मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
खं. ९ अ. १६ पान ५४ ☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸ गाणेशस्य च भावस्य विस्मृतिं मा कुरु प्रभो। गणेशपादजं मोहं धारयेः सत्यभावतः ॥१२॥ सांगं गणेश्वरस्यैव कुरु सर्वं विशेषतः। गणेशात्न परं श्रेष्ठं तस्मात्तन्निष्ठको भव ॥१३॥ गाणपत्यस्य मार्गस्य सेवनं कुरु सर्वदा। साक्षिरूपं गणेशानं ज्ञात्वा हृत्स्थं भजस्व च ॥१४॥ गणेशात्नैव भिन्नोऽहं भावयस्व निरंतरम्। एवं नवप्रकारैस्तं भज त्वं भक्तिसंयुतः ॥१५॥ बाह्यांतरं गणेशार्थं कुरु त्वं कर्म चादरात्। नवधा खंडभावेन पूर्णभक्तो भविष्यसि ॥१६॥ अथो चतुर्विधां भक्तिं कथयामि शृणुष्व ताम्। कायिकां वाचिकां पूर्णां मानसीं नित्यदा कुरु ॥१७॥ तथा सांसर्गिकीं दक्ष तस्याश्चिह्नं वदाम्यहम्। गणेशार्थं सदा देहश्रमं कुरु महामते ॥१८॥ गणेशभावहीनां यां वाचं मा त्वं वदस्व ताम्। गणेशचिंतनं तद्वागणेशे भावकस्य वा ॥१९॥ गणेशभक्तियुक्तानां संगतिं कुरु सर्वदा। एवं भजस्व भक्त्या त्वं भक्तराजो भविष्यसि ॥२०॥ भक्तिः सा द्विविधा दक्ष मानवैः क्रियते परा। पाखंडसंयुता पूर्णा देवप्रीत्यर्थमेव वा ॥२१॥ देहे विषयभोगार्थं भजनं संप्रवर्तते। पाखंडिनां सदा दक्ष लोकमोहकरं परम् ॥२२॥ पाखंडभजनस्यैव चिह्नं मुख्यं वदाम्यहम्। तच्छृणु त्वं हितार्थाय लोकानां लोकतारक ॥२३॥ सर्वाहंकारनिर्मुक्तः पाखंडी दृश्यते जनैः। जना मोहयुता येन भवंति भजनं यतः ॥२४॥ यत्र येषां रुचिर्दक्ष यादृशी तादृशं सदा। करोति तत्र यत्नेन सर्वभावं प्रदर्शयन् ॥२५॥ येनैव विषयाणां च प्राप्तिः संजायते परा। तादृशं भजनं तस्य परं भवति सर्वदा ॥२६॥ अथवा चैकनिष्ठः स भवति देवतत्परः। स्वदेवभक्तान् संमोह्य भुंक्ते दुष्टोऽर्थलालसः ॥२७॥ स्वदेवभजने सक्ता जनाः स्वल्पमतो बहु। तेषां रुचिप्रमाणेेन भवति भजनं यतः ॥२८॥ जनानां मोहदा भक्तिः कथिता ते प्रजापते। पाखंडिभिः सदा पूर्णा सेव्यते सा रुचिप्रदा ॥२९॥ पाखंडसंयुता नित्यं भक्तिं कुर्वंति शाश्वतीम्। चांडालास्ते मताः शास्त्रे देवानां दुःखदायकाः ॥३०॥ सत्यसंकल्पसिद्ध्या ते संयुतं देव- मुत्तमम्। संगृह्य भिक्षुकं दुष्टाः कुर्वंतेऽधः प्रगामिनः ॥३१॥ अथ देवप्रियां भक्तिं शृणुष्व सुसमाहितः। विचार्य हृदये भक्तिं कुरुते देवतुष्टये ॥३२॥ सदा देवपरो भूत्वा भजतेऽनन्यमानसः। लोकानां तत्र संभूयाद्रुचिर्वा ह्यरुचिः कदा ॥३३॥ लोका निंदंति तं भक्तमुत्तमाश्च स्तुवंति वा। ताननादृत्य देवस्य प्रीत्यर्थं भजते सदा ॥३४॥ स्वकीये हृदये सोऽपि विचार्य कुरुते सदा। भक्तिं यां तां प्रजानाति देवस्तस्य हृदि स्थितः ॥३५॥ यदा दैवस्य मार्गस्यापमानं वा ह्यनादरम्। कुर्वंति तान् परित्यज्य तदा भजति सर्वदा ॥३६॥ लोकानां रुचिदं तस्य भजनं जायते कदा। कदा तेषां विरुद्धं वा भक्त्या ☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸
खं. ९ अ. १६ | पान ५५
तद्देवतुष्टिदम् ॥३७॥ अनेन विधिना दक्ष भजस्व गणनायकम् । गाणपत्यो न संदेहो भविष्यसि परात् परः ॥३८॥ पंच चित्तेषु यज्ज्ञानं तद्विद्धि विषयात्मकम् । तत्र रुचिविहीनस्त्वं भजस्व गणनायकम् ॥३९॥ सदा गणेश्वरे दक्ष रसोत्पत्तिः प्रजायते । चित्तस्य नान्यभावेषु यस्य भक्तः स उच्यते ॥४०॥ एतद्भक्तिरहस्यं ते कथितं भक्तिदायकम् । समासेन भजस्वैव गणेशं ब्रह्मनायकम् ॥४१॥ इमं योगं नरो यस्तु शृणुयाच्छ्रावयेत् परम् । योगिभ्यो वाऽन्यजंतुभ्यः स ईप्सित- मवाप्नुयात् ॥४२॥ नानेन सदृशं किंचिद्योगदं शास्त्रसंमतम् । अस्य श्रवणमात्रेण ब्रह्मभूतो भवेन्नरः ॥४३॥ महापापोप- पापेभ्यो मुच्यते पठनात् किल । श्रवणादस्य योगस्यांते ब्रह्म प्राप्नुयात् परम् ॥४४॥ पुत्रपौत्रादिसंयुक्तो धनधान्य- समन्वितः । आरोग्यादिसमायुक्तो लभेदंते परं पदम् ॥४५॥ सकामको लभेद्भोगान् पठनादस्य निश्चितम् । अंते ब्रह्ममयो भावी श्रवणान्नात्र संशयः ॥४६॥ योगगीतां पठेद्यस्तु निष्कामः शृणुयादथो । स विघ्नहीनतां प्राप्य ब्रह्मभूतो भविष्यति ॥४७॥ योगगीतां पठेद्यस्तु स भवेत् शांतिसंयुतः । शृणुयाद्ब्रह्मभूतश्च ज्ञानवान् स्थितिसंयुतः ॥४८॥ कर्म- निष्ठैरियं सेव्या तपोनिष्ठैः प्रजापते । तत्तत्सिद्धिसमायुक्तैरिहांते ब्रह्म चाप्यते ॥४९॥ नित्यं पठेदिमां गीतां स गणेशो धरातले । दर्शनात् पावनो नॄणां सर्वसिद्धिप्रदायकः ॥५०॥ एककालं द्विकालं वा त्रिकालं यः पठेदिमाम् । कृत्वाऽवश्यं गणेशानं स भवेत् सर्वदायकः ॥५१॥ शुक्लकृष्णचतुर्थ्यांस्तु पठेदेतां नरोत्तमः । स भुक्त्वा सकलान् भोगानंते ब्रह्म लभेत् परम् ॥५२॥ अथवा शुक्लजायां स चतुर्थ्यां भाद्रमाघयोः । ज्येष्ठे माघे च कृष्णायां पठेदीप्सितमाप्नुयात् ॥५३॥ अथवा गणराजस्य तीर्थक्षेत्रादिके गतः । पठेदिमां सुभावेन स ईप्सितमवाप्नुयात् ॥५४॥ वेदशास्त्रपुराणेषु यत् सारं समुदाहृतम् । योगगीतामयं तुभ्यं सर्वसिद्धिप्रदायकम् ॥५५॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रे चित्तभूमिनिरोधेन भक्तिरहस्यवर्णनयोगो नाम षोडशोऽध्यायः ॥ ॥ इति योगगीतासूपनिषत्सु सुगमासु द्वादशोऽध्यायः ॥ ॥ श्रीगजाननार्पणमस्तु ॥ ॥ गीताश्लोकसंख्या ॥ ५९८ ॥
मु. पु. ८
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । एतत्ते कथितं सर्वं रहस्यं परमं मया । गणेशस्य प्रजानाथ समासेन शुभप्रदम् ॥१॥ अतो भज गणाध्यक्षं सर्वेप्सितमवाप्स्यसि । मा शोकं कुरु दक्ष त्वं यज्ञध्वंसभवं परम् ॥२॥ सूत उवाच । एवमुक्त्वा ददौ तस्मै मंत्रमेकाक्षरं परम् । विधियुक्तं विधानेन मुनिर्दक्षाय मुद्गलः ॥३॥ तेन संपूजितो योगी ह्यभवद्धंतुमुद्यतः । तस्मिन् काले गणाध्यक्षः प्रकटोऽभूच्छुभप्रदः ॥४॥ मूषकोपरिसंस्थं तं सिद्धिबुद्धिसमन्वितम् । पाशांकुशरदैर्युक्तमभयं धारकं प्रभुम् ॥५॥ गजास्यं रक्तवस्त्रैः संछादितं भूषणैर्युतम् । नाभिशेषं गणैर्युक्तं प्रमोदाद्यैः सुसेवितम् ॥६॥ त्रिनेत्रमेकदंतं च महाकुक्षिं परात्परम् । दृष्ट्वा समागतं दक्षो मुद्गलो हर्षितोऽभवत् ॥७॥ उत्थाय सर्वसंयुक्तो ननाम द्विरदाननम् । दक्षश्च मुद्गलो विप्रो दंडवत् पृथिवीतले ॥८॥ ततोऽतिहर्षसंयुक्तो दक्षस्तं प्रजगाद ह । गणेशं भक्तिसंयुक्तः सरोमांचोऽश्रुसंयुतः ॥९॥ दक्ष उवाच । धन्योऽहं सर्वभावैश्च दर्शनात्ते गजानन । वेदांतागोचरोऽसि त्वं ब्रह्मरूपः समागतः ॥१०॥ धन्योऽयं मुद्गलो योगी पुराणं धन्यमुत्तमम् । मौद्गलं येन विघ्नेशो मया प्राप्तः परात्परः ॥११॥ मुद्गलेन समाख्यातं भक्त्याधीनो गजाननः । तदद्य सत्यरूपं यन् मया ज्ञातं प्रमाणतः ॥१२॥ मुद्गलस्यैव भक्त्या त्वं मोहितः सहसाऽऽगतः । त्वत्तः श्रेष्ठो गणेशान मुद्गलो नात्र संशयः ॥१३॥ एवं प्रवदतस्तस्य दक्षस्यासीन् महात्मनः । भक्ते रसः समुत्पन्नो ननर्त स हि विह्वलः ॥१४॥ आंतस्तन्न स्म जानाति कृत्यं विघ्नेश्वराय सः । जय हेरंब विघ्नेश गणेश मूषकध्वज ॥