भारतकोश
संग्रह पर लौटें

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

६० : मीमांसादर्शनम् [ सू० साधनं सङ्गतम् । पुरुषार्थापयिकत्वेन चात्मस्वरूपप्रतिपादने असंसार्यात्मज्ञाननैरा- काङ्क्ष्यसम्भवात् पदकवाक्यत्वाभावेनार्थवादवैलक्षण्यमिति सर्वमनवद्यम् । मन्त्रनाम्नोः केन द्वारेण नैराकाङ्क्ष्यमत आह—मन्त्रेति । योज्यते सम्बध्यते भाव- नया सहानेनेति व्युत्पत्त्या योजनाशब्देन द्वारमुक्तम् । ननु साध्यसाधनेतिकर्त्तव्यतानभि- धायित्वेनाक्रियार्थत्वान्मन्त्रादीनामानर्थक्यमाशङ्कितम्, तत्कथं क्रियार्थत्वमव्युत्पाद्यैवार्थवत्त्वं व्युत्पाद्यते, तत्राह—तेनेति । येन भावनासम्बन्ध्यर्थप्रतिपादनेनैवार्थवत्त्वं वक्ष्यते, तेन भावनान्तर्गतिः सिद्धैवेत्यर्थः । अर्थवादोपयोगद्वारानभिधाने ऽप्यध्ययनविधिवलेन सामान्यतः सर्वोपयोगस्य साधितत्वात्सर्वेषामित्युक्तम् । एतच्च सामान्यतः सर्वोपयोगस्यप्रतिपादनम्, [सूत्रेष्वेव हि तत्सर्वं यद्वृत्तौ यच्च वार्त्तिके इति] न्यायाद्विधिना त्वेकवाक्त्वादिति सूत्रावयवारूढं¹ द्रष्टव्यम्, तत्र तुशब्देनानर्थक्यनिराकरणार्थेनार्थवत्त्वं सामान्यतः सर्वेषां प्रतिज्ञातम् । श्रुतिवृत्त्या क्रियार्थत्वानवगमे ऽपि क्रियाविध्येकवाक्यत्ववशेन लक्षणया तदपेक्षि- तार्थप्रतिपादनाक्रियार्थत्वमुपपादयितुं विधिनैकवाक्यत्वादित्युक्तमिति योज्यम् । भाष्यमपि यद्यपीत्यादिप्रमाणमित्यन्तमेतत्सूत्रावयवव्याख्यानपरमेव योज्यम् । यद्यप्यर्थवादादिभ्यः श्रुत्या क्रिया, तत्सम्बद्धं वा नावगम्यते; तथापि तत्रैव प्रमाणं विध्युद्देशैकवाक्यत्ववशेन लक्षणया वृत्त्या तत्परत्वसम्भवादिति । एवं सामान्यतः सर्वेषां क्रियार्थत्वमुपपाद्येदानीमर्थवादानां क्रियार्थत्वनिर्वाहाय द्वार- विशेषं प्रतिपादयितुं यो ऽपि चेत्यादिनोक्तं पूर्वपक्षन्तावदनुभाषते—यत्त्विति । क्रियाप्रति- पादकत्वं हि क्रियार्थत्वम्, न चार्थवादैराख्यातवत्स्वरूपेणासौ प्रतिपाद्यते, नापि फलादिपद- वक्तृदंशः कश्चित्साध्यादिः तस्मात्तदर्थस्य भावनांशत्रयानन्तःपातान्न तत्प्रतिपादकत्वं विनार्थवादानां भावनया ग्रहणमित्यर्थः । एवमनुभाष्य निराकर्तुमाह—तत्रेति । यद्यप्यर्थ- वादानां विधिवदनुष्ठापकत्वेन न क्रियार्थत्वम्, क्रियाभिधायकत्वं वा, तथापि प्राशस्त्यज्ञा- पनेनैवानुष्ठापकत्वात्स्वरसतश्च प्राशस्त्याज्ञानादध्ययनविधिवलाल्लक्षणया तादर्थ्यमङ्गी- कार्यम् । न च प्राशस्त्यज्ञानस्य कर्त्तव्यत्वासिद्धावध्ययनफलत्वं युक्तं रागत्तो विधितो वा कर्त्तव्यत्वेनानवगतस्य कस्यचित्फलत्वायोगात् । कर्त्तव्यत्वं च भावनान्तर्गत्या विना न सिध्यतीत्यर्थवादाध्ययनफलत्वोपपत्तये प्राशस्त्यज्ञानस्य कर्तव्यत्वसिद्धयर्थं भावनान्तर्गति- व्युत्पादयितुमारभते—सत्यमिति । ननु न तावदर्थभावनान्तर्गतिः शाब्दभावनाया पूर्वपक्षः प्रागस्त्यज्ञानस्य कैश्चिदिष्यते । न च ततोऽन्या शब्दभावना नाम काचिदुपपत्तिं सहते, शब्दश्रवणानन्तरभाविन्यां हि प्रवृत्तौ हेतुः प्रवृत्त्युत्पादकत्वात् शब्दभावना शब्देनाभिप्रेतः । न चासौ कश्चित्सम्भवति । तथा हि— प्रवर्त्तको लिङादिर्वा तत्क्रिया वा विलक्षणा । अभिधा वाऽथवा ज्ञादिः कार्यं वाऽऽयेष्ठहेतुता ।। १ ।। १. सूत्रेति तत्तच्छावृत्त्या सामान्यविशेषसमाधानपरतया सूत्रं योजनीयमिति ।

७ ] • प्रथमाध्याये द्वितीयपादः ६१ तत्र शब्दः स्वरूपेण वायुवच्चेत्प्रवर्त्तकः । प्रमाणत्वं विहन्येत नियमाच्च प्रवर्त्तयेत् ॥ २ ॥ न च स्वरूपसम्बन्धज्ञानापेक्षो भवेन्न च । प्रकृत्यान्वयमाकाङ्क्षेन्न च स्यात्फलकल्पकः ॥ ३ ॥ अथ प्रवृत्ति हेत्वर्थस्वव्यापाराभिधानतः । प्रवर्त्तकत्वाच्छब्दस्य सर्वदोषनिवारणम् ॥ ४ ॥ तन्न प्रवृत्तिसामर्थ्यात्पादनात्माऽस्य या क्रिया । कार्यार्थ्यादिषु दृष्टासावनुक्तैव प्रवर्त्तिका ॥ ५ ॥ तेनाभिधानवैयर्थ्यात्पूर्वदोषनिवारणम् । अलौकिकी प्रेरणा तु सम्बन्धानुमवाहते ॥ ६ ॥ अभिधातुमशक्यत्वान्न प्रवर्त्तयितुं क्षमा । राजादिवच्च शब्दस्य फलादातृत्वतः स्वतः ॥ ७ ॥ तद्व्यापाराभिधानेऽपि न प्रवर्त्तेत कश्चन । पुरुषार्थोपयोगित्वं न लिङादेश्च गम्यते ॥ ८ ॥ येनास्यानुविधेयत्वात्फलकल्पकता भवेत् । तस्याप्यानुविधेयत्वे शब्दस्य न तदीयताम् ॥ ९ ॥ अज्ञात्वा व्याप्तेः कश्चित्प्रवर्त्तेताभिधावपि । न च शब्दमनुक्त्वैतद्व्यापारत्वं निरूप्यते ॥ १० ॥ स्वरूपवाचितातोऽस्मिन्पक्षेऽनिष्टा लिङां भवेत् । अस्तु तर्ह्यभिधानाख्यो व्यापारोऽस्य प्रवर्त्तकः ॥ ११ ॥ तस्य ह्यर्थप्रतीत्याख्यकार्यकॢप्तस्य केवलम् । कल्प्यं प्रवृत्तिहेतुत्वं लिङ्वाच्यस्येति लाघवम् ॥ १२ ॥ शब्दान्तरगतार्थेऽस्मिन्नभिधा स्यात्प्रवर्त्तिका । पक्षेऽर्थतो विशेषश्चेत्स एव स्यात्प्रवर्त्तकः ॥ १३ ॥ न चास्या अभिधेयत्वाद्विशेषः कार्यतो गते । न युक्तं ह्यभिधेयत्वं सर्वासां हि प्रसज्यते ॥ १४ ॥ अथ प्रवर्त्तनात्वेन कार्यादनवबोधतः । तद्रूपेणाभिधेयत्वं तच्चान्यासु न विद्यते ॥ १५ ॥ तन्नास्या ह्यभिधानात्प्राक् चेत्प्रवर्त्तकरूपता । स्याद्व्यर्थमभिधेयत्वं नास्ति चेत्स्यादसत्यता ॥ १६ ॥ आज्ञादिस्तु न वेदार्थः पुंधर्म्मत्वेन युज्यते । अथ मानान्तरागम्यनियोगापरनामकम् ॥ १७ ॥

६२ मीमांसादर्शनम् [ सू० कार्यं लिङादिवाच्यं सत्स्वतन्त्रं स्यात्प्रवर्त्तकम् । तदप्ययुक्तमज्ञातसम्बन्धत्वालिङर्थता ॥ १८ ॥ मानान्तराप्रमेयत्वे कार्यस्य हि कथं भवेत् । अथ स्वस्यस्वतन्त्रस्य पुंसो लिङश्रवणे सति ॥ १९ ॥ प्रवृत्तेरात्मदृष्टान्तात्कार्यधीहेतुतां शिशुः । अनुमाय लिङस्तत्र वाचकत्वं प्रकल्पयेत् ॥ २० ॥ प्राभाकरसम्मतविध्यर्थनिरूपणम् कार्यं च वेदे षष्ठाद्यसिद्धान्तात्कामिनाऽन्वितम् । नियोज्येनात्मनः कार्यं तया ज्ञातमिति स्थितम् ॥ २१ ॥ नियोज्यश्च स्वसम्बन्धिकार्यंबोद्धाऽभिधीयते । काम्यमानाम्युपायं च बुध्यते कार्यमात्मनः ॥ २२ ॥ कामी न च क्रिया तत्र क्षणिकोपायतां व्रजेत् । क्रियातोऽन्यदतः कार्यं वेदे वाच्यमलौकिकम् ॥ २३ ॥ तत्रापूर्वस्य कार्यत्वं कृत्युद्देश्यत्वलक्षणम् । अयुक्तम्पुमर्थत्वादव्यापारतया न च ॥ २४ ॥ अनुष्ठेयत्वरूपं न व्यापारत्वे स्वतन्त्रता । अव्यापारतया चास्मिन्नियोगो नावकल्पते ॥ २५ ॥ तेनात्मनि नियोक्तृत्वान्नियोग इति वाङ् मृषा । किं च नित्यनिषेधाधिकारेषु फलवर्जनात् ॥ २६ ॥ क्रियातिरिक्तकार्यस्य कथं सिद्धिर्भवेत्तव । कृत्युद्देश्यत्वरूपं च कार्यत्वं चेत्प्रवर्त्तकम् ॥ २७ ॥ तद्रूपत्वात्फलस्यैव प्रसज्येत प्रयोक्तृता । तच्च कामपदोक्तत्वान्न लिङादिभिरुच्यते ॥ २८ ॥ लिङर्थस्य प्रयोक्तृत्वं ततश्चेष्टं न सिध्यति । फलस्य प्रवर्त्तकत्वतिरासः नन्विच्छाजननेनान्यत्सन्वैरिष्टं प्रवर्त्तकम् ॥ २९ ॥ साक्षात्प्रवृत्तिहेतुत्वादतः सैव लिङोच्यते । तद्द्वारेण लिङर्थत्वात्फलं तेन प्रवर्त्तकम् ॥ ३० ॥ नैतद्युक्तं फलेच्छायाः पुंव्यापारतया पुमान् । अस्मिन्पक्षे प्रयोक्ता स्यात् प्रवर्त्त्यंत्वात्स नेष्यते ॥ ३१ ॥ फलस्य प्रीतिरूपत्वं लिङुक्तं चेत्प्रवर्त्तना । फल एव प्रवर्त्तेत नान्यत्रातिप्रसङ्गतः ॥ ३२ ॥

