भारतकोश
संग्रह पर लौटें

मुद्राराक्षसम् (सटीक संस्कृत नाटक)

Mudrarakshasam Natakam with Hindi Commentary

महाकवि विशाखदत्त द्वारा

DevanagariSanskritpublished488 पृष्ठ

तृतीयोऽङ्कः २१६

व्याख्या—ननु वृषल ! अयि मौर्य !, भृशम्—अत्यर्थम्, अभियुक्तः—मत्सैन्यैराक्रान्तः सः—राक्षसः, यदि—चेत्, विनाशम्—मरणम्, उपेयात्—प्राप्नुयात्, तादृशेन—तथाविधेन लोकोत्तरगुणशालिना, पुंसा—पुरुषेण, वियुक्तः—विरहितः, असि—भवसि । अथ—यदि, तव—ते, बलमुख्यान्—सेनानायकान्, नाशयेत्—हन्यात्, सा अपि—विनाशक्रियापीत्यर्थः, पीडा—क्षतिः, तस्मात्—अतः, सः—राक्षसः, वनगज इव—आरण्यकहस्तीव, अभ्युपायैः—युक्तिभिः, विनेयः—वशीकार्यः ॥ २५ ॥

हिन्दी अनुवाद—हे वृषल ! (हमारी सेनाओं से) अत्यंत आक्रान्त होकर वह (राक्षस) यदि मृत्यु को प्राप्त हो जाए तो तुम वैसे (गुणशाली) पुरुष से वियुक्त हो जाते हो । (और) यदि तुम्हारे सेनानायकों को मार दे तो वह भी क्षति है । इसलिए उसको जंगली हाथी की तरह युक्तियों से वश में करना चाहिए ॥ २५ ॥

टिप्पणीसा अपि—अत्र विधेयप्राधान्यात् स्त्रीलिङ्गता । वनगजः—वनचरो गजः वनगजः मध्यमपदलोपी स० । अभ्युपायैः—साम, दान आदि उपायों से, गज-पक्ष में—वशीकरण के साधनों से । इस पद्य में उपमा अलंकार है, प्रसाद गुण है, वैदर्भी रीति है और मालिनी छन्द है । इस छन्द का लक्षण ३, १५ में देखिए ॥ २५ ॥

राजा—न शक्नुमो वयमार्यस्य वाचा वाचमतिशयितुं । सर्वथाऽमात्यराक्षस एवात्र प्रशस्यतरः ।

चाणक्यः—[सक्रोधम्] न भवानिति वाक्यशेषः । भो वृषल ! तेन किं कृतम् ?

राजा—यदि न ज्ञायते, तदा श्रूयताम् । तेन खलु महात्मना—

लब्धायां पुरि यावदिच्छमुषितं कृत्वा पदं नो गले व्याघातो जयघोषणादिषु बलादस्मद्बलानां कृतः । अत्यर्थं विपुलैः स्वनीतिविभवैः सम्मोहमापादिता विश्वास्येष्वपि विश्वसन्ति मतयो न स्वेषु वर्गेषु नः ॥ २६ ॥

अन्वयः—नः गले पदं कृत्वा लब्धायां पुरि यावदिच्छम् उषितम्,

२२० मुद्राराक्षसम्

अस्मद्बलाना जयघोषणादिषु बलात् व्याघात कृत , विपुले स्वनीतिविभवे अत्यर्थं सम्मोहम् आपादिता न मतय विश्वाम्येष्वपि स्वेषु वर्गेषु न विश्वमन्ति ॥ २६ ॥

व्याख्या—अस्माकं, गले—कण्ठे, पद—चरणं, कृत्वा—विधाय, लब्धाया—प्राप्तायां, पुरि—नगर्य्यां, यावदिच्छम्—यथारुचि, उषितम्—निवासं कृतं, अस्मद्बलानाम्—अस्माकं सैन्यानां, जयघोषणादिषु—विजय-प्रख्यापनप्रभृतिषु, बलात्—हठात्, व्याघात—विघ्न, कृत—उत्पादित, विपुले—महद्धि, स्वनीतिविभवे—स्वस्य आत्मन नीतय नया एव विभवा सम्पद तै, अत्यर्थम्—अत्यन्तं, सम्मोहम्—अविवेकम्, आपादिता—प्रापिता, —अस्माकं, मतय—बुद्धय , विश्वाम्येष्वपि—आप्तेषु च, स्वेषु—स्वकीयेषु, वर्गेषु—पदेषु, न विश्वमन्ति—न प्रतियन्ति ॥ २६ ॥

हिन्दी अनुवादराजा—हम आप की बात को बात से नहीं जीत सकते । (किन्तु) इस विषय में अमात्य राक्षस ही सब प्रकार से अधिक प्रशंसनीय है ।

चाणक्य—[ क्रोध के साथ ] आप नहीं, यह कहना शेष रह गया । हे वृषल ! उसने क्या किया ?

राजा—यदि नहीं जानते हैं तो सुनिए । उस महात्मा ने—

हमारे गले पर पैर रख कर (हमारी) जीती हुई नगरी में इच्छानुसार निवास किया, हमारी सेनाओं की विजय-घोषणा आदि में हठात् विघ्न उत्पन्न किया और महान् अपनी नीति के वैभव से हमारी बुद्धियों को अत्यन्त मोह में डाल दिया, जिससे वे (हमारी बुद्धियाँ) अपने विश्वसनीय व्यक्तियों पर भी विश्वास नहीं करती हैं ॥ २६ ॥

टिप्पणीअतिशयितुम्—उल्लङ्घयितुम् । प्रशस्यतर—अधिक श्रेष्ठ । अतिशयेन प्रशस्य इति प्रशस्यतर प्रशस्य + तरप् । महात्मना—महान् आत्मा यस्य स महात्मा, तेन । न गले पद कृत्वा—हमारे कण्ठ पर पैर रखकर अर्थात् हमारी अवहेलना करके । यह लोकोक्ति है । बलात्—अत्र हेतौ ल्यब्लोपे कर्मणि वा पञ्चमी । स्वेषु वर्गेषु—भद्रभटादिषु । इस श्लोक में दीपक, अति-

तृतीयोऽङ्कः २२१

शयोक्ति और उदात्त अलंकारो की संसृष्टि है । इसमें शार्दूलविक्रीडित छन्द है । इस छन्द का लक्षण १, १२ मे देखिए ॥ २६ ॥

चाणक्यः—[विहस्य] वृषल ! एतत् कृतं राक्षसेन ?

राजा—अथ किम् ? एतत् कृतममात्यराक्षसेन ।

चाणक्यः—वृषल ! मया पुनर्ज्ञातं, नन्दमिव भवन्तमुद्धृत्य भवानिव भूतले मलयकेतुरधिराज्यमारोपितः ।

राजा—अलमुपालभ्य । आर्य ! दैवेनेदमनुष्ठितम् । किमत्रार्यस्य ?

चाणक्य—हे मत्सरिन् !