१५॥ गजानन परेश्रान जय लंबोदर प्रभो । उच्चरन् साश्रुनेत्रश्च देहातीत इवाऽभवत् ॥१६॥ एतस्मिन्नंतरे सर्वे समाजग्मुः सुरेश्वराः । शिवविष्णुमुखास्तत्रागतं ज्ञात्वा गजाननम् ॥१७॥ मुनयो भृगुमुख्याश्च नारदाद्याः सुरर्षयः । शुकाद्याः सनकाद्याश्च कपिलाद्या महामुने ॥१८॥ वसवः साध्यरुद्राश्च गंधर्वाप्सरसस्तथा । अश्विनौ शेषमुख्याश्च नागाः पर्वतनायकाः ॥१९॥ सिद्धाश्चारणमुख्याद्या असुरा धर्मपालकाः । विद्याधराः कामदुघा गावो विप्रा अनेकशः ॥२०॥ प्रणेमुर्गणराजं ते हर्षयुक्ताः प्रतुष्टुवुः । भक्तियुक्ता विशेषेणात्मानं धन्यं च मेनिरे ॥२१॥ ततः स मुद्गलो योगी विस्मितः प्रबभूव ह । पुराणश्रवणस्यैतत् दृष्ट्वा फलमनंतकम् ॥२२॥ बोधयामास दक्षं स ततो दक्षोऽतिहर्षितः । हर्षं नियम्य विघ्नेशं यथाविधि पुपूज ह ॥२३॥ ततो देवेश्वरान् देवान् विप्रादीन् योगिमुख्यकान् । पूजयित्वा पुनः सोऽपि प्रणनाम गजाननम् ॥२४॥ साश्रुनेत्रः प्रतुष्टाव भक्तिनम्रात्मकंधरः । अनु तं देवविप्राद्यास्तुष्टुवुस्तं पेरेश्वरम् ॥२५॥ सदेवर्षिर्दक्ष उवाच । नमस्ते गणेशाय सर्वात्मने ते सदा
यहाँ पृष्ठ की पंक्ति-दर-पंक्ति सटीक लिप्यंतरण (Transcription) प्रस्तुत है:
[शीर्षक]: खं. ९ अ. १७ | पान ५७
भक्तिमोहेन मोहात्मकाय । महेशादिदेवैः शुकाद्यैः स्तुताय ह्ययोगाय संयोगधारिन्नमस्ते ॥२६॥ गजाननाय वै तुभ्यं नमः परशुपाणये । गदाधराय शंखं वै धारिणे ते नमो नमः ॥२७॥ विघ्नेशाय परेशाय महाविघ्नविदारिणे । अनाधाय सनाथाय हेरंबाय नमो नमः ॥२८॥ नमो नमस्तेऽस्तु महोदराय स्वभक्तसंरक्षणतत्पराय । अभक्तकामान् विनिहंतृकाय सदा सुशांतिप्रद ते नमो वै ॥२९॥ ब्रह्मेशाय नमस्तुभ्यं सदा स्वानंदवासिने । सिद्धिबुद्धिवरायैव मूषकध्वजिने नमः ॥३०॥ दैत्यमस्तकधाराय दितिपुत्राय ते नमः । कंठाधो देवकायाय नमो सुरसुराय ते ॥३१॥ योगाय सर्वात्मकसर्वपूज्य मायाविनां मोहकराय तुभ्यम् । मायाप्रचालाय सुसिद्धिदाय धर्मस्यपालाय तु शूलपाणे ॥३२॥ अनंतलीलया नाथ स्वयं खेलसि मायया । तत्र किं वर्णयाम्येवाऽतो ब्रवीमि नमो नमः ॥३३॥ सदा योगस्वरूपाय भक्तिभावप्रदाय ते । भक्तिप्रियाय पूर्णाय भक्तवत्सल ते नमः ॥३४॥ प्रसीद पाहि विघ्नेश दासं ते भक्तिलालसम् । मां मुद्गलस्य शिष्यं वै भक्तराजस्य मानद ॥३५॥ एवमुक्त्वा गणेशानं प्रणनाम प्रजापतिः । अनु तं देवविप्राद्याः प्रणेमुस्तं परात्परम् ॥३६॥ तमुत्थाप्य गणाधीशो जगाद वच उत्तमम् । दक्षं मुद्गलमालोक्य स्वभक्तं भक्तपालकः ॥३७॥ श्रीगणेश उवाच । वरान् वृणु प्रजानाथ दास्ये ते तुष्टिमागतः । श्रवणेन पुराणस्य स्तोत्रेण मनसीप्सितान् ॥३८॥ त्वया कृतमिदं स्तोत्रं भुक्तिमुक्तिप्रदं भवेत् । यं यमिच्छति तं तं वै दास्यामि स्तोत्रपाठतः ॥३९॥ ब्रह्मप्रदं सुशांतेश्च दायकं भक्तिवर्धनम् । भविष्यति महाप्राज्ञ परं मत्प्रीतिवर्धनम् ॥४०॥ गणेशवचनं श्रुत्वा दक्षो हर्षसमन्वितः । प्रणम्य तं जगादाऽथ भक्तिनम्रात्मकंधरः ॥४१॥ दक्ष उवाच । वरदोऽसि गणाध्यक्ष तदा ते भक्तिमुत्तमाम् । देहि मे यच्च कृत्यं तदादिशः करवाणि किम् ॥४२॥ तच्छ्रुत्वा गणनाधस्तं जगाद वच उत्तमम् । ज्ञात्वा भक्तिप्रियं दक्षं हृष्टरोमा महामुने ॥४३॥ श्रीगणेश उवाच । मदीयां भक्तिमत्यंतं करिष्यसि महामते । दक्षाऽद्यप्रभृति प्राज्ञो भविष्यसि यथार्थतः ॥४४॥ यज्ञं कुरु महेशेन मया ध्वस्तं समन्वितः । किंचित् कुष्टं प्रदत्तं ते शापैः शैवैः सुखी भव ॥४५॥ योगशांतियुतो नित्यं मां भजिष्यसि सर्वदा । सर्वमान्यः सर्वमुख्यो भविष्यसि प्रजापतिः ॥४६॥ एवमुक्त्वा गणेशानो विरराम च शौनक । दक्षो हृष्टमना भूत्वा स चक्रे यज्ञमुत्तमम् ॥४७॥ संपूज्यादौ गणाध्यक्षं ततः शंभुमुखान् सुरान् । मुनीन्नागादिकान् सर्वान् विससर्ज सुहर्षितः ॥४८॥ ततो मुद्गलविप्रेशं पूजयन् भक्तिसंयुतः । उवाच तं सरोमांचो दक्षो दक्षगणाग्रणीः ॥४९॥ दक्ष उवाच । किं ददामि महायोगिन् शिष्योऽहं ते नमाम्यतः । शरीरं पादपद्मे ते समर्पितमिदं
प्रभो ॥५०॥ ततो दक्षं समानंद्य मुद्गलः प्रययौ मुने । स्वाश्रमं गाणपत्यैः संसेवितं गणपप्रियः ॥५१॥ इदं दक्षस्य माहात्म्यं कथितं ते समासतः । मुद्गलस्य तथा श्रेष्ठं सर्वसिद्धिप्रदायकम् ॥५२॥ पुराणं मौद्गलं पूर्णं कथितं योगभावितम् । सर्वमान्यं विशेषेण सर्वसंशयनाशनम् ॥५३॥ पुराणश्रवणस्यापि फलं प्रोक्तं मया परम् । श्रवणेन प्रजानाथो दक्षो दक्षो बभूव ह ॥५४॥ अधुनाऽहं गमिष्यामि स्वाश्रमं विप्रनायक । त्वदाज्ञया वद स्वामिन् किं करोमि हितं पुनः ॥५५॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खंडे योगचरिते दक्षसिद्धिप्राप्तिवर्णनं नाम सप्तदशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ शौनक उवाच । धन्योऽसि सूत सर्वेभ्यो भवान् ज्ञानाधिको मतः । समस्तत्रिभुवने नैव संशयानां विनाशकः ॥१॥ सर्वसंशयहीनोऽहं धन्यश्चाद्य त्वया कृतः । अधुना कृतकृत्यश्च जातो मुनिसमन्वितः ॥२॥ न मुद्गलसमं किंचिन् मया ज्ञातं परात्परम् । तेनोक्तं मौद्गलं सूत मुद्गलेन सहक् परम् ॥३॥ वेदशास्त्रपुराणानां नानामतनिकृंतनम् । मौद्गलं मुद्गलाकारं सर्वसारप्रकाशकम् ॥४॥ त्रैलोक्ये मुद्गलो योगी मान्यः सर्वैः प्रकीर्तितः। सर्वाभिमानहीनत्वायथार्थ- करणात् किल ॥५॥ मुद्गलेन कृतं यद्वै पुराणं मुद्गलाकृति । तस्यापमानभावेन नारकी जायते नरः ॥६॥ यामा मुद्गर- हस्तास्तं मारयिष्यंति निश्चितम् । न वक्ता कुत्र योगींद्रो मुद्गलेन सहक् भवेत् ॥७॥ न भूतो नाधुना कुत्र वर्तते सूत निश्चितम् । निरहंकारसंयुक्तं भाषणं मुद्गलस्य च ॥८॥ पुराणानि च सर्वाणि स्वस्वब्रह्मपराणि वै । अभिमानेन संगोप्य स्वदोषं प्रवदंति हि ॥९॥ यथार्थभाषणं सर्वं पुराणानां न संशयः । मुनीनां देवतादीनां स्थितस्तत्राप्यहं किल ॥१०॥ तेन भिन्नमतादीनां प्रकाशस्तेषु जायते । मौद्गलं सर्वमान्यं वै निरहंकारभावतः ॥११॥ अभिमानो महाघोरो ह्यजेयो देव- योगिभिः । मुद्गलेन समाचूर्ण्य कृतो जीवविवर्जितः ॥१२॥ अतोऽयं मुद्गलः प्रोक्त एक एव महर्षिभिः । तत्र चित्रं न वै सूत सर्वमान्यं वदेत् परम् ॥१३॥ अहो गणेशहस्तस्थो मुद्गलः पतितो भुवि । नराकारस्वरूपेणांगिरसेन प्रपालितः ॥१४॥ स एव मुद्गलो योगी योगरूपप्रकाशकः । तत्र किं चित्रकं मन्येऽभिमानैर्वर्जितात्मकम् ॥१५॥ मुद्गलस्य च दक्षस्य संवादेन युतं परम् । पुराणं चांगिरःप्रोक्तं श्रुतं शांतिप्रदं मया ॥१६॥ अधुना वद सूत त्वं पुराणस्य प्रविस्तरात् ।
