भारतकोश
संग्रह पर लौटें

मुद्राराक्षसम् (सटीक संस्कृत नाटक)

Mudrarakshasam Natakam with Hindi Commentary

महाकवि विशाखदत्त द्वारा

DevanagariSanskritpublished488 पृष्ठ

२१२ मुद्राराक्षसम्

दायमदन्ति इति दाय √अद् + अण् कर्तरि, अथवा दायमाददते इति दाय-आ √दा + क कर्तरि = दायादा । स्वस्य दायादा , तेभ्य ।

राजा—आर्य ! एवमेतेषु परिज्ञातापरागहेतुषु क्षिप्रमेव कस्मान्न प्रतिविहितमार्येण ?

चाणक्य —वृषल ! न पार्यत प्रतिविधातुम् ।

राजा—किमकोशलात्, उत प्रयोजनापेक्षया ?

चाणक्य —कथमकोशलं भविष्यति, प्रयोजनापेक्षयैव ।

राजा—तदप्रतिविधानप्रयोजनमिदानीं श्रोतुमिच्छामि ।

चाणक्य —वृषल ! श्रूयतामवधार्यताञ्च ।

राजा—उभयमपि क्रियते, कथ्यताम् ।

चाणक्य —वृषल ! इह खलु विरक्ताना प्रकृतीना द्विविध प्रतिविधा-नम्—अनुग्रहो निग्रहश्चेति । अनुग्रहस्तावदाक्षिप्ताधिकारयो भद्रभटपुरुष-दत्तयो पुन अधिकारा रोपणमेव । अधिकारश्च पुनस्तादृशेषु व्यसनयोगा-दनभियुक्तेषु पुनरारोप्यमाण सकलमेव राज्यस्य मूल हस्त्यश्वमवसादयेत् । हिङ्गुरासबलगुप्तयोरत्यन्तलुब्धप्रकृतिकयो सकलराज्यप्रदानेनाप्यपरि-तुष्यतोरनुग्रह कथ कर्तु शक्य ? राजसेनभागुरायणयोस्तु धनप्रणाशभी-तयो कुतोऽनुग्रहस्यावकाश ? लोहिताक्षविजयवर्मणोरपि दायादमसह-मानयोरतिमानिनो कीदृशोऽनुग्रह प्रीति जनयिष्यतीति परिहृत पूर्व पक्ष । उत्तरोऽपि खलु वयमचिरादधिगतनन्देश्वर्या सहोत्थायिन प्रधान-पुरुषवर्गमुग्रेण दण्डेन पीडयन्तो नन्दकुलानुरक्ताना प्रकृतीनामविश्वास्या भवाम इत्यत परिहृत एव । तदेवमनुगृहीतास्मद्द्त्यपक्षो राक्षसोपदेश-श्रवणप्रवणो महीयसा म्लेच्छबलेन परिवृत पितृवधामर्षी पर्वतकपुत्रो मलयकेतुरस्मानभियोक्तुमुद्यत इति । सोऽयं व्यायामकालो नोत्सवकाल इति । अतो दुर्गसंस्कारे आरब्धव्ये किं कौमुदीमहोत्सवेन ? इति प्रतिषिद्ध ।

व्याख्या—एवम्—इत्थम्, परिज्ञातापरागहेतुषु—परिज्ञाता अवगता अपराग-

तृतीयोऽङ्कः । २१३

गाणां विरक्तीनां हेतवः कारणानि येषां तादृशेषु, एतेषु—भद्रभटादिपु, आर्येण—भवता, क्षिप्रमेव—शीघ्रमेव, कस्मात्—कथं, न प्रतिविहितम्—प्रतीकारः कृतः ? प्रतिविधातुं—प्रतिकर्तुं, न पारिंतं—न युक्तमित्यर्थः । किम्, अकौशलात्—असामर्थ्यात्, उत—अथवा, प्रयोजनापेक्षया—ईप्सितकार्यानुरोधेन ? अवधार्यताम्—विचार्यंताम् । इह—अस्मिन् संसारे, विरक्तानाम्—अनुरागरहितानाम्, प्रकृतीनां—प्रजानाम्, द्विविधं—द्विप्रकार, प्रतिविधानं—प्रतीकारः, अनुग्रहः—अनुकम्पा, निग्रहः—दण्डः, आक्षिप्ताधिकारयोः—आक्षिप्तः आच्छिद्य गृहीतः अधिकारः कार्यभारः ययोः तथाभूतयोः, भद्रभटपुरुषदत्तयोः, पुनः—भूयः, अधिकारारोपणामेव—अधिकारे कार्यवीक्षणे आरोपणमेव स्थापनमेव, व्यसनयोगात्—स्त्रीमद्याखेटासक्तिदोषात्, अनभियुक्तेषु—अयोग्येषु, तादृशेषु—आक्षिप्ताधिकारेषु, पुनः, आरोप्यमाणः—स्थाप्यमानः, अधिकारः—गजवाजिसेनाध्यक्षत्वं, राज्यस्य—आधिपत्यस्य, सकलमेव—समग्रमेव, मूलं—कारणं, हस्त्यश्वं—गजान् अश्वांश्च, अवसादयेत्—विनाशयेत् । अत्यन्तलुब्धप्रकृतिकयोः—अतिशयितलोभाविष्टस्वभावयोः, सकलराज्यप्रदानेनापि—सम्पूर्णराज्यसमर्पणेनापि, अपरितुष्यतोः—सन्तोषमनधिगच्छतोः, हिङ्गुरातबलगुप्तयोः, अनुग्रहः, कथं—केन प्रकारेण, कर्तुं—विधातुं, शक्यः—योग्यः । धर्मप्रणाशभीतयोः—अर्थक्षयसंजातसाध्वसयोः, राजसेनभागुरायणयोः, कुतः—कथम्, अवकाशः—अवसरः ? दायादम्—ज्ञातिम्, असहमानयोः—अमृष्यतोः, अतिमानिनोः—महाभिमानवतोः, लोहिताक्षविजयवर्मणोः अपि, कीदृशः, अनुग्रहः, प्रीति—हर्षं, जनयिष्यति—उत्पादयिष्यति, इति अस्मात् कारणात्, पूर्वः—प्रथमः, पक्षः—कल्पः, परिहृतः—त्यक्तः । अचिरात्—शीघ्रम्, अधिगतनन्दैश्वर्याः—अधिगतं प्राप्तं नन्दैश्वर्यं नन्दराज्यं यैः तादृशाः, वयम्, सहोत्थायिनं—सह साकम् उत्तिष्ठति तच्छीलः सहोत्थायी तथाभूतं, प्रधानपुरुषवर्गम्—मुख्याधिकारिगणाम्, उग्रेण—तीक्ष्णेन, दण्डेन—निग्रहेण, पीडयन्तः—क्लेशयन्तः, नन्दकुलानुरक्तानां—नन्दवंशासक्तानां, प्रकृतीनां—प्रजानाम्, अविश्वास्याः—अप्रतीत्याः, भवामः, इत्यतः—अस्मात् कारणात्, उत्तरोऽपि—द्वितीयोऽपि, ( पक्षः ) परिहृत एव—त्यक्त एव । तत्—तस्मात्, एवम्—उक्तप्रकारेण, अनुगृहीतास्मद्भृत्यपक्षैः—अनुगृहीतः अनुकम्पितः अस्मद्भृत्यपक्षः अस्मत्सेवकवर्गः भद्रभटादिरिति यावत् येन तादृशः, राक्षसोपदेशश्रवणप्रवणः—राक्षसस्य उपदेशः शिक्षणम् तस्मिन् प्रवणः अनुरक्तः, महीयसा—महता, म्लेच्छ-

२१४ मुद्राराक्षसम्

बलेन—म्लेच्छसैन्येन, परिवृत —युक्त, पितृवधामर्षी—तातहत्याजन्यक्रोधयुक्त, पर्वतकपुत्र , मलयकेतु , अस्मान्, अभियोक्तुम्—पराभवितुम्, उद्यत —तत्पर सोऽय, व्यायामकाल —व्यायामस्य सैन्यमग्रहाद्यात्मकस्य विशिष्टायासम्य काल समय , न—नहि, उत्सवकाल —कौमुदीमहोत्सवसमय ( अस्ति ) । अत —अस्मात् कारणात्, दुर्गमद्वारे—दुर्गपरिष्कारे, आरब्धव्ये—प्रक्रमिंतव्ये, किम्—किम्प्रयोजन, कौमुदीमहोत्सवेन—शारदपूर्णचन्द्रनिमित्तोत्सवानुष्ठानेनेत्यर्थः ?, इति—अस्माद्धेतो , प्रतिषिद्ध —प्रतिरुद्ध उक्तोत्सव इति शेष ।

हिन्दी अनुवाद—राजा—आर्य ! इस प्रकार इनकी विरक्ति के कारणों का पता लग जाने पर आपने शीघ्र ही प्रतीकार क्यो नही किया ?

