भारतकोश
संग्रह पर लौटें

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

३० मीमांसादर्शनम् [ सू० क्रियार्थो वेति । तेन न फलविधित्वाभिराकूतस्येहानर्थकोऽर्थवादविचार इति । आऽस्य प्रजायां वाजी जायते य एवं वेदेति चोदाहरणम् ॥ ३ ॥ भा० वि०—अर्थवादानर्थक्ये हेत्वन्तरमाह-तथेति । यद्यपि "शोभतेऽस्य मुखं य एवं वेद" इत्येतावदुदाहरणम्, तथाप्येवं शब्दार्थं दर्शयितुं गर्गत्रिरात्रब्राह्मणं प्रकृत्येत्युक्तम्, अहीनविशेषविधायिब्राह्मणं प्रकृत्येत्यर्थः, अत्राप्याद्यसूत्रं योजयति- यदीति । यदि नाम गर्गत्रिरात्रब्राह्मणज्ञानकाले विद्यमानाया एव मुखशोभायाः सङ्कीर्त्तनम्, तथाप्यक्रियार्थत्त्वादानर्थक्यमित्यर्थः, इदानीं भूतानुवादत्वमेवात्र नास्तीति दर्शयितुं परपक्षमनुवदति—अथेति । अध्ययनस्यार्थावबोधपर्यन्तस्य फलं मुखशोभाजेनानूद्यते चेदित्यर्थः, तर्ह्यध्ययनानन्तरभाविन्या मुख्याया मुख- शोभाया अनुपसम्भादसदनुवाद इति फलभावादिति सूत्रावयवयोजनया दूषयति-तत इति। कालान्तरफलत्वेन योग्यानुपलब्धिविरोधपरिहारं शङ्कते— कालान्तरेति । शोभतेऽस्य मुखमिति फलस्यानन्तर्यश्रवणात् मैवमिति तथेत्यवय- वेन दूषयति—नहोति । तदनेन यथाभूतं मुखशोभादिफलत्वेन कोर्त्यते, तथा भूतस्याभावादानर्थक्यमिति सूत्रं योजितम् । शोभतेऽस्येति फलविधिबलादेव फलस्य कालान्तरभावित्वावगमाद्वर्तमाना- पदेश एवायं न भवतीति शङ्कते—विधिरस्यादिति । अधिकरणान्तरविरोधेन दूषयति-नैषेति । तत्र हेतुर्द्रव्यसंस्कारेति । तत्र हि यस्य पर्णमयी जुहूर्भवति, न स पापं श्लोकं शृणोति, तीर्थे स्नाति, तीर्थमेव हि स जातानां भवति, वर्म वा एतद्यज्ञस्य क्रियते, यत्प्रयाजानूयाजाः इज्यन्ते, वर्म यजमानस्य भ्रातृव्याभिभूत्यै इत्यादीनि द्रव्यसंस्कारकर्मविषयाणि वावयान्युदाहृत्य किमेते फलविधयः, उतार्थवादा इति संशय्य पर्णत्वादेरप्राप्तत्वेनावश्यविधेयस्य फलाकाङ्क्षायां साक्षात्पुरुषार्थरूपश्रुतफलान्वयसंभवे पारम्पर्यपुरुषार्थरूपक्रतूपकाराख्यफल- कल्पनायोगात् फलविधित्वमेवेति पूर्वपक्षयित्वा, यथाकथञ्चित् पुरुषार्थरूपफल- वत्त्वेन विध्यनुपपत्तिशान्तेः विपरिणामकल्पनानुपपत्तेः यथाश्रुतवर्तमानफलत्व- कीर्तनस्य चानुपलब्धिविरोधात्फलनिधित्वमिति सिद्धान्तयिष्यते, तथेहापि विद्यायाः कर्मानुष्ठानयोग्यपुरुषकरणात् संस्कारत्वेन निराकांक्षत्वात् न शोभत इत्यादेः फलविधित्वं फलार्थवादत्वमेवेति भावः । पौनरुक्त्यात्तर्हि अत्र न विचारयितव्यमत आह—इह त्विति । इति चिन्त्यत इति विपरिणमय्यानुषङ्गः भूतानुवादो विद्यमानसिद्धानुवादः, अर्थानुव्रतःदोऽसदनुवादः । उदाहरणान्तरमाह—आस्येति । वेदानुमन्त्रणज्ञानवहो••••••वा•••••'जवत् · पुत्रवत्त्वसङ्कीर्तनस्याक्रियार्थत्वेनासदर्धत्वेन चाप्रामाण्योपपत्तेरित्यर्थः ॥ ३ ॥ त० वा०–यदि तावद्गर्गत्रिरात्रब्राह्मणवेदानुमन्त्रणज्ञानकाले विद्यमानयोरेव मुखशोभावाजिजन्मनोः संकोर्तनं न धर्मं प्रति प्रमाणम् । अथ त्वविद्यमानयोः

३ ] प्रथमाध्याये द्वितीयपादः ३१ ततः स्वार्थेऽपि। वर्त्तमानापदेशाच्च प्रत्यक्षानुपलब्धिविरोधः, कर्मानुष्ठानयोग्य- पुरुषकरणाद्विद्यासंस्कारस्य दीक्षिततीर्थस्नानादिवन्निराकाङ्क्षत्वात्फलविधित्वं निराकरिष्यते पौनरुक्त्यात् तर्हि अत्र न विचारयितव्यमत आह—तेन फल- विधित्वान्निराकृतस्येहाऽऽनर्थक्यार्थवादत्वविचार इति। स्तुत्यर्थताऽपि चासत्यस्य नास्तीति व्यवस्थितमेव ॥ ३ ॥ न्या० सु०-अत्र भाष्यकारेण 'शोभतेऽस्य मुखमि' त्याद्युदाहृत्य आद्यन्तावत्सूत्रं योजितम्, यदि भूतानुवादोऽनर्थक इति तद्व्याचष्टे—यदि तावदिति। गर्गत्रिरात्रब्राह्मणोपक्रमोपन्या- सस्य य एवं वेदेत्येवं शब्दव्याख्यानार्थत्वं गर्गत्रिरात्रब्राह्मणग्रहणेनोक्तम्। उदाहरणान्तर- गतैवंशब्दस्य व्याख्यानार्थं वेदानुमन्त्रणग्रहणम्। विद्यमानयोरेवेत्यनेन यथादृष्टवचनत्वं भूतशब्दस्य दर्शितम्। सम्भवति च गर्गत्रिरात्राहोनविशेषविधायित्राब्राह्मणज्ञस्य परिहार- सूत्रवक्ष्यमाणप्रकारेण मुखशोभा, वेदानुमन्त्रणज्ञस्य तु वाजिनन्मेति मन्त्रलिङ्गादपि गम्यते। प्रकृतसूत्रयोजनार्थम् अथाध्ययनफलानुवाद इति भाष्यं तद्व्याचष्टे—अथ त्विति। मुख्यरूपयोर्मुखशोभावाजिनन्मनोर्योग्यानुपलब्धिबोधितत्वादिति भावः। कालान्तरफलत्वेन योग्यानुपलब्धिविरोधपरिहारशङ्कानिराकरणार्थत्वेन सौत्रतथाशब्दव्याख्यानार्थं कालान्तर इत्यादिभाष्यं तद्व्याचष्टे—वर्त्तमानापदेशाच्चेति। तदनेन यथाभूतं मुखशोभाद्यनन्तर- फलत्वेन कीर्त्त्यते तथाभूतस्याभावादानर्थक्यमिति सूत्रं योजितम्। फलविधित्वेन कालान्तर- भावित्वावगमात् वर्त्तमानापदेशो ऽयं न भवतीत्याशङ्क्य 'द्रव्य संस्कार कर्मस्वि' त्यत्र निराकरिष्यमाणत्वान्नायं फलविधिरिति भाष्यकृतोक्तम्। तत्र विद्याया द्रव्यदि- बाह्यत्वात्तदधिकरणविषयत्वमाशङ्क्य संस्कारान्तर्गतिं दर्शयितुमाह—कर्मानुष्ठानेति। तत्र हि 'यस्य पर्णमयी जुहूर्भवति' न स पापं श्लोकं शृणोति। तीर्थे स्नाति, तीर्थमेव समानानां भवति। वर्म वा एतद्यज्ञस्य क्रियते यत्प्रयाजा, इज्यन्ते वर्मं यजमानस्य भ्रातृव्याभिभूत्या, इत्यादीनि द्रव्यादिविषयाणि वाक्यान्युदाहृत्य किमेते फल- विधयः फलार्थवादा वेति विचारयिष्यते। तत्र पर्णतादेरप्राप्तत्वेनावश्यविधेयस्य फला- काङ्क्षायां साक्षात्पुरुषार्थरूपश्रुतफलसम्भवे पारम्पर्य्यपुरुषार्थरूपक्रतूपकाराख्यफलकल्पना- योगात्फलविधित्वेन पूर्वपक्षयित्वा, यथाकथंचित्पुरुषार्थरूपफलत्वेन विध्यनुपपत्तिपरि- हाराद्रात्रिसत्रादिवद्विपरिणामकल्पनानुपपत्तेर्यथाश्रुतवर्त्तमानफलत्वसङ्कीर्त्तनस्य चानुप- लब्धिविरोधान्न फलविधित्वमिति सिद्धान्तयिष्यते। चिन्तयिष्यतेतदित्यादिभाष्यं पौन- रुक्त्याशङ्कानिराकरणार्थत्वेन व्याचष्टे—न पौनरूक्त्यादिति। एवं तर्हि सिद्धान्त्यभिमतं स्तुत्यर्थत्वमेव पूर्वपक्षिणा निराकार्यमित्याशङ्क्य तदर्थमेव स्वार्थसत्यत्वनिरूपणमित्याह— स्तुत्यर्थतेति ॥ ३ ॥ अर्थवाद वाक्यों से अन्य प्रमाणों से सिद्ध विषयों से विरुद्ध विषयों का निर्देश किया गया है, जिसका विश्लेषण पूर्व सूत्र के द्वारा उपलब्ध है। किन्तु, इतना ही नहीं, वरन्, १. ब्र प्रक्रम्योच्यते।