खं. ९ अ. १८ पान ५९ माहात्म्यं श्रवणं चास्य कीदृशं क्रियते जनैः ॥१७॥ विधिना केन कर्तव्यं श्रवणं कैः पुरा कृतम् । के के सिद्धियुता जाताः श्रवणादस्य मानद ॥१८॥ पारायणं पुराणस्य कर्तव्यं कीदृशैः परम् । श्रवणं भिन्नखंडस्य कैः कृतं तद्वदस्व मे ॥१९॥ गणेशस्य पुराणानि चत्वारि कथितानि तु । तेषां श्रवणमात्रेण फलं किं नु लभेत् समम् ॥२०॥ अथवा भिन्नभावाख्यं फलं भवति तद्वद । येन संशयहीना वै भजिष्यामो गजाननम् ॥२१॥ सूत उवाच । एकविंशतिभेदैः स गणेशो ब्रह्म- नायकः । क्रीडति प्रणवाकारो ब्रह्मांडस्थे पुराणके ॥२२॥ ब्राह्मे द्वादशभेदैः स क्रीडते बुद्धिचालकः । निर्गुणः सगुणा- धारः प्रणवस्य प्रचालकः ॥२३॥ गाणेशे मूर्तिमान् मुख्यः क्रीडति द्वंद्वभावतः । बुद्धिस्थः प्रणवस्थः स तयोर्योगात्मका- कृतिः ॥२४॥ प्रणवात्मकभावस्योपासनाकांड उच्यते । हृदि खेलकरस्यैव क्रीडाकांडः प्रकीर्तितः ॥२५॥ मौद्गलेऽष्टविधः सोऽपि वर्णितो योगधारकः । संयोगायोगयोर्भोगाकारः पूर्णः सुशांतिगः ॥२६॥ तेषां फलं प्रवक्ष्यामि गणेशज्ञानकारकम् । तच्छ्रुत्वा मुनयः सर्वे संशयेन विवर्जिताः ॥२७॥ त्रिगुणमयकायाश्च देवाः पंच प्रकीर्तिताः । ब्रह्मा विष्णुः शिवः सूर्यः शक्तिः सर्वत्र पञ्चते ॥२८॥ अपूज्यो विधिरेके तु वदंते शास्त्रसंमतौ । मध्यस्था ये नरा विप्र ब्रह्मणो लोकगामिनः ॥२९॥ चतुर्णां भजने सक्ताः शिवादीनां नरादयः । ये ते तेषां तु लोकेषु भक्त्या गच्छंति संयुताः ॥३०॥ सगुणोपासका येऽत्र शिवादीनां गुणात्मनाम् । ते तेषां लोकमासाद्य भुंजते भोगकान् परान् ॥३१॥ पुनः पतंति भूमौ ते जन्म भाग्यसमन्विताः । भवंति कृपया तेषां प्रणवे रुचिसंयुताः ॥३२॥ ततस्ते प्रणवाकारं भजंते गणराजकम् । ब्रह्मप्राप्त्यर्थमानंदाद्यत्नवंतो न संशयः ॥३३॥ ततस्तत्कृपया युक्ता भवंति ज्ञानसंयुताः । त्यक्त्वा प्रणवसंस्थं ते भजंते बुद्धिधारकम् ॥३४॥ हृदि बुद्धि- पतिं पूर्णं भजंते यत्नसंयुताः । शमे दमे परा नित्यं नानाभावैर्विवर्जितम् ॥३५॥ बुद्धिस्थं तं समाराध्य तत्कृपायुक्त- चेतसः । भजंते गणनाथं वै शुंडादंडविराजितम् ॥३६॥ एकनिष्ठस्वभावेन तत्परा नित्यमादरात् । योगप्राप्त्यर्थमानंदाच्छम- दमपरायणाः ॥३७॥ गणेशोपासनायुक्ता मंत्रध्यानपरायणाः । गाणपत्याभिमानस्य धारकाः संभवंति ते ॥३८॥ न गणेशात् परं भावं मानयंति कदाचन । वेदशास्त्रपुराणेषु विचार्य मनुजोत्तमाः ॥३९॥ ततस्तस्य कृपायोगान् मौद्गलस्थं भजंति ते । योगशांतिपरा भूत्वा योगीशाः संभवंति वै ॥४०॥ एवं क्रमेण विप्रेद्र भवंति गणप्रियाः । विभिन्नफल- संयुक्ताः पुराणोपासका मताः ॥४१॥ प्रणवोपासका ये वै परं ते देहधारिणम् । सर्वसामान्यभावेन मानयंति गजा-
ननम् ॥४२॥ सत्यं प्रणवरूपं यत्तत्र देहधरः कथम्। तिष्ठेत्तु गणनाथोऽवयवादिभिरयं युतः ॥४३॥ सर्वमोंकार एवेदं न भिन्नं तत्र वर्तते। अनेन विधिना तेषां भजनं तस्य जायते ॥४४॥ ततः परं बुद्धिसंस्थं ये भजंति महामुने। गणेशानं सर्वसमं भावयंति न संशयः ॥४५॥ बुद्धेः परं बुद्धिसंस्थं बुद्धेः प्राकाश्यदायकम्। ब्रह्म तत्र कुतो भाति प्रणवो ह्यर्थ- संयुतः ॥४६॥ मनोवाणीविहीनं यद्ब्रह्म ब्रह्मणिगं परम्। गणेश्वरोऽन्ये तु तत्र तिष्ठंति भ्रांतिजाः कुतः ॥४७॥ एवं भजंति विघ्नेशं परं प्रणववर्जितम्। ब्राह्मे पुराणे संस्थं ते जानीहि मुनिसत्तम ॥४८॥ ततः परं गणेशानं गाणेशस्थं भजंति ये। गणैशार्थरहस्यं ते ज्ञात्वा विश्वाससंयुताः ॥४९॥ प्रणवः प्रणवाकारो गणेशः सगुणः स्मृतः। ओंकारवर्जितोऽयं तु बुद्धिस्थो निर्गुणः स्मृतः ॥५०॥ प्रणवो बुद्धिसंस्थस्तु तत्परो ब्रह्मदो भवेत्। तयोः प्रीत्यर्थमानंदादेहधारी बभूव ह ॥५१॥ गकारः प्रणवाकारो णकारो बुद्धिचालकः। तयोः स्वामी गणेशोऽयं गजवक्त्रादिचिह्नितः ॥५२॥ गाणपत्यस्वभावेन भजंते तं निरंतरम्। एकनिष्ठतया भक्त्या भवंते विप्रयोगिनः ॥५३॥ ततस्ते मौद्गले पूर्णे सेवंते भक्तिसंयुताः। त्रयाणां द्योतकं पूर्णं तेषां योगे गजाननम् ॥५४॥ योगरूपो गणेशोऽयं त्रिरूपधारकोऽभवत्। कार्यार्थं खेलसंयुक्तो मायाभ्यां नात्र संशयः ॥५५॥ प्रणवो जगदाकारश्चिदाकारो हि धीस्थितः। तयोरात्मा ततश्चायं गजवक्त्रादिचिह्नितः ॥५६॥ एवं ज्ञात्वा गणेशानं भजंते त्रिषु संस्थितम्। मौद्गलस्था सदा विप्र योगज्ञा योगरूपिणम् ॥५७॥ तत्र ते भजनं मुख्यं पंचधा कथयाम्यहम्। येन भक्त्येंद्र भूपस्त्वं भविष्यसि महामते ॥५८॥ मूर्तिसंस्थं गणेशानं भजेत् पूजादिमार्गतः। मंत्रस्तवन- कार्यैश्च देहधारिसुखप्रदैः ॥५९॥ प्रणवं जगदाकारं तत्र जीवमयं प्रभुम्। भजेत् सर्वत्र संस्थं तं सर्वेषां हितमाचरन् ॥६०॥ कस्यचित्त्वशुभं विप्र न कुर्यात् स नरोत्तमः। अनेन विधिना सोऽपि तोषयेद् गणनायकम् ॥६१॥ द्वंद्वभावं समालोक्य साक्षिवद्भाववर्जितः। बुद्धिस्थं तोषयेत् देवं विघ्नेशं भक्तिवत्सलम् ॥६२॥ धर्माधर्मादिकं सर्वं भ्रमं त्यक्त्वा महामतिः। बुद्धिभावं परित्यज्य निःसंगः स भवेत् सदा ॥६३॥ नाहं कर्ता कारयिता न देहस्थो न निश्चितम्। न बुद्धिस्थोऽहमानंदा- द्रह्माऽहं निर्मलः सदा ॥६४॥ निर्लिप्तलिप्तहीना या भक्तिः सा परिकीर्तिता। तया गणेश्वरः प्रीतो भवेदात्मा सदा- ऽमलः ॥६५॥ न गणेशादहं भिन्नो देहधर्मः प्रवर्तते। गणेशभक्तिसंयुक्तो मौद्गलस्थो भजेत् परम् ॥६६॥ स्वयं गणेश्वरो भूत्वा त्रिविधस्थं गजाननम्। त्रिभिर्मार्गैर्भजेन्नित्यं शांत्या भक्तिसमन्वितः ॥६७॥ त्रयाणां योगभावे यो गणेशश्चि-
यहाँ पृष्ठ का मूल संस्कृत पाठ पंक्ति-दर-पंक्ति (लाइन मार्कर सहित) दिया गया है:
[शीर्षक]: खं. ९ अ. १८ | पान ६१
विधो मतः। स्वयं त्रिविधकं पश्यन् भजेच्चानन्यचेतसः ॥६८॥ त्रिभिर्भावैः समायुक्तो भजेद्योगी महायशाः । गणेशं गणपाकारो मौद्गलज्ञो विचक्षणः ॥६९॥ एवं गणेश्वरस्यैव भजनं कुरु मानद । तेन योगींद्रवंचस्त्वं गाणपत्यो भवि- ष्यसि ॥७०॥ आदौ देहधरान् शंभुमुख्यान् संसेव्य वै नरः । ततो जीवस्वरूपस्थान् प्रणवाकृतिधारकान् ॥७१॥ ततो बुद्धिगतान् विप्र ततो भक्तिं लभेत् पराम् । गणेशं देहगं सोऽपि सेवतेऽनन्यभावतः ॥७२॥ ततो मौद्गलं ज्ञात्वा योगी योगपरायणः । भजते त्रिविधे संस्थं गणेशं गणपप्रियः ॥७३॥ एतत्ते कथितं सर्वं भजनं गणपस्य च । स्वरूपं त्रिविधं पूर्णं त्रिमार्गद्योतनं मुने ॥७४॥ शौनक उवाच । अष्टादश पुराणानि कथितानि विशेषतः । अन्यान्युपपुराणानि व्यासेना- मितबुद्धिना ॥७५॥ यथा वेदास्तथा सूत उपवेदाः प्रकीर्तिताः । नहि वेदसमा विप्रैर्मन्यंते वै विशेषतः ॥७६॥ तथैवो०- पुराणानि तेषु गाणेश्वरं परम् । मौद्गलं कथितं विप्रैः कथं तत्राधिकं भवेत् ॥७७॥ सूत उवाच । यथा देवपतिः प्रोक्त इंद्रः सर्वत्र विप्रपैः । उपेंद्रो विष्णुराज्यो वै कथ्यते च विनायकः ॥७८॥ इंद्रादधिकभावेन मतौ विष्णुविनायकौ । तथैवो०- पुराणानि ब्रह्मसायुज्यदानि तु ॥७९॥ आदौ श्रुत्वा पुराणानि ततः साधनसंयुतः । साधयित्वा भवेद्विप्र पात्रं चोप- पुराणके ॥८०॥ एवं जानीहि सर्वत्र पुराणेषु विशेषतः । वेदोपवेदवच्चात्र नैव ब्रह्मविनिश्चयात् ॥८१॥ मोहनार्थं जनानां वै भ्रांतिभावप्रकाशनात् । गणेशस्य स्वरूपं यद्वर्ण्यते गूढकं परम् ॥८२॥ अतो गणेश्वरस्यैव मता भक्तिः सुदुर्लभा । पूर्णपुण्यबलेनाढ्यैर्लभ्यते योगिभिः परा ॥