पनाद्धर्मकल्पना ॥ शक्तिशक्तिमतो रैक्यं प्रायशस्सर्वसम्मतम् । शक्तीनां नामभेदेन व्यवहारोऽनवस्थितः ॥ पुमिन्द्रियं स्त्रीन्द्रियं च द्विधा वेन्द्रियमित्यापि । प्राचीनानां व्यवहृतिः पूर्वाचार्यैरनूदिता ॥ क्षीणानि चक्षुरादीनि रूपादिष्वेव पञ्चसु । न षष्ठमिन्द्रियं द्रव्यग्राहकं विद्यते बहिः ॥ नैकं रूपाद्यभेदो वा दृष्टं चेन्नेन्द्रियेण तत् । अक्षानेकत्ववैयर्थ्यं स्वार्थे भिन्नेऽपि शक्तिमत् ॥ न सुखा दिप्रमेयं वा मनो वाऽस्तीन्द्रियान्तरम् । अनिषेधादुपात्तं चेदन्येन्द्रियमतं वृथा ॥ नैकमित्यादिपद्यस्याप्यर्थ एषोऽवधार्यताम् । दर्शनस्पर्शनाभ्यां यद्ग्राह्यं ग्राहकभेदतः ॥ रूपादिवत्ताद्भिद्येत नोचेद्रूपाद्यभेदिता । सामान्यं पञ्चभिर्ग्राह्यं दृष्टं चेत्तदसन्मतम् ॥ तथापीन्द्रियसांकर्ये व्यर्था तद्भेदकल्पना । त्वगेकमेवेन्द्रियं स्यात् नैकार्थे नैकशक्तिमत् ॥

[Page 116] मानमेयरहस्यश्लोकवार्तिके

इत्येवं भिक्षुवाक्यस्य भावो रत्नाकरोदितः एकेन्द्रियादिवादस्तु गौतमेनाप्यनूदितः ॥ तद्भेदसाधनं तत्रानात्मसाधनसंगतम् । 2 यः पञ्चेन्द्रियसिद्धान्तः तत्रापि श्रोत्रचक्षुषी अप्राप्यकारिणी स्यातामिति सौगतनिर्णयः आभिमुख्यं च संबन्धोऽयस्कान्तादिवदिष्टः अनवस्थाऽतिप्रसङ्गौ संबन्धस्य ग्रहेऽग्रहे । प्राप्तेश्च कल्पनाऽन्येषामेषां त्वनुपलब्धितः प्राप्त्यभावस्सिद्ध एव स्वभावात्नियमः स्फुटः सान्तरं ग्रहणं न स्यात्प्राप्तौ दूरादिदर्शनात् महीमहीधरादीनां महतां चाग्रहो भवेत् । कणभक्षोऽक्षपादश्च जैमिनिः कपिलस्तथा सर्वेन्द्रियाणामेते स्युः प्राप्यकारित्ववादिनः चक्षुश्श्रोत्रेतरेषां तु केचित्ताथागतास्तथा तत्रापि चक्षुर्भिन्नानां तेषां स्याद्वादिनस्तथा 3 अथ नैयायिकानां स्यादेष सिद्धान्तसंग्रहः भौतिकानीन्द्रियाणि स्युः पञ्च बाह्यानि दे न महान्ति न चाणूनि मध्यमानीति नि अणु नित्यं द्रव्यमपि मनोऽन्तःकरणं म तत्र पञ्चभिरप्यक्षैः बोधस्सत्तागुणत्वयोः