सूत्रं तत्प्रदर्शनपूर्वं योजयति-यदीति । सर्वकामावाप्ति-सर्वलोकाभिजय-मृत्युतरणा-

३२ मीमांसादर्शनम् [ सू० ऐसे भी फलों के विषय कहे गये हैं जो नहीं हो सकते हैं। जैसे:-"शोभतेऽस्य मुखं य एवं वेद" (ताण्ड्यमहाब्राह्मण २०।१६।६) "जो व्यक्ति इस प्रकार जानता है, उसका मुख शोभयमान होता है"। यह फल नहीं हो सकता है, कारण, इस प्रकार जानने से मुख कैसे शोभायमान हो सकता है ? इसी प्रकार "आस्य प्रजायां वाजी जायते य एवं वेद"। ',जो व्यक्ति इसको इस रूप में अवगत करता है, उसकी सन्तान वाजी (वाज=अन्न + इन =वाजी) अर्थात अन्नवान् या शस्यवान् होती है", इत्यादि अर्थवाद वाक्यों के फल दृष्ट नहीं होते हैं, अतः, अनेक स्थलों में अर्थवाद निष्फल अर्थात् जिस रूप के फल कहे गये हैं, उनकी प्राप्ति न होने से वे अर्थवाद अप्रमाण हैं। ॥ ३ ॥ अन्यानर्थक्यात् ॥१.२.४॥ शा०—पूर्णहुत्या सर्वान् कामानवाप्नोति, पशुबन्धयाजी सर्वांल्लोकानभिज- यति, तरति मृत्युं, तरति ब्रह्महत्याम्, योऽश्वमेधेन यजते, य उ चैनमेवं वेदेति । यदि भूतानुवादमात्रं तर्ह्यनर्थकम् । अथ फलविधिः, इतरेषामानर्थक्यम् । न ह्यकृत्वा पूर्णाहुतिमग्निहोत्रादयः क्रियन्ते । न चानिष्ट्वा अग्नीषोमीयेन सोमेन यजन्ते । न चानधीत्याश्वमेधमश्वमेधेन यजन्ते । तद्यथा, पथि जातेऽर्के मधुत्सृज्य तेनैव पथा मध्वर्थिनः पर्वतं न गच्छेयुस्तादृशे हि तत् । अपि चाऽऽहुः- “अर्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत् । इष्टस्यार्थस्य संसिद्धौ को विद्वान् यत्नमाचरेत्” इति ॥ ४ ॥ भा० वि०] विषयान्तरे तु स्वार्थपरत्वे दोषान्तरमप्याह-अन्येति । तत्राप्याद्यं सूत्रं तत्प्रदर्शनपूर्वं योजयति-यदीति । सर्वकामावाप्ति-सर्वलोकाभिजय-मृत्युतरणा- दीनां क्रियातच्छेषत्वाभावात्तद्विषयं वाक्यमनर्थकमित्यर्थः । यद्यपि फलविधित्व- मेषां पूर्वसूत्रेणैव निरस्तप्रायम् । तथाप्यभ्युपेत्य दोषान्तरं वक्तुमुत्थापयति— अथेति । अत्रान्यानर्थक्यसूत्रं योजयन्नुत्तरमाह—इतरेषामिति—ततश्च क्लृप्तबहु- विध्यनुग्रहाय पूर्णाहुत्यादिवाक्यानामेवाप्रामाण्यमिति भावः । आनर्थक्यमेव विवृणोति—नहीत्यादिना । अत्राग्निहोत्राद्यङ्गभूताग्न्युत्पादकाधानाङ्गत्वात् पूर्णाहुतेः प्राग्भावः, अग्नीषोमीयस्य च पशोरौपवसथ्येऽहनि विहितत्वात् सोम- यागात्प्राग्भावः, अश्वमेधस्य चाज्ञातस्यानुष्ठातुमशक्यत्वात् तज्ज्ञानस्य प्राग्भावः, ततश्च तैरेवाभिमतफलसिद्धेरन्यानर्थक्यमिति भावः । नन्वल्पपूर्णाहुत्यादेरपि फलसिद्ध्या महतोऽग्निहोत्रादेरानर्थक्यसंभवात् किमिति पौर्वापर्यनियमादेवानर्थक्यं व्याख्यातमित्याशङ्क्याल्पत्वादिविशेषवता- मपि समानफलानां परस्परानपेक्षाणां च यथारुच्यनुष्ठानसंभवात् नान्योनर्थक्यं दृष्टमित्यतः पौर्वापर्यनियमादेवोत्तरानर्थक्यं युक्तमिति मत्वा दृष्टान्तमाह— तद्यथेति । तेनैवेत्यवधारणेन...पन्थान्तराभावप्रतिपादकेन पौर्वापर्य नियमस्सू- चितः, दृष्टान्तनिविष्टमर्थं दार्ष्टान्तिके योजयति-तादृशं हि तदिति । उक्तमर्थं

४ ] प्रथमाध्याये द्वितीयपादः ३३ विद्वद्वचनेन दृढयति—अपि चाहुरिति। अर्के समीपे अयत्नलभ्ये फले यत्नाधानं गौरवादयुक्तमिति हेतुमाह—दृष्टस्येति ॥ ४ ॥ त० वा०] अनन्तरेणैव पूर्णाहुत्यादिफलवचनानि व्याख्यातानि विधित्वास्यु- पैत्यवादेन तु दोषान्तरमभिधीयते। पूर्णाहुतेरग्निसंस्कारत्वात्पशुबन्धस्य च ज्योति- ष्टोमोपकारकत्वादश्वमेधज्ञानस्य च संस्कारत्वान्न तावत् फलविधित्वावसरः। यदि पुनरिष्यते, ततोऽन्यानर्थक्यम् समानफलान्यपि कर्माणि यानि परस्परानपेक्षाणि क्रियन्ते, तेषां यथारुच्यनुष्ठानान्नान्यानर्थक्यकरत्वम्। पूर्णाहुतिपशुबन्धयोस्त्व- कृतयोरितरकर्मानधिकारात्। 'प्रथमं वा नियम्येतेत्यनेन न्यायेनावाप्ते फलेनो- त्तरकर्मानुष्ठानंप्रयोजनमस्तीति, तद्विध्यानर्थक्यम्। तथा च दृष्टान्तोऽपि तेनैव पथा मध्वर्थिन इति यत्रान्यः पन्थाः पर्वतस्य, तत्र गच्छेयुरपि न तु तेनैव गच्छन्ति। तस्माद् भूयसां क्लृप्तानां विधीनामनुग्रहाय वरं कल्प्यानामेवानर्थकत्वम्। न च फलविशेषार्थिनः पराणि कर्माण्यविशेषश्रवणात्। न हि समानायां श्रुतावप्रत्यक्षः सन् फलविशेषः कर्मविशेषेभ्यः शक्यः कल्पयितुम्। न च स्तुतिर सत्यत्वादिति स्थितमेव ॥ ४ ॥ न्या० सु०] अत्र भाष्यकारेण पूर्णाहुत्याद्युदाहरणेषु यदि भूतानुवादमात्रमनर्थकमित्य- नेनाद्यं सूत्रं योजयित्वाऽष्टाफलविधिरन्येषामानर्थक्यमित्यनेनान्यानर्थक्यसूत्रं योजितम्। तत्र फलाभावसूत्रमपि योजयितुं शक्यत्वात् किमिति न योजितमित्याशङ्क्यानन्तरेणैव निर्ज्ञात- पारार्थ्येषु फलविधित्वनिराकरणन्यायेनात्रापि फलाभावस्य सुज्ञानत्वादित्याह—अनन्तरेणै- वेति। कथमेषां तदधिकरणविषयत्वमित्याशङ्क्याह—पूर्णाहुतेरिति। यदीत्यादिभाष्यं व्याचष्टे—यदि पुनरिति। न ह्यकृत्वेत्यादिनान्यानर्थक्योपपादनार्थं पौर्वापर्य्यमुपन्यस्तम्। तत्र समानफलकर्माल्पत्वमात्रेणान्यानर्थक्योपपत्तेः पौर्वापर्योपन्यासो व्यर्थ इत्याशङ्कयाह— समानफलान्यपीति। अपिशब्देनाल्पत्वमहत्त्वमुपक्षिप्तमज्ञातस्यानुष्ठातुमशक्यत्वाद्युक्तमश्व- मेधज्ञानस्य तदनुष्ठानात्प्राग्भावित्वम्, पूर्णाहुतिपशुबन्धयोस्तु कथमित आह—पूर्णाहुतीति। अग्निहोत्राद्यङ्गभूताग्न्युत्पादकाधानाङ्गत्वात्पूर्णाहुतेः प्राग्भावः। स एष औपवसथ्येऽहनि द्विदेवत्यः पशुरालब्धव्य, इत्यनेन वचनेनाग्नीषोमीयस्येति भावः—प्रथमं वा नियम्येति। 'वसन्ताय कपिञ्जलानालभेत', इत्याद्युदाहृत्य किं त्र्यादयः परार्द्धपर्य्यन्ता विकल्पेनालब्धव्या उत त्रय एवैत्येकादशे चिन्तयिष्यते। तत्र बहुवचनेन द्वित्वातिरिक्तसङ्ख्यासामान्यरूप- बहुत्वमभिधायिनां तद्विशेषाकाङ्क्षायां परार्द्धातिरिक्तसङ्ख्याविशेषाभावात्तत्पर्य्यन्तत्र्यादि- संख्याविशेषाक्षेपात्समुच्चये संख्यान्तरोपजननेन सर्वविनाशापत्तेर्विकल्पेन विनियोग इति। बहुवचनेन सर्वप्राप्तौविकल्पः स्यादित्यनेन पूर्वपक्षयित्वा, प्रथमं वा नियम्येत कारणादतिक्रमः स्यादि(जै०सू०११।१।७)त्यनेन त्रिसंख्योपादानं विना चतुराद्युपादानानाशक्तेरवश्योपादेयत्रित्व- १. ब न चानिष्ट्वा० इत्यस्य प्राक्। ३

३४ मीमांसादर्शनम् [ सू० मात्रेण बहुवचनोपपत्तेरतिरिक्ताक्षेपे प्रमाणाभावात् त्रित्वनियम इति सिद्धान्तयिष्यते । दृष्टान्ते पौर्वापर्य्यादर्थमेव तेनैव पथेत्युक्तमित्याह—तथा चेति । भवत्वन्यानर्थक्यमत आह— तस्मादिति । फलविशेषार्थत्वेन तर्ह्यन्येषामर्थवत्त्वं भविष्यतीत्यत आह—न चेति । नन्वेव- मपि सिद्धान्त्यभिमतस्तुत्यर्थत्वानिराकरणात्पूर्वपक्षो न सिद्धः, अत आह—न चेति ॥ ४ ॥ अन्यका अर्थात अर्थवाद से अतिरिक्त अनेक वाक्यों की अनर्थकता होने से अर्थवाद प्रमाण नहीं है । यदि अर्थवाद का प्रामाण्य स्वीकार किया जाय, तब अनेक स्थलों में विधिवाक्य अनर्थक या विफल होने लगेंगे, इसलिए, अर्थवाद को प्रमाण नहीं कहा जा सकता है । श्रुति में कहा गया है—“तरति मृत्युं तरति पाप्मानं तरति ब्रह्महत्यां योऽश्वमेधेन यजते य उ चैनमेवं वेद” । (तै०५।३।१२।१) जो व्यक्ति अश्वमेध यज्ञ करता है, एवं जो उसका इस प्रकार (स्वरूप) अवगत करता है, वह मृत्यु का अतिक्रमण करता है, पाप से उद्धार प्राप्त करता है तथा ब्रह्महत्या से छुटकारा प्राप्त कर लेता है । इस प्रसङ्ग में यह कहना है कि अश्वमेध का स्वरूप जानने से ही पूर्वोक्त फलों की प्राप्ति होती है, जो व्यक्ति यज्ञ करता है उसको भी पूर्व में वेद का अध्ययन करना पड़ता है, अतः, अध्ययन काल में ही अश्वमेध के स्वरूप की अवगति हो जाने से “अश्वमेधेन यजेत” यह विधि निरर्थक हो जायगी, कारण, अध्ययन के बिना तो यज्ञ का अधिकारी नहीं होता है और अध्ययन से ही फल की प्राप्ति हो जाने से पुनः यज्ञ का अनुष्ठान तो व्यर्थ ही होगा, क्योंकि, यज्ञ के अनुष्ठान के सम्पादन में जो कष्ट होता है उसकी तुलना में वेदाध्ययन एवं यज्ञ- विषयक शास्त्रीयज्ञान में श्रम नगण्य है, अतः, बिना आयास के ही अभीष्ट की प्राप्ति हो जाने पर कौन बुद्धिमान् उस की प्राप्ति के लिए क्लेश सहन करने की इच्छा करेगा । इसी के उदाहरण स्वरूप भाष्यकारने कहा है— अर्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत् । इष्टस्यार्थस्य संसिद्धौ को विद्वान् यत्नमाचरेत् ॥ पथ के किनारे अकवन (आक) के वृक्ष में यदि मधु को प्राप्ति हो जाती है, तब उसकी प्राप्ति के लिए पर्वत पर क्यों जायगा ? इसी प्रकार यदि अभीष्ट विषय की अनायास सिद्धि हो जाय तब कौन विद्वान् उसके लिए विशेष परिश्रम चाहेगा ? इसी प्रकार “पूर्णाहुत्या सर्वान् कामानाप्नोति” (तै० ब्रा० ३।८।१०।५) “पूर्णाहुति के द्वारा सभी कामनाएँ सिद्ध होती हैं”। इसी प्रकार “पशुबन्धयाजी सर्वान् लोकानभिज- यति” । जो व्यक्ति निरूढपशुबन्धनामक यज्ञ करता है, वह स्वर्ग आदि सभी लोकों का लाभ करता है अर्थात् लाभ करता है इत्यादि सभी अर्थवाद अन्य विधियों के विघा- तक हैं । क्योंकि, अग्नि आधान कर्म में पूर्णाहुति देने से ही यदि सभी कामनाओं की पूर्ति हो तो अग्निहोत्र आदि कर्मों का विधान अनर्थक हो जायगा, क्योंकि, पूर्वसम्पादित अग्नि आधान के बिना अग्निहोत्र आदि कर्मों का अनुष्ठान नहीं हो सकता है और पूर्णा-

