मुद्राराक्षसम् (सटीक संस्कृत नाटक)
Mudrarakshasam Natakam with Hindi Commentary
महाकवि विशाखदत्त द्वारा
६५ प्रथमोऽङ्कः
है, ओज गुण है और वसन्ततिलका छन्द है। छन्द का लक्षण १, ८ में देखिए ॥२७॥
प्रथमोऽङ्कः—प्रथमः = आदिमः अङ्कः = परिच्छेदः नाटकांशो वा । अङ्क का लक्षण यह है—'अङ्क इति रूढिशब्दो भावैश्च रसैश्च रोहयत्यर्थान् । नाना-विधानयुक्तो यस्मात्तस्माद् भवेदङ्कः ॥' नाट्यशास्त्रम् । 'अन्तर्निष्क्रान्तनिखिल-पात्रोऽङ्कः' इति दर्पणकारः । 'प्रत्यक्षनेतृचरितो बीजव्यक्तिपुरस्कृतः । अङ्को-नानाप्रकारार्थः संविधानरसाश्रयः ॥' इत्यपि दर्पणकारः ।
द्वितीयोऽङ्कः
[ ततः प्रविशत्याहितुण्डिकः । ]
आहितुण्डिकः—
जाणन्ति तन्तजुत्ति जहट्ठिअं मण्डलं अहिलिहन्ति
जे मन्तरक्खणपरा ते सप्पणराहिवे उवअरन्ति ॥१॥
(जानन्ति तन्त्रयुक्तिं यथास्थितं मण्डलमभिलिखन्ति ।
ये मन्त्ररक्षणपरास्ते सर्पनराधिपावुपचरन्ति ॥)
अन्वयः—ये तन्त्रयुक्तिं यथास्थितं जानन्ति मण्डलम् अभिलिखन्ति ( च ) मन्त्ररक्षणपराः सर्पनराधिपौ उपचरन्ति ॥ १ ॥
व्याख्या—ये—जनाः, तन्त्रयुक्तिं—तन्त्रस्य सर्पौषधस्य युक्तिं योजना प्रयोग-मित्यर्थः ( राजपक्षे तन्त्रे स्वराष्ट्रचिन्तने युक्तिं न्यायं ), यथास्थितं—यथावत्, जानन्ति—विदन्ति, मण्डलम्—माहेन्द्रादिदेवतायन्त्रं मण्डलाकारवेष्टन वा (राजपक्षे मण्डलं राष्ट्रम्), अभिलिखन्ति—रेखाकारेण लिखन्ति (राजपक्षे चिन्त-यन्ति), (ये च) मन्त्ररक्षणपराः—मन्त्रैः गारुडादिमन्त्रैः रक्षणे 'आत्मगोपने परा आसक्ताः (राजपक्षे मन्त्राणां षाड्गुण्यचिन्तनात्मकंमन्त्रणाकार्याणां रक्षणे गोपने पराः आसक्ताः), ते—जनाः, सर्पनराधिपौ—अहिं राजानं च क्रमशः, उपचरन्ति—व्यवहरन्ति ॥१॥
६८
मुद्राराक्षसम्
येन स एतादृश , जितकाशी—जितेन जयेन काशते उल्लमति इति जितकाशी जयोद्धत इत्यर्थ , राजसेवक —नृपपरिचारक , एते, त्रय , अवश्य—निश्चित, विनाश—मृत्युम्, अनुभवन्ति—प्राप्नुवन्ति । कथ—केन प्रकारेण, एष —आकाशस्थित , पुरुषै , दृष्टमात्र —अवलोकित , सन्नेव, अतिक्रान्त —अन्तर्हित । एतेषु—दृश्य-मानेषु, पुटनसमुद्गकेषु—मञ्जूषामम्पुटेपु, कि वस्तु विद्यते । जीविकाया —वृत्ते , सम्पादका —साधका , सर्पा —भुजङ्गमा । प्रेक्षितुम्—द्रष्टुम्, इच्छामि—अभिलषामि । प्रसीदतु—प्रसन्नो भवतु । एतत्—प्रेक्षणमित्यर्थ , अस्थानम्—अयुक्तम् । तत्—तस्मात् , यदि—चेत् , कौतूहल—कौतुक ( विद्यत ), एहि—आगच्छ, एतस्मिन्—अस्मिन्, आवासे—गृहे, दर्शयामि—अवलोकयामि । इदम्, भर्तु —स्वामिन , अमात्यराक्षसस्य, गृहम्—भवनम् । अस्मद्विधानाम्-मद्विधानाम् इह—अस्मिन् गृहे , प्रवेश —आगम , नास्ति—न विद्यते । तेन हि—अतएव, आर्य , गच्छतु—व्रजतु। जीविकाया ,प्रसादेन—उपायेन, इह, मम, प्रवेश , अस्ति। कथ—कृत , एषोऽपि—अयमपि, अतिक्रान्त —अन्तर्हित ।
हिंदी अनुवाद—[ आकाश में ] आर्य ! क्या कहते हो कि तुम कौन हो । आर्य ! मैं जीर्णविष नाम का सँपेरा हूँ । [ फिर आकाश में ] क्या कहते हो कि मैं भी साँप से खेलना चाहता हूँ । अच्छा, कौन जीविका आप अपनाये हुए हैं ? [ फिर आकाश में ] क्या कहते हो कि मैं राजकुल का सेवक हूँ । तब तो आप साँप से खेल ही रहे हैं । कैसे ? मन्त्र और ओषधियां ( के प्रयोग ) में अनाड़ी सँपेरा, मतवाले हाथी पर चढ़ने वाला ( व्यक्ति ) और अधिकार पाकर घमण्ड में चूर रहने वाला राजकर्मचारी—ये तीनों अवश्य ही विनाश को प्राप्त होते हैं । कैसे यह देखते ही चला गया ? [ फिर आकाश में ] आर्य ! क्या कहते हो कि इन ढकी हुई पिटारियों में क्या है । आर्य ! जीविका को चलाने वाले सर्प हैं । [ फिर आकाश में ] क्या कहते हो कि मैं देखना चाहता हूँ । आप प्रसन्न हों । यह उपयुक्त स्थान नहीं है । इसलिये यदि उत्सुकता हो तो आओ, इस घर में दिखाता हूँ । [ फिर आकाश में ] क्या कहते हो कि यह स्वामी अमात्य राक्षस का घर है। हम जैसों का यहाँ प्रवेश नहीं ( हो सकता ) है । तो आप जाइए । जीविका की कृपा से मेरा प्रवेश यहाँ ( हो सकता ) है । कैसे यह भी खिसक गया ?