चाणक्य—वृषल ! प्रतीकार न कर पाया ।

राजा—क्या असमर्थता के कारण या प्रयोजन की अपेक्षा से ।

चाणक्य—असमर्थता क्यो होगी ? प्रयोजन की अपेक्षा से ही ।

राजा—तो अब प्रतीकार न करने का प्रयोजन सुनना चाहता हूँ।

चाणक्य—वृषल ! सुनो और विचार करो ।

राजा—दोनो कर रहा हूँ, कहिए ।

चाणक्य—वृषल ! इस संसार में विरक्त प्रजाओ का प्रतीकार दो प्रकार से किया जाता है—अनुग्रह से और निग्रह से । अनुग्रह तो पदच्युत किये गये भद्रभट और पुरुषदत्त को पुन पदारूढ करना ही है । और व्यसन के कारण वैसे अयोग्य व्यक्तियो को पुन पदारूढ करना सम्पूर्ण राज्य की जड—हस्तिसेना और अश्वसेना को विनष्ट कर देना होता । अत्यन्त लोभी स्वभाव वाले तथा सम्पूर्ण राज्य दे देने पर भी सन्तुष्ट न होने वाले हिङ्गुल रात और बलगुप्त पर कैसे अनुग्रह किया जा सकता है ? धन के नाश से डरे हुए राजसेन और भागुरायण पर अनुग्रह करने का अवसर कहाँ ? दायादो को सहन न करने वाले अत्यन्त अभिमानी लोहिताक्ष और विजयवर्मा को भी कैसा अनुग्रह सन्तुष्ट करेगा ? इसलिए पूर्व पक्ष (अनुग्रह) को छोड दिया । दूसरा पक्ष (निग्रह) भी अभी-अभी नन्द का ऐश्वर्य प्राप्त करने वाले हम साथ उठने (-बैठने) वाले प्रधान राजपुरुषो को तीक्ष्ण दण्ड के द्वारा पीडित करने पर नन्द-वश के प्रति अनुरक्त प्रजाओ के अविश्वासी हो जाएँगे—इस विचार से छोड ही दिया गया । तो इस प्रकार

तृतीयेऽङ्कः

२१५

हमारे भृत्यवर्ग को अनुगृहीत करने वाला, राक्षस की शिक्षा सुनने में तत्पर, महती म्लेच्छसेना से युक्त और पिता की हत्या से क्रुद्ध पर्वतकपुत्र मलयकेतु हम पर आक्रमण करने के लिए उद्यत है। सो यह (सैन्य-संग्रह करने के) महान् प्रयास का समय है न कि उत्सव (मनाने) का समय है। अतएव किले के संस्कार के प्रारंभ किये जाने के अवसर पर कौमुदीमहोत्सव से क्या लाभ ? इसलिए (इस उत्सव को) रोक दिया।

टिप्पणीपारितम् = √पार् + णिच् स्वार्थे (चुरादि) + क्त भावे। अकौशलात्—कुशलस्य भावः कौशलम् कुशल + अण् = कौशलम्। न कौशलम् अकौशलम्। अथवा अकुशलस्य इदम् इति अकुशल + अण् 'तस्येदम्' इत्यनेन = अकौशलम्, तस्मात्। अवधार्यताम्—समझो-विचारो। अव √धृ + णिच् + लोट्—ताम् कर्मणि। प्रतिविधानम्—प्रतीकार। प्रति-वि √धा + ल्युट्—अन भावे। आक्षिप्त—आ √क्षिप् + क्त कर्मणि। हस्त्यश्वम्—हस्तिनश्च अश्वाश्च इति हस्त्यश्वम् 'द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्' इति द्वन्द्वैकवद्भावः। अत्यन्तलुब्धप्रकृतिकयोः—अत्यन्तम् लुब्धा प्रकृतिः ययोः तौ त्रिपदव्यधिकरणबहुव्रीहि स०, तयोः। परिहृतः—छोड़ दिया। परि √हृ + क्त कर्मणि। भवामः—भविष्यामः। भविष्यत्सामीप्ये लट्। पितृवधामर्षी—पितुर्बधः, तेन अमर्षः, सः अस्ति अस्य इति पितृवधामर्ष + इनि।

राजा—आर्य ! बहु प्रष्टव्यमत्र।

चाणक्यः—वृषल ! विश्रब्धं पृच्छ। ममापि बह्वाख्येयमत्र।

राजा—एष पृच्छामि।

चाणक्यः—अहमप्येष कथयामि।

राजा—योऽयमस्माकमस्य सर्वस्यैवानर्थस्य हेतुर्मलयकेतुः स कस्मादार्येणापक्रामन्नुपेक्षितः ?

चाणक्यः—वृषल ! मलयकेतोरपक्रमणानुपेक्षणे द्वयी गतिः स्यात्—अनुगृह्येत निगृह्येत वा। अनुग्रहे पूर्वप्रतिश्रुतं राज्यार्धं प्रतिपाद्येत। निग्रहे तावत् पर्वतकोऽस्माभिर्व्यापादित इति कृतघ्नतायाः स्वयं हस्तो दत्तः स्यात्। प्रतिश्रुतार्धराज्यप्रतिपादनेऽपि पर्वतकविनाशः केवलं कृतघ्नतामात्रफलः स्यात् इति मलयकेतुरपक्रामन्नुपेक्षितः।

२१६मुद्राराक्षसम्

राजा—अथ तावदेवम्। राक्षस पुनरिहैवान्तर्नगरे वर्तमान आर्येणोपेक्षित इत्यत्र किमुत्तरमार्यस्य ?

चाणक्य—राक्षसोऽपि खलु निजस्वामिनि स्थिरानुरागत्वात् सुचिरमेकत्रवासाच्च शीलज्ञाना नन्दानुरक्ताना प्रकृतीनामत्यन्त विश्वाश्य, प्रज्ञापुरुषकाराभ्यामुपेत सहायसम्पदा युक्त, कोपबलवानिहैवान्तर्नगरे वर्तमानो महान्तं खल्वन्त कोपमुत्पादयेत् । दूरीकृतस्तु बाह्यकोपमुत्पादयन्नपि न दु स्साध्यो भविष्यतीत्यतोऽपक्रामन्नुपेक्षित ।

राजा—तत् किमर्थमिहस्थ एवोपायैर्नोपक्रान्त ?

चाणक्य—अथ कथमपक्रान्तो भविष्यति ? ननु उपायैरेवासौ हृदयेशय शङ्कु रिवोद्धृत्य दूरीकृत । दूरीकरणस्य चोक्त प्रयोजनम् ।

राजा—आर्य ! कस्माद्विक्रम्य न गृहीत ?

