भारतकोश
संग्रह पर लौटें

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

प्रथम उच्छ्वासः । २१ अपिच । नक्षत्रभूः क्षत्रकुलप्रसूतेर्युक्तो नभोगैः खलु भोगभाजः । सुजातरूपोऽपि न याति यस्य समानतां कांचन काञ्चनाद्रिः ॥३७॥ तस्य चं महांपहीपतेरस्ति स्म प्रशस्तिस्तम्भः सकलश्रुतिशास्त्रशा- सनाक्षरमालिकानाम्, न्यग्रोधपादपः पुण्यकर्मप्ररोहाणाम्, आकरः साधुव्यवहाररत्नानाम्, इन्दुः पार्थिवनीतिज्योत्स्नायाः, कन्दः सक- लकलाङ्कुरकलापस्य, सागरः समस्तपुरुषगुणमणीनाम्, आलान- स्तम्भश्चपलराज्यलक्ष्मीकरेणुकायाः, सकलभुवनव्यापारपारावारनौ- कर्णधारः, सुधाम्भोनिधिडिण्डीरपिण्डपाण्डुरयशःकुशेशयखण्डमण्डि- तसकलसंसारसराः, सरागीकृतसमस्तपार्थिवानुजीवी, जीवितसमः, प्राणसमः, हृदयसमः, शरीरमात्रभिन्नो द्वितीय इवात्मा, कुलक्रमागतः, संक्रान्तिदर्पणः सुखदुःखयोः, स्वभावानुरक्तः, शुचिः, सत्यपूतवाक्, कृतज्ञः, ब्राह्मणः साँलङ्कायनस्य सूनुः श्रुतशीलोनाम महामन्त्री ॥क॥ मित्रं च मन्त्री च सुहृत्प्रियश्च विद्यावयःशीलगुणैः समानः । बभूव भूपस्य स तस्य विप्रो विश्वंभराभारसहः सहायः ॥ ३८ ॥ अपिच । ब्रह्मण्योऽपि ब्रह्मवित्तापहारी स्त्रीयुक्तोऽपि प्रायशो विप्रयुक्तः । सद्द्वेषोऽपि द्वेषनिर्मुक्तचेताः को वा तादृग्दृश्यते श्रूयते वा ॥३९॥ नक्षत्रेति ॥ यस्य नलस्य काञ्चनाद्रिर्मेरुः कांचन कांचिदपि समानतां नायाति । सुष्ठु जातरूपं सुवर्णं यत्र । नलपक्षे रूपं सौन्दर्यम् । अतो द्वयोरपि सुजातरूपत्वा- त्साम्ये निषेधः । यतो नायं क्षत्राद्भवति स्म । तथा भोगैर्न युक्तः । नलस्तु क्षत्र- प्रसूतिर्भोगभाक् । सिद्धान्ते तु नक्षत्राणां भूः स्थानम् । तथा नभसि गच्छन्ति ये तैर्नभोगैर्देवैर्युक्तः ॥ ३७ ॥ तस्य चेति ॥ तस्य नरपतेः श्रुतशीलो नामामात्योऽस्ति स्म आसीत् । यशसां कुशेशयानि, संसारस्य सर उपमानम् ॥ क ॥ ब्रह्मण्य इति ॥ ब्रह्मणे हितो ब्रह्मण्यः । तथा ब्रह्म वेत्ति । तथा तापहारी । तथा विप्रैर्द्विजैर्युक्तः । तथा सञ्शोभनो वेषो यस्य । विरोधांशः सुगम एव । ब्रह्म- वित्तं ब्रह्मस्वम् । विप्रयुक्तो वियुक्तः ॥ ३८ ॥ ३९ ॥ १ 'च महीपतेः'. २ 'प्रशस्तप्रशस्तिस्तम्भः'. ३ 'पुण्यकर्मारम्भप्ररोहाणाम्'. ४ 'व्या- पारनौकर्णधारः'. ५ 'संसारकासारः'. ६ 'सत्यवाक्'. ७ 'सालङ्कायनसूनुः'. ८ 'च'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

२२ नलचम्पूः । अथ स पार्थिवस्तस्मिन्नमात्ये परिजनपरिवृढे प्रौढप्रेमणि निर्गूढम- न्त्रे मन्त्रिणि तृणीकृतैणविषयरसे सौराज्यरागजनने जैननीयमाने जनस्य, सर्वोपधाशुद्धबुद्धौ निधाय राज्यप्राज्यचिन्ताभारमभिनवयौ- वनारम्भरमणीये रम्यरमणीजननयनहृदयप्रिये प्रियंगुभासि जितमद- नमहस्यपहसितसुरासुरसौभाग्ययशसि विस्मापितसमस्तजनमनसि ल- सल्लावण्यपुञ्जपराजितसकलसमुद्राम्भसि कान्तिकटाक्षितचन्द्रमसि वयसि वर्तमानो मानितमानिनीजनयौवनसर्वस्वः स्वयमनवरतं सक- लसंसारसुखसंदोहमन्वभूत् ॥ क ॥ तथाहि। कदाचिदनुत्पन्नविषमरणभयो गरुड इवाहितापकारी हरिवाहनवि- लासमकरोत् ॥ ख ॥ कदाचिच्चन्द्रमौलिरिव मदनबाणासनातिमुक्तशरसंछादितायां पर्व- तभुवि विजहार ॥ ग ॥ कदाचिदच्युत इव शिशिरकमलाकरावगाहनोत्पन्नपुलककोरकित- तनुरनन्तभोगभाक्सुखमन्वतिष्ठत् ॥ घ ॥ कदाचिन्नलिनयोनिरिव राजसभावस्थितः प्रजाव्यापारमचिन्तय- त् ॥ ङ ॥ अथेति ॥ अथानन्तरमेवंवर्णनीयेऽमात्ये राज्यभारं निवेश्यैवं वर्णनीये वयसि वर्तमानो राजा सुखातिशयं सिषेवे ॥ क ॥ कदाचिदिति ॥ असंजातविषमयुद्धभीरुहितानामपकारी । हरिरश्वस्तस्य वाहनं वाह्यालीप्रवहणम् । स एव विलासः । पक्षे विषान्मरणभयम् । अहिः सर्पः । हरेर्विष्णोर्वाहनविलासो यानलीला ॥ ख ॥ कदाचिदिति ॥ मदनो बाणोऽसनोऽतिमुक्तकः शरश्च मुञ्ज एभिर्वृक्षैः सम्य- क्छादितायां पर्वतक्षोण्याम् । पक्षे मदनः कामस्तस्य बाणासनं धनुस्तत्प्रक्षिप्तैः शरैर्बाणैर्विधुरायां पर्वतभुवि । पर्वताद्भवति स्मेति पार्वत्याम् ॥ ग ॥ कदाचिदिति ॥ कमलानामाकरो वनम् । पक्षे कमलायाः श्रियाः करः पाणिः । अनन्ताभोगोऽनेकविलासः शेषाहिवपुश्च ॥ घ ॥ कदाचिदिति ॥ राज्ञः सभा । पक्षे रजसा गुणेन निर्वृत्ते भावे स्थितः ॥ व्यापारो व्यवहारो निर्माणं च ॥ ङ ॥ १ 'प्रौढप्रेम्णि'. २ 'गूढमन्त्रे'. ३ 'जननीसमाने'. ४ 'प्रियङ्गुमञ्जरीभासि'- ५ 'पराजितसमुद्राम्भसि'. ६ 'मानिनी यौवनसारसर्वस्वः'. ७ 'अनवरतसकल'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

प्रथम उच्छ्वासः । २३ कदाचिन्मयूर इव कान्तोन्नमतपयोधरमण्डलीविलासेन हर्षमभज- त् ॥ क ॥ कदाचिन्नक्षत्रराशिरिवाश्विन्या सेनया संमन्वितो मृगानुसारी बहु- शष्पवनमार्गं बभ्राम ॥ ख ॥ कदाचिदाञ्जनेय इवाक्षविनोदमन्वतिष्ठत् ॥ ग ॥ कदाचिदिति ॥ कान्ताङ्गना काम्या च । पयोधरः स्तनो मेघश्च । विलास उपभोगः स्फुरणं च ॥ क ॥ कदाचिदिति ॥ अश्वाः सन्त्यस्यां तया सेनया युक्तः तथा मृगानुगामी बहुबा- लतृणपथेऽभ्राम्यत् । पक्षे अश्विनीमृगौ नक्षत्रे । इनेन रविणा सह सेनयेत्यश्विनी- विशेषणम् । बहुश इति भिन्नम् । पवनमार्गो द्यौः । अत्र पकारात्प्राग्विसर्जनीय उपध्मानीयो वा । शष्पपदे तु पकार एव । तदेवंरूपभेदेऽपि श्रुतिसाम्यान्न दोष इति कविसमयः । तथाच चण्डदासकृते श्रीचण्डिकाचरिते महाकाव्ये—'पुष्पा- दपामिह सदाधिगमे समृद्ध्या पुष्पाइपाः फलभराच्च विनम्रभावम् । पुष्पादपापि दधतो मुनिवत्सुजन्मापुष्पादपाति मधु साधु मधुव्रतौघाः' । अस्यार्थः—अपां जलानाम् । अधिगमे प्राप्तौ सत्याम् । पुष्पादुकुसुमात् । फलभ्रात्फलातिशयात् च या समृद्धिरस्तया । पादपास्तरवो विनम्रभावमापुः । समृद्धौ हि नम्रता स्यात् । जलाधिगमः पुष्पफलानां हेतुः । तानि च समृद्धेः । सा च नम्रताया इति । तथा पुष्पाणामद्गक्षणं यत्र । तथाऽपापि पापरहितम् । शोभनं जन्म तथा मुनयो दधति । तद्वदेतेऽपि मधुव्रतौघाः सुजन्म धारयन्तः सन्तो मधु मकरन्दमपुः पिबन्ति स्म । पादैरङ्घ्रिभिः पादेषु मूलेषु वा पतन्त्यभीक्ष्णमित्यनेन सधुप्राचुर्योक्तिः । अत्रायु- क्पादयेोः षकार एव । युग्मपादयोस्तु विसर्जनीयोपध्मानीयान्यतर एव न तु षकारः । परं श्रुतिसाम्यान्न दोषः । एवमेव विसर्जनीयजिह्वामूलीयषकारेष्वपि तथा 'ये सहजनिष्कलङ्काचारा अपि भान्ति निष्त्रिकूटगमात् । सुधियः काष्ठाद शंकंधराधिकं सपदि तेऽश्नुवते' । अस्यार्थः—सहजोऽकृत्रिमो नि.कलङ्को निर्दोष- आचारो येषां ते सुधियः काष्ठादशकं दिक्कचक्रं धरैः पर्वतैरधिकमश्नुवते व्याप्नु- वन्ति । स्त्रीणामभावो निष्त्रि । कूटं छद्म । तस्य गमो अंशः इति समाहारद्वन्द्वः । एतेन जितेन्द्रियोक्तिः । अपिर्विरोधे । येषां किल सहजस्वर्णायां लङ्कायां चारो गतिः । ते कथं त्रिकूटाचलगमनाभावेन भान्ति । दशकंधरो रावणः । काष्ठा दिशः । अत्र स्वर्णार्थेनिष्कशब्दे षकार एव निष्कलङ्कशब्दे जिह्वामूलीयविसर्गौ इति बोध्यम् ॥ ख ॥ कदाचिदिति ॥ अक्षैः पाशकैः विनोदं क्रीडाम् । पक्षे अक्षस्य रावणेः । विनोदं वधम् ॥ ग ॥ १ 'सहितः' २ 'बहुशष्पवनमार्गं'.