टिप्पणी—आकाशे—इसे आकाशभाषित कहते हैं । आकाशभाषित का लक्षण यह है—
'किं ब्रवीषीति यन्नाट्ये विना पात्र प्रयुज्यते ।
श्रुत्वेवानुक्तमप्यर्थं तस्यादाकाशभाषितम् ॥
अथवा
'अप्रविष्टै सहासापो भवेदाकाशभाषणम् ।'
द्वितीयोऽङ्कः ६६
वृत्तिमुपजीवति—जीविका का अवलंबन करता है । वर्तते अनया इति √वृत् + क्तिन् करणे=वृत्तिः, ताम् । उपजीवति—अत्र उपसर्गवशात् सकर्मकत्वम् । अमन्त्रौषधिकुशलः—मन्त्र और ओषधि के प्रयोग में अपटु । मन्त्राश्च ओषधयश्च इति मन्त्रौषधयः द्वन्द्व स०, तेषु कुशलः सुप्सुपा स०, न मन्त्रौषधिकुशलः इति नञ्तत् ० । व्यालग्राही—सँपेरा । गृह्णाति इति √ग्रह् + णिनि कर्तरि=ग्राही । व्यालस्य ग्राही व्यालग्राही षष्ठीतत् ०। यहाँ व्यालं गृह्णाति ऐसा विग्रह नही कर सकते हैं; क्योंकि इस विग्रह में 'सुप्यजातौ'—सूत्र से प्राप्त णिनि को बाधकर 'कर्मण्यण्' से अण् हो जाने पर 'व्यालग्राहः' प्रयोग बनेगा । मत्तमत्तङ्कजारोहो—मदमस्त हाथी पर चढ़ने वाला । मत्त: मतङ्गजः कर्मधारय स०, तम् साधु आरोहति इति मत्तमत्तङ्गज—आ√रुह्+णिनि साधुकारिणि कर्तरि । जितकाशी—विजय से उद्धत । √जि+क्त भावे=जितम् । जितेन जयेन साधु कागते स्पर्धते इति जित√काश्+णिनि साधुकारिणि कर्तरि । दृष्टमात्रः—देखते ही । दृष्ट इत्येतत् प्रमाणमस्य इति दृष्ट+मात्रच्=दृष्टमात्रः । पेटकसमुद्गकेषु—ढकी हुई पिटारियो मे । पेटक=पिटारी । 'पिटकः पेटकः पेटा मञ्जूषा' इत्यमरः । समुद्गक=ढक्कन । 'समुद्गकः सम्पुटकः' इत्यमरः । समुद्गच्छति इति सम्-उद्√गम्+ड कर्तरि+कन् स्वार्थे=समुद्गकः । पेटकाश्च समुद्गकाश्च इति पेटकसमुद्गकाः, तेषु ।
[ स्वगतम् । संस्कृतमाश्रित्य ] अहो ! आश्चर्यम् । चाणक्यमतिपरिगृहीतं चन्द्रगुप्तमवलोक्य विफलमिव राक्षसप्रयत्नमवगच्छामि । राक्षसमतिपरिगृहीतं मलयकेतुमवलोक्य चलितमिवाधिराज्याच्चन्द्रगुप्तमवगच्छामि । कुतः—
कौटिल्यधीरज्जुनिबद्धमूर्तिं मन्ये स्थिरां मौर्यनृपस्य लक्ष्मीम् । उपायहस्तैरपि राक्षसेन निष्कृष्यमाणामिव लक्षयामि ॥ २ ॥
व्याख्या—संस्कृतम्—देवभाषाम्, आश्रित्य—अवलम्ब्य, आश्चर्यम्—चित्रम् । चाणक्यमतिपरिगृहीतम्—चाणक्यस्य कौटिल्यस्य मत्या बुद्ध्या परिगृहीतं परिचालितं, चन्द्रगुप्तम्, अवलोक्य—दृष्ट्वा, राक्षसप्रयत्नम्—राक्षसस्य प्रयत्नं प्रयासम्, विफलमिव—व्यर्थमिव, अवगच्छामि—जानामि । राक्षसमतिपरिगृहीतं—
मुद्रारक्षसम् १००
राक्षसस्य मत्या परिगृहीत, मलयकेतु—पर्वतसूनुम्, अवलोक्य, अधिराज्यात्—अधिष्ठितो राजा अधिराज तस्य भाव आधिराज्य तस्मात्, चलित—च्युतम् इव, चन्द्रगुप्तम्, अवगच्छामि । कुत —यतो हि,
अन्वय —मौर्यनृपस्य लक्ष्मीं कौटिल्यधीरज्जुनिबद्धमूर्ति स्थिरा मन्ये, राक्षसेन उपायहस्तै निकृष्यमाणाम् इव लक्षयामि अपि ॥ २ ॥
व्याख्या—मौर्यनृपस्य—चन्द्रगुप्तभूपते , लक्ष्मी—श्रिय, कौटिल्यधीरज्जुनिबद्धमूर्ति—कौटिल्यस्य चाणक्यस्य धी बुद्धि एव रज्जु दाम तया निबद्धा सयता मूर्ति यस्या तथाविधाम्, स्थिरा—निश्चला, मन्ये—तर्कयामि । (पक्षान्तरे) राक्षसेन—नन्दामात्येन, उपायहस्तै —उपाया सामदानदण्डभेदा त एव हस्ता तै , निकृष्यमाणाम्—नितरा कृष्यमाणाम् इव, लक्षयामि—सम्भावयामि अपि ॥२ ॥
हिन्दी अनुवाद— [ मन मे । सस्कृत भाषा का आश्रय लेकर ] ओह ! आश्चर्य है । चाणक्य की बुद्धि(राय) से चलने वाले चन्द्रगुप्त को देखकर राक्षस के प्रयत्न को मैं व्यर्थ-सा समझता हूँ । ( और दूसरी ओर ) राक्षस की बुद्धि का अनुसरण करने वाले मलयकेतु को देखकर चन्द्रगुप्त को राज्य से भ्रष्ट हुआ-सा समझता हूँ । क्योकि—
राजा चन्द्रगुप्त की लक्ष्मी को चाणक्य की बुद्धिरूपी रस्सी से बँधे हुए शरीर वाली और ( अतएव ) अचल मानता हूँ, किन्तु राक्षस के उपाय रूपी हाथो से मानो खींची जाती हुई भी ( उसे ) देखता हूँ ।
टिप्पणी—सस्कृतमाश्रित्य—यह आहितुण्डिक नन्द के विशिष्ट कर्मचारी होने के कारण उत्तम पात्र है, अतएव सस्कृत मे स्वगत भाषण करता है । पहले प्राकृत मे इसलिए किया है कि वह कार्यवश आहितुण्डिक के वेश मे है । कहा भी है—'कार्यतश्चोत्तमादीना कार्यो भाषाव्यतिक्रम ' दशरूपक । आधिराज्यात्—साम्राज्य से । अधिको राजा अधिराज 'राजाह सखिभ्यष्टच्' इति सूत्रेण समासान्त टच्प्रत्यय । तस्य भाव आधिराज्यम् अधिराज+ष्यञ् , तस्मात् । मौर्यनृपस्य—मौर्यश्चासौ नृप कर्मधारय स०, तस्य । उपायहस्तै —उपाय—साम, दाम, दण्ड और भेद—रूपी हाथो से। 'भेदो दण्ड सामदानमित्युपायचतुष्टयम्' इत्यमर । उपाया एव हस्ता मयूरव्यसकादित्वात् स०, तै । इस श्लोक मे निरङ्गरूपक और वाच्योत्प्रेक्षा अलङ्कारो का साङ्कर्य है । इसमे वैदर्भी रीति है,
- द्वितीयोऽङ्कः १०१
प्रसाद गुण है और उपजाति छन्द है। यह छन्द इन्द्रवज्रा और उपेन्द्रवज्रा-इन दोनों छन्दों के मिश्रण से बनता है। इन दोनों छन्दों के लक्षण इस प्रकार हैं- 'स्यादिन्द्रवज्रा यदि तौ जगौ गः'। 'उपेन्द्रवज्रा जतजास्ततो गौ' ॥२॥
तदेवमनयोर्बुद्धिशालिनोः सुसचिवयोर्विरोधे संशयितेव नन्दकुल-लक्ष्मीः । कुतः—
विरुद्धयोर्भृशमिह मन्त्रिमुख्ययो- र्महावने वनगजयोरिवान्तरे । अनिश्चयाद्गजवशयेव भीतया गतागतैर्ध्रुवमिव खिद्यते श्रिया ॥३॥
अन्वयः—इह महावने वनगज्योः इव भृशं विरुद्धयोः मन्त्रिमुख्ययोः अन्तरे अनिश्चयात् भीतया गजवशया इव श्रिया गतागतैः ध्रुवं खिद्यते इव ॥३॥