चाणक्य—वृषल ! राक्षस खल्वसौ विक्रम्य निगृह्यमाण स्वयं वा विनश्येत्, युष्मद्वलानि वा विनाशयेत् । एव सत्युभयथापि दोष ।

पश्य

हिन्दी अनुवादराजा—आर्य ! इस विषय में बहुत पूछना है ।

चाणक्य—वृषल ! विश्राम के साथ पूछो । मुझे भी इस विषय में बहुत कुछ कहना है ।

राजा—अभी पूछता हूँ ।

चाणक्य—मैं भी अभी कहता हूँ ।

राजा—यह जो हमारे इस सम्पूर्ण अनर्थ का कारण मलयकेतु है, उसको भागते हुए, आपने क्यो उपेक्षित कर दिया ?

चाणक्य—वृषल ! मलयकेतु के भागने की उपेक्षा न करने मे दो बाते होती, (या तो उसे) अनुगृहीत किया जाता या दण्ड दिया जाता । अनुग्रह करने पर पहले का प्रतिज्ञा किया हुआ आधा राज्य दे दिया जाता, निग्रह करने पर पर्वतक को हमने मारा है—इस कृतघ्नता को स्वय सहारा देना होता । प्रतिज्ञा किये हुए आधे राज्य को दे देने पर भी पर्वतक का विनाश केवल कृतघ्नता-मात्र प्रयोजन को रखता । इसलिए भागते हुए मलयकेतु की उपेक्षा की गई ।

तृतीयोऽङ्कः । २१७

राजा—इस विषय में तो ऐसा- (कहना ठीक) है। किन्तु राक्षस यही नगर के भीतर रहता हुआ आपके द्वारा उपेक्षित कर दिया गया, इस विषय में आपका क्या उत्तर है।

चाणक्य—राक्षस भी अपने स्वामी (नन्द) मे दृढ़ अनुराग रखने के कारण और चिरकाल तक एक जगह निवास करने के कारण शील को पहचानने वाली तथा नन्द के प्रति अनुरक्त प्रजाओं का अत्यन्त विश्वसनीय, बुद्धि और पराक्रम से सम्पन्न, सहायको की सम्पदा से युक्त और कोश-बल से संवलित होकर यही नगर के भीतर रहता हुआ महान् आन्तरिक विद्रोह को उत्पन्न कर देता। किन्तु दूर कर दिये जाने पर बाह्य विद्रोह को उत्पन्न करता हुआ भी कठिनाई से वश में करने योग्य नही होगा (अर्थात् आसानी से वश में किया जा सकेगा), इसलिए भागता हुआ उपेक्षित किया गया।

राजा—तब यही रहता हुआ (वह) क्यो नही उपायो से वश में कर लिया गया ?

चाणक्य—अब वह कैसे निकला हुआ रह सकेगा ? अरे ! उपायो से ही तो वह हृदय मे विद्यमान कांटे के समान निकालकर दूर कर दिया गया।

राजा—आर्य ! पराक्रम करके (अर्थात् शक्तिप्रयोग द्वारा), क्यो नही पकड़ लिया ?

चाणक्य—वह राक्षस शक्तिप्रयोग द्वारा पकड़ा जाता हुआ या तो स्वयं नष्ट हो जाता या तुम्हारी सेनाओं को विनष्ट कर देता। ऐसा होने पर दोनो प्रकार से हानि होती। देखो—

टिप्पणीविश्रब्धम्—विश्वस्त यथा स्यात् तथा। क्रियाविशेषणमेतत्। आख्येयम्—वक्तव्यम्। अपक्रामन्—अपसरन्। उपेक्षितः—परित्यक्तः। अपक्रमणानुपक्षणे—न उपेक्षाम् अनुपेक्षाम्। अपक्रमणस्य अनुपेक्षाम् अपक्रमणानुपक्षणम्, तस्मिन्। द्वयी गतिः—द्वौ पक्षौ। द्वौ अवयवौ यस्याः सा द्वयी अथवा द्वितयी द्वि+तयप्, 'द्वित्रिभ्यां तयस्यायज्वा' इत्यनेन अयजादेशस्य विकल्पात्। प्रतिपाद्येत—दीयेत। व्यापादितः—विनाशितः। कृतघ्नतायाः—विश्रम्भघातितयाः। कृतं हन्तीति कृतघ्नः कृत√हन्+क, तस्य भावः कृतघ्नता कृतघ्न+तल्—टाप्, तस्याः। स्वयम्—आत्मना। हस्तः

२१८ मुद्राराक्षसम्

अवलम्ब्य । प्रतिश्रुतार्धराज्यप्रदाने—प्रतिश्रुतं प्रतिज्ञातम् अर्धराज्यम् राज्या- र्धम् तस्य प्रतिपादनम् समर्पणम्, तस्मिन् । कृतघ्नतामात्रफल —अपकारिता- मात्रप्रयोजन । कृतघ्नतैव कृतघ्नतामात्रम् मयूरव्यंसकादित्वात् स०, तदेव फलं यस्य ,तादृश बहुव्रीहि स० । अन्तर्नगरे—नगरस्य अन्त अन्तर्नगरम् 'राजदन्तादिषु परम्' इत्यनेन नगरशब्दस्य परनिपात , अथवा अन्त' स्थितं नगरम् अन्तर्नगरम् मध्यमपदलोपी स०, तस्मिन् । स्थिरानुरागत्वात्—दृढप्रेम- वशात् । स्थिर अनुराग अस्य इति स्थिरानुराग बहुव्रीहि स० । तस्य भाव इति स्थिरानुराग +त्व, तस्मात् हेतौ पञ्चमी । प्रज्ञापुरुषकाराभ्याम्—बुद्धि- पौरुषाभ्याम् । प्रज्ञा च पुरुषकारश्च प्रज्ञापुरुषकारौ द्वन्द्व स० ताभ्याम् । उपेत — युक्त । सहायसम्पदा —साहाय्यकारिणा सम्पत्त्या । सह अयन्ते इति सह√ अय् +अच् कर्तरि =सहाया । सम्√पद् +क्विप् भावे =सम्पत् =समृद्धिः । सहायानां सम्पत्, तया । कोपबलवान्—अर्थसामर्थ्ययुक्त । कोप एव बलम् मयूरव्यंसकादि स० । तत् अस्ति अस्य इति कोपबल +मतुप् । अन्त कोपम्— अन्तः मध्ये प्रकृतिषु इत्यर्थ कोप अपराग । अन्त कोप सुप्मुपा स०, तम् । बाह्यकोपम्—बहिर्विद्वेषम् । बहिर्भवं बाह्य बहिम्+यञ्, टिलोप 'बहिर्षष्टि- लोपो यञ्ञ्' इत्यनेन । बाह्य कोप बाह्यकोप कर्मधारय स०, तम् । न दुःख- साध्य —न क्लेशप्राप्य । हृदयेशय —मनावर्ती । हृदये शेते इति हृदये√ शी +अच् कर्तरि, 'शयवामवामिष्वकालात्' इत्यनेन सप्तम्या अलुक् । उद्धृत्य —उत्पाट्य । उद्√धृ +क्त्वा—ल्यप् । विक्रम्य—सामर्थ्येन । वि√क्रम् + क्त्वा—ल्यप् । निगृह्यमाण —ध्रियमाण । नि√ग्रह् +लट् कर्मणि— शानच् ।

स हि भृशमभियुक्तो यद्युपेयाद् विनाशं ननु वृषल वियुक्तस्तादृशेनासि पुंसा । अथ तव वनमुख्यान्नाशयेत् सापि पीडा नवगज इव तस्मात् सोऽभ्युपायैर्विनेयः ॥ २५ ॥

  • अन्वय —ननु वृषल ! भृशम् अभियुक्तः स यदि विनाशम् उपेयात् तादृशेन पुंसा वियुक्तः असि, अथ तव बलमुख्यान् नाशयेत् सा अपि पीडा । तस्मात् स वनगज इव अभ्युपायै विनेयः ॥ २५ ॥

