मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
614 मानमेयरहस्यश्लोकवार्तिके प्रत्यक्षकलितं चार्थं बुभुत्सन्तेऽनुमानतः । तर्कसिद्धान्तरसिका इति पूर्वैरुदाहृतम् ॥ 4 इदानीमिव सर्वत्र दृष्टान्नाधिकमिष्यते । उपलम्भानुसारेण व्यवस्थासिद्धिरीदृशी ॥ सर्वदाचापि पुरुषाः प्रायेणानृतवादिनः । यथाऽद्यत्वे न विस्रम्भः तथाऽतीतार्थकीर्तने ॥ न च पुंवचनं सर्वं सत्यत्वेनावगम्यते । वागिह श्रूयते यस्मात्प्रायादनृतवादिनी ॥ इति च श्रूयते श्लोकवार्तिके तन्त्रवार्तिके । कुमारिलमहाप्राज्ञमुखाल्लोकोत्तरं वचः ॥ सुगतो यदि सर्वज्ञः कपिलो नेति का प्रमा । तावुभौ यदि सर्वज्ञौ मतिभेदः कथं तयोः ॥ न ह्याप्तवादा नभसो निपतन्ति महासुराः । युक्तिमद्वचनं ग्राह्यं सर्वैरपि परिक्षकैः ॥ सर्वैर्दार्शनिकैः लोके शास्त्रं किञ्चिन्निधीयते । तत्प्रामाण्ये विवादस्तु वादिनामवशिष्यते ॥ प्रमाणान्तरदृष्टं हि शब्दोऽन्यं प्रापयेत्सदा । स्मृतिवच्च स्वयं तस्य प्रामाण्यं नोपपद्यते ॥ नूनं तत्रानुभूतोऽसावित्याप्तोक्तिनिबन्धना । बुद्धिस्साक्षाददृष्टेऽपि युक्ताऽर्थे पुरुषोक्तितः ॥
युक्तिप्राबल्यम् 61 नात्मीयादन्यदीयाद्वा प्रत्यक्षादेर्विना क्वचित् । वचसस्सत्यता दृष्टा सर्वशब्देष्वयं विधिः ॥ बुद्ध्याद्यन्तेवासिनां तु बुद्धाद्यास्सर्ववेदिनः । तत्प्रणीतानि शास्त्राणि प्रमाणानीति ते विदुः ॥ ईश्वरेणोपदिष्टास्स्युः वेदास्सकलवेदिना । प्रमाणमाप्तवाक्यत्वादित्याहुः किल तार्किकाः ॥ अपौरुषेया वेदास्स्युः प्रमाणमिति वैदिकाः । दूषणं भूषणं चापि प्रवर्धेते दिनेदिने ॥ अपिचापौरुषेयेषु वेदेषूपनिषत्सु वा । यदा तात्पर्यभेदास्स्युः किं नित्यागमसंपदा ॥ 5 पार्थसारथिमिश्राणां या पुनश्शास्त्रदीपिका । तस्यां ज्ञेयं पद्यमिदं स्फुटं बह्वर्थगर्भितम् ॥ प्रबोधचन्द्रोदयेऽपि कृष्णमिश्रविनिर्मिते । पौर्वापर्यविचारस्तु तिष्ठत्वत्र न चादरः ॥ प्रत्यक्षादिप्रमासिद्धविरुद्धार्थाभिधायिनः । वेदान्ता यदि शास्त्राणि बौद्धैः किमपराध्यते ॥ इति, तैस्तु पुराणस्थं नूनं नालोचितं वचः । तदत्र लिख्यते किंचिन्मध्यस्थैरवधार्यताम् ॥ नैतद्युक्तिसहं वाक्यं हिंसा धर्माय चेष्यते । हवींष्यनलदग्धानि फलायेत्यर्भकोदितम् ॥