व्याख्या—इह—अस्मिन् मगधराज्ये, महावने—महारण्ये, वनगज्योः इव—वन्यहस्तिनोः इव, भृशम्—अत्यर्थम्, विरुद्धयोः—प्रारब्धविरोधयोः, मन्त्रिमुख्ययोः—प्रधानामात्ययोः चाणक्यराक्षसयोः, अन्तरे—मध्ये, अनिश्चयात्—अस्थिरत्वात्, भीतया—त्रस्तया, गजवशया इव—करिण्या इव, श्रिया—राजलक्ष्म्या, गतागतैः—गमनागमनैः, ध्रुवं—निश्चितं, खिद्यते इव, क्लिश्यते इव ॥३॥
हिन्दी अनुवाद—तो इस प्रकार इन दोनों बुद्धिमान् सुमन्त्रियों के विरोध होने पर नन्दवंश की लक्ष्मी मानों सन्देह में पड़ गई है। क्योंकि—
यहाँ बड़े वन में दो जंगली हाथियों के समान अत्यधिक विरोधी दो प्रधान मन्त्रियों के बीच में (जय-पराजय मे) अनिश्चय के कारण डरी हुई हथिनी की तरह लक्ष्मी जाने-आने से निश्चित ही दुःख उठा रही है ॥३॥
टिप्पणी—बुद्धिशालिनोः—बुद्धिमतोः । बुद्ध्या शालेते शोभेते इति बुद्धि√शाल् + णिनि साधुकारिणि कर्तरि = बुद्धिशालिनौ, तयोः । संशयिता—सन्देहमापन्ना । संशयः जातः अस्याः इति संशय + इतच् तारकादित्वात् । महावने—महच्च तत् वनम् महावनम् कर्मधारय स०, 'आन्महतः'—इत्यात्वम्, तस्मिन् । भृशम्—अत्यंत । 'अतिवेलभृशात्यर्थम्' इत्यमरः । मन्त्रिमुख्ययोः—मन्त्रिणां मुख्यौ वा मन्त्रिषु मुख्यौ, तयोः । अनिश्चयात्—निस् वा निर्√चि + अच् भावे = निश्चयः । न निश्चयः अनिश्चयः नञ्तत्, तस्मात् । गजवशया—हथिनी ।
१०२ मुद्राराक्षसम्
'वशा नामो वन्ध्यागव्या हस्तिन्या दुहितर्यपि' इति हैम । वशा गजी गजवशा कर्मधारय स०, 'पोटायुवतिस्तोक'—इत्यादिना पुंवद्भाव पूर्वनिपातश्च, तया । गतागतै —जाने-आने से अर्थात् मलयकेतु के पास से चन्द्रगुप्त के पास जाने से और पुन चन्द्रगुप्त के पास से मलयकेतु के पास आने से । गतानि च आगतानि च इति द्वन्द्व स०, तै । सिद्यते—√ षिद्+लट्—ते भावे । उसका कर्ता, 'श्रिया' और 'गजवशया' है । इस श्लोक मे दो उपमा अलङ्कारो से अनुप्राणित उत्प्रेक्षा अलङ्कार है । इसमे वैदर्भी रीति है, प्रसाद गुण है और रुचिरा छन्द है । रुचिरा का लक्षण यह है—'जभौ सजौ गिति रुचिरा चतुर्ग्रहै' ॥ ३ ॥
तद्यावदमात्यराक्षसं पश्यामि । [ इति परिक्रम्य स्थित । ]
[ तत प्रविशत्यासनस्थ पुरुषैरनुगम्यमान सचिन्तो राक्षस । ]
राक्षस —[ सवाष्पम ] कष्ट भो ! कष्टम् ।
वृष्णीनामिव नीतिविक्रमगुणव्यापारशान्तद्विषा नन्दानां विपुले कुलेऽकरुणया नीते नियत्या क्षयम् । चिन्तावेशसमाकुलेन मनसा रात्रिन्दिवं जाग्रत सैवेयं मम चित्रकर्मरचना भित्तिं विना वर्तते ॥ ४ ॥
अन्वय —वृष्णीनामिव नीतिविक्रमगुणव्यापारशान्तद्विषा नन्दानां विपुले कुले अकरुणया नियत्या क्षयं नीते चिन्तावेशसमाकुलेन मनसा रात्रिन्दिवं जाग्रत मम सा एव इयं चित्रकर्मरचना भित्तिं विना वर्तते ॥ ४ ॥
व्याख्या—वृष्णीनामिव—यदूनामिव, नीतिविक्रमगुणव्यापारशान्तद्विषा—नीति नय विक्रम शौर्यं गुणा सन्धिविग्रहादय तेषां व्यापारेण प्रयोगेण हेतुना अथवा नीतिविक्रमौ एव गुणौ तयो व्यापारेण, शान्ता अपहृता द्विष शत्रवो येषां तादृशानां, नन्दाना—नयनन्दानां, विपुले—विशाले, कुले—वंशे, अकरुणया—दयाहीनया, नियत्या—भाग्येन, क्षय—नाश, नीते—प्रापिते, (सति) चिन्तावेशसमाकुलेन—चिन्ताया शोकस्य आवेशेन आविर्भावेन समाकुल सम्भ्रान्त यत् तादृशेन, मनसा—हृदयेन, रात्रिन्दिवम्—अहोरात्रं, जाग्रत —निद्रामननुभवत, मम—मे, सैवेयं—नन्दजीवनकालियेव, चित्रकर्मरचना—चित्रा विस्मयकरी कर्मरचना उपायोद्भावना अथ च चित्रकर्मण आलेखनक्रियाया
१०४ मुद्राराक्षसम्
अथवा—
नेदं विस्मृतभक्तिना न विषयव्यासङ्गमूढात्मना प्राणप्रच्युतिभीरुणा न च मया नात्मप्रतिष्ठार्थिना । अत्यर्थं परदास्यमेत्य निपुणं नीतौ मनो दीयते देवः स्वर्गगतोऽपि शात्रववधेनाराधितः स्यादिति ॥५॥
अन्वय —मया परदास्यमेत्य अत्यर्थं निपुण नीतौ मनो दीयते, इद विस्मृत-भक्तिना न, विषयव्यासङ्गमूढात्मना न, प्राणप्रच्युतिभीरुणा न, आत्मप्रतिष्ठार्थिना न, स्वर्गगत अपि देव शात्रववधेन आराधित स्यात् इति ॥५॥
व्याख्या—मया—राक्षसेन, परदास्यम्—परम्य स्वेतरस्य मलयकेतोरित्यर्थः दास्य मेवाम्, एत्य—अङ्गीकृत्य, अत्यर्थम्—अतीव, निपुण—प्रयत्नेन, नीतौ—नीतिप्रयोगे, मन —चित्त, दीयते—व्याप्रियते, इद—नीतौ मनोदान, विस्मृत-भक्तिना—विस्मृत भक्ति स्वामिभक्ति नन्दानुराग इत्यर्थ येन तादृशेन सता, न—नहि, विषयव्यासङ्गमूढात्मना—विषयेषु भोगेषु यो व्यासङ्ग आसक्ति तेन मूढ अप आत्मा अन्त करण यस्य तादृशेन सता, न, प्राणप्रच्युतिभीरुणा—प्राणस्य जीवस्य प्रच्युति नाश ततो भीरुणा भययुक्तेन, न, आत्मप्रतिष्ठार्थिना—आत्मन निजस्य या प्रतिष्ठा ख्याति ता य अर्थयते कामयते तादृशेन सता, न, ( किन्तु ) स्वर्गगत अपि—लोकान्तरितोऽपि, देव —महाराज (नन्द ), शात्रववधेन—अरिविनाशेन, आराधित —सन्तोषिता , स्यात्—भवेत्, इति हेतो मनो दीयते इत्यर्थ ॥५॥
हिन्दी अनुवाद—अथवा—मैं दूसरे ( अर्थात् मलयकेतु ) की सेवा स्वीकार कर ( जो ) राजनीति में अत्यन्त प्रयत्नपूर्वक मनोयोग दे रहा हूँ, सो स्वामि—भक्ति को भुलाकर नहीं ( दे रहा हूँ ), सुख-भोग की आसक्ति से विवेकहीन अन्त करण वाला होकर नहीं ( दे रहा हूँ ), प्राण-नाश से डरकर नहीं ( दे रहा हूँ ) और अपनी प्रतिष्ठा की कामना से भी नहीं ( दे रहा हूँ ) किन्तु स्वर्ग चले जाने पर महाराज ( नन्द ) शत्रु के वध से सन्तुष्ट हों ( इसलिए दे रहा हूँ ) ॥५॥
टिप्पणी—विस्मृतभक्तिना न—जिसने भक्ति को भुला दिया हो ऐसा होकर नहीं। विस्मृत भक्ति येन स विस्मृतभक्ति बहुव्रीहि स०, ‘सामान्ये नपुंसकम्’
| द्वितीयोऽङ्कः | १०५ |
|---|