आरुह्यारूढकोपस्फुरणविषमिताग्राङ्गुलीमुक्तचूड़ां
लोकप्रत्यक्षमुग्रां सकलरिपुकुलोच्छेददीर्घां प्रतिज्ञाम् ।
केनान्येनावलिप्ता नवनवतिशतद्रव्यकोटीश्वरास्ते
नन्दाः पर्यायभूताः पशव इव हताः पश्यतो राक्षसस्य ॥२७॥

अन्वयः—केन अन्येन लोकप्रत्यक्षम् आरूढकोपस्फुरणविषमिताग्राङ्गुलीमुक्तचूडाम् उग्रां सकलरिपुकुलोच्छेददीर्घां प्रतिज्ञाम् आरुह्य अवलिप्ताः नवनवतिशतद्रव्यकोटीश्वराः ते नन्दाः पर्यायभूताः पशव इव पश्यतो राक्षसस्य हताः ? ॥ २७ ॥

व्याख्या—केन अन्येन—मदतिरिक्तेन केन जनेन, लोकप्रत्यक्षम्—जगतः समक्षम्, आरूढकोपस्फुरणविषमिताग्राङ्गुलीमुक्तचूडाम्—आरूढः सञ्जातः, यः कोपः क्रोधः तस्य स्फुरणेन आवेशेन विषमिताः कुटिलीभूताः या अग्राङ्गुल्यः अङ्गुल्यग्राणि तैः मुक्ता बन्धनात् च्याविता चूडा शिखा यस्यां तादृशीम्, उग्रां—कठिनां, सकलरिपुकुलोच्छेददीर्घां—सकलस्य निखिलस्य रिपुकुलस्य शत्रुवंशस्य उच्छेदेन विनाशेन दीर्घा महती, प्रतिज्ञाम्—प्रतिश्रुतिम्, आरुह्य—विधाय, अवलिप्ताः—साभिमानाः, नवनवतिशतद्रव्यकोटीश्वराः—नवनवतिशतानाम् द्रव्यकोटीनाम् वित्तकोटीनाम् ईश्वराः पतयः, ते—प्रसिद्धाः, नन्दाः, पर्यायभूताः—क्रमेण उपस्थिताः, पशव इव—बलिच्छागला इव, पश्यतः—अवलोकयतः, राक्षसस्य—नन्दामात्यस्य पश्यन्तं राक्षसमनादृत्येत्यर्थः, हताः—हिंसिताः ? ॥ २७ ॥

२२२ मुद्राराक्षसम्

हिन्दी अनुवाद—चाणक्य—[ हँसकर ] वृषल ! राक्षस ने यह किया ?

राजा— और क्या ? यह अमात्य राक्षस ने किया ।

चाणक्य— वृषल ! मैंने पुन समझा कि नन्द के समान तुम्हे उखाड़कर पृथ्वी पर तुम्हारी तरह मलयकेतु को (उसने) सिंहासन पर बैठा दिया ।

राजा— उलाहना देना व्यर्थ है । आर्य ! भाग्य ने यह किया । इसमें आपका क्या है ?

चाणक्य— हे डाह रखने वाले !

दूसरे किसने लोगो के सामने उत्पन्न क्रोध के आवेश से टेढ़ी अगुलियो के अग्रभाग से खोली गई शिखा वाली, भयकर तथा सम्पूर्ण शत्रु-कुल के विनाश करने के कारण लम्बी प्रतिज्ञा को करके अभिमानी तथा निन्यानवे सौ करोड़ मुद्राओ के स्वामी नन्दो को क्रमश बलि-पशु के समान राक्षस के देखते मार दिया ॥ २७ ॥

टिप्पणी—उद्धृत्य— उन्मूल्य । अधिराज्यम्— राज्ये इति अधिराज्यम् अव्ययीभाव स०, 'अव्ययीभावश्च' इत्यनेन नपुसकत्वम् । आरोपित — स्थापितः । मत्सरिन् !— मत्सर = डाह । 'मत्सरोऽन्यशुभद्वेषे' इत्यमर । स अस्ति अस्य इति मत्सर + इनि । विषमिता — विषमाः कृताः इति विषमा + णिच् + क्त कर्मणि । नवनवतिशतद्रव्यकोटीश्वरा — नवाधिका नवति नवनवति शाकपार्थिवादित्वात् स० । तत्सङ्ख्यानि शतानि शाकपा० । द्रव्याणां कोट्य द्रव्यकोट्य । नवनवतिशतसङ्ख्याका द्रव्यकोट्यः शाकपा० । तासाम् ईश्वरा । पर्यायभूता — परि √अय् + घञ् भावे = पर्याय । पर्यायिण भूता. तृतीयातत्० वा सुप्पुपा स० । राक्षसस्य — अत्र 'षष्ठी चानादरे' इति षष्ठी । इस श्लोक मे अर्थापत्ति और उपमा अलकार हैं । इसमें ओज गुण है, गौडी रीति है और स्रग्धरा छन्द है । स्रग्धरा का लक्षण १, १ में देखिए ॥ २७ ॥

अपि च,

गृध्रैरावद्धचक्रं वियति विचलितैर्दीर्घनिष्क्रम्पपक्षै- र्धूमैर्ध्वस्तार्कभासा सघनमित्र दिशा मण्डल दर्शयन्तः।

तृतीयोऽङ्कः । २२३

नन्दैरानन्दयन्तः पितृवननिलयान् प्राणिनः पश्य चैतान्
निर्वान्त्यद्यापि नैते स्रुतबहलवसावाहिनो हव्यवाहाः ॥ २८॥

अन्वयः—पश्य, दीर्घनिष्कम्पपक्षैः आबद्धचक्रं वियति विचलितैः गृध्रैः धूमैः ध्वस्तार्कभासां दिशां मण्डलं सघनमिव दर्शयन्तः पितृवननिलयान् एतान् प्राणिनः नन्दैः आनन्दयन्तः एते स्रुतबहलवसावाहिनः हव्यवाहाः अद्यापि न निर्वान्ति ॥ २८ ॥

व्याख्या—पश्य—अवलोकय, दीर्घनिष्कम्पपक्षैः—दीर्घाः आयताः निष्कम्पाः निश्चलाश्च ये पक्षाः दलाः तैः करणाभूतैः, आबद्धचक्र—आबद्धानि कृतानि चक्राणि मण्डलानि यस्मिन् कर्मणि तत् यथा स्यात् तथा, वियति—गगने, विचलितैः—भ्रमद्भिः, गृध्रैः धूमैः—गृध्ररूपधूमैः, ध्वस्तार्कभासां—ध्वस्ताः तिरोहिताः अर्कभासः—सूर्यकिरणाः यामु तासा, दिशाम्—आशाना, मण्डलं—चक्रवालं, सघनमिव—समेघमिव, दर्शयन्तः—अवभासयन्तः, पितृवननिलयान्—पितृवनं श्मशानं निलयः आवासः येषां ते तथोक्ताः तान्, एतान्, प्राणिनः—जीवान्, नन्दैः—बहलवसावशिष्टैः, आनन्दयन्तः—प्रीणयन्तः, एते—इमे, स्रुतबहलवसावाहिनः—स्रुताः क्षरिताः याः बहलाः प्रचुराः वसाः मज्जाः ताः ये वाहयन्ति स्रोतःक्रमेण निःसारयन्ति तादृशाः, हव्यवाहाः—वह्नयः चिताग्नय इत्यर्थः, अद्यापि—अधुनापि, न निर्वान्ति—न प्रशाम्यन्ति ॥ २८ ॥

हिन्दी अनुवाद—और भी, देखो, लम्बे और निश्चल पंखों से मण्डल बनाकर आकाश में उड़ते हुए गृध्र रूपी धुओ से छिपी हुई सूर्य-किरणो वाली दिशाओं के समूह को मानों मेघों मे आच्छादित दिखलाती हुई और श्मशान में रहने वाले इन प्राणियों को नन्दों से तृप्त करती हुई ये पिघली हुई अत्यधिक चर्बी को बहाने वाली अग्नियां आज भी शान्त नहीं हो रही है ॥ २८ ॥