७ ] प्रथमाध्याये द्वितीयपादः ६३ अथाव्यापाररूपत्वात्प्रवृत्त्यविषयत्वतः । फलस्य साधनेऽङ्गावातारन्यायात्प्रवर्त्तते ॥ ३३ ॥ ततः साधनबोधात्प्रागप्रवृत्तेः प्रवर्त्तना । वरं साधनतैवास्तु न क्लेशात्प्राप्तिरूपता ॥ ३४ ॥ तस्याश्च कर्म्मधर्मत्वात्कर्म्मैव स्यात्प्रवर्त्तकम् । प्रवृत्तिविषयत्वाच्च न तद्युक्तं प्रवर्त्तकम् ॥ ३५ ॥ साध्यता फलधर्मोऽथ लिङुक्तः सन्प्रवर्त्तना । नासौ पूर्वमसिद्धत्वात्प्रवर्त्तयितुमर्हति ॥ ३६ ॥ अथानुष्ठेयरूपं कार्य्यत्वं स्यात्प्रवर्त्तकम् । ततोऽर्थभावनैव स्यात्तद्रूपत्वात्प्रवर्त्तिका । सा चाख्यातान्तरे भावात्प्रवृत्तिव्यभिचारिणी ॥ ३७ ॥ कालसंबन्धतोऽर्थानुष्ठेयत्वप्रतिबन्धनात् । तत्राप्रवृत्तिरित्येतत्किं स्यादिति निरूप्यताम् ॥ ३८ ॥ कृत्यात्मभावना या हि न कृतिव्याप्यतां विना । जन्यत्वं प्रागसिद्धत्वात्फलस्येवाप्रवर्त्तकम् ॥ ३९ ॥ अथानिष्पन्नरूपत्वं तदभावेऽपि विद्यते । तस्मात्क्रियात्मकं कार्य्यमथ वा तत्फलात्मकम् ॥ ४० ॥ न ताभ्यामतिरिक्तं वा पूर्वमस्ति प्रवर्त्तकम् । अत एवेष्टहेतुत्वं न तदेकार्थसङ्गतम् ॥ ४१ ॥ प्रवर्त्तकं नापि शुद्धं चन्द्रादौ व्यभिचारतः । शुद्धस्य च लिङर्थत्वे कर्त्तव्यत्वात् प्रतीतितः ॥ ४२ ॥ भवेन्नाकरणे दोषो निष्कामेष्वपि कर्म्मसु । न च द्रव्यगुणादीनां क्वचित्स्यादिष्टहेतुता ॥ ४३ ॥ प्रत्ययेन प्रकृत्यर्थान्वयिस्वार्थाभिधानतः । कर्त्तव्यत्वविशिष्टस्य वाच्यत्वं तु न युज्यते ॥ ४४ ॥ कर्त्तव्यत्वाविनाभावात्तत्प्रतीत्युपपत्तितः । नन्विष्टहेतुतामात्रं लिङा तावन्निरूप्यते ॥ ४५ ॥ कस्येष्टमित्यपेक्षायामेकप्रत्ययवाच्यया । कर्त्तृ भावनयाक्षिप्तस्येत्येवं गमयिष्यते ॥ ४६ ॥ क्रियायां चाप्रवृत्तस्य कर्त्तृ त्वानुपपत्तितः । प्रवृत्तिविषयत्वाख्यं कर्त्तव्यत्वं प्रतीयते ॥ ४७ ॥ एवं तु वर्त्तमानापदेशोऽप्येतत्प्रतीतितः । कर्त्तिष्टसाधनत्वस्य तद्बलेनैव कल्पनात् ॥ ४८ ॥

६४ मीमांसादर्शनम् [ सू० लिङाद्यवाच्यतापत्तेरप्रामाण्यं विधेर्भवेत् । प्रवृत्तिविषयत्वं च नेच्छा विषयतां विना ॥ ४९ ॥ युक्तमिच्छाप्रवृत्त्योर्हि परशुच्छिदयोरिव । भिन्नगोचरता न्याय्या न हेतुफलभावतः ॥ ५० ॥ अत एवेष्टहेतूनां स्वबुद्ध्या यो ऽयमिच्छति । प्रवर्त्तते स तत्रैव नानिष्टेऽपीष्टसाधने ॥ ५१ ॥ तेनेष्टसाधनत्वस्य सद्भावे ऽप्यप्रवृत्तिता । प्रवृत्तिव्यभिचारित्वान्न प्रवर्त्तकतोचिता ॥ ५२ ॥ इच्छात्वव्यभिचारित्वाद्भवोत्पुंसां प्रवर्त्तिका । स्वरूपसत्तामात्रेण न तु ज्ञानमपेक्षते ॥ ५३ ॥ अथापि ज्ञायमानाऽसौ कारणं स्यात्तथापि तु । स्वप्रत्यक्षैकगम्यत्वान्नाभिधानमपेक्षते ॥ ५४ ॥ एतत्सर्वं पूर्वपक्षी मनस्याधाय पृच्छति ॥ ५५ ॥ स्वमतेन विध्यर्थनिरूपणम् कथमिति । उत्तरमाह—इह हीति । अयमाशयः स्वतन्त्रपुरुषप्रवृत्तिर्द्विधा लोके दृश्यते । क्वचित्स्वेच्छयार्थेषु स्वार्थः प्रवर्त्तते, क्वचिदन्यप्रेरितः । आचार्यप्रेरितोऽहं गामानयामि न स्वेच्छयेत्यादिव्यवहारदर्शनात् । यद्यप्याचार्यादिरप्यनिच्छन्तं न शक्नोति प्रवर्त्तयितुम्, तथापि स्वारसिकेच्छाविरहितमपि शिष्यादिकं स्वप्रवर्त्तनाबलेनेच्छामुत्पाद्य प्रवर्त्तयतीति सर्वसाक्षिकम् । तस्माच्छब्दश्रवणानन्तरभाविन्यां प्रवृत्तावाचार्यदेः प्रवर्त्तना- ज्ञापनेन¹ प्रवर्त्तकत्वमवसोयते । का पुनः प्रवर्त्तना ? प्रवृत्तिहेतुभूतः प्रवर्त्तयितुर्धर्मः ²कश्चिदिति ब्रूमः । स्वातन्त्र्ये देवदत्त एव मां प्रवर्त्तयति न यज्ञदत्त इति व्यवस्थानुपपत्तेः प्रवर्त्तनाज्ञापनमात्रेण प्रवर्त्त- कत्वे देवदत्तस्त्वां प्रवर्त्तयतीति प्रवर्त्तनाद्यज्ञदत्तस्यापि प्रवर्त्तकत्वप्रसङ्गः । सर्वत्र लोके पुरुषस्याचार्यदेः प्रवर्त्तयितुर्द्धर्मोऽहमेनं प्रवर्त्तयामीति प्रवर्त्तयितुर्मानसप्रत्यक्षवेद्यः प्रैषादिरूपो नापह्नोतुं शक्यते । वेदे तु पुरुषाभावेन लिङादेरेव प्रवर्त्तकत्वात्तद्धर्मो भवि- ष्याति । कथमज्ञातपूर्वेण प्रवर्त्तयितुर्द्धर्मेणाव्युत्पन्नो बालः प्रथमं लिङादेः संबन्धं गृह्णा- तोति चेत् ? अलौकिकप्रवर्त्तनायां शक्तिग्रहोपायवर्णनां पश्य यदा बुभुक्षितस्य बालस्य रोदनेन स्तन्यदानप्रवर्त्तनां ज्ञात्वा स्तन्यदाने माता प्रवर्त्तते, तदासौ तस्या मातुः प्रवृत्तेः कारणं जिज्ञासमानः कारणान्तरानुपलब्ध्या स्वप्रवर्त्तनायां कारणत्वं प्रकल्प्य गामानये- त्यादिवाक्यश्रवणानन्तरं प्रयोज्यवृद्धप्रवृत्तिं दृष्ट्वा मातृप्रवृत्तिदृष्टान्तेन तस्यामपि प्रवर्त्तना- १. स्वप्रवर्त्तनाज्ञापनेनेत्यर्थः । २. प्रवर्त्तयितुर्धर्मं इति २ पु० पा० ।

७ ] प्रथमाध्याये द्वितीयपादः ६५ ज्ञानकारणत्वमनुमाय तत्कारणजिज्ञासायां लिङादिशब्दश्रवणानन्तर्यात्तस्यैवान्वयव्यति- रेकाभ्यां प्रवर्त्तनाभिधानशक्तिं कल्पयद् केन वार्यते । तत्र च प्रैषादीनां विशेषाणां व्यभिचारित्वेनावाच्यत्वात्सर्वानुयायिनः प्रवर्त्तनासामा- न्यस्य वाच्यत्वेऽवगते, तद्विशेषाकाङ्क्षायां प्रैषादीनां पुरुषधर्म्माणां वेदेऽनुपपत्तेस्तद्वि- लक्षणं विशेषान्तरमभिधेयेन सामान्येन विधिप्रेरणानियोगाख्यं लक्ष्यते । अतो गृहीत- संबन्धतया लिङादिवाच्येन प्रवर्त्तनासामान्ये तद्विशेषस्य प्रेरणाख्यस्य लक्षणयाऽवगति- सम्भवात् संबन्धाग्रहणमदोषः । तस्य च प्रवर्त्तनासामान्यविशेषत्वेन हेतुना प्रैषादिदृष्टान्तेन प्रवर्त्तयितृधर्म्मत्वानुमानाद्वेदे च पुरुषाभावात् भावनादेश्च प्रवृत्तिविषयत्वेन तदानीम- सत्त्वात् प्रवर्त्तकत्वानुपपत्तेः । पारिशेष्याल्लिङादेरेव प्रवर्त्तकत्वावधारणात् दीयत्वसिद्धेनं लिङादिशब्दस्वरूपाभिधानापत्तिः । प्रवृत्तिविषयत्वस्य च श्रेयःसाधनत्वाक्षेपकत्वेन लिङादेः पुरुषार्थोपयिकत्वेनानुविधेयत्वात्प्रवर्त्तकत्वाव्याहतिः । तस्य श्रेयस्साधनत्वाक्षेपः कथं श्रेयःसाधनत्वाक्षेपकत्वमिति चेत् ? पश्य, प्रवर्त्तना तावत् प्रयत्नरूपभावना- विषया सर्वत्रावधार्यते । गामानयेत्युक्ते गवानयने प्रयतमानस्य कुतश्चित्कारणाद् गवानयना- सिद्धावपि मदाज्ञामयं कृतवानित्याज्ञप्तुर्व्यवहारदर्शनात् इतो ऽपसरेत्योक्ते स्वयमप्रयत- मानस्य बलात्केनचिदपसारितस्य जातेऽप्यपसरणे, नायं मदीयामाज्ञां कृतवानित्याज्ञप्तु- र्व्यवहारदर्शनात् । चेतनप्रवर्त्तकत्वाच्च प्रवर्त्तनायास्तस्य च प्रयत्नमन्तरेणान्यत्राप्रवृत्तेः प्रयत्नविषयत्वसिद्धिः प्रयत्नश्चेच्छाकारणकत्वात् तां विना नोपपद्यते । सा च स्वरसतः पुरुषार्थ एव स्वर्गपुत्रपश्वादौ भवन्ती साधनमन्तरेण तदसिद्धेस्तत्सिद्धयर्थं तत्साधने २ संक्रा- मेत् । तेन स्वयमपुरुषार्थस्य यागादेः पुरुषार्थसाधनत्वं विनेच्छाविषयत्वानुपपत्तेः प्रवृत्ति- विषयत्वासम्भवेन तत्र लिङादेः प्रवर्त्तकत्वायोगात्तन्निर्वाहार्थं पुरुषार्थसाधनत्वाक्षेप- कत्वसिद्धिः । न चैवं ३ पुरुषार्थसाधनत्वावगताविच्छात् एव प्रवृत्तिसिद्धेः कारणकारणत्वेनान्वय- व्यतिरेकयोरन्यथासिद्धत्वाल्रिङादीनामप्रवर्त्तकत्वं प्रसज्येतेति शङ्कनीयम् । न हि यत्सि- द्ध्यर्थं यत्कल्प्यते, तेनैव तद्बाधोचिता, कल्पकाभावेनात्मोपमर्द्दप्रसङ्गात् । यथैव च श्रेयःसाधनत्वाकल्पने प्रवर्त्तकत्वानिर्वाहात् तन्निर्वाहाय श्रेयःसाधनत्वं कल्प्यते, तथैव ४ १. वृत्तेरप्यौपाधिकवृत्तिविषयत्वस्वीकारादित्यर्थः । २. तदिति २ पु० ना० । ३. इष्टसाधनताज्ञानस्येच्छाजनकत्वात् तद्द्वाराैव वृत्तिरित्यर्थः । ४. यथा श्रेयःसाधनव्यतिरेकेण विधिना पुरुषो यागे प्रवर्त्तयितुं न शक्यत इति प्रवर्त- कतानिर्वाहाय तत्कल्प्यते तथा प्रवर्तकत्वनिर्वाहाय विहितरूपेण श्रेयःसाधनत्वं कल्पयिष्यते अन्यथास्वरूपे सति श्रेयःसाधने इच्छयैव प्रवृत्तेः प्रवर्त्यस्य फलामावात् विधेः प्रवर्तकत्वं न स्यादित्यर्थः । ५

