मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
[Page Header] ख. २ अ. २४ | पान ७०
सद्यो भविष्यति। अतो यत्नपरो भूत्वा विश्वं रक्ष सुखप्रदम् ॥९॥ माहात्म्यं कीदृशं चास्य मौद्गलस्य त्वया कृतम्। न ज्ञायते मया स्वामिन् वदाऽपारं किमात्मकम् ॥१०॥ धर्मस्य वचनं श्रुत्वा तं जगाद पितामहः। निःश्वस्य शृणु विप्रेश वचनं देवपालकम् ॥११॥ ब्रह्मोवाच। गणेशेन स्वभक्त्यर्थं रचितं मौद्गलं परम्। भक्त्या संप्राथितेनेदं सर्वसिद्धिप्रदायकम् ॥१२॥ तस्य माहात्म्यमुख्यं वै को जानाति रवेः सुत। किं करोमि न जानामि मौद्गलस्य प्रखंडनम् ॥१३॥ एवमुक्त्वा स्वयं ब्रह्मा देवान् सस्मार मुख्यकान्। विप्रेन्द्रांस्ते समायाताः पप्रच्छुः कारणं परम् ॥१४॥ तेषामग्रे यथावृत्तं कथयामास विस्तरात्। धर्मेण संयुतो ब्रह्मा वृत्तांतं मौद्गले भवम् ॥१५॥ श्रुत्वा ते खेदसंयुक्ता बभूवुर्मुुनिसत्तम। तत्र विष्णुश्च तान् प्राह विचार्य हितकारकम् ॥१६॥ विष्णुरुवाच। तुलां कुरु विधातस्त्वं मौद्गलेन समं भवेत्। साधनेषु यथा सर्वं हितमात्रं भविष्यति ॥१७॥ तच्छ्रुत्वा विविधान्येव साधनानि प्रगृह्य सः। एकत्र स्थापयामासैकत्र मौद्गलकं परम् ॥१८॥ तानि सर्वाणि तेनैव न समानि बभूविरे। मौद्गलेन महाभाग एकभावप्रधारणात् ॥१९॥ ततः खेदयुताः सर्वे विचारं चक्रुरादरात्। मौद्गलेन जितं सर्वं करिष्यामः किमंजसा ॥२०॥ अस्य सेवनमात्रेण जंतवो विविधात्मकाः। भुक्त्वा भोगान् गमिष्यंति यथा ब्रह्मणि योगिनः ॥२१॥ स्वल्पकालेन विश्वं वै नष्टं सर्वं भविष्यति। विहारेण विहीनाश्च भवाम ह वयं ततः ॥२२॥ को विघ्नो मौद्गलस्यैव कर्तव्यो येन मानवाः। त्यक्त्वा पुराणं देवाद्याः भविष्यंत्यन्यचेतसः ॥२३॥ ततः शंभुः स्वयं प्राह भावि यत्तद्भविष्यति। मा कुरुध्वं महाविघ्नं मौद्गलस्य विचक्षणाः ॥२४॥ अस्मै विघ्नप्रदाने तु क्रोधयुक्तो गजाननः। संधक्ष्यति जगत् सर्वं सेश्वरं नात्र संशयः ॥२५॥ शिवस्य वचनं श्रुत्वा भययुक्ताः सुरर्षयः। बभूवुस्तत्र जीवस्तानुवाच गणपं स्मरन् ॥२६॥ बृहस्पतिरुवाच। गणेशेन महेशाद्या इदं रचितमुत्तमम्। विश्वं नानास्वभावस्थं मौद्गलं तु न संशयः ॥२७॥ मौद्गले गणनांथस्य वचनं वर्तते परम्। महालयांतमेवेदं विश्वं भाति निरंतरम् ॥२८॥ अन्यच्च मौद्गलस्यैव कदा विघ्नं भविष्यति। तदेव न भवेन्मिथ्या वचनं मुनिसत्तमाः ॥२९॥ अतो गणेश्वरं प्रार्थ्य विघ्नं कुरुत देवपाः। मौद्गलस्य गणेशानः क्षुब्धो नात्र भविष्यति ॥३०॥ बृहस्पतेर्वचः श्रुत्वा देवा हर्षसमन्विताः। मुनयस्तं महाभागं साधु साध्वब्रुवन् वचः ॥३१॥ ततस्तं विघ्नराजं ते तुष्टुवुः करसंयुटाः। नानास्तोत्रैर्गणाध्यक्षं प्रसन्नं चक्रुरादरात् ॥३२॥ जगाद तान् स्वयं देवः खवाणीमयरूपधृक्। सृष्ट्वा विकल्पं देवेशा भविष्यथ सुखे रताः ॥३३॥ ततो ब्रह्मा गणेशानं स्मृत्वाऽसृजत तत्क्षणात्।
विकल्पं संशयाकारं महातेजोयुतं खलम् ॥३४॥ तं दृष्ट्वा देवमुख्या ये देवा विप्रादयोऽपरे । सद्यस्ते संशयैनैव युक्ता विप्र बभूविरे ॥३५॥ किं मौद्गलेन विघ्नेशः प्रसन्नो वा भविष्यति । गणेशो ब्रह्मणां नाथः कथं देहधरोऽभवत् ॥३६॥ रुच्यर्थं कथितं सर्वं वेदादिषु न संशयः । ब्रह्म ब्रह्मणि संस्थं तत् सर्वमान्यं विशेषतः ॥३७॥ एवमुक्त्वा ययुः सर्वे स्वे स्वे स्थाने महामुने । मोहिता मायया तस्य विकल्पस्य महाद्भुतम् ॥३८॥ किमर्थमागताः सर्वे किं कृतं सस्मरुर्न ते । विकल्पेन समायुक्ता बभूवुर्भ्रांतचेतसः ॥३९॥ ततस्ते मौद्गलं त्यक्त्वा स्थिताः सर्वे विशेषतः । नानाभावपरा विप्र चक्रुः स्वस्वक्रियां पुनः ॥४०॥ विकल्पस्तान् विलोक्यैव हर्षयुक्तो बभूव ह । प्रससार त्रिलोकेषु नानासंशयकारकः ॥४१॥ तेन सर्वे जनास्त्यक्त्वा मौद्गलं विप्र संस्थिताः । एवं क्रमेण नष्टं तत् पुराणं प्रबभूव ह ॥४२॥ अन्यानि तु पुराणानि वेदाः सर्वाणि मुख्यकाः । नष्टानि नष्टवत् कुत्र स्थितानि स्वल्पभावतः ॥४३॥ ततः कर्मविहीनं तु बभूव सचराचरम् । देवा दुःखयुताः सर्वे विकल्पं योद्धुमाययुः ॥४४॥ विकल्पेन जिताः सर्वे नष्टवीर्या बभूविरे । ततो गजाननं देवं तुष्टुवुस्तद्धधाय ते ॥४५॥ पुनराकाशवाणीस्थो जगादैतान् गजाननः । मुद्गलाज्ञावशा भूत्वा क्रियां कुरुत मा चिरम् ॥४६॥ विकल्पो वशगस्तेन भविष्यति न संशयः । एवमुक्त्वा गणाधीशो विरराम च शौनक ॥४७॥ ततस्ते हर्षसंयुक्ताः शिवविष्णुमुखाऽमराः । कश्यपाद्या ययुस्तं तु मुद्गलं योगिनां वरम् ॥४८॥ प्रणम्य भावसंयुक्ताः पप्रच्छुः करसंयुटाः । विकल्पजयदं पूर्णमुपायं स्वहितप्रदम् ॥४९॥ तेषां वचनमाकर्ण्य प्रहस्याऽऽपूज्य तान् स्वयम् । जगाद वचनं योगी मुद्गलो मायया युतान् ॥५०॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खंडे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे विकल्पविजयो नाम चतुर्विंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । आदौ गणेश्वरं स्मृत्वा परं सृष्ट्वा विकल्पकम् । तेजस्विनं महाभागाः कथं नेच्छथ तं पुनः ॥१॥ शरणं मां प्रपन्नानां करिष्यामि प्रियं हि वः । स्थीयतां सन्निधानेऽत्र विकल्पः किं करिष्यति ॥२॥ महर्षयः कश्यपाद्या मुद्गलेन शिवाद्यः । आश्वासिताः स्थितास्तत्र सुखयुक्ता बभूविरे ॥३॥ मुद्गलस्याश्रमे तस्य प्रवेशो नैव विद्यते । विकल्पस्य महाभाग तेन निःसंशया बभुः ॥४॥ विकल्पेन च वृत्तांतो ज्ञातो देवर्षिसंभवः । क्रोधयुक्तः स्वयं हंतुमाययौ