८३॥ मौद्गलेन गणेशस्य स्वरूपं ज्ञायते जनैः । परिपूर्णं न संदेहोऽन्यथा भ्रांतिर्भविष्यति ॥८४॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे योगामृतार्थशास्त्रे नवमे खंडे दक्षमुद्गलसंवादे गणेशस्वरूपक्रमवर्णनं नाम अष्टादशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ सूत उवाच । शुचिः स्वधर्मनिष्ठः स एकभुक्तपरायणः । ब्रह्मचर्यसमायुक्तो रात्रौ सुप्यात्तथा भुवि ॥१॥ अनृतादिकमेवं संत्यजेत् सर्वं समाहितः । हविष्यान्नं च भुक्त्वा तु शृणुयादिदमुत्तमम् ॥२॥ गणेशसन्निधाने वै वने वा स्वगृहे स्थितः । शृणुयान् मौद्गलं पूर्णं योगभक्तिपरायणः ॥३॥ अथवा कामनायुक्तो निःकामो वा भवेन्नरः । शृणुयान्नियमे संस्थः स सद्यश्च फलं लभेत् ॥४॥ यत्र वक्ता भवेदस्य तत्र गत्वा महामतिः । शृणुयादथवा विप्र पुराणमिदमुत्तमम् ॥५॥ ब्राह्मणः क्षत्रियो वाऽपि वैश्यो वा शृणुयादिदम् । शूद्रश्चेत् ब्राह्मणं कंचित् पुरस्कृत्य समाहितः ॥६॥ भाद्रशुक्लप्रतिपदमारभ्य च चतुर्दिनम् । पारायणं मौद्गलस्य श्रोतव्यं तैरुपोषितैः ॥७॥ माघसंज्ञे तथा मासे तथा ज्येष्ठे प्रकीर्तितम् । पारायणं मौद्गलस्य श्रोतव्यं सर्वसिद्धये ॥८॥ अथवा भाद्रमासस्य प्रतिपत्त: समारभेत् । आश्विन्यां पूर्णिमायां तत् पुराणं च समापयेत् ॥९॥ एवं माघे तथा ज्येष्ठे सार्धमासैकमानतः । श्रोतव्यं मौद्गलं पूर्णं सर्वभावपरायणैः ॥१०॥ अथवा भाद्रमासे च प्रतिपत्त: समारभेत् । पुराणं मौद्गलं विप्र शृणुयादूर्ध्वमात्रतः ॥११॥ पुनर्भाद्रपदं प्राप्य चैकभुक्तपरायणः । प्रतिपद्यां निराहारो भवेद्यावच्चतुर्थिका ॥१२॥ पंचम्यां मौद्गलं पूर्णं समापयतु तन्नरः । एवं श्रुत्वा फलं सद्यो लभेदीप्सितमंजसा ॥१३॥ विधिं तत्र प्रवक्ष्यामि मंडपं कारयेन्नरः । तोरणादिसमायुक्तं नानाशोभासमन्वितम् ॥१४॥ आदौ गणेश्वरं तत्र पूजयेत् पुस्तकं ततः । ततो मुद्गलविप्रेंद्रं शुकं योगविशारदम् ॥१५॥ पठते मौद्गलं तत्र संस्थितौ शुकमुद्गलौ । ततः पौराणिकं शांतं पूजयेद्भावसंयुतः ॥१६॥ ततः श्रोतॄगणान् पूज्य प्रार्थयेत् स्नेहसंयुतः । पौराणिकं ततः पुण्यं शृणुयादिदमुत्तमम् ॥१७॥ अर्थेन संयुतं सर्वं मौद्गलं शृणुयान्नरः । सर्वार्थनिपुणस्तेन सर्वसिद्धियुतो भवेत् ॥१८॥ यदा चतुर्दिनैः श्राव्यं तदार्थपरिवर्जितम् । पारायणं समाख्यातं सर्वसिद्धिप्रदायकम् ॥१९॥ नित्यमुत्सवसंयुक्तो भवेद्धर्मपरायणः । नानादानरतो भूत्वा ब्राह्मणादींश्च भोजयेत् ॥२०॥ गणेशप्रीतये सर्वं कुर्या- द्धीमान्निरंतरम् । विदित्वा धन्यमात्मानं शृणुयादिदमुत्तमम् ॥२१॥ अंते गणेश्वरं सोऽपि पुराणं पूजयेत् परैः । राजोपचार- काद्यैस्तु भक्तिभावसमन्वितः ॥२२॥ ततः पौराणिकं पूज्य तोषयेत्तं धनादिभिः । रत्नाद्यैरर्हसंयुक्तः प्रार्थयेन्नम्रकंधरः ॥२३॥ तारितोऽहं त्वया नाथ पुराणश्रावकेन वै । अधुना कृतकृत्योऽहं जातस्ते पाददर्शनात् ॥२४॥ एवं प्रार्थ्य नमस्कृत्य ततः सर्वान् समागतान् । दक्षिणाद्यैः समातोष्य ततस्तं स विसर्जयेत् ॥२५॥ पौराणिकं ततो भूयः समानीय महायशाः ।
खं. ९ अ. २० पान ६३
श्रोतॄनन्यान् द्विजादींश्च भोजयेन् मोदकादिभिः ॥२६॥ ततस्तान् स नमस्कृत्य पारणं यः समाचरेत् । एवभीप्सितकं प्राप्येहांते ब्रह्ममयो भवेत् ॥२७॥ अथवा मौद्गलं विप्र शृणुयान्नित्यमादरात् । यथेच्छया समायुक्तः स्वेच्छाभोजन- कारकः॥२८॥ ब्रह्मचर्यादिहीनः स भक्तिभावसमन्वितः। गणेशप्रीतये हर्षात् सर्वसिद्धिं लभेत् पराम् ॥२९॥ अकिंचनोऽपि विप्रेश शृणुयाद्भक्तिसंयुतः । यथाशक्तिविधानेन स पूजादिकमाचरेत् ॥३०॥ शमीमंदारदूर्वाभैरथवा यः समर्चयेत् । फलं सर्वं लभेत् सोऽपि पूजादानादिजं परम् ॥३१॥ यादृशो विभवः स्वस्य तादृशं स समाचरेत् । तेन विघ्नेश्वरः प्रीतो भवेत् सर्वप्रदायकः ॥३२॥ श्लोकार्धं श्लोकपादं वा पदं श्लोकस्थमेव वा। शृणुयान्मौद्गलस्यापि स धन्यो नात्र संशयः ॥३३॥ किं पुनः श्रद्धया युक्तः पुराणं शृणुयात् परम् । संपूर्णं तस्य विप्रेश सफलं जननं भवेत् ॥३४॥ नित्यं यः शृणुयाद्भक्त्या सर्वमाप्य स विप्रप । दर्शनात् सर्वजंतूनां तारको भवति प्रभुः ॥३५॥ यथा गणेश्वरो देवस्तथाऽसौ नात्र संशयः । ब्रह्मीभूत इव प्राज्ञस्तिष्ठेद्धै भूमिमंडले ॥३६॥ एतत्ते सर्वमाख्यातं सविधिश्रवणं परम् । पठनं तु पुराणस्य मौद्गलस्य समासतः ॥३७॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खंडे योगचरिते योगामृतार्थशास्त्रे पुराणश्रवणादिविधिवर्णनं नाम एकोनविंशोऽध्यायः ॥
॥ श्रीगणेशाय नम ॥ शौनक उवाच । श्रुत्वा मौद्गलकं पूर्णं के के सिद्धिं प्रलेभिरे । तेषां चरित्रमेवं मे ब्रूहि सूत समा- सतः ॥१॥ सूत उवाच । आदौ मुद्गलयोगीशाच्छ्रुत्वा दक्षो महामतिः । स सर्वदोषहीनश्च बभूवे शांतिधारकः ॥२॥ ततो दक्षेण विघ्नेश नियमः स कृतो भवेत् । मौद्गलं नित्यमेवेदं पठनीयं निरंतरम् ॥३॥ अवकाशानुसारेण अजपन्नित्यमादरात् । अध्यायादेस्तथा तत्र नियमं न चकार ह ॥४॥ भाद्रशुक्लप्रतिपदि प्रारभ्योपोषणान्वितः । चतुर्थ्यां तत् समाप्तं पारायणं स चकार ह ॥५॥ एवं माघे तथा पारायणं ज्येष्ठे महामतिः । चकार देवविप्राद्यैः संयुतो वार्षिकं परम् ॥६॥ एवं क्रमेण भक्त्या स गजाननपरायणः । मौद्गलं सेवतेऽद्यापि गाणपत्यस्वभाववान् ॥७॥ तेनैव बोधिताः सर्वे वसिष्ठाद्या महामुने । सेवंते मौद्गलं नित्यं प्रजापतय आदरात् ॥८॥ तैश्चान्ये बोधिता विप्रा योगमार्गपरायणाः । नानाभावसमायुक्ता असेवन्निद-
मु. पु. ९
मुत्तमम् ॥९॥ एवं परंपराप्राप्तं विदुः सर्वे च जंतवः । नानाभावसमायुक्ता असेवन् मौद्गलं परम् ॥१०॥ दक्षयज्ञे समा- यातैः शिवविष्णुमुखाऽमरैः । तैर्ज्ञातं मौद्गलं पूर्णं योगदं सर्वसिद्धिदम् ॥११॥ यज्ञं समाप्य सर्वे ते स्वं स्वं धाम ययुर्मुदा । ततः शिवेन योगीशः प्रार्थितस्तत्र मुद्गलः ॥१२॥ पुराणश्रवणार्थं स प्रणम्यापूज्य भक्तितः । तुष्टस्तेन समायुक्तो जगाम शिवमन्दिरम् ॥१३॥ ततः पुराणमाहात्म्यं ज्ञात्वा विष्णुमुखाऽमराः । आययुः श्रवणार्थं ते कैलासं पर्वतेश्वरम् ॥१४॥ शिवेन संयुताः सर्वे ब्रह्माद्याः शुश्रुवुः परम् । पुराणं मौद्गलं पूर्णं मुद्गलाद्योगिसागरात् ॥१५॥ वर्षेणैकेन ते श्रुत्वा पुपूजुस्तं शिवादयः । विसृज्य मेनिरे सर्वे सस्त्रीकाः कृतकृत्यताम् ॥१६॥ गणेश्वरस्य तत्रांशः शिवपुत्रः स्थितोऽभवत् । स एव मौद्गलं नित्यं जजाप गणपप्रियः ॥१७॥ मूर्तिस्थं गणनाथं स पूज्य नित्यं महायशाः । तत्सन्निधानगो भूत्वा जजाप त्विदमुत्तमम् ॥१८॥ विश्वनाथः शिवः साक्षात् काश्यां नित्यं महामुने । जजाप नियमे संस्थो ढुंढिराजस्य सन्निधौ ॥१९॥ माघे शुक्लप्रतिपदि प्रारभ्योपोषणान्वितः । चतुर्थ्यां तत् समाप्तं पारायणं स चकार ह ॥२०॥ तथा भाद्रपदे मासि मुद्गलः शुकसंयुक्तः । मयूरेशस्य सान्निध्ये चक्रे पारायणं मुदा ॥२१॥ नित्यं जजाप भावेन गाणपत्यैः समन्वितः । महाभक्तश्च सर्वेषां तारकस्तारकाकृतिः ॥