६६ मीमांसादर्शनम् [ सू० स्वरूपेण यागादेः श्रेयःसाधनत्वे सति इच्छयैव प्रवृत्तिसिद्धेर्लिङादीनां प्रवर्त्तकत्वानिर्वाहा- द्विहितस्वरूपेण श्रेयःसाधनत्वं कल्पयिष्यते । तथा च लोकेऽपि स्वाम्याज्ञामन्तरेण स्वे- च्छया गवानयनादौ कृतेऽपि न तत्फलं वेतनं लभ्यते । तस्मात्प्रवर्त्तकान्तरासम्भवेऽपि प्रेरणाज्ञापनेन लिङादेर्वेदे प्रवर्त्तकत्वं सिद्धम् । सा च प्रेरणा प्रवृत्त्युत्पादकव्यापारत्वाद्भाव- नाशब्देन गीयते, भाव्योत्पादानुकूलस्य व्यापारस्य भावनात्वप्रसिद्धेः । व्यापारत्वं च तस्याः सिद्धरूपत्वे निर्व्यापारायाः प्रवृत्त्युत्पादकत्वासम्भवेन ज्ञानस्य च ज्ञेयव्यापारत्वा- योगाद्व्यापारान्तरकल्पनापत्तेर्गौरवपरिहारार्थं कल्प्यते । प्रेषणाध्येष्णादीनामपि पुरुषा- शयविशेषाणामनेनैव न्यायेन व्यापारत्वाध्यवसानं द्रष्टव्यम् । व्यापारस्य च व्यापारवतो- ऽत्यन्तभेदाभावाच्छब्दात्मिकेत्युक्तम् । एतामेव शब्दात्मिकां शब्दस्यात्मनो व्यापारं भावार्थाधिकरणे तत्रार्थात्मिकायां लिङादिशब्दानां यः पुरुषं प्रति प्रयोजकव्यापारः, सा द्वितीया । शब्दधर्मोऽभिधात्मिका भावना विधिरित्युच्यते (भा० पृ० ३४४) इत्यनेन स्वयमेव विवरिष्यति । लौकिकानां प्रवर्त्तनाविशेषाणां पुरुषधर्मत्वेन शब्दात्मकत्वायोगात् वेदविषयत्वं शब्दभावनाया दर्शयितुमिहेत्युक्तम् । प्रवर्त्तनाविशेषशब्दभावनाविषयभूतायाः प्रयत्नरूपभावनायास्तत्फलप्रवृत्तिविषयत्वसिद्धयर्थं श्रेयोहेतुत्वाक्षेपकत्वायाऽर्थशब्दाभिधेया- र्थयितृचेतनधर्मार्थनापरम् पर्य्ययेच्छाद्योनित्वसूचनार्थमर्थात्मकत्वाभिधानमिति सर्वं मनोहरम् । ननु सत्यपि भावनाद्वये कयाऽर्थवादानां ग्रहणम् अत आह—तत्रेति । अनेन च ग्रन्थेनार्थवादानामर्थभावनांशाप्रतिपादकत्वेऽपि तदनुष्ठापकशब्दभावनाङ्गत्वेनार्थभावना- ख्यक्रियार्थत्वं दर्शितम् । कथं तया ग्रहणमत आह—सा हीति । सा शब्दभावना यस्मादेवं वक्ष्यमाणेन प्रकारेण प्रवर्त्तते अध्ययनविधिवशात्कार्य्यत्वेन प्रतीयते, तस्मात्तदङ्गभूतस्य प्राशस्त्यज्ञानस्य तद्द्वारेण कार्य्यत्वावगमात् साधनापेक्षायामर्थवादानां तत्साधनतयाऽध्ययन- विधिर्नैव विनियोगाद्दर्शपूर्णमासभावनयैव प्रयाजाद्यङ्गभूतद्रव्यदेवतादेः शब्दभावनया ग्रहणं युक्तमित्यर्थः । शब्दभावनायास्तु कार्य्यत्वाप्रतीतौ तद्द्वारेण प्राशस्त्यज्ञानस्य कार्य्य- त्वानवगमात्साधनानपेक्षत्वेन स्वरसतोऽसमर्थानामर्थवादानां लाक्षणिकप्राशस्त्यज्ञानार्थ- त्वायोगात् तादर्थ्येन तया सहग्रहणं न स्यादिति, तमेव प्रकारं दर्शयति—स्वाध्याया- ध्ययनविधिनेति । अध्ययनविधिना हि अधीतैरक्षरैर्यथाशक्ति पुरुषस्योपकर्त्तव्यमिति शक्त्यनुसारेणाक्षराणि विनियुञ्जानेन लिङादीनि सामर्थ्यात्प्रवर्त्तने विनियुज्यन्ते । तत्र चैषां प्रवर्त्तयितृपुरुषाभावेन स्वातन्त्र्यात्कर्तृत्वमवसीयते । स्वतन्त्रकर्तृश्चानियुक्तस्य वैध- विनियोगान्नियोज्यत्वं लिङादीनां कल्प्यते । नन्वस्तु नाम विधायकान्तराणामध्ययनविधिनियोज्यत्वम्, तस्य चात्मनि नियोगा- योगेनात्मना नियोज्यत्वासम्भवात् तद्विषयविधायकान्तराभावाच्च तद्व्यापाररूपायाः शब्दभावनायाः कार्य्यत्वाभावात्प्रेरणाज्ञानजननमात्रेण कृतार्थतया प्रवृत्त्या ग्राहकत्वाभावे

७ ] प्रथमाध्याये द्वितीयपादः ६७ सति; तद्विषयभूतस्य वेदाध्ययनस्य पुरुषार्थानुबन्धित्वाक्षेपप्रमाणाभावाद्देवस्यानर्थक्यं स्यादित्याशङ्कामपाकर्त्तुम्—स्वाध्यायपदोपात्तश्चात्मेत्युक्तम् । अयमभिप्रायः—न तावद- चेतनानां लिङादीनां स्वसम्बन्धिप्रेरणाबोद्धृत्वलक्षणं नियोज्यत्वं मुख्यं युज्यते, प्रवृत्त्या ग्राहकत्वं तु तेषां पुरुषार्थानुबन्धित्वाद्याध्ययनविधिना शक्त्यालोचनेन पुरुषो ज्ञाप्यते स्वारसिकेच्छारहितस्य चादरापरपर्यायग्रहकारित्वं नियोज्यस्यैव दृष्टमित्यौपचारिकमिह नियोज्यत्वम् । अर्थवादान्वयाय शब्दभावनाया विधेयत्वसिद्धयर्थं विवक्षितं तच्चाध्ययन- विधावपि समानम् । तस्य च स्वरूपेण नियोक्तृत्वं स्वाध्यायपदोपात्तत्वरूपेण विधाय- कान्तरसाधारण्येन नियोज्यत्वमित्यौपचारिकभेदाश्रयणात् न विरुद्धमिति । भावयेदिति च विधिः प्रेर्यान्वयात् प्राग्विषयान्वयपक्षे लिङादिप्रेर्यान्वयवशेन व्यापारविशेषानवगमा- त्सामान्यविवक्षयोक्तम् । अत्र भाव्याकाङ्क्षायां यच्छक्यते तदित्यवधारणात् शक्तिप्रदर्शन- पूर्वकं पुरुषप्रवृत्तेर्भाव्यत्वं दर्शयति—तत्रेति । येन लिङादोनां प्रवर्त्तकत्वे शक्तिः, पुरुषस्य च प्रवर्त्यत्वे, तेन कारणेन भावनाया भाव्याकाङ्क्षायां पुरुषप्रवर्त्तनं भाव्यत्वेन संबन्ध्यत इत्यर्थः । प्रवृत्तेः प्रयोज्यव्यापाररूपत्वात्प्रयोज्यान्वयं विना भाव्यत्वासम्भवाच्चेतनं प्रवर्त्तकत्वेन श्रेयस्साधनत्वाक्षेपपर्यन्तत्वसूचनार्थं पुरुषविशेषणम् । प्रेर्यान्वयपूर्वकविषया- न्वयपक्षे तु प्रवर्त्तनाख्ये व्यापारविशेषे एव लिङादेः शक्त्यवधारणात्तत्रैव नियोगकल्प- नायां किंशापेक्षां पुरुष एव पूरयिष्यतीत्याह—अथ त्विति । लिङादिविषया क्रिया प्रवर्त्त- येदित्येवं विशेषरूपेणोच्यते—विधेयतया प्रतिपाद्यत इत्येव योज्यम् । नन्वचेतनत्वाल्लिङादीनां नियोज्यावगमपूर्वकप्रयोजककर्तृत्वानुपपत्तेः कथं तद्वशेन पुरुषप्रवर्त्तनस्य भाव्यत्वाभिधानमित्याशङ्कयाह—यद्यपि चेति । अध्ययनविधिना लिङाद्यध्ययने नियुज्यमानस्य पुरुषस्य कतमं ममोपकारं करिष्यन्तीत्यपेक्षायां प्रवर्त्तनाज्ञा- पनद्वारेण पुरुषार्थसाधनबोधरूपमिति सामर्थ्यालोचनेनावगतौ सत्यां प्रवर्त्तनाज्ञापनमात्र- पर्यवसाने पुरुषार्थसाधनत्वाक्षेपायोगादनुपकारकत्वोपपत्तेर्मातापित्रादिवदाग्रहेणेष्टसाधनेषु कर्मसु प्रवर्त्तयिष्यन्तीति प्रवृत्त्या ग्राहकत्वावगतिमर्हति । तेन लिङादिभिरवश्यं प्रवर्त्तनीय इति लिङादिविषयनियोगावगतिर्या पुरुषस्य भवति; तां लिङादिषु उपचर्य प्रयोजकत्व- व्यवहारोऽयमित्यर्थः । न चैतत्स्वोत्प्रेक्षामात्रेणास्माभिर्लिङादीनां प्रयोजकत्वमुच्यते, किं तु कर्तृवाचिण्वुलप्रयोगदान्यैरपि अभियुक्तैरङ्गीकृतमित्यवसीयत इत्याह—यदि चेति । करणाकाङ्क्षां शक्त्यालोचनेन प्रेरणाज्ञानस्यान्वयं दर्शयति—अथेति । विधेरलौकि- कत्वेन लिङादिप्रतिपाद्यत्वासम्भवमाशङ्क्य प्रवर्त्तनासामान्येन पूर्वोक्तरीत्या सम्बन्धग्रहण- सम्भवात् १ लिङाद्यभिहितेन लक्षणया तत्प्रतिपादनसम्भवप्रदर्शनार्थं पूर्वसम्बन्धानुभवा- पेक्षेणेत्युक्तम् । १. विधिज्ञानं सम्बन्धज्ञानं तयोरित्यर्थः।