तृतीयोऽङ्कः २१६

व्याख्या—ननु वृषल ! अयि मौर्य !, भृशम्—अत्यर्थम्, अभियुक्तः—मत्सैन्यैराक्रान्तः सः—राक्षसः, यदि—चेत्, विनाशम्—मरणम्, उपेयात्—प्राप्नुयात्, तादृशेन—तथाविधेन लोकोत्तरगुणशालिना, पुंसा—पुरुषेण, वियुक्तः—विरहितः, असि—भवसि । अथ—यदि, तव—ते, बलमुख्यान्—सेनानायकान्, नाशयेत्—हन्यात्, सा अपि—विनाशक्रियापीत्यर्थः, पीडा—क्षतिः, तस्मात्—अतः, सः—राक्षसः, वनगज इव—आरण्यकहस्तीव, अभ्युपायैः—युक्तिभिः, विनेयः—वशीकार्यः ॥ २५ ॥

हिन्दी अनुवाद—हे वृषल ! (हमारी सेनाओं से) अत्यंत आक्रान्त होकर वह (राक्षस) यदि मृत्यु को प्राप्त हो जाए तो तुम वैसे (गुणशाली) पुरुष से वियुक्त हो जाते हो । (और) यदि तुम्हारे सेनानायकों को मार दे तो वह भी क्षति है । इसलिए उसको जंगली हाथी की तरह युक्तियों से वश में करना चाहिए ॥ २५ ॥

टिप्पणीसा अपि—अत्र विधेयप्राधान्यात् स्त्रीलिङ्गता । वनगजः—वनचरो गजः वनगजः मध्यमपदलोपी स० । अभ्युपायैः—साम, दान आदि उपायों से, गज-पक्ष में—वशीकरण के साधनों से । इस पद्य में उपमा अलंकार है, प्रसाद गुण है, वैदर्भी रीति है और मालिनी छन्द है । इस छन्द का लक्षण ३, १५ में देखिए ॥ २५ ॥

राजा—न शक्नुमो वयमार्यस्य वाचा वाचमतिशयितुं । सर्वथाऽमात्यराक्षस एवात्र प्रशस्यतरः ।

चाणक्यः—[सक्रोधम्] न भवानिति वाक्यशेषः । भो वृषल ! तेन किं कृतम् ?

राजा—यदि न ज्ञायते, तदा श्रूयताम् । तेन खलु महात्मना—

लब्धायां पुरि यावदिच्छमुषितं कृत्वा पदं नो गले व्याघातो जयघोषणादिषु बलादस्मद्बलानां कृतः । अत्यर्थं विपुलैः स्वनीतिविभवैः सम्मोहमापादिता विश्वास्येष्वपि विश्वसन्ति मतयो न स्वेषु वर्गेषु नः ॥ २६ ॥

अन्वयः—नः गले पदं कृत्वा लब्धायां पुरि यावदिच्छम् उषितम्,

२२० मुद्राराक्षसम्

अस्मद्बलाना जयघोषणादिषु बलात् व्याघात कृत , विपुले स्वनीतिविभवे अत्यर्थं सम्मोहम् आपादिता न मतय विश्वाम्येष्वपि स्वेषु वर्गेषु न विश्वमन्ति ॥ २६ ॥

व्याख्या—अस्माकं, गले—कण्ठे, पद—चरणं, कृत्वा—विधाय, लब्धाया—प्राप्तायां, पुरि—नगर्य्यां, यावदिच्छम्—यथारुचि, उषितम्—निवासं कृतं, अस्मद्बलानाम्—अस्माकं सैन्यानां, जयघोषणादिषु—विजय-प्रख्यापनप्रभृतिषु, बलात्—हठात्, व्याघात—विघ्न, कृत—उत्पादित, विपुले—महद्धि, स्वनीतिविभवे—स्वस्य आत्मन नीतय नया एव विभवा सम्पद तै, अत्यर्थम्—अत्यन्तं, सम्मोहम्—अविवेकम्, आपादिता—प्रापिता, —अस्माकं, मतय—बुद्धय , विश्वाम्येष्वपि—आप्तेषु च, स्वेषु—स्वकीयेषु, वर्गेषु—पदेषु, न विश्वमन्ति—न प्रतियन्ति ॥ २६ ॥

हिन्दी अनुवादराजा—हम आप की बात को बात से नहीं जीत सकते । (किन्तु) इस विषय में अमात्य राक्षस ही सब प्रकार से अधिक प्रशंसनीय है ।

चाणक्य—[ क्रोध के साथ ] आप नहीं, यह कहना शेष रह गया । हे वृषल ! उसने क्या किया ?

राजा—यदि नहीं जानते हैं तो सुनिए । उस महात्मा ने—

हमारे गले पर पैर रख कर (हमारी) जीती हुई नगरी में इच्छानुसार निवास किया, हमारी सेनाओं की विजय-घोषणा आदि में हठात् विघ्न उत्पन्न किया और महान् अपनी नीति के वैभव से हमारी बुद्धियों को अत्यन्त मोह में डाल दिया, जिससे वे (हमारी बुद्धियाँ) अपने विश्वसनीय व्यक्तियों पर भी विश्वास नहीं करती हैं ॥ २६ ॥

टिप्पणीअतिशयितुम्—उल्लङ्घयितुम् । प्रशस्यतर—अधिक श्रेष्ठ । अतिशयेन प्रशस्य इति प्रशस्यतर प्रशस्य + तरप् । महात्मना—महान् आत्मा यस्य स महात्मा, तेन । न गले पद कृत्वा—हमारे कण्ठ पर पैर रखकर अर्थात् हमारी अवहेलना करके । यह लोकोक्ति है । बलात्—अत्र हेतौ ल्यब्लोपे कर्मणि वा पञ्चमी । स्वेषु वर्गेषु—भद्रभटादिषु । इस श्लोक में दीपक, अति-

तृतीयोऽङ्कः २२१

शयोक्ति और उदात्त अलंकारो की संसृष्टि है । इसमें शार्दूलविक्रीडित छन्द है । इस छन्द का लक्षण १, १२ मे देखिए ॥ २६ ॥

चाणक्यः—[विहस्य] वृषल ! एतत् कृतं राक्षसेन ?

राजा—अथ किम् ? एतत् कृतममात्यराक्षसेन ।

चाणक्यः—वृषल ! मया पुनर्ज्ञातं, नन्दमिव भवन्तमुद्धृत्य भवानिव भूतले मलयकेतुरधिराज्यमारोपितः ।

राजा—अलमुपालभ्य । आर्य ! दैवेनेदमनुष्ठितम् । किमत्रार्यस्य ?

चाणक्य—हे मत्सरिन् !

आरुह्यारूढकोपस्फुरणविषमिताग्राङ्गुलीमुक्तचूड़ां
लोकप्रत्यक्षमुग्रां सकलरिपुकुलोच्छेददीर्घां प्रतिज्ञाम् ।
केनान्येनावलिप्ता नवनवतिशतद्रव्यकोटीश्वरास्ते
नन्दाः पर्यायभूताः पशव इव हताः पश्यतो राक्षसस्य ॥२७॥

अन्वयः—केन अन्येन लोकप्रत्यक्षम् आरूढकोपस्फुरणविषमिताग्राङ्गुलीमुक्तचूडाम् उग्रां सकलरिपुकुलोच्छेददीर्घां प्रतिज्ञाम् आरुह्य अवलिप्ताः नवनवतिशतद्रव्यकोटीश्वराः ते नन्दाः पर्यायभूताः पशव इव पश्यतो राक्षसस्य हताः ? ॥ २७ ॥