इत्यनेन विग्रहवाक्ये नपुंसकत्वम् । ‘विस्मृता भक्तिः’ इति विग्रहे तु ‘विस्मृत-भक्तिना’ इति प्रयोगः स्यात् । इसका तात्पर्य यह है कि मैंने मलयकेतु का आश्रय लिया है, यह सही है किन्तु नन्द में मेरी दृढ भक्ति है। विषयव्यासङ्गमूढात्मना न—विषय-भोग की आसक्ति से मोहित आत्मा वाला होकर नही। स्वामि-भक्त होते हुए भी राक्षस ने विषयासक्ति के कारण मलयकेतु का आश्रय लिया है—ऐसी धारणा कोई न बना ले, एतदर्थ यह कहा गया है । प्राणप्रच्युतिभीरुणा न—प्राणों के विनाश से डरने वाला होकर नहीं । यदि तुम स्वामिभक्त हो और अनासक्त भी हो तो स्वामी के मर जाने पर तुम्हे उसका अनुसरण करना चाहिए न कि प्राणनाश से डरना चाहिए—इस आक्षेप का निवारण करने के लिए ऐसा कहा है । आत्मप्रतिष्ठाथिना न—अपनी प्रतिष्ठा की चाह करने वाला होकर नही । यदि ऐसी बात है तो तुम नीति से चाणक्य को जीतकर संसार में अपना यश फैलाने की कामना से मलयकेतु की सेवा कर रहे हो—इस भ्रान्त धारणा की निवृत्ति के लिए यह कहना पड़ा है । प्रतिष्ठा = गौरव । ‘प्रतिष्ठा गौरवे स्थितौ’ इति हैमः । प्रतितिष्ठति अनया इति प्रति √स्था + अङ् करणे । शात्रववधेन—शत्रु के नाश से । शत्रुः एव शात्रवः शत्रु + अण् स्वार्थे प्रज्ञादित्वात् । तस्य वधः, तेन । तब दूसरे का आश्रय लेने का तुम्हारा क्या प्रयोजन—इस प्रश्न का उत्तर इससे दिया है । स्यात्—अत्र शक्ति लिङ् । इस श्लोक में परिसंख्या अलंकार है । इसमें प्रसाद गुण है, पाञ्चाली रीति है और शार्दूलविक्रीडित छन्द है ॥५॥
[ आकाशमवलोकयन् सास्रम् ] भगवति कमलालये ! भृशमगुणज्ञासि । कुतः—
आनन्दहेतुमपि देवपमास्य नन्दं सक्तासि किं कथय वैरिणि मौर्यपुत्रे । दानाम्बुराजिरिव गन्धगजस्य नाशे तत्रैव किं न चपले प्रलयं गतासि ॥ ६ ॥
अन्वयः—चपले ! कथय आनन्दहेतुमपि देवं नन्दम् अपास्य वैरिणि मौर्यपुत्रे किं सक्तासि, गन्धगजस्य नाशे दानाम्बुराजिरिव तत्रैव किं न प्रलयं गतासि ॥ ६ ॥
व्याख्या—चपले—हे चञ्चले ! कथय—ब्रूहि, आनन्दहेतुमपि—सुखकारणमपि, देवं—महाराजं, नन्दम्, अपास्य—त्यक्त्वा, वैरिणि—शत्रौ, मौर्यपुत्रे—
१०६ | मुद्राराक्षसम्
मुरागर्भसम्भवे चन्द्रगुप्ते, किं रक्तासि—अनुरक्तासि ? गन्धगजस्य—गन्धालपहस्तिनः, नाशे—मरणे सति, दानाम्बुराजिः—दानाम्बुनः मदजलस्य राजिः रेखा, इव—तद्वत्, तत्रैव—नन्दे एव, किं—कथं, न—नहि, प्रलयम्—तिरोधानं, गतासि—प्राप्तासि ? ॥ ६ ॥
हिन्दी अनुवाद— [ आकाश की ओर देखता हुआ आँसुओं के साथ ] हे ऐश्वर्यशालिनी लक्ष्मी ! तुम गुणों को बिलकुल नहीं पहचानती हो । क्योकि—
अपने १ बताओ कि आनन्द के कारण ( होते हुए ) भी महाराज नन्द को छोड़कर शत्रु चन्द्रगुप्त में तुम कैसे आसक्त हो गईं । गन्धगज के मर जाने पर ( उसके ) मदजल की धारा के समान वहाँ ( नन्द में ) विलीन क्यों नहीं हो गई ?
टिप्पणी— साश्रम्— अस्रेण = नेत्रजलेन सह वर्तमानम् इति साश्रम् । यह क्रियाविशेषण है । भगवति— भगम् = ऐश्वर्यं विद्यते अस्या इति भग + मतुप् वत्व + ङीप् = भगवती । तत्सम्बोधने हे भगवति इति । कमलालये— कमलानि आलयः निवासस्थानम् अस्या इति कमला turn कमलालया = लक्ष्मी । तत्सम्बोधने हे कमलालये इति । अगुणज्ञा— गुणों को न जानने वाली । गुणान् जानाति इति गुण √ज्ञा + क कर्तरि = गुणज्ञा । न गुणज्ञा अगुणज्ञा नञ्त० । आनन्दहेतुम्— आनन्दस्य हेतुः षष्ठीतत्०, तम् । मौर्यपुत्रे— शूद्रा के पुत्र अर्थात् चन्द्रगुप्त । मुरायाः अपत्यम् इति मौर्यः मुरा + ण्य अपत्ये । स चासौ पुत्रश्च कर्मधारय स०, तस्मिन् । गन्धगज— श्रेष्ठ महाबली हाथी, जिसके कुंभ में मद भरता हो । इसका लक्षण यह है—
'यस्य गन्धं समाघ्राय न तिष्ठन्ति प्रतिद्विपिः ।
स वै गन्धगजो नाम नृपतेर्विजयावहः ॥'
गन्धप्रधानो गजः गन्धगजः मध्यमपदलोपी स० । दानाम्बुराजिरिव— मदजल की रेखा या धारा की तरह । यहाँ तात्पर्य यह है कि जैसे गन्धगज के मर जाने पर उसके साथ उसकी मदधारा मर जाया करती है वैसे ही महाराज नन्द के साथ तुम्हें भी मर मिटना चाहिए था न कि दुष्कुलीन पुरुष की आश्रिता होकर रहना चाहिए था । इस पद्य में उपमा अलंकार परिकर अलंकार से संसृष्ट है । इसमें वैदर्भी रीति है, प्रसाद गुण है और वसन्ततिलका छन्द है । इस छन्द का लक्षण १, ८ में देखिए ॥ ६ ॥
द्वितीयोऽङ्कः १०७
अपि च अनभिजाते !
पृथिव्यां किं दग्धाः प्रथितकुलजा भूमिपतयः पतिं पापे मौर्य यदसि कुलहीनं वृतवती । प्रकृत्या वा काशप्रभवकुसुमप्रान्तचपला पुरन्ध्रीणां प्रज्ञा पुरुषगुणविज्ञानविमुखी ॥ ७ ॥
अन्वयः—पापे ! पृथिव्या प्रथितकुलजाः भूमिपतयः दग्धाः किं ( यत् त्व ) कुलहीनं मौर्य पतिं वृतवती असि । वा काशप्रभवकुसुमप्रान्तचपला पुरन्ध्रीणां प्रज्ञा प्रकृत्या पुरुषगुणविज्ञानविमुखी ( भवति ) ॥ ७ ॥
व्याख्या—पापे—पापाचारे !, पृथिव्यां—धराया, प्रथितकुलजाः प्रथितानि विख्यातानि कुलानि वंशाः तेषु जाताः, भूमिपतयः—राजानः, दग्धाः—भस्मसाद्भूताः, किं ( यत् त्वं ), कुलहीनं—कुलशून्यं, मौर्य—वृषल, पति—स्वामिन, वृतवती असि—आवृतोः । वा—अथवा, काशप्रभवकुसुमप्रान्तचपला—काशप्रभवं काशतृणाजात यत् कुसुमं पुष्पं तस्य प्रान्तः अग्रभागः इव चपला चञ्चलाः, पुरन्ध्रीणां—रमणीना, प्रज्ञा—मतिः, प्रकृत्या—स्वभावतः, पुरुषगुणविज्ञानविमुखी—पुरुषाणाम् आश्रयभूताना जनानां ये गुणाः सत्कुलत्वादयः तेषा विज्ञाने परिग्रहे विमुखी पराङ्मुखी ( भवति ) ॥ ७ ॥
हिन्दी अनुवाद—और भी अकुलीने !