६८ मीमांसादर्शनम् [ सू० इतिकर्त्तव्यताकाङ्क्षायां प्राशस्त्यज्ञानस्यान्वयं दर्शयति—कथमिति । ननु विधिज्ञान- मात्रेण प्रवृत्तिसिद्धेरन्यानपेक्षत्वात्कथमित्यपेक्षाप्रदर्शनमयुक्तम् । अथापि भावनान्तरदृष्टान्ते- नात्रापि कथम्भावनाकाङ्क्षा स्यात् । तथापि विधिसम्बन्धज्ञानयोरेव कारणेतिकर्त्तव्य- तात्वसम्भवात्प्राशस्त्यज्ञानस्याज्ञातशक्तिकस्येतिकर्त्तव्यतात्वाभिधानमयुक्तमित्यभिप्रायद्वयेन पृच्छति—कुत एतदिति । एतत्कथमित्यपेक्षणं प्राशस्त्यज्ञानस्य चानुग्राहकत्वं कुत इत्यर्थः । उत्तरम्—बुद्धिपूर्वेति । विध्यन्यथानुपपत्त्ये१ष्टसाधनत्वावगमात् प्रवृत्तिहेत्विच्छोत्पत्तावपि द्रव्यव्ययायासदर्शनेनापि अनिष्टसाधनत्वावगमात्प्रवृत्तिप्रतिबन्धकालस्यहेतुद्वेषसम्भवे प्रवृत्त्य- भावप्रसङ्गात्तदपनायकापेक्षायां प्राशस्त्यज्ञानस्य लोके तदपनयशक्तत्वेन दर्शनाद्युज्यते- ऽनुग्राहकत्वमित्यभिप्रायः । उत्तभ्नातीत्यनेन प्रतिबन्धकापनायकत्वं दर्शितम् । ननु प्रवृत्तिकारणेच्छाविरोधिद्वेषनाशाय प्राशस्त्यज्ञानापेक्षणे फलांशेऽपि तदपेक्षोप- पत्तेः स्वर्गस्वरूपप्रतिपादकानामपि वाक्यशेषाणां प्राशस्त्यपरत्वेन स्वरूपपरत्वाभावसङ्गात् न लौकिकसुखातिरिक्तस्वर्गसिद्धिः स्यादित्याशङ्कयाह—तच्चेति । अयमभिप्रायः—अङ्ग- प्रधानयोरेव२ विषयत्वात्प्रेरणाविषय एव प्राशस्त्यज्ञानस्य कार्यत्वावगतेः फलांशे च स्वारसिकेच्छात् एव प्रवृत्तिसिद्धेरानर्थक्यप्रसङ्गात्, प्रेरणानुपपत्तेः प्राशस्त्यज्ञानस्य कार्यत्वाभावात्, साधनानपेक्षत्वेनार्थवादाग्रहणात्स्वर्गसाधनतो विध्यपेक्षितस्वर्गस्वरूप- प्रतिपादनार्थानां वाक्यशेषाणां प्राशस्त्यपरत्वाभावात्स्वरूपे प्रामाण्यं न विरोत्स्यत इति । क्व तर्हि प्राशस्त्यज्ञानस्य साधनापेक्षेत्यत आह—साधनेति । साधनेतिकर्त्तव्यताविषये प्राशस्त्यज्ञानस्य साधनभूतशास्त्राकाङ्क्षायामपि फलपदादिभिरेव३ तत्सिद्धिसम्भवात्कथ- मर्थवादानां तादर्थ्येन शब्दभावनया ग्रहणमित्याशङ्क्य यथासम्भवं साधनान्तराणि निराकर्त्तुमुपन्यस्यति—तत्पुनरिति । तत्प्राशस्त्यप्रतिपादनं केन शास्त्रेण क्रियेतेत्यर्थः । निराकरोति—तत्रेति । दूषणगणोपन्यासार्थस्तत्र शब्दः । ननु यद्यन्यार्थार्थत्वे प्राशस्त्यार्थत्वं न युज्यते, प्राशस्त्यार्थत्वमेव केवलमस्त्वत आह— विध्युत्तरेति । पूर्वपेक्षितार्थत्यागो न युक्त इत्यभिप्रायः४ । कारणान्तरमाह—लक्षणया चेति । फलाभावापत्तेरपि प्राशस्त्यार्थत्वं न युक्तमित्याह—युगपच्चेति । ननूभयपरत्वा- योगात् फलादिषु तात्पर्याभावेऽपि प्रतीयमानत्वात्फलादीनां सिद्धिः स्यादत आह—न हीति । १. इच्छोत्पादनद्वारा प्रवर्त्तकत्वम्; इच्छा चेष्टसाधनत्वज्ञानं विना न संभवतीति अनु- पपत्तिशब्दार्थः । २. अङ्गप्रधानयोरेव विधिविषयत्वान्न फलांशस्य विषयत्वमित्यर्थः । ३. आदिग्रहणाद्देवतापरिग्रहः यस्मादेतत्फलकर्म तद्देवताकं तस्मात्प्रशस्तमित्यर्थः । ४. साध्यसाधनेतिकर्तव्यताविशिष्टायां भावनायां सिद्धायामेवोद्देश्यत्वन्ततश्च पूर्वमेव फलत्वेनान्वय इत्यर्थः ।

७ ] प्रथमाध्याये द्वितीयपादः ६९ वक्ष्यत इत्यपापश्लोकश्रवणादीनां प्रशंसाार्थत्वेनोपात्तानां फलत्वाभावः पर्णमय्यधिकरणे, जर्तिलयवाग्वा वा जुहुयादित्यादौ लिङ्गे विधित्वाभावो जर्तिलयवाग्वादेश्चेतित्कर्त्तव्यत्वा- भावो दशमे वक्ष्यमाणः परामृष्टः । यत एवोक्तप्रकारेण प्राशस्त्यपरत्वे फलाद्यभावः प्रसज्य- ते, अत एवानन्यलभ्यफलादिपरत्वावधारणान्नार्थात्प्रतीयमानेऽपि प्राशस्त्ये फलपदादीनां तात्पर्यमित्याह—अत एवेति । एतदेव दृष्टान्तद्वारेणोपपादयितुमाह—न हीति । धावन- क्रियैवानिष्पन्नरूपत्वात्कार्यशब्देनोक्ता न तेनान्वीयन्त इत्यर्थः । दार्ष्टान्तिके योजयति— तद्वदिति । इच्छाविरोधिद्वेषनाशवाचिना प्ररोचनाशब्देन तद्धेतुभूतगुणातिशयवत्त्वलक्षणं प्राशस्त्यं लक्षणया व्युत्पत्त्या वोक्तम् । ननु यथा प्रतितिष्ठन्ति ह वा य एता रात्रीरुपयन्तीत्यादीनां प्राशस्त्यपराणामप्या- काङ्क्षितफलसमर्थकत्वमङ्गीकृतम्, तथा भूतिकामादिशब्दानां फलादिपराणामप्याकाङ्क्षित- प्राशस्त्यसमर्थकत्वमपि कस्मान्न स्यादित्याशङ्कयाह—अन्यथानुपपत्त्या चेति । प्रकारान्त- रेण फलप्रतीत्ययोगाद्गत्या तत्र तथाङ्गीकृतम्, न चेहागतिरस्तीत्यभिप्रायः । नन्वर्थ- वादानां स्वरसतः प्राशस्त्यप्रतिपादनशक्त्यभावात् इहापि सर्वप्रमाणप्रत्यस्तमयाद्गतिः समनेत्याशङ्कयाह—प्रमाणाभावश्चेति । स्वरसतोऽशक्तावपि लक्षणया तत्प्रतिपादनशक्ति- सम्भवान्न प्रमाणाभावनिश्चय इति भावः । नन्वेवं तर्हि ‘वसन्ताय कपिञ्जलानालभते' इत्यादावपि अर्थवादाकाङ्क्षा प्रसज्ये- तेत्याशङ्कयाह—तद्यदीति । अतिदेशग्रहणं तस्योक्तो बन्धुस्तस्योक्तं ब्राह्मणमित्यादि- वाचनिकातिदेशविषयं द्रष्टव्यम् । श्रुतविध्यन्यथानुपपत्त्यैव प्राशस्त्यकल्पनोपपत्तावसन्निहि- तार्थवादातिदेशकल्पने प्रमाणाभावात् १ कल्पने वा वसन्तादिवाक्येष्वपि अग्नीषोमीयप्रकृति- त्वेन तदीयार्थवादातिदेशसम्भवाद्विध्युद्देशस्य शक्तिद्वयकल्पनं निरवकाशमेव स्यात्— दर्विहोमन्यायेनेति । यथा दर्विहोमेषु भिन्ने जुहोतीत्यादिजुहोतिचोदनविहितेष्वविहितेति- कर्त्तव्यताकेष्वपि प्रकृतिविशेषा निर्धारणा नियतविध्यन्तातिदेशानुपपत्ते रनियमसर्वातिदेशयो- श्चाष्टमाद्ये निराकृतत्वात् अपूर्वत्वेनाष्टमान्ते वक्ष्यमाणेषु यावच्छ्रुतस्य द्रव्यदेवतादेरिति- कर्तव्यताजातस्य सन्निपत्योपकारित्वेन नियमापूर्वद्वारा करणपूर्वोत्पत्तिमात्रे पर्यवसायितया अन्यत्रावधारितस्याप्यगत्यारादुपकारकाङ्गसाध्यकरणानुग्रहसाधनत्वमपि कल्पितम् । तथा वसन्तादिवाक्येष्वपि विधायकस्यैव करणभूतविधेयज्ञानोत्पत्तिमात्रपर्यवसायितयान्यत्रा- वधारितस्याप्यगत्याऽङ्गभूतप्राशस्त्यज्ञानेऽपि व्यापारः कल्पयिष्यत इत्यर्थः । लक्षणया प्रेरणापरनामधेयस्य विधेः प्रतिपादनात्प्राशस्त्यस्य चान्याथानुपपत्त्याक्षेपाच्छक्तिशब्दो १. ननु कथंचिच्चोदनलिङ्गानुमितवचनादेवार्थवादातिदेशकल्पना भविष्यत्यत आह प्रमाणा- भावादिति । अयं भाव काल्पनिकातिदेशस्यार्थभावनेतिकर्तव्यतानिदेशकल्पकत्वात् अर्थवादानां च प्राशस्त्यप्रतिपादनेन शब्दभावनेतिकर्तव्यताङ्गत्वेन तदंशाप्रतिपादक- त्वादिति प्रत्यक्षवचनस्य निर्विषयत्वं च स्यादित्यपि बोद्धव्यम् ।