व्याख्या—केन अन्येन—मदतिरिक्तेन केन जनेन, लोकप्रत्यक्षम्—जगतः समक्षम्, आरूढकोपस्फुरणविषमिताग्राङ्गुलीमुक्तचूडाम्—आरूढः सञ्जातः, यः कोपः क्रोधः तस्य स्फुरणेन आवेशेन विषमिताः कुटिलीभूताः या अग्राङ्गुल्यः अङ्गुल्यग्राणि तैः मुक्ता बन्धनात् च्याविता चूडा शिखा यस्यां तादृशीम्, उग्रां—कठिनां, सकलरिपुकुलोच्छेददीर्घां—सकलस्य निखिलस्य रिपुकुलस्य शत्रुवंशस्य उच्छेदेन विनाशेन दीर्घा महती, प्रतिज्ञाम्—प्रतिश्रुतिम्, आरुह्य—विधाय, अवलिप्ताः—साभिमानाः, नवनवतिशतद्रव्यकोटीश्वराः—नवनवतिशतानाम् द्रव्यकोटीनाम् वित्तकोटीनाम् ईश्वराः पतयः, ते—प्रसिद्धाः, नन्दाः, पर्यायभूताः—क्रमेण उपस्थिताः, पशव इव—बलिच्छागला इव, पश्यतः—अवलोकयतः, राक्षसस्य—नन्दामात्यस्य पश्यन्तं राक्षसमनादृत्येत्यर्थः, हताः—हिंसिताः ? ॥ २७ ॥

२२२ मुद्राराक्षसम्

हिन्दी अनुवाद—चाणक्य—[ हँसकर ] वृषल ! राक्षस ने यह किया ?

राजा— और क्या ? यह अमात्य राक्षस ने किया ।

चाणक्य— वृषल ! मैंने पुन समझा कि नन्द के समान तुम्हे उखाड़कर पृथ्वी पर तुम्हारी तरह मलयकेतु को (उसने) सिंहासन पर बैठा दिया ।

राजा— उलाहना देना व्यर्थ है । आर्य ! भाग्य ने यह किया । इसमें आपका क्या है ?

चाणक्य— हे डाह रखने वाले !

दूसरे किसने लोगो के सामने उत्पन्न क्रोध के आवेश से टेढ़ी अगुलियो के अग्रभाग से खोली गई शिखा वाली, भयकर तथा सम्पूर्ण शत्रु-कुल के विनाश करने के कारण लम्बी प्रतिज्ञा को करके अभिमानी तथा निन्यानवे सौ करोड़ मुद्राओ के स्वामी नन्दो को क्रमश बलि-पशु के समान राक्षस के देखते मार दिया ॥ २७ ॥

टिप्पणी—उद्धृत्य— उन्मूल्य । अधिराज्यम्— राज्ये इति अधिराज्यम् अव्ययीभाव स०, 'अव्ययीभावश्च' इत्यनेन नपुसकत्वम् । आरोपित — स्थापितः । मत्सरिन् !— मत्सर = डाह । 'मत्सरोऽन्यशुभद्वेषे' इत्यमर । स अस्ति अस्य इति मत्सर + इनि । विषमिता — विषमाः कृताः इति विषमा + णिच् + क्त कर्मणि । नवनवतिशतद्रव्यकोटीश्वरा — नवाधिका नवति नवनवति शाकपार्थिवादित्वात् स० । तत्सङ्ख्यानि शतानि शाकपा० । द्रव्याणां कोट्य द्रव्यकोट्य । नवनवतिशतसङ्ख्याका द्रव्यकोट्यः शाकपा० । तासाम् ईश्वरा । पर्यायभूता — परि √अय् + घञ् भावे = पर्याय । पर्यायिण भूता. तृतीयातत्० वा सुप्पुपा स० । राक्षसस्य — अत्र 'षष्ठी चानादरे' इति षष्ठी । इस श्लोक मे अर्थापत्ति और उपमा अलकार हैं । इसमें ओज गुण है, गौडी रीति है और स्रग्धरा छन्द है । स्रग्धरा का लक्षण १, १ में देखिए ॥ २७ ॥

अपि च,

गृध्रैरावद्धचक्रं वियति विचलितैर्दीर्घनिष्क्रम्पपक्षै- र्धूमैर्ध्वस्तार्कभासा सघनमित्र दिशा मण्डल दर्शयन्तः।

तृतीयोऽङ्कः । २२३

नन्दैरानन्दयन्तः पितृवननिलयान् प्राणिनः पश्य चैतान्
निर्वान्त्यद्यापि नैते स्रुतबहलवसावाहिनो हव्यवाहाः ॥ २८॥

अन्वयः—पश्य, दीर्घनिष्कम्पपक्षैः आबद्धचक्रं वियति विचलितैः गृध्रैः धूमैः ध्वस्तार्कभासां दिशां मण्डलं सघनमिव दर्शयन्तः पितृवननिलयान् एतान् प्राणिनः नन्दैः आनन्दयन्तः एते स्रुतबहलवसावाहिनः हव्यवाहाः अद्यापि न निर्वान्ति ॥ २८ ॥

व्याख्या—पश्य—अवलोकय, दीर्घनिष्कम्पपक्षैः—दीर्घाः आयताः निष्कम्पाः निश्चलाश्च ये पक्षाः दलाः तैः करणाभूतैः, आबद्धचक्र—आबद्धानि कृतानि चक्राणि मण्डलानि यस्मिन् कर्मणि तत् यथा स्यात् तथा, वियति—गगने, विचलितैः—भ्रमद्भिः, गृध्रैः धूमैः—गृध्ररूपधूमैः, ध्वस्तार्कभासां—ध्वस्ताः तिरोहिताः अर्कभासः—सूर्यकिरणाः यामु तासा, दिशाम्—आशाना, मण्डलं—चक्रवालं, सघनमिव—समेघमिव, दर्शयन्तः—अवभासयन्तः, पितृवननिलयान्—पितृवनं श्मशानं निलयः आवासः येषां ते तथोक्ताः तान्, एतान्, प्राणिनः—जीवान्, नन्दैः—बहलवसावशिष्टैः, आनन्दयन्तः—प्रीणयन्तः, एते—इमे, स्रुतबहलवसावाहिनः—स्रुताः क्षरिताः याः बहलाः प्रचुराः वसाः मज्जाः ताः ये वाहयन्ति स्रोतःक्रमेण निःसारयन्ति तादृशाः, हव्यवाहाः—वह्नयः चिताग्नय इत्यर्थः, अद्यापि—अधुनापि, न निर्वान्ति—न प्रशाम्यन्ति ॥ २८ ॥

हिन्दी अनुवाद—और भी, देखो, लम्बे और निश्चल पंखों से मण्डल बनाकर आकाश में उड़ते हुए गृध्र रूपी धुओ से छिपी हुई सूर्य-किरणो वाली दिशाओं के समूह को मानों मेघों मे आच्छादित दिखलाती हुई और श्मशान में रहने वाले इन प्राणियों को नन्दों से तृप्त करती हुई ये पिघली हुई अत्यधिक चर्बी को बहाने वाली अग्नियां आज भी शान्त नहीं हो रही है ॥ २८ ॥

टिप्पणीसघनम्—मेघयुक्त । घनेन सहितम् इति सघनम् 'तेन सहेति'—बहुव्रीहि स०नन्दैः—अत्र करणे तृतीया । स्रुतबहलवसावाहिनः—स्रुतबहलवसा √वह् + णिच् + णिनि कर्तरि साधुकारिणि । हव्यवाहाः—अग्नि । हव्यं वहन्ति देवेभ्यः प्रापयन्ति इति हव्य √वह् + अण् कर्तरि । निर्वान्ति—बुझती हैं । निर् √वा + लट् + अन्ति । इस श्लोक में भाविक अलंकार उत्प्रेक्षा से संसृष्ट है । इसमें भी स्रग्धरा छन्द है ॥ २८ ॥