५ ] प्रथमाध्याये द्वितीयपादः ३५ हुति के बिना अग्नि आधान कर्म सम्पन्न नहीं हो सकता है । इस प्रकार निरूढपशु बन्ध- नामक यज्ञ करने से ही यदि स्वर्गलोक को प्राप्ति हो जाती है तो इसके बाद कर्तव्य रूप में विहित ज्योतिष्टोम आदि का विधान विफल हो जायगा । अतः जिन अर्थवाद वाक्यों का पारलौकिक फल कहा गया है, वे अनर्थक होने से अप्रमाण हैं, क्योंकि विधिवाक्यों का प्रमाण निश्चित होने से अर्थवाद वाक्यों के द्वारा उनकों अन्यथा नहीं किया जा सकता है अर्थात् विधिवाक्यों का आनर्थक्य या अप्रामाण्य नहीं हो सकता है । वरन् निश्चित प्रामाण्यवाले विधिवाक्यों से अर्थवाद वाक्यों का ही प्रामाण्य बाधित होता है—यही युक्ति सङ्गत है ॥ ४ ॥ अभागिप्रतिषेधाच्च ॥ १.२.५॥ शा०] 'न पृथिव्यामग्निश्चेतव्यो नान्तरिक्षे न दिवि, (तै०सं० ५।२।७) । इत्य- प्रतिषेधभागिनमर्थं प्रतिषेधन्ति । विज्ञायत एवैतदन्तरिक्षे दिवि चाग्निर्न चीयत इति । पृथिवीचयनप्रतिषेधार्थं च यद्वाक्यम्, भवेच्चयनप्रतिषेधार्थमेव तत् । अथा- प्रमाणम् । नैष विरोधो भवति । कथं तत्प्रमाणं यद् विध्यन्तरमाकुलयेत्, स्वयं चाऽऽकुलं स्यात् । न चेतव्यम्, हिरण्यं निधाय चेतव्यमिति ॥ ५ ॥ भा० वि०] स्वार्थपर्यवसानाभ्युपगमे स्वस्यैव निर्विषयत्वप्रसङ्गं वाक्यान्तरे दर्शयति—अभागीति । अत्र प्रथममभागिसूत्रं योजयति—अप्रतिषेधभागिनमिति । कथमप्रतिषेधभागित्वं चयनस्येत्याशङ्कयान्तरिक्षद्युचयनयोरप्राप्तत्वेन प्रतिषेधा- योग्यत्वं दर्शयति—विज्ञायत इति । पृथिवीचयनस्य तर्हि प्राप्तत्वात्तन्निषेधो योग्य- प्रतिषेध एवेत्यत आह—पृथिवीति । चशब्दः शङ्काद्योतकः 'इष्टकाभिरग्निं चिनुते' इत्यादिश्रुत्यन्तरिक्षादावसंभवात् पृथिव्यामेवचयनं विधत्ते, न पृथिव्यामिति च तन्निषेधे निराधारचयनासम्भवान् विधिबाध इत्यर्थः । एतेन विधिविरोधात् निषेध्याभावाच्च निषेधासंभवप्रतिपादनेन विधि- विरोधात् पर्युदसितव्याभावाच्च पर्युदासोऽपि निरस्तो वेदितव्यः । न च निषेध- पर्युदासयोर्नित्यानुवादत्वमक्रियार्थत्वेनानर्थक्यप्रसङ्गात् इति चाद्यसूत्रयोजना द्रष्टव्या । न च न पृथिव्यामिति निषेधस्य चयनविधिना सह विकल्पः, पृथि- व्यामिति विशेषणोपादानेन तत्परतयावगतस्य प्रतिषेधस्य चयनक्रियायां कल्प्य- त्वेन दुर्बलत्वादिति भावः । ननु दुर्बलेनापि प्रतिषेधेनागत्या पाक्षिकचयनविधिबाधो नातीव दोषावहे- त्याशङ्क्याह—अथेति । यदि प्रतिषेधोऽप्रमाणम्, तदापि न विरोध इत्यर्थः, प्रतिषेधाप्रामाण्यसंभवादगतिरसिद्धेति भावः । ननु पूर्णहुत्यादेरेकस्य कल्प्यस्याग्निहोत्रादिबहुक्लृप्तविधिविरोधाद्युक्तम- प्रामाण्यम्, इह तु उभयोः प्रत्यक्षत्वेनाविशेषात् कथमेकान्ततः प्रतिषेधस्यैवा-

३६ मीमांसादर्शनम् [ सू० प्रामाण्यमित्याशङ्क्याह—कथं तदिति । विध्यन्तर'मिष्टकाभिरग्निं चिनुत' इत्यादि 'हिरण्यं निधाये' तस्य गुणपरत्वाद्राष्टकाभिरित्यादिचयनोत्पत्तिवाक्य- मनेनोपलक्षितं स्वयं व्याकुलतामेव दर्शयति—न चेतव्यमिति । पृथिव्याधार- निषेधायोगादिष्टकाभिरग्निमित्यादिना चयनप्राप्तिरङ्गीकार्या, पुनरनाधारत्वेन चयननिषेधे निषेधस्यैव व्याकुलत्वात् न प्रामाण्यसंभावनेति भावः ॥ ५ ॥ त० वा०] त्रीण्यपि पृथिव्यादिवचनान्यप्रतिषेधभागिनमर्थं प्रतिषेधन्ति । अन्तरिक्षे दिवि च तावदप्राप्तत्वात्प्रतिषेधाविषयत्वम् । अतश्च पर्युदासित्वव्या- भावान्न पर्युदासः । अनन्तरिक्षे ह्यदिवि च पृथिव्यां नित्यं चयनं प्राप्तमिति तद्वि- धिरनर्थकः । अथापि निन्दानुवादस्तथाऽप्यक्रियार्थत्वमेव । पृथिवीचयनप्रतिषेध- पर्युदासौ तु चयनविध्यबाधेनाशक्यौ । बाधे च विध्यानर्थक्यम् । विकल्पेऽपि पक्षे बाधः । कामसंयोगाच्चाग्नेरस्त्येव पाक्षिकत्वम् । दुर्बलश्च प्रतिषेधः । पृथिवोपरत्वे सति चयने कल्प्यत्वात् । एतदेवास्य स्वयमाकुलत्वम् । विध्यन्तर- मेव 'हिरण्यं निधाय चेतव्यमिष्टकाभिरग्निं चिनुत एतच्चाऽऽकुलयेत् । प्ररोचना- बुद्धिस्तु नैवोत्पद्यते ॥ ५ ॥ न्या० सु०] अत्र भाष्यकृता न पृथिव्यामग्निश्चेतव्यो नान्तरिक्षे न दिवीत्यप्रतिषेधभा- गिनमर्थंप्रतिषेधन्तीति बहुवचनं प्रयुक्तम् । तदयुक्तम् । पृथिवीचयनस्य प्राप्तः प्रतिषेधभा- गित्वादित्याशङ्कयाह—त्रीण्यपीति विज्ञायत एवेति भाष्यं व्याचष्टे-अन्तरिक्ष इति ! अस्तु र्तहि पर्युदासः, अत आह—अतश्चेति । प्रतिधपेधग्रहणं पर्युदासस्याप्युपलक्षणार्थमिति भावः । उभयत्र सिद्धान्त्यभिमतं निन्दानुवादत्वं निराकर्त्तुमाद्यं सूत्रं योजयति—अथापीति । पृथिवीचयनस्याप्रतिषेधभागित्वप्रदर्शनार्थं पृथिवीचयनप्रतिषेधार्थं च यद्वाक्यं भवेत् चयननिषेधार्थमेव तदितिभाष्यं तदुपपादयति—पृथिवीति । अस्तु तद्वाधोऽत आह— बाधे चेति । विकल्पेन चयनविधेरप्यर्थवत्त्वं भविष्यत्यत आह—विकल्पेऽपीति । पाक्षिक- बाधार्थमेवायं प्रतिषेधो भविष्यति नातिरात्रे षोडशिनं गृह्णातीति वदत आह—काम- संयोगाच्चेति । पशुकामश्चिन्वीत प्रजाकामश्चिन्वीतेत्यादिभिर्वाक्यैः काम्यत्वावगमाद्विनापि प्रतिषेधं पाक्षिकत्वसिद्धेः प्रतिषेधानर्थक्यमिति भावः । न च कामाभावे पाक्षिकत्वं प्रतिषेधवशाद्भविष्यतीति शक्यं वक्तुं काम्यस्य कामनाभावे प्राप्त्यभावेन प्रतिषेधायोगात् विशेषणोपादाने च तत्परतयावगतस्यास्य प्रतिषेधस्य क्रियायां कल्प्यत्वेन दौर्बल्यान्न पाक्षिकत्वापादने सामर्थ्यमस्तीत्याह—दुर्बलश्चेति । ननु दुर्बलेनापि प्रतिषेधेनागत्या १ पाक्षिकचयनविधिबाधो नातीव दोषमावहतीत्या- शङ्क्य अथाप्रमाणं नैष विरोधो भवतीत्यनेन भाष्येण प्रतिषेधाप्रामाण्येनागतिपरिहारः १. अगत्येति दृष्टकाभिरग्नि चिन्वीतेतिवचनात्सामर्थ्यात्पृथिव्यामेव चयनं प्राप्तं तत्र न पृथिव्यामिति यथाश्रुते ऽर्थे ऽमुपपेतव्ये विधिरनर्थकः इत्यगतिः ।