616 मानमेयरहस्यश्लोकवार्तिके यज्ञैरनेकैर्देवत्वं अवाप्येन्द्रेण भुज्यते । शम्यादि यदि चेत्काष्ठं तद्वरं पत्रभुक्पशुः ॥ निहितस्य पशोर्यज्ञे स्वर्गप्राप्तिर्यदीष्यते । स्वपिता यजमानेन किंनु तस्मान्न हन्यते ॥ तृप्तये जायते पुंसः भुक्तमन्येन चेत्ततः । दद्याच्छ्राद्धं श्रमायान्नं न वहेयुः प्रवासिनः ॥ एवं विनिन्दां वेदानां यथा तैर्विनिवार्यते । तथोपनिषदां निन्दा न निवार्येत किं परैः ॥ 6 तद्युक्त्यधीनस्सकलः संरम्भः खलु वादिनाम् । इत्याहुरिह युक्तिज्ञाः ये विपश्चिदपश्चिमाः ॥ (223) विचारनिरूपणम्. 1 विचारो द्विविधो लोके फलभेदाद्व्यवस्थितः । तत्त्वनिर्णयसिद्धयर्थः विजयैकार्थ इत्यपि ॥ तत्राद्यो द्विविधः पूर्वः उपदेशात्मको मतः । द्वितीयो न्यायमूर्तिस्स्याद्यो वादो गुरुशिष्ययोः ॥ अनन्तरोपि द्विविधः विजिगीषुकथात्मकः । जल्प एको वितण्डा तु द्वितीय इति निर्णयः ॥ वादनिग्रह एवात्र नैव तत्त्वविनिर्णयः । इति जानन्तोऽपि कथां वितण्डामेव केवलम् ॥
आश्रित्य परपक्षांस्तान् खण्डयन्ति विपश्चितः । वितण्डामेव च कथामाश्रित्य परखण्डनम् ॥ वक्तव्यमिति हि प्राह श्रीहर्षो विश्वखण्डकः । अद्वैतसिद्धावपि च मधुहन्तृसरस्वती ॥ वादजल्पवितण्डानां कथामन्यतमामपि । आश्रित्य परपक्षाणां प्रतिक्षेपं ब्रवीत्यपि ॥ एवं च वादिविजयमात्रेणैव समीहितम् । सिषाधयिषतीत्येव कुतस्तत्त्वविनिर्णयः ॥ यद्यपि न्यायसिद्धान्ते ताभ्यां निग्रह ईप्सितः । न तं तत्त्वव्यवस्थायां प्रमाणं बहवो विदुः ॥ तदेतस्मात्संप्रदायसंस्कारो मूलकारणम् । विचारविप्लवस्सर्वः ताड्यते बाह्यडिण्डिमः ॥ 2 अत्र केचन तत्त्वज्ञाः युक्तिज्ञपरिशीलनात् । अभिप्रायमिमं कंचिद्विशदीकुर्वते यथा ॥ आदौ सांख्याः सर्ववस्तु नित्यतासाधनोद्यताः । क्षणभङ्गं निरुन्धन्ति युक्तिजालैर्मनोहरैः ॥ गत्वागत्वाऽथ ते योगाचारसिद्धान्तसागरे । निमज्जन्ति यतो व्यक्तिरुत्पत्तिश्चाविलक्षणा ॥ उत्पत्तिनाशयोरस्तिनास्त्योरप्येकता मता । विज्ञानवादसिद्धान्तः पर्यायेणायमेव हि ॥ M.R. 78
सांख्याः स्वभावसिद्धान्तमङ्गीकुर्वन्ति भूयसा । अर्धं तेनाकस्मिकतावादमेते समाश्रिताः ॥ ३ वैशेषिकाद्या विज्ञानवादोद्धूननतत्पराः । क्षणवादे निमग्नास्स्युः प्रतिक्षणविशेषतः ॥ यद्यप्यात्मादयो नित्याः पदार्थाः स्वीकृताः पुनः तथापि धर्माः तेषां स्युः क्षणिका इति तन्मतम् धर्मधर्म्यैक्यपक्षे तु क्षणवादः प्रतिष्ठितः । पीलुपाके तु विस्पष्टः क्षणसिद्धान्तसङ्ग्रहः ॥ भूतचैतन्यभङ्गाय पीलुपाकस्समाश्रितः । प्रतिक्षणं देहभेदे स्मरणं नोपपद्यते ॥ क्षणभङ्गोपरोधाय पिठरे पाक आदृते । भूतचैतन्यवादस्तु तदानीं स्यादुरुद्धरः ॥ अत एव प्रसिद्धास्तेऽप्यर्धवैनाशिका इति । निरन्वयोत्पत्तिनाशाधारा हि क्षणभङ्गिता ॥ ४ पूर्वमीमांसका वेदापौरुषेयैकदृष्टयः । प्रायो लौकायतं मार्गं संश्रिता इति कीर्तिताः ॥ प्रायेणैव हि मीमांसा लोके लोकायतीकृता । तामास्तिकपथे कर्तुमयं यत्नः कृतो मया ॥ इति वार्तिककारोऽपि प्राहारम्भे कुमारिलः । अथाप्यपयशस्तेषामद्यापि न हि शाम्यति ॥