७० मीमांसादर्शनम् [ सू० व्यापारामिप्रायो व्याख्येयः । अर्थवादाभावेऽपि विधेरेव स्वानुग्राहकप्राशस्त्याक्षेपकत्वं युक्तं न तु फलेतिकर्त्तव्यतापदानाम्, कथंचिदित्येवकारेण सूचितम् । योजना त्वेवं यस्मात्सर्वंप्रकारं प्रयतमानस्य यः प्रमाणाभावः, स प्रमाणं तस्माद्यदि केनचिदन्येन परोचनां न लप्स्यामह इति । कथंचित्त्वन्यतः प्ररोचनालाभसम्भवेऽन्यत्रोपयुक्तस्य विधायकस्य तदाक्षेपकत्वायोगा- द्धायव्यादिवाक्येषु प्राशस्त्यज्ञानस्य साधनापेक्षा युक्तेत्याह—अथ त्विति । केनचिल्लक्षण- यापि प्रतिपादकेन दूरस्थेनातिदेशिकेनापि यदि प्ररोचना सेत्स्यतीत्यर्थः । नन्वेवं प्राशस्त्यप्रतिपादनस्य साधनभूतप्राशस्त्यशास्त्रापेक्षायामप्यर्थवादानां तत्र शक्त्यनवधारणात्कथं तादर्थ्येन शब्दभावनया ग्रहणमित्याशङ्कयाध्ययनविध्यालोचनेनैवेषां प्राशस्त्यपरत्वं दर्शयितुमाह—तयेति । यथा लभेतेतिविधिः स्वविषयप्राशस्त्यप्रतिपादकं प्रति साकाङ्क्षः, तथा वायुर्वै क्षेपिष्ठा देवतेत्याद्यपि प्रतिपाद्यमर्थं प्रति साकाङ्क्षमेवेति यस्तेन भूतान्वाख्यानरूपेण वाक्यार्थेन१ लक्ष्यमाणः प्राशस्त्यरूपोऽर्थः सोऽर्थवादप्रतिपाद्य- त्वेन स्वाध्यायाध्ययनविधिना परिगृह्यत इत्यन्वयः । प्राशस्त्यार्थवाद प्रयोजनत्वे योग्यतां दर्शयितुमनन्तरप्रवृत्तेत्याद्युक्तम् । विधिसम्बन्धद्वारा चेत्प्राशस्त्यस्य पुरुषार्थानुबन्धित्वं तर्ह्यर्थवादानां विधिनैव साक्षात्प्रतिपादकलक्षणः संबन्धोऽस्तु किमन्तरा प्राशस्त्येनेत्या- शङ्क्य यच्छक्यत इत्याद्युक्तम् । न तावल्लिङादिवत्तस्य विध्यभिधाने शक्तिरस्ति, न च प्राशस्त्यलक्षणा श्रुतिविध्यैक- वाक्यत्वसंभवे वाक्यभेदापादकप्राशस्त्यं विना विध्यनिर्वाहात् प्राशस्त्यलक्षणावश्यकभावेन गौरवापादकमश्रुतविध्यन्तरकल्पनं युक्तमित्याशयः । शक्त्यभावाच्चेन्न साक्षाद्विधिना संबन्धः ततोऽक्षरग्रहण एव साक्षाच्छक्तेः पर्यवसानप्रसङ्गाद्वाक्यार्थपर्यन्तमगमनात् कथं तेन प्राशस्त्यलक्षणा स्यादित्याशङ्क्य अपुरुषार्थत्वेन वेत्याद्युक्तम् । अक्षराणामादिरादानं ग्रहणमक्षरादिशब्देनोक्तम् । तत्रैव तर्हि श्रौततात्पर्यावसानमस्त्वित्याशङ्क्योक्तम्— तत्रापि त्विति । साधनानुरूपेत्यादिना लक्षणाप्रकारो दर्शितः । अयं चोभयाकाङ्क्षा- लक्षणत्वात्प्राशस्त्यार्थवादयोः प्रतिपाद्यप्रतिपादकत्वसंबन्धः समञ्जस एवेत्याह—सोऽय- मिति । एवं चास्मिन्सन्निकृष्टे संवन्धे संभवति विधायकार्थवादयोः प्राशस्त्यविध्या- कांक्षित्वेऽपि प्राशस्त्यविध्योरर्थवादविधायकप्रतिपादितत्वेन प्रतिपादकानाकाङ्क्षत्वादन्य- तराकाङ्क्षालक्षणत्वेन२ च विप्रकृष्टः प्राशस्त्यविधायकयोर्विध्यर्थवादयोर्वा प्रतिपाद्यप्रति- १. ननु केवलार्थवादानां वाक्यत्वाभावाद्वाक्यार्थेनेत्ययुक्तम् । सत्यं वाक्यार्थेनेत्यस्यायमर्थः अर्थवादस्थाने कैः पदार्थैर्लक्ष्यत इति । २. अन्यतरेति विधायकस्य प्राशस्त्याकाङ्क्षायामपि प्राशस्त्यस्य तदनाङ्क्षत्वात्तस्यार्थ- वादैरेव प्रतिपादितत्वात् । एवमर्थवादानां विध्याकाङ्क्षासत्त्वेऽपि न विधेस्तदाकाङ्क्षा- विधायकेनैव विधिप्रतिपादनादित्यर्थः ।

७ ] प्रथमांश्याये द्वितीयपादः ७१ पादकसंबन्धो न युक्त इत्याह—एवं चेति । विधायकोपयोगं प्रसङ्गाद्वक्तुं न चार्थवादै- रित्याद्युक्तम् । दृष्टान्ततया वा । नन्वेवमप्यन्यतरेणोभयकार्यसिद्धेरुभयाम्नानानर्थक्यमत आह—आम्नानेति । उभयो- रिति अर्थवादैरेव प्ररोचितं विधायकैरेव विहितं सदनुष्ठितं फलं साधयतीति अध्ययन- विधिरेव कल्पयिष्यतीत्यभिप्रायः उभयोरिति अर्थवादप्ररोचनयोरित्यर्थः । एतमेव न्यायं निन्दार्थवादेष्वतिदिशति—एतेनेति । तत्रापि निषेधानन्यथानुपपत्त्याऽ- निष्टसाधनत्वबोधान्निवृत्तिकारणाप्रीतिसम्भवेऽपि १तादात्विकेष्टसाधनत्वावगमान्निवृत्तिप्रति- बन्धकोत्साहकारणेच्छाप्रसङ्गे निवृत्त्यभावापत्तेरप्रीतिविरुद्धेच्छानाशाख्यप्रद्वेषोत्पादनशक्त- त्वेन दोषातिशयत्वलक्षणाप्राशस्त्यज्ञानस्य लोकेऽपि दर्शनान्निवृत्तिफलाया नञ्लिङादि- युक्तशब्दभावनाया निवारणापरनामधेयनिषेधज्ञानात्मककरणानुग्राहकत्वं तावदवसीयते, तत्र च साधनापेक्षायां पूर्वोक्तेनैव प्रकारेण सोऽरोदीदित्येवमादीनामध्ययनविधिबलात्सा- धनत्वावगतेस्तदार्थ्येन शब्दभावनया ग्रहणमनुसन्धेयम् । अप्रशस्तप्रत्ययाधीनोत्पत्तिरस्येति विग्रहः प्रशस्तग्रहणं दृष्टान्तार्थम् । तस्मादध्ययनविधिबलेनार्थवादानां पुरुषार्थानुबन्धित्वाय लाक्षणिकस्तुतिनिन्दापरत्वाव- धारणरूपमङ्गेनेकवाक्यतासिद्धेति पूर्वाधिकरणैकवाक्यतासमर्थनोपयोगित्वम् । तदुच्यते इत्यारभ्याध्ययनविधिव्यापारचर्चात्मकस्य वार्त्तिकखण्डकस्य दर्शयति— अतश्चेति । समभिव्याहारवशात्पूर्वमेवावगतस्यैकवाक्यत्वस्य परस्परनिरपेक्षत्वेनानुपपत्ति- प्रतिभासे अध्ययनविधिसामर्थ्यावधारितस्तुतिनिन्दापरत्वेनार्थवादानां विधिनिषेधग्रहणा- न्निर्वाहः कियत इति—सिद्धिग्रहणेनोक्तम् । नन्वध्ययनविध्यवधारितपुरुषार्थपर्यवसायित्वात्तेनेव स्तुतिनिन्दापरत्वावसायात्किमिति महता प्रयासेनेकवाक्यत्वं साध्यतेऽत आह—नित्यं चेति । विधिनिषेधापेक्षावशा- ल्लक्षणया स्तुतिनिन्दापरत्वं स्वरसतोऽप्रतीयमानमपि कल्प्यते, तदभावे तु प्राशस्त्याप्राश- स्त्यलक्षणाकारणाभावात्सिद्धवत्कीर्त्तनान्यथानुपपत्त्या ताभ्यामेव तमग्नीषोमीयमेकादश- कपालं पूर्णमासे प्रायच्छदित्यादिवेद्विधिकल्पनेनैव पुरुषार्थपर्यवसानसिद्धेरित्याशयः । वाक्य- शेषग्रहणेन स्वातन्त्र्ये सति स्तुतिनिन्दानिर्णयहेतुत्वाभावं दर्शयति तत्र कारणमाह— न हीति । अव्यवस्थामुपपादयति—निन्दारूपास्विति । अविधेयनिन्दात्वेनाभासमानासु परमार्थता निन्दाविपर्ययविधेयस्तुतित्वदर्शनाद्विधेयनिन्दात्वेनाविधेयस्तुतित्वेन चाभासमा- नानां परमार्थतस्तद्विपर्ययकेवलविधेयस्तुतित्वदर्शनादित्यर्थः । यथाक्रममुदाहरणद्वयमाह—यथेति । प्रातः प्रातरनृतं ते वदन्ति पुरोदयात् जुह्वति ये ऽग्निहोत्रमित्यनुदिते होमनिन्दात्वेनामासमानापि तस्मादुदिते होतव्यमिति विध्येकवाक्यत्वात् स्तुतिरेवेति शाखान्तराधिकरणे भाष्यकारो वक्ष्यति दाशमिकाधिकरणार्थसंक्षेपः । १. तदात्वे भवं तादात्विकं तात्कालिकमित्यर्थः ।

७२ मीमांसादर्शनम् [ सू० दशमे च त्रैयम्बकान्पुरोडाशान्प्रकृत्य पठितमभिधायैस्त्र्यम्बका नाभिघार्या इति मीमांसते यदभिघारयेद्रुद्रायास्ये पशून्निदध्यान्नभिघारयेन्न रुद्रायास्ये पशून्निदध्यान्न सूक्ष्ममभिघार्या एव न ह्यनभिघृतं हविरस्तीति वाक्यमुदाहृत्य चिन्तयिष्यते किमभिघार्या- नभिघार्या इति विधिप्रतिषेधार्थता उत नेति । तत्र हिंस्ररुद्रास्ये पशुनिधानापादकत्वेनाभि- घारणस्य निन्दितत्वादनभिघारणस्य च तदनापादकत्वेन स्तुतत्वान्निषेधावगतेर्न ह्यनभिघृतं हविरस्तीति च हविःसम्पादककत्वेनाभिघारणस्य स्तुतत्वाद्द्विध्यवगतयोर्विकल्पे प्राप्तेऽऽभि- धास्येते मीमांसासमभिव्याहारेण विधिनिषेधशक्तिप्रतिबन्धादभिधारणानभिघारणनिन्दास्तु- त्योश्चाभिघार्या एवेति विध्येकवाक्यत्ववशेनाभिघारणस्तुतिपर्यवसायित्वावधारणाच्च वाक्य- भेदापादकं विधिप्रतिषेधार्थत्वं युक्तमिति । तत्र कथमभिघारणस्तुतिरित्युपेक्षिते वक्ष्यते, इत्थमभिघारणं प्रशस्ततरं यत्त्रैयम्बकानां दर्विहोमत्वेनापूर्व्वत्वादतिदेशतोऽप्राप्ते मीमांस्यमाने दोषोऽप्येवंविधोऽनभिघारणस्य च गुणो न गण्यते हविःसम्पादकत्वेन गुणवत्तरत्वादिति । न केवलं स्वातन्त्र्येऽन्यथाप्रतिभानाद्व्यवस्था किं तु सन्देहादपीत्याह—सन्दिग्धेति । तत्राप्युदाहरणमाह—यथेति । नावमिकाधिकरणार्थसंग्रहः । यथोक्तं नवमे यदृचा स्तुवते तदसुरा अन्ववायन्चेत्साम्ना स्तुवते तदसुरा नान्ववायन् एवं विद्वान्साम्ना स्तुवीतेत्यु- दाहृत्य किमृचा स्तुवत इति च विधानार्थम्, उत साम्ना स्तुवीतेत्येतद्विहितसामस्तुत्यर्थ- मिति चिन्तयिष्यते । तत्र य एवंविद्वान्साम्ना स्तुवीतेत्यस्य कर्तृप्रवृत्त्यनुवादियच्छब्दयोगेन य एव विद्वान्पौर्णमासीं यजत इत्यादिवद्विधिशक्तिप्रतिबन्धादितर योस्तु क्रियास्वरूपमात्रानु- वादियच्छब्दयोगेन यदाग्नयोऽष्टकपाल इत्यादिवद्विधिशक्तिप्रतिबन्धादुभयविधिवशाद्विकल्प इति पूर्वपक्षिते, कथमसुरागमननिमित्तत्वेन निन्दिताया ऋचो विधिः इत्याशङ्क्य भाष्य- कारो वक्ष्यति । न वयं निन्दितानानन्दितान् वासुरान्विद्म इति । भाष्यकारोक्तं सन्देहमुपपादयति—कदाचिदिति । सिद्धान्ते विध्येकवाक्यतावशेनैव निर्णय इत्याह—तत्रेति । स्तुवीतेतिप्रत्यक्षस्य विधेर्यच्छब्दयोगेऽपि प्राप्यभावेन य एवं विद्वान्सोमेन यजेतेतिवद्विधिशक्त्यप्रतिबन्धादितरयोस्तु वर्त्तमानापदेशत्वेन विध्यशक्तेरेक- वाक्यत्वसम्भवे वानेकादृष्टानुबन्धिवाक्यभेदापादकविधिद्वयकल्पनायोगात्सामविध्येकवाक्य- त्ववशेन सामस्तुत्यर्थमृचां निन्देति सिद्धान्ते निर्णय इत्यर्थः । ननु वायुमेव स्वेन भागधेयेनोपधावति, स एवैनं भूतिङ्गमयतीत्यादीनाम्, यो बर्हिषि रजतं दद्यात्पुरास्य संवत्सराद् गृहे रोदनं भवतीत्यादीनां च पदानां स्वरसतो भूतान्वाख्या- नार्थमपि लाक्षणिकस्तुतिनिन्दार्थत्वसम्भवेन विधिनिषेधकवाक्यतावसायात्तात्पर्यनिर्णयो भवतु परिशिष्टानां वायुर्वै क्षेपिष्ठा देवतेत्यादीनां सोऽरोदीत्येवमादीनां च लक्षणयापि स्तुति- निन्दार्थत्वाऽप्रतीतेर्विधिनिषेधैकवाक्यत्वसम्भवात्कथं तद्वशेन स्तुतिनिन्दापरत्वनिर्णयः, अतः