६ ] प्रथमाध्याये द्वितीयपादः ३७ कृतस्तदतिस्पष्टत्वान्न वार्त्तिककृता व्याख्यातम् । ननु बहुतरक्लृप्ताग्निहोत्रादिविधिविरोधे- नैकस्य कल्प्यस्य पूर्णाहुत्यादिविधेरप्रामाण्यं युक्तम् इह तूभयोः प्रत्यक्षत्वेनाविशेषात्कथ- मेकान्ततः प्रतिषेधस्यैवाप्रामाण्यमित्याशङ्क्यानिरकरणार्थं भाष्यम्-कथं तत्प्रमाणमित्यादि । तत्र स्वयमाकुलत्वमुपपादयति-एतदेवेति । अप्राप्तस्य चयनस्य पृथिव्याधारत्वनिषेधा- योगात्प्राप्तिस्तावदङ्गीकार्या, पुनश्चानाधारचयनायोगात्तन्निषेधोऽपीत्येतदेवेत्यनेन परामृष्टम् । किं तद्विध्यन्तरमित्यपेक्षायामाह-विध्यन्तरं चेति । अस्य गुणपरत्वाच्चयनोत्पत्तिवाक्यो- पलक्षणार्थत्वं दर्शयितुमिष्टकावाक्योपन्यासः, स्तुत्यर्थत्वं चानाशङ्क्यमेदेत्याह-प्ररोचना- बुद्धिरिस्त्वति ॥ ५ ॥ भागी का अर्थ प्राप्य या प्रतिषेध के योग्य होता है, इसलिए अभागिप्रतिषेध का अर्थ अप्राप्त विषय का निषेध है, अर्थवाद वाक्य अप्राप्त का निषेध करता है, अतः अर्थवाद वाक्य अप्रमाण है । आशय यह है कि अर्थवाद के अप्रामाण्य के अन्य कारणों का निर्देश करते हुए जैमिनि ने कहा है 'अभागिप्रतिषेधात्' प्राप्त विषयों का ही निषेध होता है, क्योंकि अप्राप्त विषयों का निषेध नहीं हो सकता है । "न पृथिव्यामग्निश्चेतव्यो नान्तरिक्षे न दिवि" (तै० सं० ५-२-७) भूमि में अग्नि का चयन नहीं करना चाहिए, अन्तरिक्ष में एवं द्युलोक में अग्नि का चयन नहीं करना चाहिए, इस अर्थवाद वाक्य में अप्रसक्त अर्थात् स्वाभाविक प्रवृत्ति के अधीन अप्राप्त विषय का निषेध किया गया है, क्योंकि आकाश में या द्युलोक में अग्नि का चयन करना असम्भव होने से इन लोकों में अग्नि के चयन करने में कोई भी प्रवृत्त नहीं हो सकता है और जिस कार्य में स्वाभाविक प्रवृत्ति ही नहीं है उसके निषेध करने का कोई प्रयोजन नहीं है । इस प्रकार भूमि में अग्नि चयन का प्रतिषेध होने से अग्नि चयन विधि ही बाधित हो जायेगी, क्योंकि यदि भूमि में अग्नि का चयन नहीं किया जाय तो कहाँ अग्नि का चयन किया जायगा ? फलतः इस अर्थवाद वाक्य के द्वारा अग्नि चयन की विधि ही बाधित हो जायगी । जिस अर्थवाद से विधि बाधित होगी वह अर्थवाद प्रमाण नहीं हो सकता है । इसलिए ये अर्थवाद अप्राप्त विषय के प्रतिषेधक हैं, अतः स्वार्थ में भी प्रमाण नहीं है ॥ ५ ॥ अनित्यसंयोगात् ॥ १.२.६ ॥ शा०] अनित्यसंयोगश्च वेदप्रामाण्ये सति । परं तु श्रुतिसामान्यमात्रमिति परिहृतः । इदानीं देवैकदेशानामाक्षिप्तानां पुनरुपोद्वलक उत्तिष्ठति, बबरः प्रावाहणिरकामयत वाचः प्रवदिता स्यामिति । (तै० सं० ७।१।३०) ॥ ६ ॥ ( इति पूर्वपक्षः )

३८ मीमांसादर्शनम् [ सू० भा० वि०] स्वार्थपरत्वेऽर्थवादानां पौरुषेयत्वमपि स्यादित्याह—अनित्येति । 'बबरः प्रावाहणिरकामयते' त्याद्युदाहरणेऽनित्यसंयोगसूत्रं योजयति—अनित्येति । अनित्यसंयोगश्च स्वार्थपरत्वे प्रसज्येतेति शेषः । पूर्वपक्षे स्वार्थस्यैवाभावेना- नित्यसंयोगाभावात् अन्यानर्थक्याभागिप्रतिषेधसूत्रयोरपि स्वार्थपरत्वेऽन्यानर्थ- क्याभागिप्रतिषेधप्रसङ्गवदिति योजना प्रष्टव्या । चशब्दादक्रियार्थत्वेनार्थक्य- मित्याद्यसूत्रं योजितम् । ननु वेदाधिकरण एव 'परं तु श्रुतिमान्यमात्रमिति' सूत्रेण बबरादिशब्दानां नित्यसिद्धवाय्वाद्यर्थाभिधायित्वस्योक्तत्वात् स्वार्थपरत्वेऽपि, नानित्यसंयोगप्रसङ्ग इत्याशङ्क्याह—वेदप्रामाण्ये सतीति । तत्र हि समस्तवेदप्रामाण्याभ्युपगमेन नित्यसिद्धवाय्वाद्यर्थत्वं प्रतिपादितम्, यदा त्वर्थवादानां क्रियातच्छेषार्थत्वा- भावेन प्रामाण्यमाक्षिप्तम्, तदा वायुर्वे क्षेपिष्ठेत्यादीनामिव नित्यार्थानामप्य- प्रामाण्येन स्वार्थपरित्यागकारणाभावात् स्वार्थपरत्वे बबरादिवाक्यानामनित्य- संयोगप्रसङ्गस्योपोद्वलकस्योत्थानं युक्तमित्यर्थः । न चाध्ययनविधिवलात् सर्वस्य पुरुषार्थांपयिकत्वावगतेः कथमर्थवादानामार्नथक्यं शङ्क्यत इति आशङ्कनीयम् । अदृष्टार्थत्वेऽपि पुरुणार्थोपपत्तेः, अध्ययनविधैरेकान्ततोऽर्थपरत्वानाक्षेपकत्वादिति- भावः ॥ ६ ॥ ( इति पूर्वपक्षः ) तं० वा०] सर्वोपाख्यानेष्वन्यपरत्वासंभवात्स्वरूपप्रतिपादनादनित्यसंयोगः । स च समस्तवेदप्रामाण्ये सति कथंचिदन्यथा नीयेत । यदा तु यथैव प्रमाणानां मध्ये शब्दः, तत्रापि च वेदः प्रमाणम्, तथैव वेदेऽपि विधिमात्रं युक्त्या कल्प्यते, तदेत- रैकदेशवदनित्यार्थकदेशप्रामाण्यं यथाश्रुतार्थग्रहणादापन्नं किं निवार्येत । तस्मा- देवमादीनामनपेक्ष्यार्थमध्ययनमात्रादेव फलं कल्प्यम् । अथ वा यथैतान्युपेक्षा- फलानि, तथा तद्विषयं प्रत्यक्षमपि प्रतिपत्तव्यम् । अथ कस्मान्मन्त्रवद्यथाप्रकरणं प्रयोगकाले न प्रयुज्यते, प्रयोगरूपसामर्थ्याभावात् । न हि मन्त्राणां पाठमात्रेण विनियोगः, किं तर्हि तत्सामर्थ्यात् । न चात्र तदस्ति । अथ वा यथा तेषां पूर्वपक्षे कार्यान्तराभापादृपमात्रं ग्रहीष्यते, तथाऽत्राप्यस्तु । यत्तु सूत्रकारेणा- नित्यत्वमुक्तम्, तत्प्रामाण्यापेक्षया नाप्रयोज्यतया ॥ ६ ॥ न्या० सु०] नन्वतः परं स्वार्थेनैवानर्थक्यं प्रतिपादयतीति वार्त्तिककृद्वचनात्स्वार्थसत्यत्व- रूपानर्थक्यप्रतिज्ञायामग्रं हेतुर्गम्यते तच्च विरुद्धम् । अनित्यो ह्यत्र प्रवाहणापत्यं बबरः स्वार्थः प्रतीयते तत्रासत्यत्वे सति अनित्यसंयोग एव न स्यात् । न१ चानित्यसंयोगेनानित्य- १. यदा स्वार्थासत्यत्वरूपानर्थक्यप्रतिज्ञा तदा बबरादीनामनित्यानामर्थानामभाव इत्य- मिप्रायेणाह—नचेति ।

६ ] प्रथमाध्याये द्वितीयपादः ३९ संयोगाभावः साध्यो भवितुमर्हति—उच्यते१। अनित्यसंयोगप्रसङ्गोऽत्र हेतुर्विवक्षितः, ततश्च स्वार्थसत्यत्वेऽनित्यसंयोगप्रसङ्गात्तत्परिहारार्थं स्वार्थासत्यत्वं बबरः प्रावाहणि- रित्यादीनामेष्टव्यमिति सूत्रार्थो भवति । अनित्यसंयोगान्मन्त्रानर्थक्यमित्यत्राप्यर्थप्रकाशनपक्षे यस्य यो ऽर्थः, स एव तेन प्रकाशयितव्यः क्वचिच्चानित्यैरकर्माङ्गभूतैः स्वार्थैरर्थवन्तो मन्त्रा लक्ष्यन्त इत्युपक्रमवार्त्तिकाद्यद्येतद्विवक्षितम्, तथा सत्यादिमदर्थाभिधानाद्वेदस्य कृत्रि- मत्वेनाप्रामाण्यं प्रसज्येतेति चोपसंहारवार्तिकादनित्यसंयोगः खल्वपि भवेन्मन्त्रेष्वभिधानार्थे- ष्विति भाष्याच्चायमेवार्थः प्रतीयते । अन्यानर्थक्याभागिप्रतिषेधयोरप्येवम्२ । तत्रापि स्वार्थासत्यत्वे तयोरभावात्सूत्रव्याख्यानार्थमनित्यसंयोगश्चेति भाष्यं तत्सोपस्कारमेव द्रष्टव्यम् । अनित्यसंयोगः स्वार्थवत्त्वे प्रसज्येत तस्मादानर्थक्यमेव युक्तमिति तत्रानित्य- संयोगप्रसङ्गान्माभूत्स्वार्थस्य सत्यत्वम्, स्तुत्यर्थत्वं तु सिद्धान्त्यभिमतं निराकर्तुमशक्य- मित्याशङ्क्याह—सर्वोपाख्यानेष्विति । अयमाशयः अन्यपरत्वं ह्युच्यमानं कार्यपरत्वं वा स्यात्, स्तुतिपरत्वं वा तच्चोभयमपि प्रतीत्यनारूढत्वान्न युज्यते । तेन पारिशेष्यादर्थवत्त्व- मङ्गीकुर्वता स्वार्थपरत्वमेव वाच्यम्, तत्र चानित्यसंयोगः प्रसज्येत इति । ननु परं तु श्रुतिसामान्यमात्रमित्यत्र बबरादिशब्दानां नित्यसिद्धवाय्वादद्यर्थाभिधा- यित्वस्योक्तत्वात्स्वार्थपरत्वेऽपि नानित्यसंयोगप्रसङ्ग इत्याशङ्कानिराकरणार्थं वेदप्रामाण्ये सतीति भाष्यं तद्व्याचष्टे—स चेति । अयमाशयः—अनित्यार्थाभिधायित्वे कृत्रिमत्वेन वेदस्याप्रामाण्यापत्तेस्तत्परिहार्थं कथंचिन्नित्यसिद्धवाय्वाद्यर्थवचनत्वम् कल्पितम् । यदा तु कथंचित्प्रामाण्यं न सम्भवति तदा यथाश्रुतार्थपरित्यागकारणाभावान्न क्लेशेन बबरादि- शब्दानां वाय्वादिवचनत्वकल्पनं युक्तमिति । नन्वेवमप्रामाण्ये सति यथाश्रुतार्थपरित्याग- कारणाभावादनित्यार्थाभिधायित्वमनित्यार्थाभिधायित्वे बवरादिवाक्यानां कृतकत्वेना- प्रामाण्यमितीतरेतराश्रयमाशङ्क्येत रैकदेशवदित्युक्तम्—तस्यार्थः । यथेतरेषामनित्यसंयोग- रहितानामापो वै शान्ता इत्यादीनामेकदेशानामकियार्थत्वादप्रामाण्यम्, तथैतेषामनित्यार्था- नामप्यक्रियार्थत्वेनैवाप्रामाण्यसिद्धेर्न इतरेतराश्रयत्वमिति । नन्वध्ययनविधिबलात्सर्वस्य वेदस्य पुरुषार्थोपयिकत्वावगतेः कथमर्थवादानर्थक्यशङ्क। । अत आह—तस्मादिति । अदृष्टार्थत्वेऽपि पुरुषार्थोपयिकत्वोपपत्तेन्नैं॑कान्ततोऽर्थपरत्वमध्यापनविधिर्राक्षपतीति भावः । एवमादीनामित्यनेनैतद्दर्शयति प्रथमसूत्रव्युत्पादितमध्ययनविधेर्दृष्टार्थत्वमर्थवादेष्वेवा- सम्भवादाक्षिप्य तेन सर्वत्र विधेर्हि प्रयोजनाकाङ्क्षायां दृष्टे सम्भवत्यदृष्टं न कल्प्यमिति तत्रोक्तम् । न च सर्वत्रैकरूप्येण भाव्यमिति नियमो युक्तः । स्तोभादिष्वर्थपरत्वासम्भ- वात् । अथ तत्रापि नियतकालसामभागपूरणाद्यर्थत्वादर्थज्ञानाथंत्वाभावेऽपि दृष्टार्थत्व- १. बबरादिवाक्यानि प्रतीयमानबाधितार्थकानि सत्यत्वेऽनित्यसंयोगप्रसङ्गात् । २. साध्यं तदेव सत्यार्थत्वेऽन्यानर्थक्यप्रसङ्गात् यथार्थत्वे प्रसज्यमानाप्रतिषेधभाग्यमर्थम- निषेधकत्वादिति ।