विचारनिरूपणम् ६१९ विग्रहो हविरादानं युगपत्कर्मसन्निधिः । प्रीतिः फलप्रदानं च देवतानां न विद्यते ॥ देवानचेतनानेवं ये विदुस्तान्महाशयान् । अर्धलोकायतानाहुरत एवेतरे बुधाः ॥ सर्वेषामपि शब्दानामाहुः सर्वार्थशक्तताम् । सर्वेषां विदुरर्थानां अशेषपदशक्यताम् ॥ सर्वासामपि जातीनां स्याद्यावद्व्यक्तिगामिता । व्यक्तीनामपि सर्वासां सर्वजात्यनुयोगिता ॥ एष सर्वात्म्यसिद्धान्तो नैरात्म्यान्न विशिष्यते । सामान्यलक्षणे सैषा विश्रान्तिर्वा स्वलक्षणे ॥ कर्मैकं बुद्धिरप्येका जगत्येकस्सितो गुणः । वर्णोऽप्येको गकारादिः सर्वैक्यं किं न रोचते ॥ तदानीमपि दुर्मोचा भवेत्सौगतवागुरा । विशेषवादस्सामान्यवादो वा दृष्टिभेदतः ॥ ५ ये तु स्वाभाविकं भेदाभेदमिच्छन्ति शास्त्रतः । तेषां विरोधो नास्त्येव वस्तु नानात्मकं यतः ॥ यादृशं ज्ञायते वस्तु यदि तादृशमेव तत् । विज्ञानवादसिद्धान्तोऽप्येवमेव हि वस्तुतः ॥ प्रातिभासिकसिद्धान्तोऽप्यसावेव हि वस्तुतः । स चानेकान्तवादोऽपि भवेत्पर्यायतो विदाम् ॥
20 मानमेयरहस्यश्लोकवार्तिके 6 अज्ञानादिह संसारं ज्ञानान्मोक्षं च ये विदुः । सर्वे ते पर्यवस्यन्ति प्रायस्सौगतसोदराः ॥ अविवेकेन तादात्म्यं पुंप्रकृत्योर्न वस्तुसत् । साऽस्मितेत्युच्यते क्लेशः सर्वानर्थस्य कारणम् ॥ येषां प्रपञ्चः तन्मूलः बुद्धिमूलस्तु वस्तुतः । विज्ञानवादिसिद्धान्ताविशेषो वस्तुवादिनाम् ॥ संसारमोक्षयोः कर्म कारणं ये विदुः परे । प्रायो भौतिकसिद्धान्तवादस्तेषां महात्मनाम् ॥ ये सर्वेश्वरसंकल्पायतं तदुभयं विदुः । संकल्पो बुद्धिरेवेति दुर्लङ्घा बुद्धवागुरा ॥ यद्यत्राज्ञानशब्देन चान्यथाज्ञानमुच्यते । विज्ञानवादस्स्यात्तस्मात् ज्ञानाभावस्स उच्यते ॥ तस्यापि तुच्छरूपत्वे तुच्छं चापि जगद्भवेत् । भावान्तराभाववादः स्वीकृतः कपिलादिभिः ॥ अभावोऽप्यर्थ एवेष्टः तन्मीमांसकतार्किकैः । अतएवच ते प्राहुर्भावं मोक्षसाधनम् ॥ अनिर्वाच्यविदश्चातः भावाज्ञानविदोऽभवन् । अज्ञानं चेदसत्ख्यातिः ज्ञानाभावोऽथवा पुनः ॥ दुरुद्धरा तुच्छता स्याज्जगतस्त्विति बिभ्यति । भावान्तराभाववादं अतः केचित्समाश्रिताः ॥