इन्द्रियवादः 117 द्रव्यमाने पुनर्द्वाभ्यां रूपादावेकशः स्थितिः । मनोग्राह्यं सुखं दुःखमिच्छा द्वेषो मतिः कृतिः । स मानसीनो जनानामात्माऽप्येतैर्गुणैस्सह । अतीन्द्रियाणीन्द्रियाणि सिद्ध्यन्ति ह्यनुमानतः ॥ प्रतिदेहं विभिन्नानि षडेतान्यखिलात्मनाम् । शरीरावयवा एव स्युः कर्मेन्द्रियशब्दिताः ॥ शब्देतरोद्भूतगुणविशेषानाश्रयश्च सन् । ज्ञानहेतुमनोयोगस्याश्रयो हीन्द्रियाभिधः ॥ सर्वाणि प्राप्यकारीणि कारकाणि यतो धियाम् । संसृष्टं कारकं लोके तत्फलायावकल्पते ॥ सन्निकर्षस्ततस्सिद्धः सत्तयैवोपकार्यसौ । नानवस्थातिप्रसंगौ स्वभावनियतं जगत् ॥ नीरन्ध्रेऽप्यम्बुकाचादौ दृक्प्रभादेः प्रवेशनम् । वस्तुस्वभाववैचित्र्यात् इत्येतत्सर्वसम्मतम् ॥ लौकिकोऽलौकिकश्चेति सन्निकर्षो द्विधेष्यते । प्रथमः षड्विधस्तत्र द्वितीयस्त्रिविधो मतः ॥ पृथ्वग्रं चाक्षुषं तेजोऽधिकग्रहणशक्तिमत् । शालिकाचार्यसिद्धान्ते चक्षुर्बाह्येन तेजसा ॥ महच्चक्षुर्जनयति गृह्यते तेन चाधिकम् । तथा शाखाचन्द्रमसोर्यौगपद्येन च ग्रहः ॥

118 मानमेयरहस्यश्लोकवार्तिके बाह्येन ज्योतिषा चक्षुःज्योतिस्संवलितं दूरस्थं विपुलं चापि गृह्णातीति विदुः परे 4 अथ सांख्यास्त्विन्द्रियाणि विभून्यैकादशो प्राहुराहंकारिकाणि वृत्त्या च व्याप्नुवन्त्य ज्ञानकर्मात्मकं चेदं मनोऽन्तःकरणं मतम् अहंकारश्च बुद्धिश्चाप्यन्तःकरणमिष्यते ॥ तथाच त्रिविधा तेषामन्तःकरणकल्पना आनुमानिकतैतेषां प्रधानादिवदेवहि ॥ सात्त्विकाहंकार एषामुपादानमिति स्थितिः अहंकारविशेषाः स्युरिन्द्रियाणीति केचन हैरण्यगर्भा इति हि प्राह सर्वार्थसिद्धिकृत् कर्मेन्द्रियं राजसं स्यादिति केचन तान्त्रि प्रतिदेहं जनिध्वंसौ स्यातामस्येति केचन 5 मीमांसकास्तु प्रायेण नैयायिकमते स्थि विजृम्भन्तेऽभीष्टसिद्धौ श्रोत्रे शब्दे च दिशश्श्रोत्रमिति श्रुत्या श्रोत्रं ते दैशिकं ध्वनिजन्यस्तु संस्कारः शब्दग्रहणकारणम् 6 न श्रोत्रमिन्द्रियमिति भर्तृमित्रादयो विदुः कुमारिलस्त्विमं पक्षं निरास्थत् श्लोकवार्ति विषयेन्द्रियदेशानां संस्कारमपि चेच्छति