४० मीमांसादर्शनम् [ सू० मात्रेणैकरूप्यमुच्यते । ततो ऽत्रापि यत्सम्भवति तत्प्रयोजनमित्यनेन रूपेणैकरूप्यं मत्त्वा सन्तोष्टव्यम् । यद्वा अध्ययनसंस्कृतैरक्षरैर्यच्छक्यते पुरुषार्थरूपम्, तत् कुर्यादित्यध्ययनविधिना वेदा- ध्ययनस्य शक्यफलसाधनत्वावगमादर्थवादाक्षरैः कस्य चित्पुरुषार्थरूपस्य कर्तुमशक्यत्वा- न्निष्प्रयोजनत्वमेवाङ्गीकृतमित्याह—अथ वेति । प्रत्यक्षशब्देनापरोक्षाकारवाचिना१ ग्रहण- पर्यन्तमध्यापनमभिप्रेतं तस्योपेक्षाफलत्वमुपपादयितुं हेतुतयार्थवादजनितस्य२ ज्ञानस्य हेयोपादेयार्थविषयत्वेन तद्वाक्यानामुपेक्षाफलत्वं दृष्टान्तमिषेणोक्तं द्रष्टव्यम् । अर्थपरत्वा- भावेऽपि कर्मानुष्ठानकाले उच्चारणार्थत्वसम्भवादर्थवादाध्ययनस्यादृष्टार्थत्वम्, निष्प्रयो- जनत्वं वा पूर्वपक्षिणापि नाङ्गीकार्यमित्याशङ्कते—अथेति । परिहरति—प्रयोगेति । अव्यापाररूपत्वेन मन्त्राणां व्यापारग्राहिणा करणेन साक्षाद्ग्रहणाद्योगादुच्चारणद्वारा तद्ग्रहणम्, तद्ग्रहणच्चोच्चारणार्थतेत्यन्योन्याश्रययापत्तेर्न प्रकरणपाठमात्रेण विनियोगो युक्तः, सामर्थ्यात्त्वभिधानक्रियार्थत्वावगमे तद्द्वाराप्रकरणग्रहणोपपत्तेरनुच्चारितस्या- भिधानांशक्तेः कर्म्मकालोच्चारणसिद्धिरिति भावः । मन्त्राधिकरणपूर्वपक्षन्यायेन चार्थ- वादानामर्थपरत्वाभावेऽपि कर्म्मकालोच्चारणमत्रेत्यः पूर्वपक्षी मन्यत इत्यनभिमतमपि प्रौढ्यानुजानाति—अथ वेति । अस्मिन्पक्षे सूत्रविरोधमाशङ्कयाह—यत्त्विति ॥ ६ ॥ बबर, प्रावाहणि, इत्यादि अनित्य विषयों का संयोग अर्थात् प्रतिपादन होने से भी अर्थवाद अप्रमाण है । वेद में जन्म-मरणशील मनुष्यों का उल्लेख है । जैसे:—‘‘बबरः प्रावाहणिरकामयत’’ (तै० सं० ६।१।१०।२) । ‘‘कुसुरुविन्द औद्दालकिरकामयत’’ । (तै० सं० ६।२।२।१) प्रवाहणका पुत्र बबर उद्दालकका पुत्र कुसुरुविन्द ने कामना की, इत्यादि स्थलों में पिता और पुत्र का उल्लेख मिलता है, अतः, अर्थवादवाक्यों का अप्रामाण्य है । इन सूत्रों के द्वारा पूर्वपक्ष किया गया है । अतः अर्थवाद के अप्रामाण्य सूचक पद पञ्चम्यन्त में प्रयुक्त हैं । अर्थात् इन कारणों से इनका अप्रामाण्य है । ॥ ६ ॥ सिद्धान्तः विधिना त्वेकवाक्यत्वात्स्तुत्यर्थेन विधीनां स्युः ॥१.२.७॥ [सि०] शा०] इदं समाम्नायते—‘वायव्यं श्वेतमालभेत भूतिकामः ‘वायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयति इति (तै० सं० २।१।१) । वायुर्वै क्षेपिष्ठा देवतेत्यतो यद्यपि क्रिया नावगम्यते क्रियासंबद्धं वा १. ग्रहणपर्यन्ततायां प्रत्यक्षत्वं भवतीति भावः । २. तस्य ग्रहणपर्यन्तताध्ययनस्योपेक्षाफलत्वमुपपादयितुमर्थवादवाक्यानामुपेक्षाफलत्वं दृष्टान्तमिषेण हेतुतयोक्तमिति संबन्धः । ३. अर्थवादवाक्यानामुपेक्षाफलत्वमुपपादयितुमाह—अथेति ।

७ ] प्रथमाध्याये द्वितीयपादः ४१ किंचित् तथापि विध्युद्देशेनैकवाक्यत्वात् प्रमाणम् । भूतिकाम इत्येवमन्तो विध्यु- देशः । तेनैकवाक्यभूतो वायुर्वै क्षेपिष्ठा देवतेत्येवमादिः । कथमेकवाक्यभावः पदानां साकाङ्क्षत्वाद्विधेः स्तुतेश्चैकवाक्यत्वं भवति । भूतिकाम आलभेत । कस्मात् यतो वायुः क्षेपिष्ठेति । नायमभिसम्बन्धो विवक्षितो भूतिकामेनाऽऽलब्धव्यमिति कथं र्तार्ह, आलभेत, यतस्ततो भूतिरिरिति भिन्नावभावर्थौ । उभयाभिधाने वाक्यं भिद्येत ॥ किमर्था स्तुतिरिति चेत् । कथं रोचेत ततोऽनुष्ठीयेतेति । ननु प्राक् स्तुति- वचनादनुष्ठानं भूतिकामान्तात्सिद्धम्, स्तुतिवचनमनर्थकम् । व हि । यदा स्तुति- पदसंनिधानम्, तदा पूर्वेणैव विधिः, यदा स्तुतिपदसंबन्धो, न तदा भूतिकाम- स्याऽऽलम्भो विधीयते । यथा पटो भवतीति पट उत्पद्यत इत्यर्थः । निराकाङ्क्षं च पदद्वयम् । यदा च तस्मिन्नेव रक्त इत्यपरं श्रूयते, तदा रागसंबन्धो भव- तीत्यर्थः । भवति च रक्तं प्रत्याकाङ्क्षा । एवं यदा न स्तुतिपदानि विधिशब्देनैव तदा प्ररोचना, यदा स्तुतिवचनं तदा स्तवनेन । नन्वेवं सति किं स्तुतिवचनेन यस्मिन्सत्यविधायकं मा भूत्तत् । तदभावेऽपि पूर्वविधिनेव प्रारोचयिष्यते इति । सत्यम्, विनाऽपि तेन सिध्येत्प्ररोचनम् । अस्ति तु तत्, तस्मिन् विद्यमाने योऽर्थो वाक्यस्य, सोऽवगम्यते स्तुतिः प्रयोजनं तयोः । तस्मिन्नविद्यमाने विधिना प्ररोचनमिति । ननु सत्स्वपि स्तुतिपदेषु पूर्वस्य विधिरूपत्वाद्विधिरभिप्रेतः स्यान्न विवक्ष्येत स्तुतिपदसम्बन्धः । आह—स्तुतिपदानि ह्यानर्थक्यान्यभविष्यन्सा- काङ्क्षाणि । भवन्त्वनर्थकानीति चेत । न गम्यमानेऽर्थेऽविवक्षितार्थानि भवितु- मर्हन्ति । योऽसौ विध्युद्देशः, स शक्नोति निरपेक्षोऽथं विधातुं, शक्नोति च स्तुतिपदानां वाक्यशेषी भवितुम् । प्रत्यक्षश्च वाक्यशेषभावः । अतोऽस्माद्विधेः स्तुतिमवगच्छामः ॥ ननु निरपेक्षादपि विधिमवगमिष्यामः । भवत्वेवम् । नैवं सति कश्चिद्विरोधः किंत्वशक्यः स्तुतिपदसंबन्धे सति विध्यर्थो विवक्षितुम् । वाक्यं हि सम्बन्धस्य विधायकम्, द्वौ चेत्संबन्धौ विदध्याद् भूतिकाम आलभेत, आलम्भेन चैष गुणो भविष्यतीति । भिद्येत र्तह्यवं सति वाक्यम् । अथ यदुक्तं न क्रिया गम्यते, न तत्सम्बद्धं वा किंचिदिति । स्तुत्यर्थेन विधीनां स्युः । स्तुतिशब्दाः स्तुवन्तः क्रियां प्ररोचयमाना अनुष्ठातॄणामुपकरिष्यन्ति क्रियायाः । एवमिमानि सर्वाण्येव पदानि कंचिदर्थं स्तुवन्ति विदधति । अतः प्रमाणमेवंजातीयकानि वायुर्वे क्षेपिष्ठा देवतेति ॥ ७ ॥ भा० वि०] यद्यप्यर्थवादाध्ययनस्यादृष्टार्थत्वेनोपेक्षाफलत्वेन वा तदध्ययनविधेः पुरुषार्थपर्यवसानं स्यात् । तथापि दृष्टे संभवत्यदृष्टकल्पनानुपपत्तेः, उपेक्षा-