टिप्पणीसघनम्—मेघयुक्त । घनेन सहितम् इति सघनम् 'तेन सहेति'—बहुव्रीहि स०नन्दैः—अत्र करणे तृतीया । स्रुतबहलवसावाहिनः—स्रुतबहलवसा √वह् + णिच् + णिनि कर्तरि साधुकारिणि । हव्यवाहाः—अग्नि । हव्यं वहन्ति देवेभ्यः प्रापयन्ति इति हव्य √वह् + अण् कर्तरि । निर्वान्ति—बुझती हैं । निर् √वा + लट् + अन्ति । इस श्लोक में भाविक अलंकार उत्प्रेक्षा से संसृष्ट है । इसमें भी स्रग्धरा छन्द है ॥ २८ ॥

२२६ मुद्राराक्षसम्

नयनकान्त्या, भ्रूभङ्गोद्भेदधूम—भ्रूभङ्गस्य भ्रूकुटे य उद्भेद आविर्भाव स एव धूमो यत्र तत् यथा स्यात् तथा, पुर—अग्रे, ज्वलितमिव—प्रदीप्तमिव। मन्ये—शङ्के, ताण्डवे—उद्धतनृत्ये, रौद्र रसम्—क्रोधात्मकरसम्, अभिनयत— (अभिनीय) दर्शयत, रुद्रस्य—शिवस्य, संस्मरन्त्या—सम्यक् स्मृतिम् अनुभवन्त्या, धरया—पृथिव्या, पादघात—चरणप्रहार, कथमपि—केनापि प्रकारेण, सञ्जातोद्ग्रकम्प—सञ्जात समुत्पन्न उद्ग्र विशेष कम्प यस्मिन् कर्मणि तत् यथा स्यात् तथा, धारित व्यवस्थापित ॥ ३० ॥

हिन्दी अनुवादराजा [ सावेग के साथ मन में ] तब क्या सचमुच ही आर्य कुपित हो गए ? क्योंकि—

क्रोध में कम्पायमान पलकों से भरत हुए स्वच्छ जल न धोने के कारण क्षीण होने पर भी लाल नेत्रकिरणों से तनी हुई भुकुटिरूपी धुआ मानो सामने प्रदीप्त हुआ है। मैं समझता हूँ कि ताण्डव नृत्य के समय रौद्र रस का अभिनय करते हुए शङ्कर का स्मरण करती हुई पृथ्वी ने ( आर्य चाणक्य का ) पाद-प्रहार उत्पन्न विशेष कम्पन के साथ बड़ी कठिनाई से सहन किया है ॥ ३० ॥

टिप्पणीस्पन्दि—स्पन्दते इति $\sqrt{}$स्पन्द् + णिनि साधुकारिणि कर्तरि। भ्रूभङ्गोद्भेद = उद्गत भ्रूभङ्ग, 'भावायनन द्रव्यायतनम्'। पुर—आंखों के सामने। धुआ आग से ऊपर रहता है। यहाँ भी भृकुटी रूपी धुआ नेत्राग्नि से ऊपर है। रुद्रस्य—अत्र 'अधीगर्थदयेशां कर्मणि' इत्यनेन षष्ठी। उदग्र—उद्गतमग्रमस्य इति उदग्र। इस श्लोक में रूपक और उत्प्रेक्षा अलंकारों में सांकर्य होने से सङ्कर अलंकार है। इसमें पाञ्चाली रीति है, ओज गुण है और स्रग्धरा छन्द है। इसका लक्षण १, १ में देखिए ॥३०॥

चाणक्य — [ कृतक कोप सहृत्य ] वृषल ! वृषल ! अलमुत्तरोत्तरेण । यद्यस्मत्तो वरीयान् राक्षसोऽवगम्यते, तस्मादिदं शस्त्रं तस्मै दीयतामिति । [शस्त्रमुत्सृज्य उत्थाय च आकाशे लक्ष्यं बद्ध्वा स्वगतम्] राक्षस ! राक्षस ! एष भवत कौटिल्यबुद्धिविजिगीषोर्बुद्धे प्रकर्ष ।

चाणक्यत स्खलितभक्तिमहं सुखेन जेप्यामि मौर्यमिति सम्प्रति यः प्रयुक्तः ।

तृतीयोऽङ्कः

२२७

भेदः किलैष भवता सकलः स एव
सम्पत्स्यते शठ तवैव हि दूषणाय ॥ ३१ ॥

[ इति निष्क्रान्तः । ]

अन्वयः—शठ ! चाणक्यतः स्खलितभक्तिं मौर्यम् अहं सुखेन जेप्यामि इति सम्प्रति भवता यः एष भेदः किल प्रयुक्तः स सकल एव तवैव दूषणाय सम्पत्स्यते हि ॥३१॥

व्याख्याशठ !—धूर्त !, चाणक्यतः—कौटिल्यात्, स्खलितभक्ति— स्खलिता त्यक्ता भक्तिः स्नेहः यस्य तादृशं, मौर्यम्—वृषलम्, अहं—राक्षसः, सुखेन—अनायासेन, जेष्यामि—वशीकरिष्यामि, इति—अतो हेतोः, सम्प्रति—अधुना, भवता—त्वया, य एष, भेदः—उपजापः, किल, प्रयुक्तः—विहितः, सः, सकल एव—सम्पूर्णा एव, तवैव—भवत एव, दूषणाय—दोषाय मलयकेतोर्भेदायेत्यर्थः, सम्पत्स्यते हि—नूनं भविष्यति ॥३१॥

हिन्दी अनुवादचाणक्य—[ कृत्रिम क्रोध को त्यागकर ] वृषल ! वृषल ! उत्तर-प्रत्युत्तर करना व्यर्थ है । यदि ( तुम ) राक्षस को मुझसे श्रेष्ठ समझते हो तो यह शस्त्र उसको दे दो । [ शस्त्र छोड़कर, उठकर और आकाश में दृष्टि बाँधकर मन में ] राक्षस ! राक्षस ! यह चाणक्य की बुद्धि को जीतने की इच्छुक तुम्हारी बुद्धि का वैभव है ( अर्थात् इतनी ही तुम्हारी बुद्धिसम्पदा है, इससे तुम चाणक्य की बुद्धि को नहीं जीत सकते हो ) ।

हे धूर्त ! चाणक्य से शिथिल-भक्ति चन्द्रगुप्त को मैं आसानी से जीत लूँगा—ऐसा समझकर तुमने जो इस भेद (-नीति) को प्रयोग किया है, वह सम्पूर्ण ( भेद-प्रयोग ) ही तुम्हारे ही दोष ( विनाश ) के लिए निश्चित रूप से होगा ॥३१॥

[ बाहर चला जाता है । ]

टिप्पणीकृतककोपम्—बनावटी क्रोध । कृत एव कृतकः कृत + कन् । कृतकः कोपः कर्मधारय स०, तम् । उत्तरोत्तरेण—उत्तरति अनेन इति उद् √ तृ + अप् करणे = उत्तरम् । उत्तरस्य उत्तरम्, तेन, करणे तृतीया । वरीयान्—श्रेष्ठ । अतिशयेन उरुः इति उरु + ईयसुन्, वरादेश । स्खलितभक्तिम्—स्खलितं भक्तिरस्य इति स्खलितभक्तिः, तम् । सामान्ये नपुंसकम् । दूषणाय

२२८ मुद्राराक्षसम्

√दुष् + णिच् + ल्युट् भावे, 'दोषो णौ' इत्यनेन ऊत्त्वम् = दूषणम्, तस्मै । 'तुमर्थाच्च भाववचनात्' इति सूत्रेण चतुर्थी अथवा 'क्लृपि सम्पद्यमाने च' इति वार्तिकेन चतुर्थी । इस श्लोक में विषमालंकार है, प्रसाद गुण है, वैदर्भी रीति है और वसन्ततिलका छन्द है । इस छन्द का लक्षण १, ८ में देखिए ॥३१॥