पापिनि ! पृथिवी पर विख्यात वंश मे उत्पन्न राजा लोग जल मरे जो तूने अकुलीन चन्द्रगुप्त को पति चुन लिया । अथवा काशपुष्प के सिरे के समान चंचल, रमणियों की बुद्धि स्वभावतः पुरुषो के गुणों के विवेचन से विमुख रहती है ॥७॥
टिप्पणी—अनभिजाते—अभिजाता = कुलीना, तद्भिन्ना अनभिजाता, तत्सम्बोधने अनभिजाते इति। यहाँ शोक के कारण गाली देने के रूप मे राक्षस ने लक्ष्मी को अकुलीना कहा है, वैसे तो क्षीर-सागर से उत्पन्न होने के कारण लक्ष्मी कुलीना ही है । कुलहीनम्—चन्द्रगुप्त नन्द का मुरा दासी से उत्पन्न जारज पुत्र था । इस लिए उसे कुलहीन कहा गया है । काशप्रभव—काशतृण से उत्पन्न । प्रभवति अस्मात् इति प्र√भू+अप् अपादाने = प्रभवः । काशः प्रभवः अस्य इति काशप्रभवम् बहुव्रीहि स० । पुरन्ध्रीणाम्—स्त्रियों की । पुरं धारयति इति पुर√धृ+णिच्+खच् कर्तरि+डीप् स्त्रियाम् पृषोदरादित्वात् साधुः । पुरुषगुणविज्ञानविमुखी—पुरुषों के गुणों को पहचानने में विमुख । विवृत्तं मुखम् अस्याः , इति विमुखी प्रादिबहुव्रीहि स० । इस पद्य में अर्थान्तरन्यास अलंकार है । इसमे
१०८ | मुद्राराक्षसम्
वैदर्भी रीति है, प्रसाद गुण है और शिखरिणी छन्द है। इस छन्द का लक्षण १, १३ में देखिए ॥७॥
अपि च, अविनीते ! तदहमाश्रयोन्मूलनेनैव त्वामकामा करोमि। [ विचिन्त्य ] मया तावत्सुहृत्तमस्य चन्दनदासस्य गृहे गृहजनं निक्षिप्य नगराद्निर्गच्छता न्याय्यमनुष्ठितम्। कुतः ? कुसुमपुराभियोगं प्रति अनुदासीनो राक्षस इति तत्रत्यानामस्माभिः सहैककार्याणां देवपादोपजीविनां नोद्यमः शिथिलीभविष्यति। चन्द्रगुप्तशरीरमभिद्रोग्धुमस्मत्प्रयुक्तानां तीक्ष्णरसदायिनामुपसंग्रहार्थं परकृत्योपजापार्थञ्च महता कोशसञ्चयेन स्थापितः शकटदासः। प्रतिक्षणमरातिवृत्तान्तोपलब्धये तत्संहतिभेदनाय च व्यापारिताः सुहृदो जीवसिद्धिप्रभृतयः।
व्याख्या—अपि च—अयञ्च, अविनीते—विनय-शून्य !, तत्—तस्मात् कारणात्, अहम्, आश्रयोन्मूलनेनैव—आश्रयस्य त्वदवलम्बनस्य उन्मूलननेव विनाशेनेव, त्वाम्—भवतीम्, अकामा—विफलमनोरथा, करोमि—विदधामि। विचिन्त्य—विचार्य, सुहृत्तमस्य—बन्धुप्रवरस्य, चन्दनदासस्य, गृहे—गेहे, गृहजन—कलत्रं, निक्षिप्य—न्यासीकृत्य, नगरात्—पुरात्, निर्गच्छता—निःसरता, मया, न्याय्य—ममुचितम्, अनुष्ठितम्—विहितम्। कुसुमपुराभियोगं प्रति—कुसुमपुरस्य पाटलिपुत्रस्य अभियोगं आक्रमणं तं प्रति, राक्षस—नन्दामात्यः, अनुदासीन—न निष्कामः, इति (ज्ञात्वा), तत्रत्यानाम्—कुसुमपुरे स्थितानाम्, अस्माभिः सहैककार्याणाम्—तुल्यप्रयोजनानाम्, देवपादोपजीविना—देवपादानाम् राज्ञो नन्दस्य ये उपजीविनः सेवकाः तेषाम्, उद्यमः—प्रयत्नः, न शिथिलीभविष्यति—नमन्दीभविष्यति। चन्द्रगुप्तशरीरम्—चन्द्रगुप्तस्य नृपतेः शरीरं देहम्, अभिद्रोग्धु—हन्तुम्, अस्मत्प्रयुक्तानाम्—अस्माभिः प्रयुक्तानां व्यापारितानां, तीक्ष्णरसदायिना—विषदायिनाम्, उपसंग्रहार्थ—सम्यग्ग्रहणार्थं, परकृत्योपजापार्थं च—परस्य शत्रोः कृत्यानां कार्याणाम् उपजापार्थं च भेदार्थमपि, महता—विपुलेन, कोशसञ्चयेन—धनराशिना, शकटदासः, स्थापित—नियोजितः। प्रतिक्षणम्—सततम् अरातिवृत्तान्तोपलब्धये—अरातेः शत्रोः वृत्तान्तस्य उदन्तस्य उपलब्धये प्राप्तये, तत्संहतिभेदनाय च—तेषां शत्रूणां संहतेः संघातस्य भेदनाय भङ्गाय च, जीवसिद्धिप्रभृतयः—जीवसिद्धिप्रमुखाः, सुहृदः—मित्राणि, व्यापारिताः—नियोजिताः।
हिंदी अनुवाद—और भी दुष्टे !, इसलिए मैं आधार को ही नष्ट करके तुम्हारे मनोरथ को चकनाचूर कर देता हूँ। [ सोचकर ] नगर से निकलते
द्वितीयोऽङ्कः १०६
समय मैंने मित्रवर चन्दनदास के घर मे ( अपने ) परिवार को रखकर उचित ( कार्य ) किया है । क्योकि, राक्षस पाटलिपुत्र पर आक्रमण करने में उदासीन नहीं है—ऐसा सोचकर हमारे साथ एक ही काम करने वाले, महाराज नन्द के सेवक प्रयत्न मे ढीले नही पडेंगे । चन्द्रगुप्त के शरीर को नष्ट करने के लिए हमारे भेजे हुए विष देने वालो को इकट्ठा करने और शत्रु के कार्यों का भेदन करने के लिए महान् धन-राशि के साथ शकटदास को नियुक्त कर दिया है । और क्षण-क्षण मे शत्रुओ के समाचार पाने तथा उनके गुट को तोड़ने के लिए जीवसिद्धि आदि मित्र तत्पर कर दिये गये है ।
टिप्पणी—आश्रयोन्मूलनेन—अवलम्ब को समूल नष्ट करने के द्वारा । आश्रीयते इति आ√श्रि+अच् कर्मणि = आश्रयः, तस्य उन्मूलनम्, तेन । करणे तृतीया । अकामाम्—निष्फल मनोरथ वाली । अनाप्तः कामः अनया अथवा असिद्धः कामः अस्या. इति अकामा बहुव्रीहि स०, ताम् । सुहृत्तमस्य—शोभन हृदयम् अस्य इति सुहृत् बहुव्रीहि स०, हृदयस्य हृदादेशः । अतिशयेन सुहृत् इति सुहृत्तमः सुहृद् + तमप् , तस्य । अनुदासीन.—उदासीन या निश्चेष्ट नही । उत्√आस् + शानच् , ‘ईदासः’ इत्यनेन ईत्वम् = उदासीनः । न उदासीनः अनुदासीनः नञ्तत्० । देवपादोपजीविनाम्—महाराज के अनुयायी । पूज्यो देवः देवपादाः नित्यसमासः ‘प्रशंसावचनैश्च’ इत्यनेन । गौरवे बहुवचनम् । देवपादान् उपजीवन्ति आश्रित्य वर्तयन्ति इति देवपाद उप√जीव् + णिनि कर्तरि ताच्छील्ये = देवपादोपजीविनः, तेषाम् । उपपूर्वको जीव्धातुः सकर्मकः—‘उपसर्गवशात् सकर्मकत्वम्’ । प्रशंसावाची शब्द ये है— ‘मतल्लिकाप्रमिश्राः स्युः प्रकाण्डस्थलभित्तयः । हस्तपाशत्तटाः पादपालिमर्चिकादयः ॥’ चन्द्रगुप्तशरीरम्—अत्र ‘क्रुधद्रुहोरुपसृष्टयोः कर्म’ इति सूत्रेण कर्मसंज्ञा—द्वितीया । कोषसञ्चयेन = सञ्चितेन कोषेन । ‘भाण्डानयने द्रव्यानयनम्’ । सहार्थे तृतीया । प्रतिक्षणम्—क्षणे क्षणे इति प्रतिक्षणम् यथार्थे ( वीप्सार्थे ) अव्ययीभावसमासः । ‘योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यानि यथार्थाः’ । अरातिवृत्तान्तोपलब्धये—अत्र तादर्थ्ये चतुर्थी । तत्संहतिभेदनाय—अत्रापि तादर्थ्ये चतुर्थी । सम्√हन् ( गतौ ) + क्तिन् भावे = संहतिः । जीवसिद्धिप्रभृतयः—प्रथम अंक मे आ चुका है कि जीव-, सिद्धि चाणक्य का सहपाठी रह चुका है और इस समय उसी का गुप्तचर है, किन्तु राक्षस भ्रम में पडकर उसको अपना मित्र समझ रहा है ।