४२ मीमांसादर्शनम् [ सू०

फलस्य च शब्दप्रमाणस्यादर्शनादर्थप्रकाशनेन चानुष्ठानोपयोगितया विध्येकवाक्य- त्वोपपत्तेः फलवदर्थावबोधपर्यन्ततामापादयन्नध्ययनविधिः अर्थवादादीनां सामान्येन धर्मप्रमित्युपयोगं दर्शयतीत्यभिप्रेत्य सिद्धान्तयति—विधिना त्वेक- वाक्यत्वादिति । यद्यपि चात्र प्राग्युदाहृत्य विशेषविनियोगाभावेनानर्थक्यं पूर्वपक्षितम्, तेष्वेव सोऽरोदीदित्येवमादिषु सिद्धान्तोऽपि दर्शयितुमुचितः । तथापि तेषां स्वार्थसत्यताप्रतिपादनेन तद्द्वारा स्तुत्युपयोगितया धर्मप्रमितिहेतुत्वप्रतिपादनात् स्वार्थसत्यानामेव स्तुत्युपयोगमात्रप्रतिपादनेन विधिशेषत्ववर्णनं लघीय इत्य- भिप्रेत्योदाहरणान्तरमाह—इदमिति । यद्यपि चार्थवादमात्रमत्रोदाहरणम्, तथापि विध्यपेक्षितप्राशस्त्यप्रतिपादनेन विध्युपयोगं दर्शयितुं सविधिवाक्य- मुदाहृतम् । यदुक्तम्—'आम्नायस्य क्रियार्थत्वादक्रियार्थानामानर्थक्यमिति', तत्र यत्क्रिया तत्सम्बन्धेनभिधायित्वं तदिष्टमेवेति सौत्रं तुशब्दं व्याकुर्वन्नाह— वायुरिति । न च तावन्मात्रेणानर्थक्यमिति वदन् विधिनेकवाक्यत्वादिति सूत्रा- वयवं व्याचष्टे—तथापीति । विधिः शब्दभावना, विधिमुद्दिशतीति वा विधि- रुद्दिश्यतेऽनेनेति वा विध्युद्देशो विधिबोधकं वचनं तेनैकवाक्यत्वाद्वायव्यं क्षेपि- ष्ठेत्यादीनां न धर्मप्रमित्यनुपयोगित्वलक्षणमप्रामाण्यमित्यर्थः । न चोद्देशपदा- धिक्यात् सूत्रार्थविनाशप्रसङ्गः, एकवाक्यत्वस्य शब्दधर्मस्य साक्षाद्विध्यर्थेन सहा- संभवात्, द्वारमात्रतयोद्देशग्रहणात् । यद्वा विधिशब्दस्य शब्दार्थयोः प्रयोगदर्श- नात् शब्दपरतया व्याख्यानेऽपि न दोषः । अयमाशयः—स्वाध्यायाध्ययनविधिना तावत्समस्तस्य वेदराशेः पुरुषार्थ- पर्यवसायित्वमवगतम्, न चार्थवादाः श्रुत्यैव पुरुषार्थसाधनं कश्चिदर्थमवगम- यन्ति, न च विध्येकवाक्यतामन्तरेण लक्षणा, तेन समभिव्याहारावगतविध्येक- वाक्यत्वबलेन लक्षणया प्राशस्त्यज्ञानं कुर्वन्तोऽर्थवादाः फलभावनाभाव्यायां विधिभावनायामुपकरिष्यन्तो नानर्थका भविष्यन्तीत्याह—प्रमाणमिति । ननु सार्थवादस्यैव विधेः अंशत्रयविशिष्टविधिभावनाबोधकत्वेन विध्युद्देश- त्वात् कथं तेनार्थवादानामेकवाक्यत्वमत आह—भूतिकाम इति । केवलविधि- भावनाविषयः प्रत्ययोऽत्र विध्युद्देश इति भावः । न चैवं प्रत्यय इत्येव वाच्यम्, न भूतिकाम इत्येवमन्त्रे हीति वक्तव्यम् । अंशत्रयविशिष्टभावनाविषयशब्दभावना- प्रतिपत्त्युत्तरकालमेव स्तुत्याकाङ्क्षति सूचनार्थत्वादिति द्रष्टव्यम् । नन्वर्थवादानां पुरुषार्थपर्यवसानाकाङ्क्षायामपि विधेः प्रवर्त्तनास्वरूपत्वेन प्राशस्त्यानपेक्षत्वात् सत्यपि समभिव्याहारे कथमेकवाक्यभाव इति चोदयति— कथमिति । विधिविषयस्य धात्वर्थस्यायासस्वरूपत्वेन पुरुषस्य तत्र रुच्यनुत्पत्तौ

७ ] प्रथमाध्याये द्वितीयपादः ४३ विधेः प्रतिबद्धशक्तित्वेन प्रवर्तकत्वासम्भवात्, तदुत्पत्तेश्च प्राशस्त्यज्ञानाधीनत्वा- द्युक्तमेकवाक्यत्वमिति परिहरति-पदानामिति। विधेः स्तुतेश्च साकाङ्क्षत्वा- द्विविधिस्तुतिपदानामेकवाक्यत्वमिति सम्बन्धः। विधेः स्तुत्याकाङ्क्षामभि- नयति-भूतीति। ननु विधिभावनायाः इतिकर्त्तव्यतापेक्षा कथमित्येवंरूपा स्यादर्थभावनाया इव तत्र कथं कस्मादित्याकाङ्क्षा दर्शिता, नैष दोषः इतिकर्त्तव्यताविषयैवा- काङ्क्षा यदा भावनासंबन्धितया निरूप्यते, तदा कथमित्येवंरूपा। यदा तु प्रवर्त्तितव्यं मयेति प्रतिपुरुषसंबन्धितया निरूप्यते, तदा कस्मादित्येवंरूपा तत्राकाङ्क्षायाः पुरुषधर्मत्वेन भावनायामुपचरितत्वान्मुख्यामेव पुरुषापेक्षा- माश्रित्य-कस्मादित्युक्तमिति। तत इति। यस्मात् क्षैप्रगुणकवायुदैवतसाध्यं कर्मक्षिप्रफलदत्वात् प्रशस्तमित्यर्थः। ननु यद्यपि विधेः प्ररोचनापेक्षया प्रवर्तकत्वम्, तथापि न स्तावकापेक्षा विधेरेव प्राशस्त्यज्ञापनद्वारा प्ररोचनायामपि व्यापारोपपत्तेरत आह-नाय- मिति। भूतिकाम आलभेत कस्मात् ? यतो वायुर्वैक्षेपिष्ठा देवतेत्यनेन योऽयं विधिस्तुतिसंबन्धः सार्थवादस्य विध्युद्देशस्यार्थो दर्शितः। नायं भूतिकामेना- लब्धव्यमित्यनेन विध्युद्देशमात्रेण विवक्षित इति संबन्धः-कथं तर्हीति। केन तर्ह्ययं विवक्षित इत्यर्थः, उत्तरमालभेतेति मध्यप्रतीकेन समस्तो विध्युद्देशोऽ- भिमतः-तत इति। पूर्ववाक्यप्रकृतवायूपरामर्शः तेन च क्षैप्रगुणयुक्तस्य वायोः क्षिप्रमेव फलप्रापकत्वप्रतिपादकत्वम्, स एवैनं भूतिं गमयतीत्येतदन्तं वाक्य- मुपलक्षितम्। तेनायमर्थः सार्थवादेन विध्युद्देशेनायमभिसंबन्धो विवक्षितः- न केवले नेति। ननु केवलस्यैव विध्युद्देशस्य कर्त्तव्यतारूपविधौ प्राशस्त्ये च व्यापारः किं न स्यादत आह-भिन्नाविति। यद्यपि प्रशस्तत्वात् कर्त्तव्योऽयमालम्भ इति विध्युद्देशेन प्रतिपादनेन वाक्यभेदोऽर्थैकत्वात्, तथापि केवलविशेष्यपरत्वसंभवे- ऽपि शिशिष्टपरत्वकल्पने गौरवापरपर्यायवाक्यभेदप्रसङ्गः तदवस्थ एवेत्यर्थः, यद्यपि विधिस्तुतिरूपार्थद्वयप्रतिपादनं विध्युद्देशमात्रेण न क्रियते, तथाप्यर्थ- वादानर्थक्यम्। तथाहि-प्रवृत्तिप्रतिबन्धकालस्यादिविरोधिरूपा प्ररोचनैव विधेरितिकर्तव्यता, न स्तुतिः, तयैव हि स्तुतिराकाङ्क्ष्यते। तत्र च विनैव प्ररोचनां विध्यवगतश्रेयस्साधनभावादेव प्रवृत्तिहेत्विच्छोत्पादनेन तद्विरोध्या- लस्यादिनिराससिद्धेः स्तुत्यानर्थक्यादर्थवादानर्थक्यमिति चोदयति-किमर्थेति। परिहरति-कथमिति। ननु रुचिरेव कर्मण्यनर्थिका तत्राह-तत इति। विध्यवगतश्रेयस्साधनत्व- बलादालस्यनिवृत्तावपि बहुव्ययायासदर्शनाद् द्वेषोत्पत्तेः स्तुतिसाध्यप्ररोचना-

४४ मीमांसादर्शनम् [ सू०

मन्तरेणानिरासात् साप्यनुष्ठाने हेतुरिति, तद्द्वाराऽर्थवानेवार्थवाद इति भावः । किमर्था स्तुतिरिति चोद्याभिसन्धिं विवृणोति - नन्विति । भूतिकामान्तादिति फलसाधनतावगम्यं प्रवृत्तिहेतुं सूचयति । विनैव प्ररोचनां प्रवृत्तिसिद्धौ फलित- माह—स्तुतीति । फलसाधनतावगमस्य दुःखरूपतावगमप्रतिबद्धप्रवृत्तिकरणे- च्छोत्पादकत्वासंभवात् प्रवृत्त्यङ्गप्ररोचनानिमित्ततया स्तुतिरास्थेयेति परि- हरति—नहीति । स्यादेतत् विधेः प्ररोचकस्तुत्यपेक्षायामपि नार्थवादान्वयः, विधिबलेनैव प्राशस्त्यस्याक्षेपात् । न च गौरवं दोषाय 'वसन्ताय कपिञ्जलानालभते' इत्यादी तथा दर्शनात् इति । तत्राह—यदेति । स्तुतिपदानि अर्थवादाः । पूर्वेण = विध्युद्देशेनैव । विधिसप्रयोजनः पर्यवस्येदित्यर्थः । तत्र गत्यन्तराभावाद् गौरवं- मप्याश्रीयते इति भावः । यत्र तु सार्थवादो विध्युद्देशः नैवमित्याह—यदा चेति । चस्त्वर्थः आलभ्भशब्दस्तद्विषयसप्ररोचनसमग्रः विधिपरः विधीयते प्रतिपाद्यते पूर्वेणैवेत्यनुषङ्गः, तत्र ह्यर्थवादानामेव स्तुत्या प्ररोचकत्वोपपत्तौ, न विध्युद्देश- स्यैव तदाक्षेपकत्वं गौरवावहमाश्रयणीयमिति भावः । योग्यपदान्तरानुच्चारणे तन्निरपेक्षमेव वाक्यं स्वार्थे पर्यवसितमिति, न यदुच्चारणेऽपि तथैव तत्र पर्यवस्यतीत्यत्र दृष्टान्तमाह—यथेति । अवान्तर- वाक्यस्य पदान्तरनिरपेक्षतया स्वार्थपर्यवसानप्रदर्शनाय वाक्यार्थकथनम् — घट उत्पद्यत इति । तत्फलनिरपेक्षत्वमुक्तम् निराकाङ्क्षं चेति । पदान्तरसन्निधाने तस्यैवावान्तरवाक्यस्यार्थान्तरं संभवतीत्याह--यदा त्विति । तत्फलमुक्तम्— भवति चेति । रिक्तं तत्पदं प्रतीत्यर्थं दृष्टान्तनिविष्टमर्थं दार्ष्टान्तिके योजयति-- यदा नेति । तदा विधिशब्देनैव प्राशस्त्याक्षेपेण प्ररोचनापि क्रियत इत्यर्थः । स्तवने न प्ररोचनेत्यनुषङ्गः । ननु यत्रावान्तरवाक्यस्य महावाक्यार्थे सामर्थ्यं नास्ति, तत्र तथास्तु इह तु महावाक्यार्थेऽवान्तरवाक्यस्य सामर्थ्यमभ्युपगमात् किं महावाक्येनेति शङ्कते— नन्विति । ननु विध्युद्देशस्यैव सामर्थ्येऽपि श्रूयमाणत्वात् अर्थवादानां तदर्थत्वस्याभ्यु- पगमः तत्राह—यस्मिन्निति । यस्मिन् स्तुतिवचने सति अवान्तरवाक्यमविधायकं सप्ररोचनविधिपर्यवसितं न स्यात्, तत् स्तुतिवचनं माभूत् इत्यर्थः । स्तुतिपद- परित्यागे लाभान्तरमाह—तदभाव इति । ततश्चातिलाघवमिति भावः । अपौरु- षेये वेदे लघुनोपायेन सिद्धेः, किं गुरुणेति परित्यागपरिचोदनानुपपन्नेति परिहरति—सत्यमिति । तेन स्तुतिवचनेन प्रयोजनं स्तुतिसाध्यप्ररोचना तत्स्तुतिवचनम्, परित्यागानुपपत्तौ फलितमाह—तस्मिन्निति । स्तुतिवचने