इन्द्रियवादः 119 वीचीतरङ्गादिनीतिं शब्दानित्यत्वसाधकाः । ध्वनीनामुपगच्छन्ति ध्वनितत्त्वं पुरः स्थितम् ॥ 7 मनसो वैभवं प्राहुः संयोगमजयोरपि । अदृष्टानियमः सिद्धयेत् अदृष्टशरणा हि ते ॥ ज्ञानस्यायौगपद्यार्थमणुत्वं तार्किका विदुः । दूरस्मृत्युपपत्त्यर्थं वैभवं वैदिका विदुः ॥ विकासो वृत्तिभेदो वाऽप्यायकप्रचयोऽपि वा । पृथुत्वहेतुः वेगस्तु यौगपद्यभ्रमावहः ॥ नैवाभिनिविशन्तेऽन्यप्रकारेपु बुधा इमे । 8 अथौपनिषदानामप्येष सिद्धान्तसंग्रहः ॥ देहेन्द्रियमनःप्राणधीभ्योऽन्योऽनन्यसाधनः । आत्मा सेद्धव्य इति हि ब्रह्म मीमांस्यते बुधैः ॥ इन्द्रियस्य तु देवत्वं कारणत्वमुपास्यता । प्राणत्वाद्यं श्रूयतेऽतः स एवात्मेति संशयः ॥ एतादृक्संशयोच्छित्त्यै भगवान् बादरायणः । प्रावर्तयत्प्राणपादं द्वितीये लक्षणेऽन्तिमम् ॥ नेन्द्रियेष्वनुमानं स्यात् अप्राप्ते शास्त्रमर्थवत् । ज्ञानेन्द्रियाणां कॢप्तिश्चेन्न किं कर्मेन्द्रियेषु सा ॥ करणत्वेनेन्द्रियत्वं दोषदीपाञ्जनादिषु । प्रसज्यते सहायत्वव्यवस्था त्वनियन्त्रिता ॥

20 मानमेयरहस्यश्लोकवार्तिके उद्विग्नो ह्यन्धकारेण क्वचिदेवं ब्रवीत्यपि । किं चक्षुषा ममैतेन दृष्टं दीपेन यन्मया ॥ अतीन्द्रियस्येन्द्रियस्यासिद्धिसिद्धिविकल्पतः । पक्षाप्रसिद्ध्यादिदोषात् विजृम्भन्ते न युक्तयः ॥ शुद्धा‌हंकृत्युपादानं द्रव्यमिन्द्रियमुच्यते । भूतैराप्यायनं तेषां मनोऽन्नमयताश्रुतेः ॥ इन्द्रियाणां भौतिकत्वं केचिद्वेदान्तिनो विदुः । पञ्चभूतमयत्वं च मनसः प्रतिपेदिरे ॥ शाब्दापरोक्षसिद्धान्ते मनो नेन्द्रियमिष्यते । कैश्चिदात्माऽपरोक्ष्यार्थं मनः करणमुच्यते ॥ 9 एकं मनोऽन्तःकरणं नैयायिकमते मतम् । द्विविधं भास्कराः प्राहुः त्रिविधं कापिला विदुः । चतुर्विधं केचिदाहुः तदुक्तिरवधार्यताम् । मनो बुद्धिरहंकारश्चित्तं करणमान्तरम् ॥ संशयो निश्चयो गर्वः स्मरणं विषया इति । तत्र कापिलभिन्नास्तु वृत्तिभेदाद्भिदां विदुः ॥ मनः स्मृत्यनुभूतिभ्यां द्विधा भास्करभाषितम् । श्रुतिश्च विविधा मानं सर्वेषामिह विद्यते ॥ तदर्थनिर्णायकं च सूत्रं तात्पर्यभेदतः । व्याख्यायते यदि तदा कः पक्षः श्रुतिसम्मतः

आत्मवादः-लौकायतात्मा 121 अप्राप्यकारिणी श्रोत्रचक्षुषी इति सौगताः । चक्षुर्मात्रं विदुर्जैनाः सर्वेऽन्ये प्राप्तिवादिनः ॥ एवमिन्द्रियवृत्तान्ते विकल्पोऽत्र निरूपितः । प्रायस्सर्वार्थसिद्ध्यादौ विस्तरोऽस्यावलोक्यते ॥ (27) आत्मवादः—लौकायतात्मा. 1 अथ प्रस्तूयतेऽत्रात्ममीमांसा सर्वतोमुखी । यत्कृते सर्वमीमांसाः तीर्थकृद्भिः प्रवर्तिताः ॥ तथाहि लौकायतिकाः परलोकापवादिनः । चैतन्यखचितात्कायान्नात्माऽन्योऽस्तीति मन्वते । भीष्मः खल्वपवर्गोऽयं भद्रं बह्वत्र लुप्यते । संसारो हि वरं यत्र सुखलेशः कियानपि ॥ स्वर्गेण चिरसाध्येन मृतिव्यवहितेन किम् । अत्र भोजनशय्यादि सुखमेव त्रिविष्टपम् ॥ चैतन्यं भौतिकी शक्तिः न तत्त्वान्तरमिष्यते । भूतसंघावस्थितिर्वा धीसामग्र्यथवा भवेत् ॥ शरीरवृद्धौ तद्वृद्धिः तत्क्षये चापि तत्क्षयः । मूर्छा चैतन्यविकृतिः अभिघातादितो भवेत् ॥ दृश्यते चेतना पट्वी ह्यन्नपानादितृप्तितः । ब्राह्मीघृतादिसंस्कारे स्यात्पटुप्रज्ञता तथा ॥ M.R. 16