मुद्गलाश्रमम् ॥५॥ आगतं तं समालोक्य विकल्पं भयदायकम् । देवेंद्रा मुद्गलं तत्र जगुर्भयसमन्विताः ॥६॥ देवेंद्रा ऊचुः । विकल्पः क्रोधसंयुक्त आगतः स महामते । तवाश्रमेऽधुना विप्र यत्करिष्यसि तत् कुरु ॥७॥ तेषां वचनमाकर्ण्य मुद्गल- स्तानथाब्रवीत् । चिंतां मा कुरुत प्राज्ञा हनिष्यामि विकल्पकम् ॥८॥ एवमुक्त्वा स्वयं योगी मुद्गलस्तमथाऽऽययौ । विकल्पं तेजसा युक्तं सर्वसंशयकारकम् ॥९॥ उवाच तं महायोगी मुद्गलः परमार्थवित् । दयायुक्तः स्वभावेन प्रेरितो गणपेन सः ॥१०॥ मुद्गल उवाच । किमर्थमागतोऽसि त्वं विकल्पं ब्रूहि सांप्रतम् । तत्र गच्छ रुचैर्यत्र नोचेद्भस्म भविष्यसि ॥११॥ मुद्गलस्य वचः श्रुत्वा विकल्पः क्रोधसंयुतः । जगाद स महाविप्रं प्रदहन्निव तेजसा ॥१२॥ विकल्प उवाच । मां दृष्ट्वा विष्णु- शंम्वाद्या वसिष्ठाद्या महर्षयः । संशयेन समायुक्ता बभूवुस्तत्क्षणात् मुने ॥१३॥ त्वां न जानामि योगींद्रं स्थितः कुत्रासि वाडव । विजेतारं वदसि मां सर्वेषां मूर्खवद्वचः ॥१४॥ मया चराचरं सर्वं मदधीनं कृतं किल । अधुना त्वां हनिष्यामि परं मद्वेषकारकम् ॥१५॥ त्वया देवेंद्रमुख्याश्च देवा मुनिसमन्विताः । विकल्पेन विहीना वै कृताः कस्माद्वदस्व माम् ॥१६॥ गर्वं हंतुं समायातं त्वदीयं मुद्गलाश्रमम् । जानीहि त्यज सर्वांस्त्वं नोचेद्भस्म भविष्यसि ॥१७॥ विकल्पस्य वचः श्रुत्वा क्रोधयुक्तो महामुनिः । सस्मार गणपं चित्ते विकल्पस्य वधाय सः ॥१८॥ तस्य स्मरणमात्रेण चित्तान् मुद्गलयोगिनः । अग्निः प्रलयकृत्तत्र निःसृतः सर्वदाहकः ॥१९॥ अग्निर्ययौ महाक्रूरं विकल्पं क्रोधसंयुतः । खलं दर्शनमात्रेण दाहयुक्तं चकार सः ॥२०॥ ततः शांत्यर्थमत्यंतं यत्नं चक्रे स शौनक । विकल्पश्च ततोऽत्यंतमग्निस्तेजोयुतोऽभवत् ॥२१॥ अतिदाहयुतः सोऽपि विकल्पः खेदसंयुतः । गर्वं त्यक्त्वा महाविप्रमनमन् मुद्गलं पुरः ॥२२॥ जगाद भयभीतः स रक्ष मां मुनिसत्तम । तेजसा ते प्रदग्धं तु शरणागतवत्सल ॥२३॥ शिवविष्णुमुखाः सर्वे विप्रा वासिष्ठमुख्यकाः । जिता मया न संदेहः स्वल्पायासेन योगिप ॥२४॥ त्वं किं साक्षाद्गणेशान आगतोऽसि न संशयः । त्वां जेतुं न समर्थोऽहमतस्ते शरणं गतः ॥२५॥ रक्ष रक्ष दयासिंधो दाहयुक्तं विशेषतः । तेजसा ते प्रणष्टं मां कृतमागः क्षमस्व मे ॥२६॥ विकल्पं व्याकुलं दृष्ट्वा दयायुक्तो बभूव ह । मुद्गलो गणपाज्जातमग्निं शांतं चकार ह ॥२७॥ ततः संज्ञासमायुक्तो विकल्पस्त- मुवाच ह । स्वस्थचित्तः प्रणम्यादौ मुद्गलं योगिनां वरम् ॥२८॥ विकल्प उवाच । जितोऽहं च त्वया विप्र रक्षितोऽग्नेर्भयात्तथा । अधुना ते समाधीनस्तिष्ठामि त्वत्समीपगः ॥२९॥ स्थानं देहि महाभाग तत्र स्थास्यामि निश्चलः । तवाज्ञावशगो भूत्वा
तव दासोऽहमंजसा ॥३०॥ तस्य तद्वचनं श्रुत्वा ध्यानयुक्तो बभूव ह । ज्ञात्वा विघ्नेश्वरस्यैव कृत्यं तं स मुदाऽब्रवीत् ॥३१॥ मुद्गल उवाच । योगाकारं गणेशानं न जानंति नराधमाः । देहधारिसमं तं ये मानयंति गुणोद्भवम् ॥३२॥ तेषां हृदि बहिः स्थित्वा तिष्ठ त्वं सर्वदा मुदा । नानासंशयसंयुक्तांस्तान् कुर्वन् सविशेषतः ॥३३॥ मौद्गलं संशयैनैव युक्तं कुरु मदाज्ञया । तेषां हृदि समास्थाय योगिनां गणपद्विषाम् ॥३४॥ गणेशं योगरूपं ये मानयंति विकल्पक । योगिनोऽयोगिनो वाऽपि ते त्याज्याः सर्वदा त्वया ॥३५॥ मौद्गले श्रद्धया युक्ता भविष्यंति सदा मुदा । गाणेशा योगिनो नान्ये जानीहि मम वाक्यतः ॥३६॥ एवमुक्त्वा महायोगी मुद्गलो विरराम ह । विकल्पस्तं तथेत्युक्त्वा प्रणम्य स्वस्थलं ययौ ॥३७॥ ततो हर्षयुता देवा मुनयस्तं प्रणम्य च । मुद्गलं स्वस्थलं जग्मुः कर्मयुक्ता जना बभुः ॥३८॥ तद्दहान् मौद्गलं विप्र सेव्यते नैव जंतुभिः । दोषयुक्तैर्विशेषेण विकल्पेन समन्वितैः ॥३९॥ कलावत्यंतभावेन मौद्गलं नष्टकं भवेत् । दोषयुक्ता जनास्तत्र भविष्यंति गृहे गृहे ॥४०॥ योगिनो मौद्गलं नित्यं सेवंते भावसंयुताः । गणेशरूपबोधे ये चतुराः सर्वपावनाः ॥४१॥ नान्ये पाखंडिनो लुब्धा नाना छद्मधरा भुवि । मोहयुक्ता विशेषेण भविष्यंति तु मौद्गलम् ॥४२॥ एवं देवैः कृतो विघ्नो गणेशानेन प्रेरितैः । मुनिभिर्मौद्गले तेनाऽभवन् जन्मयुता नराः ॥४३॥ एतत्ते कथितं सर्वं रहस्यं परमाद्भुतम् । शृणुयाच्छ्रावयेद्यस्तु विकल्परहितो भवेत् ॥४४॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खंडे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे विकल्पप्रतापखंडनं नाम पंचविंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ सूत उवाच । भीमो नामाऽभवद्वैश्यः सर्वधर्मविवर्जितः । अंगदेशे महापापी दर्शनात् पुण्यनाशकृत् ॥१॥ स कदाचिद्वने संस्थो बभूवे चौर्यकारणात् । तत्राऽऽजगाम राजर्षिः सैन्ययुक्तो विदर्भपः ॥२॥ तं दृष्ट्वा त्यज्य शस्त्राणि भीमः पापपरायणः । महावनान्तरं गत्वा तस्थौ प्राणपरीप्सया ॥३॥ तत्र मेधातिथिर्माघशुक्लप्रतिपदि द्विजः । प्रारभ्य मुनिसंयुक्तो मौद्गलं कथितुं रतः ॥४॥ तत्राऽऽजगाम तान् दृष्ट्वा वैश्यः पापरतो मुने । भयात् समीपगस्तेषां संस्थितः शस्त्रवर्जितः ॥५॥ राजा समाययौ तत्र ननाम मुनिपुंगवम् । मेधातिथिं ततः सर्वान् मुनीन् भावसमन्वितः ॥६॥ पुनः
खं. ९ अ. २७ पान ७४
प्रणम्य स्वस्थानं ययौ भानुर्विदर्भपः । वैश्यो मुनिवने तत्र सुष्वाप विनयान्वितः ॥७॥ प्रातः काले पुनः स्नात्वा कृत्वा नित्यक्रियां द्विजाः । मौद्गलं श्रोतुकामास्ते आययुर्हर्षसंयुताः ॥८॥ तैः साकं भीमवैश्योऽपि राजभीत्या समाययौ । शुश्राव मौद्गलं तत्र पुराणं विस्मितोऽभवत् ॥९॥ मौद्गलस्य पुराणस्य श्रवणेन दुरात्मनः । बुद्धिभेदो बभूवाऽपि स तत्रैव स्थितोऽभवत् ॥१०॥ विचारमकरोचित्ते भीमः पापपरायणः । अहो वैश्योऽहमानंदात् किं करोमि दुरात्मवान् ॥११॥ पापिनो नरकं यांति नरा नास्त्यत्र संशयः । नरदेहं समासाद्य धर्मं कुर्यात् स मानवः ॥१२॥ एवं विचार्य तत्रैव मौद्गलश्रवणे रतः । त्यक्त्वा स्त्रीपुत्रकार्यं स गणेशे लालसोऽभवत् ॥१३॥ फाल्गुन्यां पूर्णिमायां तत् पुराणं पूर्णमाभवत् । मेधातिथिः प्रतिपदि द्विजान् संभोज्य हर्षितः ॥१४॥ स कृत्वा पारणं सर्वान् विसृज्य गणपे रतः । नित्यं गणेश्वरं भक्त्या पूज्य भक्तिपरोऽभवत् ॥१५॥ भीमः स्वगृहमागत्य त्यक्त्वा पापात्मकं परम् । कर्म स्वधर्मसंयुक्तो बभूव गणपे रतः ॥१६॥ मौद्गल- श्रवणेनैव सर्वपापविवर्जितः । बभूव धर्मशीलश्च गाणपत्यो महायशाः ॥१७॥ शरीरांते गणेशानमगमद्वैश्यजः परम् । ब्रह्मभूतो बभूवाऽपि दृष्ट्वा विघ्नेश्वरं मुने ॥१८॥ मौद्गलं सततं श्रुत्वा चैवं नानाजनादयः । बभूवुः पुण्यशीलाश्च किल ब्रह्मणि तन्मयाः ॥१९॥ तत्राऽहं कति ते ब्रूयां शक्तो वक्तुं न को भवेत् । नानेन सदृशं किंचिज्जानीहि त्वं महामुने ॥२०॥