७ ] प्रथमाध्याये द्वितीयपादः ४५ विद्यमान एव योऽर्थो वाक्यस्य स्तुतिकार्या प्ररोचना, सोऽर्थोऽवगम्यते । अवगति- शब्देन तत्कार्याङ्गीकारो लक्ष्यते । तेनाङ्गीक्रियते=अङ्गीकार्यं इत्यर्थः । इतरथार्थ- वादाम्नानवैयर्थ्यादिति भावः । कोऽसौ सत्येव स्तुतिवचने विद्यमानोऽर्थस्तत्राह- स्तुतिरिति । स्तुतिद्वारां प्ररोचनम्, तच्च तयोर्विधिस्तुतिपदयोर्द्वयोः, न त्वेकैकस्य । न च तन्मतेऽर्थवादस्यैव स्तुतिरर्थः इति कथं द्विवचनेन विध्युद्देशस्यापि सोऽभि- धीयत इति अभिधातव्यं विधेरपि स्तुत्यसमर्पणेन स्तुतिहेतुतया तत्फलत्वात् स्वयमेव स्तावकस्यैवानङ्गीकारादित्यभिसन्धिः । किमिति तर्हि विधेरेव प्ररोचनायामपि सामर्थ्यं क्वचिदङ्गीकृतं तत्राह—तस्मिन्निति । अर्थवादाभावाद- गत्या गौरवमप्यङ्गीकृतमित्याशयः । ननु यद्यप्यपौरुषेयत्वाद्वेदस्य नार्थवादाम्नाने पर्यनुयोगः, तथापि न तेभ्यः प्ररोचना, किन्तु विधेरेवानर्थक्यं तु तेषामिष्टमेवेति मन्वानश्चोदयति—ननु सत्स्वपीति । पूर्वस्य विध्युद्देशस्य वसन्ताय कपिञ्जला नित्यादिकेवलविधि- सरूपत्वात्, तेनैव विधिसप्ररोचनोऽभिप्रेतः=प्रतिपादितः स्यादित्यर्थः । ततः किम्, अत आह—न विवक्ष्यतेति । स्तुतिपदानां विधिपदेन संबन्धो विद्यमानोऽपि नाभिप्रेयत इत्यर्थः । तर्हि साकाङ्क्षत्वात् स्तुतिपदान्यनर्थकानि स्युरिति यथाश्रुतमादाय परिहरति—नेति । साकाङ्क्षाणीति हेत्वर्थं विशेषणम्, परः स्वाभिप्रायं विवृणोति—भवन्त्विति । अध्ययनविधिदृष्टार्थत्वञ्चासंभवादनादेय- मेवेति परिहरति—न गम्यमानइति । अविवक्षितेतिच्छेदः, विध्येकवाक्यतया स्तुतिलक्षणया प्ररोचनमर्थवादानांर्थः । नासावसतिबाधकेऽपहेय इत्यर्थः । ननु निरपेक्षस्य विधेः क्वचित्पर्यवसानदर्शनं वाधकमन आह—योऽसाविति । विधातुम्=सप्ररोचनविधौ पर्यवसातुम्—वाक्यशेषं भवितुम्, स्तुत्यप्रतिपादनेन स्तावकवाक्यानां शेषीभवितुन्, अत उभयासम्भवान्न निरपेक्षविधिपर्यवसानदर्शनं बाधकमित्यभिप्रायः । ननूभयथा संभवमात्रेण कथं प्रकृते वाक्यशेषभावस्तत्राह--प्रत्यक्षश्चेति । उक्तमेतद् भूतिकाम आलभेत कस्मादित्यादिनेति भावः । उपसंहरति--अतइति । विधेरिति षष्ठी, विधिसंवन्धितोऽस्माद्वाक्यशेषादेव स्तुतिमवगच्छामः, न विधेरेवेत्यर्थः । स्यान्मतम्, यथार्थवादार्थो गम्यमानत्वान्नापहेयः तथाविधेरपि निरपेक्षस्यैव क्वचित्पर्यवसानदर्शनात् तदपि नापहेयम्, ततश्च सार्थवादेऽपि विधौ निरपेक्षस्यैव पर्यवसानं युक्तमिति चोदयति--नन्विति । विधिं सप्ररोचनमिति यावत् दूषयति--भवन्त्विति । यद्यपि यथादर्शनं केवलस्य विधेः पर्यवसानमवगम्यते, तथापि स्तुतिपदसंबन्धे सत्यवगम्यमानार्थवादार्थपरित्यागप्रसङ्गात् न केवलस्यैव पर्यवसानमित्यर्थः । विध्यर्थः सप्ररोचनः कुतोऽशक्य इत्याशङ्क्य गौरवं नाम

४६ मीमांसादर्शनम् [ सू० दोषान्तरं पूर्वोक्तं स्मारयति—वाक्यं हीति । वाक्यमिति संबन्धस्येति चैकत्व- निर्देशादेकं हि वाक्यमेकस्यैवार्थस्य प्रतिपादकमित्युक्तं भवति, संबन्धशब्दश्च संबन्धिवस्तुस्वरूपपरः, ततः किम् ? अत आह-द्वाविति। विदध्यात्=प्रतिपादयेत् विध्युद्देश इत्यर्थः । तावेव दर्शयति--भूतीति । आलभेतैष हीति विध्युत्थापिता- मेव परोचनामभिनयति, न त्वर्थवादोत्थापिताम्, तथा सति परोचनविशिष्ट- विधिविषयत्वाद्वाक्यस्य वाक्यभेदोपलक्षितगौरवापत्तिरित्यर्थः । एवं तावत्कथमेकवाक्यभाव इत्यादिनाभिमतसाधनतावबोधकस्यापि विधेः परोचनामन्तरेण प्रवर्त्तकत्वायोगात्, परोचनायाश्च प्राशस्त्यज्ञानाधीनत्वात्, तस्य च विधितो संभवदर्थवादापेक्षत्वाद्विध्येकवाक्यत्वेनार्थवादा. स्तुतिं लक्ष- यन्तः परोचनाद्वारेण प्रवृत्त्युपयोगार्थवन्त इत्युक्तम् । अधुनेममर्थं सूत्रावयवारूढं कर्तुं पूर्वपक्षोक्तमनुवदति—अतथेति। वाक्योप- क्रमार्थोऽथ शब्दः, 'वायुर्वै क्षेपिष्ठे' त्यादिना क्रिया अर्थभावना, तत्संबद्धं वा भाव्यादिनावगम्यते इति यदुक्तम्, तद्यानीत्यादिनेत्यर्थः, तत्रेदमुत्तरमिति शेषः, उत्तरत्वेनोपात्तं सूत्रांशं व्याचष्टे-स्तुतीति । स्तुतिशब्दा अनुष्ठातृणामुप- करिष्यन्तीत्यन्वयः, उपकारश्चानुष्ठातर्यतिशयः, स च सामर्थ्यम्, तच्च किंविषय- मित्यत उक्तम्-क्रियाया इति। क्रियाविषयं क्रियार्थमुपकारं करिष्यन्तीति यावत्, तेन क्रियाया इति तादर्थ्ये षष्ठी, एतेन विधेयभावनातदंशाप्रतिपादकत्वे- ऽपि तदनुष्ठापकानां विधीनामनुष्ठातर्युपकारजनने नाऽङ्गमर्थवादाः स्युरिति सूत्रा- वयवो विवृतः । कथमपकरिष्यन्तीत्यत्राह—परोचयमाना इति । अनुष्ठातृभ्य इत्यर्थात्संबध्यते कथमेते रुचि जनयन्तीत्यत उक्तम्-स्तुवन्तः क्रियामिति । तदनेन स्तुतिरेवार्थः स्तुत्यर्थः विधीनां परोचयितुमर्थ्यमानत्वात्, तेनोपकारेणेति स्तुत्यर्थेनेति सूत्रांशो विवृतः । तस्यात्सिद्धमर्थवादानामनुष्ठेयार्थपर्यवसानमिति निगमयति—एवमिति । उक्तन्यायेन सर्वाण्यपि स्तुतिपदानि कंचिद्विधेयं तत्संबद्धं वा अर्थं स्तुवन्ति सन्ति विधौ पर्यवस्यन्तीत्यर्थः । अनेनैव न्यायेन निन्दार्थवादानामपि निवृत्तिप्रतिबन्धकरागविरोधिद्वेषोत्पादनेन निषेधवाक्यैक- वाक्यतया निषेधपर्यवसानमुक्तं वेदितव्यम्। यतोऽर्थवादानामनुष्ठापकविध्यङ्ग- त्वेनानुष्ठेयार्थपर्यवसानं ततो यदुक्तम्, तस्मादेवजातीयकान्यनित्यानि न नित्य- चोदनाकार्यं कुर्वन्तीति तन्निरस्तमित्याह—अत इति । फलोपकार्याङ्गतयाधर्म- प्रमितिशेषत्वायुुक्तं चोदनावत् प्रामाण्यमित्यर्थः ॥ ७ ॥ त० वा०] पूर्वपक्षोदाहृतेष्वेव वाक्येषु सिद्धान्तेऽभिधातव्ये, किमर्थं वायव्य- वाक्यमुपन्यस्यते । केचिदाहुः । समानन्यायत्वादिदमपि तत्र, तान्यपि चेहोदाहृ- तानि द्रष्टव्यानीति । यद्यप्येवम्, तथाऽप्यपूर्वोदाहरणमभिप्रायन्तरमाकाङ्क्षति । तदभिधीयते । पूर्वोदाहृतेषु सर्वत्र स्वार्थसत्यत्वमप्याशङ्क्यते । तत्र कः प्रथममेव

७ ] प्रथमाध्याये द्वितीयपादः ४७ तत्प्रतिपादनक्लेशमङ्गीकुर्यादिति प्रसिद्धस्वार्थसत्यत्वानां स्तुतिद्वारैकवाक्यभावेन धर्मप्रमाणशेषत्वमात्रप्रतिपत्तिसौकर्यार्थं वायव्यवाक्योपन्यासः। तत्र भाष्यकाराः प्रसिद्धेनैकवाक्यत्वेन स्तुत्यर्थोपयोगं वदन्ति। एतावत्तत्र प्रथमं वक्तव्यम्। किमर्थं रूपभङ्गे न बलादेकवाक्यता; पुरुषार्थत्वं वा वेदस्योच्यते इति। लौकिक- वाक्ये तु दृष्टत्वादिति यद्युच्येत, तत्राभिधीयते। युक्तं लोके वाक्यार्थस्य प्रमाणान्तरगम्यत्पादन्यथाऽपि कल्पनम्। इह त्वत्यन्तातीन्द्रियत्वादयथाश्रुता- दीषदप्यन्यथात्वे पौरुषेयत्वमापद्येत। लोकेऽपि च यानि प्रमाणान्तरानवगता- र्थानि आप्तप्रत्ययमात्रेण श्रोतॄणां प्रमाणानि भवन्ति, तेषां नैवान्यथात्वकल्पनं लभ्यते। तत्र केचिद्वदन्ति। ‘तुल्यं च सांप्रदायिकम्’ इति यद्वक्ष्यति, तेन समस्तो वेदः पुरुषार्थ इति साध्यते। न ह्यात्मानुपकारिणं सन्तमेनं बुद्धिपूर्वकारिणः पुरुषाः प्रयत्नेन धारयेयुः। यद्यपि च केषांचिदज्ञानं भवेत्, तथाऽप्यस्मत्पूर्वाति- क्रान्ताऽनेकपरोक्षकप्रमादकल्पना निष्प्रमाणिका। तस्माद्यथा यथा पुरुषार्थता भवति, तथा तथा भङ्क्त्वाऽपि रूपं व्याख्यायत इति। न त्वेतद्युक्तमिव। कुतः? पुरुषाधीनप्रामाण्यप्रसङ्गात्। यदि ह्यक्षरानुपात्तो- ऽप्यर्थोऽस्मदादिभिरेवं कल्प्यते, यस्माद्वयं प्रयत्नेन धारयामस्तस्मादस्य पुरुषार्थतेति। तथा सत्यात्मचेष्टितवशेन प्रामाण्यमभ्युपगतं स्यात्। अथ पुरुषा- न्तरधारणमुच्यते, एवमपि तद्वशेन, तैरप्येवमन्यवशेनेत्यनादित्वेऽपि सत्यन्ध- परम्परान्यायेन सर्वेषां परप्रत्ययान्न क्वचित्प्रामाण्यावस्थानम्। सर्वत्र ह्येवमयं पुरुषो वेदेति प्रत्ययो, नैवमयमर्थ इति। तेन यद्यपि तेषु तेष्वध्येतृषु नूनं पुरुषार्थं वेदं मन्यन्त इत्यभिप्रायोऽनुमीयते, तथाऽपि निर्मूलत्वात्तन्मात्रेणासिद्धिः। अतो यावद्वेद एव पुरुषार्थतया सकलमात्मानं न प्रतिपादयति तावदप्रमाणम्। तदुच्यते। सकलस्य तावद्वेदस्य ‘स्वाध्यायोऽध्येतव्य’ इत्यध्ययनभावना विधीयते। तत्र किं भावयेदित्यपेक्षायामध्ययनमित्यागतमपि पुरुषप्रवर्तनाशक्ति- युक्तेन विधायकेनापुरुषार्थसाध्यायां भावनायां प्रवर्तनाशक्तिप्रसक्तेस्तदंशात्क्षिप्ता- क्रियते। ततश्चाध्ययनेनेत्यविरोधात्संनिधेश्च करणांशे निविशते। तेन किमि- त्यपेक्षिते ‘यच्छक्यते’ इत्युपबन्धादक्षरग्रहणमित्यापतति। तस्याप्यपुरुषार्थ- त्वात्तेन किमिति, पदावधारणमित्युपतिष्ठते, तेनापि पदार्थज्ञानम्, तेन वाक्यार्थ- ज्ञानम्, तेन चानुष्ठानम्, अनुष्ठानेन स्वर्गादिफलप्राप्तिरित्येतावति प्राप्ते निरा- काङ्क्षीभवति। एवं सर्वविधीनां प्राक् पुरुषार्थलाभादपर्यवसानम्। न च सहसैव विधिदर्शनात्स्वर्गाद्येव फलं कल्प्यते। योग्यतया हि यस्य यत्रानन्तरभाविनि व्यापारे लक्ष्यते, तदेव तस्य कार्यमित्यवधार्यते। तत्र यदि तावत्तदनुसारेणैव कियत्यप्यध्वनि फलमासाद्यते, ततो नान्तरा कल्पनमर्हति। पारम्पर्यप्रयोजने-