११० मुद्राराक्षसम्
तत् किमत्र बहुना ?—
दृष्टात्मजः सपदि सान्वय एव देवः शार्दूलपोतमिव यं परिपोष्य नष्टः । तस्यैव बुद्धिविशिखेन भिनद्मि मर्म वर्मीभवेद्यदि न दैवमदृश्यमानम् ॥८॥
अन्वय —दृष्टात्मजः देवः शार्दूलपोतमिव यं परिपोष्य सान्वय एव सपदि नष्टः तस्य एव मर्म बुद्धिविशिखेन भिनद्मि यदि अदृश्यमानं दैवम् न वर्मी-भवेत् ॥ ८ ॥
व्याख्या—दृष्टात्मजः —दृष्टाः प्रिता आत्मजाः पुत्रा यस्य तादृशः, देवः — नन्दः, शार्दूलपोतमिव—व्याघ्रशावकम् इव, यं—चन्द्रगुप्तं, परिपोष्य—परिपाल्य, सान्वय एव—सवंश एव, सपदि—सद्यः, नष्टः —मृतः, तस्यैव—वृषलस्यैव, मर्म—जीवनस्थानं, बुद्धिविशिखेन—बुद्धिरेव विशिखः बाणः तेन, भिनद्मि—विदारयामि, यदि—चेत्, अदृश्यमानम्—अनालक्ष्यं, दैवम्—भाग्यं, न वर्मीभवेत्—वर्मरूपतामापद्य तं न रक्षेत् ॥ ८ ॥
हिन्दी अनुवाद —इसलिए यहां बहुत कहने से क्या लाभ ?— पुत्र-प्रेमी महाराज (नन्द) बाघ के बच्चे के समान जिस (चन्द्रगुप्त) को पाल-पोष कर शीघ्र ही वंश समेत नष्ट हो गए, उसी के मर्म को मैं बुद्धिरूपी बाण से छिन्न-भिन्न कर दूंगा यदि न दिखाई देने वाला भाग्य कवच बनकर (उसकी) रक्षा न करे ॥८॥
टिप्पणी—शार्दूलपोतम् इव—बाघ के बच्चे के समान । 'पोतः पाको-ऽर्भो डिम्भः पृथुकः शावकः शिशुः' इत्यमरः । भिनद्मि—विदीर्ण कर दूंगा । भविष्यात्समीप्ये लट् । वर्मीभवेत्—कवच बनेगा । अवर्म वर्म सम्पद्यमानं भवेत् इति अभूततद्भावश्चिव । इस पद्य में पूर्णोपमा अलंकार और परिणाम अलंकार है । इसमें पाञ्चाली रीति है, ओज गुण है और वसन्ततिलका छन्द है । इस छन्द का लक्षण १,८ में देखिये ॥ ८ ॥
[ ततः प्रविशति कञ्चुकी । ]
कञ्चुकी—
कामे नन्देमिवे प्रमथ्य जरया चाणक्यनीत्या यथा धर्मो मौर्य इवे क्रमेण नारे नीतं प्रतिष्ठा मयि ।
द्वितीयोऽङ्कः १११
तं संप्रत्युपचीयमानमनु मे लब्धान्तरः सेवया
लोभो राक्षसवर्ज्जयाय यतते जेतुं न शक्नोति च ॥६॥
अन्वयः—चाणक्यनीत्या यथा जरया नन्दमिव कामं प्रमथ्य नगरे मौर्ये इव मयि धर्मः क्रमेण प्रतिष्ठां नीतः । सम्प्रति सेवया लब्धान्तरो मे लोभः राक्षसवत् उपचीयमानं तम् अनु जयाय यतते च जेतुं न शक्नोति ॥ ६ ॥
व्याख्या—चाणक्यनीत्या—चाणक्यस्य कौटिल्यस्य नीत्या नयेन, यथा—इव, जरया—वार्द्धकेन, नन्दमिव—तदाख्यनृपमिव, कामं—भोगाभिलाषं, प्रमथ्य—सम्मर्द्य, नगरे—कुसुमपुरे, मौर्ये—वृषले, इव, धर्मः—सुकृतं, क्रमेण—आनुपूर्व्या, प्रतिष्ठां—स्थितिं, नीतः—आपादितः । सम्प्रति—अधुना, सेवया—(मलयकेतोः) शुश्रूषया, लब्धान्तरः—प्राप्तावसरः, मे—मम, लोभः—विषयाभिलाषः, राक्षसवत्—अमात्यराक्षस इव, उपचीयमानं—वर्द्धमानं, तम्—धर्मम्, अनु—धर्ममभिलक्ष्य, जयाय—विजयाय, यतते—उद्युङ्क्ते, च—पुनः, जेतुं—विजेतुं, न शक्नोति—न समर्थो भवति ॥ ६ ॥
हिन्दी अनुवाद—[ तब कंचुकी प्रवेश करता है । ]
कंचुकी—चाणक्य की नीति की तरह बुढ़ापे ने नन्द की तरह काम (भोग-लिप्सा) को नष्ट करके नगर (कुसुमपुर) में चन्द्रगुप्त की तरह मुझमे धर्म को क्रमशः प्रतिष्ठित कर दिया । इस समय ( मलयकेतु की ) सेवा के कारण अवसर पाकर मेरा लोभ राक्षस की तरह बढ़ते हुए उस धर्म (पक्षान्तर में चन्द्रगुप्त ) को लक्ष्य करके जीतने के लिए यत्न करता है किन्तु जीतने में समर्थ नहीं हो पाता है ॥ ६ ॥
टिप्पणी—कञ्चुकी—रनिवास का रक्षक, अन्तःपुराध्यक्ष । इसका लक्षण यह है—‘अन्तःपुरचरो वृद्धो विप्रो गुणगणान्वितः । सर्वकार्यार्थकुशलः कञ्चुकीत्यभिधीयते ।’ यह कंचुकी मलयकेतु का है । जरया—जरसा । ‘जराया जरसन्यतरस्याम्’ सूत्र से जरस् आदेश के विकल्प से होने के कारण पक्ष मे ‘जरया’ यह भी रूप होता है । प्रमथ्य—विनष्ट करके । प्र√मन्थ् + क्त्वा—ल्यप् । क्रमेण—अत्र ‘प्रकृत्यादिभ्य उपसङ्ख्यानम्’ इत्यनेन तृतीया । प्रतिष्ठाम्—स्थिति को । प्रति√स्था + अङ् भावे = प्रतिष्ठा, ताम् । तम् अनु—यहाँ ‘अनु’ को ‘लक्षणेत्थम्भूत’—सूत्र से कर्मप्रवचनीयसंज्ञा होने के कारण उसके
३१२ मुद्राराक्षसम्
योग में 'तम्' में द्वितीया हुई। जयाय—अत्र 'तुमर्थाच्च भाववचनात्' इति सूत्रेण चतुर्थी। इन श्लोक में 'जग' से 'चाणक्यनीति' की, 'लोभ' से 'राक्षस' की, 'काम' से 'नन्द' की, 'नगर' से 'मौर्य' की और 'धर्म' से 'चन्द्रगुप्त' की तुलना की गई है। 'उपचीयमानम्' का सम्बन्ध 'धर्म' और चन्द्रगुप्त दोनो से है। इसमें उपमा और समासोक्ति अलंकार है। यहाँ वैदर्भी रीति, प्रसाद गुण और शार्दूलविक्रीडित छन्द है। इस छन्द का लक्षण १, १२ में देखिए ॥ ६ ॥
[ दृष्ट्वा ] अयममात्यराक्षसः। [ परिक्रम्योपसृत्य च ] इदममात्य-राक्षसस्य गृहम्। प्रविशामि। [ प्रविश्यावलोक्य च ] अमात्य ! स्वस्ति भवते।