॥ ओमिति श्रीमदान्ते पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खंडे योगचरिते योगामृतार्थशास्त्रे दक्षमौद्गलसंवादे माघादिसार्धमासे मौद्गलपुराणश्रवणमाहात्म्यवर्णनं नाम षड्विंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ सूत उवाच । महायोगी भाद्रपदे पुलस्त्यो गणपे रतः । प्रतिपत्तो गणेशं संपूज्यारभत मौद्गलम् ॥१॥ तत्र विप्रादयो विप्र श्रवणार्थं समाययुः । यथाविधि जनाः सर्वे शुश्रुवुर्भक्तितत्पराः ॥२॥ अर्थेन संयुतं नित्यं मौद्गलं मुनिसत्तमः । कथयामास हर्षेण गणेशार्थविचक्षणः ॥३॥ तत्र सर्पो बिले संस्थः शुश्राव भयसंयुतः । कस्मिंश्चिदिवसे विप्र भाग्येन प्रेरितः पुरा ॥४॥ मुनयः सुषुपुः सर्वे रात्रौ सर्पो बहिः शनैः । निर्जगाम ययौ मार्गे स्वेच्छया सुख-
संयुतः ॥५॥ वनस्थो नकुलः कश्चित्तं ददर्श भुजंगमम् । आययौ हंतुमावेशात्तयोर्युद्धं बभूव ह ॥६॥ नकुलेन बलाद्येन हतं सर्पं वनांतरे । तं गृह्य गाणपाः सद्यो ब्रह्मभूतं प्रचक्रिरे ॥७॥ तं ज्ञात्वा विस्मिताः सर्वे देवेंद्राद्या महामते । परस्परं समूचुस्ते साश्रुनेत्रा महर्षयः ॥८॥ अहो मौद्गलमाहात्म्यं वक्तुं सर्वैर्न शक्यते । सर्पोऽज्ञानाच्च स श्रुत्वा किंचिद्ब्रह्म- मयोऽधुना ॥९॥ संपूर्ण मौद्गलं यैस्तु संश्रुतं तैः प्रलभ्यते । न ज्ञायते विशेषेण किं विशिष्टमतः परम् ॥१०॥ संपूर्ण मौद्गलं यैश्च संश्रुतं ते गणेश्वराः । ज्ञातव्या लोकनाथा वै पावनार्थं भवंत्यतः ॥११॥ नरजन्मधरो यः स्यान् मौद्गलं न शृणोति चेत् । वंचितो मायया पूर्णो वृथा धिक् तस्य जीवितम् ॥१२॥ विघ्नराज नमस्तुभ्यं देहि जन्म धरातले । नित्यं मौद्गल- संसक्तान् कुरु नो मानवान् किल ॥१३॥ धिक् स्वर्गं देवदेवेशान् यत्र कर्मफलं न च । क्रियते देवदेवेशैः कर्म तद्व्यर्थतां ययौ ॥१४॥ अहो कीटपतंगादि योनौ जन्मधरो भवेत् । भारते साधुसंगेन ब्रह्मीभूतो भविष्यति ॥१५॥ सर्पोऽयं नर- वाक्हीनो न जानाति किमप्यहो । मनुष्यवाग्भवं भावं तथा शुश्राव मौद्गलम् ॥१६॥ तेनैव ब्रह्मभूतोऽयं ततः स्वानंदके पुरे । किं पुनर्नरजातिस्थो प्राप्नुयान्न गजाननम् ॥१७॥ एवमुक्त्वाऽमराद्यास्तं स्वं स्वं स्थानकमाययुः । अधुना प्रकृतं वच्मि सर्वसौख्यकरं परम् ॥१८॥ आश्विन्यां पूर्णिमायां च तत् समाप्तं बभूव ह । मौद्गलं हर्षसंयुक्ताः श्रोतारस्तं पुपूजिरे ॥१९॥ सर्वैः साकं महायोगी पारणं स चकार ह । ततः सर्वान् प्रतिपदि विससर्ज महायशाः ॥२०॥ तदाज्ञया ययुः सर्वे स्वस्व- माश्रमकं मुने । गणेशभजने सक्ता बभूवुः सर्वभावतः ॥२१॥ इह भुक्त्वाऽखिलान् भोगानंते स्वानंदमाययुः । बभूवुर्ब्रह्म- भूतास्ते परं दृष्ट्वा गणेश्वरम् ॥२२॥ इति ते सर्वमाख्यातं यशः सार्धैकमासजम् । मौद्गलश्रवणाज्जातं भाद्रमासादि- संभवम् ॥२३॥ एवं त्वनंतरूपाश्च जंतवो ब्रह्म लेभिरे । न वक्तुं शक्यते तत्र मौद्गलश्रवणेन वै ॥२४॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खंडे योगचरिते योगामृतार्थशास्त्रे मुद्गलदक्षसंवादे भाद्रपदादिसाधैकमास- श्रवणमाहात्म्यवर्णनं नाम सप्तविंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ सूत उवाच । ब्राह्मणो वंध्यभावेन पीडितः कर्मणा पुरा । गार्ग्यवंशभवः कोऽपि नाम्ना शंभुरिती- रितः ॥१॥ नानोपायाः कृतास्तेन वांध्यदोषप्रहारिणः । तथापि तस्य पुत्रो वा पुत्री द्विज बभूव न ॥२॥ ततोऽतिदुःख- संयुक्तो गौतमं स जगाम ह । सस्त्रीकः पुत्रकामार्थं तं ननाम महामतिम् ॥३॥ गौतमेन मुनींद्रेण सत्कृतः शंभुरावसत् । सेवार्थं स्वगुरोस्तत्र यत्नयुक्तो बभूव ह ॥४॥ एकदा सुखमासीनं गौतमं तं च भक्तितः । जगाद पुत्रप्राप्त्यर्थं वचनं स्वहितावद्दम् ॥५॥ शंभुरुवाच । नाना यत्नाः कृताः स्वामिन् पुत्रप्राप्त्यर्थमादरात् । लभ्यते नैव संतानो मया किं वद कारणम् ॥६॥ येनोपायेन मे पुत्रो भविष्यति महामते । तमुपायं वद स्वामिन् करिष्यामि त्वदाज्ञया ॥७॥ त्वं गुरुर्मे परा काष्ठा परं त्वत्तो न विद्यते । तारयस्व महाभाग वांध्यदोषसमन्वितम् ॥८॥ तस्य तद्वचनं श्रुत्वा तं जगाद महामुनिः । गौतमः सर्वतत्त्वज्ञः शंभुं दुःखसमन्वितम् ॥९॥ गौतम उवाच । मा कुरुष्व वृथा चिंतां तव पुत्रा द्विजोत्तम । भविष्यंति त्रयः प्राज्ञा वेदज्ञा गणपप्रियाः ॥१०॥ शृणु त्वं मौद्गलं मत्तः सर्वसिद्धिप्रदायकम् । तेनानंतभवस्थं ते पापं नश्येच्च तत्क्ष- णात् ॥११॥ पुण्यराशिः स्वयं साक्षाद्भविष्यसि च तारकः । अन्येषां नात्र संदेहः सर्वसिद्धियुतस्तथा ॥१२॥ अंते गणेश्वरं प्राप्य ब्रह्मीभूतो भविष्यसि । तिष्ठात्र ज्येष्ठमासेऽहं कथयिष्यामि मौद्गलम् ॥१३॥ एवं तस्य वचः श्रुत्वा हर्षयुक्तो बभूव ह । सुशीलया स्त्रिया सार्द्धं तत्रैवं संस्थितोऽभवत् ॥१४॥ ततः स्वल्पे गते काले ज्येष्ठमासः समाययौ । अन्ये मुनिगणास्तत्र श्रवणार्थं समाययुः ॥१५॥ तान् दृष्ट्वा स्त्रीसमायुक्तः शंभुश्चातीव हर्षितः । विधियुक्ततया सर्वे श्रोतारस्तत्परा बभुः ॥१६॥ ज्येष्ठे शुक्ले प्रतिपदि गौतमो योगिनां वरः । समारभत् स हर्षेण मौद्गलं सर्वसिद्धिदम् ॥१७॥ व्याख्यां चकार सर्वज्ञो मौद्गलस्य यथार्थतः । तच्छ्रुत्वा विस्मिताः सर्वे बभूवुः श्रवणे रताः ॥१८॥ नित्यं नियमसंयुक्ताः शुश्रुवुर्भक्ति- संयुताः । तत्र कस्मिन् दिने विप्र बभूव परमाद्भुतम् ॥१९॥ गर्दभस्तत्र दैवेन ह्याययौ त्वतिदुःखितः । ज्वरेण पीडितोऽत्यंतं दूरे तस्थौ महामुने ॥२०॥ शुश्राव मौद्गलस्यैव श्लोकं ज्ञानविवर्जितः । पीडाहीनो बभूवाऽपि तत्र किंचित् स रासभः ॥२१॥ हृदा समन्वितो भूत्वा तस्थौ श्रवणलालसः । ततो गौतमविप्रेण समाप्तं तत्कृतं मुदा ॥२२॥ सर्वे स्वस्वक्रियां चक्रुः पुनः प्रातः समाययुः । गर्दभो दुःखहीनः स बभूवे तत्क्षणात् मुने ॥२३॥ स ययौ स्वेच्छया युक्तः कालवेगान् ममार सः । तस्मिन् काले च तं नेतुं गाणेशाः प्रययुर्मुदा ॥२४॥ तं गृह्य ब्रह्मभूतं ते चक्रुः श्रवणपुण्यतः । तं दृष्ट्वा देवविप्राद्याः स्वर्गस्था