२२६ मुद्राराक्षसम्

नयनकान्त्या, भ्रूभङ्गोद्भेदधूम—भ्रूभङ्गस्य भ्रूकुटे य उद्भेद आविर्भाव स एव धूमो यत्र तत् यथा स्यात् तथा, पुर—अग्रे, ज्वलितमिव—प्रदीप्तमिव। मन्ये—शङ्के, ताण्डवे—उद्धतनृत्ये, रौद्र रसम्—क्रोधात्मकरसम्, अभिनयत— (अभिनीय) दर्शयत, रुद्रस्य—शिवस्य, संस्मरन्त्या—सम्यक् स्मृतिम् अनुभवन्त्या, धरया—पृथिव्या, पादघात—चरणप्रहार, कथमपि—केनापि प्रकारेण, सञ्जातोद्ग्रकम्प—सञ्जात समुत्पन्न उद्ग्र विशेष कम्प यस्मिन् कर्मणि तत् यथा स्यात् तथा, धारित व्यवस्थापित ॥ ३० ॥

हिन्दी अनुवादराजा [ सावेग के साथ मन में ] तब क्या सचमुच ही आर्य कुपित हो गए ? क्योंकि—

क्रोध में कम्पायमान पलकों से भरत हुए स्वच्छ जल न धोने के कारण क्षीण होने पर भी लाल नेत्रकिरणों से तनी हुई भुकुटिरूपी धुआ मानो सामने प्रदीप्त हुआ है। मैं समझता हूँ कि ताण्डव नृत्य के समय रौद्र रस का अभिनय करते हुए शङ्कर का स्मरण करती हुई पृथ्वी ने ( आर्य चाणक्य का ) पाद-प्रहार उत्पन्न विशेष कम्पन के साथ बड़ी कठिनाई से सहन किया है ॥ ३० ॥

टिप्पणीस्पन्दि—स्पन्दते इति $\sqrt{}$स्पन्द् + णिनि साधुकारिणि कर्तरि। भ्रूभङ्गोद्भेद = उद्गत भ्रूभङ्ग, 'भावायनन द्रव्यायतनम्'। पुर—आंखों के सामने। धुआ आग से ऊपर रहता है। यहाँ भी भृकुटी रूपी धुआ नेत्राग्नि से ऊपर है। रुद्रस्य—अत्र 'अधीगर्थदयेशां कर्मणि' इत्यनेन षष्ठी। उदग्र—उद्गतमग्रमस्य इति उदग्र। इस श्लोक में रूपक और उत्प्रेक्षा अलंकारों में सांकर्य होने से सङ्कर अलंकार है। इसमें पाञ्चाली रीति है, ओज गुण है और स्रग्धरा छन्द है। इसका लक्षण १, १ में देखिए ॥३०॥

चाणक्य — [ कृतक कोप सहृत्य ] वृषल ! वृषल ! अलमुत्तरोत्तरेण । यद्यस्मत्तो वरीयान् राक्षसोऽवगम्यते, तस्मादिदं शस्त्रं तस्मै दीयतामिति । [शस्त्रमुत्सृज्य उत्थाय च आकाशे लक्ष्यं बद्ध्वा स्वगतम्] राक्षस ! राक्षस ! एष भवत कौटिल्यबुद्धिविजिगीषोर्बुद्धे प्रकर्ष ।

चाणक्यत स्खलितभक्तिमहं सुखेन जेप्यामि मौर्यमिति सम्प्रति यः प्रयुक्तः ।

तृतीयोऽङ्कः

२२७

भेदः किलैष भवता सकलः स एव
सम्पत्स्यते शठ तवैव हि दूषणाय ॥ ३१ ॥

[ इति निष्क्रान्तः । ]

अन्वयः—शठ ! चाणक्यतः स्खलितभक्तिं मौर्यम् अहं सुखेन जेप्यामि इति सम्प्रति भवता यः एष भेदः किल प्रयुक्तः स सकल एव तवैव दूषणाय सम्पत्स्यते हि ॥३१॥

व्याख्याशठ !—धूर्त !, चाणक्यतः—कौटिल्यात्, स्खलितभक्ति— स्खलिता त्यक्ता भक्तिः स्नेहः यस्य तादृशं, मौर्यम्—वृषलम्, अहं—राक्षसः, सुखेन—अनायासेन, जेष्यामि—वशीकरिष्यामि, इति—अतो हेतोः, सम्प्रति—अधुना, भवता—त्वया, य एष, भेदः—उपजापः, किल, प्रयुक्तः—विहितः, सः, सकल एव—सम्पूर्णा एव, तवैव—भवत एव, दूषणाय—दोषाय मलयकेतोर्भेदायेत्यर्थः, सम्पत्स्यते हि—नूनं भविष्यति ॥३१॥

हिन्दी अनुवादचाणक्य—[ कृत्रिम क्रोध को त्यागकर ] वृषल ! वृषल ! उत्तर-प्रत्युत्तर करना व्यर्थ है । यदि ( तुम ) राक्षस को मुझसे श्रेष्ठ समझते हो तो यह शस्त्र उसको दे दो । [ शस्त्र छोड़कर, उठकर और आकाश में दृष्टि बाँधकर मन में ] राक्षस ! राक्षस ! यह चाणक्य की बुद्धि को जीतने की इच्छुक तुम्हारी बुद्धि का वैभव है ( अर्थात् इतनी ही तुम्हारी बुद्धिसम्पदा है, इससे तुम चाणक्य की बुद्धि को नहीं जीत सकते हो ) ।

हे धूर्त ! चाणक्य से शिथिल-भक्ति चन्द्रगुप्त को मैं आसानी से जीत लूँगा—ऐसा समझकर तुमने जो इस भेद (-नीति) को प्रयोग किया है, वह सम्पूर्ण ( भेद-प्रयोग ) ही तुम्हारे ही दोष ( विनाश ) के लिए निश्चित रूप से होगा ॥३१॥

[ बाहर चला जाता है । ]

टिप्पणीकृतककोपम्—बनावटी क्रोध । कृत एव कृतकः कृत + कन् । कृतकः कोपः कर्मधारय स०, तम् । उत्तरोत्तरेण—उत्तरति अनेन इति उद् √ तृ + अप् करणे = उत्तरम् । उत्तरस्य उत्तरम्, तेन, करणे तृतीया । वरीयान्—श्रेष्ठ । अतिशयेन उरुः इति उरु + ईयसुन्, वरादेश । स्खलितभक्तिम्—स्खलितं भक्तिरस्य इति स्खलितभक्तिः, तम् । सामान्ये नपुंसकम् । दूषणाय

२२८ मुद्राराक्षसम्

√दुष् + णिच् + ल्युट् भावे, 'दोषो णौ' इत्यनेन ऊत्त्वम् = दूषणम्, तस्मै । 'तुमर्थाच्च भाववचनात्' इति सूत्रेण चतुर्थी अथवा 'क्लृपि सम्पद्यमाने च' इति वार्तिकेन चतुर्थी । इस श्लोक में विषमालंकार है, प्रसाद गुण है, वैदर्भी रीति है और वसन्ततिलका छन्द है । इस छन्द का लक्षण १, ८ में देखिए ॥३१॥

राजा—आर्य वैहीनरे ! अद्य प्रभृत्यनादृत्य चाणक्य चन्द्रगुप्त स्वयमेव राज्यकार्याणि करिष्यतीति गृहीतार्थाः प्रकृतयः क्रियन्ताम् ।

कञ्चुकी—[ स्वगतम् ] कथ निरुपपद एव चाणक्यो नार्यचाणक्य इति । हन्त ! सत्यमेव हृतोऽधिकार । अथवा न खल्वन वस्तुनि देव-दोष । कुत —

स दोष सचिवस्यैव यदसत् कुरुते नृप । याति यन्तु प्रमादेन गजो व्यालत्ववाच्यताम् ॥ ३२ ॥

अन्वय—नृप यत् असत् कुरुते स सचिवस्यैव दोष । यन्तु प्रमादेन गज व्यालत्ववाच्यता याति ॥३२॥