२२॥ ज्येष्ठे मासि स्वयं पारायणं शेषश्चकार ह । मूषकस्थस्य सान्निध्ये नागासुरसमन्वितः ॥२३॥ जजाप नित्यमेवं स सर्वभावसमन्वितः । भक्तियुक्तो महाभक्तः सर्वेषां हितकारकः ॥२४॥ तथा दत्तः स्वयं साक्षाज्ज्ञानेशस्य प्रतुष्टये । ज्येष्ठे परायणं पूर्णं चक्रेऽसौ भक्तिसंयुतः ॥२५॥ नित्यं जपपरो भूत्वा जजाप त्विदमुत्तमम् । नानायोगिसमायुक्तः शंकरेण समन्वितः ॥२६॥ विष्णुर्भानुर्विधिः शक्तिरिंद्रश्चाग्निमुखाऽमराः । नित्यं स्वस्वगृहे संस्थाः सेवन्ते मौद्गलं परम् ॥२७॥ कश्यपाद्या मुनींद्राश्च मुनयः सिद्धमुख्यकाः । कपिलाद्या इदं नित्यं सेवंते भक्तिसंयुताः ॥२८॥ सनकाद्याश्च संवर्तो योगिनो नव एव च । नित्यं जपपराः पूर्णं सेवन्ते मौद्गलं मुदा ॥२९॥ नारदो गानसंयुक्तश्चचार भुवनेषु च । गायन्नित्यमिदं विप्र मौद्गलं योगशांतिदम् ॥३०॥ एवं नाना जनाः सर्वे मनवश्च महर्षयः । सेवन्ते नित्यमेवेदं सर्वसिद्धिप्रदायकम् ॥३१॥ व्यासः स्वयं महाभागः सेवते नित्यमादरात् । गाणेशं मौद्गलं चैव भक्तिभावसमन्वितः ॥३२॥ एवं मया न शक्यं तत् कथितुं मुनिसत्तम । भाग्यवंतो विशेषज्ञाः सेवंते मौद्गलं सदा ॥३३॥ ॥ ओमिति मदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खंडे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे पुराणप्रशस्तिमाहात्म्यवर्णनं नाम विंशोऽध्यायः ॥
[Header] खं. ९ अ. २१ पान ६५
॥ श्रीगणेशाय नमः॥ सूत उवाच । अथ कामयुतानां यत् पुराणश्रवणे फलम् । कथयामि समासेन सर्वसिद्धिप्रदायकम् ॥१॥ अत्रिगोत्रोद्भवः कश्चिद्विप्रः सर्वार्थकोविदः । त्यक्त्वा स्वधर्मजं कर्म पापकर्मपरोऽभवत् ॥२॥ तं ज्ञात्वा पितरौ तस्य दुःखयुक्तौ बभूवतुः । सुशीला सुमुखौ नाम्ना सुमतिं वीक्ष्य दुर्मतिम् ॥३॥ सुमतिं वीक्ष्य पुत्रं तौ शिक्षयंतौ निरंतरम् । स तयोर्वचनं दुष्टो न चकार कदाचन ॥४॥ ततस्तौ दुःखसंयुक्तौ स्थितौ स्वस्याश्रमे कदा । साक्षात् मुनिवरस्तत्र भरद्वाजः समाययौ ॥५॥ संपूज्य मुनिशार्दूलं दुःखवंतावपृच्छताम् । पुत्रं सुशीलं कर्तारमुपायं सुखदायकम् ॥६॥ ततः स करुणाविष्टस्तौ जगाद महामतिः । पुत्रस्ते मौद्गलं श्रुत्वा सुशीलोऽयं भविष्यति ॥७॥ एवमुक्त्वा ययौ स्थानं भरद्वाजो महामुनिः । सुमुखः पुत्रसंयुक्तः स्त्रियाऽत्रिं प्रजगाम ह ॥८॥ तं प्रणम्य महाभागं योगींद्रं योगदायकम् । पप्रच्छ मौद्गलं कुत्र लभ्यते तद्वदस्व मे ॥९॥ तस्य तद्वचनं श्रुत्वा हर्षयुक्तो महामुनिः । अत्रिः संमान्य विप्रेशं जगाद वचनं हितम् ॥१०॥ अत्रिरुवाच । मा चिंतां कुरु पुत्र त्वं स्थीयतामाश्रमे मम । पारायणं करिष्यामि भाद्रमासेऽहमादरात् ॥११॥ तत्र त्वं मौद्गलं श्रुत्वा गच्छ पश्चात् स्वमाश्रमम् । तथेति सुमुखो हर्षात्तं प्रणम्य चकार ह ॥१२॥ अथ स्वल्पेन कालेन भाद्रनामा समाययौ । मासो मुनिगणास्तत्र श्रवणार्थं समाययुः ॥१३॥ क्षत्रियान् वैश्यकान् शूद्रांस्तान् दृष्ट्वा हर्षसंयुतः । सुमुखो विधिवत्तत्र शुश्रुवे विधिसंयुतः ॥१४॥ उपोषणपरो भूत्वा पंचम्यां ब्राह्मणैः सह । चकार पारणं सोऽपि भक्तियुक्तेन चेतसा ॥१५॥ ततस्तस्य सुतः सोऽपि सुमतिः शीलसंयुतः । बभूव धर्मसंयुक्तः स्वाचारस्थो महामतिः ॥१६॥ तत् दृष्ट्वा परमाश्चर्यं सस्त्रीकः पुत्रसंयुक्तः । गणेशभजने सक्तो योगिवंद्यो बभूव ह ॥१७॥ अंते गणेश्वरं प्राप्य ब्रह्मभूतोऽभवत् द्विजः । एतत्ते कथितं विप्र शृण्वन्यच्चित्रमुत्तमम् ॥१८॥ तत्र पारायणे कश्चिद् वृषभो दुःखसंयुतः । अशक्तत्वात् स्थितो दूरं शुश्रुवे किंचिदादरात् ॥१९॥ ममार तत्र तं नेतुं गाणपत्याः समाययुः । तान् दृष्ट्वा विस्मिताः सर्वे प्रपच्छुः परिपूज्य वै ॥२०॥ विप्राद्या ऊचुः । केन पुण्येन युष्माभिर्वृषभो नीयतेऽमराः । वदंतु गाणपवराः स्वानंदे चित्रमुत्तमम् ॥२१॥ गाणेशा ऊचुः । अयं भवत्सन्निधाने पतितो दुःखसंयुतः । शुश्राव मौद्गलं पारायणमेव महर्षयः ॥२२॥ मध्ये ममार दुःखेन पीडितोऽतितरां वृषः । अधुना ब्रह्मभूतं तं करिष्यामो न संशयः ॥२३॥ मौद्गलस्य पदं श्रुत्वा लोकस्थश्चेन् मृतो भवेत् । न तस्य पुनरावृत्तिर्भविष्यति न संशयः ॥२४॥ तेषां तद्वचनं श्रुत्वा हर्षयुक्ता महर्षयः । पप्रच्छुस्तान् पुनश्चित्रं संशयेन
खं. ९ अ. २२ पान ६६ समन्विताः ॥२५॥ विप्रा ऊचुः । अयं वृषभयोनिस्थो वयं मानवदेहजाः । अस्माभिः कथितं सर्वं ज्ञायते वृषभेण न ॥२६॥ वृषभेण यदुक्तं तद्वचनं मानवैः कदा । ज्ञायते न विशेषेण योनिभिन्नप्रभावतः ॥२७॥ अयं वृषभयोनिस्थः परं पारायणं कथम् । श्रुत्वा स तस्य माहात्म्यं फलभोक्ता भवेत् पराः ॥२८॥ गाणेशा ऊचुः । श्रवणं वृषभेणैव कृतं ज्ञानविवर्जितम् । अन्यच्छब्दप्रमातृत्वं श्रद्धाहीनेन निश्चितम् ॥२९॥ ज्ञानतोऽज्ञानतो वाऽपि यथा वह्निकणो दहेत् । संस्पृष्टश्चेन् महाभागा मौद्गलं तु तथा स्मृतम् ॥३०॥ योगामृतमयं पूर्णं मौद्गलं सर्वसंमतम् । सर्वसिद्धिप्रदं प्रोक्तं ब्रह्मीभूतकरं तथा ॥३१॥ एवमुक्त्वा ययुः सर्वे गाणेशा गणपालयम् । वृषभं गृह्य ते चित्रं ब्राह्मणा विस्मिता जगुः ॥३२॥ एवं मौद्गलजं चित्रं माहात्म्यं मुनिसत्तम । तस्य प्रभावजं तेजो वर्णितुं कः क्षमो भवेत् ॥३३॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगमृतार्थशास्त्रे दक्षमुद्गलसंवादे पारायणवर्णनं नामैकविंशतितमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ सूत उवाच । क्षत्रियो माधवः कश्चिन् मालवे संबभूव ह । अवन्तीनगरीपालः स्वधर्मनिरतः सदा ॥१॥ कांबोजः कर्णको राजा तत्र युद्धार्थमाययौ । जित्वा भूपमवंत्यां वै राज्यं चक्रे स हर्षितः ॥२॥ सस्त्रीकः पुत्रसंयुक्तः प्रधानैर्वीरमुख्यकैः । बभ्राम स वने राजा यत्र तत्र सुदुःखितः ॥३॥ ततो महावनं वीरो ददर्श व्याघ्रसंयुतम् । नानापशुयुतं तत्र प्रविवेश सुदुःखितः ॥४॥ दृष्ट्वा मुनिवरं तत्र कश्यपं सर्वदायकम् । प्रणनाम स साष्टांगं स रुरोद हि विह्वलः ॥५॥ तं तथा दुःखसंयुक्तं दृष्ट्वा पप्रच्छ कश्यपः । जगाद स यथापूर्वं वृत्तांतं शोकसंकुलः ॥६॥ ततस्तं कश्यपः प्राह मा कुरु त्वं महीपते । चिंतां शृणु स्वराज्यस्य प्रापकं तत् कुरुष्व च ॥७॥ समीपे माघमासः समागतश्च शृणुष्व तत् । मौद्गलं सिद्धिदं पारायणं पूर्णं करोम्यहम् ॥८॥ तस्य तद्वचनं श्रुत्वा हर्षयुक्तश्च माधवः । सर्वैः साकं स्थितस्तत्र पुराणश्रवणाय सः ॥९॥ तथा मुनिगणांश्चांश्च श्रवणार्थं समागतान् । क्षत्रियाचान् स तान् दृष्ट्वा हर्षयुक्तो बभूव ह ॥१०॥ विनायकं प्रतिपदि तदा पूज्य महामुनिः । उपोषणसमायुक्तः शुक्ले स्त्रीभिः समारभत् ॥११॥ पारायणं मौद्गलस्य मंडपे
यहाँ पृष्ठ का पंक्ति-दर-पंक्ति लिप्यंतरण (Transcription) तथा श्लोकार्थ प्रस्तुत है:
मूल पाठ (पंक्ति-दर-पंक्ति लिप्यंतरण):