७ ] प्रथमाध्याये द्वितीयपादः ७३ आह—सर्व्वत्र चेति । तेषामपि स्तावकनिन्दकपदेकवाक्यत्वेन स्तुतिनिन्दार्थत्वसम्भवात्तद्- द्वारेण विधिनिषेधैकवाक्यत्वोपपत्तेः स्तुतिनिन्दापरत्वनिर्णय इत्यर्थः । यत्र तर्हि न किंचिदपि पदं स्तावकं निन्दकं वोपलभ्यते आपो वै शान्ता इत्यादिषु तत्र पारम्पर्येणापि विधिनिषेधैकवाक्यत्वासम्भवात्कथं स्तुतिनिन्दापरत्वनिर्णयः, अत आह—यत्रापीति । तत्रापि वेतसशाखयाऽवकाभिश्चाग्निं विकर्षतीत्यादिविधिसन्निधिवशेन लक्षणया तद्विधेयवेतसावकास्तुतिप्रतीतेर्लक्षितलक्षणया वा विकर्षणस्तुतिप्रतीतेर्विध्येक- वाक्यत्वात्तात्पर्यनिर्णय इत्यर्थः । यद्वैतदधिककाद्वयमेकवाक्यत्वाभिधानोपयोगप्रतिपादनपरतयैव व्याख्येयं विधिनिषे- धैकवाक्यत्वाभावे केषुचित्पदेषु कथंचित्स्तुतिनिन्दाप्रतीतावस्यानर्थक्येनोपपादानपेक्ष- त्वात्परिशिष्टानां पृथग्वाक्यत्वेन स्वरूपमात्रेण पर्यवसानं स्यात् तादृक्पदाभावे च स्तुतिर्वा निन्दा वाशङ्क्यैव न केवलेनैव स्यादिति । ननु विधिनिषेधयोः स्तुतिनिन्दापेक्षायां तदभावे वसन्तादिवाक्येषु साकाङ्क्षत्वाद- प्रामाण्यं स्यादत आह—विधीति । विधिप्रतिषेधयोर्मध्येऽन्यतरदर्शनेन स्तुतिनिन्दयोर्मध्ये ऽन्यतरदनुमायेत्यर्थः । एवं वैदिकार्थवादोपयोगं व्युत्पाद्य स्मृत्यधिकरणवक्ष्यमाणप्रामाण्यविद्यास्थानान्तरगते- ष्थर्थवादेषु तमेव न्यायमतिदिशति—एवं चेति । इतिहासपुराणयोरर्थवादबहुलत्वाद्भारता- दीत्युक्तम्, नन्वध्ययनविधिबोधितपुरुषार्थानुबन्धित्वबलेन वैदिकार्थवादानां श्रौतार्थातिक्रमेण लाक्षणिकस्तुतिनिन्दापरत्वमवधारितम् अत्र तु कथमित्यशङ्क्यात्राऽप्यध्ययनविधिस्थानीयं विधिं दर्शयति—तेषामपि हीति । एतया निषादस्थपतिं याजयेदित्यादिवत् प्रयोज्यव्या- पारत्वमभिप्रेत्य श्रावणविध्युपन्यासः, धर्म्मादीनां साध्यानां साधनप्रतिपत्तिरिति विग्रहः, धर्मादिचतुष्टयसाधनप्रतिपत्तिरुपादानाङ्गभूता, अधर्मादिचतुष्टयसाधनप्रतिपत्तिः परित्या- गाङ्गभूतेति योज्यम् । भारतोपक्रमे ॥ धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ । यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् । इति जनमेजयस्य भारतश्रवणप्रवृत्तिसिद्ध्यर्थं धर्म्मादिचतुर्विधपुरुषार्थंतत्प्रतियोगि च शब्द- सूचिताधर्मादिसाध्यसाधनप्रतिपादनपरत्वाभिधानात्सर्वत्र यथासम्भत्रं तत्परत्वमुन्नेयमिति भावः । ननु विधिनिषेधशून्यानां बहुशो भारतादिषु दर्शनात्कथं पुरुषार्थपर्यवसानकल्पन- मित्वाशङ्क्य यथासम्भवं विभज्योपयोगं दर्शयितुमाह—तत्रापि त्विति । शङ्कानिरा- सार्थस्तुशब्दः । दानराजमोक्षाणां धर्मा इति द्वन्द्वगर्भः षष्ठीसमासः । दानस्येतिकर्त्तव्यता- भूतो धर्मो राज्ञोऽनुष्ठेयः, मोक्षस्य साधनमादिशब्देन तपो ब्राह्मण्यायुदयादिसंबन्धि-

७४ मीमांसादर्शनम् [ सू० धर्मोपादानम् १। अनेन च ग्रन्थेन तत्सन्निधिपठितानामुपाख्यानानां तत्तद्विधिशेषत्वेनोपयोगो दर्शितः। विध्यश्रवणेऽप्येकानेककर्त्तृकवचरित्रकथनात्मकपरकृतिपुराकल्परूपेण यस्मात्पूर्वै- र्महात्मभिरेवं कृतं तस्मादन्यैरपि कर्त्तव्यमिति विध्यनुमानातच्छेषत्वेनार्थवादतयोपयोगो भविष्यतीत्याह—केचित्पुनरिति। किमित्येवं क्लेशाङ्गीकरणमत आह—सर्वोपाख्यानेषु चेति। अन्यपरत्वादेव स्वार्थसत्यत्वमनाशङ्क्यमित्याह—तत्परत्वाच्चेति। ननु वेदस्यापौ- रुषेयत्वेनापर्य्यनुयोज्यत्वाद्यथाम्नातस्य न्यायवलेन तात्पर्य्यकल्पनं युक्तम्, भारतादौ त्वसत्यो- पाख्यानप्रणेतॄणां मूढत्वं विप्रलम्भकत्वं वा प्रसज्येतेत्याशङ्क्याविवक्षितोपाख्यानविस्तर- प्रणयने कारणमाह—वेदप्रस्थानेति। एवमपि प्रक्रियामात्रत्वादबुद्धिपूर्वककारिता स्यादत आह—प्रतिपाद्यानां चेति। विचित्रबुद्धित्वमेव दर्शयति—इहेति। नन्वेवमपि केषा- ञ्चित्प्रतिपत्तिसिद्धौ शास्त्रप्रणयनार्थवत्त्वोपपत्तेरलं महता प्रबन्धेन अत आह—सर्वेषां चेति। न चासत्योपाख्याप्रणेतृत्वेन व्यासादीनामप्रत्ययितत्वाशङ्का, धर्मादिविषयाणां विधिप्रतिषेधानां केषांचिच्छ्रुतिमूलत्वदर्शनेनाऽर्थादिविषयाणां च प्रमाणान्तरमूलत्वेना- सत्त्वावधारणादित्याह—तत्रेति। आदिशब्देनानर्थदुःखोपादानं न चोपाख्यानेष्वपि तेषाम- सत्यवादित्वं बहूनां वेदलोकमूलत्वात्स्वोत्प्रेक्षितानामपि काव्यवत् लोकरञ्जनार्थत्वेन विप्रलिप्साभावादित्याह—तथेति। ननु धर्मादिविषयाणां स्मृतीनां वैदिकशरणत्वात् प्रामाण्यं स्यात्, तद्गतानामवेद- मूलानासर्थवादानां विध्येकवाक्यत्वाभावेन स्तुत्यर्थत्वायोगादप्रामाण्यं स्यादित्याशङ्कयाह— सर्वे चेति। अर्थवादशून्ययोविधिप्रतिषेधयोः श्रुतार्थापत्त्यार्थवादकल्पकत्वस्य विधिप्रतिषेध- योश्च स्तुतिनिन्दाभ्यामविनाभावादन्यतरदर्शनेनान्यतरदनुमाय वाक्यं पूरयितव्यमिति, अत्रोक्तत्वाद्देदकल्पतार्थवादानां २ व्यासादिभिर्लोकानुसारेण स्वोत्प्रेक्षया, वा प्रणीतत्वा- त्सम्भवत्येवैकवाक्यत्वमिति भावः। ननु भवतु विधिप्रतिषेधसन्निधिपठितानां प्रत्यक्षमूलभूतवैदिकार्थवादाभावे ३ ऽप्युक्तेन न्यायेन काल्पनिकविधिप्रतिषेधैकवाक्यभूतार्थवादमूलत्वेन तदेकवाक्यत्वात्स्तुतिनिन्दार्थ- त्वम्। तत्सन्निधिरहितानां तु स्तुतिनिन्दार्थत्वायोगादानर्थक्यं स्यादत आह—ये त्विति। स्वयंशब्देन स्वातन्त्र्यमुक्तम्। प्रीति जनयन्तीति कामोपयोगितोक्ता। पार्थिवानामुप- युज्यन्त इत्यर्थोपयोगिताम्, अदृष्टशब्देन धर्मोपयोगिता; देवतादीत्यादिशब्देनार्षादिग्रहणम्। यत्र तर्हि न कि चिदपि श्रूयते किं तु स्वरूपमात्रं कीर्त्यते। यथा सृष्टिप्रलयादिवाक्येषु, १. आनर्थक्यनेति विध्येकवाक्यत्वाभावेन स्तुतेन स्वीपपादकार्थवादपदान्तरानपेक्षत्वात् तद्व्यतिरिक्तानां पदानां पृथग्वाक्यत्वम्। २. वेदे यत्रार्थवादो न श्रूयते तत्र कल्पिता ये ऽर्थवादास्तएव लोकानुसारेण स्वोत्प्रेक्षया वा तत्र प्रणीता इति भवत्येवैकवाक्यत्वमिति भावः। ३. प्रत्यक्षश्चासौ मूलभूतश्चासौ वैदिकार्थवादश्चेति विग्रहः।