व्याख्या—नृप—राजा, यत्, असत्—अयुक्तम् अमात्यतिरस्कारादिरूप कार्यमिति यावत्, कुरुते—विदधाति, स , सचिवस्यैव—अमात्यस्यैव, दोष—अपराध न तु राज्ञ इत्यर्थ । यन्तु—हस्तिपकस्य, प्रमादेन—अनवधानतया, गज—हस्ती, व्यालत्ववाच्यता—व्यालत्वेन दुष्टगजत्वेन वाच्यता निन्दनीयता, याति—प्राप्नोति ॥३२॥

हिन्दी अनुवादराजा—आर्य वैहीनरि ! आज से चाणक्य का अनादर करके चन्द्रगुप्त स्वयं ही राज-काज करेगा—इस बात से प्रजाओं को अवगत करा दो ।

कञ्चुकी—[ मन में ] क्यों बिना ( किसी ) आदरसूचक विशेषण के ही 'चाणक्य' ( कहा ), 'आर्य चाणक्य' नहीं ( कहा ) । हाय ! सचमुच अधिकार छीन लिया । अथवा इस विषय में महाराज का दोष नहीं है। क्योंकि—

राजा जो अनुचित ( कार्य ) करता है, वह मन्त्री का ही दोष है । (क्योंकि) महावत की असावधानी से हाथी दुष्ट हाथी होने की निन्दा को प्राप्त होता है ॥३२॥

टिप्पणीइति गृहीतार्थाः—इति अनेन प्रकारेण गृहीत परिज्ञात...

तृतीयोऽङ्कः २२६

अर्थः वस्तु याभिः, ताः। निरुपपदः—समीपोच्चारित (आदरसूचक) शब्द से रहित। उपोच्चारितं पदम् उपपदम् निरस्तम् उपपदम् अस्मात् इति निरुपपदः। असत् कुरुते—अनुचित (कार्य) करता है। अथवा ‘असत्कुरुते’ इति पाठः। सत् इति आदरार्थकमव्ययम्। अविद्यमानं सत् अस्मिन् इति असत्। असत् कुरुते इति अमत् √कृ + लट्—ते। व्यालत्ववाच्यताम्—व्यालः = दुष्ट हाथी। ‘व्यालो दुष्टगजे सर्पे’ इति हैमः। तस्य भावः इति व्यालत्वम् व्याल + त्व। वक्तुमर्हः इति वाच्यः √वच् + ण्यत् कर्मणि। तस्य भावः वाच्यता वाच्य + तल्—टाप्। व्यालत्वेन व्यालत्वमेव वा वाच्यता। इस श्लोक में दृष्टान्त अलंकार है और अनुष्टुप् छन्द है। इसका लक्षण १, ३ में देखिए॥ ३२॥

राजा—आर्य! किं विचारयसि?

कञ्चुकी—देव! न किञ्चिद्विचारयामि, किन्तु एतद्विज्ञापयामि, दिष्ट्या देव इदानीं देवः संवृत्त इति।

राजा—[आत्मगतम्] एवमस्मासु गृह्यमाणेषु स्वकार्यसिद्धिकामः, सकामो भवत्वार्यः। [प्रकाशम्] शोणोत्तरे! अनेन शुष्ककलहेन शिरोवेदना मां बाधते, तच्छयनगृहमादेशय।

प्रतीहारी—एदु एदु महाराओ। (एतु एतु महाराजः।)

राजा—[आसनादुत्थायात्मगतम्]

आर्याज्ञयैव मम लङ्घितगौरवस्य बुद्धिः प्रवेष्टुमवनेर्विवरं प्रवृत्ता। ये सत्यमेव न गुरून् प्रतिमानयन्ति तेषां कथं नु हृदयं न भिनत्ति लज्जा॥ ३३॥

[इति निष्क्रान्ताः सर्वे।]

॥ इति तृतीयोऽङ्कः॥

अन्वयः—आर्याज्ञया एव लङ्घितगौरवस्य मम अवनेः विवरं प्रवेष्टुं बुद्धिः प्रवृत्ता। ये सत्यमेव गुरून् न प्रतिमानयन्ति तेषां हृदयं लज्जा कथं नु न भिनत्ति? ॥ ३३॥

चतुर्थोऽङ्कः (राक्षसोद्योग)

२३० मुद्रा राक्षस म्

व्याख्याआर्याज्ञया एव—आर्यस्य पूज्यस्य चाणक्यस्य आज्ञया एव आदेशेनेव, लङ्घितगौरवम्—लङ्घितम् अतिक्रान्तम् गौरवम् प्रतिष्ठा येन तादृशस्य, मम—मे, अवने—पृथिव्या , विवरम्—रन्ध्र, प्रवेष्टुम्—अन्तर्गन्तुम्, बुद्धि—मति , प्रवृत्ता—उद्यता । ये—जना , सत्यमेव—यथार्थमेव, गुरून्—पूज्यान्, न प्रतिमानयन्ति—न सत्कुर्वन्ति, तेषा—जनाना, हृदय—चित्त, लज्जा—त्रपा, कथ नु—कस्मात् न, भिनत्ति—विदारयति ? ॥ ३३ ॥

हिन्दी अनुवाद—राजा—आर्य ! क्या सोच रह हो ?

कञ्चुकी—महाराज ! कुछ नहीं सोच रहा हूँ, किन्तु यह निवेदन करता हूँ कि भाग्य से महाराज अब महाराज हो गए।

राजा—[ मन में ] इस प्रकार हमारे समझे जान पर ( अर्थात् जब लोग मेरे और चाणक्य के लीलाकहह को यथार्थ समझने लगे तब) अपने कार्य की सिद्धि चाहने वाले आर्य पूरणकाम हो। [ प्रकट ] शोणोत्तरे ! इस मूर्ख विवाद से सिर की वेदना मुझे पीडित कर रही है । इसलिए शयनकक्ष में ले चलो।

प्रतीहारी—आव महाराज ! आवें ।

राजा—[ आसन से उठकर मन में ] आर्य ( चाणक्य ) की आज्ञा से ही मर्यादा का अतिक्रमण करने वाली मेरी बुद्धि पृथ्वी के बिल में बैठने को तैयार हो गई है। जो यथार्थ में ही गुरुओ का सत्कार नहीं करते हैं, उनके हृदय को लज्जा क्यों नहीं विदीर्ण कर देती है ? ॥ ३३ ॥

[सभी (पात्र) बाहर चले जाते हैं ।]

॥ तीसरा अंक समाप्त ॥

टिप्पणी—गृह्यमाणेषु—प्रतीयमानेषु । स्वकार्यसिद्धिकाम—स्वस्य कार्यं, तस्य सिद्धि , तां कामयत तादृश । सकाम—सिद्धमनोरथ । शुष्ककलहेन—शुष्क कलह कर्मधारय स०, तेन, हेतौ तृतीया । शिरोवेदना—मस्तकपीडा । प्रतिमानयन्ति - पूजयान्त । प्रति $\sqrt{}$ मान् ( पूजायाम् ) + णिच् + लट्—अन्ति । इस श्लोक के प्रथम चरण में परिसंख्या अलंकार पदार्थहेतुक काव्यलिंग अलंकार से संसृष्ट है । दूसरे चरण में पदार्थहेतुक काव्यलिंग

चतुर्थोऽङ्कः २३१

अलंकार है। तीसरे और चौथे चरण में अर्थापत्ति अलंकार है। इसमें वसन्ततिलका छन्द है। इस छन्द का लक्षण १, ८ में देखिए ॥ ३३ ॥


चतुर्थोऽङ्कः

[ ततः प्रविशत्यध्वगवेषः पुरुषः । ]

पुरुषः—हीमाणहे हीमाणहे । (आश्चर्यमाश्चर्यम् ।)

जोअणसअं समधिअं को णाम गदागदं इह करेइ ।
अत्थाणगमणगुरुई प्पहुणो अण्णा जइ ण होइ ॥ १ ॥
(योजनशतं समधिकं को नाम गतागतमिह करोति ।
अस्थानगमनगुरुका प्रभोराज्ञा यदि न भवति ॥ १ ॥)