खं. ९ अ. २२ पान ६७ विधिसंयुतः। भक्तियुक्तो महायोगी कश्यपः सर्वतत्त्ववित् ॥१२॥ तत्र चित्रं समुत्पन्नं तच्छृणुष्व महामुने। नकुलो भूमिसंस्थश्च शुश्राव भयसंकुलः ॥१३॥ अकस्माद् दुःखसंयुक्तो ममार स च गाणपाः। आययुस्तान् समालोक्य मुनिः पप्रच्छ कश्यपः ॥१४॥ कश्यप उवाच। किमर्थमागता नाथाः कार्यं वदत चोत्तमम्। वयं दासा गणेशस्य करिष्यामो जवान्विताः ॥१५॥ कश्यपस्य वचः श्रुत्वा जगुस्तं गणप्रियाः। नकुलं भूमिसंस्थं तु मृतं नेतुं समागताः ॥१६॥ पारायणस्य विप्रेश मौद्गलस्याधुना द्विज। अध्यायः संश्रुतः पूर्णोऽज्ञानतो नकुलेन वै ॥१७॥ द्वितीयेऽत्र समारब्धे ज्वरेण बहुपीडितः। मृतोऽधुना ब्रह्मभूतं करिष्यामो वयं किल ॥१८॥ मौद्गलं सिद्धिदं पूर्णं श्रुतं तेन महात्मना। अंते तेन प्रभावेण जानीहि मुनिसत्तम ॥१९॥ तेषां वचनमाकर्ण्य कश्यपः सर्वसंयुतः। विस्मितस्तान् प्रणम्यैव पारायणपरोऽभवत् ॥२०॥ गाणेशा नकुलं गृह्य ययुः स्वानंदकं पुरम्। गणेश्वरं तत्र दृष्ट्वा ब्रह्मभूतो बभूव सः ॥२१॥ चतुर्भिदिवसैः पारायणं योगी महामतिः। कृत्वा समाप्तं विघ्नेशं पूजयामास यत्नतः ॥२२॥ ततः स पारणं चक्रे पंचम्यां सर्वसंयुतः। षष्ठ्यां स्वं स्वं स्थलं जग्मुर्ब्राह्मणाद्या महामुने ॥२३॥ माधवस्तं प्रणम्यादौ प्रधानादिभिरावृतः। निर्जगाम ततः सोऽपि महाराष्ट्रं समाययौ ॥२४॥ तत्र तस्य सखा राजा भद्रको बलसंयुतः। राज्यं चकार देशस्य स्वकीयस्य महाबलः ॥२५॥ तेन सार्धं पुनः सोऽपि माधवः शस्त्रधारकः। सैन्येन संयुतः क्रुद्धः संग्रामाय समाययौ ॥२६॥ गणेशं मनसि स्मृत्वा कश्यपं स्वगुरुं परम्। जिग्ये कांबोजराजं तं युद्धं कृत्वा सुदारुणम् ॥२७॥ पपाल भयसंयुक्तोऽभवत् कर्णः पराजितः। माधवः स्वस्य राज्यं तु चकार स सुहृद्गणः ॥२८॥ भोगान्नानाविधान् राजा बुभुजे पुत्रपौत्रवान्। गणेशमभजन्नित्यं मौद्गलं तत्तथाऽशृणोत् ॥२९॥ अंते जगाम विघ्नेशं ब्रह्मीभूतो बभूव ह। पारायणस्य संश्रावमाहात्म्यात् स नरोत्तमः ॥३०॥ एवं नाना जना विप्र सिद्धिं प्राप्ता न शक्यते। वक्तुं केनापि कोऽहं तु मौद्गलश्रवणेन वै ॥३१॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खंडे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे माधवपारायणचरितवर्णनं नाम द्वाविंशोऽध्यायः ॥
श्लोक एवं संक्षिप्त हिन्दी अनुवाद:
- श्लोक १२–१४: विधिसहित, भक्तिभाव से युक्त, महायोगी और सर्वतत्त्वज्ञ कश्यप ऋषि (पारायण कर रहे थे)। हे महामुने! वहाँ एक आश्चर्यजनक घटना घटी, उसे सुनो। भूमि पर स्थित एक नेवला भयभीत होकर कथा सुन रहा था। वह अकस्मात् दुःख पाकर मर गया। तभी गणेशजी के दूत (गाणप) वहाँ पहुँचे। उन्हें देखकर मुनि कश्यप ने पूछा—
- श्लोक १५ (कश्यप उवाच): हे स्वामियों! आप किसलिए पधारे हैं? अपना उत्तम कार्य बताइए। हम सब गणेशजी के दास हैं, अतः तुरंत आपकी आज्ञा का पालन करेंगे।
- श्लोक १६–१९ (गणपूत उवाच): कश्यपजी की बात सुनकर गणेशप्रिय दूतों ने कहा—हम इस मरे हुए नेवले को ले जाने आए हैं। हे विप्रेश! इस नेवले ने अज्ञानवश मौद्गल पुराण के पारायण का एक पूरा अध्याय सुन लिया था। दूसरा अध्याय आरंभ होते ही तीव्र ज्वर से पीड़ित होकर इसकी मृत्यु हो गई। अब हम इसे ब्रह्मभूत (मुक्ति प्रदान) करेंगे। उस महात्मा नेवले ने सिद्धिदाता मौद्गल पुराण का श्रवण किया था, हे मुनिसत्तम! यह सब उसी का प्रभाव जानो।
- श्लोक २०–२१: उनके वचन सुनकर कश्यपजी अत्यंत विस्मित हुए और उन्हें प्रणाम कर पुनः पारायण में लीन हो गए। गणेशदूत नेवले को लेकर स्वानंद पुर चले गए, जहाँ उसने गणेश्वर के दर्शन कर ब्रह्मभाव प्राप्त किया।
- श्लोक २२–२४: महामति योगी कश्यप ने चार दिनों में पारायण समाप्त कर विघ्नेश का विधिवत पूजन किया। पाँचवें दिन सबने पारणा किया और छठे दिन सभी ब्राह्मण अपने-अपने स्थान को लौट गए। तदुपरांत राजा माधव भी कश्यपजी को प्रणाम कर मंत्रियों सहित अपने देश (महाराष्ट्र) पहुँचा।
- श्लोक २५–२८: वहाँ उसका मित्र महाबली राजा भद्रक राज्य कर रहा था। उसके साथ मिलकर माधव सेना सहित क्रोधपूर्वक काम्बोजराज से भीषण युद्ध करने पहुँचा। मन में गणेशजी तथा अपने परम गुरु कश्यप का स्मरण कर उसने युद्ध में काम्बोजराज को पराजित किया। भयभीत होकर कर्ण (काम्बोजराज) भाग गया और माधव ने अपने मित्रों के साथ राज्य पुनः प्राप्त कर लिया।
- श्लोक २९–३०: पुत्र-पौत्रों से युक्त राजा माधव ने विविध भोग भोगे, नित्य गणेशजी का भजन किया और मौद्गल पुराण का श्रवण किया। अंत में मौद्गल पारायण के श्रवण-माहात्म्य से वह नरोत्तम विघ्नेश के परमधाम को प्राप्त होकर ब्रह्मलीन हो गया।
- श्लोक ३१: हे विप्र! इस प्रकार मौद्गल पुराण के श्रवण से अनेक लोगों ने सिद्धियाँ प्राप्त की हैं, जिसका पूर्ण वर्णन कोई नहीं कर सकता; मैं तो एक साधारण जीव हूँ।
अध्याय समाप्ति:
॥ ॐ इति श्रीमदन्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे माधवपारायणचरितवर्णनं नाम द्वाविंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ सूत उवाच । ब्राह्मणः सुमतिर्नाम कुष्ठयुक्तो बभूव ह । संभूतो गालवे वंशे पीडां लेभे सुदारुणाम् ॥१॥ सर्वांगे भक्षितः कीटैः सदा दुर्गन्धसंयुतः । पूयशोणितघर्माद्यैर्व्याप्तः सर्वत्र विप्रप ॥२॥ ततः सोऽपि स्वदेहस्य घातार्थं उद्यतोऽभवत् । सस्मार गणपं चित्ते विघ्नहीनार्थमादरात् ॥३॥ एतस्मिन्नंतरे तत्राजगाम द्विजसत्तमः । धौम्यः सर्वार्थवित् साक्षाज्जातवेदा इवापरः ॥४॥ तं दृष्ट्वा प्रणनामादौ रुरोदे दुःखसंयुतः । सुमतिं तं प्रहस्यैव धौम्योऽगादीत् स सौख्यदम् ॥५॥ धौम्य उवाच । मा चिंतां कुरु मा देहघातं कुरु महामते । मौद्गलं शृणु भावेन रोगहीनो भविष्यसि ॥६॥ सर्वसिद्धिकरं पूर्णं ब्रह्मीभूतत्वदायकम् । मौद्गलं श्रवणेनैव चल शीघ्रं मया सह ॥७॥ एवमुक्त्वा जनैस्तस्य तं गृह्य मुनिसत्तमः । जगाम पुलहं धौम्यो नानामुनिजनैर्वृतम् ॥८॥ तत्र ज्येष्ठः समायातो मासः सर्वार्थसिद्धिदः । स्वल्पकालेन योगीशः पुलहो हर्षितोऽभवत् ॥९॥ शुक्लप्रतिपदि पारायणं प्राज्ञः समारभत् । मौद्गलस्य पुराणस्य नानाजनसमन्वितः ॥१०॥ उपोषणसमायुक्ता बभूवुस्ते महामुने । श्रवणे तत्पराः सर्वे पुलहश्च तथाऽभवत् ॥११॥ सुमतिर्धौम्यसंयुक्तस्तथाभूतो महामतिः । गणेशं मनसि ध्यात्वा परं शुश्राव मौद्गलम् ॥१२॥ चतुर्भिर्दिवसैः सोऽपि समाप्तं तच्चकार ह । पंचम्यां पारणं सर्वैश्चकार गणपे रतः ॥१३॥ सुमतिः कुष्ठहीनः स बभूवे तत्क्षणात् मुदा । तं दृष्ट्वा हर्षसंयुक्ता विस्मितास्ते बभूविरे ॥१४॥ धौम्येनानम्य पुलहं स्वाश्रमं स समाययौ । तत्र धौम्यं प्रपूज्यादौ जगाद सुमतिर्वचः ॥१५॥ सुमतिरुवाच । अस्य देहस्य कर्ता च पिता माता महामुने । त्वमेव मे न संदेहः किं करोमि त्वदीप्सितम् ॥१६॥ देहोऽयं मे मया विप्र तवाधीनः कृतः सदा । शाधि मां तदहं नित्यं करिष्यामि विशेषतः ॥१७॥ धौम्य उवाच । गणेशं भज भावेन मौद्गलेन समन्वितम् । तेन मां कृतकृत्यं त्वं करिष्यसि न संशयः ॥१८॥ एवमुक्त्वा महायोगी धौम्यः स्वाश्रमगोऽभवत् । सुमतिर्गणनाथं स मौद्गलेनाऽभजत् सदा ॥१९॥ अंते ब्रह्ममयो जातो भुक्त्वा भोगान् यथेप्सितान् । एवं ज्येष्ठाभिधे मासे पारायणफलं परम् ॥२०॥ अथान्यच्छृणु धर्मज्ञ वृत्तांतं तत्र संभवम् । पुलहो हर्षयुक्तश्चक्रे पारायणं परम् ॥२१॥ तत्र कश्चित्तु चांडाल आययौ स यदृच्छया । दूरे स्थितः पश्यति स्म किमिदं कौतुकं महत् ॥२२॥ दूरस्थेन श्रुतं तेन श्लोकस्य पदमुत्तमम् । एकं संपूर्णभावेन भक्तसंरक्षकस्य च ॥२३॥ ततः स विस्मितो भूत्वा जगाम स्वेच्छयेरितः । पापकर्मा पुनः पापं चकार विविधं मुने ॥२४॥ मृतं तं यमदूताश्च गृह्य सर्वे त्वरान्विताः । जग्मुर्देवं