७ ] प्रथमाध्याये द्वितीयपादः ७५ कथं तेषामुपयोगोऽत आह—इत्येषा दिगिति । युक्तोपयोगोपाख्यानमार्गेण सृष्टिप्रलयादि- वाक्यानामपि यथासम्भवं धर्माद्युपयोगितोन्नेया । सा च स्मृत्यधिकरणे वक्ष्यते । अर्थवादो- पयोगमात्रस्यैवात्र विवक्षितत्वादिति भावः । एवं सिद्धान्तस्वरूपं व्युत्पाद्य भाष्यमिदानीं व्याख्यातुमुपन्यस्यति—विध्युद्देशेनेति । कैश्चिदेतत्सकलं भाष्यं सार्थवादवाक्येष्वर्थवादादेव प्रवृत्तिसिद्धेर्विधिप्रत्ययपरित्यागपरत्वेन व्याख्यातं तेषां व्याख्यानं दूषयितुमुपन्यस्यति—केचिदाहुरिति । अयमर्थः । अर्थवादाना- मप्यध्ययनविधिबलेनैव पुरुषार्थपर्यवसायित्वाद्यथासम्भवं स्तुतिनिन्दार्थत्वावसायात्तद्वारा कथं रोचतेति भाष्योक्तरीत्या प्रवर्त्तितव्यं निवर्त्तितव्यमित्येवंरूपप्रवृत्तिनिवृत्तिहेतुभूतार्थ- प्रतिपादकत्वाल्लिङादीनामपि तदभिधायकत्वात्तुल्यार्थतया समुच्चयायोगे केवलानां व्यवस्थयाऽर्थवत्त्वेऽप्युभयसम्भवेऽन्यतरेण सिद्धेरवश्यं त्याज्येऽन्यतरस्मिन्भूयोऽर्थवाद- पदानुसारेणैकस्य लिङादेस्त्यागो युक्तः । प्रकृत्यनुग्रहार्थं च कस्मिंश्चित्प्रत्यये प्रयोज्ये स्तुत्योत्पादितेच्छाल्लब्धकर्त्तव्यानुवादिनी लिङ् प्रयुज्यते, इति दृष्टं लिङोऽन्यतः सिद्ध- कर्त्तव्यतानुवादिनीत्वमिति परमतेन दृष्टान्तितम्—यथेति । प्रत्ययश्चेत् त्यज्यते किं तर्हि विवक्षितमित्यपेक्षिते—तस्मादित्युक्तम् । एवं सोपपत्तिकं भाष्याभिप्रायमुक्त्वा, अक्षर- योजनमाह—स एव चेति । वायव्यश्वेतालम्भ एव भाष्ये विध्युद्देशशब्देनोक्त इत्यर्थः । ननु भूतिकामान्तस्य विध्युद्देशत्वं वदता विधिप्रत्ययोऽपि गृहीतो लक्ष्यते । अन्यथा स्तुत्यन्वयात्प्राक् कर्त्तव्यत्वाप्रतीतेः फलानापेक्षत्वाद् भूतिकामान्तवचनानर्थक्यं स्यादत आह—फलादीति । अनुष्ठानयोग्यस्यानुष्ठानसिद्धयर्थं स्तुत्यपेक्षणात्फलाद्यन्वयं च विना- नुष्ठानायोग्यत्वाद्विध्यविवक्षायामर्थवद्भूतिकामान्तवचनमिति भावः । कस्मादेवं व्याख्यायते अत आह—अन्यथेति । ननूद्देशग्रहणेऽप्यनुवाद्येन विधिनेवैकवाक्यत्वप्रतीतेः कथमालम्भो- पादानमत आह—सूत्रोक्तेन त्विति । उद्देशग्रहणस्योक्तेन न्यायेन विवक्षितार्थत्वादविवक्षि- तस्य च पदान्तरान्वयायोगात्षष्ठीसमासस्य कर्मधारयस्य चानुपपत्तेर्विधेरुद्देशोऽविवक्षा- स्मिन्निति कण्ठेकालादिवद्व्यधिकरणबहुव्रीह्याश्रयणात्कर्मणि वोद्देशशब्दं व्युत्पाद्य सामानाधिकरण्योपपत्तेस्तद्विषयालम्भोपादानमित्यर्थः । स्फुटीकृतं चैतद्भाष्यकृतेत्याह— तथा चाहेति । कथमनेनैतद्व्याख्यानं स्फुटीकृतमत आह—विधीति । स्तुतिस्तुत्यसम्बन्ध- विवक्षा केनोक्तेत्यपेक्षिते पठति—यत इति । ये अनेन भाष्यावयवेन स एवैनं भूतिं गमय- तीत्यादिस्तुत्यन्वयं दर्शयता स्तुतिस्तुत्यसम्बन्धं विवक्षितं वदन्तीति पूर्वेणान्वयः । प्रत्यया- सहिष्णुत्यालभेतत्याद्यपदत्यागेन भाष्ये शेषपाठः कृतः । ननु विधित्यागे शब्दभावनायाः कथम्भावाभावेन स्तुत्यनाकाङ्क्षणात्कथं स्तुतिस्तुत्यसम्बन्धविवक्षा अत आह—सैव चेति । वायव्यश्वेतालम्भस्य भूतिसाधनत्वेऽभिहिते कस्माद्धेतोस्तस्य भूतिसाधनत्वमित्यपेक्षायां हेतुत्वन्निगदार्थवादवदन्वयो भविष्यतीति तेषामाशय इत्यर्थः । अस्मिन्नर्थे फक्किकैवं योज्या । विधेयस्यालम्भस्य विधिसम्बन्धे सति याऽर्थवाद- योजना पूर्वमुक्ता, योज्यते सम्बध्यतेऽनेनेत्युभयाकाङ्क्षालक्षणोऽन्वयप्रकारो योजना-

७६ मीमांसादर्शनम् [ सू० शब्देनाभिप्रेतः । सा विधिविधेयसम्बन्धनिषेधेऽपि शुद्धस्यैवालम्भस्य भविष्यति—निमि- त्त्वेनोक्तत्वादिति । आलम्भस्यार्थवादानाकाङ्क्षत्वेऽप्यर्थवादस्य पुरुषार्थानुबन्धित्वाय साकाङ्क्षत्वादन्यतराकाङ्क्षयापि सम्बन्धोऽपि भविष्यतीति चशब्देन सूचितम् । एवं वाऽनेन भाष्ये व्याख्यातमालभेतेतिमध्यप्रतीकेन समस्तविध्युद्देशनिर्देशात्तदर्थो भूतिसाधनत्वमालम्भस्योक्तम् । कस्मादित्यपेक्षिते पूर्वभाष्यनिर्दिष्टं वायुं तच्छब्देन परा- मृश्य यस्माद्वायूर्भूतिं साधयतीति स्तुत्यन्वयप्रदर्शनमिति । कस्माद् भूतिकामेनालब्ध- व्यमित्यभिसम्बन्धो न विवक्षित इत्याशङ्क्याविवक्षाकारणमुक्तम्—भिन्नविमावर्थाविति । तदेकस्यैव सम्बन्धस्यानिराकार्यार्थतयोपन्यस्तत्वादयुक्तमित्याशङ्क्य व्याचष्टे—भिन्नाविति । भूयार्थवादानुग्रहायावश्यविवक्षणीये स्तुतिस्तुत्यसम्बन्धे सतीतरसम्बन्धविवक्षां वदतोभय- विवक्षाङ्गीकारात् तत्र च वाक्यभेदापत्तिरित्यर्थः । किमर्था स्तुतिरिति प्रश्नभाष्यं स्तुतेरिच्छोत्पादनेन प्रवर्त्तकत्वस्य स्फुटत्वादयुक्त- माशङ्कयाभिप्रायद्वयमाह—किमर्थेति । कथं रोचेतेत्युत्तरभाष्यम् यथाक्रममभिप्रायद्वय- निरासार्थत्वेन व्याचष्टे—आचार्यस्त्विति ननु प्रागित्याशङ्काभाष्यं द्वितीयप्रश्नाभिप्राये पुनरुक्तमाशङ्क्य विवरणपरत्वेन व्याचष्टे—इतरेति । न हि यदेत्यादिपरिहारभाष्यं तत्र नञ्द्वययोगेन सन्निधानमेवोक्तं स्यान्न च तदा विधिविधेयसम्बन्धाविवक्षाङ्गीक्रियते, विरोधश्चोत्तरभाष्येण स्यादित्याशङ्क्य न हीति छित्त्वाऽऽनर्थक्यनिरासार्थत्वेन व्याचष्टे—न हीति । कथं नानर्थक्यमित्यपेक्षिते केवलश्रवणावधारितसामर्थ्यस्यापि विध्युद्देशस्यार्थवादसन्निधौ विधायकत्वाभावादिति कारणम्—यदेत्यादिनोक्तम् । यथेत्यादिना—दृष्टान्तद्वारोपपादितम्, तत्प्रपञ्चयति—सर्व- त्रेति । दृष्टान्त एव किं व्यवस्थाकारणमित्यपेक्षायामाह—योग्यति । आकाङ्क्षणीयाऽलाभ- निमित्ता ह्याकाङ्क्षानिवृत्तिर्नान्येत्यर्थः । ननु यथाप्राकृतपदार्थलाभान्निवृत्ताकाङ्क्षाया अपि विकृतेः सन्निधिपठितपदार्थाकाङ्क्षावशादाकाङ्क्षोत्थापनम्, तथेहापि पदार्थान्तरा- काङ्क्षावशादाकाङ्क्षोत्थापनेऽपि स्वतो निराकाङ्क्षत्वात् प्रकरणगतानां प्रयाजादि- वाक्यानामिव¹ कस्मात्प्रामाण्यं न स्यादत आह—इतरथेति । इतरेण प्रकारेण योग्य- पदान्तरानुच्चारणमनालोच्य स्वरूपमात्रालोचने सर्वत्राकाङ्क्षा भवत्येव श्रुतपदातिरेके- णापि दर्शनादित्यर्थः । स्वाभाविकीमाकाङ्क्षामुपपादयति—तथा चेति । एवं यदेत्यादि- भाष्यं पूर्वेण पुनरुक्तमाशङ्क्योपसंहारार्थतया व्याचष्टे—तदिहेति । नन्वेवं सतीत्याशङ्काभाष्यं महावाक्येऽवान्तरवाक्याप्रामाण्यस्योक्तत्वादयुक्तमाशङ्क्य व्याचष्टे—नन्वेवमिति । सत्यं विनापीति परिहारभाष्याभिप्रायमाह—सत्यमिति । गवादि- प्रचारार्थं ग्रामस्य समन्ताद्या भूःकर्षंकैः परिहियते सा परिहारशब्देनोच्यते । [१धनुः शतं १. प्रकरणगतानामपि प्रयाजादिवाक्यानां स्वतो निराकाङ्क्षत्वात् प्रमाजनकत्वं भावनया कथं भावेनापेक्षणात् विध्येकवाक्यत्वं तद्विधेः स्वार्थप्रतिपादकत्वं पदार्थान्तराकाङ्क्षा- वशादेकवाक्यत्वमित्यर्थः ।

७ ] प्रथमाध्याये द्वितीयपादः ७७ परिहारो ग्रामस्य स्यात्समन्तत इति स्मृतेः] । तस्य पन्थाः परिहारपथः; तेन ग्रामगमन- वदिति दृष्टान्तार्थः । ननु सत्स्वपीत्याशङ्काभाष्यं वेदस्यापर्यंनुयोज्यत्वेनोक्तवादयुक्तमाशङ्क्य व्याचष्टे— नन्विति । आहेति परिहारभाष्यं व्याचष्टे—तत्र उत्तरमिति । भवन्वितीशङ्काभाष्यं व्याचष्टे--भवन्त्विति । नेत्यादिपरिहारभाष्यं व्याचष्टे-नोक्तेनेति । प्रतीतिमात्रेणार्थस्य विवक्षितत्वमतिप्रसङ्गादयुक्तमाशङ्क्य योऽसावित्यादिनोपपादितं तद्व्याचष्टे-द्वयसम्भवं हीति । अर्थवादानुग्रहो युक्त इत्यनेनातोऽस्मादितिभाष्यमेव व्याख्यातम्, यतः प्रत्यक्षो वाक्यशेषभावः, अतः कारणादस्मात्सार्थवादकाद्विधेः सकाशाच्छ्रुतिमिव प्रवर्त्तकत्वेन विवक्षितामवगच्छामो न विधिम्, भूयोऽल्पविरोधे भूयोऽनुग्रहस्य न्याय्यत्वादिति । ननु निरपेक्षादपीतीत्याशङ्काभाष्यमन्यत्रावधारितविधिशक्तिर्विध्युद्देशस्यात्रापि प्रत्य- भिज्ञानात्स्तुतिसम्बन्धाविवक्षाप्रतिपादकत्वेनाभासमानं ननु सत्स्वपीत्यनेन पौनरुक्त्ये- नाक्षिपति-नन्विति । सत्यपि समस्तस्य स्तुतिस्तुत्यसम्बन्धरूपेऽर्थे पूर्वस्य विधिविधेय- सम्बन्धरूपार्थोपप्लवनिरासार्थतया समाधत्ते-तदुच्यत इति । अथांस्येत्यनेन भाष्योपक्षिप्तं कारणमुक्तम् । भवत्वितिपरिहारभाष्यं व्याचष्टे-तद्विधीयत इति । अनेनैवं व्याख्यातं भवतु निरपेक्षार्थत्वादरहिताद्वसन्तादिवाक्येषु विध्यवगतिः, न हि निरपेक्षे सत्यर्थद्वया- सम्भवलक्षणो विरोधोऽस्ति, न चात्र शक्त्यभावाद्द्व्यर्थत्वासम्भवः, येनास्यैव क्व- चिच्छक्तिः क्वचिदशक्तिरिति विरोधः स्यात् । बाधाबाधौ तु बाधकसदसद्भावाभ्यां न विरुध्येते इति काक्वा सूचितम् । इह तु स्तुत्यर्थत्वस्योक्तन्यायेनावश्याङ्गीकार्यत्वाद्वक्य- भेदप्रसङ्गेनाशक्यो विध्यर्थ इति । द्वौ चेदितिवाक्यभेदभाष्यं भिन्नाविमावर्थावित्यनेन पुनरुक्तमाशङ्क्य पूर्वंन्युत्पादित- स्यैव वाक्यभेदस्य स्तुतिसम्बन्धे सत्यशक्यो विध्यर्थ इत्युक्ते कुतोऽशक्य इत्यापन्नहेतुप्रश्नो- त्तरत्वेन पुनरुपन्यास इति परिहरति-प्रश्नोत्तरत्वेनेति । ननु यदि स्तुत्यसम्बन्ध एवात्र विवक्षितो न विधिविधेयसम्बन्धः । ततोऽनुष्ठानाप्रतिपादकत्वेनाक्रियार्थत्वाद्वर्मप्रामाण्यानु- पपत्तेर्विध्युद्देशेनैकवाक्यत्वात् प्रमाणमित्युपक्रमानुपपत्तिः स्यादत आह--तस्मादिति । यस्मादन्यथा वाक्यभेदः प्रसज्येत तस्मात्प्ररोचनयैवात्र विधिः तथा सत्यैकार्थ्यादित्यर्थः । अनेन चाथ यदुक्तमित्यनूदिताशङ्कानिरासार्थत्वेन भाष्यकारावतारितस्तुत्यर्थेन विधीनां स्युरिति सूत्रावयवमेवं व्याख्यातम् । स्तुतेरर्थः प्रयोजनं प्ररोचना तद्द्वारेण कर्मव्युत्पन्न- विधिशब्दोक्तानां क्रियाणामुपकारिणोऽर्थवादा इति एतत्सूत्रावयवव्याख्यानार्थं स्तुतिशब्दा इति भाष्यम् । तत्रानुष्ठातॄणामिति षष्ठीमाक्षिपति--प्ररोचयमाना इति । नन्विक्स्तिपौ धातुनिर्देश इति धातुमूतुरुचियोगे सम्प्रदानसंज्ञा विहिता, न च तत्प्रयोगे पूर्वंप्रकृतेर्धातुत्वमस्ति । तथा सति धातुद्वयप्रसङ्गेन धातोरिति विवक्षितैकत्वधातू परिविहितप्रत्ययानुपपत्तिप्रसङ्गादित्या-