राजा—आर्य वैहीनरे ! अद्य प्रभृत्यनादृत्य चाणक्य चन्द्रगुप्त स्वयमेव राज्यकार्याणि करिष्यतीति गृहीतार्थाः प्रकृतयः क्रियन्ताम् ।

कञ्चुकी—[ स्वगतम् ] कथ निरुपपद एव चाणक्यो नार्यचाणक्य इति । हन्त ! सत्यमेव हृतोऽधिकार । अथवा न खल्वन वस्तुनि देव-दोष । कुत —

स दोष सचिवस्यैव यदसत् कुरुते नृप । याति यन्तु प्रमादेन गजो व्यालत्ववाच्यताम् ॥ ३२ ॥

अन्वय—नृप यत् असत् कुरुते स सचिवस्यैव दोष । यन्तु प्रमादेन गज व्यालत्ववाच्यता याति ॥३२॥

व्याख्या—नृप—राजा, यत्, असत्—अयुक्तम् अमात्यतिरस्कारादिरूप कार्यमिति यावत्, कुरुते—विदधाति, स , सचिवस्यैव—अमात्यस्यैव, दोष—अपराध न तु राज्ञ इत्यर्थ । यन्तु—हस्तिपकस्य, प्रमादेन—अनवधानतया, गज—हस्ती, व्यालत्ववाच्यता—व्यालत्वेन दुष्टगजत्वेन वाच्यता निन्दनीयता, याति—प्राप्नोति ॥३२॥

हिन्दी अनुवादराजा—आर्य वैहीनरि ! आज से चाणक्य का अनादर करके चन्द्रगुप्त स्वयं ही राज-काज करेगा—इस बात से प्रजाओं को अवगत करा दो ।

कञ्चुकी—[ मन में ] क्यों बिना ( किसी ) आदरसूचक विशेषण के ही 'चाणक्य' ( कहा ), 'आर्य चाणक्य' नहीं ( कहा ) । हाय ! सचमुच अधिकार छीन लिया । अथवा इस विषय में महाराज का दोष नहीं है। क्योंकि—

राजा जो अनुचित ( कार्य ) करता है, वह मन्त्री का ही दोष है । (क्योंकि) महावत की असावधानी से हाथी दुष्ट हाथी होने की निन्दा को प्राप्त होता है ॥३२॥

टिप्पणीइति गृहीतार्थाः—इति अनेन प्रकारेण गृहीत परिज्ञात...

तृतीयोऽङ्कः २२६

अर्थः वस्तु याभिः, ताः। निरुपपदः—समीपोच्चारित (आदरसूचक) शब्द से रहित। उपोच्चारितं पदम् उपपदम् निरस्तम् उपपदम् अस्मात् इति निरुपपदः। असत् कुरुते—अनुचित (कार्य) करता है। अथवा ‘असत्कुरुते’ इति पाठः। सत् इति आदरार्थकमव्ययम्। अविद्यमानं सत् अस्मिन् इति असत्। असत् कुरुते इति अमत् √कृ + लट्—ते। व्यालत्ववाच्यताम्—व्यालः = दुष्ट हाथी। ‘व्यालो दुष्टगजे सर्पे’ इति हैमः। तस्य भावः इति व्यालत्वम् व्याल + त्व। वक्तुमर्हः इति वाच्यः √वच् + ण्यत् कर्मणि। तस्य भावः वाच्यता वाच्य + तल्—टाप्। व्यालत्वेन व्यालत्वमेव वा वाच्यता। इस श्लोक में दृष्टान्त अलंकार है और अनुष्टुप् छन्द है। इसका लक्षण १, ३ में देखिए॥ ३२॥

राजा—आर्य! किं विचारयसि?

कञ्चुकी—देव! न किञ्चिद्विचारयामि, किन्तु एतद्विज्ञापयामि, दिष्ट्या देव इदानीं देवः संवृत्त इति।

राजा—[आत्मगतम्] एवमस्मासु गृह्यमाणेषु स्वकार्यसिद्धिकामः, सकामो भवत्वार्यः। [प्रकाशम्] शोणोत्तरे! अनेन शुष्ककलहेन शिरोवेदना मां बाधते, तच्छयनगृहमादेशय।

प्रतीहारी—एदु एदु महाराओ। (एतु एतु महाराजः।)

राजा—[आसनादुत्थायात्मगतम्]

आर्याज्ञयैव मम लङ्घितगौरवस्य बुद्धिः प्रवेष्टुमवनेर्विवरं प्रवृत्ता। ये सत्यमेव न गुरून् प्रतिमानयन्ति तेषां कथं नु हृदयं न भिनत्ति लज्जा॥ ३३॥

[इति निष्क्रान्ताः सर्वे।]

॥ इति तृतीयोऽङ्कः॥

अन्वयः—आर्याज्ञया एव लङ्घितगौरवस्य मम अवनेः विवरं प्रवेष्टुं बुद्धिः प्रवृत्ता। ये सत्यमेव गुरून् न प्रतिमानयन्ति तेषां हृदयं लज्जा कथं नु न भिनत्ति? ॥ ३३॥

चतुर्थोऽङ्कः (राक्षसोद्योग)

२३० मुद्रा राक्षस म्

व्याख्याआर्याज्ञया एव—आर्यस्य पूज्यस्य चाणक्यस्य आज्ञया एव आदेशेनेव, लङ्घितगौरवम्—लङ्घितम् अतिक्रान्तम् गौरवम् प्रतिष्ठा येन तादृशस्य, मम—मे, अवने—पृथिव्या , विवरम्—रन्ध्र, प्रवेष्टुम्—अन्तर्गन्तुम्, बुद्धि—मति , प्रवृत्ता—उद्यता । ये—जना , सत्यमेव—यथार्थमेव, गुरून्—पूज्यान्, न प्रतिमानयन्ति—न सत्कुर्वन्ति, तेषा—जनाना, हृदय—चित्त, लज्जा—त्रपा, कथ नु—कस्मात् न, भिनत्ति—विदारयति ? ॥ ३३ ॥

हिन्दी अनुवाद—राजा—आर्य ! क्या सोच रह हो ?

कञ्चुकी—महाराज ! कुछ नहीं सोच रहा हूँ, किन्तु यह निवेदन करता हूँ कि भाग्य से महाराज अब महाराज हो गए।

राजा—[ मन में ] इस प्रकार हमारे समझे जान पर ( अर्थात् जब लोग मेरे और चाणक्य के लीलाकहह को यथार्थ समझने लगे तब) अपने कार्य की सिद्धि चाहने वाले आर्य पूरणकाम हो। [ प्रकट ] शोणोत्तरे ! इस मूर्ख विवाद से सिर की वेदना मुझे पीडित कर रही है । इसलिए शयनकक्ष में ले चलो।

प्रतीहारी—आव महाराज ! आवें ।

राजा—[ आसन से उठकर मन में ] आर्य ( चाणक्य ) की आज्ञा से ही मर्यादा का अतिक्रमण करने वाली मेरी बुद्धि पृथ्वी के बिल में बैठने को तैयार हो गई है। जो यथार्थ में ही गुरुओ का सत्कार नहीं करते हैं, उनके हृदय को लज्जा क्यों नहीं विदीर्ण कर देती है ? ॥ ३३ ॥

[सभी (पात्र) बाहर चले जाते हैं ।]

॥ तीसरा अंक समाप्त ॥

टिप्पणी—गृह्यमाणेषु—प्रतीयमानेषु । स्वकार्यसिद्धिकाम—स्वस्य कार्यं, तस्य सिद्धि , तां कामयत तादृश । सकाम—सिद्धमनोरथ । शुष्ककलहेन—शुष्क कलह कर्मधारय स०, तेन, हेतौ तृतीया । शिरोवेदना—मस्तकपीडा । प्रतिमानयन्ति - पूजयान्त । प्रति $\sqrt{}$ मान् ( पूजायाम् ) + णिच् + लट्—अन्ति । इस श्लोक के प्रथम चरण में परिसंख्या अलंकार पदार्थहेतुक काव्यलिंग अलंकार से संसृष्ट है । दूसरे चरण में पदार्थहेतुक काव्यलिंग