विचारनिरूपणम् ६२१ अन्ये तार्किकसिद्धान्तं प्रायशस्समशिश्रयन् । यस्मात्सौगतसिद्धान्तस्सोऽसत्ख्यातो प्रतिष्ठितः ॥ 7 सौगताः सर्वसिद्धान्तखण्डकाः शून्यतत्पराः । तेषां वितण्डा ब्रह्मास्त्रं तस्या गतिरुदीक्ष्यताम् ॥ वितण्डावाद्ययमसो यो माध्यमिकनामकः । स्वपक्षस्थापनाहीनः परपक्षविभेदकः ॥ सोऽनुयुक्तः फलं किंचिद्यदिच प्रतिपद्यते । सोऽस्य पक्षो भवेत्तेन वैतण्डिककथा हता ॥ अथ न प्रतिपद्येत नायं लौकिक इष्यते । नवा परीक्षकः स्यादित्यापद्येत स बुद्धिमान् ॥ प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते । न तिरश्चामपि जगत्यफला दृश्यते क्रिया ॥ परपक्षप्रतिक्षेपज्ञापनं चेत्प्रयोजनम् । ब्रवीत्यसौ तथाऽप्येतत्तादृगेव भविष्यति ॥ यो ज्ञापयति यो वेत्ति येन च ज्ञाप्यते तथा । यदपि ज्ञायते तच्चेत् प्रतिपद्येत को हतः ॥ सर्वथा सदुपायानां वादमार्गः प्रवर्तते । अधिकारोऽनुपायत्वान्न वादे शून्यवादिनः ॥ अथ शून्याद्वैतवादमानिनो हीत्थमभ्यधुः । अवलम्ब्य भरं शून्ये कृतार्थाः सुखमास्महे ॥
22 मानमेयरहस्यश्लोकवार्तिके ये तु तत्त्वं विनिर्णैतुमिच्छन्ति स्वव्यवस्थया । भ्राम्यन्ति, तेषु कृपया कृतार्थास्ते भवन्त्विति ॥ अपनेतुं भ्रमं चापि परार्थ्यात्प्रयतामहे । दया हि स्वार्थानपेक्षपरदुःखासहिष्णुता ॥ यदि काचित्प्रतिज्ञा स्यात्तदा दोषविचारणा । नास्ति प्रतिज्ञा काचिन्नः तस्मान्नैवास्ति दूषणम् ॥ नातः पर्यनुयोगाहाः कथंचिदपि वादिभिः । इति शून्यैकान्तवादः तत्र स्यादिदमुत्तरम् ॥ मर्यादास्थापनार्थं च मानतकौ समुत्थितौ । सिंहारण्यवदन्योन्यं गुप्तौ तौ स्वान्यसाधकौ ॥ महीमिवच मर्यादां अनधिष्ठाय शाश्वतीम् । पदन्यासो न चोराणां प्रच्छन्नप्रकटात्मनाम् ॥ परमर्यादया ब्रूमः परव्याहतिमित्यसत् । स्वव्याघातादिभङ्गानां परानङ्गीकृतिर्यतः ॥ यद्यस्येष्टं तत्तु तस्य प्रयोजनमिति स्थितम् । सर्वभूतानुग्रहोऽपि कथं न स्यात्प्रयोजनम् ॥ सोऽस्य पक्षः स सिद्धान्तः वैताण्डिककथा वृथा । सर्वशून्यविदां सर्वा धीर्मृषेत्यापि धीर्मृषा ॥ तस्मान्निषेधसिद्धान्तः स्वयमेव विहन्यते । विश्वखण्डनसिद्धान्तोऽप्येवमेव हि खण्डितः ॥
बलाबलसारांशः 62 तदर्वाग्भिः तथा प्राग्भिः यथेष्टं मतमास्थितैः । प्रणिन्ये बहुधा तैस्तैः ग्रन्थरूपविचारणा ॥ यथालोकं यथावेदं वैदिके लौकिकेऽपिवा । यो वक्ता स परिग्राह्यः प्राक्तनोऽद्यतनोऽपिवा ॥ एवं सामान्यतस्तत्त्वविचारसरणिस्त्वियम् । न निर्गुणं न निर्दोषं जगत्यामस्ति किंचन ॥ (124) बलाबलसारांशः 1 अथायमत्र सारांशः संक्षेपेण विलिख्यते । तेन च प्रायशः तत्त्वं ज्ञेयं समरसं सताम् ॥ लोक इत्युच्यते युक्तिः उक्तिर्वेद इतीर्यते । अनयोरन्तरं नास्ति यद्यस्त्येतत्प्रसज्यते ॥ लोकातीतं तु विषयं न लोको ज्ञातुमर्हति । तथैव लौकिकं वस्तु न वेदो ज्ञापयेदपि ॥ यदि लोको वेत्तुमर्हः तदा लौकिक एव सः । लोकश्चेत्सर्वदा लोको भवेत्सर्वत्र सर्वथा ॥ यदि वेदो भवेल्लोकादात्यन्तिकविलक्षणः । न तादृशेन वेदेन लोकस्यास्ति प्रयोजनम् ॥ अत एवाहि मीमांसाशास्त्रे जैमिनिनोदितम् । आनर्थक्यप्रसङ्गेन शब्दैक्यं लोकवेदयोः ॥
524 मानमेयरहस्यश्लोकवार्तिके
प्रमाणं सकलं साङ्गं प्रवृत्तं लौकिकं तु तत् । लौकिकस्य प्रमाणस्य मेयं कथमलौकिकम् ॥ तस्मात्तत्त्वमिदं ज्ञेयं विस्पष्टं लोकवेदयोः । दृष्टिस्सामान्यतो लोकः दृष्टिर्वेदो विशेषतः ॥ सर्वसाधारणो लोकः वेदोऽसाधारणोऽथवा । सूक्ष्मदृष्टिर्वेद एषः लोकस्स्यात् स्थूलदर्शनम् ॥ वेदो वा महतां दृष्टिः लोकोऽन्येषां तु दर्शनम् । नूतनो वा भवेल्लोकः वेदस्तु स्यात्पुरातनः ॥ गिरिशृङ्गारोहणेन दर्शनं किं न दर्शनम् । चिरेण दर्शनं गर्भगृहे वा किं न दर्शनम् ॥ वेदे श्रद्धाप्रसिद्ध्यर्थं लोको लोकमपेक्षते । तथा व्यवस्थासिद्ध्यर्थं लोको वेदमपेक्षते ॥ 2 लोको भिन्नरुचिर्भिन्नसंस्कारो भिन्नदर्शनः । विचित्रो लौकिकेऽप्यर्थे किमु वाच्यमलौकिके ॥ अधिकारिविभेदेन सामरस्यं परे विदुः । यथाश्रुतधियः केचित् तेषामुक्तिर्विशिष्यते ॥ क्षोदक्षमधियस्त्वन्ये तेषां युक्तिर्गरीयसी । संमुग्धबुद्धयः केचित् तेषां संप्लव इष्यते ॥ तस्मात्सर्वैर्दार्शनिकैरुभयं च यथायथम् । स्वीकृत्य संप्रदायः स्वः सुदृढीक्रियते तराम् ॥
उपसंहारः 6 केचित्तु कालभेदेन सामरस्यं प्रपेदिरे । आदौ श्रुतिमयी प्रज्ञेदानीं चिन्तामयी मता ॥ केचित्त्ववस्थाभेदेन विरोधाभावमभ्यधुः । बाल्ये श्रुतिः ततो युक्तिः तदन्योन्यसमुच्चयः । केचिद्विषयभेदेन विरोधाभावमूचिरे । उक्तिः प्रधानविषये युक्तिः तदनुबन्धिनि ॥ नीचाः कलहमिच्छन्ति संधिमिच्छन्ति साधवः इति न्यायस्सामरस्यविदुषां हृदयस्थितः ॥ देशभेदात्कालभेदात्पुंभेदादन्यथाऽन्यथा । पर्यवस्यति शास्त्रार्थ इत्याहुः क्रान्तदर्शिनः ॥ (125) उपसंहारः. 1 भूमण्डलेऽस्ति भरतखण्डेऽस्मिन् दक्षिणापथे । कर्णाटदेशो विख्यातः महागिरिसरिद्वृतः ॥ प्रायेण पुण्यतीर्थानां प्रभवो देशतो यतः । तथैव पुण्यक्षेत्राणां देशो यश्च समाश्रयः ॥ सुवर्णादिखनीनां च रत्नानामपि चाकरः । विद्यावीचिसहस्राणां पारावारायते च यः ॥ तत्र यद्द्रिनिकटे महाबलशिलोच्चयः । कावेरीकपिलानद्योर्मध्ये यस्तरळायते ॥ M.R. 79