४८ मीमांसादर्शनम् [ सू०

नापि श्रुतविध्युपपत्त्या, अन्यथानुपपत्तिलक्षणार्थापत्त्यनुत्पादात् । यत्र त्वनन्तरं दृष्टं कार्यं न स्वयं पुरुषार्थो नाऽपि पारम्पर्येण तमाप्नोति यथा होमस्याऽऽहव- नीयप्राप्तिः, भस्मसाद्भावो वा । तत्र तदतिक्रमेण साक्षात्कर्मण एवादृष्टकल्पना । सर्वत्र चैतल्लक्षयितव्यम् । यत्र तु विहिते फलाकाङ्क्षिणि तदनात्मककार्यपरम्परायां सत्यामान्तरालिकं किंचित्क्रतवे, पुरुषार्थाय वा चोद्यते, तत्र तदेव तत्साधनम् । पूर्वस्य तु विधेस्तदु- पकारार्थतया पर्यवसानम् । यानि तूत्तरविधेः कार्याणि, प्राक्तानि साध्यसाधन- भावेनाचोदितत्वान्नान्तरीयकत्वेन काष्ठादीनामिव ज्वालादीनि पूर्वविहितकर्म- स्वव्यापारमात्रतया मन्तव्यानि । यत्र तु पारम्पर्यजन्यं न किंचिदन्तरा विधीयते, तत्र सर्वाणि स्वव्यापारी- कृत्य विधेयस्यैव स्वयं फलसाधनता । तत्र यानि तावत्क्लृप्तकल्पयिष्यमाणपुरुषार्थ- साधनविधिवाक्यानि, तानि तत्प्रतिपादनं यावत्स्वाध्यायाध्ययनविधिना नीयन्ते, परतस्तु फलवत्त्वं ज्ञातमेवेति न तद्यावत्प्राप्यन्ते । यानि तु तत्प्रकरणे पठ्यन्ते, तान्यपि तथैवाक्षरग्रहणादिक्रमेण स्वार्थावबोधनं यावद्गतानि न साक्षात् क्रत्वङ्गं भवन्ति । कुतः ? कथमित्यदृष्टोपायापेक्षेण क्रतुना दृष्टार्थत्वादक्षरादिष्वन- वसजता तद्विहितं कर्ममात्रमेव हि प्रयोजनद्वारेणोपादीयते, नान्यत् । अतः प्रधानवाक्यतुल्यान्यङ्गानि भवन्ति । तद्वाक्यानि तु बाह्यतराण्यध्ययनादिवत् । एवं प्रोक्षणादिवाक्यानां व्रीह्यादिसंस्कारमात्रफलावसितानां तण्डुलपिष्ट- पुरोडाशद्रव्यवदानादिभिर्व्यवहिततरः प्रधानसंबन्धः । एवमेवानारभ्याधीतारा- दुपकारकसामवायिकाङ्गवाक्यानि योजयितव्यानि । तत्र त्वेतावान्विशेषः । यदप्रकरणस्थत्वादक्षराण्यस्पृष्टप्रधानमर्थमेव १ संबध्यते । यानि त्वाधानादि- वाक्यानि तान्यपि फलवत्क्रत्वङ्गाहवनीयादिसंस्कारप्रतिपादनावसायिनि दूरस्थे- नैव फलेन निराकाङ्क्षीक्रियन्ते । एतेन क्रत्वर्थकर्तृप्रतिपादनद्वारेणोपनिषदां नैराकाङ्क्ष्यं व्याख्यातम् । मन्त्रनामधेययोस्तु स्वाधिकारे योजना वक्ष्यते । तेन सर्वेषां भावनान्तर्गतिरुपपन्ना । यत्त्वर्थवादानां भावनांशत्रयानन्तःपातित्वादग्रहणमिति, तत्राभिधीयते । सत्यम्, अतिरिक्तं न गृह्यते । अस्तित्वन्तर्गतिः । कथम् ? इह हि लिङ्गादियुक्तेषु वाक्येषु द्वे भावने गम्येते शब्दात्मिका, चार्थात्मिका च । तत्रार्थात्मिकयाऽर्थ- वादा नापेक्ष्यन्ते । शब्दात्मिकया तु ग्रहीष्यन्ते । सा ह्येवं प्रवर्तते स्वाध्याया- ध्ययनविधिनेतरे सर्वे विधायकाः स्वाध्यायपदोपात्तश्चाऽऽत्मा नियुज्यते भावये- दिति । तत्र लिङादीनां प्रयोजककर्तृत्वम्, पुरुषः प्रयोज्यस्तेन किमित्यपेक्षायां पुरुषप्रवर्तनमिति संबध्यते । अथ तु योग्यतयैव लिङादिविषया क्रियोच्यते

१. स्पृशन् ।

७ ] प्रथमाध्याये द्वितीयपादः ४९ प्रवर्तयेदिति । ततः किमित्यपेक्षते पुरुषमित्येव संबध्यते । यद्यपि चाचेतनत्वा- ल्लिङादिष्वेवंविधं प्रयोजकत्वं न संभवति, तथाऽपि पुरुषस्य प्रयोज्यस्य प्रयोज- कत्वानुपपत्तेस्तद्गतचैतन्यद्वारेण विधायकानां प्रयोजकता । यदि चैवं न कल्प्येत, नैवेषां विधायकत्वव्यपदेशो भवेत् । अथ केनेत्यपेक्षिते पूर्वसंबन्धानुभवापेक्षेण विधिविज्ञानेनेति संबध्यते । कथमिति ? प्राशस्त्यज्ञानानुगृहीतेनेति । कुत एतत् ? बुद्धिपूर्वकारिणो हि पुरुषा यावत्प्रशस्तोऽयमिति नानुबुध्यन्ते, तावन्न प्रवर्तन्ते । तत्र विधिशक्तिरवसीदति, तां प्राशस्त्यज्ञानमुत्तम्भाति । तच्च पुरुषार्थत्वे फलांशे सर्वस्य स्वयमेवानुष्ठानं भवतीति प्रसिद्धत्वान्न वेदादुत्पद्य- मानमपेक्ष्यते । साधनेतिकर्तव्यतयोस्त्वप्रवृत्तपुरुषनियोगाच्छास्त्रमेव प्राशस्त्य- प्रतिपादनायाऽऽकाङ्क्ष्यते । तत्पुनः केन क्रियेतेति साधनापेक्षायां यदि वा फल- पदेन निवर्त्येत, प्रशस्तोऽयं भूतिफलत्वात् । अथ वा विधिनैव, सर्वदोषाशङ्का- विनिर्मुक्तवेदविहितत्वादिति । अथ वा विशिष्टद्रव्यदेवतेतिकर्तव्यतायुक्तत्वा- दिति । तत्र फलपदादीनामर्थान्तरोपयोगात्पुनरन्यत्राप्युपयोगो न युज्यते । विध्युत्तरकाला चेयमाकाङ्क्षा, पूर्वं च फलपदादिनिवेशः । तस्मादपि न तैर्नि- वर्त्यते । लक्षणा चैतेभ्यः कल्प्यते । न च श्रौतार्थसंभवे सा युक्ता । युगपच्चो- भयवृत्तिविरोधात्प्राशस्त्यपरत्वे फलादीनि न स्युः । न ह्यन्यशास्त्रे सत्युपाय- मात्रत्वेनोपात्तानामेकान्तेन पारमार्थिकत्वमिति वक्ष्यते । अत एव चार्थाद्गम्य- मानमन्यपरत्वाच्छब्दानां न प्राशस्त्यं प्रयोजनं भवति । न हि यद्यत्प्रतीयते तत्तच्छास्त्रफलमवसीयते । यथा पूर्वो धावतीत्युक्ते यद्यप्यपरो गम्यते, तथाऽपि न कार्येण युज्यते । तद्वत्प्ररोचना गम्यमानाऽपि न कार्यान्तरोपयुक्तशास्त्रार्थ- त्वेनावतिष्ठते । अन्यथानुपपत्त्या चेयं तेभ्यः कल्प्येत । सर्वप्रमाणप्रत्यस्तमये चान्यथानुपपत्तिर्भवति । प्रमाणाभावाच्च यः सर्वप्रकारं प्रयतमानस्य स प्रमाणम् । तद्यपि केनचिदुपदेशेन वा अतिदेशेन वा न लप्स्यामहे, ततो दविर्हो- मम्यायेन विध्युद्देशस्यैव द्वे शक्ती कल्पयिष्यामः । अथ तु केनचिद् दूरस्थेनापि सेत्स्यति, ततस्तदनुसारस्तावत्कर्तव्य इत्येवं साकाङ्क्षो विधिरास्ते । तथा वायुर्वे क्षेपिष्ठा देवतेत्येवमाद्यपि स्वाध्यायाध्ययनविधिना पुरुषार्थतयोपनीतं यच्छक्यते, तत्कुर्यादित्यपबन्धाच्च सहसैव तेनासंबध्यमानमपुरुषार्थत्वेन च पूर्ववदक्षरादिष्वपर्यवस्यद् भूतान्वाख्यानवाक्यार्थं यावद्भूतम् । तत्रापि तु साका- ङ्क्षमेवेति, यस्तेन लक्ष्यमाणः साधनानुरूपसाध्योत्पत्तिद्वारेण क्षिप्रदेवतासाध्यं कर्म क्षिप्रमेव फलं दास्यतीति प्राशस्त्यरूपोऽर्थः, सोऽनन्तरप्रवृत्तविध्युद्देशा- काङ्क्षितत्वात्पुरुषार्थे द्वारतां शक्नोति प्रतिपत्तुमिति परिगृह्यते । सोऽयं नष्टा- श्वदग्धरथवत्संप्रयोगः । एवं च न प्ररोचनाऽन्यकृता कर्माङ्गम् । न चार्थवाद- पदैः प्रयोजनान्तरं साधनीयमित्याम्नानसामर्थ्यादुभयोर्नियमः । एतेन प्रतिषेधा- ४