२४ नलचम्पूः । कदाचिद्वानरेश्वर इव सुग्रीवो वैदेहीति ब्रुवाणस्यालघुकाकुस्थस्यार्थि- नः प्रार्थना क्रियतां सफलेति वानरपुंगवानादिदेश ॥ क ॥ कदाचिन्मकरकेतन इव सुमनसो मार्गणान्विधाय स्वंगुणं कर्णपू- रीचकार ॥ ख ॥ कदाचिदम्भोनिधिरिवोच्चैःस्तननाभिरम्याः, कृतानिमेषनयनविभ्र- माः, सकंदर्पाः, सिषेवे वेलाविलासिनीः ॥ ग ॥ कदाचिद्दशरथ इवायोध्यायां पुरि स्थितः सुमित्रोपेतो रममाणराम- भरतप्रेक्षणेन क्षणमाह्लादमनवभूत् ॥ घ ॥ एवमस्य सकलजीवलोकसुखसंतानमनुभवतो यान्ति दिनानि ॥ङ॥ अथ कदाचिदुन्नमतपयोधरान्तरपतद्धारावलीविराजिताः, कमलद्- लकान्तनयनाः, सुरचापचक्रवक्रभुवः, विद्युन्मणिमेखलालंकारधारि- कदाचिदिति ॥ शोभना ग्रीवा यस्य । वै स्फुटार्थे । मह्यं देहीति ब्रुवाणस्य । तथाँ आ समन्ताल्लघ्व्यां काकौ भिन्नकण्ठध्वनौ तिष्ठतीत्यालघुकाकुस्थस्तस्य याच्ञयाव- शात्स्वरभेदवतोऽर्थिनो याचकस्य प्रार्थना सफला क्रियतामित्यमुना प्रकारेण नरपुं- गवान्नरश्रेष्ठनादिष्टवान् । वा समुच्चये । पक्षे वैदेही सीतेति प्रलपतोऽलघोगुंरो रामस्य काकुत्स्थस्य सप्रयोजनस्य प्रार्थना सफला क्रियतामिति वानरपुंगवान्कपीशः सुग्रीवो नियुक्तवान् ॥ क ॥ कदाचिदिति ॥ मार्गणान्याचकान् । इष्टार्थसंप्रदानेन सौमनस्ययुक्तान्वि- धाय स्वस्य गुणं त्यागाख्यं जगतोऽपि कर्णौ पूर्यैते अनेनेति कर्णपूरः । च्वौ कर्ण- पूरीचकार । पक्षे सुमनसः पुष्पाणि । मार्गणा बाणाः । गुणो ज्या । कर्णपूरः कर्णांन्तकर्षणम् ॥ ख ॥ कदाचिदिति ॥ उच्चैःस्तनाभ्यां नाभ्या च रम्या । तथा निर्निमेषनेत्रलीलाः सकामाः । वेलायां वारके विलसन्ति भोगायोपतिष्ठन्त इत्येवंशीला वारस्त्रीः । सिषेवे । अम्भोनिधिस्तु वेला अम्भोवृद्धीः । कीदृशीस्ताः । उच्चैःस्तननेन शब्दे- नाभिरम्याः । तथा कृतमनिमेषाणां मत्स्यानां नयनं प्रापणं यैस्तथोक्ता विविधा भ्रमा आवर्ता यासु । तथा कं जलं तस्य दर्पेण मोक्षेण सह । दृपेर्मोचनार्थत्वात् । तथा विलसन्त्यभीक्ष्णम् ॥ ग ॥ कदाचिदिति ॥ न योद्धुं शक्याऽयोध्या संज्ञा च । तस्यां पुरि । सुमित्रैरुपेतः सुमित्रया कलत्रेण । विलसन्त्यो रामा विलासिन्यो यत्र तेन भरतसंगीतेन विक्री- डद्रामभरतयोरवलोकनेन चाह्लादं नलो दशरथश्च भेजे ॥ घ ॥ ङ ॥ अथेति ॥ अनन्तरं कस्मिन्नपि समये नृपमवेक्षितुं वर्षा अवतारन् । वर्षाश- ब्दगतस्त्रीत्वेन वर्षाणां साक्षात्स्त्रीत्वमध्यवसितम् । ततश्च पयोधरा मेघाः स्तनाश्च । १ 'स्वस्य गुणम्'. २ 'कृतानिमिष'.

प्रथम उच्छ्वासः । २५ ण्यः, शिञ्जानामुक्तकलहंसकाः, प्रौढकरेणुसंचारहारिण्यः, कम्रकंधराः, तिरस्कृतशशाङ्ककान्तिकलापोच्चमुखमण्डलाः, सकलजगज्जेगीयमान- गुणमिममनुपमरूपलावण्यराशिराजितं राजानमवलोकयितुमिवावत- रन्ति स्म वर्षाः ॥ क ॥ यत्र च। आकर्ण्य स्मरयौवराज्यपटहं जीमूतनूत्नध्वनिं नृत्यत्केकिकुटुम्बकस्य दधतं मन्द्रां मृदङ्गक्रियाम् । उन्मीलन्नवनीलकन्दलदलव्याजेन रोमाञ्चिता हर्षेणेव समुच्छ्रिता वसुमती दध्रे शिलीन्ध्रध्वजान् ॥ ४० ॥ अपिच। पर्णैः कर्णपुटायितैर्नवरसप्राग्भारविस्फारितैः शृण्वन्तो मधुरं द्युमण्डलमिलन्मेघावलीगर्जितम् । पतद्धारावली पतन्ती धाराश्रेणी चलन्ती हारावली च। यद्वा पयोधरयोः स्तनयोर- न्तर्मध्येऽपतन्तोऽतिसंहतत्वात्प्रविशन्तो हारा यासाम् । तथा वलीभिरुदरे लेखा- भिर्विराजिताः । कमलदलानां कान्तामिष्टं नयनमतिवाहनं यासाम् । वर्षाणां ह्यतिवाहने कमलानामुल्लासः । पक्षे कमलदलवत्कान्तनेत्राः । इन्द्रधनुश्चक्रमेव चक्रे भ्रुवौ यासाम् । पक्षे सुरचापचक्रवद्वक्रध्रुवः । विद्युदेव मणिमेखला तां तथाल- मत्यर्थं कस्य जलस्यारं वेगं धारयन्ति । यद्वा कारस्य राज्ञे देयांशस्य धारिण्यः । वर्षा हि सस्यादिसाधकत्वात्करस्यापि साधनम् । पक्षे विद्योतमानमणिकाञ्चीभूषण- धारिण्यः । शिञ्जाना गर्जन्त्यस्तथा मुक्ता मानसं प्रति प्रस्थापिता हंसका याभिः । यद्वा मुक्तहंसानि कानि जलानि यासु । तत्तसमये हंसानां मानसे गमनात् । पक्षे शिञ्जाने शब्दायमाने आमुक्ते बद्धे हंसके चरणाभरणे यासाम् । प्रकर्षेणोढं कं जलं तेन रजःसंचाररोधिकाः । पक्षे प्रगल्भगजगमनमनोज्ञाः । कं जलं धरन्तीति कंधरा मेघास्ते कम्रा रम्या यासु । पक्षे कंधरा ग्रीवा ॥ छादितश- शाङ्ककान्तयः । तथा काय पानीयाय लापाः कलापाः । कुटुम्बिनीजनगीयमान- रासकाः । तैरूच्चमुखा मेघालोकनायोन्मुखा मण्डला देशा यासु । पश्चात्कर्मधारयः । पक्षे निर्जितेन्दुदीप्त्यतिशयमुच्चमुत्कृष्टमुन्नतकपोलं वा मुखबिम्बं यासाम् ॥ क ॥ आकर्ण्येति ॥ युवा चासौ राजा चेति युवराजस्तस्य भावो यौवराज्यम् । कामस्य तरुणराजत्वपटहोपमं नृत्यत्केकिनां च मृदङ्गविधिं दधानं घनगर्जितं श्रुत्वा मुदेव विकसत्कन्दलच्छलेन पुलकिता भूर्भूत् । शिलीन्ध्रध्वजानधारयत् ॥ ४० ॥ पर्णैरिति ॥ वसन्ते पुष्यन्ति ते धूलीकदम्बा वर्षासु च धाराकदम्बाः ॥ १ 'हंसकाः'. २ 'गुणग्रामम्'. ३ 'वर्षाङ्गनाः'. ४ 'यत्र'. ५ 'कदम्बकस्य'. ६ 'समुच्छ्रितान्'. ३