खं. ९ अ. २९ | पान ७७ ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖ विस्मयं ययुः ॥२५॥ अथो शृणु महाभाग गौतमो हर्षनिर्भरः । आषाढ्यां पूर्णिमायां स समाप्तं तच्चकार ह ॥२६॥ द्विजाद्यैः स प्रतिपदि चक्रे वै पारणं पुरा । सर्वे हर्षयुतास्तं ते नत्वा स्वस्वाश्रमं ययुः ॥२७॥ शंभुः सुशीलया सार्धं जगाम स्वाश्रयं ततः । गणेशमभजन्नित्यं ज्ञात्वा योगवपुर्धरम् ॥२८॥ ततः स्वल्पे गते काले सुशीला गर्भसंयुता । बभूव तां प्रहृश्यैवाभवच्छंभुः सुविस्मितः ॥२९॥ ततः शुभे मुहूर्ते सा सुषुवे पुत्रमुत्तमम् । सर्वलक्षणसंयुक्तं सुता एवं त्रयो- ऽभवन् ॥३०॥ वेदज्ञान् सर्वमान्यांश्च गाणपत्यपरायणान् । तान् दृष्ट्वा विस्मितः शंभुर्गुरुं सस्मार गौतमम् ॥३१॥ मौद्गले तत्परः सोऽपि बभूवे नित्यमादरात् । अंते विघ्नेश्वरं प्राप तल्लीनः प्रबभूव ह ॥३२॥ नाना जना गणेशानं लेभिरे मौद्गलस्य च । श्रवणेन च पाठेन मुने तेषु कति ब्रुवे ॥३३॥ एतत्ते कथितं विप्र ज्येष्ठात् सार्धैकमासके । मौद्गलश्रवणस्यैव माहात्म्यं स्वल्पभावतः ॥३४॥ ॥ ओमिति श्रीमदंत्ये पुराणोपनिषदि श्रीमौद्गले महापुराणे नवमे खंडे योगचरिते योगामृतार्थशास्त्रे मुद्गलदक्षसंवादे महोदरचरितमाहात्म्यवर्णनं नामाष्टाविंशोऽध्यायः 🙞🙢 ॥ श्रीगणेशाय नमः ॥ सूत उवाच । राजाऽऽसीत् पुंड्रदेशस्य सुग्रीवः सर्वशास्त्रवित् । नानाधर्मपरः सोऽपि शास्त्रार्थज्ञो विचक्षणः ॥१॥ तस्य देशे ह्यनावृष्टिर्बभूवे दुःखवर्धिनी । न ववर्ष कदा मेघस्ततो राजाऽतिदुःखितः ॥२॥ इंद्रस्य वरुणस्यै- वानुष्ठाने तत्परोऽभवत् । ब्राह्मणैर्नित्यमत्यंतं तोषयामास मेघपम् ॥३॥ ततो वै नव वर्षापि मेघः पापेन चेरितः । वीक्ष्यातिदुःखसंयुक्तः सुग्रीवोऽभूत्ततो नृपः ॥४॥ राजा राज्यं परित्यज विश्वामित्रं जगाम ह । पप्रच्छ तं प्रणम्याऽसौ मेघवृष्टिकंरं परम् ॥५॥ तेन संकथितं विप्र मौद्गलं शृणु भूमिप । देशे वृष्टिश्च संपूर्णा भविष्यति न संशयः ॥६॥ ततो राजा द्विजैस्तत्र लेखयित्वा च मौद्गलम् । ययौ स्वनगरं हृष्टस्तच्छुश्राव महामतिः ॥७॥ जनैः सार्धं समीपस्थैस्ततो वृष्टिर्बभूव ह । प्रारब्धे मौद्गले तत्र तत् दृष्ट्वा विस्मितो नृपः ॥८॥ सर्वे हर्षयुता लोका जाता पुंड्रनिवासिनः । राजा गणेश्वरं ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖
खं. ९ अ. २९ | पान ७८ 卐卐 नित्यमभजद्भक्तिसंयुतः ॥९॥ भाद्रे शुद्धप्रतिपदि समारभ्य स मौद्गलम् । शुश्राव नित्यमानंदात् पुराणं सर्वसिद्धिदम् ॥१०॥ पुनर्भ्राद्रपदं प्राप्य परां शुक्लचतुर्थिकाम् । समाप्तं तत् स पंचम्यां चक्रे वै हर्षसंयुतः ॥११॥ अतिसंहर्षितो राजा श्रावणं प्राप्य सौख्यदम् । शुक्लप्रतिपदि प्राज्ञैः प्रारभन्मौद्गलं पुनः ॥१२॥ नित्यं शुश्राव सुग्रीवो गाणपत्यपरायणः । आषाढ्यां स समाप्तं तदमायां प्रचकार ह ॥१३॥ पुनः प्रारभ्य सुग्रीवो जनैः श्रेष्ठैः समन्वितः । शुश्राव वर्षमध्ये स एवं वार्षिक- माचरत् ॥१४॥ प्रतिवर्षं महाभक्त्या शुश्रुवुः सर्वनागराः । भक्तियुक्ता गणेशानमभजन् दुःखवर्जिताः ॥१५॥ न तत्र वांध्यदोषेण युक्तः कश्चिद्बभूव ह । न रोगशोकसंयुक्तः सुग्रीवे राज्यकर्तरि ॥१६॥ सर्वसंपत्समायुक्ता जनास्तत्र बभूविरे । रोगदोषादिभिर्भावैर्हीनाश्च भयवर्जिताः ॥१७॥ ततः सर्वैः स राजर्षिर्जगाम नगरस्थितैः । गणेशं ब्रह्मभूतस्तैर्बभूवे परमद्युतिः ॥१८॥ गच्छतो निजलोकं वै तस्यांगाद्वायुनाऽपरे । स्पृष्टा रौरवसंस्थास्ते पीडाहीना बभूविरे ॥१९॥ तान् गृह्य गाणपा विप्र ब्रह्मीभूतान् प्रचक्रिरे । यमाया विस्मिताः सर्वे प्रशंसुश्च मौद्गलम् ॥२०॥ विप्रवार्षिकमेवं ते कथितं श्रवणस्य यत् । मौद्गलस्य हि माहात्म्यं सर्वसिद्धिप्रदायकम् ॥२१॥ सुग्रीवदेशगः कश्चिच्छ्रुत्वा वृत्तांतमद्भुतम् । कुष्ठयुक्तो ययौ तत्र पुराणश्रवणार्थतः ॥२२॥ वार्षिकं राजशार्दूलो समारभत भक्तितः । सोऽपि नित्यं प्रशुश्राव कुष्ठनाशार्थमुत्तमम् ॥२३॥ श्रुत्वा कुष्ठविहीनः स बभूवे हर्षसंयुतः । जगाम स्वगृहं पद्भ्यां गृहकार्यरतोऽभवत् ॥२४॥ भुक्त्वा भोगान् मनोज्ञान् सोऽन्ते जगाम गजाननम् । ब्रह्मीभूतो बभूवाऽपि श्रवणस्य फलेन वै ॥२५॥ एवं सकृत् समाश्रुत्य मौद्गलं विविधा जनाः । इह भुक्त्वाऽखिलान् भोगानंते स्वानंदमाययुः ॥२६॥ तत्रैव कति ते ब्रूयां नालं वर्षशतैरपि । अतः संक्षेपतः प्रोक्तं वर्षश्रवणजं फलम् ॥२७॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते योगामृतार्थशास्त्रे दक्षमौद्गलसंवादे वर्षेण मौद्गलश्रवणमाहात्म्यवर्णनं नामैकोनत्रिंशोऽध्यायः ॥ ❖ 卐卐
खं. ९ अ. ३० पान ७९
॥ श्रीगणेशाय नमः ॥ सूत उवाच । राजाऽभूच्चाक्षुषे कश्चिन् सुमेधो नाम धारकः । नानाधर्मपरो यज्वा दाता मानी महाबलः ॥१॥ सर्वशास्त्रार्थतत्त्वज्ञो द्विजदेवातिथिप्रियः । सप्तद्वीपाधिपो भूत्वा स चक्रे राज्यमुत्तमम् ॥२॥ एवं राज्यपरो राजा सर्वेषां हितकारकः । वांध्यदोषसमायुक्तो बभूवातीव दुःखितः ॥३॥ नानोपायांश्चकाराऽसौ पुत्रप्राप्त्यर्थमादरात् । नालभत् पुत्रमानंददायकं दुःखितोऽभवत् ॥४॥ पत्न्या विचार्य राजाऽसौ त्यक्त्वा राज्यं तया सह । प्रधानेषु वनं घोरं ययौ शोकसन्वितः ॥५॥ बभ्राम भ्रांतचित्तोऽसौ सुमेधा यत्र तत्र च । ततो महावनं राजा ददर्श भयदायकम् ॥६॥ मरणे निश्चयं कृत्वा प्रविवेश महावनम् । तत्र व्याला मृगा व्याघ्राः पपुलुस्तं निरीक्ष्य ते ॥७॥ ततो राजा प्रियायुक्तो बभ्राम भ्रांतवद्यथा । तत्र क्रतुं ददर्शापि महायोगींद्रमुत्तमम् ॥८॥ कृतांजलिः स्त्रिया विप्रं प्रणनाम पुरः स्थितः । तुष्टाव तं विधेः पुत्रं तेजायुक्तं प्रजापतिम् ॥९॥ संतुष्टस्तं महीपालं समाश्वास्य जगाद ह । दुःखं किं ते महीपाल किमर्थं वद चागतः ॥१०॥ राजा तस्मै स्ववृत्तांतं कथयामास विस्तरात् । तच्छ्रुत्वा ध्यानसंयुक्तो बभूव मुनिसत्तमः ॥११॥ जगाद नृपतिं विप्र क्रतुस्तं हर्षयन्निव । मौद्गलं शृणु राजंस्त्वं पुत्रयुक्तो भविष्यसि ॥१२॥ मुदितो राजशार्दूलस्तं प्रणम्य तदाज्ञया । ययौ स्वनगरं चित्रं पुरोहितमुवाच ह ॥१३॥ श्रुत्वा वृत्तं गुरुस्तस्य शांडिल्यः सर्वशास्त्रवित् । जगाद तं महीपालं हर्षनिर्भरमानसः ॥१४॥ शांडिल्य उवाच । मौद्गलं चानयिष्यामि सर्वसिद्धिप्रदायकम् । श्रावयिष्यामि ते राजन् मा चिंतां कुरु निश्चितम् ॥१५॥ एवमुक्त्वा ययौ सोऽपि क्रतुं योगींद्रवंदितम् । तं प्रणम्य यथान्यायं मौद्गलं श्रुतवान् परम् ॥१६॥ लेखयित्वा स्वयं विप्रः शांडिल्यः सर्वतत्त्ववित् । ययौ सुमेधसं भूपं जगाद वचनं हितम् ॥१७॥ शांडिल्य उवाच । मौद्गलेन समं राजन्न किंचिद्विद्यते परम् । शास्त्रं योगींद्रवंद्यं तत् सर्वसिद्धिप्रदायकम् ॥१८॥ क्रतोः प्रसाद- माहात्म्यान् मया ज्ञातमिदं परम् । शृणु नित्यं महाराज मौद्गलं सर्वमुङ्गलम् ॥१९॥ एवमुक्त्वा स्वयं विप्रः समारभत हर्षितः । मौद्गलं तं प्रणम्याऽसौ जगाद नृपसत्तमः ॥२०॥ सुमेधा उवाच । मुहूर्तं पश्य विप्रेश शुभदं तत्पुनः प्रभो । मौद्गलं कथयस्व त्वं सर्वसिद्धिकरं परम् ॥२१॥ शांडिल्य उवाच । क्षणभंगुरदेहोऽयं न विश्वास्यो महीपते । विघ्नराजं स्मर त्वं वै तेन कालः शुभो भवेत् ॥२२॥ गाणेशं नृपशार्दूल यत्किंचित् सर्वसिद्धिदम् । तत्र द्विविधभावेन स नरोत्तम आचरेत् ॥२३॥ मुहूर्तं शुभमालोक्याथवा तं गणपं स्मरन् । समारभेन्न संदेहो मान्यत्वं तु विचारय ॥२४॥ एवमुक्तो नृपस्तेन तथेत्युक्त्वा