22 मानमेयरहस्यश्लोकवार्तिके चलन्ति दध्यवयवाः काले नातिदवीयसि । स्वेदादिनैव वर्षासु पूतरक्रिमिलक्षणाः ॥ गौरोऽहमस्मि स्थूलोऽहं कृशोऽहमिति सम्मताः । व्यवहाराश्चानुभवाः भूतचैतन्यसाक्षिणः ॥ अहं जानामीति मतिः शरीरमवलम्बते । इत्याहुरात्माऽप्रत्यक्षवादिनोऽपि हि तार्किकाः ॥ मम पाणिर्भुजो वेति भिन्नत्वादुपपद्यते । शरीरं तु ममेत्येषा कल्पना राहुमूर्धवत् ॥ 2 चैतन्यं यदि शक्तिः स्यात् शक्तिशक्तिमतोर्यदा । भेदस्तदा शक्तिनाम्ना तत्त्वान्तरपरिग्रहः ॥ इति शङ्का नैव कार्या संघातशक्तिरिष्यते । ज्ञानं नाम पदार्थो यः स नास्त्येवेति तन्मतम् ॥ ज्ञानस्योत्पादिका याऽस्ति सामग्री सर्वसम्मता । तयैव सर्वनिर्वाहात्किमन्तर्गडुनाऽमुना ॥ देहधातुविशेषो वा विकासो वाऽस्य कश्चन । ज्ञानमित्येव वक्तव्यं वरं धर्मिप्रकल्पनात् ॥ हृदयस्थः पित्तभागः प्रकाश इति वैद्यकम् । एवमाद्यास्तु सर्वार्थसिद्धौ वादाः ह्यनूदिताः ॥ स एव भूतचैतन्यवादिनः परमाशयः । अन्यथा तस्य चैतन्यं तस्यापीत्यनवस्थितिः ॥

सौगतात्मा 123 सुखदुःखेच्छादयोऽपि परिणामा हि भौतिकाः । संघातवेद्यास्ते सर्वे न संज्ञा प्रेत्य विद्यते ॥ भूतेभ्यश्च समुत्थाय तान्येवानुविनश्यति । इतिहि ब्राह्मणं येयं प्रेते संशय इत्यपि ॥ नाचिकेतानुयोगश्च सिद्धान्तं द्रढयत्यमुम् । एष देहात्मसिद्धान्तः सुराचार्यप्रवर्तितः ॥ चार्वाककृतभाष्यादिनिबन्धैः प्रचयं गतः । कामनीतिस्तेयशास्त्रप्रमुखं तस्य विस्तरः ॥ शेषः सिद्धान्तसारांशः सूचितः प्रायशः पुरा । प्रमेयसंग्रहे सोऽपि वैशद्यायावधार्यताम् ॥ (28) सौगतात्मा. 1 अथो तथागताः प्राहुः किं पुंसा कल्पितेन वा । ज्ञानमात्रेण सर्वोऽपि व्यवहारोऽवकल्पते ॥ ज्ञानस्यैव प्रभेदोऽयमिच्छाद्वेषसुखादिकः । न वस्त्वन्तरमित्येवं न ततोऽन्यप्रकल्पनम् ॥ गुणत्वमपि नास्त्यस्य यतोऽधिष्ठानकल्पना । न गुणव्यतिरिक्तश्च गुणी नामास्ति कश्चन ॥ स्मृतिवत्परिहर्त्तव्यौ कृतनाशाकृतागमौ । तत्संतानोपसंक्रान्त्या कुसुमे बीजरागवत् ॥