२६ नलचम्पूः । शाखाग्रप्रथमानसौरभभरभ्रान्तालिपालिध्वजा- स्तोषेणेव वहन्ति पुष्पपुलकं धाराकदम्बद्रुमाः ॥ ४१ ॥ अथ क्रमेण नीरं नीरजमुन्मुक्तं नीरजस्कं भुवस्तलम् ॥ जातं जातिलतापुष्पगन्धान्धमधुपं वनम् ॥ ४२ ॥ अपिच । धुतकदम्बकदम्बकनिष्पतन्नवपरागपरागगमन्थराः । हृततुषारतुषा रतिरागिणां प्रियतमा मरुतो मरुतो वबुः ॥ ४३ ॥ ततश्च । तिरस्कृततरणित्विषि, विगलद्वारिविपृषि, शान्तचातकत्- षि, निर्वाणवारणवपुषि, मानिनीमानग्रहग्रन्थिमुषि, जनितजवासकश्रु- षि, विर्घेववधूविद्विषि, वर्धितमण्डूकहृषि, मुद्रितचन्द्रमसि, विद्राणप- ङ्कजसरसि, स्वाधीनप्रियप्रेयसि, प्रोषितकलहंसवयसि, नष्टनक्षत्रमण्ड- लमहसि, मेचकितनभसि, निष्पतन्नीपरजसि, स्फुटकुटजरंजःपुञ्जपि- ञ्जरिताष्टदिग्भासि, भासुरसुरचापचक्रभृति, मयूरमदकृति, महिषशो- शाखाग्रे मिलन्तः सौरभभराद्भ्रान्ता उपर्युपर्यटन्तश्च तेऽलयश्च त एव पालिध्वजाः प्रसिद्धचिह्नानि येषां ते धाराकदम्बद्रुमाः पुष्पमेव पुलकं मदेन वहन्ति ॥ हर्षहे- तुर्गर्जनश्रवणमेव । रसो जलं रागश्च । अन्योऽपि द्युमण्डलान्मिलन्त्या योषितः शब्दं श्रुतैवंविविधो भवति 'ग्रन्थ बन्धन' इति यौजादिकाद्विकल्पिते णिचि ग्रथितुं शील- मेषामिति चानशि प्रथमानाः । यत्कविरहस्ये 'गाथां ग्रन्थयति प्रथत्यविरतं श्लोकांश्च लोकोत्तरान्गद्यं ग्रथयति स्फुटार्थललितं यो नाटकं ग्रन्थति । ग्रश्नाति श्रुतिशास्त्रयोर्विवरणं ग्रन्थाननेकांश्च यः स्वच्छं यस्य मनः स्वभावसरलं न ग्रन्थते कुत्रचित्' इति । अस्मादात्मनेपदमपि । तथा च । 'वहति जलमियं पिनष्टि गन्धा- नियमियमुद्ग्रथते स्रजो विचित्राः । मुसलमिदमियं च पातकाले मुहुरनुयाति कलेन हुंकृतेन' इति ॥ ४१ ॥ नीरमिति ॥ नीरं जलमम्भोजमुक्तं भूतलं निःपांसु वनं च जातीपुष्पसौर- भान्धभृङ्गं जातम् ॥ ४२ ॥ धुतेति ॥ कम्पितकदम्बद्रुमसमूहान्निःसरन्योऽसौ नवः परागस्तत्संगेन मन्थरा मन्दाः ॥ तथा ऊढसीकरकणाः ॥ तथा रतिरागोऽस्ति येषां तेषामतिद- यिता मरुतो वाता मरोः पर्वताद्ध्रान्ति स्म ॥ परागमेति परापूर्वः पर उत्कृष्ट आगमो वा ॥ ४३ ॥ ततश्चेति ॥ तिरस्कृता रवित्विषो येन । इन्द्रगोपा वर्षासु जाताः क्षुद्रजन्तवः॥ १ 'अथ क्रमेणेति क्वचित्पुस्तके नास्ति'. २ 'मधुकदम्ब'. ३ 'धृत्त'. ४ 'विरहिवधू'. ५ 'कुसुमरजः'. ६ 'दिग्भागभासि'

प्रथम उच्छ्वासः। २७ .षहृतौ, विस्तरतत्सरिति, शाद्वलहरिति, विद्योतमानविद्युति, वहन्मन्द- मेघंकरमरुति, हृष्यत्कृषाणयोषिति, पुष्यत्केतकीगन्धपानमत्तमधुकृ- ति, प्रोद्भूतभूरुहि, दरिद्रनिद्राद्रुहि, सगर्वगोदुहि, कदम्बस्तम्बालम्बि- मधुलिहि, मुदितमदनाट्टहासायमानघननादमुचि, पच्यमानजम्बूफल- श्यामलितवनान्तररुचि, रचितपान्थसार्थशुचि, श्रूयमाणमदमधुरमयूर- क्वाचि, विनिद्रकोशातकीशालिनि, यूथिकाजालिनि, नवमालिकामा- लिनि, कन्दलभाजि, पच्यमानजम्बूतुरुवनराजिभ्राजि, भिक्षाक्षणक्षं- पितपरिव्राजि, शान्तसारङ्गरुजि, नीडनिर्माणकुलवलिभुजि, सान्द्रे- न्द्रगोपयुजि, श्च्योतत्तमालधारागृहसदृशि, श्यामायमानदशदिशि, दिवापि श्रूयमाणरजनिशङ्काकुलचक्रवाकचक्रक्रुशि, शकटसंचाररुधि, पल्लवितवीरुधि, विश्रान्तजिष्णुक्ष्मापालयुधि, क्षीणोक्षक्षुधि, क्षीरसमुद्र- निद्राणवाणबाहुच्छिदि, सिन्धुरोधोभिदि, दवदहननुदि, विरहिमनस्तु- दि, जनितजनमुदि, तापिच्छच्छायानुच्छेद्दिनि, छन्नकुटीमध्यबध्य- मानवाजिनि, विकसितवकुलवनविराजिनि, सीरसीमन्तितग्रामसीम- नि, विजयमानमनोजन्मनि, जाते जगज्जीविनि, जीमूतसमये कदाचि- दम्भसि दिवसे मृगयावनपालकः प्रविश्य राजानं विज्ञापयामास ॥क॥ 'देव, किं स्यादञ्जनपर्वतः स्फटिकयोर्द्वन्द्वं दधद्दीर्घयो- रम्भोमेदुरमेघ एष किमुत श्लिष्यद्बलाकाद्वयः । शून्यः किंनु करेण कुञ्जर इति भ्रान्तिं समुत्पाद्य- न्दंष्ट्राद्वन्द्वकरालकालवदनः कोलः कुतोऽप्यागतः ॥ ४४ ॥ श्च्योतत्क्षरत्तमालानां संवन्धि यद्धारागृहं तस्य सदृशि ॥ क्षीरोदधौ निद्रायमाणे बाणासुरबाहुच्छिद्विष्णुर्यत्र ॥ सीमन्त इव सीमन्तः । ततः करोतिण्यन्तात् क्ते तारकादित्वादितचि वा रूपम् ॥ तस्मिन्नित्थंभूते मेघसमये आखेटकारण्यपालंको नृपं व्यज्ञापयत् ॥ क ॥ किं स्यादिति ॥ दीर्घस्फटिकद्वयोपेतोऽञ्जनगिरिः, वलाकाद्वयान्वितः सजलो जलदः, शुण्डाशून्यो हस्ती, किमिति भ्रान्तिं जनयन्देव कुतोऽपि कोलः सूकर आगात् ॥ ४४ ॥ १ 'मेघाङ्करमरुति' २ 'कृषित', ३ 'चक्रवाकक्रुशि', ४ 'दंष्ट्रायुग्म'