स्त्रिया सह । शुश्राव मौद्गलं नित्यं शांडिल्याद्धर्मसंयुतः ॥२५॥ ततः स्वल्पे गते काले गर्भयुक्तां निरीक्ष्य ताम् । पत्नीं महीपतिः सर्वैर्हर्षयुक्तो बभूव ह ॥२६॥ पुत्रं सा सुषुवे साध्वी सर्वलक्षणसंयुक्तम् । राजा नित्यं सुहर्षेण शुश्रुवे मौद्गलं परम् ॥२७॥ तदेकनिष्ठभावस्थो बभूवे नित्यमादरात् । अंते नगरसंयुक्तो जगाम गणपं परम् ॥२८॥ तत्र दृष्ट्वा गणेशानं ब्रह्मीभूतो बभूव ह । जनैः सार्द्धं सुमेधास्तु पुराणश्रवणेन वै ॥२९॥ शांडिल्योऽपि वनं गत्वा नित्यं विघ्नेशमाभजत् । गणेशाग्रे पुराणं स कथयामास मौद्गलम् ॥३०॥ नित्यं भावसमायुक्तो मौद्गले तत्परोऽभवत् । शांतियोगयुतो भूत्वाऽसेवत्तं गणनायकम् ॥३१॥ सर्वत्र सर्वमान्यः स बभूव ब्राह्मणाग्रणीः । अंते गणेश्वरं प्राप योगिवंद्यो महायशाः ॥३२॥ तस्याश्रमो गणेशस्य क्षेत्रमाभूच्च सिद्धिदम् । दर्शनाद्यैर्महाविप्र सर्वसौख्यकरं परम् ॥३३॥ एवं नित्यजपे सक्ता मौद्गलस्य महामुने । इह भुक्त्वा प्रभोगांस्ते ब्रह्मभूता बभूविरे ॥३४॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे मौद्गलनित्यश्रवणमाहात्म्यवर्णनं नाम त्रिंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ सूत उवाच । नानातपःपरः कुत्सः साक्षाद् द्विजवरोऽभवत् । तपसा शुद्धभावः स ब्रह्मश्रद्धा- परायणः ॥१॥ शमी दमपरो भूत्वा जडोन्मत्तादिकं परम् । चचार स ततः शाक्तोऽभवत् ब्रह्मणि तन्मयः ॥२॥ नाम- रूपात्मकानां तद्ब्रह्मासत्संज्ञकं मतम् । तज्ज्ञात्वा शांतिहीनश्च बभूवे खेदसंयुतः ॥३॥ तत्रागतं स योगींद्रं याज्ञवल्क्यं प्रतापनम् । ननाम तं महाभागं कुत्सो धर्मविदुत्तमः ॥४॥ संपूज्य हर्षसंयुक्तः प्रपच्छ विनयान्वितः । वद योगं महायोगिन् शांतिदं योगिनां मतम् ॥५॥ याज्ञवल्क्य उवाच । पंचचित्तमयी बुद्धिः संयोगायोगरूपिणी । तस्यां भ्रांतिप्रदा सिद्धिर्नानासिद्धिप्रदर्शिनी ॥६॥ तत्र बिंबं गणेशस्य पतितं मोहधारकम् । बिंबभावं परित्यज्य ब्रह्मीभूतो भविष्यसि ॥७॥ तदर्थं वक्रतुंडस्याऽराधनं कुरु सर्वदा । तेन शांतिसमायुक्तो भविष्यसि न संशयः ॥८॥ बिंबं मायायुतं प्रोक्तं मोहितं
खं. ९ अ. ३२ पान ८१ सिद्धिबुद्धिगम् । तद्भावं हंति तुंडेन तेनायं वक्रतुंडकः ॥९॥ मायासुखं नराकारं तस्माद्वक्रं परं सुखम् । तयोर्ब्रह्मसमायोगे वक्रतुंडोऽयमुच्यते ॥१०॥ कंठाधो मायया युक्तो मस्तकं तद्विवर्जितम् । वक्राख्यं तस्य विप्रेश तेनाऽयं वक्रतुंडकः ॥११॥ अनेनार्थेन संयुक्तं वक्रतुंडं भजस्व च । तेन शांतिसमायुक्तो गाणपत्यो भविष्यसि ॥१२॥ एवमुक्त्वा ययौ योगी याज्ञवल्क्यो महायशाः । कुत्सो हर्षसमायुक्तो वक्रतुंडपरोऽभवत् ॥१३॥ ततः स्वल्पेन कालेन शांतिं लेभे महामुनिः । गाणपत्यस्वभावेनाऽभजत्तं वक्रतुंडकम् ॥१४॥ कुत्सो नित्यं महायोगी वक्रतुंडचरित्रकम् । खंडं पपाठ भक्त्या स मौद्गलस्य सुहर्षितः ॥१५॥ तस्य गेहे कदाचित्तु अगमत् शूलसंयुतः । भगंदरयुतः पापी द्विज आंगिरसोद्भवः ॥१६॥ दुःखयुक्तो ननामाऽसौ कुत्सं योगविदां वरम् । स्नात्वा सुषुवाप विप्रेश तत्सांनिध्येऽतिदुःखितः ॥१७॥ कुत्सो गणेशं संपूज्याऽपठत्तं वक्रतुंडगम् । चरितं सोऽपि शुश्रावानायासेन गृहे स्थितः ॥१८॥ संपूर्गे संश्रुते तत्र रोगहीनो बभूव ह । प्रणम्यांगिरसस्तं च ययौ स्थानं स्वकीयकम् ॥१९॥ भुक्त्वा स विविधान् भोगान् जगामांते गणेश्वरम् । चित्रमांगिरसोद्भूतं पश्य शौनक ते नमः ॥२०॥ एवं नाना जनाः सिद्धिं ययुः श्रवणमात्रतः । वक्रतुंडचरित्रस्य मौद्गलस्यस्य मानद ॥२१॥ तन्नैवं कति ते ब्रूयां मया वक्तुं न शक्यते । अतः संक्षेपतः प्रोक्तं माहात्म्यं श्रवणे भवम् ॥२२॥
॥ ओमिति श्रीमदंत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खंडे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे वक्रतुंडचरित्रश्रवणमाहात्म्यवर्णनं नामैकत्रिंशोऽध्यायः ॥
❧❧❧
॥ श्रीगणेशाय नमः ॥ सूत उवाच । पिप्पलादः पुरा कश्चिद्वभूव ब्राह्मणोत्तमः । स शैवमार्गसंयुक्तोऽभजत्तं शंकरं सदा ॥१॥ गौतमीतीरसंस्थः स क्रमतो योगसंस्थितः । बभूव सहजे संस्थः स्वाधीनत्वपरायणः ॥२॥ ततो वेदार्थजं योगं ज्ञात्वा शांतिधरं परम् । सहजं मोहहीनं तत् दृष्ट्वा दुःखयुतोऽभवत् ॥३॥ जगाम गौतमं विप्रो भक्तिसंयुक्त आनमत् । पप्रच्छ योगशांत्यर्थमुपायं ब्रह्मदं परम् ॥४॥ जगाद गौतमो विप्रं स पृष्टश्चैकदंतकम् । ब्रह्म तस्यैव भक्त्या त्वं शांतियोग-
मवाप्स्यसि ॥५॥ यन्मायाविकारैश्च संयुक्तं मुनिसत्तम । मायया सह तद्विद्धि एकशब्दप्रवाचकम् ॥६॥ मायाहीनं स्थितं यत्तन्मायिकं वा द्विजोत्तमं । दंतसंज्ञं विजानीहि पश्य वेदे विचक्षण ॥७॥ तयोर्योगे गणेशान एकदंत इति श्रुतः । तं भजस्व विधानेन शांतियुक्तो भविष्यसि ॥८॥ एवमुक्त्वा महायोगी गौतमो विरराम ह । पिप्पलादश्च संनम्य ययौ स्वस्याश्रमं परम् ॥९॥ तत्रस्थश्चैकदंतं सोऽभजद्भक्तिसमन्वितः । गणेशाकृपया विप्रो योगशांतियुतोऽभवत् ॥१०॥ ततो नित्यं महाविप्र एकदंतचरित्रकम् । अपठन्मौद्गले संस्थं गाणपत्यस्वभावतः ॥११॥ कस्मिंश्चित् समये योगी पूजयित्वैक- दंतकम् । अपठच्चरितं तस्य तत्सान्निध्ये सुभक्तितः ॥१२॥ तत्र पल्ली स्थिता काचित् सा शुश्राव चरित्रकम् । ज्वरयुक्ता महाभाग ज्वरहीना बभूव ह ॥१३॥ देहांते गणनांथं तु जगाम चरितश्रवात् । तं दृष्ट्वा ब्रह्मभूता सा बभूवे चित्रमद्भुतम् ॥१४॥ एवमेकरदस्यैव चरितस्य च सेवने । श्रवणेन नरा नार्यो ब्रह्मीभूता बभूविरे ॥१५॥ तेषां न शक्यते वक्तुं चरितं केनचिन् मुने । अतः संक्षेपतः प्रोक्तं सर्वसिद्धिप्रदायकम् ॥