अन्वयः—अस्थानगमनगुरुका प्रभोः आज्ञा यदि न भवति को नाम इह समधिकं योजनशतं गतागतं करोति ? ॥ १ ॥

व्याख्या—अस्थानगमनगुरुका—अस्थाने अनवसरे यत् गमनं तेन गुरुका गुर्वी प्रभोः स्वामिनः, आज्ञा—आदेशः, यदि—चेत्, न भवति—न जायते, ( तदा ) को नाम—न कोऽपीत्यर्थः, इह—अस्मिन् संसारे, समधिकं—संगतम् अधिकं यस्मिन् तत्, योजनशतं—शतयोजनमित्यर्थः, ( व्याप्य ) गतागतं—गतं गमनम् आगतम् आगमनञ्च, करोति—विदधाति ? ॥ १ ॥

हिन्दी अनुवाद—[ तब पथिक-वेष में एक पुरुष प्रवेश करता है । ]

पुरुष—आश्चर्य है, आश्चर्य है ।

असमय में जाने के कारण महान् ( अर्थात् अनुल्लंघनीय ) स्वामी की आज्ञा यदि न हो तो कौन ( व्यक्ति ) यहाँ सौ योजन से भी अधिक दूर जाना-आना करता है ? ॥ १ ॥

टिप्पणीअध्वगवेषः—पथिकवेशधारी । अध्वानं गच्छति इति अध्वन् √गम् + ड कर्तरि । तस्य वेषः । अध्वगवेष इव वेषः अस्यं इति बहुव्रीहि स० । हीमाणहे—यह आश्चर्यसूचक निपात—अव्यय है। समधिकम्—सङ्गतम्

२३२ मुद्राराक्षसम्

अधिकेन प्रादितत्० अथवा सङ्गतम् अधिकं यस्मिन् तत् समधिकम् 'प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोप' इति वार्तिकेन बहुव्रीहि स० गतपदलोपश्च । योजनशतम्—योजनानां शतम् । समधिकं योजनशतम् = समधिकयोजनशत-परिमितम् । गतागतम्—गतञ्च आगतञ्च अनयोः समाहारद्वन्द्वममास । इस पद्य में वाक्यार्थहेतुक काव्यालिंग अलकार है । इसमे आर्या छन्द है । आर्या का लक्षण १, ५ मे देखिए ॥ १ ॥

ता जाव अमच्चरक्खसस्म ज्जेव गेहं गच्छामि । [ परिश्रान्तवत् परिक्रम्य ] भो ! को एत्थ दुआरिआण ? णिवेदेह दाव भट्टिणो अमच्च-रक्खसस्स, एसो क्खु करहको करहक विअ कज्जं तुवरन्तो पाडलिपुत्तादो आगदो त्ति । ( तद्यावदमात्यराक्षसस्यैव गेहं गच्छामि । भो ! कोऽत्र दौवारिकाणाम् ? निवेदय तावद् भर्तु अमात्यराक्षसस्य 'एष खलु कर-भक करभक इव कार्यं त्वरयन् पाटलिपुत्रादागत' इति ।)

दौवारिक —[ प्रविश्य ] भद्द ! मा उच्च मन्तेहि, एसो अमच्चो भट्टा कज्जचिन्ताजणिदेण जाअरेण समुप्पणसीसवेअणो, अज्ज वि दाव ण सअणदल मुञ्चदि, ता चिट्ठ दाव मुहुत्तअं, जाव से लद्धावसरो भविअ भवदो आगमण णिवेदेमि । ( भद्र ! मा उच्चैर्मन्त्रय, एष खलु भर्ता अमात्यराक्षस कार्यचिन्ताजनितेन जागरणेन समुत्पन्नशीर्षवेदनोऽद्यापि तावत् न शयनतलं मुञ्चति, तस्मात् तिष्ठ तावन्मुहूर्तं, यावत् तस्य लब्धावसरो भूत्वा भवत आगमनं निवेदयामि । )

पुरुष —भद्दमुह ! जहा दे रोअदि । ( भद्रमुख ! यथा ते रोचते ।)

[ तत प्रविशति शयनगत आसनगतेन शकटदासेन सह चिन्तितो राक्षस । ]

राक्षस —[ आत्मगतम् ]

हिन्दी अनुवाद—तो अब अमात्य राक्षस के ही घर मे जाता हूँ । [ थके हुए की तरह घूमकर ] अजी ! यहां द्वारपालों में से कौन है ? स्वामी अमात्य राक्षस से निवेदन कर दो कि यह करभक हाथी के बच्चे के समान कार्य को शीघ्रता से सम्पन्न करते हुए पाटलिपुत्र से आ गया है ।

द्वारपाल—[ प्रवेश करके ] भद्र ! जोर से मत बोलो । ये स्वामी अमात्य

चतुर्थोऽङ्कः । २३३

राक्षस कार्यों की चिन्ता के कारण जागते रहने से उत्पन्न सिर-पीड़ा से पीड़ित होकर अभी भी शय्या को नहीं छोड़ रहे है। इसलिए क्षण भर ठहरो, जब तक कि मैं अवसर पाकर तुम्हारे आने की सूचना दे दूँ।

पुरुष—भद्रमुख ! जैसी तुम्हारी इच्छा।

[ तब पलंग पर लेटे चिन्तामग्न राक्षस आसन पर बैठे शकटदास के साथ प्रवेश करता है।]

राक्षस—[ मन में ]

टिप्पणीदौवारिकाणाम्—द्वारत्राणनियुक्तानाम्। द्वारे नियुक्ताः इति द्वार + ठक्—इक, 'द्वारादीनां च' इत्यनेन ऐजागमः। करभक इव—गजशावक इव। त्वरयन्—शीघ्रं साधयन्। √त्वर् + णिच् + शतृ। पाटलिपुत्रात्—कुसुमपुरात्। पुत्रक नामक राजा ने इस नगरी की स्थापना की थी। इसी का आधुनिक नाम पटना है। समुत्पन्नशीर्षवेदनः—शीर्षस्य शीर्षे वा वेदना शीर्षवेदना। समुत्पन्ना शीर्षवेदना अस्य इति समुत्पन्नशीर्षवेदनः = सञ्जातोत्तमाङ्गपीडः। निवेदयामि—अत्र भविष्यत्समीप्ये लट्। भद्रमुख—भद्रं मुखमस्य इति भद्रमुखः, तत्सम्बुद्धौ भद्रमुख इति। ते रोचते—तुभ्यम् इत्यस्य 'ते मयावेकवचनस्य' इत्यनेन ते इत्यादेशः। अत्र 'रुच्यर्थानां प्रीयमाणः' इत्यनेन चतुर्थी।

मम विमृशतः कार्यारम्भे विधेरविधेयता
सहजकुटिलां कौटिल्यस्य प्रचिन्तयतो मतिम् ।
अथ च विहिते मत्कृत्यानां निकाममुपग्रहे
कथमिदमिहेत्युन्निद्रस्य प्रयान्त्यनिशं निशाः ॥ २ ॥

अन्वयः—कार्यारम्भे विधेः अविधेयतां विमृशतः कौटिल्यस्य सहजकुटिलां मतिं प्रचिन्तयतः अथ च मत्कृत्यानां निकामम् उपग्रहे विहिते 'इह इदं कथम्' इति अनिशम् उन्निद्रस्य मम निशाः प्रयान्ति ॥ २ ॥

व्याख्याकार्यारम्भे—कृत्योपक्रमे, विधेः—भाग्यस्य, अविधेयतां—स्वातन्त्र्यम् अननुकूलतामिति यावत्, विमृशतः—विचारयतः, कौटिल्यस्य—चाणक्यस्य, सहजकुटिलां—स्वभावक्रूरां, मतिं—बुद्धिं, प्रचिन्तयतः—पर्यालोचयतः,