२८ नलचम्पूः ।

ततश्चासौ भिन्दन्कन्दकसेरुकन्दलभृतः स्निग्धप्रदेशान्भुवो भञ्जन्नञ्जनशैलशृङ्गसदृशः फुल्ललतामण्डपान् । मन्दं मन्दरलीलयाब्धिसदृशं मथ्नंश्च लीलासरः क्रोडः क्रीडति भीययन्निव भवत्क्रीडावने रक्षकान् ॥४५॥ राजा तु तदाकर्ण्य चिन्तितवान् । अच्छाच्छैः शुकपिच्छगुच्छहरितैश्छन्नो वनान्तास्तृणैः सेव्याः संप्रति सान्द्रचन्द्रकिकुलैरुत्ताण्डवैर्मण्डिताः । येषु क्षीरविपाण्डु पल्वलपयः कल्लोलयन्तो मना- ग्वाता वान्ति विनिद्रकेतकवनस्कन्धे लुठन्तः शनैः ॥ ४६ ॥ माद्यन्ति च तेषु संप्रति प्रोथिनः । तद्युज्यते विहर्तुम्' इत्यवधार- यन्नाहूय बाहुकनामानं सेनापतिमादिदेश ॥ क ॥ 'भद्र द्रुतमनुष्ठीयताम्, समादिश्यन्तां कृतवैरिविपत्तयः पत्तयः, पर्याण्यन्तां मनस्तुरगास्तुरगाः, सज्जीक्रियन्तां निजवेगनिर्जितमात- रिश्वानः श्वानः, समारोप्यन्तामपनीताहितायूंषि धनूंषि, गृह्यन्तां नि- र्मथितप्रोथियूथपाशाः पाशाः' इति ॥ ख ॥ अथ मौलिंमिलन्मुकुलितकरकमलयुगलेन सेनापतिना 'यदाज्ञापय- ति देवः' इत्यभिधाय त्वरया तथा कृते सति ॥ ग ॥ स्वयमपि निर्मांसं मुखमण्डले परिमितं मध्ये लघुं कर्णयोः स्कन्धे बन्धुरमप्रमाणमुरसि स्निग्धं च रोमोद्गमे । भिन्दन्निति ॥ मन्दरलीलया करणभूतया भावयन् ॥ अत्र करणाद्द्वयेना- ल्मात्मनेपदं पुगागमश्च न भवति ॥ ४५ ॥ अच्छाच्छैरिति ॥ चन्द्रकिणो मयूराः । पल्वलमखातं सरः ॥ ४६ ॥ माद्यन्तीति ॥ प्रोथिनः सूकराः ॥ क ॥ भद्रेति ॥ पर्याणं करोत्यश्वानाम् । 'तत्करोति तदाचष्टे' इति णिचि पर्याण- यत्यश्वान् । पश्चात्संबन्धनिवृत्तौ व्याकरणं सूत्रयतीति त्रिलोकीं तिलकयतीतिवत्क- र्मत्वम् । मन इव तुराः शीघ्रा गच्छन्तीति । निर्मथिताः प्रोथियूथपानां वराहयू- थपानामाशा इच्छा यैः ॥ ख ॥ ग ॥ ४७ ॥ १ 'भापयन्'; 'भीपयन्'. २ 'छन्नान्'. ३ 'वनान्तान्'. ४ 'वनेषु'. ५ 'द्रुतं मद्वच- नमनुष्ठीयताम्'. ६ 'विनिर्जित'. ७ 'अथ' इति क्वचित्पुस्तके नास्ति. ८ 'मौलिमण्डल- मिलत्'.

प्रथम उच्छ्वासः । २९ पीनं पश्चिमपार्श्वयोः पृथुतरं पृष्ठे प्रधानं जवे राजा वाजिनमारुरोह सकलैर्युकं प्रशस्तैर्गुणैः ॥ ४७ ॥ आरुह्य च क्रमेण कार्दमिककर्पटावनद्धमूर्धजैर्दण्डखण्डपाणिभिः क्रूरकर्मोचिताकारैर्वागुरावाहिभिरनन्तैः कृतान्तदूतैरिव पाशहस्तैः पां- षर्द्धिकैरनुगम्यमानः, दूरादुन्नमितकंधरैस्तंस्तोध्वंकर्णसंपुटैरकाण्डोड्डीन- प्राणैरिव वनप्राणिभिराकर्ण्यमानहर्षितहयहेषारवः, पवनकंपिततरु- शाखाग्रपल्लवव्याजेन दूरादेवोत्क्षिप्तहस्ताभिरुड्डीयमानशकुनिकुलकोला- हलच्छलेन भयान्निवार्यमाण इव वनदेवताभिः, अभिमुखागतैरनिमिष- चक्षुरुषप्रकरमकरन्दबिन्दुवर्षवाहिभिर्वनविनाशशङ्कितैरर्घ्यमिवोपपा- दयद्भिरुपरुध्यमान इव वनमारुतैः, अनिद्रसान्द्रकुसुमकेसराङ्कुरजाल- जटिलाभिर्भयादुद्गतर रोमाञ्चप्रपञ्चाभिरिवोद्धान्तभृङ्गरवगद्गदरुदितेन निषिध्यमान इव वनवीरुद्भिः, उद्भिन्नभास्वदंमन्दकन्दलावलोकनेनान- न्च्यमानः श्वानुपगतोऽप्यश्वानुगतः सगजमप्यगजं तद्वनमाससाद ॥ क ॥ ततश्च केचिदुद्यतपरश्वधा गणपतयः, केऽपि दृष्टसिंहिकासुतविक्र- माः शशधराः, केऽपि पाशपाणयो जम्बुकदिक्पालाः, केऽपि हरिमा- र्गानुसारिणो बलभद्राः, केऽपि चक्रपाणयो मधुसूदनाः, केऽपि शिवौ- गमावर्तिनो रौद्राः, केऽप्याहिताग्नयो विप्रलोकाः, केऽपि खण्डिताङ्ग- आरुह्य चेति ॥ कर्दमेन नीलीलोहमलादिना रक्तं कार्दमिकम् । श्वभिरश्वै- श्चानुगतो राजा । गजोपेतम् । अगः पर्वतस्तत्समीपोद्देशोऽप्यगस्तत्र जातगमजं तद्वनमाप ॥ क ॥ ततश्चेति ॥ उद्यन्तः पलायमानाः परे उत्कृष्टाः श्वानस्तान्दधति । तथा गणस्य सेनायाः पतयः हेरम्बाश्च उद्गृह्यमाणपरशवः । सिंहिकासुतः केसरिकिशोरो राहुश्च । शशं धरतीति शशधरः पत्तिश्चन्द्रश्च । पाशः पाणौ यस्य स पाशपाणि- र्वरुणश्च । जम्बुकः शृगालो वरुणश्च । यद्विश्वप्रकाशः—'जम्बुकः फेरवे नीचे प्रतीचीदिक्पतावपि' । हरिं सिंहं मार्गं मृगसमूहं चानुसरन्ति । बलेन भद्रा शक्ताः । पक्षे हरेर्विष्णोर्मार्गोऽध्वा बलभद्रो बलदेवः । चक्रं पाणौ यस्य स चक्र- पाणिविष्णुश्च । मधु क्षौद्रं दैत्यश्च । सूदनं क्षरणं मारणं च । शिवा शृगाली तस्या गमो गतिः पक्षे शिवस्यागमाः शास्त्राणि । रौद्रा भीषणाः शैवाश्च । गृहीतहविर्भुजो १ 'हयानां गुणैः'. २ 'पापर्द्धिकपुरुषैः'. ३ 'स्तब्धोर्ध्वकर्ण'. ४ 'प्रकम्पित'. ५ 'व्याजेन'. ६ 'तरुणतरु'. ७ 'उद्भूत'. ८ 'भृङ्गाङ्कनारव'. ९ 'अनन्त'. १० 'केचिदुद्यतपरश्व'; 'प्रतिषिद्धद्यत्यरश्वधा'. ११ 'शिवरामानुसारिणो'.

३० नलचम्पूः । नाधरप्रवालाः प्रभञ्जनाः, केऽप्युत्खातदन्तिदन्तमुष्टयो निस्त्रिंशाः, तस्य पृथिवीपतेराकुलितश्वापदाः पदातयो वनं रुरुधुः ॥ क ॥ ततश्च तैः क्रियन्ते विकलभा वनविकुञ्जाः कुञ्जराश्च, ध्रियन्तेऽने- कधौरयातिपातिनः खङ्गाः खड्गिनश्च, कृष्यन्ते कूजन्तः कोदण्डदण्डा गण्डकाश्च, विक्षिप्यन्ते परितः शराः शरभाश्च, भज्यन्ते तरवस्तरक्ष- वश्च ॥ ख ॥ क्षणेन च पतन्ति पीवरा वराहाः, सीदन्ति दन्तिनः, विरसं रसन्ति सातङ्का रङ्कवः, प्रैकाशैलं शैलं भयादारोहन्ति रोहिताः, शरसंघौ- तघूर्णिता यान्ति महीं महिषाः, दुर्गसंश्रयं श्रयन्ते तरलितनेत्रर्त्रिश्चि- त्रकाः, त्वरिततरं तरन्तीवोत्पतन्तो नभसि निजजवनिर्जिततुरंगाः कुरङ्गाः ॥ ग ॥ तत्र च व्यतिकरे जाताकस्मिकविस्मयैः किमिदमित्याकर्ण्यमानः सुरैः संत्रासोज्झितकर्णतालचलनान्दिग्दन्तिनः कम्पयन् । जन्तूनां जनितज्वरः स मृगयाकोलाहलः कोऽप्यभू- द्येनेदं स्फुटतीव निर्भरभृतं ब्रह्माण्डभाण्डोदरम् ॥ ४८ ॥ वीश्शकुन्तानप्रलोकयन्तः पापर्द्धिका हि कपोतादिपातनाय तरूणामधस्तात्तापनीसं- ज्ञकामभीष्टिकां कुर्वन्ति । पक्षे सामिहोत्रा विप्रलोकाः । खण्डिता अञ्जनस्य पक्षि- रूपपक्षिणोऽधरप्रवालाः पुच्छाधःपिच्छानि यैः । यद्वाऽञ्जनस्य शाखिनोऽधःपल्लवाः । वातास्तु खण्डितोऽञ्जनाख्यायाः प्रियाया ओष्ठपल्लवो यैः । उत्खाता दन्तिदन्ता यैस्तयोक्ता मुष्टयः संग्रहा येषाम् । पक्ष उत्क्षिसदन्तिदन्तप्रधानो मुष्टिः त्सरुर्येषु । निस्त्रिंशाः क्रूरकर्माणः खड्गाश्च । ईदृशास्तस्य पत्तयो वनं वेष्टयामासुः ॥ क ॥ ततश्चेति ॥ विगताः कलभा येभ्यस्ते व्यपेतकरिपोताः । कुञ्जरास्तु विक- लकान्तयो भयादिति शेषः । खङ्गा द्विधारत्वादनेकया धारया पतन्त्यभीक्ष्णम् । गण्डकास्तु रयेनातिपतन्ति । य उद्भिन्नशृङ्गाः प्रौढास्ते खड्गिनः । अतएव रया- तिपातिनः । त एव बालका गण्डकाः । अतएव कूजन्तः । तरक्षवश्चित्रका- द्याः ॥ ख ॥ क्षणेन चेति ॥ सातङ्काः सभयाः । रङ्कवो मृगाः । प्रकाशाः स्पष्टा एला लता यत्र शैले । रोहितः श्वापदः । चित्रकोऽपि तद्विशेषः ॥ ग ॥ ४८ ॥ १ 'पल्लवाः '. २ 'धारया पातिनः'. ३ 'प्रकाशरैलम्'. ४ 'संघातघातघूर्णितायाम्'. ५ 'संश्रयन्ति'. ६ 'नेत्रानेत्रकाः'. ७ 'विनिर्जित'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