१६॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खंडे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे एकदंतचरितमाहात्म्यवर्णनं नाम द्वात्रिंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः॥ सूत उवाच । माध्यंदिनो महाभागो मुनिः सर्वार्थकोविदः । स्वधर्मनिरतो नित्यं नानाबलतपोन्वितः ॥१॥ स शांत्यर्थ जगामैव व्यासं सर्वज्ञमुत्तमम् । तं प्रणम्य महाभागं पप्रच्छ विनयान्वितः ॥२॥ माध्यंदिन उवाच । शांत्यर्थं किं नरैः कार्यं तन्मे वद महामते । येन योगयुताः सर्वे ब्रह्मीभूता बभूविरे ॥३॥ व्यास उवाच । संयोगाऽयोगयोर्योगे ब्रह्मभूतो नरो भवेत् । तेन शांतियुतो भावी सा शांतिः सर्वसंमता ॥४॥ स एव गणनांथस्तु महोदर इति स्मृतः । तं भजस्व विधानेन तदा शांतिमवाप्स्यसि ॥५॥ संयोगाऽयोगरूपः सन् तयोरुदरगान् परान् । भुनक्ति सकलान् भोगान् स्मृतस्तेन महोदरः ॥६॥ ब्रह्मसु ब्रह्मसौख्यं यद्भोगरूपं प्रकीर्तितम् । भुक्तो भोगः स्थितो यत्र तदेव जठरं स्मृतम् ॥७॥ जगतां
खं. ९ अ. ३४ | पान ८३
ब्रह्मणां विप्र जठरे संस्थितः सदा । गणेशो भोगभोक्ता वै कोऽपि तस्योदरे न तु ॥८॥ प्रोक्तो महोदरस्तेन वेदेषु गणनायकः । एकस्तं भज भक्त्या वै तया शांतिमवाप्स्यसि ॥९॥ एवमुक्त्वा महायोगी व्यासो योगींद्रसत्तमः । विरराम स तं नत्वा आश्रमं स्वं जगाम च ॥१०॥ महोदरचरित्रं स मौद्गलस्थं विशेषतः । सेव्ययोगपरो भूत्वाऽभजत्तं तु महोदरम् ॥११॥ तस्मै तुष्टो गणाधीशो ददौ योगं सुशांतिगम् । ततः शांतियुतो नित्यमभजद्गणनायकम् ॥१२॥ महोदरचरित्रं यदपठन्नित्यमादरात् । महायोगी स्वयं तत्र स्थापयामास विघ्नपम् ॥१३॥ कदाचिद्गणराजं स पूजयित्वा पपाठ तत् । महोदरस्य माहात्म्यं तत्र चित्रं बभूव ह ॥१४॥ मंडूको दैवयोगेन शुश्रावाज्ञानसंयुतः । निर्माल्ये संस्थितस्तत्र भयभीतः समंततः ॥१५॥ ततो बहौ गते काले मृतं तं कुत्रचित् स्थले । मंडूकं च समानेतुमगमन् गाणपा मुदा ॥१६॥ संगृह्य ब्रह्मभूतं ते चक्रुरेकश्रवात् परम् । पाठस्य पश्य विप्रेश माहात्म्यं परमाद्भुतम् ॥१७॥ एवं नाना जना विप्र महोदर- चरित्रकम् । संसेव्य भुक्तभोगास्तेऽभवन् ब्रह्ममयाऽमृताः ॥१८॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खंडे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे महोदरचरितमाहात्म्यवर्णनं नाम त्रयस्त्रिंशोऽध्यायः ॥
॥ श्रीगणेशाय् नमः ॥ सूत उवाच । आश्वलायनवंशस्थो ब्राह्मणः सुरुचिः पुरा । नाम्ना स्वधर्मनिष्ठः स ब्रह्मज्ञानपरोऽभवत् ॥१॥ नानायोगक्रमे सक्तः शमी दमपरायणः । चचार योगचर्यां तामंते सहजगोऽभवत् ॥२॥ तत्र स्वाधीनतां दृष्ट्वा विस्मितः प्रययौ स्वयम् । स्वगुरुं तं प्रणम्याऽऽदौ योगं पप्रच्छ उत्तमम् ॥३॥ सुरुचिरुवाच । वद योगं महायोगिन् शांतिदं सर्वभावतः । अस्माकं त्वं परा काष्ठा गुरुवंशधरः प्रभुः ॥४॥ आश्वलायन उवाच । पैलेन कथितो योगो मह्यं शांतिप्रदः परः । तं तेऽहं कथयिष्यामि ब्रह्मभूतप्रदायकम् ॥५॥ चित्तं पंचविधं त्यक्त्वाऽहं ब्रह्मेति प्रबोधतः । सरसं तेन शांतिस्थो भविष्यसि न संशयः ॥६॥ सरसं चित्तकं यस्मात् संभूतं यन्मयं मतम् । अंते यत्र गतं तत्त्वं गजं जानीहि मानद ॥७॥ तदेवाननकं
यहाँ दिए गए पृष्ठ का मूल संस्कृत पाठ (श्लोक संख्या ८ से २५ एवं अध्याय समाप्ति पुष्पिका) प्रस्तुत है:
यस्य तं भजस्व विधानतः । गजाननं सुशांतिस्थो भविष्यस्यधुना मुने ॥८॥ एवमुक्त्वा महाविप्र आश्वलायन आदरात् । तूष्णीं स्थितः स तं नत्वा ययौ स्वस्याश्रमं पुनः ॥९॥ गजाननपरो भूत्वाऽभजत्तं नित्यमादरात् । गजाननचरित्रं सोऽपठन् मौद्गलसंस्थितम् ॥१०॥ तेन तुष्टो गणाधीशो ददौ योगं प्रशांतिदम् । भक्ताय वै सुरुचये भक्तवाञ्छाप्रपूरकः ॥११॥ ततस्तेन रहस्यं यच्चतुर्वेदसमुद्भवम् । ज्ञातं गजाननाख्ये तत् संस्थितं ब्रह्मणोदितम् ॥१२॥ गच्छंति यत्र सर्वाणि विश्वानि ब्रह्मकाणि तु । योगरूपेण यस्तेषु स गच्छतिग उच्यते ॥१३॥ सर्वगं ब्रह्म सत्प्रोक्तमृग्वेदे सारगं परम् । तदेव गश्च विज्ञेयो मुने नाम्नि गजानने ॥१४॥ जायंते विविधान्येव विश्वानि ब्रह्मकाणि च । तस्माददः स जः ख्यातोऽद्वितीयात्मक एककः ॥१५॥ आदिमध्यांतभावेषु यादृशं तादृशं भवेत् । यजुषि ब्रह्म संप्रोक्तं स्मृतोऽजः स गजानने ॥१६॥ पंचचित्तमयं सर्वं नाशनन्नात्र संशयः । नष्टं नकारगं विद्ध्याऽऽसमंतादा च तन्न वै ॥१७॥ नष्टभावेषु यस्तिष्ठेदासमंतात्तदेव तत् । ब्रह्म साम्ना समाख्यातं स्थित आनो गजानने ॥१८॥ पंचचित्तमयं सर्वं नष्टं ज्ञातव्यमंजसा । तदेव योगभावेन ब्रह्मरूपं प्रकीर्तितम् ॥१९॥ अथर्वणसमाख्यातमहमात्मा न संशयः । अज्ञानेन विनाशाख्यो न स्मृतः स गजानने ॥२०॥ एतद् ब्रह्ममुखेभ्यश्च चतुर्भ्यः सारमीरितम् । गजाननो महाविप्र चतुर्वेदात्मकः स्मृतः ॥२१॥ एवं गजाननं ज्ञात्वाऽभजत्तं सुरुचिः सदा । अपठत्तस्य माहात्म्यं तत्र चित्रं बभूव ह ॥२२॥ कपोतो वृक्षसंस्थः कः तत् शुश्राव चरित्रकम् । स रोगसंयुक्तः पापी रोगहीनो बभूव ह ॥२३॥ अंते गजाननं गत्वा ब्रह्मीभूतोऽभवन् मुदा । अज्ञानश्रवणेनैवाऽतः फलं किं वदामि ते ॥२४॥ एवं नाना जना खंडं यद्गजानननामकम् । श्रुत्वा पठित्वा भुक्त्वांते भोगान् ब्रह्म प्रलेभिरे ॥२५॥
अध्याय पुष्पिका (समाप्ति सूचक वाक्य):
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खंडे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे गजाननचरितश्रवणपठनमाहात्म्यवर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥
खं. ९ अ. ३६ पान ८५ ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖ ॥ श्रीगणेशाय नमः ॥ सूत उवाच । भार्गवः कपिलो नाम सर्वशास्त्रविशारदः । कपिलस्य वरेणैव समुत्पन्नः सुधर्मवित् ॥१॥ नानातपःसमायुक्तो योगनिष्ठो बभूव ह । तदर्थं शुनकं सोऽपि जगाम विनयान्वितः ॥२॥ तं प्रणम्य महात्मानं स्थित आर्जवसंयुतः । कदाचित्ते महाभागं पप्रच्छ पितरं मुदा ॥३॥ कपिल उवाच । योगशांतिप्रदं नाथ वद ब्रह्मणि तन्मयम् । त्वं नो गुरुः समाख्यातस्तारयस्व भवार्णवत् ॥४॥ शौनक उवाच । विश्वानि विद्धि तं योगं ब्रह्मणि निःसृतानि च । यदाधारेण वर्तंते ते गच्छंति यदात्मनि ॥५॥ तदेव योगदं ब्रह्म लंबोदरप्रवाचकम् । तस्योदरे स्थितं ब्रह्म विश्वं च भज तं सदा ॥६॥ तेन शांतिसमायुक्तो ब्रह्मीभूतो भविष्यसि । नान्यथा त्वं महाभाग सिद्धिबुद्धिविमोहितः ॥७॥ एवमुक्त्वा महायोगी शुनको विरराम ह । तं प्रणम्य ययौ सोऽपि स्वाश्रमं हर्षसंयुतः ॥८॥ लंबोदरचरित्रं स मौद्गलस्थं जजाप ह । गणेशं पूजयामास नित्यं भक्तिपरायणः ॥९॥ तेन तुष्टो गणाधीशो ददौ योगं सुशांतिदम् । कपिलाय स्वभक्ताय भक्तवात्सल्य- कारणात् ॥१०॥ शांतियुक्तः स्वयं योगी तज्जजाप चरित्रकम् । नित्यं पूजापरो भूत्वा लंबोदरसमीपगः ॥११॥ तत्र चित्रं कदाचिद्वै बभूव शृणु शौनक । बलीवर्दः स्थितः कश्चिद्रोगाक्रांतः पपात ह ॥१२॥ शुश्राव तच्चरित्रं स संपूर्णं ज्ञानहीनतः । सद्यो वै रोगनिर्मुक्तो बभूवे हर्षसंयुतः ॥१३॥ नाजानंस्तन् महत् पुण्यं बलीवर्दः कदाचन । कालेन स मृतस्तत्र ब्रह्मीभूतो बभूव ह ॥१४॥ एवमज्ञानतो वाऽपि ज्ञानतो विविधा जनाः । ब्रह्मीभूता बभूवुश्च मया वक्तुं न शक्यते ॥१५॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खंडे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे लंबोदरचरितवर्णनं नाम पंचत्रिंशोऽध्यायः ॥ ❧ ॥ श्रीगणेशाय नमः ॥ सूत उवाच । अश्वत्थामा महाभागो द्रोणपुत्रः प्रतापवान् । कृपेण मातुलेनैव जगाम वनमुत्तमम् ॥१॥ भारते संस्थितं सारं ज्ञात्वा कृष्णमुखाच्च्युतम् । बुद्धेः परतरं ब्रह्माऽभवत्तत्रैव लालसः ॥२॥ बुद्धेः पत्युर्गणेशस्य हृदि ज्ञानं कथं भवेत् । परिपूर्णं तदर्थं स गौतमं शरणं ययौ ॥३॥ कृपस्तं विनयेनैव प्रणम्याश्रमसंस्थितः । सेवार्थं भागिनेयेन संयुक्तः परमार्थवित् ॥४॥ कदाचियोगिनां मध्ये गौतमः संस्थितोऽभवत् । कथयामास योगं स शांतिदं योगसेवया ॥५॥ तत्र हर्षेण संयुक्तोऽश्वत्थामा विनयान्वितः । पप्रच्छ कृपसंयुक्तः संशयस्यापनुत्तये ॥६॥ अश्वत्थामोवाच । योगप्राप्त्यर्थ-
मानंदात् कस्योपासनमाचरेत् । योगरूपस्य योगीश वद सर्वज्ञ ते नमः ॥७॥ गौतम उवाच । गणेशोपासनं मुख्यं पूर्णं शांतिप्रदायकम् । योगाकारः स वै वेदे नरे गजमयत्वतः ॥८॥ पंचचित्तात्ममोहेन तेन सर्वं विमोहितम् । न जानाति परं भावं योगदं गणनायकम् ॥९॥ समोहं चित्तमुत्सृज्य स्वयं चिंतामणिर्भवेत् । तस्माद्विकटभक्त्या स लभ्यते विकटः प्रभुः ॥१०॥ पंचचित्तमयं यद्यत्तस्माद्विकटभावतः । भ्रमं त्यक्त्वा स्वचित्तस्थं तं भजस्व गजाननम् ॥११॥ तच्छ्रुत्वा विस्मिताः सर्वे मुनयस्तं प्रणम्य च । स्वस्वाश्रमं समागम्य विकटे भजने रताः ॥१२॥ अश्वत्थामा कृपश्चैव तं प्रणम्य महामतिम् । स्वस्वाश्रमं समागत्य विकटे भजने रतौ ॥१३॥ मौद्गलस्थं चरित्रं तौ विकटस्य महात्मनः । प्रपेठतुर्महा- भक्त्या पूज्य नित्यं गणेश्वरम् ॥१४॥ ततः स्वल्पेन कालेन संतुष्टो विकटोऽभवत् । ददौ योगं स ताभ्यां वै पूर्णशांति- प्रदायकम् ॥१५॥ तथापि तौ महाभागौ पाठं चक्रतुरादरात् । खंडस्य विकटस्यैव विकटं पूज्य नित्यदा ॥१६॥ एकदा पाठसंयुक्तावभूतां च द्विजोत्तमौ । तत्र श्वा च कृपस्याग्रे शुश्रुवे संस्थितो महान् ॥१७॥ अश्वत्थाम्नश्च मार्जारः समीपस्थित आशृणोत् । तौ रोगाद्यैर्विहीनौ च जातावज्ञानतः श्रवात् ॥१८॥ अंते स्वानंदगौ जातावेकश्रवणपुण्यतः । अतः किं महिमानं ते कथयामि ह्यपार कम् ॥१९॥ अश्वत्थामा कृपश्चैव स्वस्वांशे संगतो मुदा । अंते योगयुतौ विप्र विकटे भजने रतौ ॥२०॥ शौनक उवाच । योगयुक्तौ कथं सूत स्वांशगौ तौ बभूवतुः । गणेशेन तदाकारौ महच्चित्रं वदस्व माम् ॥२१॥ सूत उवाच । देवाः कलांशभावेन भूभारहरणाय वै । भवंति मानवाद्यास्ते नानासामर्थ्यसंयुताः ॥२२॥ इह पापं यदा कृत्वा गच्छंति यमपं मृताः । पतंति नरकेष्वेव यथा दशरथादयः ॥२३॥ अथवा पुण्यमुग्रं ते कृत्वाऽन्ते स्वर्गगा मुदा । भवंति भोगसंयुक्ता यथा रामो यमस्थले ॥२४॥ भवंति योगयुक्तास्ते यदा स्वस्वांशगास्तदा । तदाकारा गणेशानं कल्पांते संगता मुदा ॥२५॥ यथा विदूरकः सद्यः कौरवे यमदेहगः । यमाकारो गणेशानमभजद्भक्तिसंयुतः ॥२६॥ अंते योगसमायुक्तो यमः परमपावनः । ययौ गणेश्वरं विप्र ब्रह्मभूतः स्वभावतः ॥२७॥ एतत्ते कथितं पूर्णं चरित्रं श्रवणात्मकम् । विकटस्यैव खंडस्य सर्वसिद्धिप्रदायकम् ॥२८॥ एवं नानाजनाश्चाश्च श्रुत्वा खंडं महाद्भुतम् । विकटस्य सुखं भुक्त्वा ब्रह्मीभूता बभूविरे ॥२९॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खंडे योगचरिते दक्षमद्गलसंवादे योगामृतार्थशास्त्रे विकटखंडमाहात्म्यवर्णनं नाम षट्त्रिंशोऽध्यायः ॥
खं. ९ अ. ३७ पान ८७ ॥ श्रीगणेशाय नमः ॥ सूत उवाच । बिभीषणो महाभागो लंकां प्राप्य सुहृद्वृतः । रामं पूज्यं स्वयं नित्यं भक्तियुक्तोऽभजत् परम् ॥१॥ तत्रादौ गणनाथस्य पूजनं वेदसंमतम् । विचार्य विस्मितः सोऽपि दुःखयुक्तो बभूव ह ॥२॥ धारयामास मनसि गणेशं ब्रह्मनायकम् । सर्वपूज्यं गणेशस्योच्छिष्टभुजोऽमरान् परान् ॥३॥ कदाचित्तत्र योगीशो नारदः स्वेच्छया- ऽऽगतः । तं प्रणम्य प्रपूज्यैव परं पप्रच्छ हृत्स्थितम् ॥४॥ बिभीषण उवाच । गणेशोच्छिष्टभोक्तारो देवा विष्णुमुखा मुने । अग्रपूज्यप्रभावत्वात् किमिदं वेदसंमतम् ॥५॥ नारद उवाच । ब्रह्माकाराः शिवाद्याश्च नानायोगप्रधारकाः । ब्रह्माण्यन्नमुखान्येव वेदेषु कथितं बुधैः ॥६॥ तेषां स्वामी गणेशानो ब्रह्मणस्पतिसंज्ञितः । ब्रह्मणां पातृभावाद्द्वै पालयितृप्रभावतः ॥७॥ तेषां योगप्रदानार्थं देहधारी बभूव ह । गजाननादिचिह्नैः स संयुक्तो ब्रह्मरूपकैः ॥८॥ विघ्ना सत्तात्मकाः प्रोक्तास्तेषां स्वामी गजाननः । विघ्नैः सर्वान् प्रमथ्यैव खेलते योगरूपधृक् ॥९॥ ब्रह्माणि विघ्नयुक्तानि भवन्ते राक्षसाधिप । सत्यसंकल्पहीनानि तदा तमभजन् परम् ॥१०॥ पराधीनस्वभावं च जानते तानि नित्यदा । स्वकीयं च ततः प्रीतो गणेशो जायते परः ॥११॥ ददाति योगमुख्यं स्वं गणेशस्तेभ्य आदरात् । तदा विघ्नविहीनानि भवन्ते वीर्यवंति तु ॥१२॥ अतो गणेश्वरः पूर्णः सर्वेषां पूर्णतां गतः । पूर्णसर्वादितां वेदे ज्येष्ठराजप्रभावतः ॥१३॥ एवं विघ्नेश्वरं नित्यं भज त्वं शांतिदायकम् । रामः स एव विघ्नेशः कलांशेन न संशयः ॥१४॥ गणेशभजने कस्य व्यभिचारो भवेन्न वै । समूहानां पतित्वात्तु समूहा विष्णुमुख्यकाः ॥१५॥ एवमुक्त्वा महायोगी नारदो गणपं स्मरन् । ययौ सोऽपि महाबुद्धिर्विचार्य गणपे रतः ॥१६॥ पपाठ विघ्नराजस्य स खंडं मौद्गलस्थितम् । नित्यं भक्तिप्रयुक्तः संपूज्य तं गणनायकम् ॥१७॥ ततः शांतिसमायुक्तो बभूवेह बिभीषणः । गणेशमभजन्नित्यं परं रामैक्यमार्गतः ॥१८॥ एकदा राक्षसाधीशो ह्यगमत् सेतुबंधनम् । महोदरं प्रपूज्यैव तत्रस्थः पाठमकरोत् ॥१९॥ तत्र भेकी जले संस्था शुश्रुवे खंडमुत्तमम् । विघ्नराजस्य तेनैव सुखयुक्ता बभूव ह ॥२०॥ एतस्मिन्नंतरे तत्र सा सर्पेण धृताऽभवत् । ग्रस्ता ममार गाणेशैर्नीता स्वानंदके पुरे ॥२१॥ भेकीं गृह्य ब्रह्मभूतां चक्रुर्हर्ष- समन्विताः । एवमज्ञानतः पुण्यं विघ्नेशचरितोद्भवम् ॥२२॥ नाना जनादयो विप्र श्रुत्वा खंडं ययुर्मुदा । स्वानंदं भुक्तभोगाश्च मया वक्तुं न शक्यते ॥२३॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खंडे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे विघ्नराजखंडश्रवणपठनमाहात्म्यवर्णनं नाम सप्तत्रिंशोऽध्यायः ॥ म. पु. १२
खं. ९ अ. ३८ | पान ८८ ॥ श्रीगणेशाय नमः ॥ सूत उवाच । वरतंतुर्मुनिश्श्रेष्ठो नानाविधतपः परः । शांतिं न तपसा लेभे ततः खेदयुतोऽभवत् ॥१॥ नश्वरं विश्वमेवं स ज्ञात्वा ब्रह्मपरोऽभवत् । तत्राऽऽजगाम पौलस्त्यो विश्रवा मुनिसत्तमः ॥२॥ तं दृष्ट्वोत्थाय विप्रेशं प्रणनाम पुपूज ह । पप्रच्छाऽऽभोज्य हर्षेण युक्तः परमपावनम् ॥३॥ वरतंतुरुवाच । त्वं साक्षाद्योगिनां वंद्यः पावनो हि समागतः । महापुण्येन ते पादपद्मं दृष्टं मया प्रभो ॥४॥ योगशांतिप्रदं ब्रूहि येन शांतो भवाम्यहम् । नश्वरं सर्वमुत्सृज्य तदर्थं लालसोऽधुना ॥५॥ विश्रवा उवाच । ब्रह्मज्ञानं विना तात न शांतिं लभते नरः । ब्रह्म नानाविधं वेदेषु प्रोक्तं वेदवादिभिः ॥६॥ तेषां पतिं गणाधीशं ब्रह्मणस्पतिसंज्ञितम् । तं भजस्व विधानेन तदा शांतो भविष्यसि ॥७॥ विश्वं वपुः शिरो ब्रह्म गजं योगे तयोर्मतः । सिद्धिवृद्धिपतिः साक्षात् परः स्वानंदवासकृत् ॥८॥ वर्णा धूम्रायिता यत्र मनसा मुनिसत्तम । तेन धूम्राक्षरः प्रोक्तो ब्रह्मभूयप्रदायकः ॥९॥ धूम्रवर्णं गणाधीशं भज यत्नेन मानद । तस्यैव भजनं कृत्वा शांतिं प्राप्नो- ऽहमुत्तमाम् ॥१०॥ नान्यथा पूर्णशांतिं तु लभते कोऽपि निश्चितम् । वेदादिभिर्मुनींद्रैश्च वेदाद्यैः पश्य तं विभुम् ॥११॥ पुलस्त्येनोपदिष्टोऽहं नानायोगपरायणः । त्यक्त्वा ब्रह्माणि तन्निष्ठः सदाऽभूवं न संशयः ॥१२॥ एवमुक्त्वा महायोगी विश्रवाः स्वस्थलं ययौ । वरतंतुर्विचार्यैवं गणेशभजने रतः ॥१३॥ खंडं मौद्गलसंस्थं स धूम्रवर्णात्मकं परम् । जजाप नित्यमानंदात् पूज्य विघ्नेश्वरं परम् ॥१४॥ पूर्णशांतियुतो जातो योगींद्रः सर्वपारगः । गणेशकृपया नित्यमभजद्गण- नायकम् ॥१५॥ एकदा तीर्थसंस्थः स धूम्रवर्णं पुपूज ह । तस्याग्रे नित्यकं पाठं स चक्रे धौम्रवर्णकम् ॥१६॥ तत्र काकः स्थितः सोऽपि वृक्षशाखापरायणः । शूलयुक्तः स शुश्राव धूम्रवर्णचरित्रकम् ॥१७॥ सद्यश्च शूलहीनः स बभूवे हर्षसंयुतः । उड्डीय प्रययौ तस्माद् वृक्षात् स्वेच्छापरायणः ॥१८॥ अंते गणेश्वरं गत्वा ब्रह्मभूतो बभूव ह । अज्ञानश्रवणात् पुण्यं पश्य किं कथयाम्यहम् ॥१९॥ एवं नाना जनाः श्रुत्वा धूम्रवर्णचरित्रकम् । ब्रह्मीभूता बभूवुस्ते भुक्त्वा भोगान् विशेषतः ॥२०॥ तेषु किं ते महाविप्र कथ्यते तन्न शक्यते । अतः संक्षेपतः प्रोक्तं श्रवणस्य चरित्रकम् ॥२१॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते योगामृतार्थशास्त्रे मुद्गलदक्षसंवादे धूम्रवर्णचरितमाहात्म्यवर्णनं नाम अष्टत्रिंशोऽध्यायः ॥
यहाँ पृष्ठ का मूल पाठ (प्रतिलेखन) प्रस्तुत है:
खं. ९ अ. ३९ पान ८९
॥ श्रीगणेशाय नमः ॥ सूत उवाच । प्रह्लादो नाम विख्यातो योगी योगपरायणः । मयूरेशं समाश्रित्याऽभजत्तं भक्ति- संयुतः ॥१॥ स्वप्ने ददर्श देवेशं मयूरोपरि संस्थितम् । सिद्धिबुद्धिसमायुक्तं गजास्यं भक्तवत्सलम् ॥२॥ तं प्रणम्य ननर्ताऽसौ साश्रुनेत्रो महायशाः । तं जगाद मयूरेशो वरयस्व वरान् परान् ॥३॥ स तं प्रणम्य विघ्नेशमगदद्धर्षसंयुतः । योगशांतिप्रदां देहि भक्तिं तेऽतितरां प्रभो ॥४॥ तस्य तद्वचनं श्रुत्वा तं जगाद गजाननः । मौद्गले नवमं खंडं पश्य योगप्रदायकम् ॥५॥ तेन योगींद्रवंद्यस्त्वं भविष्यसि महामते । भक्तिर्मे भविता ते तु दृढा संपूर्णभावतः ॥६॥ एवमुक्तां- ऽतर्दधेऽसौ मयूरेशो महामतिम् । संजाग्रतोऽभवत् सोऽपि स्मृत्वा स्वप्नं सुविस्मितः ॥७॥ ततो मौद्गलसंस्थं स खंडं योगात्मकं परम् । पपाठाऽलिरुद्य भक्त्या स नवमं नित्यमादरात् ॥८॥ योगगीतार्थकं योगमलभत्तत्प्रसादतः । ततोऽतिहर्षसंयुक्तो- ऽभजत्तं नवधा प्रभुम् ॥९॥ क्षेत्रसंन्याससंयुक्तो नित्यं भक्तिसमन्वितः । पपाठ पाठकृत् पूर्णं नवमं मौद्गले स्थितम् ॥१०॥ कदा दैत्येंद्रमुख्यश्च बहुधा सिंधुसंज्ञितः । क्षेत्रमूर्तिं गणेशस्य खंडयामास संस्थिताम् ॥११॥ सिंधोश्च प्रतिमां तत्र स्थापितां दैत्यपैः पुरा । प्रह्लादो दुःखसंसक्तोऽभवद् दृष्ट्वा च शौनक ॥१२॥ क्षेत्रवासिजनाः सर्वे त्यक्त्वा क्षेत्रं मयूरकम् । प्रपेलुर्भयसंयुक्ता यत्र तत्र सुदुःखिनः ॥१३॥ प्रह्लादो योगिवंद्यः स क्षेत्रसंन्यासभक्तितः । उपोषणपरो भूत्वाऽतिष्ठत्त- त्रैव नित्यदा ॥१४॥ मानसीमकरोत्त्तत्र पूजां विघ्नेश्वरस्य सः । तस्योच्छिष्टं बुभोजैव मनसा भक्तिसंयुतः ॥१५॥ दृढाऽऽग्रहं तस्य दृष्ट्वा मयूरेशोऽमृतं सदा । भक्ततालुस्थं तु कृत्वा तोषयामास तेन तम् ॥१६॥ एवं बहुौ गते काले शिवपुत्रो बभूव ह । मयूरेशो वधार्थाय सिंधोर्देवर्षिभिस्तुतः ॥१७॥ स समागत्य सिंधोश्च खंडयामास मूर्तिकाम् । तत्रस्थां स्वयमेवं तु निवासमकरोत् प्रभुः ॥१८॥ दृष्ट्वा तं पूजयामास प्रह्लादो योगिनां वरः । पारणं स चकारैव हर्षनिर्भरमानसः ॥१९॥ प्रत्यक्षं गणराजस्तं प्रसन्नो वरदोऽभवत् । स वव्रे सन्निधानस्थो भजामि त्वां तथा कुरु ॥२०॥ ब्रह्मैव ब्रह्मकल्पांते मयूरेशश्चकार तम् । अन्यं सन्निधिवासस्थं गणं ब्रह्मप्रियाख्यकम् ॥२१॥ अन्यच्च शृणु विप्रेश विश्वामित्रो महामुनिः । चकार मौद्गलस्यैव भक्त्या पारायणं परम् ॥२२॥ सरठस्तत्र वृक्षस्थः शुश्रावाज्ञानभावतः । ज्वरयुक्तः कदाचिद्वै नवमं खंडमुत्तमम् ॥२३॥ सद्यो हि ज्वरहीनः स बभूवे पुण्यगौरवात् । यथेष्टं विषयान् भुक्त्वाऽंते स्वानंदगतोऽभवत् ॥२४॥