चतुर्थोऽङ्कः २३१

अलंकार है। तीसरे और चौथे चरण में अर्थापत्ति अलंकार है। इसमें वसन्ततिलका छन्द है। इस छन्द का लक्षण १, ८ में देखिए ॥ ३३ ॥


चतुर्थोऽङ्कः

[ ततः प्रविशत्यध्वगवेषः पुरुषः । ]

पुरुषः—हीमाणहे हीमाणहे । (आश्चर्यमाश्चर्यम् ।)

जोअणसअं समधिअं को णाम गदागदं इह करेइ ।
अत्थाणगमणगुरुई प्पहुणो अण्णा जइ ण होइ ॥ १ ॥
(योजनशतं समधिकं को नाम गतागतमिह करोति ।
अस्थानगमनगुरुका प्रभोराज्ञा यदि न भवति ॥ १ ॥)

अन्वयः—अस्थानगमनगुरुका प्रभोः आज्ञा यदि न भवति को नाम इह समधिकं योजनशतं गतागतं करोति ? ॥ १ ॥

व्याख्या—अस्थानगमनगुरुका—अस्थाने अनवसरे यत् गमनं तेन गुरुका गुर्वी प्रभोः स्वामिनः, आज्ञा—आदेशः, यदि—चेत्, न भवति—न जायते, ( तदा ) को नाम—न कोऽपीत्यर्थः, इह—अस्मिन् संसारे, समधिकं—संगतम् अधिकं यस्मिन् तत्, योजनशतं—शतयोजनमित्यर्थः, ( व्याप्य ) गतागतं—गतं गमनम् आगतम् आगमनञ्च, करोति—विदधाति ? ॥ १ ॥

हिन्दी अनुवाद—[ तब पथिक-वेष में एक पुरुष प्रवेश करता है । ]

पुरुष—आश्चर्य है, आश्चर्य है ।

असमय में जाने के कारण महान् ( अर्थात् अनुल्लंघनीय ) स्वामी की आज्ञा यदि न हो तो कौन ( व्यक्ति ) यहाँ सौ योजन से भी अधिक दूर जाना-आना करता है ? ॥ १ ॥

टिप्पणीअध्वगवेषः—पथिकवेशधारी । अध्वानं गच्छति इति अध्वन् √गम् + ड कर्तरि । तस्य वेषः । अध्वगवेष इव वेषः अस्यं इति बहुव्रीहि स० । हीमाणहे—यह आश्चर्यसूचक निपात—अव्यय है। समधिकम्—सङ्गतम्

२३२ मुद्राराक्षसम्

अधिकेन प्रादितत्० अथवा सङ्गतम् अधिकं यस्मिन् तत् समधिकम् 'प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोप' इति वार्तिकेन बहुव्रीहि स० गतपदलोपश्च । योजनशतम्—योजनानां शतम् । समधिकं योजनशतम् = समधिकयोजनशत-परिमितम् । गतागतम्—गतञ्च आगतञ्च अनयोः समाहारद्वन्द्वममास । इस पद्य में वाक्यार्थहेतुक काव्यालिंग अलकार है । इसमे आर्या छन्द है । आर्या का लक्षण १, ५ मे देखिए ॥ १ ॥

ता जाव अमच्चरक्खसस्म ज्जेव गेहं गच्छामि । [ परिश्रान्तवत् परिक्रम्य ] भो ! को एत्थ दुआरिआण ? णिवेदेह दाव भट्टिणो अमच्च-रक्खसस्स, एसो क्खु करहको करहक विअ कज्जं तुवरन्तो पाडलिपुत्तादो आगदो त्ति । ( तद्यावदमात्यराक्षसस्यैव गेहं गच्छामि । भो ! कोऽत्र दौवारिकाणाम् ? निवेदय तावद् भर्तु अमात्यराक्षसस्य 'एष खलु कर-भक करभक इव कार्यं त्वरयन् पाटलिपुत्रादागत' इति ।)

दौवारिक —[ प्रविश्य ] भद्द ! मा उच्च मन्तेहि, एसो अमच्चो भट्टा कज्जचिन्ताजणिदेण जाअरेण समुप्पणसीसवेअणो, अज्ज वि दाव ण सअणदल मुञ्चदि, ता चिट्ठ दाव मुहुत्तअं, जाव से लद्धावसरो भविअ भवदो आगमण णिवेदेमि । ( भद्र ! मा उच्चैर्मन्त्रय, एष खलु भर्ता अमात्यराक्षस कार्यचिन्ताजनितेन जागरणेन समुत्पन्नशीर्षवेदनोऽद्यापि तावत् न शयनतलं मुञ्चति, तस्मात् तिष्ठ तावन्मुहूर्तं, यावत् तस्य लब्धावसरो भूत्वा भवत आगमनं निवेदयामि । )

पुरुष —भद्दमुह ! जहा दे रोअदि । ( भद्रमुख ! यथा ते रोचते ।)

[ तत प्रविशति शयनगत आसनगतेन शकटदासेन सह चिन्तितो राक्षस । ]

राक्षस —[ आत्मगतम् ]

हिन्दी अनुवाद—तो अब अमात्य राक्षस के ही घर मे जाता हूँ । [ थके हुए की तरह घूमकर ] अजी ! यहां द्वारपालों में से कौन है ? स्वामी अमात्य राक्षस से निवेदन कर दो कि यह करभक हाथी के बच्चे के समान कार्य को शीघ्रता से सम्पन्न करते हुए पाटलिपुत्र से आ गया है ।

द्वारपाल—[ प्रवेश करके ] भद्र ! जोर से मत बोलो । ये स्वामी अमात्य

चतुर्थोऽङ्कः । २३३

राक्षस कार्यों की चिन्ता के कारण जागते रहने से उत्पन्न सिर-पीड़ा से पीड़ित होकर अभी भी शय्या को नहीं छोड़ रहे है। इसलिए क्षण भर ठहरो, जब तक कि मैं अवसर पाकर तुम्हारे आने की सूचना दे दूँ।

पुरुष—भद्रमुख ! जैसी तुम्हारी इच्छा।

[ तब पलंग पर लेटे चिन्तामग्न राक्षस आसन पर बैठे शकटदास के साथ प्रवेश करता है।]

राक्षस—[ मन में ]

टिप्पणीदौवारिकाणाम्—द्वारत्राणनियुक्तानाम्। द्वारे नियुक्ताः इति द्वार + ठक्—इक, 'द्वारादीनां च' इत्यनेन ऐजागमः। करभक इव—गजशावक इव। त्वरयन्—शीघ्रं साधयन्। √त्वर् + णिच् + शतृ। पाटलिपुत्रात्—कुसुमपुरात्। पुत्रक नामक राजा ने इस नगरी की स्थापना की थी। इसी का आधुनिक नाम पटना है। समुत्पन्नशीर्षवेदनः—शीर्षस्य शीर्षे वा वेदना शीर्षवेदना। समुत्पन्ना शीर्षवेदना अस्य इति समुत्पन्नशीर्षवेदनः = सञ्जातोत्तमाङ्गपीडः। निवेदयामि—अत्र भविष्यत्समीप्ये लट्। भद्रमुख—भद्रं मुखमस्य इति भद्रमुखः, तत्सम्बुद्धौ भद्रमुख इति। ते रोचते—तुभ्यम् इत्यस्य 'ते मयावेकवचनस्य' इत्यनेन ते इत्यादेशः। अत्र 'रुच्यर्थानां प्रीयमाणः' इत्यनेन चतुर्थी।