खं. ९ अ. २४ पान ६९ प्रणम्यादौ ददुस्तं पापकारकम् ॥२५॥ तत्रोवाच महाबुद्धिश्चित्रगुप्तो यमं वचः । महापापी महाभाग चांडालोऽयं विशे- षतः ॥२६॥ न पुण्यस्य कदा लेशश्चांडालेन कृतः प्रभो । मौद्गलस्य पदं नाथ श्रुतमेकमनेन च ॥२७॥ एतत् सर्वं मया तुभ्यं कथितं तस्य चेष्टितम् । कुरु यद्धर्मसंयुक्तं दंडरूपं महामते ॥२८॥ चित्रगुप्तवचः श्रुत्वा धर्मो ध्यात्वा गजाननम् । विचारमकरोचित्ते किं करोमि सुखप्रदम् ॥२९॥ एतस्मिन्नंतरे तत्र सत्या वाक् तमुवाच ह । प्रहश्य नरकानेव चांडालाय महामते ॥३०॥ संतर्ज्य स्वर्गभूमीषु स्थापयस्व यथा सुखम् । तथा चकार संहर्षाद्धर्मराजः प्रतापवान् ॥३१॥ स्वस्थाने भोगसंयुक्तं कृत्वा तं स्थाप्य सूर्यजः । संस्थितस्तत्र चित्रं वै बभूवे परमाद्भुतम् ॥३२॥ गाणेशास्तं प्रगृह्यैव ययुः स्वानं- दकं पुरम् । धर्मादयस्ततः सर्वे विस्मिताः संबभूविरे ॥३३॥ एवमेकपदस्यैव मौद्गलश्लोकगस्य यत् । श्रवणेन फलं प्रोक्तमतः किं वर्णयाम्यहम् ॥३४॥ एवं ज्येष्ठाभिधे मासि श्रुत्वा पारायणं नराः । इह भुक्त्वाऽखिलान् भोगानंते स्वानंद- माययुः ॥३५॥ तत्र वक्तुं मया विप्र शक्यते न कदाचन । वर्षायुतैस्ततस्तुभ्यं कथितं लेशतः परम् ॥३६॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खंडे योगामृतार्थशास्त्रे दक्षमौद्गलसंवादे ज्येष्ठमासपारायणमाहात्म्यवर्णनं नाम त्रयोविंशोध्यायः॥
॥ श्रीगणेशाय नमः ॥ शौनक उवाच । चित्रं त्वं सूत वदसि न श्रुतं कुत्रचिन् मया । एकं श्लोकपदं श्रुत्वा नरो ब्रह्ममयोऽभवत् ॥१॥ अहो पापसमाचारश्चांडालः श्लोकसंभवम् । मौद्गलस्य पदं श्रुत्वा ब्रह्मभूतो बभूव ह ॥२॥ अतो मौद्गलजं पूर्णं माहात्म्यं कीदृशं भवेत् । तद्वदस्व दयासिंधो सर्वसंशयनाशनम् ॥३॥ सूत उवाच । चांडालं गृह्य गाणेशा ययुः स्वनगरं प्रति । तत् दृष्ट्वाऽऽश्चर्यसंयुक्तो यमो वेधसमागमत् ॥४॥ प्रणम्य स विधातारं जगदे वाक्यमुत्तमम् । विनयेन समायुक्तस्तेन सम्मानितो यमः ॥५॥ धर्म उवाच । मौद्गलस्य च माहात्म्यमद्भुतं दृश्यते मया । न दृष्टं न श्रुतं नाथ कुत्रचित् सर्वसिद्धिदम् ॥६॥ चांडालः पापकर्मा कः श्रुत्वैकं श्लोकजं पदम् । ब्रह्मभूतो बभूवाऽपि किमिदं कौतुकं विधे ॥७॥ एवं सर्वजना ब्रह्मन्नज्ञानेन समन्विताः । ज्ञानयुक्ता गमिष्यंति स्वानंदं विविधात्मकाः ॥८॥ विश्वं चराचरं श्रुत्वा क्षीणं
[Page Header] ख. २ अ. २४ | पान ७०
सद्यो भविष्यति। अतो यत्नपरो भूत्वा विश्वं रक्ष सुखप्रदम् ॥९॥ माहात्म्यं कीदृशं चास्य मौद्गलस्य त्वया कृतम्। न ज्ञायते मया स्वामिन् वदाऽपारं किमात्मकम् ॥१०॥ धर्मस्य वचनं श्रुत्वा तं जगाद पितामहः। निःश्वस्य शृणु विप्रेश वचनं देवपालकम् ॥११॥ ब्रह्मोवाच। गणेशेन स्वभक्त्यर्थं रचितं मौद्गलं परम्। भक्त्या संप्राथितेनेदं सर्वसिद्धिप्रदायकम् ॥१२॥ तस्य माहात्म्यमुख्यं वै को जानाति रवेः सुत। किं करोमि न जानामि मौद्गलस्य प्रखंडनम् ॥१३॥ एवमुक्त्वा स्वयं ब्रह्मा देवान् सस्मार मुख्यकान्। विप्रेन्द्रांस्ते समायाताः पप्रच्छुः कारणं परम् ॥१४॥ तेषामग्रे यथावृत्तं कथयामास विस्तरात्। धर्मेण संयुतो ब्रह्मा वृत्तांतं मौद्गले भवम् ॥१५॥ श्रुत्वा ते खेदसंयुक्ता बभूवुर्मुुनिसत्तम। तत्र विष्णुश्च तान् प्राह विचार्य हितकारकम् ॥१६॥ विष्णुरुवाच। तुलां कुरु विधातस्त्वं मौद्गलेन समं भवेत्। साधनेषु यथा सर्वं हितमात्रं भविष्यति ॥१७॥ तच्छ्रुत्वा विविधान्येव साधनानि प्रगृह्य सः। एकत्र स्थापयामासैकत्र मौद्गलकं परम् ॥१८॥ तानि सर्वाणि तेनैव न समानि बभूविरे। मौद्गलेन महाभाग एकभावप्रधारणात् ॥१९॥ ततः खेदयुताः सर्वे विचारं चक्रुरादरात्। मौद्गलेन जितं सर्वं करिष्यामः किमंजसा ॥२०॥ अस्य सेवनमात्रेण जंतवो विविधात्मकाः। भुक्त्वा भोगान् गमिष्यंति यथा ब्रह्मणि योगिनः ॥२१॥ स्वल्पकालेन विश्वं वै नष्टं सर्वं भविष्यति। विहारेण विहीनाश्च भवाम ह वयं ततः ॥२२॥ को विघ्नो मौद्गलस्यैव कर्तव्यो येन मानवाः। त्यक्त्वा पुराणं देवाद्याः भविष्यंत्यन्यचेतसः ॥२३॥ ततः शंभुः स्वयं प्राह भावि यत्तद्भविष्यति। मा कुरुध्वं महाविघ्नं मौद्गलस्य विचक्षणाः ॥२४॥ अस्मै विघ्नप्रदाने तु क्रोधयुक्तो गजाननः। संधक्ष्यति जगत् सर्वं सेश्वरं नात्र संशयः ॥२५॥ शिवस्य वचनं श्रुत्वा भययुक्ताः सुरर्षयः। बभूवुस्तत्र जीवस्तानुवाच गणपं स्मरन् ॥२६॥ बृहस्पतिरुवाच। गणेशेन महेशाद्या इदं रचितमुत्तमम्। विश्वं नानास्वभावस्थं मौद्गलं तु न संशयः ॥२७॥ मौद्गले गणनांथस्य वचनं वर्तते परम्। महालयांतमेवेदं विश्वं भाति निरंतरम् ॥२८॥ अन्यच्च मौद्गलस्यैव कदा विघ्नं भविष्यति। तदेव न भवेन्मिथ्या वचनं मुनिसत्तमाः ॥२९॥ अतो गणेश्वरं प्रार्थ्य विघ्नं कुरुत देवपाः। मौद्गलस्य गणेशानः क्षुब्धो नात्र भविष्यति ॥३०॥ बृहस्पतेर्वचः श्रुत्वा देवा हर्षसमन्विताः। मुनयस्तं महाभागं साधु साध्वब्रुवन् वचः ॥३१॥ ततस्तं विघ्नराजं ते तुष्टुवुः करसंयुटाः। नानास्तोत्रैर्गणाध्यक्षं प्रसन्नं चक्रुरादरात् ॥३२॥ जगाद तान् स्वयं देवः खवाणीमयरूपधृक्। सृष्ट्वा विकल्पं देवेशा भविष्यथ सुखे रताः ॥३३॥ ततो ब्रह्मा गणेशानं स्मृत्वाऽसृजत तत्क्षणात्।