राक्षस —आर्य जाजले ! अभिवादये। प्रियवदक ! आसनम् अत्र-भवत उपनय।
पुरुष —एद आसणम्। उपविसदु अज्जो। (इदमासनम्। उपविश-त्वार्यः।)
कञ्चुकी—[ उपविश्य ] अमात्य ! कुमारो मलयकेतुरमात्य विज्ञा-पयति—'चिरात्प्रभृत्यार्यं परित्यक्तोचितशरीरसंस्कार इति पीड्यते मे हृदयम्। यद्यपि मह्मा स्वामिगुण न शक्यन्ते विस्मर्तुं तथापि मद्वि-ज्ञापना मानयितुमहंत्यार्य [ इत्याभरणानि प्रदर्श्य ] अमात्य ! इमान्या-भरणानि कुमारेण स्वशरीगदवतार्य प्रेषितानि, धारयितुमहंत्यार्यः।
राक्षस —आर्य ! जाजले ! विज्ञाप्यता मद्वचनात् कुमारः। 'विस्मृता मया स्वामिगुणा भवद्गुणपक्षपातेन। किन्तु—
हिन्दी अनुवाद—[ देखकर ] यह तो मन्त्री राक्षस है। [ घूमकर और समीप जाकर ] यह अमात्य राक्षस का घर है। प्रवेश करता हूँ। [ प्रवेश करके और देखकर ] आपका कल्याण हो।
राक्षस—आर्य जाजले ! अभिवादन करता हूँ। प्रियवदक ! पूज्य (जाजलि) के लिए आसन लाओ।
पुरुष—यह आसन है आर्य बैठें।
कञ्चुकी—[ बैठकर ] अमात्य ! कुमार मलयकेतु अमात्य से निवेदन कर रहे हैं कि आर्य ने बहुत दिनों से शरीरोचित संस्कार (साज-सज्जा)
द्वितीयोऽङ्कः ११३
करना छोड़ दिया है, इससे मेरा हृदय दुःखी है । यद्यपि स्वामी (नन्द) के गुण एकाएक भुलाये नहीं जा सकते हैं तो भी मेरा निवेदन आर्य मान लें । [आभूषणों को दिखाकर] अमात्य ! इन आभूषणों को कुमार ने अपने शरीर से उतार कर भेजा है, आर्य धारण करें ।
राक्षस—आर्य जाजले ! मेरी ओर से कुमार से निवेदन कर दीजिएगा कि आपके गुणों के प्रति पक्षपात के कारण मैने स्वामी ( नन्द ) के गुणों को भुला दिया है । किन्तु—
टिप्पणी—उपसृत्य—समीपम् एत्य । भवते—अत्र 'नमःस्वस्तिस्वाहा'—इति सूत्रेण स्वस्तियोगे चतुर्थी । चिरात्प्रभृति—बहुदिवसतः । परित्यक्तोचितशरीरसंस्कारः—जिसने शरीर का उचित संस्कार करना छोड़ दिया हो । सम् √कृ + घञ् करणे भावे वा, 'सम्परिभ्यां करोतौ भूषणे' इत्यनेन सुडागमः=संस्कारः । परित्यक्तः अगृहीतः उचितः योग्यः शरीरसस्कारः देहस्य नैर्मल्यं येन स परित्यक्तोचितशरीरसंस्कारः । पीड्यते—इति हेतोः पीड्यते, कर्मकर्तरि लट् अथवा इति अनेन पीड्यते, कर्मणि लट् । विज्ञापनाम्—प्रार्थनाम् । मानयितुम्—स्वीकर्तुम् । जाजले—जाजलिन् नाम के एक ऋषि थे । उनके गोत्रापत्य जाजलि कहलाते है । जाजलिनः अपत्यं पुमान् इति जाजलिन् + अण्, 'नस्तद्धिते' इति टिलोपः = जाजलः । तस्य गोत्रापत्य पुमान् इति जाजल + इञ् = जाजलिः । तत्सम्बोधने हे जाजले इति । स्वामिगुणाः—स्वामिनो राज्ञो नन्दस्य गुणाः दयादाक्षिण्यप्रभृतयः । भवद्गुणपक्षपातेन—भवतो गुणाः, तेषु पक्षपातः = आसक्तिः, तेन । हेतौ तृतीया ।
न तावन्निर्वैर्यैः परपरिभवाक्रान्तिकृपणै-
र्वहाम्यङ्गैरेभिः प्रतनमपि संस्काररचनाम् ।
न यावन्निःशेषक्षपितरिपुचक्रस्य निहितं
सुगाङ्गे हेमाङ्गं नृवर तव सिंहासनमिदम् ॥१०॥
अन्वयः—नृवर! यावत् निःशेषक्षपितरिपुचक्रस्य तव हेमाङ्कम् इदं सिंहासनं सुगाङ्गे न निहितं तावत् परपरिभवाक्रान्तिकृपणैः निर्वीर्यैः एभिः अङ्गैः प्रतनमपि संस्काररचनां न वहामि ॥ १० ॥
व्याख्या—नृवर—नरोत्तम ! यावत्, यदवधि, निःशेषक्षपितरिपुचक्रस्य—
मु० रा०—८
११४ | मुद्राराक्षसम्
निःशेष समग्रं यथा स्यात् तथा क्षपित नाशित रिपुचक्रम् अरिमण्डल यस्य तस्य, तव—ते, हेमाङ्क—सुवर्णलाञ्छितम्, इद—बुद्धिस्थ, सिहासन—भद्रासन, सुगाङ्गे—तदाख्ये कुसुमपुरप्रासादे, न निहित—न स्थापित ( भवेत् ), तावत्—तदवधि, परपरिभवाक्रान्तिकृपणे—परेभ्य शत्रुभ्य य परिभव तिरस्क्रिया तस्य आक्रान्त्या आरोपणेण हेतुना कृपणे दीने, ( अतएव ) निर्वीर्ये—पराक्रमरहिते, एभि—मदीये, अङ्गे—अवयवे, प्रतनुमपि—स्वल्पामपि, सस्कार-चना—भूषणविन्यास, न वहामि—न धारयामि ॥ १० ॥
हिन्दी अनुवाद—हे नरेन्द्र ! जब तक निःशेष रूप मे नष्ट किये गये शत्रु-समूह वाले आपका यह स्वर्णाङ्कित सिंहासन सुगाग नामक राजभवन मे स्थापित नही कर दिया जाता तब तक शत्रुजन्य तिरस्कार के आधान मे दीन एव दुर्बल ( अपने ) इन अगो मे थोडी भी साज-मज्जा धारण नहीं करूँगा ॥ १० ॥
टिप्पणी—नृव !—हे मनुष्यो मे श्रेष्ठ ! नृणा वर नृवर षष्ठीतत्०, तत्सम्बोधन हे नृवर इति । कृपणं—दीन । 'कदर्ये कृपणक्षुद्रकिम्पचानमित-म्पचा । निःस्वस्तु त्रिविधो दीनो दरिद्रो दुर्गतोऽपि स ' इत्यमर । निर्वीर्ये—अशक्त, निस्तेज । निर्गत वीर्यम् एन्य इति निर्वीर्याणि, तै । यह 'अङ्गे' का विशेषण है । निःशेष—निर्गत शेषो यस्मिन् तत् यथा स्यात् तथा । यह क्षपण क्रिया का विशेषण है । इस श्लोक मे परिकर अलङ्कार है, ओज गुण है, पाञ्चाली रीति है और शिखरिणी छन्द है । इस छन्द का लक्षण १, १३ मे देखिए ॥ १० ॥
कञ्चुकी—अमात्य ! त्वयि नेतरि सुलभमेतत् कुमारस्य । तत् प्रति-मान्यता कुमारस्य प्रथम प्रणय ।
राक्षस—आर्य ! कुमार इवानतिक्रमणीयवचनो भवानपि । तद-नुष्ठीयते कुमारस्याज्ञा ।
कञ्चुकी—[ नाट्येन भूषणानि परिधाप्य ] स्वस्ति भवते । साधयाम्यहम् ।
राक्षस—आर्य ! अभिवादये । [कञ्चुकी निष्क्रान्त ।] प्रियवदक ! ज्ञायता कोऽयमस्मद्दर्शनार्थी द्वारि तिष्ठति ।
प्रियवदक—ज अज्जो आणवेदि त्ति । [ परिक्रम्याहितुण्डिक दृष्ट्वा ] ण
द्वितीयोऽङ्कः ११५
अज्ज ! को तुमं ? ( यदार्य आज्ञापयतीति । ननु आर्य ! कस्त्वम् ) ?