यमध्यास्ते महादेवी वैष्णवी शक्तिरुत्तमा । चामुण्डा यदुसंतानभूभृतां कुलदैवतम् ॥ महीशूरपुरी नाम प्रचकास्ति तदन्तिके । सा राजधानी सकलसम्पद्यादवभूभुजाम् ॥ चतसृष्वपि दिक्ष्वस्याः प्रख्यातास्स्युस्सुरालयाः । प्राच्यामवाच्यां प्रतीच्यामुदीच्यां च यथाक्रमम् ॥ नरसिंहपुरं चैव तथा गरलपुर्यपि । अर्कपुष्करिणीक्षेत्रं तथा श्रीरङ्गपत्तनम् ॥ देवतायतनैश्चैव सत्पुस्तकनिकेतनैः । आचार्याणां पीठमठैः उद्यानैयां विराजते ॥ विशालविद्याशालाभिः वैद्यशालाभिरेव च । विश्वविद्यावेश्मभिश्च भ्राजते राजवेश्मभिः ॥ न्यायस्थानैः कृतस्थानैः तेजःस्थानैः जलस्थलैः । कर्णाटदेशधरणीरमणीमौळिसन्मणिः ॥ सुगाङ्गसदृशो यस्यां प्रासादः परिशोभते । यत्र कर्णाटसिंहाङ्गासनं सद्रत्नशोभितम् ॥ २ यदधिष्ठाय सकलकल्याणगुणभूषणः । महाराजोऽवति श्रीमान् कृष्णराजोऽधुना प्रजाः यादवान्वयवाराशिभवमौक्तिकसन्मणिः । यदुराजः कुलपतिरासीदस्य महीभुजः ॥
उपसंहारः 6 चतुर्दशे च शतके शालिवाहशके च सः । श्रीमन्महीशूरदेशराजाऽऽसीदिति विश्रुतः ॥ स पवित्रात्रेयगोत्रः बह्वृचाश्वलायनः । तत्सन्ततौ चतुर्विंशोत्तमाङ्गत्वमुपाश्रितः ॥ शालिवाहशकैकोनविंशेऽथ शतके पुनः । सप्तमे हायने जात एष श्रीकृष्णभूपतिः ॥ मोचारसमुचा वाचा नीचीकृतरसान्तरः । यशःकुसुमसंदोहवासिताशाऽबलालकः ॥ दयादाक्षिण्यसौलभ्यसौशील्यमहदाश्रयः । श्रीमन्महीशूरराज्यसर्वसौभाग्यदायकः ॥ सदाचारपरित्राता दुराचारनिवारकः । सर्वभूपशिरःकम्पसंपादकशुभव्रतः ॥ परोपसर्पणक्लेशतारिताश्रितसज्जनः । शान्तो दान्तश्च राजर्षिः यस्स्याज्जनकसन्निभः आशीर्वादाक्षतफलधरश्रुतिशिरःकरः । धर्मो विग्रहवानेषः नैषद्देहेह वाङ्मृषा ॥ ज्योतिर्मयं खगोलं स्यात् भूगोलं तद्विपर्ययः । इति भेदो निराकारि यद्देशे वैद्युतत्विषा ॥ कनकाजलपातोत्थविद्युच्छक्तिसमृद्धितः । कनकं खन्यते येन यत्रान्वर्था सरित्कृता ॥
सैषा वसुमती चापि येन राजन्वती कृता । सरितस्सागरीभूताः मरवोऽप्युर्वरीकृताः ॥ आत्मा सुखे नियोक्तव्यः सुखभाजः प्रजाः स्मृताः सर्वस्तरतु दुर्गाणि सर्वो भद्राणि पश्यतु ॥ इति वाल्मीकिमुनिना तथा व्यासमहर्षिणा । सौहार्देन प्रतिज्ञातं पूरितं भूभुजाऽमुना ॥ बहुना किमिहोक्तेन सर्वविद्वदुपाश्रयः । सद्रत्नहारकटकबहुमानितसत्प्रजः ॥ तेन भूपतिवर्य्येण योऽहं विद्यैकसंश्रयः । पण्डितानां रत्नमिति बिरुदेन विभूषितः ॥ भूयस्तथैव च महामहोपाध्यायभूषणम् । तदिण्डियाचक्रवर्तिसन्निधेरुपलम्भितः ॥ यदन्तेवासिनो लब्धवर्णाः नानाकलास्वपि । भूयो भद्रासनस्थेन तेनैव बहुमानिताः ॥ योऽनेकग्रन्थनिर्माणधुरीणो विश्वविश्रुतः । लक्ष्मीपुरंश्रीनिवासाचार्योऽसौ विदुषां मणिः ॥ एकोनविंशशतके पञ्चमे दशकेऽष्टमे । आत्मीयैकोनषष्ट्यब्दे यं प्रबन्धं व्यरोरचत् ॥ ३ महीशूरमहाराजतुर्यश्रीकृष्णभूपतेः । कीर्तिकेतुः मानमेयरहस्यश्लोकवार्तिकम् ॥