विकल्पं संशयाकारं महातेजोयुतं खलम् ॥३४॥ तं दृष्ट्वा देवमुख्या ये देवा विप्रादयोऽपरे । सद्यस्ते संशयैनैव युक्ता विप्र बभूविरे ॥३५॥ किं मौद्गलेन विघ्नेशः प्रसन्नो वा भविष्यति । गणेशो ब्रह्मणां नाथः कथं देहधरोऽभवत् ॥३६॥ रुच्यर्थं कथितं सर्वं वेदादिषु न संशयः । ब्रह्म ब्रह्मणि संस्थं तत् सर्वमान्यं विशेषतः ॥३७॥ एवमुक्त्वा ययुः सर्वे स्वे स्वे स्थाने महामुने । मोहिता मायया तस्य विकल्पस्य महाद्भुतम् ॥३८॥ किमर्थमागताः सर्वे किं कृतं सस्मरुर्न ते । विकल्पेन समायुक्ता बभूवुर्भ्रांतचेतसः ॥३९॥ ततस्ते मौद्गलं त्यक्त्वा स्थिताः सर्वे विशेषतः । नानाभावपरा विप्र चक्रुः स्वस्वक्रियां पुनः ॥४०॥ विकल्पस्तान् विलोक्यैव हर्षयुक्तो बभूव ह । प्रससार त्रिलोकेषु नानासंशयकारकः ॥४१॥ तेन सर्वे जनास्त्यक्त्वा मौद्गलं विप्र संस्थिताः । एवं क्रमेण नष्टं तत् पुराणं प्रबभूव ह ॥४२॥ अन्यानि तु पुराणानि वेदाः सर्वाणि मुख्यकाः । नष्टानि नष्टवत् कुत्र स्थितानि स्वल्पभावतः ॥४३॥ ततः कर्मविहीनं तु बभूव सचराचरम् । देवा दुःखयुताः सर्वे विकल्पं योद्धुमाययुः ॥४४॥ विकल्पेन जिताः सर्वे नष्टवीर्या बभूविरे । ततो गजाननं देवं तुष्टुवुस्तद्धधाय ते ॥४५॥ पुनराकाशवाणीस्थो जगादैतान् गजाननः । मुद्गलाज्ञावशा भूत्वा क्रियां कुरुत मा चिरम् ॥४६॥ विकल्पो वशगस्तेन भविष्यति न संशयः । एवमुक्त्वा गणाधीशो विरराम च शौनक ॥४७॥ ततस्ते हर्षसंयुक्ताः शिवविष्णुमुखाऽमराः । कश्यपाद्या ययुस्तं तु मुद्गलं योगिनां वरम् ॥४८॥ प्रणम्य भावसंयुक्ताः पप्रच्छुः करसंयुटाः । विकल्पजयदं पूर्णमुपायं स्वहितप्रदम् ॥४९॥ तेषां वचनमाकर्ण्य प्रहस्याऽऽपूज्य तान् स्वयम् । जगाद वचनं योगी मुद्गलो मायया युतान् ॥५०॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खंडे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे विकल्पविजयो नाम चतुर्विंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । आदौ गणेश्वरं स्मृत्वा परं सृष्ट्वा विकल्पकम् । तेजस्विनं महाभागाः कथं नेच्छथ तं पुनः ॥१॥ शरणं मां प्रपन्नानां करिष्यामि प्रियं हि वः । स्थीयतां सन्निधानेऽत्र विकल्पः किं करिष्यति ॥२॥ महर्षयः कश्यपाद्या मुद्गलेन शिवाद्यः । आश्वासिताः स्थितास्तत्र सुखयुक्ता बभूविरे ॥३॥ मुद्गलस्याश्रमे तस्य प्रवेशो नैव विद्यते । विकल्पस्य महाभाग तेन निःसंशया बभुः ॥४॥ विकल्पेन च वृत्तांतो ज्ञातो देवर्षिसंभवः । क्रोधयुक्तः स्वयं हंतुमाययौ
मुद्गलाश्रमम् ॥५॥ आगतं तं समालोक्य विकल्पं भयदायकम् । देवेंद्रा मुद्गलं तत्र जगुर्भयसमन्विताः ॥६॥ देवेंद्रा ऊचुः । विकल्पः क्रोधसंयुक्त आगतः स महामते । तवाश्रमेऽधुना विप्र यत्करिष्यसि तत् कुरु ॥७॥ तेषां वचनमाकर्ण्य मुद्गल- स्तानथाब्रवीत् । चिंतां मा कुरुत प्राज्ञा हनिष्यामि विकल्पकम् ॥८॥ एवमुक्त्वा स्वयं योगी मुद्गलस्तमथाऽऽययौ । विकल्पं तेजसा युक्तं सर्वसंशयकारकम् ॥९॥ उवाच तं महायोगी मुद्गलः परमार्थवित् । दयायुक्तः स्वभावेन प्रेरितो गणपेन सः ॥१०॥ मुद्गल उवाच । किमर्थमागतोऽसि त्वं विकल्पं ब्रूहि सांप्रतम् । तत्र गच्छ रुचैर्यत्र नोचेद्भस्म भविष्यसि ॥११॥ मुद्गलस्य वचः श्रुत्वा विकल्पः क्रोधसंयुतः । जगाद स महाविप्रं प्रदहन्निव तेजसा ॥१२॥ विकल्प उवाच । मां दृष्ट्वा विष्णु- शंम्वाद्या वसिष्ठाद्या महर्षयः । संशयेन समायुक्ता बभूवुस्तत्क्षणात् मुने ॥१३॥ त्वां न जानामि योगींद्रं स्थितः कुत्रासि वाडव । विजेतारं वदसि मां सर्वेषां मूर्खवद्वचः ॥१४॥ मया चराचरं सर्वं मदधीनं कृतं किल । अधुना त्वां हनिष्यामि परं मद्वेषकारकम् ॥१५॥ त्वया देवेंद्रमुख्याश्च देवा मुनिसमन्विताः । विकल्पेन विहीना वै कृताः कस्माद्वदस्व माम् ॥१६॥ गर्वं हंतुं समायातं त्वदीयं मुद्गलाश्रमम् । जानीहि त्यज सर्वांस्त्वं नोचेद्भस्म भविष्यसि ॥१७॥ विकल्पस्य वचः श्रुत्वा क्रोधयुक्तो महामुनिः । सस्मार गणपं चित्ते विकल्पस्य वधाय सः ॥१८॥ तस्य स्मरणमात्रेण चित्तान् मुद्गलयोगिनः । अग्निः प्रलयकृत्तत्र निःसृतः सर्वदाहकः ॥१९॥ अग्निर्ययौ महाक्रूरं विकल्पं क्रोधसंयुतः । खलं दर्शनमात्रेण दाहयुक्तं चकार सः ॥२०॥ ततः शांत्यर्थमत्यंतं यत्नं चक्रे स शौनक । विकल्पश्च ततोऽत्यंतमग्निस्तेजोयुतोऽभवत् ॥२१॥ अतिदाहयुतः सोऽपि विकल्पः खेदसंयुतः । गर्वं त्यक्त्वा महाविप्रमनमन् मुद्गलं पुरः ॥२२॥ जगाद भयभीतः स रक्ष मां मुनिसत्तम । तेजसा ते प्रदग्धं तु शरणागतवत्सल ॥२३॥ शिवविष्णुमुखाः सर्वे विप्रा वासिष्ठमुख्यकाः । जिता मया न संदेहः स्वल्पायासेन योगिप ॥२४॥ त्वं किं साक्षाद्गणेशान आगतोऽसि न संशयः । त्वां जेतुं न समर्थोऽहमतस्ते शरणं गतः ॥२५॥ रक्ष रक्ष दयासिंधो दाहयुक्तं विशेषतः । तेजसा ते प्रणष्टं मां कृतमागः क्षमस्व मे ॥२६॥ विकल्पं व्याकुलं दृष्ट्वा दयायुक्तो बभूव ह । मुद्गलो गणपाज्जातमग्निं शांतं चकार ह ॥२७॥ ततः संज्ञासमायुक्तो विकल्पस्त- मुवाच ह । स्वस्थचित्तः प्रणम्यादौ मुद्गलं योगिनां वरम् ॥२८॥ विकल्प उवाच । जितोऽहं च त्वया विप्र रक्षितोऽग्नेर्भयात्तथा । अधुना ते समाधीनस्तिष्ठामि त्वत्समीपगः ॥२९॥ स्थानं देहि महाभाग तत्र स्थास्यामि निश्चलः । तवाज्ञावशगो भूत्वा
तव दासोऽहमंजसा ॥३०॥ तस्य तद्वचनं श्रुत्वा ध्यानयुक्तो बभूव ह । ज्ञात्वा विघ्नेश्वरस्यैव कृत्यं तं स मुदाऽब्रवीत् ॥३१॥ मुद्गल उवाच । योगाकारं गणेशानं न जानंति नराधमाः । देहधारिसमं तं ये मानयंति गुणोद्भवम् ॥३२॥ तेषां हृदि बहिः स्थित्वा तिष्ठ त्वं सर्वदा मुदा । नानासंशयसंयुक्तांस्तान् कुर्वन् सविशेषतः ॥३३॥ मौद्गलं संशयैनैव युक्तं कुरु मदाज्ञया । तेषां हृदि समास्थाय योगिनां गणपद्विषाम् ॥३४॥ गणेशं योगरूपं ये मानयंति विकल्पक । योगिनोऽयोगिनो वाऽपि ते त्याज्याः सर्वदा त्वया ॥३५॥ मौद्गले श्रद्धया युक्ता भविष्यंति सदा मुदा । गाणेशा योगिनो नान्ये जानीहि मम वाक्यतः ॥३६॥ एवमुक्त्वा महायोगी मुद्गलो विरराम ह । विकल्पस्तं तथेत्युक्त्वा प्रणम्य स्वस्थलं ययौ ॥३७॥ ततो हर्षयुता देवा मुनयस्तं प्रणम्य च । मुद्गलं स्वस्थलं जग्मुः कर्मयुक्ता जना बभुः ॥३८॥ तद्दहान् मौद्गलं विप्र सेव्यते नैव जंतुभिः । दोषयुक्तैर्विशेषेण विकल्पेन समन्वितैः ॥३९॥ कलावत्यंतभावेन मौद्गलं नष्टकं भवेत् । दोषयुक्ता जनास्तत्र भविष्यंति गृहे गृहे ॥४०॥ योगिनो मौद्गलं नित्यं सेवंते भावसंयुताः । गणेशरूपबोधे ये चतुराः सर्वपावनाः ॥४१॥ नान्ये पाखंडिनो लुब्धा नाना छद्मधरा भुवि । मोहयुक्ता विशेषेण भविष्यंति तु मौद्गलम् ॥४२॥ एवं देवैः कृतो विघ्नो गणेशानेन प्रेरितैः । मुनिभिर्मौद्गले तेनाऽभवन् जन्मयुता नराः ॥४३॥ एतत्ते कथितं सर्वं रहस्यं परमाद्भुतम् । शृणुयाच्छ्रावयेद्यस्तु विकल्परहितो भवेत् ॥४४॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खंडे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे विकल्पप्रतापखंडनं नाम पंचविंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ सूत उवाच । भीमो नामाऽभवद्वैश्यः सर्वधर्मविवर्जितः । अंगदेशे महापापी दर्शनात् पुण्यनाशकृत् ॥१॥ स कदाचिद्वने संस्थो बभूवे चौर्यकारणात् । तत्राऽऽजगाम राजर्षिः सैन्ययुक्तो विदर्भपः ॥२॥ तं दृष्ट्वा त्यज्य शस्त्राणि भीमः पापपरायणः । महावनान्तरं गत्वा तस्थौ प्राणपरीप्सया ॥३॥ तत्र मेधातिथिर्माघशुक्लप्रतिपदि द्विजः । प्रारभ्य मुनिसंयुक्तो मौद्गलं कथितुं रतः ॥४॥ तत्राऽऽजगाम तान् दृष्ट्वा वैश्यः पापरतो मुने । भयात् समीपगस्तेषां संस्थितः शस्त्रवर्जितः ॥५॥ राजा समाययौ तत्र ननाम मुनिपुंगवम् । मेधातिथिं ततः सर्वान् मुनीन् भावसमन्वितः ॥६॥ पुनः