प्रथम उच्छ्वासः । ३१ राजाप्येकशरप्रहारपातितमत्तमातङ्गः सर्वतो विहारिहरिहरिणशश- कशम्बरवराहहननहेलया विचरन्नितस्ततस्तैरुगततमालमञ्जरी जाल- नीलोद्भूषितस्कन्धकेसरमूर्ध्वस्तब्धकर्णसंपुटमश्वच॑क्राय क्रुध्यन्तमाघूर्णि- तयोणमनवरतकृतघनघोरघर्घररवमुत्क्षिप्तपुँच्छगुच्छमभिमुखमेकस्मि- न्नतिसान्द्रभद्रमुस्तास्तँम्बभाजि पङ्किलपल्वलप्रदेशे तं शूरशूकरमपर- मिव दवदहनर्दग्धमद्रिमद्राक्षीत् ॥ क ॥ दृष्ट्वा च रचितशरसंधानलाघवो राघव इव राक्षसेश्वरस्य तस्योपरि परिणद्धविविधपत्रैः र्पतत्रिभिरैभ्यवर्षत् ॥ ख ॥ तत्र च व्यतिकरे किमश्वः पार्श्वेषु प्लवनचतुरः किंनु नृपतिः शरान्मुञ्चन्नुच्चैर्ध्रुततरकराकृष्टधनुषा । किमालोलः कोलः परिहृतशरः शौर्यरसिको न जानीमस्तेषां क इह परैमो वर्ण्यत इति ॥ ४९ ॥ अपिच । अजनि जनितपृथ्वीमण्डलोत्पादकम्पं किमपि चलितशैलं द्वन्द्वयुद्धं तयोस्तत् । स्खलिततुरगवेगो विस्मयेनैष यस्मि- न्दिनपतिरपि शौर्याश्चर्यसाक्षी बभूव ॥ ५० ॥ अथ कथमपि नाथं प्रोथियूथस्य जित्वा ज्वरित इव विशालं सालसः सौलमूले । सुखमभजत राजा राजमानः श्रमाम्भः- कणकलितकपोलालोललीलालकेन ॥ ५१ ॥ तत्र॑ च स्थितं श्रममुकुलितनयनारविन्दम्, आन्दोलयन्तः कुसुमि- ततरून्, तरलयन्तः शिखिशिखण्डमण्डलानि, ताण्डवयन्तस्तनुलता- अजनीति ॥ स्वभावतोऽपि मध्यन्दिने स्खैलिताश्ववेगो रविस्तत्र कवेरुहः ॥ ५०॥ अथेति ॥ ज्वरित इव सालस इत्यनेन श्रमातिशयोक्तिः । अन्योऽपि ज्वरितो मूलादीनि सेवमानः स्वेदबिन्दुलक्ष्यमाणज्वरापगमो राजते ॥ ५१ ॥ तत्र चेति ॥ श्रममुकुलितनेत्रकमलं नृपं कम्पितनीपकाननाः पवनाः हर्षयां- १ 'तरुणतमाल'. २ 'चक्रायोपरि; चक्रोपरि'. ३ 'कुप्यन्तम्'. ४ 'पुच्छम्'. ५ 'स्तम्बकदम्बभाजि'. ६ 'दग्धमद्रिम्'. ७ 'स राजा दृष्ट्वा च'. ८ 'पत्रिभिः'. ९ 'अभि- ववर्ष'. १० 'द्रुततर'. ११ 'निपुणः'. १२ 'हत्वा'. १३ 'सालमूलम्'. १४ 'तत्र स्थितम्'. १५ 'दिवसस्याष्टमे भागे मन्दीभवति भास्करः' इति वसिष्ठोक्तेः । CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

· ३२ नलचम्पूः ।

[पार्श्वटिप्पणी (वामे)] कुत्र संहारे बने व्यादिः, कुत्र धूलिभाने दिनादिः।


पल्लवनिवहान्, वहन्तो वहन्निर्झरजलशिशिरशीकरनिकरान्, करालय- न्तः कुटजकुड्मलानि, मकरन्दबिन्दुमुचो मन्दमानन्दयामासुः कम्पि- तनीपवनाः पवनाः ॥ क ॥ अनन्तरमनवरतकरालकाककौलेयककुलकवलनाकुलितकोलकरि- कुरङ्गकण्ठीरवकिशोरदृष्टपृष्ठधाविते परितः परिजने, जनितविविध- मृगवधूवधव्यथाधीन्व्यधान्निवारयितुमिवान्तरा न्तरा प्रसारितकरे मध्य- स्थतां गतवति भगवति गभस्तिमालिनि, सहसंवर्धितमृगविनाशशो- कभरादिव वनवीरुधां पतत्सु पुष्पलोचनेभ्यो बाष्पेष्विव मध्याह्नो- ष्णविलीनमकरन्दबिन्दुखु, श्रूयमाणेषु वनदेवतानां वनविमर्दोपालम्भे- ष्विव तरुखण्डोड्डीनविविधविहङ्गविरुतेषु, विघट्टितार्भककुरङ्गकुटुम्बि- नीकरुणकूजितव्याजेनान्यायमिव पूत्कुर्वतीषु वँनराजिषु, इतस्ततः संचरच्चदुलतरतुरंगखुरशिखरशिखोत्खातधरणिमण्डलाङ्कनविनाशवा- र्तां गगनचरेभ्यः कथयितुमिवोत्पतितेऽम्बरतलमकृतर्परित्राणे च मूर्छित इव पुनः पतति भुवि भवनपारावतपतत्रिपत्रधूसरे धूलिपटले, सकम्पकपिंकलापोछलनलुलिततरुतरुणमञ्जरीपुञ्जनिकु- जाँदुद्वेजिते मञ्जु गुञ्जति वनान्तरमपरमुच्चलिते चञ्चलचञ्चरीकच- क्राले, चङ्क्रमणक्रमेण च संपन्ने सैन्यस्य श्रमावसरे तस्यैव सैरै ससर- लशालद्रुमस्याधस्तान्निषण्णे श्रमभाजि राजनि ॥ ख ॥ अकस्मात्कुतोऽपि वल्लीवल्कपिनद्धधूसरशिराः स्कन्धे दधद्दण्डकं ग्रीवालम्बितमृन्मणिः परिकुथत्कौपीनवासाः कृशः । एकः कोऽपि पटच्चरं चरणयोर्बद्धाऽध्वगः श्रान्तवा- नायातः क्रमुकत्वचा विरचितां भिक्षापुटीमुद्वहन् ॥ ५२ ॥


चक्रुः । कुटजकलिकानां करालनं विकासकम् ॥ क ॥ अनन्तरमिति ॥ कौलेयकः श्वा । कोलः सूकरः । पूत्करणमार्तव्याहरणम् ॥ ख ॥ वल्लीति ॥ कुथितवती सटिते कौपीनवाससी यस्य । ‘परिकुथत्’ इति पाठे कुथो वर्णकम्बलः । रथ्यानिपतितजरत्पटखण्डैर्निर्मितत्वात् । पटच्चरो जीर्णवस्त्रख- ण्डम् । क्रमुकत्वचा पूगद्रुमवल्केन ॥ ५२ ॥


१ ‘वहन्तो निर्झर’. २ ‘किसलयन्तः’, ‘कलयन्तः’. ३ ‘कौलेय’. ४ ‘पृष्ठतः प्रधा- विते परिजने’. ५ ‘मृगवधव्यथान्’; ‘मृगवधव्याधीन्’. ६ ‘रुतेषु’. ७ ‘वनस्थलीषु’. ८ ‘खुरशिखोत्खात’. ९ ‘परित्राणावमूर्च्छित’. १० ‘पुनः पतति’. ११ ‘कपिकुलकलापोह- लनतरुणतरुमञ्जरी’. १२ ‘उद्विजिते’. १३ ‘सरलशाल’. १४ ‘अश्रमभाजि’.