७८ मीमांसादर्शनम् [ सू० शङ्कते—परोचयतेरिति । परिहरति—अयमाशयः । सनाद्यन्ता धातव इत्यन्तग्रहण- सामर्थ्यात्केवलस्य सनादेर्धातुत्वाभावेन धातुद्वयाप्रसक्तेर्न पूर्वप्रकृतेर्भूवादयो धातव इति विहिता धातुसञ्ज्ञा नापह्रवमर्हतीति संबन्धिविशेषाविवक्षया चतुर्थ्यप्रसङ्गमाशङ्कते— अथेति । परिहरति—सापीति । रुचिसंबन्धाविवक्षायां तद्व्यतिरेकषष्ठ्यनुपपत्तेः प्राति- पदिकार्थव्यतिरेके प्रथमैव स्यात् । रुचिसंबन्धविवक्षायां तु तस्य चतुर्थी निमित्तत्वेन विशेषरूपत्वात्सामान्यविवक्षा कुतो न तस्येति भावः । पदान्तरसंबन्धमङ्गीकृत्य षष्ठीमुपपादयति—तस्मादिति । एवं तु व्यवहितान्वयाप- त्तेरुपकरिष्यन्तीत्यनेनान्वयमाह—अथ वेति । अस्मिन्पक्षे क्रियाया इत्यस्य विच्छिन्नस्यार्थ- माह—क्रियाया इति । क्रियाशब्देन तद्विषयत्वाद्विधिरभिप्रेतः । विध्युत्खातिपक्षनिरासः तदेतत् दूषयति—इदं त्विति । किं सर्वप्रत्ययार्थाविवक्षया प्रत्ययत्यागः, विधिमात्रा- विवक्षया वा । तत्राद्ये कल्पे तावत् दूषणान्याह—यदि हीति । ननु भूतिकाम आलभेत, कस्माद्यतो वायुः क्षेपिष्ठा देवतेति हेत्वाकाङ्क्षायामर्थवादान्वयस्य भाष्यकृतोक्तत्वाच्छब्द- मात्रेनाकथम्भावासम्भवेऽपि न कश्चिद्दोष इत्याशङ्क्याह—यापीति । वेदावगतस्यार्थस्य हेत्वनपेक्षत्वान्न तद्द्वारेणार्थवादान्वयः सम्भवतीति कल्पेतेति काक्वा द्योतितम् । यापि भाष्यकृता कस्मादित्यपेक्षा दर्शिता । सापि कस्मात्कारणान्मया प्रवर्त्तितव्यमिति प्रवृत्ति- सिद्धयर्थं प्राशस्त्यरूपकारणविषयत्वाद्विध्यभावे न युक्तेत्यर्थः । नन्वितिकर्त्तव्यताविषयत्वे कथमित्येवाकाङ्क्षा किमिति न दर्शिता, अत आह—शब्दान्तरेति । विधायकस्याध्ययन- विधिना पुरुषप्रवर्त्तने नियुज्यमानस्य कथं मया पुरुषः प्रवर्त्तयितव्य इत्यर्थवादान्वयासिद्धय- र्थमचेतनस्यापि पुरुषगतचैतन्यारोपेणाकाङ्क्षोपचर्यते । भाष्यकृता तु पारमार्थिकी पुरुष- स्याकाङ्क्षा तद्विषयैव दर्शिता, न त्वनयोर्भिन्नविषयतेत्यर्थः । अथापि हेतुविषया कस्मादि- त्यपेक्षा, तथापि यागादिस्वरूपस्य द्रव्यदेवतामात्रेण सिद्धेः फलसाधनत्वस्य च स्वसामर्थ्य- मात्रेण सिद्धेः कर्त्तव्यत्वाभिधानं विना न युक्तेत्याह—सापि चेति । ननु क्रियानपेक्षितमपि प्राशस्त्यमर्थवादोक्तं सत्कर्त्तव्यताङ्गमयिष्यतीत्यत आह— तदनपेक्षितं चेति । प्राशस्त्यस्य श्रौतत्वाभावान्न स्वरसतोऽर्थवादप्रतिपाद्यत्वं सम्भव- तीत्यर्थः । प्रतिपादितस्यापि कथंचित्प्राशस्त्यस्य न तावद्धात्वर्थेन संबन्धः अनपेक्षित्वा- दित्याह—न चेति । न केवलं प्राशस्त्यस्यासंबन्धः, किं तु फलादेरपीति—कस्यचिदिति । काक्वोक्तम् । भावनया सह तर्हि संबन्धो भवत्वत आह—भावना त्विति । किमपेक्षेतेति— न किं चिदित्यर्थः । अनपेक्षायां वा सर्वाभावः स्यादित्याह—तस्मादिति । अथापि कथंचित्प्राशस्त्यमभिधीयते संबध्यते च, तथापि न कर्तव्यतामालम्भस्य गमयतीत्याह—उक्तेऽपि चेति । माभूत्तर्हि कर्त्तव्यबुद्धिः प्राशस्त्यप्रतिपादनमात्रेणार्थवाद- पर्यवसानं भविष्यतीत्यत आह—अकल्पिते त्विति । आनर्थक्यपरिहारार्थमेव तर्हि

७ ] प्रथमाध्याये द्वितीयपादः ७९ कर्त्तव्यता कल्पयिष्यतेऽत आह—प्रत्यक्षं चेति । क्लृप्तस्य कल्पनाऽनुचितेति भावः । न केवलमनुचिता, किं त्वशक्यापीत्याह—न चेति । अशक्यत्वे कारणमाह—अनुक्तो हि सन्नेति । एवं तावत्कर्त्तव्यतायाः क्लृप्तत्वान्नाथर्वादकल्पकत्वमित्युक्तम् । अर्थवादानामपि तत्कल्पकत्वं न सम्भवति, प्ररोचनामात्रपर्यवसानादित्याह—तथेति । ननु तर्हि नार्थवादैः प्ररोचनोच्यताम्, कर्त्तव्यताप्रतिपादनेनैव पुरुषार्थानुबन्धित्व- सिद्धेरत आह—अवश्यकर्त्तव्या चेति । तया विना प्रवृत्त्यसिद्धेरिति भावः । ननु माभू- दर्थवादानां कर्त्तव्यताप्रतिपादनपर्यन्तं व्यापारः, तत्प्रतिपादितप्राशस्त्यान्यथानुपपत्त्या सा कल्पयिष्यते अत आह—सर्व्वत्र चेति । यच्च तुल्यार्थत्वं समुच्चयासम्भवकारणमुक्तम्, तदसिद्धमित्याह—तुल्यार्थयोश्चेति । न चात्रालपभूयोविरोधिन्यायोऽस्ति, प्रत्ययत्यागे भूयसां तदर्थानां वाधापत्तेरित्याह—यदि चेति । परस्मैपदात्मनेपदरूपोपग्रहविशेषः । आदिशब्देन विधिभावनयोरुपादानम् । एतत्सर्वं दोषपरिहारार्थं कल्पान्तरं शङ्कते—स्यादेतदिति । एतदपि निराचष्टे--एत- च्चेति । अशक्यत्वे कारणमाह—यत इति । उदितमप्यविवक्षितं भविष्यत्यत आह— प्रतीतस्य चेति । ग्रहैकत्वं ह्यप्राप्तत्वान्नानुवदितुं शक्यते, सम्मार्गभावनया गुणत्वेन प्रधान- त्वेन चान्वयायोगाच्च विधिना स्पृश्यते । इन्द्रियकामहोमस्त्वाश्रयमन्तरेण गुणस्य फल- साधनत्वायोगाद्विधिमन्तरेण च प्रकरणावगतस्यापि होमस्याश्रयत्वे प्रमाणाभावान्नप्रकरणा- वगतं स्वरूपमनूद्य गुह्यफलसम्बन्धविध्यन्यथानुपपत्तिप्रसूतेन विधिना आश्रयत्वेन विधीयत एवेति श्रौतेन विधिना वाक्यभेदप्रसङ्गेनापरिग्रहादविवक्षितत्वमिति । ननु विध्यसंस्पर्शादेव विधिरविवक्षितो भविष्यत्यत आह—न तावदिति । विधि- व्यतिरिक्तस्य विध्यसंस्पर्शित्वं विधिविवक्षाकारणं युक्तम् । विधेस्त्वविधिरहितत्वं विध्य- संस्पर्शित्वेनाविवक्षाकारणं सर्व्वविधिनामविवक्षाप्रसङ्गादित्यर्थः । अनुवादोऽपि विधेर्युक्त इत्याह—नापीति । कारणमाह—तस्यामिति । अयमाशयः—न तावद्य आलम्भः, स प्रशस्त इत्यालम्भमात्रोद्देशेन प्राशस्त्येऽभिहितेऽपि कर्त्तव्यबुद्धिः सम्भवति, येन प्ररोचनालब्ध- विधित्वानुवादो घटेत । एतच्चोक्तंऽपि च प्राशस्त्य इत्यादिनाेपपादितम् । यदि तु योऽयं वायव्यश्वेतालम्भः कर्त्तव्यः, स प्रशस्त इतिकर्त्तव्यतारूपस्य विधेरनुवाद इष्यते । स तर्हि न सम्भवति । अनुवादावस्थायामप्राप्तत्वादिति । ननु त्वत्पक्षे वायव्यश्वेतालम्भः कर्त्तव्य इति विध्यर्थो भवेत्, तस्य चालम्भः प्रशस्त इत्यर्थवादार्थेन नान्वयः स्यादित्याशङ्कयाह भवति त्वेवमिति । दृष्टान्तोऽपि साध्यविकल इत्याह—यत्त्विति । दशमे हि सत्रादुदवसाय¹ पृष्ठशमनीयेन ज्योतिष्टोमेन सहस्रदक्षिणेन यजेरन्नित्युदाहृत्य किं तत्र सहितानां कर्तृत्व- १. यथा गवामयने सत्रे अवभृथानन्तरं पृष्ठशमनीयमेकाहः क्रियते तत्र समानकर्तृकयोः पूर्वकाले इति विधानेन उत्तरक्रियाकर्त्तव्यतायाः क्त्वाप्रत्ययविधानात् तद्बलेनैवोत्तर- क्रियाकर्त्तव्यताप्राप्तेति तत्र लिङोऽनुवादिनीत्वं तथेति भावः ।