मम विमृशतः कार्यारम्भे विधेरविधेयता
सहजकुटिलां कौटिल्यस्य प्रचिन्तयतो मतिम् ।
अथ च विहिते मत्कृत्यानां निकाममुपग्रहे
कथमिदमिहेत्युन्निद्रस्य प्रयान्त्यनिशं निशाः ॥ २ ॥

अन्वयः—कार्यारम्भे विधेः अविधेयतां विमृशतः कौटिल्यस्य सहजकुटिलां मतिं प्रचिन्तयतः अथ च मत्कृत्यानां निकामम् उपग्रहे विहिते 'इह इदं कथम्' इति अनिशम् उन्निद्रस्य मम निशाः प्रयान्ति ॥ २ ॥

व्याख्याकार्यारम्भे—कृत्योपक्रमे, विधेः—भाग्यस्य, अविधेयतां—स्वातन्त्र्यम् अननुकूलतामिति यावत्, विमृशतः—विचारयतः, कौटिल्यस्य—चाणक्यस्य, सहजकुटिलां—स्वभावक्रूरां, मतिं—बुद्धिं, प्रचिन्तयतः—पर्यालोचयतः,

२३४ मुद्राराक्षसम्

अथ च—अपि च, मत्कृत्याना—मम प्रयोगाणाम्, निकामम्—यथेच्छम्, उपग्रहे—प्रतीकारे, विहिते—साधिते, इह—अस्मिन् सुविहिते मत्प्रयोग, इदम्—एतत्, कथ—केन प्रकारेण, इति—अनया रीत्या, अनिशम्—निरन्तरम्, उन्निद्रस्य—जाग्रत , मम—मे, निशा—रात्रय , प्रयान्ति—व्यतियन्ति ॥ २ ॥

हिन्दी अनुवाद—कार्य के प्रारम्भ मे भाग्य की प्रतिकूलता को सोचते हुए, चाणक्य की स्वाभाविक कुटिल बुद्धि के विषय मे ऊहापोह करते हुए और अपने कार्यों के अत्यन्त विफल हा जाने पर 'यहाँ यह कैसे ( हुआ )' इस चिन्ता मे निरन्तर जागते हुए मेरी रात्रियाँ व्यतीत होती हैं ॥ २ ॥

टिप्पणी—अविधेयताम्—प्रतिकूलता का । वि √ धा + यत् कर्मणि = विधेय । न विधेय अविधेय । तस्य भाव । तत्ता, ताम् । मत्कृत्यानाम्—मेरे विषकन्या आदि कपट कार्यों का । उपग्रहे—निरोधे । उप √ ग्रह् + अप् भावे = उपग्रह , तस्मिन् । अनिशम्—सतत । अविद्यमाना निशा यस्मिन् कर्मणि तत् यथा तथा । उन्निद्रस्य—उद्गता अच्छिन्ना निद्रा यस्य स उन्निद्र , तस्य । इस श्लोक मे समुच्चय नामक अलङ्कार है, वैदर्भी रीति है और हरिणी छन्द है। इस छन्द का लक्षण ३, ६ मे देखिए ॥ २ ॥

अपि च—

कार्योपक्षेपमादौ तनुमपि रचयन्तस्य विस्तारमिच्छन् बीजानां गर्भितानां फलमतिगहनं गूढमुद्भे दयंश्च । कुर्वन् बुद्ध्या विमर्शं प्रसृतमपि पुनः संहरन् कार्यजात कर्ता वा नाटकानामियमनुभवति क्लेशमस्मद्विधो वा ॥ ३ ॥

अन्वय —आदौ तनुमपि कार्योपक्षेप रचयन्, तस्य विस्तारमिच्छन्, गर्भितानां बीजानाम् अतिगहन फल गूढमुद्भेद्यश्च बुद्ध्या विमर्शं कुर्वन् प्रसृतम् अपि कार्यजात पुन संहरन् नाटकाना कर्ता वा अस्मद्विधो वा इम क्लेशम् अनुभवति ॥३॥

व्याख्या—आदौ—प्रारम्भे, तनुमपि—स्वल्पमपि, कार्योपक्षेप—काव्यस्य शत्रुपराभवात्मकस्य दृश्यस्य उपक्षेप सामाद्युपाय ( नाटककारपक्षे ) बीजन्यास,

चतुर्थोऽङ्कः

२३५

रचयन्—प्रणयन् तस्य—कार्यस्य ( पक्षान्तरे ) बीजस्य, विस्तारं—प्रचयम्, इच्छन्—अभिलषन्, गर्भितानां—सञ्जातगर्भाणां फलप्रसवोन्मुखानामित्यर्थः ( पक्षान्तरे ) दृष्टनष्टानां, बीजानां—प्रसरतां प्रयोगानामित्यर्थः ( पक्षान्तरे ) फलप्रधानहेतूनामित्यर्थः, अतिगहनं—दुरनुमेयं, फलं—परिणतिम्, गूढं—गुप्तं यथा स्यात् तथा, उद्भेदयंश्च—प्रकटयंश्च, बुद्ध्या—मत्या, विमर्शं—कर्त्तव्याकर्त्तव्यविवेकं ( पक्षान्तरे ) अनुसन्धानं, कुर्वन्—विदधत्, प्रसृतमपि—विस्तृतमपि, कार्यजातं—कृत्यवर्गं ( पक्षान्तरे ) नाटकीयं वस्तु, पुनः—भूयः, संहरन्—संगृह्णंश्च ( पक्षान्तरे ) समापयन् अपि, नाटकानां—रूपकाणां, कर्ता वा—रचयिता च, अस्मद्विधो वा—मादृशश्च राजनीतिप्रयोक्ता जनः, इमं क्लेशं—प्रजागरदुःखम्, अनुभवति—भजते ॥३॥

हिन्दी अनुवाद—और भी—प्रारंभ मे थोड़े भी कार्य के उपाय को ( पक्षान्तर में—बीजन्यास को ) करता हुआ, उस ( कार्य, पक्षान्तर में—बीज ) का विस्तार चाहता हुआ, फलोन्मुख ( पक्षान्तर में—दृष्टनष्ट ) बीजों ( प्रयोगों, पक्षान्तर में—फल के प्रधान हेतुओं ) के अत्यंत गहन परिणाम को गुप्त रूप से प्रकट करता हुआ, बुद्धि से ( कर्तव्य और अकर्तव्य का ) विवेक ( पक्षान्तर में—अनुसन्धान ) करता हुआ और फैले हुए भी कार्य-समूह ( पक्षान्तर में—नाटकीय कथावस्तु ) को पुनः इकट्ठा ( पक्षान्तर में—समाप्त ) करता हुआ नाटककार और मेरे जैसा ( नीति-प्रयोग-कर्ता ) व्यक्ति इस ( जागरण-रूप ) क्लेश का अनुभव करते हैं ॥३॥