प्रथम उच्छ्वासः । ३३ आगत्य च राजानमवलोक्य सविस्मयमेवमेष चिन्तयांचकार ॥क॥ 'अब्जश्रीसुभगं युगं नयनयोर्मौलिर्महोष्णीषवा- नूर्णारीमसखं मुखं च शशिनः पूर्णस्य धत्ते श्रियम् । पद्मं पाणितले गले च सदृशं शङ्खस्य रेखात्रयं तेजोऽप्यस्य यथा तथा सजलधेः कोऽप्येष भर्ता भुवः ॥ ५३॥ तदेवंविधाः खलु महनीया महानुभावा भवन्ति' इत्येवमवधार्य समु- पसृत्य 'स्वस्ति स्वकान्तिनिर्जितमकरध्वजाय तुभ्यम्' इत्यवादी- त् ॥ ख ॥ राजापि सविस्मयमना मनागुन्नमितमस्तकः स्वागतप्रश्नेनाभिनन्द्य 'तीर्थयात्रिक, कुतः प्रष्टव्योऽसि । क्व च कियच्चाद्यापि गन्तव्यम् । उपविश । विश्रम्य कथय कांचिदपूर्वां किंवदन्तीम् । अनेकदेशदृश्वा- नः किलाश्चर्यदर्शिनो भवन्तीति । न चाकस्मिकं दर्शनमपूर्वः परिच- यः स्वल्पा प्रीतिरित्येकमप्याशङ्कनीयम् । अपूर्वदर्शनेऽपि न जात्या मणयः स्वां स्वच्छतापह्रुवते । तदेहि । मुंहूर्तमेकत्र गोष्ठीसुखर्मनुभ- वावः' इत्येनमवादीत् ॥ ग ॥ असावपि 'अपूर्वकौतुककथाकर्णनरसिक, श्रूयतां यद्येवम्' इत्य- भिधाय सुखोपविष्टस्यास्य समीपे स्वंयमुपविश्य कथयितुमारभत ॥ घ ॥ 'अस्ति स्वर्गसमः समस्तजगतां सेव्यत्वसंख्याग्रणी- र्देशो दक्षिणदिङ्मुखस्य तिलकः स्त्रीपुंसरत्नाकरः । यस्मिंस्त्यागमहोत्सवव्यसनिभिर्धन्यैरशून्या जनै- रुद्देशाः स्पृहणीयभावभरिताः कं नोत्सुकं कुर्वते ॥ ५४॥ अब्जेति ॥ सजलधेरिति भुवो विशेषणम् । उष्णीषमुत्तमाङ्गे लक्षणविशेषः । तथोर्णा भ्रूमध्ये शुभ्रोमावर्तः । यद्विश्वः—'उष्णीषं तु शिरोवेष्टे किरीटे लक्षणा- न्तरे' । तथा । 'ऊर्णा मेषादिलोम्नि स्यादन्तरावर्त्तके ध्रुवोः' ॥ ५३ ॥ राजापीति ॥ किंवदन्तीं वार्ताम् । जात्या मणयो विशिष्टजातीयरत्नानि । ॥ ग ॥ घ ॥ अस्तीति ॥ स्त्री च पुमांश्च स्त्रीपुंसौ । 'अचतुर—' इत्यादिना निपात्यते ॥ ५४ ॥ १ 'सविस्मयमेष'. २ 'तथा यथा'. ३ 'खलु महानुभावा महनीयाः'. ४ 'अवधार्य- न्समभिसृत्य; अवधार्योपसृत्य; अवधार्यनुपसृत्य'. ५ 'उपविश्य'. ६ 'अपूर्विकाम्'. ७ 'मुहूर्तमेकमेकत्र' ८ 'अनुभवामः' ९ 'कथाताकर्णन' १० 'स्वयमप्युपविश्य'

३४ नलचम्पूः । कथं चासौ न प्रशस्यते ॥ क ॥ यत्र त्रिपुरपुरंध्रोभ्रतिलकहारिणा हरिविरंचिचूडामणिमरीचि- चक्रचकोरचुम्बितचरणनखचन्द्ररुचिनिचयेन भगवता सेव्यते सेव्य- तयाऽपहसितकैलासश्रीः श्रीशैलः शूलपाणिना ॥ ख ॥ यत्र च विकचविविधवनविहारसुरभिसमीररणान्दोलितकदलीदल- व्यजनवीज्यमाननिधुवनविनोदखेदविद्राणनिद्रालुद्रविडमिथुनसनाथ- परिसराः सरसघननिचुलतलचलच्चकोरचक्रवाककुलकपिञ्जलमयूर- हारीतहारिण्यो नाकलोककमनीयतां कलयन्ति कलमकेदारसाराः सरससहकारकारस्कराः कावेरीतीरभूमयः ॥ ग ॥ किं बहुना । अस्तु स्वस्ति समस्तरलनिधये श्रीदक्षिणस्यै दिशे स्वर्गस्पार्धसमृद्धये हृदयहृद्गोदावरीरोधसे । यत्र त्रस्तकुरङ्गकार्भकदृशः संभोगलीलाभुवः सौख्यायतनं भवन्ति रसिकाः कंदर्पशस्त्रं स्त्रियः ॥५५॥ तत्र प्रणतसुरासुरशिरैः शोणमरीचिचयबहलकुङ्कुमानुलेपपल्लवित- पादारविन्दद्वयस्य क्रौञ्चभिदो भगवतः सुगन्धिगन्धमादनाधिवासिनः स्कन्ददेवस्य दर्शनार्थमितो गतवानस्मि ॥ घ ॥ तस्माच्च निवर्तमानेन कचिदेकस्मिन्नध्व्ररोधििन न्यग्रोधपादपतले दीर्घाध्वश्रान्तेन विश्राम्यता मया श्रूयतां यदाश्चर्यमालोकितम् ॥ ङ ॥ अतिललितपद्विन्याससारसाधुसिन्धुरवधूह्स्कन्धमधिरूढा, प्रौढ- सखीसहायप्राया, प्रान्तपतच्चारुचामरमरुन्नर्तितालकवल्लरी, कर्णकुव- लयालंकारधारिणी, रुचिररुचिमच्चरणनूपुरा, पुरःसरसराग्गान्ध- र्विककण्ठकन्दरविनिःसरत्सरसगीतप्रेङ्खोलनप्रयोगेषु दत्तावधाना, ने- त्रे मनाङ्मील्यन्ती, ध्रियमाणमायूरातपत्रमण्डला, मण्डलितमदनर्चा- पचक्रवक्रभ्रूः, भूपालपुत्रिका कापि कापि कुतोऽप्युच्चलिता तदेव न्यग्रोधच्छायामण्डपमशिश्रियत् ॥ च ॥ यत्रेति ॥ त्रिशूलपाणिना त्रिपुरान्तकेन । तत्रस्थेन हि त्रिपुरासुरो हतः ॥ ख ॥ १ 'नासौप्र'. २ 'विरिश्चि'. ३ 'सेव्यतया सेव्यते'. ४ 'शिरस्तारशोणमणिमरीचिनि- चयवहुल'. ५ 'सुगन्धगन्ध'. ६ 'रोधिन्यग्रोध'. ७ 'विश्रम्यता'.' ८ 'विन्याससाधु'. ९ 'चारुचामीकरचामर'. १० 'चापवक्र'. ११ 'न्यग्रोधपादपच्छाया; न्यग्रोधपादपपत- च्छाया'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

प्रथम उच्छ्वासः । ३७ तां चालोक्य चिन्तितवानस्मि विस्मितमनाः ॥ क ॥ किं लक्ष्मीः स्वयमागता मुररिपोर्देवस्य वक्षःस्थला- त्कोपात्पत्युरुतावतारमकरोद्देवी भवानी भुवि । श्यामाम्भोजसदृक्षपक्ष्मलचलन्नेत्रामिमां पश्यतो धातस्तात करोषि किं न वदने चक्षुःसहस्रं मम ॥ ५६ ॥ अपिच । इन्दोः सौन्दर्यमास्यं कलयति कमलस्पर्धिनी नेत्रपत्रे कालिन्द्याः कुन्तलाली तुलयति विभवं भव्यभङ्गैस्तरङ्गैः । तस्याः किं श्लाघ्यतेऽन्यत्सुभगगुणनिधेः काप्यपूर्वैव यस्याः पुष्पेषोर्वैजयन्ती जयति युवजनोन्मादिनी यौवनश्रीः ॥ ५७ ॥ अपिच । आकारः स मनोहरः स महिमा तद्वैभवं तद्वयः सा कान्तिः स च विश्वविस्मयकरः सौभाग्यभाग्योदयः । एकैकस्य विशेषवर्णनविधौ तस्याः स एव क्षमो यँस्यास्मिन्नुरगप्रभोरिव भवेज्जिह्वासहस्रद्वयम् ॥ ५८ ॥ सापि यथा त्वमिदानीं मामिह पृच्छसि तथार्धपथमिलितं कांचिदु- दीचीनमध्वगं दक्षिणस्यां दिशि प्रस्थितमादरेण पृच्छन्ती मुहूर्तभिव तत्रैव विश्रमितुमारभत ॥ ख ॥ श्रुतश्चायं मयापि तेन तस्याः पुरः कस्यचिदुँदीच्यनरपतेः श्लाघ्य- मानस्य कैथावशेषालापः ॥ ग ॥ तस्मिन्स्मितमुखे यूनि यूपदीर्घभुँजद्वये । ते धन्या न्यपतन्येषां कंदर्पसदृशे दृशः ॥ ५९ ॥ किं बहुना । सा त्वं मन्मथमञ्जरी स च युवा भृङ्गस्त्वैवोचितः श्लाघ्यं तद्ववतोः किमन्यदपरं किं त्वेतदाशास्महे । आकार इति ॥ उरगप्रभोर्वासुकेर्यथा जिह्वासहस्रद्वयं वर्तते तथा यस्यैतावत्यो जिह्वा भवेयुः स एव वर्णयितुं क्षमो भवेत् । यदा ‘जिह्वासहस्रं मुखे’ इति पाठः । तदा सहस्रशब्दोऽनन्तबहुत्ववचनः ॥ ५८ ॥ ख ॥ सा त्वमिति ॥ अत्राप्रत्यक्षमपि बुद्धिकल्पितं नलं प्रत्यक्षभिव मन्यमानो १ 'यस्य स्यादुरगप्रभोरिव मुखे जिह्वासहस्रद्वयम्'; 'यस्यास्मिन्नुरगप्रभोरिव भवे- ज्जिह्वासहस्रं मुखे'। २ 'उदीचीनं नरपतेः'। ३ 'कथाशेषालापः'। ४ 'भुजद्वया'।