24 मानमेयरहस्यश्लोकवार्तिके यस्मिन्नेव हि संताने आहिता कर्मवासना । फलं तत्रैव बध्नाति कार्पासे रक्तता यथा ॥ वर्षातपाभ्यां किं व्योम्नः चर्मण्यस्ति तयोः फलम् चर्मोपमश्चेत्सोऽनित्यः खतुल्यश्चेदसत्समः ॥ बुद्धिर्जन्मनि पुंसश्च विकृतिर्यद्यनित्यता । अथाविकृतिरात्माऽयं प्रमातेति न युज्यते ॥ अत्यन्तमलिनः कायः देही चात्यन्तनिर्मलः । उभयोरन्तरं ज्ञात्वा कस्य शौचं विधीयते ॥ 2 निर्धर्मका निराधारा निर्मूर्त्तिश्चित्तसंततिः । प्रतिक्षणं जायमाना दीपसन्तानसन्निभा ॥ ज्वालाबुद्बुदवद्वृत्तिः मातृकुक्षिप्रवेशभाक् । सा ततो विषयज्ञप्तिः चित्ताभिज्वलनात्मिका ॥ कामक्रोधौ लोभमोहौ रागद्वेषौ च सैव हि । रागो द्वेषश्च मोहश्च यद्युत्कटदशां गतः ॥ कामः क्रोधो लोभ इति व्यवहारस्य गोचरः । देवासुरमनुष्याणां भेदोऽतो गुणभेदतः ॥ आत्मा यद्यप्रतीत्य स्यात्क्लेशानां नैव संक्षयः । अतो नैरात्म्यसिद्धान्तः बौद्धानामिति निर्णयः । आत्मग्रहो महामोहः प्रथमं तन्निवृत्तितः । मम किं नाहमेवेति विरंस्यति ममग्रहः ॥

सांख्यात्मा तस्मादादावहंकारममकारप्रहाणतः । निर्वाणद्वारमेवैतत्सिद्धं नैरात्म्यदर्शनम् ॥ (29) सांख्यात्मा. 1 अथ कापिलसिद्धान्तरीत्याऽऽत्माऽत्र विचार्यते । विदितः सांख्यपुरुषः सोऽसौ पुष्करपर्णवत् ॥ श्रुतिर्ह्यपौरुषेयेषा कल्पादौ कपिलादिभिः । स्मर्यते चापि विद्वद्भिः सर्वा सुप्तप्रबुद्धवत् ॥ तथा स्मृतीतिहासाद्याः प्रमाणं वेदमूलकाः । प्रकृतेः पुरुषस्यापि विवेकस्तैर्विशोध्यते ॥ तच्छ्रुत्वा शास्त्रयुक्त्या च व्यवस्थाप्य ततः परम् निरन्तरं दीर्घकालमादरेण च सेवितात् ॥ साक्षात्काराच्च विज्ञानान् मुच्यते भावनामयात् अभेदधीरुपायेयाऽन्येषामेषां तु भेदधीः ॥ 2 तत्र युक्तिस्तु शास्त्रीया प्रयुक्ता तैः पुनर्यथा । अतिरिक्तोऽस्ति पुरुषः ह्यव्यक्तादेर्यतस्त्विमे ॥ अव्यक्ताद्याः परार्थाः स्युः संघातत्वात् गृहादिवत् परस्स्यात्संहतो देहो दर्शनादिति चेन्न तत् ॥ तस्यापि संहतत्वेन स्यात्संघातान्तरार्थता । नच सत्यां व्यवस्थायामायुष्मत्यनवस्थितिः ॥