टिप्पणीआदौ—प्रारंभ मे, मुख-सन्धि मे। 'यत्र बीजसमुत्पत्तिर्नानार्थरससम्भवा। प्रारम्भेण समायुक्ता तन्मुखं परिकीर्तितम्।' कार्योपक्षेपम्—शत्रुपराजय्यरूप साम आदि उपाय को। बीजन्यास को। उपक्षिप्यते प्रस्तूयते अनेन इति उप√क्षिप् + घञ् करणे = उपक्षेपः। कार्यस्य उपक्षेपः, तम्। 'काव्यार्थस्य समुत्पत्तिरुपक्षेप इति स्मृतः'। इस नाटक में चाणक्य के कार्योपक्षेप को प्रथम अंक में 'तन्मर्यापि तावत्' इत्यादि से किया गया है। तस्य विस्तारम्—कार्य, बीज के विस्तार को। बीज का लक्षण यह है—'स्तोकोद्दिष्टं कार्यहेतुर्वीजं विस्तार्यनेकधा'। गर्भितानाम्—फलोन्मुख, दृष्टनष्ट। गर्भः सञ्जातः एषाम् इति गर्भ + इतच् = गर्भितानि, तेषाम्। 'गर्भस्तु दृष्टनष्टस्य बीजस्यान्वेषणं मुहुः'। यहाँ चाणक्य का कार्योपक्षेप गर्भित है, राक्षस का नहीं। द्वितीय अंक में

२३६मुद्राराक्षसम्

ये दोनों बाते देखने को मिलती हैं। उद्भेद्यन्—प्रकट करता हुआ। यहाँ फल का प्राकट्य चौथे और पाँचवे अंक में वर्णित हुआ है। विमर्शम्—विवेक, विमर्शनमस्ति। वि $\sqrt{}$मृश् + घञ् भावे = विमर्श। 'यत्र मुख्यफलोपाय, उद्भिन्नो गर्भतोऽधिक । शापाद्यं सान्तरायञ्च स विमर्श इति स्मृत ॥' यहाँ हम इसको तीसरे अंक के २३वें श्लोक में देख सकते हैं। प्रसृतमपि कार्यजातम् पुन संहरन्—फैले हुए भी कार्य-समूह का उपसंहार करता हुआ। निर्वहणसन्धि में नाटकीय वस्तु का उपसंहार किया जाता है—'बीजवन्तो मुखाद्यर्था विप्रकीर्णा यथायथम्। ऐकार्थ्यमुपनीयन्ते यत्र निर्वहणं हि तत्॥' यहाँ चाणक्य के कार्य-समूह का उपसंहार सप्तम अंक के 'भृत्या भद्रभटादय'—इत्यादि श्लोक में देखा जा सकता है। नाटकानाम्—दृश्य काव्य या रूपक को नाटक कहते हैं। इसका लक्षण यह है—'नाटकं ख्यातवृत्तं स्यात् पञ्चसन्धिसमन्वितम्'। इमं क्लेशम्—इस (जागरण रूप) कष्ट का। यहाँ नाटककार ने राजनीतिक नाटक की रचना करने में होने वाले कष्ट को राक्षस के कथन के द्वारा व्यक्त किया है। जैसे राजनीतिक दाव-पेंच खेलने वाले को कभी-कभी रात-रात भर जागना पड़ जाता है उसी तरह इस नाटककार को भी प्राय जागना पड़ा है, ऐसा इस श्लोक से ध्वनित होता है। इस श्लोक में श्लेषालंकार और दीपकालंकार में अङ्गाङ्गि-भाव से सांकर्य है। इसमें वैदर्भी रीति है और स्रग्धरा छन्द है। इस छन्द का लक्षण १, १ में देखिए ॥३॥

तदपि नाम दुरात्मा चाणक्यवटु, —'

[ उपसृत्य ]

दौवारिक—जेदु जेदु—' ( जयतु जयतु—' )

राक्षस—'अभिमन्यातु शक्यं स्यात्।

दौवारिक—अमच्चो। ( अमात्य )।

राक्षस—[ वामाक्षिस्पन्दं सूचयित्वात्मगतम् ] 'दुरात्मा चाणक्यवटु-जयति, अभिमन्यातु शक्यं स्यादमात्य' इति वागीश्वरी वामाक्षिस्पन्दनेन प्रस्तावगता प्रतिपादयति। तथापि नोद्यमस्त्याज्यः। [ प्रकाशम् ] भद्र! किमसि वक्तुकामः?

दौवारिक—अमच्च! एसो क्खु करहओ पाडलिपुत्तादो आदो,

चतुर्थोऽङ्कः २३७

इच्छदि अमच्चं पेक्खिदु । (अमात्य ! एष खलु करभकः पाटलिपुत्रा- दागतः, इच्छति अमात्यं प्रेक्षितुम् ।)

**राक्षसः—**अवारित प्रवेशयैनम् ।

**दौवारिकः—**जं अमच्चो आणवेदि । [ इति निष्क्रम्य पुरुषमुपसृत्य ] भद्द ! एसो क्खु अमच्चो चिट्ठदि, ता उपसप्प णं । (यदमात्य आज्ञा- पयति । भद्र ! एष खलु अमात्यस्तिष्ठति, तदुपसर्प एनम् ।)

[ इति निष्क्रान्तो दौवारिकः । ]

**हिन्दी अनुवाद—**तो भी दुष्टात्मा वटुक चाणक्य,'—

[ पास जाकर ]

**द्वारपाल—**जय हो जय हो—'

**राक्षस—**प्रतारणा करने योग्य होता ।

**द्वारपाल—**अमात्य ।

राक्षस—[ बायीं आँख का फड़कना देखकर मन मे ] 'दुष्टात्मा वटुक चाणक्य विजयी हो, अमात्य प्रतारणा करने योग्य होता'—यह दैवी वाणी प्रकरण-प्राप्त होती हुई बायी आँख के फडकने के द्वारा सूचित कर रही है । तो भी उद्यम नहीं छोड़ना चाहिए । [ प्रकट ] भद्र ! क्या कहना चाहते हो ?

**द्वारपाल—**अमात्य ! यह करभक पाटलिपुत्र से आया है और आप से मिलना चाहता है ।

**राक्षस—**बिना रोक-टोक के उसे प्रविष्ट कराओ ।

**द्वारपाल—**जैसी अमात्य की आज्ञा । [ बाहर जाकर ( उस ) पुरुष के पास पहुँचकर ] भद्र ! ये अमात्य विराज रहे हैं, इसलिए उनके पास जाओ ।

[ द्वारपाल चला जाता है । ]

**टिप्पणी—तदपि—**यहाँ तात्पर्य यह है कि अमात्य के उस प्रकार क्ले- शानुभव करते रहने पर भी दुष्ट चाणक्य उद्यम नही छोड़ता है । **उपसृत्य—**समीप जाकर । यह तीसरा पताकास्थान है । साहित्यदर्पण में कहा गया है—

'अर्थोपक्षेपकं यत्तु लीनं सविनयं भवेत् । श्लिष्टप्रत्युत्तरोपेतं तृतीयमिदमुच्यते ।।'

२३८ मुद्राराक्षसम्

अभिसन्धातुम्—पराभवितुम् प्रतारयितुमित्यर्थ । वामाक्षिस्पन्दम्— वामम् अक्षि, तस्य स्पन्द, तम् । वाईं आंख का फड़कना पुरुष के लिए अशुभ- सूचक है। इसीलिए राक्षस 'तदपि नाम'—इत्यादि अपनी उक्ति के साथ द्वारपाल की उक्ति को जोड़कर 'दुरात्मा चाणक्यवटुर्जयति, अभिसन्धातुं शक्य स्यादमात्य,' ऐसा वाक्य पढ़ता है। वागीश्वरी—वाग्देवता । प्रस्तावगता—प्रस्ताव प्रक- रण गता प्राप्ता । प्रनिपादयति—कथयति सूचयतीति यावत् ।

करभक—[ राक्षसमुपसृत्य ] जेदु जेदु अमच्चो । जयतु जयत्व- मात्य । )

राक्षस—[ नाट्येनावलोक्य ] भद्र करभक ! स्वागतम् । उपविश्य- ताम् ।

करभक—ज अमच्चो आणवेदि । ( यदमात्य आज्ञापयति । ) [ इति भूमावुपविशति । ]

राक्षस—[ आत्मगतम् ] अथ कस्मिन् प्रयोजने मयाऽद्य प्रणिधिः प्रहित इति प्रभूतत्वात् प्रयोजनानां न खल्ववधारयामि । [ इति चिन्तां नाटयति । ]

[ तत् प्रविशति चत्रपाणिरपर पुरुष । ]

पुरुष—ओसरध अज्जा ! ओसरध । अवेध माणहे ! अवेध । किं ण पेक्खह ? । ( अपसरत आर्या ! अपसरत । अपेत मान्या ! अपेत । किं न पश्यथ ? )

दूरे पच्चासत्ती दमणमवि दुल्तह अधण्णेहि । कल्लाणकुलहराण देवाण ज मनुस्सदेआण ॥ ४ ॥ (दूरे प्रत्यासत्तिर्दर्शनमपि दुर्लभमधन्यै कल्याणकुलधराणां देवानाम्च मनुष्यदेवानाम् ॥ ४ ॥ )

अन्वय—कल्याणकुलधराणा देवाना मनुष्यदेवाना च दर्शनमपि अधन्यैः दुर्लभम्, प्रत्यासत्ति दूरे ॥ ४ ॥

व्याख्याकल्याणकुलधुराणां—(देवपक्षे) कल्याण स्वर्णामय कुलधरः - कुलपर्वत मेरु येषा तादृशाना _ (राजपक्षे कल्याणानां कुल कल्याणकुल,

चतुर्थोऽङ्कः २३६

धरन्तीति धराः, कल्याणकुलस्य धराः कल्याणकुलधराः तेषां कल्याणकुलधराणां मङ्गलसमूहभाजिनां) देवानां—सुराणां, मनुष्यदेवानां च—मनुष्याणां मनुष्येषु वा देवाः देवतुल्याः मनुष्यदेवाः तेषां मनुष्यदेवानां राज्ञां च, दर्शनमपि—अवलोकनञ्च, अधन्यैः—हतभाग्यैः पुरुषैः, दुर्लभम्—दुष्प्रापम्, प्रत्यासत्तिः—सामीप्यप्राप्तिः, दूरे (तिष्ठतु) ॥ ४ ॥

हिन्दी अनुवादकरभक—[ राक्षस के पास पहुँचकर ] अमात्य की जय हो, जय हो ।

राक्षस—[ अभिनयपूर्वक देखकर ] भद्र करभक ! स्वागत है । बैठो ।

करभक—अमात्य की जो आज्ञा । [ भूमि पर बैठ जाता है । ]

राक्षस—[ मन में ] अच्छा, किस काम में इस गुप्तचर को भेजा था, वह कार्यों की अधिकता के कारण निश्चित नहीं कर पा रहा हूँ । [ सोचने का अभिनय करता है । ]

[ तब हाथ में बेंत लिये दूसरा पुरुष प्रवेश करता है । ]

पुरुष—हटो आर्यो ! हटो । दूर हो जाओ मान्यो ! दूर हो जाओ । क्या नहीं देखते हो ?

सोने के मेरुपर्वत पर निवास करने वाले (राजा के पक्ष में कल्याणसमूह को धारण करने वाले) देवताओं और राजाओं के दर्शन भी भाग्यहीनों के लिए दुर्लभ हैं, सामीप्य प्राप्त करना तो दूर रहा ॥ ४ ॥

टिप्पणीकस्मिन् प्रयोजने—किं प्रयोजनमुद्दिश्येत्यर्थः । विषयाधिकरणे सप्तमी । प्रहितः—प्र-√हि (प्रेरणे) + क्त कर्मणि । वेत्रपाणिः—वेत्रं पाणौ यस्य सः बहुव्रीहि स०, ‘प्रहरणार्थेभ्यः परा निष्ठा’ इति पाणिशब्दस्य परनिपातः । अधन्यैः—अत्र ‘न लोकाव्यय’—इति खलर्थयोगे षष्ठीप्रतिषेधः । प्रत्यासत्तिः—समीप में जाना या रहना । प्रति—आ-√सद् + क्तिन् भावे । अत्र उपसर्गवशात् धातोः सकर्मकत्वम् ।

[ आकाशे ] अज्जा ! किं भणाध, किं णिमित्तं एसा ओसालणा करीअदि ? अज्जा ! एसो क्खु कुमालो मलयकेदू समुप्पण्णसीसवेअणं अमच्चरक्खसं पेक्खिदुं इह ज्जेव आअच्छदि । एदिणा कालणेण

२४० मुद्राराक्षसम्

ओसारणा करीअदि । ( आर्या ! किं भणथ, किं निमित्तमेषाऽपसारणा क्रियते ? आर्या ! एष खलु कुमारो मलयकेतुः समुत्पन्नशीर्षवेदनममात्य-राक्षसं प्रेक्षितुमिहैवागच्छति । एतेन कारणेनापसारणा क्रियते । )

[ इति निष्क्रान्तः पुरुषः । ]

[ ततः प्रविशति भागुरायणेन कञ्चुकिना चानुगम्यमानो मलयकेतुः । ]

मलयकेतुः — [ निःश्वस्याऽऽत्मगतम् ] अद्य दशमो मासस्तातस्योपरतस्य । न चास्माभिर्वृथा पुरुषकारमुद्वहद्भिस्तमुद्दिश्य तोयाञ्जलिरप्यावर्जितः । अथवा, प्रतिज्ञातमेतत् पुरस्तात् ।

वक्षस्ताडनभिन्नरत्नवलयं भ्रष्टोत्तरीयांशुकं हाहेत्युच्चरितार्तनादकरुणं भूरेणुरुक्षालकम् । तादृङ्मातृजनस्य शोकजनितं सम्प्रत्यवस्थान्तरं शत्रुस्त्रीषु मया विधाय गुरवे देयो निवापाञ्जलिः ॥ ५ ॥

अन्वय — मातृजनस्य शोकजनितं वक्षस्ताडनभिन्नरत्नवलयं भ्रष्टोत्तरीयांशुकं भूरेणुरुक्षालकं हाहेत्युच्चरितार्तनादकरुणं तादृक् अवस्थान्तरं सम्प्रति शत्रुस्त्रीषु विधाय मया गुरवे निवापाञ्जलिः देयः ॥ ५ ॥

व्याख्यामातृजनस्य—मातृणां जननीनां जनस्य समूहस्य, शोकजनित—शोकेन भर्तृवियोगदुःखेन जनितं समुत्पन्नं, वक्षस्ताडनभिन्नरत्नवलय—वक्षसः उरसः यानि ताडनानि आघाताः तैः भिन्नानि भग्नानि रत्नवलयानि मणिनिर्मित-कटकानि यस्मिन् तादृशम्, भ्रष्टोत्तरीयांशुक—भ्रष्टं स्वस्थानाच्च्युतमुत्तरीयांशुक-मुत्तरीयवस्त्रं यस्मिन् तादृशं, भूरेणुरुक्षालकम्—भुवः भूम्याः रेणवः धूलयः ताभिः रुक्षा अस्रिग्धा अलका चूर्णकुन्तलाः यस्मिन् तादृशम्, हाहेत्युच्चरितार्तनादकरुणम्—हा हा इति अनेन प्रकारेण उच्चरित उद्गतः यः आर्तनाद दीनस्वरः तेन करुणं हृदयविदारणं, तादृक्—तथाविधम्, अवस्थान्तरं—दशान्तरं, सम्प्रति—अधुना, शत्रुस्त्रीषु—अरिवधूषु, विधाय—कृत्वा, मया—मलयकेतुना, गुरवे—पित्रे निवापाञ्जलि—निवापस्य पितृदानस्य अञ्जलिमितं जलम्, देयः—समर्पणीयः ॥ ५ ॥