३६ नलचम्पूः। भाग्यैर्योग्यसमागमेन युवयोर्मानुष्यमाणिक्ययोः श्रेयानस्तु विधेर्विचित्ररचनासंकल्पशिल्पश्रमः ॥ ६० ॥ तन्न जाने स कः सुकृती तेन तस्याः श्रवणादेवोल्लसद्बहुलपुलका- ङ्कुरोत्तम्भितांशुकायाः पुरो विस्तरेणैवं वर्णितः ॥ क ॥ नच मयापि विस्मयविस्मृतविवेकेन केयं कस्येयं कुत्र कुतो वा प्रस्थितेति प्रश्नाग्रहः कृतः । केवलमदृष्टपूर्वरूपोत्पन्नाकस्मिककौतुका- तिरेकास्तमितसमस्तान्यव्यापारेणैकाग्रतया ग्रहनिरुद्धेनेवान्धेनेव मूके- नेव मूढेनेव मूर्च्छितेनेव संजातसंतमसेनेव विषविघूर्णितेनेव स्तोभस्त- म्भितेनेव गतायामपि तस्यां तेनाध्वनीनेन सह तत्रैव न्यग्रोधतरुतले सुचिरमासितमासीत् ॥ ख ॥ तदायुष्मन्नेष कथितः स्ववृत्तान्तः ॥ ग ॥ तस्यां दिशि तया सकलजगज्ज्योत्स्नया, अस्मिन्नपि देशे निःशेष- जननयनकुमुदेन्दुना त्वया दृष्टेन, दृष्टं यद्द्रष्टव्यम् । अभूच्च मे श्ला- घ्यं जन्म । जाते कृतार्थे चक्षुषी । संपन्नः सफलः परिभ्रमणप्रया- सः ॥ घ ॥ तदिदानीं किमन्यत् ॥ ङ ॥ अनुमन्यस्व स्वविषयगमनाय माम्' इत्यभिधाय न्यरंसीत् ॥ च ॥ राजाप्येतदाकर्ण्य चिन्तितवान् ॥ छ ॥ स्त्रीमाणिक्यमहाकरः स विषयः पान्थोऽप्ययं तथ्यवा- ग्व्यापारोऽपि विधेर्विचित्ररचनस्तत्किं न संभाव्यते । किं त्वाश्चर्यमदृष्टरूपविभवाप्याकर्ण्यमाना सती कान्तेत्युन्नतचेतसोऽपि कुरुते नाम्नैव निम्नं मनः ॥ ६१ ॥ भवतोरित्याह । भवती च भवांश्च भवन्तौ । 'पुमान्स्त्रिया' इत्येकशेषः ॥ मानुषत्वे भूषणभूतत्वात्तयोर्माणिक्यत्वम् ॥ ६० ॥ नेति ॥ स्तोमश्चेष्टाविघातः ॥ ख ॥ स्त्रीति ॥ निम्नमभिलाषादीनत्वालाघवास्पदम् ॥ ६१ ॥ १ 'क्रमः'. २ 'पुरतः'. ३ 'केयम्' इति क्वचित्पुस्तके नास्ति. ४ 'मूकेनेवेति क्वचित्पु- स्तके नास्ति'. ५ 'संजातान्धतमसेनेव'. ६ 'विषघूर्णितेन'. ७ 'मोहसंस्तम्भितेनेव'. ८ 'त्वया चाद्य'. ९ 'पाथः'.

प्रथम उच्छ्वासः । ३७ तथापि । नो नेत्राञ्जलिना निपीतमसकृत्तस्याः स्वरूपामृतं नो नामान्वयपल्लवोऽपि च मया कर्णावतंसीकृतः । चित्रं चुम्बति चुम्बकाश्मकमयो यद्वद्दूलाईरूत- स्तद्वत्तर्जितधैर्यमेतदपि मे तस्यां मनो धावति ॥ ६२ ॥ सोऽयं दुर्लभेष्वनुरागः पुंसाम्, अज्वरमस्वास्थ्यम्, अदौर्गत्यं दौःस्थ्यम्, अविपास्वादनमाघूर्णनम्, असाध्वसं कम्पनम्, अनात्म- विक्रयं पारवश्यम्, अजरं जाड्यम्, अनिन्धनं ज्वलनम्, अलग्नग्र- हमुन्मादनम्, अवात्याघातमुद्भ्रमणम्, अमौनं मौक्यम्, अहीनश्रुति बाधिर्यम्, अनष्टदृष्टिकमन्धत्वम्, अस्खलितमनोरथं मनःस्तम्भनम्, अमन्द आवेशः ॥ क ॥ सर्वथा नमः सुस्थितजनदुर्जनाय मनोजन्मने, यस्यायमेवंविधो व्यापारः' इत्यवधारयन्नवतार्य सर्वाङ्गेभ्यो भूषणानि तस्मै सद्यम- दात् ॥ ख ॥ तैस्तैरालापैः स्थित्वा च कंचित्समयमिममंथ यथाप्रस्थितं पान्थं कथमपि प्रैर्षयामास ॥ ग ॥ स्वयमपि तत्कालान्तरालमिलितैर्नक्षत्रैरिव सार्द्रमृगशिरोहस्तैः स- श्रवणचित्रकृत्तिकोपस्करवाहिभिः पापर्द्धिकपरिजनैरनुगम्यमानो राजा निजावासमयासीत् ॥ घ ॥ नो नेत्रेति ॥ यद्वद्यथा चुम्बकसंज्ञमश्मकम्। पाषाणं कर्म ॥ अयो लोहं कर्तृ ॥ चुम्बति । तथा मेऽपि मनस्तस्यां धावति ॥ ६२ ॥ सोऽयमिति ॥ आवेशो व्यन्तरादेर्मनसि प्रवेशः ॥ क ॥ स्वयमपीति ॥ राजा निजहर्म्म्यमगात् । तत्कालं तत्क्षणात् । अन्तराले- ऽध्वमध्ये । राजा चन्द्रोऽपि । तदा तस्मिञ्ज्योतिःप्रसिद्धे काले कलासमूहे अष्टशतीलक्षणे यदन्तरालं तत्र । मिलितैः परिजनैरनुगम्यमानः । कीदृशैः । सार्द्राणि सास्राक्ष्योतन्ति हरिणशिरांसि येषु तथाविधा हस्ता येषां तैः । सश्रवणां सकर्णाम् । चित्रस्य चित्रकायस्य कृत्तिकां त्वचम् । उपस्करं मृग- योपयोगि वहन्ति तैः । आर्द्रशब्दो भाववचनः । पक्षे सह आर्द्राया नक्षत्र- त्रेण, सार्धे मृगशिरो हस्तश्च नक्षत्रं येषु । श्रवणचित्रे नक्षत्रे । अनयोः समाहारद्वन्द्वः । तेन सह । ताश्च ताः कृत्तिकाश्च तासामुपस्करं समवायं वहन्ति ॥ घ ॥ १ 'अलग्नं ग्रहम'. २ 'स्थित्वा स च'. ३ 'इमं यथा'. ४ 'संप्रेषयामास'. ४

३८ नलचम्पूः । ततःप्रभृति च हृद्योद्यानमरुत्तरङ्गितसरित्तीरे तरूणामध- स्तल्पेऽनल्पसरोजिनीनवदलप्रायेऽपि खिन्नात्मनः । धीरस्यापि मनाङ्मनस्तृणकुटीकोणान्तराले बला- ल्लग्नोऽस्येति विभाव्यते परवशैरङ्गैरनङ्गानलः ॥ ६३ ॥ एवमस्य पुनरपि तदभिज्ञानपृच्छतः पान्थसार्था- न्प्रतिपथमथ यूनो यान्ति तस्य क्रमेण । हरचरणसरोजद्वन्द्वमुद्राङ्कमौले- र्मदनमदनिवासा वासराः प्रावृषेण्याः ॥ ६४ ॥ इति श्रीविक्रमभट्टविरचितायां दमयन्तीकथायां हरचरणसरो- जाङ्कायां प्रथम उच्छ्वासः समाप्तः ॥ अथ द्वितीय उच्छ्वासः । अथ कदाचिद्देवगलद्बहलपरिमलमिलदलिकुलाकुलितकुटजकदम्ब- कुसुमकर्णपूरशून्यकाननासु, विश्राम्यन्मदमुखरमयूररसनावलीकलक- णितासु, विरलतरतडिल्लतादलितलावण्यासु, विगतहंसद्विजराजिषु, पतत्पयोधरासु, क्षीणशुक्रासु, वृद्धास्विव गतप्रायासु वर्षासु, रतिमकु- हृद्येति ॥ हृदयस्य बन्धनं हृद्यम् ॥ ६३ ॥ तमसो यत्र विनाशः पथिकोच्छ्वासः पदार्थनिर्भासः । उदयं प्रतिपाद्यासौ भुवनमुदे जयति चण्डरुचिः ॥ इति विषमपदप्रकाशमेतं दमयन्त्यास्तनुते स्म चण्डपालः । शिशुमतीलतिकाविकासचैत्रं चतुरमतिस्फुटभित्तिचारुचित्रम् ॥ इति चण्डपालविरचिते दमयन्तीकथाविवरणे प्रथम उच्छ्वासः समाप्तः ॥ अथेति ॥ अनन्तरमितीति सति स राजा निकटकानने विचरन्किन्नरमिथुनेन गीयमानं रागविशेषेणोच्चार्यमाणमिदमिति वक्ष्यमाणमनश्लीलमग्राम्यं श्लोकत्रितय- माकर्णितवान् । किंविरिष्टः । कलहंसा एव हासस्तेन रम्यायां तरुणायामभिनव- प्रवृत्तायाम् । अथ च शरद्रेव तरुणी युवतिः । तस्यामागतायां रागात्स्वयं १ 'सरस्तीरे'. २ 'समविपमकविश्रीत्रिविक्रम'; 'श्रीभट्टत्रिविक्रम'. ३ 'हरचरणसरो- जाङ्कः'. ४ 'प्रथमोच्छ्वासः'. ५ 'विगलत्'. ६ 'बहुल'.