आहितुण्डिकः—भद्द ! अहं क्खु आहितुण्डिओ जिण्णविसो णाम । इच्छामि अमच्चरक्खसस्स पुरदो सप्पेहि खेलिदुं । ( भद्र ! अहं खल्वाहितुण्डिको जीर्णविषो नाम । इच्छाम्यमात्यराक्षसस्य पुरतः सर्पैः खेलितुम् । )
प्रियंवदकः—चिट्ठ, जाव अमच्चस्स णिवेदेमि । [ राक्षसमुपसृत्य ] अज्ज एसो क्खु सप्पोवजीवी इच्छदि सप्पेहिं अमच्चस्स पुरदो खेलिदुं । (तिष्ठ, यावदमात्यस्य निवेदयामि । आर्य ! एष खलु सर्पोपजीवी इच्छति सर्पैरमात्यस्य पुरतः खेलितुम् ।)
हिन्दी अनुवाद—कंचुकी—अमात्य ! आपके नेतृत्व में कुमार ( मलयकेतु ) के लिए यह सुलभ है । इसलिए कुमार का यह पहला स्नेह ( -सिक्त उपहार, ) स्वीकार कीजिए ।
राक्षस—आर्य ! कुमार के समान आपकी भी आज्ञा टालने योग्य नहीं है । इसलिए कुमार की आज्ञा मान लेता हूँ ।
कंचुकी—[ अभिनय के साथ आभूषणों को पहना कर ] आपका कल्याण हो । मैं जाता हूँ ।
राक्षस—आर्य ! अभिवादन करता हूँ [ कंचुकी चला जाता है । ] प्रियंवदक ! पता करो, यह कौन मुझ से मिलने के लिए द्वार पर खड़ा है ।
प्रियंवदक—आर्य की जो आज्ञा । [ घूमकर और सँपेरे को देखकर ] आर्य आप कौन हैं ?
आहितुण्डिक—भद्र ! मै जीर्णविष नाम का सँपेरा हूँ । अमात्य राक्षस के आगे साँपों से खेलना चाहता हूँ ।
प्रियंवदक—ठहरो, जबतक मै अमात्य से निवेदन करता हूँ । [ राक्षस के पास जाकर ] आर्य ! यह सँपेरा अमात्य के सामने साँपों से खेलना चाहता है ।
टिप्पणी—त्वयि नेतरि—अत्र 'यस्य च भावेन भावलक्षणम्' इति सूत्रेण सप्तमी । प्रतिमान्यताम्—स्वीक्रियताम् । प्रणयः—प्रार्थना अथवा लाक्षणिक अर्थ—प्रेमोपहार । प्रकर्षेण नीयते अनेन इति प्र√नी+अच् करणे = प्रणयः । यह 'प्रतिमान्यताम्' का उक्त कर्म है । अनतिक्रमणीयवचनः
| ११६ | मुद्राराक्षसम् |
|---|
—जिसका वचन उल्लंघनीय न हो। अनतिक्रमणीय वचन यस्य तादृश । परिधाप्य—पहनाकर। परि-√धा + णिच्, पुक् + क्त्वा—ल्यप् । स्वस्ति भवते—अत्र ‘नम स्वस्ति’—इत्यादिसूत्रेण चतुर्थी । साधयामि—गच्छामि । नाटक मे ण्यन्त साध् धातु का प्रयोग प्राय गमन के अर्थ मे किया जाता है—'प्रायेण ण्यन्तर साधिर्गमि स्थाने प्रयुज्यते' दर्पण । अस्मद्दर्शनार्थी—अस्माक दर्शनम् अस्मद्दर्शनम्, तत् अर्थयते याचते इति अस्मद्दर्शन √अर्थ् + णिनि साधुकारिणि कर्तरि । सर्पोपजीवी—सांपो से जीविका चलाने वाला, सॅपेरा । सर्प उप-जीवति इति सर्प-उप-√जीव् + णिनि साधुकारिणि कर्तरि ।
राक्षस —[ वामाक्षिस्यन्दन सूचयित्वा आत्मगतम् ] कथ प्रथममेव सर्प-दर्शनम् ! [ प्रकाशम् ] प्रियवदक ! न न कुतूहलमस्ति सर्पदर्शने । तद् परितोष्य विसर्जयैनम् ।
प्रियवदक —ज अज्जो आणवेदि । [ परिक्रम्याहितुण्डिकमुपसृत्य ] भद्द ! एसो क्खु दे अमच्चो अदंसणेण प्पसाद करेदि । ण उण दसणेण । (यदार्य आज्ञापयति । भद्र ! एष खलु ते अमात्योऽदर्शनेन प्रसाद करोति न पुनर्दर्शनेन ।)
आहितुण्डिक —भद्द ! विण्णवेहि मम वअणेण अमच्च—'ण केवल अह सप्पोवजीवी, पाउअकवी क्खु अह, ता जइ मे दसणेण अमच्चो प्पसाद ण करेदि, ता एद पि पत्तअ वाचेदु प्पसीददु' त्ति । [पत्रमर्पयति] (भद्र ! विज्ञापय मम वचनेनामात्य—'न केवलमह सर्पोपजीवी, प्राकृत-कवि खल्वह, तस्माद् यदि मे दर्शनेनामात्य प्रसाद न करोति, तदा एतदपि पत्रक वाचयितु प्रमोद्तु' इति ।)
प्रियवदक —[ पत्र गृहीत्वा राक्षसमुपसृत्य ] अमच्च ! एसो क्खु आहितुण्डिओ विण्णवेदि—'ण केवल अह सप्पोवजीवी, पाउअकवी क्खु अह, ता जइ मे दसणेण अमच्चो प्पसाद ण करेदि, ता एद पि पत्तअ वाचेदु प्पसीददु' त्ति । (अमात्य ! एष खलु आहितुण्डिको विज्ञापयति—'न केवलमह सर्पोपजीवी, प्राकृतकवि खल्वह, तस्माद् यदि मे दर्शनेनामात्य प्रसाद न करोति, तदा एतदपि पत्रक वाचयितु प्रसीदतु' इति ।)
व्याख्या—वामाक्षिस्यन्दन—वामस्य दक्षिणेतरगस्य अक्ष्ण नेत्रस्य स्यन्दनम्