उपसंहारः 62 तत्सौशील्येनैव शुद्धं तेनैव प्रचयं गतम् । किंकुर्वज्जगतामेतत् जीयात्सफलतां गतम् ॥ आकाशस्य स्थितिर्यावद्यावदप्यवनेः स्थितिः । तावदस्य स्थितिः भूयात्तमो लोकस्य निघ्नतः ॥ यस्सर्वज्ञः सर्वशक्तः तथा कारुणिकः परः । अन्तरान्मा महोदारः वासुदेवस्स तुष्यति ॥ यत्करोमि यदश्नामि यज्जुहोमि ददामि यत् । यत्तपस्यामि हे कृष्ण तत्करोमि त्वदर्पणम् ॥ इत्थं लक्ष्मीपुरंश्रीनिवासविद्वन्मणिर्मुदा । प्रयोजनपरिच्छेदं समगृहीत चान्तिमम् ॥ प्रीयतां भगवान् वासुदेवः. इति श्रीवत्सकुलकलशजलनिधिकौस्तुभायमानश्रीवेङ्कटार्यतनू- भवस्य ताताम्बागर्भशुक्तिमुक्ताफलायमानस्य श्रीमत्कस्तूरीरङ्ग- नाथविद्वन्मणिकरुणाकटाक्षसमासादितसारस्वतसर्वस्वस्य श्री- मद्भिरक्तराघवार्यचरणानुगृहीतसकलसम्प्रदायरहस्यस्य श्रीम- द्राजाधिराजमहीशूरमहीधुर्यतुर्यश्रीकृष्णराजसार्वभौमपरिपोषि- तस्य महामहोपाध्यायपण्डितरत्नाद्यनेकबिरुदालङ्कृतस्य संस्कृत- महापाठशालानिगमान्तप्रधानाोपाध्यायस्य श्रीमतो लक्ष्मीपुराभिजनस्य श्रीनिवासाचार्यस्य कृतिषु मानमेयरहस्यश्लोकवार्तिके प्रयोजनकाण्डः द्वितीयः समाप्तः समाप्तश्च प्रबन्धः. श्रीः.
उपसंहारः 62 तत्सौशील्येनैव शुद्धं तेनैव प्रचयं गतम् । किंकुर्वज्जगतामेतत् जीयात्सफलतां गतम् ॥ आकाशस्य स्थितिर्यावद्यावदप्यवनेः स्थितिः । तावदस्य स्थितिः भूयात्तमो लोकस्य निघ्नतः ॥ यस्सर्वज्ञः सर्वशक्तः तथा कारुणिकः परः । अन्तरात्मा महोदारः वासुदेवस्स तुष्यति ॥ यत्करोमि यदश्नामि यज्जुहोमि ददामि यत् । यत्तपस्यामि हे कृष्ण तत्करोमि त्वदर्पणम् ॥ इत्थं लक्ष्मीपुरंश्रीनिवासविद्वन्मणिर्मुदा । प्रयोजनपरिच्छेदं समग्रहीत् चान्तिमम् ॥ प्रीयतां भगवान् वासुदेवः. इति श्रीवत्सकुलकलशजलनिधिकौस्तुभायमानश्रीवेङ्कटार्यतनू- भवस्य ताताम्बागर्भशुक्तिमुक्ताफलायमानस्य श्रीमत्कस्तूरीरङ्ग- नाथविद्वन्मणिकरुणाकटाक्षसमासादितसारस्वतसर्वस्वस्य श्री- मद्विरक्तराघवार्यचरणानुगृहीतसकलसम्प्रदायरहस्यस्य श्रीम- द्राजाधिराजमहीशूरमहीधुर्यतुर्यश्रीकृष्णराजसार्वभौमपरिपोषि- तस्य महामहोपाध्यायपण्डितरत्नाद्यनेकबिरुदालङ्कृतस्य संस्कृत- महापाठशालानिगमान्तप्रधानोपाध्यायस्य श्रीमतो लक्ष्मीपुराभिजनस्य श्रीनिवासाचार्यस्य कृतिषु मानमेयरहस्यश्लोकवार्तिके प्रयोजनकाण्डः द्वितीयः समाप्तः समाप्तश्च प्रबन्धः. श्रीः.