द्वितीय उच्छ्वासः । ३९ र्वाणो मदकलकलहंसहसासहारिण्यामुत्सुकस्तरुण्यामिवागतायां, शरदि, द्विरदमदगन्धसंबन्धानुधाविते कु³सुमितसप्तच्छदच्छायासु वि⁴स्फूर्जति रोषोद्धुषितकेसरकरालकण्ठे कण्ठीरवक⁵दम्बके, गृहदीर्घिकामृणालिका- काण्डखण्डनविरामरमणीयमुन्नदत्सु शरत्समयप्रवेशमङ्गलमृदङ्गेष्विव⁶ हंसमण्डलेषु, स्मरशरनिकरनिर्मथितपान्थ⁷सार्थप्रहाररुधिरनिष्यन्दबि- न्दुसंदोह इव वनस्थलीपून्मिषति बन्धुरबन्धूककुसुमप्रकरे, प्रसरन्तीषु शरल्लक्ष्मीप्रवेशानन्दवन्दनमालासु निःशङ्ककुकुलावलीषु, श्रूयमा- णासु स्मरराजराज्यविजयघोषणासु पक्वकलमगन्धशालिपालिकावा- लिकाहर्षगीतिषु, शर⁹च्छ्रीकटाक्षेपून्मीलत्सु नी१०लनीरजेषु, क्वणति वर्षा- प्राप्तायाम् । उत्सुक उत्क इत्युत्त्यन्तरम् । तदा मदेन क्षीबतया तरुणिमो- द्रेकेण वा कलकलो यस्याः । तथा शुभ्रत्वाद्धंसोपमौ हासहारौ स्तोऽस्यामिति कर्मधारयान्मत्वर्थीयः । न कर्मधारयादिति तु प्रायिकम् । किं विदधानः कुर्वाणः । काम् । रतिं चित्तासक्तिम् । कासु । वर्षासु । किंभूतासु । गतप्रायासु स्वल्पशे- षासु । तथा कुसुमान्येव कर्णपूरा उत्तंशास्त्रैः शून्यानि काननानि वनानि यासु । तथा मदेन मुखराणां मयूराणां या रसनावली जिह्वाश्रेणिस्तस्याः कलक्वणितम् । तद्विश्राम्यद्विरमद्यासु । वर्षोदये हि केकायन्ते न प्रान्ते । मदाभावात् । तथा स्तोकविद्युदुद्द्योतासु । व्यपेतहंसपक्षिपाङ्क्तिषु । अदृश्यद्भानासु । क्षीणशुक्राख्यग्रहासु । कास्विव । वृद्धास्विव । तदा । रतिः संभोगः । गतं प्रकृष्टमयमनिष्टफलं दैवं यासाम् । तथा कुसुमैः पुष्पदामभिः कर्णपूरैश्च शून्यं कं शिर आननं च यासाम् । तथा रसनायाः काञ्च्याः क्वणितस्य मुखरमयूखवो ललितस्य मधुराङ्गविन्यासस्य लावण्यस्य च लोचनलेह्यकमनीयगुणस्य विरलतडिदुपमानम् । तथा व्यपेतहंसशुभ्र- अदन्तरराजिषु पतत्कचासु । तथा क्षीणं गर्भसंभवाभावाद्विनष्टं शुक्लं पुंवीर्यं यासु । न पुनर्निर्वृत्तवीर्यास्विति व्याख्येयम् । पुंसां वीर्ये स्त्रीणां रज इति प्रसिद्धेः । अतएव न विद्यते बलं वीर्यं यासामित्यबलाः । रसनाशब्दः काञ्चीपक्षे न परं तालव्यः । दन्त्योऽप्यस्ति । तथा च विश्वप्रकाशः—'रसना काञ्चिज- ह्वयोः' इति । द्विरदमदगन्धस्य संबन्धो द्विरदमदगन्धोऽयमिति प्रत्यभिज्ञा तयानुधाविते । संधानपाठे तु संधानं संधिमैत्री सादृश्यमिति यावत् । शरदि सप्तच्छदाः पुष्यन्ति । ते च मदगन्धयतस्ततो गजभ्रान्त्या सरोषं विस्फूर्जति सिंहवृन्दे । मृणालिकाकाण्डस्य खण्डनाय योऽसौ विरामोऽर्थात्तादस्यैव । तेन रम्यं यथा भवति स्थिला स्थिला मृणालं चर्वन्ति तत्कषायसंशुद्धकण्ठाश्च नादं कुर्व- १ 'उत्सुकश्च'. २ 'द्विरदमदगन्धसंधानधाविते'; 'द्विरदमदगन्धानुसंधानवासितासु'. ३ 'वासितकुसुमित'. ४ 'विस्फूर्जिते'. ५ 'कुडम्वके'. ६ 'मृदङ्गेषु हंस'. ७ 'पथिकप्रहार'; ८ 'पान्थप्रहार'. ९ 'शरत्श्री'; 'सरःश्री'. १० 'नीलसरोजेषु'. Digitized by S3 Foundation USA

४० नलचम्पूः । वधूप्रस्थानपटहे पट्टरणचक्रवाले, प्रभात इव घनतिमिरविरामरमणी- ये जाते जलनिधिशयनशायिशा शार्ङ्गि निद्राद्रुहि विनिद्रसान्द्रसरससरोज- राजिराजितसरसि शरत्समये, स महीपतिः समासन्नवनविहारिकिंन- रमिथुनेन गीयमानमिदमनश्लीलं श्लोकत्रयमशृणोत् ॥ क ॥ धन्याः शरदि सेवन्ते प्रोल्लसच्चित्रशालिकान् ॥ प्रासादान्स्त्रीसखाः पौराः केदारांश्च कृषीवलाः ॥ १ ॥ नमिताः फलभारेण न मिताः शालिमञ्जरीः ॥ केदारैरेषु हि पश्यन्तः के दारेषु विनिःस्पृहाः ॥ २ ॥ प्रावृषं शरदं चापि बहुधाकाशहारिणीम् ॥ विलोक्य नोत्सुकः कः स्यान्नरो नीरजसंगताम् ॥ ३ ॥ अनेन मृदुमूर्च्छनातरङ्गरङ्गिताक्षरेण श्रवणपथप्रथमप्रियातिथिना श्लोकत्रयेण विषैविषमविषयवैरस्यव्रतव्रततिकठिनकुठारेण, दारपरिग्रह- पराङ्मुखोऽपि शृङ्गारशृङ्गिङ्गजसमुत्तुङ्गर्म्मारोप्यमाणस्तदेवोद्यानममन्दम- न्दारमकरन्दामोदमत्तमधुकरमधुरझंकाररमणीयमुपसर्तुमारभत ॥ख॥ न्तीत्यर्थः । हंसमण्डलानि शरत्प्रवेशमङ्गलमृदङ्गाः । बन्धूककुसुमस्यातिलौहि- त्याद्विरहिजनरुधिरलम् । शुकावलिस्तोरणम् । कलमस्य श्वेतशालेः, गन्ध- शालेश्च रक्षिका गीतयः कंदर्पराजजयघोषणाः । विकसन्नीलोत्पलानि शरल्लक्ष्मी- कटाक्षाः । भृङ्गगणश्च यान्त्या वर्षावध्वाः प्रयाणपणवः । घनो मेघो घनं च सान्द्रम् । शयनस्थानम् । निद्राद्रोहो विनिद्रसान्द्रसरोजराजितसरस्त्वं च शरत्प्र- भातयोः समानम् ॥ क ॥ धन्या इति ॥ प्रोल्लसन्त्यश्चित्रशालिका आलेख्यभूमिका येषु । पक्षे चित्रा बहुविधाः शालयः । स्त्रीसखा इत्युभयत्र योज्यम् ॥ १ ॥ कुतः स्त्रीसखा इत्याह—नमिता इति ॥ हि यस्मात्कारणात् । दारेषु के निः- स्पृहाः स्युः । किं कुर्वन्तः । फलभारेण नमिता वक्रिता न मिताः स्तोकाः केदारेषु क्षेत्रेषु शालिमञ्जरीः पश्यन्तः । तद्दर्शनं ह्युद्दीपनविभावः ॥ २ ॥ प्रावृषमिति ॥ रमणीयत्वात् । बहुधा पुनः पुनर्विलोक्य प्रावृषमाकाशस्य व्योम्नस्तिरोधायिनीं नीरजसं निःपांसुं गतामतिक्रान्तां शरदं च काशपुष्परम्याम् । तथा नीरजैः पद्मैः संगतामन्विताम् ॥ ३ ॥ अनेन श्लोकत्रयेण प्रियाग्रहविमुखोऽप्युच्चैः शृङ्गारगिरिशिखरं नीयमानस्तदेव वनं गन्तुमारेभे ॥ ख ॥ १ 'विहारहारि'. २ 'शालमञ्जरी:'. ३ 'केदारेष्विह'. ४ 'वापि'. ५ 'विषमविषय'. ६ 'समारोप्यमाणः'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA