भारतकोश
संग्रह पर लौटें

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

११० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १० कारिकाव्याख्यायां चोत्तम्भकमन्त्र एवेत्यन्यैव सामग्रीति चेत् । न । विशिष्टस्याप्यभावात् । न हि दण्डिनि सत्यदण्डानामन्येषां नाभावः, किन्तु दण्डाभावस्यैव केवलस्येति युक्त- म् । यथा हि केवलदण्डसद्भावे उभयसद्भावे द्वयाभावे वा केवलपुरुषाभावः सर्व- बोधनी। प्रतिबन्धकः, तदभावश्च कारणमित्युक्तेऽपि तत्रोत्तम्भकाभावविशेष्यस्य मन्त्रादेः सत्त्वेऽपि विशे- षणमात्रस्योत्तम्भकाभावस्याभावः, नतु विशिष्टस्य । स चोत्तम्भकाभावाभाव उत्तम्भकमन्त्र एव । तस्मादुत्तम्भकाभावविशिष्टप्रतिवन्धकाभावस्याभावादन्यैव सामग्री । न हि प्रतिबन्धकोत्तम्भकाभा- वविशिष्टा तत्सद्भावविशिष्टा च सामग्री न भिद्यत इति च सम्भवति । अत्र स चोत्तम्भकमन्त्र एवेति सामग्रीभेददर्शनायोक्तम् । यद्वा, सत्त्वकार्यस्योत्तम्भक एवं मन्त्रो न तु प्रतिबन्धकस्य प्रति- बन्धकत्वविघातमात्रहेतुरिति दर्शयति । यद्वा, न परं सामग्रीभेद एव किन्तु भाव एव, सामग्री स्यादिति दर्शयितुमिति । न इति । न केवलं विशेषणमात्रस्येति शेषः । न चोभयोः सत्त्वम- सत्त्वं वा कारणं, किन्त्वसत्प्रतिपक्षप्रतिबन्धकाभावः स चाविशिष्टः सर्वत्रेति न सामग्रीभेद इति भावः । विशेष्ये विशेषणाभावेन न केवलं विशेषणमात्रस्यैवाभावः किन्तु विशिष्टस्यापीत्येतद् दृष्टा- न्तेनोपपादयति-न हीति । दण्डिनि सत्यदण्डत्वं विशेषणमेव नास्ति । तद्विशिष्टस्त्वदण्डः पुरुषोऽस्तीति । न हि वक्तुं युक्तमित्युपपादितं दृष्टान्तीकरोति यथा हि इति । केवलदण्डसद्भावे विशेषणमदण्डत्वं विशेष्यः पुरुषश्चोभयं नास्ति । सदण्डपुरुषसद्भावे तु विशेषणमदण्डत्वं नास्ति प्रकाशः। कारणमिति सामग्रीभेद इत्यर्थः । विशिष्टस्यापीति । विशेषणाद्यभावे सर्वत्र विशिष्टाभावोऽप्य- स्तीति स एवानुगतः कारणमित्यर्थः । तदेवोदाहरणेनोपपादयति। न हीति । दण्डिनि सत्यदण्डानां दण्डाभाववतामन्येषानाभावः, किन्तु दण्डाभावस्यैवेति न, किन्तुभावोऽस्त्येवान्येषामपीति लोक- सिद्धमित्यर्थः । तदेव स्पष्टयति । यथा हीति । पुरुषे दण्डाभाववैशिष्ट्यं कैवल्यम् , प्रतिबन्धके तूत्तम्भकाभाववैशिष्ट्यम् । यथा केवलदण्डसद्भावे विशेषणविशेष्योभयाभावाद्दण्डपुरुषसद्भावे विशे- षणदण्डाभावविरहादुभयाभावे विशेष्यपुरुषाभावात् कैवल्यविशिष्टपुरुषाभावोऽनुगतोऽवाधितव्यवहा- रबलात् सर्वप्रतीतिसिद्धः, तथा केवलॊत्तम्भकसद्भावे विशेषणविशेष्यद्वयाभावादुत्तम्भकप्रतिबन्ध- कसद्भावे विशेषणोत्तम्भकाभावविरहादुभयाभावे च विशेष्यप्रतिबन्धकाभावादुत्तम्भकाभावविशिष्टप्र- तिबन्धकाभावोऽनुगतो विशेषणाद्यभावव्यापको दाहकारणमित्यर्थः । ननु विशिष्टं नार्थान्तरं येन तदभावोऽनुगतः स्यात् किन्तु विशेषणविशेष्यसम्बन्धा इति तेषां प्रत्येकाभावस्य कारणत्वे सामग्रीभेदस्तदवस्थः । न च व्यासज्यप्रतियोगिताकोऽन्य एवायमभावः, प्रकाशिका। अन्य एवेति । प्रत्येकप्रतियोगिकाभावद्वयादन्य एवायं मिलितप्रतियोगिकस्तदुभयाभावव्या- मकरन्दः। अन्य एवेति । प्रत्येकोभयाभावादन्य एव प्रत्येकाभावव्यापकोऽयमभाव इत्यर्थः । व्यास- ङ्ग्यवृत्तिधर्मावच्छिन्नोत्तम्भकाभावप्रतिबन्धकप्रतियोगिकाभावत्वेन कारणत्वं ? तदुभयमात्रप्रति- टिप्पणी । गमादिति । अदृष्टस्य प्रतिपक्षत्वेऽपीति । न च व्यासज्यप्रतियोगिताक इति । तेषामु- त्तेजकाभावप्रतिबन्धकोभयप्रतियोगिकाभावत्वेनानुगतेन कारणता तदुभयत्वावच्छिन्नाभावत्वेन

प्रथमस्तवके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १११ प्रकाशः । केवलप्रतिबन्धकसत्त्वेऽपि तदभावाद्दाहापत्तेः । एकसत्त्वेऽपि द्वयमिह नास्तीति प्रतीतेः । तस्य समुदायविरोधिनो यावत्समुदायिसत्त्व एव विरहात् । तादृशाभावानभ्युपगमाच्च । व्यासज्यवृ- त्तिधर्मसमानाधिकरणप्रत्येकपर्यवसितप्रतियोगिताकाभावादेव तज्जन्यप्रतीत्युपपत्तेः । अथ विशिष्टविरोधित्वमेवानुगतं विशेषणाद्यभावानां कारणतावच्छेदकम् , यत्र विशिष्टं न प्रकाशिका । पकोऽभाव इत्यर्थः। केवलेति । ननु कैवल्यमुत्तेजकाभाववैशिष्ट्यं, न च तादृशे मणौ तदुभयवृत्तिद्वि- त्वावच्छिन्नप्रतियोगिताकोऽभावोऽस्तीति कथमेतदुच्यते व्यासज्यवृत्तिधर्मावच्छिन्नोत्तेजकाभावमणिप्र- तियोगिकाभावत्वेन कारणत्वं तदुभयमात्रवृत्तिद्वित्वावच्छिन्नप्रतियोगिताकाभावत्वेन वा, अन्त्ये तादृ- शेत्यादि दूषणमनुपदमेवाग्रे । आद्ये तदुभयसत्त्वेऽपि तृतीयमादायाभावोऽस्त्येवेति दूषणमिति । अत एवैकसत्त्वेऽपि त्रयमिह नास्तीति युक्तः पाठः । द्वयमिह नास्तीपि पाठपक्षेऽपि द्वयपदमनेकपरम् । मिश्रास्तु केवलेत्यस्यैकत्यर्थः । तथा च मणिसत्त्वेऽपि मन्त्राभावमादाय दाहापत्तिरित्यर्थः । एवं च द्वय- मिति पाठोऽपि सङ्गच्छत इत्याहुः । तच्चिन्त्यम् । उत्तेजकमण्यभावयोरेककारणत्वपर्यवसानेऽननुगम इत्याक्षेपे तदुभयस्थलाऽनुगताभावस्य कारणत्वाऽऽशङ्कायामेतद्दूषणस्यार्थान्तरत्वात् । तादृशेति । मकरन्दः । योगिकतादृशाभावत्वेन वा ? । आद्ये दोषमाह । केवलेति । उत्तम्भकाभावविशिष्टमणिसद्भा- वेऽपि घटादिकमादाय तदुभयप्रतियोगिकतादृशाभावसत्त्वाद्दाहापत्तेरित्यर्थः । एवं द्वयमित्यनेको- पलक्षणम् । अत एव लीलावतीप्रकाशे त्रयमिति पाठः । अन्त्ये त्वाह । तादृशेति । यद्यपि सामान्याभाववदुभयासत्त्वे व्यासज्यप्रतियोगिकाभावोऽप्यभ्युपगन्तुमुचित एव । अन्यथा याव- द्विशेषाभावैस्तदन्यथासिद्ध्यापत्तेः । तथापि तद्धेतुत्व उत्तोजकविशिष्टमणिसत्त्वेऽपि दहो न स्यादि- त्येव दूषणं द्रष्टव्यम् । टिप्पणी । वा तत्राद्यस्य निराकरणं केवलेति । तस्मादुभयप्रतियोगिकाभावात् त्रितयाभावात्मक़ाद् दाहाप- त्तेः । द्वयमित्यनेकमित्यर्थः । तथाचैकसत्त्वे द्वयन्नास्त्युभयसत्त्वे त्रयन्नास्तीत्यादिप्रतीतेरिति पर्य्यवस्यति । तस्य त्रितयाभावस्येत्यर्थः । द्वितीयं निराकरोति । तादृशाभावानभ्युपगमा- च्चेति । यद्वा व्यासज्य सर्व्वान प्रतिबन्धकमणीनुत्तेजकाभावञ्च व्याप्या या प्रतियोगिता तदाश्रयप्र- तियोगिकाभावः । मणित्वोत्तम्भकाभावत्वव्यापिका या सङ्ख्या तदवच्छिन्नप्रतियोगिताकाभावित्य- र्थः । तदुभयसमानाधिकरणसङ्ख्यावच्छिन्नाभावनिवेशे यत्किञ्चिन्मण्युत्तम्भकाभावोभयाभावस्य- सर्व्वत्रैव सत्त्वाद्दाहापत्तेः। तादृशव्यापिका च संख्या यावन्मणिगतैव, तदवच्छिन्नाभावस्य तादृश- संख्यावच्छिन्नयावन्मणिसत्त्वविरोधिन उत्तेजकाभावविशिष्टैकमणिसत्त्वेऽपि सत्त्वे क्षत्यभावात् । एकमणिसत्त्वेऽपि मणिद्वयाभावप्रतीतेः समुदायाभावप्रत्यये बाधकाभावात् । यदि च एक उत्तेज- काभाव एको मणिरिति सामान्यापेक्षाबुद्ध्या जायमानद्वित्वं सर्व्वान् मणीन् व्याप्यैव वर्त्तते, तथापि यत्किञ्चित्तदुभयसत्त्वमेव तद्विरोधि तत्र सर्व्वत्र सामान्यत उत्तेजकाभावप्रतिबन्धकमणी स्त इति प्रत्ययात् । या च एकोऽयं मणिरिकोऽयं मणिरित्याद्यखिलमनिगोचरापेक्षाबुद्ध्या एकश्चोत्तेजकाभाव इत्यपेक्षाबुद्ध्या सर्व्वान् मणीन व्याप्य समुदायत्वलक्षणा संख्या जन्यते तदवच्छिन्नाभाव एव य- त्किञ्चित्तदुभयविरोधीति प्रकृते नानुषपत्तिस्तादृशद्वित्वानभ्युपगमेऽपि यत्किञ्चित्तदुभयविरोधित्वे- त्वेनानुगतेन द्वित्वेन मणित्वेनोत्तम्भकाभावत्वेन चावच्छिन्नप्रतियोगिताक एव वा तादृशाभा- वोऽनुगतस्तथापि नानुपपत्तिरिति ब्रूयात् तमाह । तादृशाभावानभ्युपगमादिति ।

११२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १० कारिकाव्याख्यायां प्रकाशः । तत्र तदभाव इति सहानवस्थाननियमस्य विरोधास्यानुभवसिद्धत्वादिति चेन्न । स हि परस्पराभा- रूपतया, परस्पराभावव्याप्यतया वा, तदाक्षेपकत्या वा ? । नाद्यः । विशेषणाद्यभावस्य प्रत्येकं विशिष्टाभावतया तत्प्रत्येकाभावाभावस्य विशेषणादेर्विशिष्टत्वापत्तेः । तदभावाभावस्य तत्त्वात् । न चोभयाभावाभाव एवोभयं विशिष्टम् । तथासत्यभावद्वयस्य विशिष्टाभावत्वे प्रत्येकाभावाद्विशि- ष्टाभावव्यवहारानापत्तेः । नान्त्यौ । विशेषणाद्यभावस्य विशिष्टाभावत्वे तद्व्याप्यत्वात्, तदना- क्षेपकत्वाच्च । अभेदे तयोरभावात् । ऽ अथ विशिष्टानतिरेकेऽपि प्रतियोगिभेदादिव प्रतियोगितावच्छेदकविशेषणभेदादप्यभावो भि- द्यते । यथा वायौ पृथिव्यादित्रयप्रत्येकरूपाभावे निश्चितेऽपि रूपत्वावच्छिन्नस्य तस्याभावानिश्च- याद्वायौ रूपं न वेति संशयः । एवमुत्तम्भकाभाववत्त्वेन मण्यादीनामभावः प्रतिबन्धकसत्त्वेऽप्युत्त- म्भकाभावविरहादस्त्येवेति स एवानुगतो हेतुः स्यादिति चेत् । न । एवं क्षणरूपातीतविशेषणा- वच्छिन्नरूपत्वेन प्रतिक्षणं घटादिनाशे क्षणभङ्गापत्तेः प्रत्यभिज्ञानानुपपत्तेश्च । दण्डित्त्वावस्थायां प्रकाशिका । न च प्रतीतिरनुगता घटाभावपटाभावस्थल इति स स्वीकृत्यिमिति वाच्यम् । विद्यमानप्रतियोगितावच्छेदकाश्रयप्रतियोगिविरोधित्वमभावस्य लाघवान्न तु प्रतियोगिताव- च्छेदकावच्छिन्नविरोधित्वं गौरवादित्याशयात् । न च सामान्याभावान्तरवत् द्वित्वावच्छिन्नप्रति- योगिताकोऽपि सामान्याभावः स्वीक्रियतामिति वाच्यम् । उभयानधिकरणे तत्स्वीकारात् । तस्य च कारणत्व उत्तेजकविशिष्टमणिसत्त्वेऽपि दाहो न स्यादित्याशयात् । अभेदे तयोरिति । यद्यपि व्याप्यत्वमभेदेऽपि संभवति । तथापि विशिष्टाभावपदार्थस्य विशेषणाद्यभावरूपतया तद्व्या- प्यत्वं नोभयानुगतमिति भावः । प्रतियोगिभेदादिवेति । न च प्रतियोगितावच्छेदकस्य भेद- कत्वे कुत्र प्रतियोगिभेदो भेदक इति वाच्यम् । व्यवहारानुरोधेन समनियतजातिद्वयस्वीकारे स्वा- श्रयावच्छिन्नतदुभयात्यन्ताभावयोः प्रतियोगिभेदादेव भेदात् । तदस्वीकारे च यथा प्रतियोगिभे- दादभावभेदस्त्व, तथा प्रतियोगितावच्छेदकभेदान् ममेति फक्तिकार्थः । स एवेति । व्यापकी भूयानुगमकतया हेतुतावच्छेदकः स्यादित्यर्थः । तेनात एवेत्याद्येतनमपुनरुक्तमेवेति ध्येयम् । क्षणभङ्गापत्तेरिति । यद्यपि विशेष्यतावच्छेदकावच्छिन्नध्वंसः परमुत्पत्तेरव्यवहितक्षणे न मकरन्दः । क्षणभङ्गेति । यद्यपि तादृशक्षणभङ्गो न दोषावहः, किन्तु विशेष्यतावच्छेदकावच्छिन्नप्रति योगिक एव तथा । तथापि प्रत्यभिज्ञानात् समवायादिनाशाभावाच्च न घटादेर्नाशः, किन्तु विशे- षणस्यैव । न च विशेषणनाशसामग्र्येव विशेष्यनाशिका । नित्यमात्रापलापापत्तेरित्यर्थः । टिप्पणी । तदाक्षेपकत्या वेति । तद्यापकाभावप्रतियोगितया तदभावस्थेयं व्यतिरेकव्याप्तिः । तथा- सत्यभावद्वयस्य विशिष्टाभावत्वे इति । विशेषणाभावाभावस्य विशेषणमात्ररूपस्य विशे- ष्याभावाभावस्य विशेष्यमात्ररूपस्य मेलनं कृत्वा विशिष्टरूपत्वाभ्युपगमेऽभावद्वयस्यापि मिलितस्य विशिष्टाभावत्वापत्तिः । न चेष्टापत्तिः । तत्प्रत्येकाश्रये विशिष्टाभावव्यवहारानापत्तेरिति भावः । अभेदे तयोरभावात् इति । विशिष्टविरोधित्वस्य विशिष्टाभावव्याप्यविशिष्टाभावाक्षेपकत्व- रूपतया तयोरनुगतस्याभावात् । विशिष्टाभावस्य विशेषणाद्यभावाभेदे सति विशेषणाभावव्याप्यत्व- प्रवेशे विशेष्याभावस्य, विशेष्याभावव्याप्यत्वप्रवेशे विशेषणाभावस्यासङ्ग्रहादतिरिक्तस्य विशिष्टा- भावस्याभावात् विशिष्टाभावत्वस्य चानुगतस्य निरूप्यमाणत्वात् । विशिष्टविरोधितारूपस्यैव प्रवेशे-

प्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । ११३ त्राविशिष्टः, तथा केवलोत्तम्भकसद्भावे प्रतिबन्धकोत्तम्भकसद्भावे द्वयाभावे वा बोधनी । विशेष्यस्त्वस्ति पुरुषः । द्वयाभावे तु विशेषणमस्ति, नास्ति विशेष्यम् । अत्र सर्वत्र केवलस्य कैवल्यविशिष्टस्य पुरुषस्याभावः समान इति पक्षं निगमयति-तथा-इति । कार्योत्पत्तिसम- येषु सर्वेषु केवलोत्तम्भकसद्भावप्रतिबन्धोत्तम्भकसद्भावद्वयाभावेषु प्रत्येकं समुचितयोश्च विशेषणविशेष्ययोरभावात् केवलस्योत्तम्भकाभावविशिष्टस्य प्रतिबन्धकस्याभावोऽनुवृत्तः । अत्र प्रकाशः । केवलोऽयमासीत् पुरुष इत्यादी विशेष्यवति, "सविशेषणे ही"ति न्यायेन कैवल्याभावस्यैव प्रतीतेः । अत एव विशेषणावच्छिन्नप्रतियोगिताको विशेष्याभाव एव विशिष्टाभावः प्रत्येकाभावानुगतो हेतु- रित्यपास्तम् । अत्रास्मत्पितृचरणाः-विशेषणविशेष्ययोः सम्बन्धाद्विशिष्टव्यवहार इति तयोः सम्बन्धाभावा- प्रकाशिका । स्वीक्रियत इत्येवंविधक्षणिकतायामिष्टापत्तिः, न च नाशकांभावो विशेषणनाशसामग्र्या एव तथात्वात् । अत एव प्रत्यभिज्ञानमप्युपपन्नं विशेष्यतावच्छेदकावच्छिन्नाभावाभावात् । किं च विशिष्टाभावस्यात्यन्ताभावात्मकतया कथं तत्स्वीकार उत्पत्त्यव्यवहितक्षणवृत्तिध्वंसप्रतियोगि- तात्मकक्षणिकताप्रसङ्गः, तथापि लाघवात् प्रतियोगिविरोधित्वमेवाभावस्येति कथं मणिसत्त्वे तदभाव इत्यत्र तात्पर्यम् । स एवेति । व्यापकीभूतानुगमकतया हेतुतावच्छेदकः स्यादित्यर्थः । तेनात एवेत्याद्यग्रेतनं न पुनरुक्तमिति ध्येयम् । अत एवेति । तद्वति तदभावास्वीकारादेवेत्यर्थः । विशेषणविशेष्ययोरिति । यद्यपि सम्बन्धमात्राभावः क्वचिदपि नास्तीति तदुभयप्रतियोगिकत्व विशिष्टसम्बन्धाभावो वाच्यः, सोऽपि विशिष्टाभाव एवेति तन्निर्वचनपरम्परायामनवस्था । किंचैवं दण्डिपुरुषसद्भावेऽपि भूतले दण्डिपुरुषाभावप्रतीत्यापत्तिः, तदानीमपि भूतलेदण्डपुरुषसम्बन्धा- भावात् । तथापि सम्बन्धत्वावच्छिन्नोत्तेजकाभावमणिप्रतियोगिकाभावः कारणं प्रतीतिबलेन तस्य स्वीकारात् । दण्डिपुरुषाभावस्थले तु संयोगावच्छिन्नतदुभयाभावस्य प्रतीतिविषयत्वमित्यत्र तात्पर्यम् । अत एव ननुत्तम्भकेत्याद्यग्रिमशङ्काप्युदेति , अन्यथा दाहपूर्वं सम्बन्धस्यासत्त्वेन प्रतियोग्यसमानकालत्वादित्यादेस्तत्तद्धेतोरनन्वयादिति । वस्तुतो विशेषणावच्छिन्नविशेष्याभाव मकरन्दः । अत एवेति । प्रतियोगितावच्छेदकभेदस्याभावभेदकत्वाभावादित्यर्थः । यद्यपि पूर्वाभेदः, तथापि पूर्वं विशेष्यस्य सत एव विशेषणान्तरविरहादभाव इत्युक्तम् । संप्रत्यविद्यमानविशेष्यका- भिप्रायेणोच्यत इति न दोषः । विशेषणविशेष्ययोरिति । यद्यपि यत्किञ्चित्संबन्धाभावो न विशिष्टाभावोऽतिप्रसङ्गादिति विशेषणविशेष्योभयप्रतियोगिकसंबन्धाभावस्तथा वाच्यः, तदभावश्च विशेषणविशेष्योभयप्रतियोगित्वरूपविशेषणाभावात् क्वचिद्विशेष्याभावादित्यननुगमस्तदवस्थ एव । अधिकमनुमानप्रकाशे दूषणमुक्तम् । तथापि विशेषणावच्छिन्नविशेष्यात्यन्ताभावस्तथेति विपश्चि- तमनुमानप्रकाशे द्रष्टव्यम् । किञ्च, यदि संबन्धाभावो विशिष्टाभावस्तदा भूतलादौ दण्डिनि सत्यपि नेह दण्डीति प्रत्ययप्रसङ्गः । दण्डपुरुषसंबन्धस्य दण्डपुरुषोभयमात्रनिष्ठतया तत्र तदानीमपि तदभावात् । न च भूतलावच्छिन्ने पुरुषे विशेषणसंबन्धाभावः स इति भूतलस्याधिकरणकोटिप्रवेश इति वाच्यम् । तथा सति विशेष्याभावे तादृशबुद्ध्यनुदयप्रसङ्गात् । तस्माद्विशेषणविशेष्यतदुभया- टिप्पणी । ऽन्योन्याश्रयत्वापत्तेः । एतेनाभेदे व्याप्यव्यापकभावेऽपि न क्षतिः । केवलोऽयमासीदिति । १५ न्या० कु०

११४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १० कारिकाव्याख्यायां — प्रकाशः । द्विशिष्टाभावव्यवहारः, यतो यद्व्यवहारस्तदभावात्तदभावव्यवहारस्योचितत्वात् । अत एव यत्र यस्य सम्बन्धः स एव तत्र तस्य वैशिष्ट्यमिति नाननुगमः । तदिह प्रतिबन्धकोत्तम्भकाभावयोः सम्ब- न्धाभावः प्रत्येकाभावव्यापकोऽनुगतो दाहादिहेतुः, सर्वत्र प्रतिबन्धकोत्तम्भकाभावयोः सम्बन्धो नास्तीति प्रतीतेः । न चैवं प्रतिबन्धकोत्तम्भकाभावौ यत्र तत्रापि दाहापत्तिः, अभावाधिकरण- योरतिरिक्तसम्बन्धाभावादिति वाच्यम् । तदभावेऽपि स्वरूपसम्बन्धस्य भावात् । अथ तदुभय स्वरूपस्वरूपसम्बन्धाभावस्य हेतुत्वे तदुभयस्वरूपाभाव उत्तम्भककाल एवेत्युत्तम्भकसत्त्व एव दाहः स्यात् । प्रतिबन्धकाभावोत्तेजकयोरेव तदुभयस्वरूपाभावरूपत्वादिति चेन्न। सम्बन्धान्तरं विना विशिष्टप्रत्ययजननयोग्यत्वस्य स्वरूपसम्बन्धत्वात् तदभावस्य च प्रतिबन्धकाभावे प्रति- प्रकाशिका । एव सर्वत्र प्रतीतिविषयो दाहादिकारणंचेति सम्प्रदायमतमेव रमणीयमिति । अत एवेति । लक्ष्य- स्याप्यननुगतत्वमेवेति भावः । आशयमविद्वान् शङ्कते । अथेति । आशयमाविष्करोति । योग्य- त्वस्येति । तदालिङ्गितस्वरूपद्वयस्येत्यर्थः । एवं च विशिष्टप्रतीतिविषयत्वलक्षणसम्बन्धत्वस्य मकरन्दः । भाव एव विशिष्टाभावः । तदनुगमकञ्च विशिष्टधीविषयभावत्वम् । विशिष्टधीविषयत्वस्य त्रितया- नुगतत्वेन तद्भावत्वेन तद्भावानामप्यनुगतत्वसम्भवादित्याहुः । अत एवेति । लक्ष्यस्याप्य- ननुगतत्वमिति भावः । तदभावेऽपीति । अतिरिक्तसंबन्धाभावेऽपीत्यर्थः । संबन्धान्तरं विनेति । एतत् प्रत्यक्षप्रकाशे व्याख्यातम् । अस्यातिरिक्तसंबन्धरूपत्वे अपसिद्धान्तः । तदुप- टिप्पणी । तत्रेति शेषः । अत्र केवलोऽयन्नास्तीत्यत्र तात्पर्यम् , अन्यथात्यन्ताभावप्रत्ययस्यैवाप्राप्तेः । तदिह- प्रतिबन्धकोत्तम्भकाभावयोः सम्बन्धाभाव इति । इदञ्च विशेषणविशेष्ययोः सम्बन्धस्य स्वरूपसम्बन्धरूपतास्थले, तत्र सम्बन्धत्वस्य व्यासज्यवृत्तैस्तदुभयसाधारणत्वात् । अन्यत्र सम्बन्ध- रूपवैशिष्ट्यावच्छिन्नाभाव एव तात्पर्यम् । अतिरिक्तस्य विशिष्टाभावस्योभयाभावस्य च स्वीक- र्तुरयमाशयः, अनुगताकारबुद्धेरनुगतैकविषयत्वे विषयत्वसम्बन्धस्यैकत्रैव कल्पनाल्लाघवमन्यथा- नैकस्य तत्कल्पने गौरवम् प्रतीतिलाघवञ्च वस्तुलाघवादभ्यर्हितम् , तदेकशरणत्वाद्वस्तूनाम् । अन्यथा जात्यवयविसामान्याभावादीनामप्यसिद्धिः स्यात् । एतेन प्रत्येकाद्यभाव एव विशिष्टधर्म्मिद्वित्वाद्य- वच्छिन्नप्रतियोगिताकत्वं कल्प्यं नातिरिक्तोऽभाव इति निरस्तम् । किञ्च द्वयोर्म्मध्य एकस्याभावनि- श्चयेऽपरसत्त्वानिश्चये विशिष्टाभावोभयाभावादिसंशयो न स्यात् । अतिरिक्तस्य तस्य तदभाव- स्य चानिश्चयात् । मास्तु वा संशयप्रतिबध्यप्रतिबन्धकभावानुरोधेनाभ्युपेयः सः, उभयाभावबुद्धि- प्रतिबध्यतावच्छेदकस्य वक्तुमशक्यत्वात् । प्रत्येकधर्म्मावच्छिन्नाभावबुद्धित्वेन तथात्वेऽनेकप्रतिव- ध्यत्वापत्तेः । तत्प्रतिबध्यत्वस्य प्रत्येकधर्म्मावच्छिन्नप्रतिबध्यत्वानतिरिक्तत्वे प्रत्येकधर्म्मावच्छि- न्नबुद्धौ उभयाभावबुद्ध्यनपत्तेः । प्रतियोगितासम्बन्धेनोभयविशिष्टाभावबुद्धित्वेन तथात्वे ह्यप्रसि- द्धिः । उभयाभावबुद्धेर्नियमेन भ्रमत्वापत्तिश्च । घटत्वाद्यवच्छिन्नप्रतियोगिताकत्वस्य तत्संसर्गत्वास- म्भवात् । उभयधर्म्मावच्छिन्नप्रतियोगिताकत्वस्य प्रत्येकाभावे स्वीकारे स्वीकृतमतिरिक्तं प्रतियोगि- त्वम् । विवादोऽपि तत्रैव अनुगमस्यापि च सम्भवेनाभिलषितसिद्धिश्च घटत्वपटत्वयोरेवास्त्वव- च्छेदकत्वं द्वित्वस्य नेति न वाच्यम् । प्रतियोगिकोटौ द्वित्वमनवगाह्य तादृशाभावांप्रत्ययात् । विनि- गमकाभावेन तस्याप्यभ्युपेयत्वात् । लाघवमपि तत्रैव यत्र तद्विनापि प्रतीतिर्यथा प्रमेयत्वं विनापि वह्निर्नास्तीतिबुद्धिरित्याद्युह्यम् ॥०॥ सम्बन्धान्तरं विना विशिष्टप्रत्ययजननयोग्यत्वस्य

प्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । ११५ प्रकाशः । बन्धकोत्तम्भकसद्भावे तदुभयाभावे वाऽविशिष्टत्वात् । ननु उत्तम्भकप्रयोगे मणेरभावो न प्रागभावप्रध्वंसात्मा । तयोः प्रतियोगिसमानकालत्वात् । न चोत्तम्भकाभावप्रध्वंसप्रयुक्तेनोत्तम्भकाभाववत्त्वेन मणेर्ध्वंस एवेति वाच्यम् । क्षणभङ्गापत्ते- रुक्तत्वात् । ध्वंसस्यानन्तत्वेनोत्तम्भकापनयेऽपि दाहप्रसङ्गाच्च । नाप्यत्यन्ताभावः । कादाचित्क- त्वात् । न च विशेषणाद्यभावप्रत्यासत्तिकादाचित्कत्वात् कादाचित्कप्रतीतिकार्यानुदयाविति वाच्यम् । प्रत्यासत्तितावच्छेदकानुगतधर्माभावात् । विशिष्टविरोधित्वस्य च निरस्तत्वात् । मण्यादेः स्वाव- यववृत्तितया करादौ तदत्यन्ताभावस्य सदातनत्वात् । मणिसमवधानेऽपि दाहापत्तेश्च । मैवम् । क्लृप्तसंसर्गाभावत्रयवैधर्म्येऽप्यबाधिप्रतीतेस्तुरीयस्यैव तस्य सिद्धेः । क्लृप्तविशेषबाधतः सामा- न्यबाधे क्लृप्तानादिसंसर्गाभाववैधर्म्याद् ध्वंसस्याप्यसिद्ध्यापत्तेः । अबाधितसामान्यबुद्धेर्विशेषा- प्रकाशिका । व्यासज्यवृत्तितया तदवच्छिन्नाभावः प्रत्येकाभावेऽप्यस्तीति । प्रध्वंसप्रयुक्त इति । तद्व्यापक इत्यर्थो न तुतज्जनित इति समानकालत्वादित्यवधेयम् । क्षणभङ्गेति । इदमापाततो वस्तुतो निमि- तेतरकारणनाशस्य द्रव्यनाशकत्वात् प्रकृते च तदभावान्न मणिनाश इति तात्पर्यम् । प्रत्या- सत्तिश्चेति । तत्स्वीकारे वा तदेव कारणतावच्छेदकं (१) प्रतीतिविषयतावच्छेदकं चेति किम- तिरिक्तविशिष्टाभावेनेति भावः । मकरन्दः । हितस्वरूपद्वयात्मकत्वे उक्तदोषतादवस्थ्यमिति चिन्त्यम् । नन्विति । यद्यपि सम्बन्धाभावस्य सिद्धान्तितत्वान्मण्याभावमादाय शङ्का न युक्ता, तथापि विशेषणावच्छिन्नविशेष्याभाव एव विशिष्टाभाव इति तात्पर्यविषयीभूत मते निर्भरतया तदभिप्रायेण शङ्केयमिति बोध्यम् । प्रत्यासत्तिश्चेति । भावे वा विशेषणाभावादेव तेन रूपेण हेतुत्वम- स्त्विति भावः । तन्मताभिप्रायेणैव सिद्धान्तमाह । क्लृप्तेति । प्रकृते स्वरूपसंबन्धतया मणेरेव तत्संबन्धरूपत्वात्तदादाय शङ्कादिकमित्यप्याहुः । क्लृप्तैर्नवोपपत्तावक्लृप्तरूपकल्पने गौरवादित्य- टिप्पणी । स्वरूपसम्बन्धत्वादिति । तादृशयोग्यत्वालङ्गितस्वरूपस्येत्यर्थः । योग्यत्वस्य निरूपयि- तुमशक्यत्वाद् व्यासज्यवृत्तिविशिष्टप्रत्ययविषयत्वं सम्बन्धत्वं तयोः स्वीकृत्य तदवच्छिन्नप्रतियो- गिताकोऽयमभावः । वैशिष्ट्यावच्छिन्नविशेष्यनिष्ठप्रतियोगिताकोऽयमभावः स्वीक्रियत इत्यत्र ता- त्पर्य्यम् । तेन मण्यभावविकल्पविषयकस्य ननूत्तेजकेत्याद्युत्तरग्रन्थस्य नासङ्गतिः । सम्बन्धाभावे तस्योत्थानासम्भवात् । अत एव तदुभयसम्बन्धस्य भूतलादावभावेन दण्डिपुरुषसत्त्वेऽपि दण्डी- पुरुषो नास्तीति प्रत्ययप्रसङ्ग इति शङ्का सुसमाहिता । अन्यथावच्छेदकत्वसम्बन्धावच्छिन्नप्रति- योगिताकोऽभावो वाच्यः । कालिकेन कार्यावच्छेदकदेशावच्छिन्नकार्यहेतुत्वं वा तस्य वाच्यम् । अवच्छेदकत्वस्यैव तन्नियामकत्वन्न, अवच्छेदकत्वञ्चेह गृहे भूतले वा दण्डपुरुषयोः सम्बन्धो न सर्वत्रेत्यनुभवसिद्ध इत्येव समाधेयं स्यादिति ॥०॥ नचोत्तम्भकाभावप्रध्वंसप्रयुक्तेनेति । उत्पत्तिविनाशशालितुरीयाभावाभिप्रायेण प्रागभावाभिप्रायेण वा ॥०॥ न च विशेषणाद्यभावप्रत्या- सत्तीति । विशेषणाभावरूपविशिष्टात्यन्ताभावरूपा प्रत्यासत्तीत्यर्थः । कादाचित्कत्वात् । कादाचित्कत्वप्रतीतीतिविशिष्टात्यन्ताभावकादाचित्केत्यर्थः । प्रत्यासत्तितावच्छेदकानुगत- ( १ ) तत्तत्प्रतीतिविषयप्रतियोगितावच्छेदकमित्यर्थः ।

११६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१० कारिकाव्याख्यायां

केवलप्रतिबन्धकाभावोऽविशिष्ट इत्यवधार्यताम्। अथैवम्भूतसामग्रीत्रयमेव किं नेष्यते ? कार्यस्य तद्व्यभिचारात् । जातिभेदकल्पनायाश्च प्रमाणाभावात् । यथो- क्तेनैवोपपत्तेः । भावे वा काममसावस्तु, का नो हानिः। प्राक्प्रध्वंसविकल्पोऽपि नानियतहेतुकत्वापादकः, यस्मिन् सति कार्यं न जायते तस्मिन्नसत्येव जायत

बोधनी । च प्रतिबन्धकोत्तम्भकसद्भावे विशिष्टाभावः प्रतिपाद्यः निदर्शनत्वेनेतरयोरुपादानमिति । प्रकृतं विधात्रयमवलम्ब्य चोदयति-अथ-इति । केवलोत्तम्भकवती काचित् सामग्री, अन्या तु प्रति- बन्धकोत्तम्भकवती, द्वयाभाववती चान्येति सामग्रीत्रयं कार्यस्यास्तु किमिति सर्वत्रैकरूप्यं प्रया- सेन साध्यत इति । परिहरति-कार्यस्य-इति । एकैकव्यतिरेकेऽपि कार्योत्पत्तेस्त्रयाणामप्यकार- णत्वप्रसङ्गादिति । तृणारणिमणिन्यायामाशङ्क्याह-जाति-इति । ननु सामग्रीभेद एव तत्र प्रमाणमस्तीत्यत आह-भाव-इति । एवं सामान्यव्यभिचारं परिहृत्य प्राक्प्रध्वंसादिविशेषव्यभि- चारं परिहरति-प्राक्-इति । कुत इत्यत आह-यस्मिन्-इति । यस्मिन् केवलप्रतिबन्धके

प्रकाशः । न्तरमादाय पर्यवसानमिति तु तुल्यम् । यद्वा इह भूतले घटो नास्तीतिवत् संसर्गावच्छिन्नप्रतियो- गिकाभावविशेषस्य सति प्रतिबन्धके तत्राभावः । स च समयावच्छेदेन संसर्गितयाऽत्यन्ता- भाव एव । तादृशश्च मण्याद्यभावो घटाभाव इव भूतले करेऽपि वर्त्तते । नचैवं प्रागभावप्रध्वंसयो- रप्यसिद्धिरत्यन्ताभावेनैव कालभेदात् कपाले घटो नास्तीति तज्जन्यबुद्ध्युपपत्तेरिति वाच्यम् । अत्यन्ताभावस्य घटसत्त्वकालेऽपि सत्त्वात्तदापि घटो भविष्यतीति घटसत्त्वविरोधिबुद्ध्यापत्तेः, प्रतियोगिसत्त्वविरोध्यभावस्वीकारात् । न च मणिसंयुक्तकरेऽपि तत्संयोगात्यन्ताभावोऽस्त्येव तस्यान्याप्यवृत्तित्वादिति तत्रापि दाहापत्तिः । समानाधिकरणप्रतियोगिसत्त्वविरोधिनस्तस्य हेतु- त्वात् । प्रहरं मा दहेत्यत्र सावधिमन्त्रपाठे तु मन्त्रनाशेऽप्युद्देश्यत्वज्ञानाहितसंस्कारविषयकाल- स्य प्रतिबन्धकत्वमिति । अथेति । विशेषणाभावत्रयघटितं सामग्रीत्रयमेव दाहहेतुरस्तु, कि- मनुगतेन विशिष्टाभावेनेत्यर्थः । कार्यस्येति । अन्योन्यव्यभिचारेणान्वयव्यतिरेकयोरशक्यग्रह- त्वादित्यर्थः । ननु तत्तत्कारणप्रयोज्यो दाहे जातिभेद इति न व्यभिचार इत्यत आह । जाति- भेद इति । दाहे वैजात्यस्य योग्यानुपलब्धिबाधितत्वाद् योग्यव्यक्तौ चायोग्यजात्यभावादि- त्यर्थः । ननु तृणादिजन्याग्निविच कारणभेदव्यङ्ग्यो जातिभेदः स्यादित्यत आह । यथोक्तेने- ति । गौरवादिति भावः । तत्सत्त्वेऽपि न सिद्धान्तक्षतिरित्याह । भावे वेति । विशेषव्यभि- चारमपाकरोति । प्रागिति । प्रतिबन्धकसंसर्गाभावस्त्वस्योपाधेरनुगतानतिप्रसक्तस्य स- त्वादित्यर्थः ।

प्रकाशिका । ; विचित्रभावकल्पनागौरवादाह यद्वेति । संयोगावच्छिन्नकालविशेषसंसर्गी चेत्यर्थः । तेन समवायसम्बन्धावच्छिन्नात्यन्ताभावमादाय यत्पूर्व दूषणमाशङ्कितं तदपि निरस्तम् । विशेषव्य-

मकरन्दः । नुशयेनाह । यद्वेति । नचोभयपक्षेऽपि संसर्गाभावत्वेन तद्धेतुत्वमिति सिद्धान्तोऽनुपपन्नः । प्राग- भावादेर्विशिष्टाभावत्वाभावादत्यन्ताभावत्वादिनैव तथात्वादिति वाच्यम् । यत्र प्रतिबन्धक उत्ते- जकमप्रसिद्धं तदभावे विशिष्टाभावत्वाभावेन तथात्वसम्भवादिति भावः । समानाधिकरणेति । प्रतियोगिवैयधिकरण्यावच्छिन्नस्येत्यर्थः । उद्देश्यत्वज्ञानाहितेति । एतच्चानुमानप्रकाशे प्रपञ्चितम् ।

प्रथमस्तवके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । ११७ इत्यत्र संसर्गाभावमात्रस्यैव प्रयोजकत्वात् । यस्तु संसर्गाभावतादात्म्यनिषेधयोर्विशेषमनाकलयन्नितरेतराभावेन प्रत्य- वतिष्ठते, स प्रतिबोधनीयः । तथाप्यभावेषु जातेरभावात् कथं त्रयाणामुपग्रहः स्यात्, अनुपगृहीतानाञ्च कथं कारणत्वावधारणमिति चेत् । मा भूज्जातिः । न बोधनी । सति संसर्गिणि कार्यं न जायते तस्मिन्नसत्यसंसर्गिणि जायत इत्यभ्युपगमे संसर्गाभाव एक एव कारणम् । प्रागभावादयस्तु तद्विशेषा इति नानियतहेतुकत्वमिति । ननु संसर्गाभावः कारणमित्यु- क्तेऽपि संसर्गप्राक्प्रध्वंसादिविकल्पेनानियतहेतुकत्वं, तत्रापि संसर्गाभावस्वीकारेऽनवस्थेति चेत्, न । न ह्यत्र संसर्गस्याभावः कारणं यतो विकल्प्येत, किन्तु संसृज्यमानस्य मन्त्रादेः । न हि संसर्गः प्रतिबन्धकः संसृज्यमानस्यैव मन्त्रादेस्तथात्वादिति । यत्तूक्तमितरेतराभावस्य सत्त्वेऽपि कार्यानुदयादिति तत्र प्रथमव्याख्यानेन यानुपपत्तिरुक्ता तां निराचष्टे-यस्तु-इति । प्रतिबोधनीयः=,तादात्म्याभावविलक्षणं संसर्गाभावम् । तद्द्विविधो ह्यभावः-इदमिह इदानीं वा नास्तीति संसर्गतया यत्र प्रतियोगी निषिध्यते स संसर्गाभावः । तत्र संसर्गाभावभेदाः प्रागभावप्रध्वंसात्यन्ताभावाः, तेषामेव संसर्गितामापन्नप्रतियोगिनिरूप्यत्वात् तत- श्चैतरेतराभावस्याप्रसक्तिरिति । नन्वस्तु तादात्म्याभावसंसर्गाभावयोर्विशेषः, तथापि प्रागभावा- दित्रयानुगतायास्तादात्म्याभावव्यावृत्ताया जातेरभावात् कथं त्रयाणामुपसंग्रहः, कथं वा तदनुप- संग्रहे व्यभिचाराच्छक्यावधारणं कारणत्वमित्याह-तथापि-इति । विनापि जातिमेकोपाध्युप- गृहीतानां त्रयाणां कारणत्वमवधारयामः, उपाधिश्चात्र संसर्गितापन्नप्रतियोगिनिरूप्यत्वमित्याशय- वानाह-मा भूत्-इति । तथापि न तावन्मात्रेण कारणत्वं शक्यावधारणमिति चेत् । न, भवतो- प्रकाशः । नन्वन्योन्याभावव्यावृत्तस्य संसर्गाभावत्वस्योपाधेरभावात् । प्रतिबन्धकसत्त्वेपि तदन्योन्या- भावात् कार्यं स्यादित्यत आह— यस्त्विति । प्रतिबोधनीयः = प्रतिबन्द्या बोधनीय इत्यर्थः । तथाहि अन्वयव्यतिरेका- भ्यां व्याप्तिकारणत्वयोर्ग्रहे मीमांसकैरपि संसर्गाभावस्य कारणत्वाङ्गीकारः । अन्यथा व्यापकसा- मग्र्योः सत्त्वेऽपि तदन्योन्याभावाद् व्याप्यकार्याभावापत्तेः । तथापि प्रतिबन्धकाभावेऽपि शक्ति- रस्तीति प्रतिबन्धकसत्त्वे तदन्योन्याभावमादाय शक्तिसत्त्वप्रसङ्गश्चेति भावः । मा भूदिति । प्रकाशिका । भिचारमिति । यद्यपि विशिष्टाभावस्य सर्वत्रात्यन्ताभावतया नोक्तव्यभिचारशङ्का, अत एव संस- र्गाभावत्वेन कारणत्वमिति सिद्धान्तोऽप्युपपन्नः । तथाप्युत्तेजकशून्यप्रतिबन्धकस्थलाभिप्रायेण शङ्का सिद्धान्तौ । नच तदसम्भवः । रूपादैः सजातीयप्रतिबन्धकतायामुत्तेजकाभावात् । नच तत्र समा- नाधिकरणरूपत्वेन प्रतिबन्धकतेति तदत्यन्ताभावस्याकारणतया संसर्गाभावत्वेनाहेतुत्वात्कथं सिद्धान्तसङ्गतिरिति वाच्यम् । लाघवेन रूपत्वेनैव प्रतिबन्धकत्वात् संसर्गाभावपदस्य कादाचित्का- भावपरत्वाद् वा । व्याप्यकार्याभावेति । न चान्योन्याभावमादायेष्टापत्तिरिति वाच्यम् । व्य- मकरन्दः । व्याप्यकार्येति । नचान्योन्याभावमादायेष्टापत्तिरिति वाच्यम् । तथा सति व्यभिचारि- णोऽपि तथात्वपत्तेः । प्रतिबन्धकाभावे इति सति सप्तमी । बह्नादाविति शेषः । संसर्गाभावलक्षणमनुमानप्र- काशे द्रष्टव्यम् ।

११८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१० कारिकाव्याख्यायां हि तदुपगृहीतानामेव व्यवहाराङ्गत्वम्। सर्वत्रोपाधिमद्व्यवहारविलोपप्रसङ्गात्। एतेन प्रतिबन्धके सत्यपि तज्जातीयान्यस्याभावसम्भवात् कार्योत्पादप्रसङ्गोऽनु- त्पादे वा ततोऽप्यधिकं किञ्चिदपेक्षणीयमस्तीति निरस्तम्। यथा हि तज्जातीये सति कार्यं जायतेऽर्थादसति न जायत इति स्थिते तद्भावेऽपि तज्जातीयान्तरा- भावान्न भवितव्यं कार्येणेति न, तथैतदपि। अनुकूलवत् प्रतिकूलेऽपि सति त- ज्जातीयान्तराभावानामकिञ्चित्करत्वादिति। यत्त्वकिञ्चित्करस्येति। तदप्यसत्। बोधनी। ऽपि बीजे सत्यङ्कुरो जायते तदभावे तु न जायते इत्यत्र व्यतिरेकादौ यदि बीजप्राग्भावो विव- क्षितः प्रध्वंसे जायेत, अथ प्रध्वंसं इतरत्र जायेतेत्यादिप्रसङ्गः, बीजाभावमात्रविवक्षायां तादात्म्या- भावेऽप्यङ्कुरानुदयप्रसङ्ग इत्यभिहिते च तादात्म्याभावव्यावृत्तस्य प्राग्भावादित्रयानुगतस्य च सं- सर्गाभावत्वस्याङ्गीकार एव परिहार इति इतरेतराभावस्य सत्त्वेऽपीत्यत्र द्वितीयव्याख्यानोक्ता- मनुपपत्तिमनुभाष्य दूषयति। एतेन-इति। प्रतिबन्धके सति कार्यं न जायते तस्मिन्नसति जायत इति प्रतिपादिते कथमनेनैतन्निरस्तमित्यत्रातिदेशमेव भावकारणवादसाम्येन विशदयति- यथा हि-इति। बीजजातीये सत्यङ्कुरोत्पत्तिरित्युक्तेऽर्थात्तदभावे तदनुत्पत्तिरिति सिद्धे एक- स्मिन् बीजे सति बीजजातीयान्तराणामभावादङ्कुराख्येन कार्येण न भवितव्यमिति न प्राप्नोति तथैतदपि। प्रतिबन्धके सति कार्यानुदयस्तदभावे सति कार्योदय इत्यत्रापि एकस्मिन् प्रतिबन्धके सति सजातीयान्तराणामभावाद् भवितव्यं कार्येणेत्येतदपि न प्राप्नोतीति। कुत इत्यत आह- अनुकूलवत्-इति। कार्यानुकूले कारणे सति यथा तज्जातीयान्तराणामभावो न तस्य कार्यं निषेधति तथा प्रतिकूलेऽपि कस्मिंश्चित् प्रतिबन्धके सति प्रतिबन्धकान्तराभावेऽपि न कार्यं वि- धत्ते अकिञ्चित्करत्वं निषेधे विधौ चेति द्रष्टव्यम्। अथ प्रतिबन्धकत्वान्यथानुपपत्तिं दूषयितुं प्रती- केनानुभाषते-यत्तु-इति। सङ्ग्रहं व्याचक्षाणो दूषयति-तदपि-इति। पूर्वार्थापत्तिसमुच्चयेऽपि सामग्रीवैकल्यं सामग्र्यन्तर्भूतानामन्यतमस्य विगमः प्रतिबन्धकः। उभयवादिसिद्धिप्रदर्शनार्थो प्रकाशः। जात्यभावेऽपि संसर्गाभावत्वरूपैकोपाधिनैव कारणत्वमित्यर्थः। न च तद् निर्वक्तुमशक्यम्। अधिकरणे प्रतियोगिनमारोप्य यत्र निषेधबुद्धिस्तत्र संसर्गाभावो, यत्र तु प्रतियोगितावच्छेदक- मारोप्य निषेधधीस्तत्र सोऽन्योन्याभाव इत्यस्मद्गुरवः। ननु प्रतिबन्धकाभावो न हेतुः। एकदण्डान्वये घटोत्पत्तिवदेकप्रतिबन्धकसत्त्वेऽपि तद- न्याभावात् कार्योत्पत्त्यापत्तेः। न हि यावत्कारणतावच्छिन्नं तावदन्वये कार्यमित्यत आह। एतेनेति। अभावकारणत्वाङ्गीकारेण। यथा बीजजातीये सत्यपि बीजान्तराणामभावादङ्कुरेण न भाव्यमित्ययुक्तं, तथैदमपीत्यर्थः। प्रतिबन्धकतावच्छिन्नप्रतियोगिताकः प्रतिबन्धक- सामान्याभावः कारणम्। स च यावद्विशेषाभावनियत इति नैकप्रतिबन्धकसत्त्वे तदन्या- भावात् कार्योत्पत्तिः। यद्वा, प्रतिबन्धकाभावत्वेन न कारणत्वम्। अन्योन्याश्रयात्। प्रकाशिका। भिचारिणोऽपि तमादाय तथासति नियतत्वापत्तेः। प्रतिबन्धकाभाव इति सति सप्तमी वह्न्यादाविति- शेषः। अधिकरण इति। यद्यप्यधिकरणे प्रतियोगी संसर्गाभावप्रतीतौ नारोप्यो न वा प्रतियोगि- तावच्छेदकमारोप्यमन्योन्याभावप्रतीतावधिकरणे किन्तु भूतलेवृत्तित्वं घटे प्रथमप्रतीतौ प्रतियोगी- न्वाधिकरणे तादात्म्येन द्वितीयप्रतीतौ, तथापि प्रतियोगिसंसर्गतादात्म्ययोरधिकरणे संसर्गविधया

प्रथमस्तवके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । ११६ सामग्रीवैकल्यं प्रतिबन्धपदार्थो मुख्यः, स चात्र मन्त्रादिरेव, न त्वसौ प्रति- बन्धकः । ततः किं तस्याकिञ्चित्करत्वेन । तत्प्रयोक्तारस्तु प्रतिबन्धाः । ते च किञ्चित्करा एवेति किमसञ्जसम् । ये तु व्युत्पादयन्ति, कार्यानुत्पाद एव प्रतिबन्ध इति । तैः प्रतिबन्धमकुर्वन्त एव प्रतिबन्धका इत्युक्तं भवति। तथाहि, कार्यस्यानुत्पादः प्रागभावो वा स्यात् , तस्य कालान्तरप्राप्तिर्वा ? न पूर्वः तस्यानुत्पाद्यत्वात् । न द्वितीयः, कालस्य बोधनी । मुख्यशब्दः । स च प्रतिबन्धोऽत्राभावकारणत्वस्थितौ मन्त्रादिरेव स्यात् , अभावाभावस्य भा- वात्मकत्वात् । न त्वसौ मन्त्रादिः प्रतिबन्धकः । अतो मन्त्रादेरकिञ्चित्करत्वेऽपि न प्रतिबन्ध- कस्याकिञ्चित्करत्वं भवति प्रतिबन्धकस्य किञ्चित्करापेक्षायामनवस्थाप्रसङ्गात् प्रतिबन्धकत्वप्रसङ्गा- च्चेति । के तर्हि प्रतिबन्धका इत्यत्राह-तत्प्रयोक्तारः-इति । मन्त्रादिप्रयोक्तारः पुरुषाः प्रति- बन्धकाः, ते च मन्त्रादीन् प्रयुञ्जानाः किञ्चित्करा एवेति नानुपपद्यमानं किञ्चिदस्तीति । कार्यानुत्पादः प्रतिबन्धः, तं च कुर्वन्तो मन्त्रादयः प्रतिबन्धका इत्येकदेशीनां मतमुपन्यस्य निरस्यति-ये तु-इति । तस्य कालान्तरप्राप्तिरिति सामग्रीसमवधाने हि कार्यस्य प्रागभावो वि- नश्यति । सति तु प्रतिबन्धके पश्चात्तनमपि काले व्याप्नोति । तेन प्रागभावस्य पाश्चात्यकालप्राप्तिः प्रतिबन्धकाधीनेति । तस्यानुत्पाद्यत्वाद् इति । प्रागभावस्यानादित्वेनानुत्पाद्यत्वादिति । कालस्य स्वरूपत-इति । मुख्यतस्तावत् कालस्यैकत्वात् कालान्तरमिति न संभ- प्रकाशः । कारणीभूताभावप्रतियोगित्वस्य प्रतिबन्धकत्वात् । किन्तु मण्याद्यभावकूटस्य । स च तत्र नास्त्येवेति भावः । मुख्य इति । प्रतिबन्धपदस्य सामग्र्यन्तर्गतकारणविगमार्थत्वादित्यर्थः । ये त्विति । तथाच कार्यानुत्पादहेतुतया मन्त्रादिरेव प्रतिबन्धक इत्यस्त्वित्यर्थः । काल- स्येति । कालप्रागभावस्वरूपातिरिक्तायास्तत्प्राप्तेरभावात् , स्वरूपस्य च तदजन्यत्वादित्यर्थः । प्रकाशिका । कारणीभूतप्रतीतौ विषयत्वं लक्षणप्रविष्टम् । कारणीभूतेति । न च मण्याद्यभावत्वेनोपस्थितानां कारणताग्रहे कारणीभूताभावप्रतियोगित्वरूपप्रतिबन्धकत्वग्रहे प्रतिबन्धकाभावत्वेन कारणताग्रहा- दन्योन्याश्रय इति वाच्यम् । प्रथमोपस्थितमण्यभावत्वादेरेव बाधकाभावेऽवच्छेदकत्वग्रहात् । उत्तेजकस्य मण्यादौ भिन्नभिन्नात्मकत्वेन विशिष्टाभावहेतुतायामेतस्य प्रकारस्याभावाच्च । एतेन कार्यानुत्पादप्रयोजकत्वमेव प्रतिबन्धकत्वं तदवच्छिन्नाभावत्वेनैव च हेतुत्वमिति नान्योन्याश्रय इति निरस्तम् । अनुपदमेवानुत्पादजनकत्वस्य मूलकृता दूष्यत्वाच्च । मण्याद्यभावेति । मणित्वाश्र- ययावदभावकूटस्य मन्त्रत्वाश्रययावदभावकूटस्य चेत्यर्थः । न तु मणिसामान्याभावस्य मन्त्रसा- मान्याभावस्य चेत्यर्थः । उत्तेजकशून्यतापक्षे प्रागभावादिरूपतयाऽसम्भवात् । उत्तेजकतापक्षे च भिन्नभिन्नोत्तेजकत्वेनासम्भवात् , यस्य त्वेकजातीयस्य प्रतिबन्धकस्य एकजातीयमेवोत्तेजकं तत्रास्तु सामान्याभावस्य कारणत्वमिति तत्रैव ग्रन्थतात्पर्यम् । मकरन्दः । कारणीभूतेति । न च कार्यानुत्पादजनकत्वं तदिति नान्योन्याश्रय इति वाच्यम् । तस्यानु- पदमेव दूष्यत्वादिति भावः । मण्यादीति । मणिमन्त्रादिसामान्याभावकूट इत्यर्थः । यद्यपि तत्तन्मण्यत्यन्ताभावकूटस्यापि हेतुतया न क्षतिस्तथापि मणित्वावच्छिन्नप्रतियोगिकसामान्याभाव- स्यैकत्वेन लघुत्वाद्धेतुत्वमिति मन्तव्यम् ।

१२० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १० कारिकाव्याख्यायां स्वरूपतोऽभेदात् । तदुपाधेस्तु मन्त्रमन्तरेणापि स्वकारणाधीनत्वात् । प्राग्भा- वावच्छेदककालोपाधिस्तदपेक्ष इति चेन्न । मन्त्रात् पूर्वमपि तस्य भावात् । तस्मा- त् सामग्रीतत्कार्ययोः पौर्वापर्यनियमात्तदभावयोरपि पूर्वापरभाव उपचर्यते । वस्तुतस्तु तुल्यकालत्वमेवेति नायं पन्थाः । बोधनी । वति यत्प्राप्तिर्मन्त्रायधीना भवेदिति । नन्वौपाधिककालभेदप्राप्तिर्मन्त्रायधीना स्यादित्याशङ्कयाह- तदुपाधेः-इति । अत्र हि पक्षे कालान्तरप्राप्तिर्नाभावच्छेदकोपाध्यन्तरप्राप्तिरित्यवशिष्यते । तत्र कालोपाधिः सूर्यगत्यादिर्मन्त्रमन्तरेणापि स्वकारणाधीनः, तत्प्राप्तिश्च प्रागभावस्यानुत्पाद्यत्वेन स्वयमेव सिद्धेति किमत्र मन्त्रादिना क्रियत इति । ननु कालमात्रभेदोपाधेर्मन्त्रानपेक्षत्वेऽपि प्रा- गभावव्यवच्छेदककालान्तरोपाधिर्मन्त्रादिकमपेक्षते । न हि सूर्यगत्यादिमात्रभेदितः कालः प्राग्- भावं व्यवच्छिनत्ति कार्योत्पत्त्युत्तरकालमपि तस्य भावादित्याह- प्राग्भाव-इति । अस्ति हि मन्त्रादेः पूर्वमपि प्राग्भावावच्छेदककालोपाधिः, यदि पूर्वमपि प्राग्भावस्तदवच्छेदकश्च काल- स्तदुपाधिश्च कश्चिन्न स्यात् तर्हि तदानीं प्राग्भावव्यवहारो न स्यादिति । यद्यनादित्वात् कार्यप्रा- गभावो नोत्पाद्यः कथं तर्हि कारणाभावात् कार्याभाव इति कार्यकारणभावयोः कार्यकार- णभावव्यवहारः । कालभेदे व्यपदेशश्च लौकिकानामिति शङ्कामुपपादयन्नाह-तस्मात्-इति । प्रागभावस्या- नुत्पाद्यत्वादौपचारिकः प्रयोग इत्यर्थः । अथोपपादितं कार्यानुत्पादस्याप्रतिबन्धकत्वमुपसंहरति - इति-इति । कार्यानुत्पादविपरीतः प्रतिबन्ध इत्ययं न प्रतिबन्धत्वोपपादनमार्गः किन्तु पूर्वोप- प्रकाशः । प्राग्भावावच्छेदकेत्यत्र कर्मधारयः । कालोपाधिमात्रस्य मन्त्रायजन्यत्वेऽपीति शेषः । लोके कारणाभावात् कार्याभाव इति हेतुपञ्चमीप्रयोग औपचारिक इत्याह-तस्मादिति । मुरारिमिश्रास्तु-न प्रतिबन्धकाभावः कारणं, न वा शक्तिः, किन्तु तत्तत्कालीनदाहविशेषं प्रति तत्तत्कालप्रतिबद्धेतरवह्नेः कारणत्वमिति प्रतिबन्धकाभावः कारणतावच्छेदको दण्डत्ववत् , न कारणम् । आकाशादौ त्वेकव्यक्तिके कचित् प्रतिबन्धेऽप्यन्यत्र शब्दोत्पत्तेरतथात्वेऽपि भेर्यादेरेव तथात्वेन कारणत्वमित्याहुः । तन्न । दण्डसंयुक्तचक्रत्वेन कारणत्वे सहकार्य्युच्छेदापत्तेः । अन्वयव्यतिरेकतौल्येनोभयस्या- पि हेतुत्वं विनिगमकाभावादित्यस्यापि तुल्यत्वात् । यद्धर्मवत्त्वमवगम्यैव यत्र यदवगमस्तत्र तस्य तदवच्छेदकत्वात् । प्रतिबन्धकाभावमनवग- प्रकाशिका । प्राग्भावावच्छेदकोऽन्यः कालोपाधिर्नास्त्येवेत्यत आह। कर्मधारय इति । तथा च प्राग्भा- वाच्छेदककालोपाधिरित्यर्थः । यद्वा प्राग्भावावच्छेदकस्य कालोपाधिरिति निरासायाह । कर्मधा- रय इति । प्राग्भावावच्छेदकपवस्य कालोपाधिपदेन सममित्यर्थः । औपचारिक इति । कार- णकार्ययोरेव पौर्वापर्यं परम्परासम्बन्धेनाभावनिष्ठत्वेन विवक्षितमित्यौपचारिकत्वं न तु लाक्षणिकत्वं सुब्विभक्तौ तदभावादिति ध्येयम् । भेर्यादेरिति । अतद्गुणसंविज्ञानबहुव्रीहिणा भेरीसंयोगादे- रित्यर्थः । यद्धर्मवत्त्वमिति । न चैवं दृढदण्डत्वमपि सहकारि स्यात् तदनवगम्यापि दण्डत्वेन हेतोरग्रहादिति वाच्यम् । तस्य दण्डद्वारा चक्रादिसमवधानात् । इह तु तुल्यवदेवोभयोः सहका- मकरन्दः । यद्धर्मवत्त्वमिति । एवं दृढदण्डत्वमपि सहकारि स्यादित्युक्तमनुमानप्रकाशे द्रष्टव्यम् ।

प्रथमस्तबके ] अपूर्व्वस्य चेतनधर्मत्वाक्षेपः । १२१ न चेदेवं, शक्तिस्वीकारेऽपि कः प्रतीकारः । तथाहि । प्रतिबन्धकेन शक्तिर्वा विनाश्यते तद्धर्म्मो वा, धर्म्मान्तरं वा जन्यते, न जन्यते वा किमपि ? इति प- क्षाः । तत्राकिञ्चित्करस्य प्रतिबन्धकत्वानुपपत्तेः । विपरीतधर्म्मान्तरजनने तद- भावे सत्येव कार्य्यमित्यभावस्य कारणत्वस्वीकारः प्रागभावादिविकल्पावका शश्च । तद्विनाशे तद्धर्म्मविनाशे वा पुनरुत्तम्भकेन तज्जननेऽनियतहेतुकत्वं, पूर्व्वं स्वरूपोत्पादकादिदानीमुत्तम्भकादुत्पत्तेः । न च समानशक्तिकतया तुल्यजा- तीयत्वान्नैवमिति साम्प्रतम् । विजातीयेषु समानशक्तिनिषेधात् । न च प्रतिबन्धक- शक्तिमेवोत्तम्भको विरुणद्धि, न तु भावशक्तिमुत्पादयतीति साम्प्रतम् । तदनुत्पाद- बोधनी । दर्शित एवेति । एवमेकदेशिनं निराकृत्य शक्तिवादिनमेव प्रत्याह-न चेदेवम्-इति । मन्त्रादेः प्रतिबन्धत्वं तत्प्रयोक्तॄणां प्रतिबन्धकत्वमित्यनभ्युपगमे शक्तिस्वीकारेऽपि त्वदुक्तसकलदूषणानां न निस्तार इति प्रतीकाराभावमेव दर्शयितुं यथासम्भवं विकल्पयति-तथा हि-इति । शक्ति- विनाशः प्रतिबन्धः इति प्रथमः कल्पः, यावद्द्रव्यभावित्वाच्छक्तेर्विनाशः तस्यास्तु कार्योदयानुकूल इति द्वितीयः, कार्यप्रतिकूलधर्म्मान्तरजननमिति तृतीयः, अकिञ्चित्करस्यैव प्रतिबन्धकत्वमिति चतुर्थः । अत्राऽऽनन्तर्यादन्तिमं पक्षं दूषयति-तत्र-इति । अतिप्रसङ्गानिर्व्वचनानुपपत्तेश्चेति भावः । तदनन्तरं कल्पं दूषयपि-विपरीत-इति । विपरीतधर्माभावस्य कारणत्वं तावत् प्रस- ज्येत, तत्र च प्रागभावादिविकल्पावकाशः पूर्व्ववदेव स्यादिति । प्रथमद्वितीयकल्पावेकप्रसरेण दूष- यति तद्विनाश-इति । शक्तिद्धर्मयोर्विनाशे सति पुनरुत्तम्भके सति कार्यदर्शनात् तेन तयो- रुत्पत्तिरङ्गीकार्य्या, तथा चानियतहेतुकत्वं, पूर्वं शक्तिमुत्पादकेनेदानीमुत्तम्भकेन तयोरुत्पत्तेरिति । ननु स्वरूपोत्पादकोत्तम्भकयोर्विजातीयत्वेऽप्येकशक्तित्वेन तुल्यत्वे संभवति नानियतहेतुकत्वप्रसक्ति- रित्याशङ्क्याह-न च-इति । कारणमाह-विजातीयेषु इति । प्रवाहोनादिमानेषनविजात्येकश- क्तिमानित्यत्र । ननु नोत्पादकः कारणशक्तिं तद्धर्मं वा जनयति, केवलं स्तम्भकस्य स्तम्भनशक्तिं निरुणद्धि, तेन नानियतहेतुकत्वप्रसङ्ग इत्याग्राह-न च-इति । तदनुत्पादेति । पूर्वं प्रतिबन्धकवि- नष्टयोः शक्तिधर्मयोः पुनरुत्तम्भकेनाजनने तयोरनुत्पाद एव स्यात्, ततश्च कार्यस्याप्यनुत्पादप्र- प्रकाशः । स्यापि वह्नेर्दाहेहेतुत्वावगमात् । अन्यथा शक्तिस्वीकारेऽपि त्वदुक्तदोष इत्याह । न चेदेवमिति तदभावे=विपरीतधर्म्मान्तराभावे । पूर्व्वमिति । "नित्ये नित्यैव सा शक्तिरनित्ये भावहेतुजा" इति पराभ्युपगमादित्यर्थः । विजातीयेष्विति । शक्त्यनुकूलशक्त्यन्तरपरम्पराऽनुसरणेऽनव- स्थानन्वेति भावः । तदनुत्पादेति । प्रतिबन्धकेन वह्निशक्तिनाशादुत्तेजकेन प्रतिबन्धकशक्ति- नाशेऽपि पुनर्वह्नौ शक्तिर्न स्यात् । पूर्व्वस्या नाशादन्यस्याश्च हेतोरभावादित्यर्थः । नन्वमुमानमस्तु शक्तौ मानम् । तथाहि कारणानि स्वजन्यानुकूलादृष्टभावभूतातीन्द्रिय- धर्मवन्ति, कारणत्वात्, आत्मवत् । तत्रादृष्टं तथा सिद्धम् । नचाऽऽत्मत्वमुपाधिः । अन्त्यश- प्रकाशिका । रिसमवधानात् । कारणानीति । एतच्च विप्रतिपत्तिस्थल एव व्याख्यातम् । अन्त्यशब्देति । अधि- मकरन्दः । कारणानीति । तादृशधर्मवत्त्वेना निश्चितानि नित्यकारणानीत्यर्थः । शेषं प्रागेव व्याख्यातम् । [पृ० ११८ पं०५] न भवितव्यं कायेणेति । यथा तन्नाङ्गीक्रियते तथैतदपि नाङ्गीकरणीयम् । तदुक्तौ तदात्मकानिष्ठप्रसङ्गस्तवापि स्यात् । त्वया तत्परिहारे कृते तेनैतदपि परिहृतम्भवेदित्यर्थः १० १६ न्या० कु०

१२२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १० कारिकाव्याख्यायां • प्रकाशः । ब्दध्वंसकारणकालाकाशयोः साध्याव्यापकत्वात्, तत्रान्यशब्दस्यैव तथात्वादिति सामान्यतः । विशिष्य तु, पिण्डोभूतो वह्निः कार्यानुकूलादृष्टातीन्द्रियधर्मसमवायी जनकत्वात् आत्मवत् । न- चात्मत्वं नित्यत्वं वोपाधिः, स्पर्शैकत्वादिमिति द्व्यणुके साध्याव्यापकत्वात् । करवहिसंयोगे वा पक्षः । नचात्मत्वं द्रव्यत्वं वोपाधिः, द्व्यणुकैकत्वस्पर्शादौ साध्याव्यापकत्वात् । मण्यादिसमवहि- प्रकाशिका । करणत्वेन कालादिवादाकाशस्यापि शब्दध्वंसकारणत्वादिति भावः । पिण्डीभूत इति । वह्नि- मात्रपक्षत्वे द्व्यणुकेऽशतः सिद्धसाधनमिति तद्वारणाय पिण्डीभूत इति विशेषणम्-तस्य च प्रत्य- क्षस्पर्शाश्रयत्वमर्थः । कार्यानुकूलत्वं च दाहानुकूलत्वं तदपि ताद्रूप्यसिद्धये, स्थितिस्थापकस्य च वह्नावभावेन व्यावर्तनीयाभावात् । यदि च तत्रापि स्थितिस्थापको मास्तु वा तथापि तमादा- यैवार्थान्तरमिति तद्वारणार्य कार्यानुकूलत्वं विशेषणम् । तदापि दाहानुकूलत्वपरमेव तत् । अ- न्यथा तज्जन्यं कर्मादाय दोषतादवस्थ्यात् अदृष्टवदात्मसंयोगोष्णस्पर्शप्रतिबन्धकाभावैः सिद्ध- साधनवारणायादृष्टेत्यादिविशेषणत्रयम् । न च प्रभाकरमतेऽभावस्याधिकरणत्मकतया समवा- यिपदं व्यर्थमेवेति वाच्यम् । भट्टमतेऽर्थान्तरवारकत्वात् । प्राभाकरमतेऽपि अतिरिक्ताभावसि- द्ध्यैव प्रकृतानुमानपर्यवसानेनार्थान्तरवारकत्वात् । वस्तुतोऽन्वयार्थसम्बन्धवाचकपदोपादाने प्राप्ते समवायिपदस्यैवाखण्डार्थकस्योपादानादिति । द्व्यणुकैकत्वेति । समवायिपदस्य तन्निरूप्य- समवायाश्रयत्वमात्रमर्थ इति द्व्यणुकमादाय साध्यसत्त्वं तत्र द्रष्टव्यम् । मण्यादीति । दाह- जनकवह्नौ हेत्वसिद्धिव्याध्योः वारणाय मण्यादिसमवहित इति । आदिपदात् प्रतिबन्धकाभावेतर- सकलदाहकारणलाभोऽतो न तद्व्यतिरेकमादायांशतः सिद्धसाधनम् । कारणान्तरवर्तिकारणताव- मकरन्दः । पिण्डीभूत इति । कार्यानुकूलत्वं स्वकार्यानुकूलत्वम् । तदपि स्वनिमित्तकारणानुकूलत्वम् । तेन कर्मानुकूलस्थितिस्थापकेन नार्थान्तरम् । कर्मणि तु वह्निः समवायिकारणमिति नोक्तदोषः । वह्नौ स्थितिस्थापकानभ्युपगमे उद्देश्यसिद्ध्यर्थं तदिति ध्येयम् । अदृष्टवदात्मसंयोगोष्णस्पर्शप्रतिब- न्धकाभावादिनाऽर्थान्तरवारणायादृष्टादिपदम् । यद्यपि गुरुमतेऽभावोऽधिको नास्त्येवेति समवा- यिपदं व्यर्थं, तथापि परस्यार्थान्तरं स्यादिति तदुपात्तम् । करवह्नौति । अत्र चादृष्टपदं साध्ये त्याज्यम् । द्व्यणुकैकत्वेति । तत्समवायित्वस्य तन्निरूप्यसमवायाश्रयत्वार्थकतया समवायिद्व्यणुकमादाय तत्र साध्यवत्त्वं बोध्यम् । मण्यादि- समवहित इति । आदिपदात् प्रतिबन्धकाभावेतरसकलदाहकारणमभिमतमिति न तद्व्यतिरेके टिप्पणी । धर्माभावात् इति । विशिष्टाभावस्यातिरिक्तविशेषणाद्यभाव एवाभ्युपगतोऽन्यस्य कादाचित्कत्व- स्वाभावात् । विशेषाणाभावविशेष्याभावनिष्ठप्रत्यासत्तित्वस्येत्यर्थः । तथा च विशेषणाद्यभावसम्ब- न्धेन प्रत्येकेन विशिष्टाभावस्य कारणत्वादिकं वक्तुमशक्यमिति भावः ॥ स्पर्शैकत्वादिमिति- द्व्यणुक इति । त्रसरेणुपरिमाणे द्व्यणुकैकत्वस्य तत्स्पर्शे द्व्यणुकस्पर्शस्य जनकत्वात् तस्य कार्या- नुकूलत्वम् स्वकार्यानुकूलेति विवक्षायां यद्यपि तयोर्न साक्षात् द्व्यणुककार्यत्वं तथापि द्व्यणुक- स्पर्शादिद्वारा तदस्ति । द्व्यणुकैकत्वस्पर्शादौ साध्याव्यापत्वात् इति । वह्नित्रसरेणु- रूपकार्यानुकूलादृष्टातीन्द्रियत्रसरेणुरूपधर्म्मसमवायसम्बन्धित्वरूपस्य साध्यस्यास्ति सत्वन्तत्रेति भावः । वस्तुतस्तु तत्समवायित्वं तन्निरूपितसमवायनिरूपकत्वमेव तथा च त्रसरेणुपरिमाणस्प-

प्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १२३ प्रकाशः । तो वा वह्निर्दाहजनकदशावृत्तिदाहानुकूलभावभूतधर्मशून्यो, दाहजनकत्वात् , दाह्यासयुक्ताग्निवत् । अत्रानुकूलत्वं न स्थितिस्थापकेनार्थान्तरवारणाय, तत्र तदभावात् , क्रियाया वेगेनादृष्टवदात्मसं- योगेन वोत्पत्तेः, किन्तु तथाभूतो धर्मः सिद्धयत्वित्येतदर्थम् , तच्च कारणतावच्छेदकसाधारणं नि- रुक्तम् । अदृष्टवदात्मसंयोगवारणार्थमद्विष्टेति । न च तज्जनकत्वे मानाभावः, कार्यस्यादृष्टजन्यतया व्यधिकरणगुणजन्यत्वात् । तस्य च तत्समानाधिकरणगुणजन्यत्वव्याप्तत्वात् , स्पर्शवद्वेगवद्द्रव्या- प्रकाशिका । च्छेदकीभूतदाहानुकूलधर्मशून्यतामादाय सिद्धसाधनमिति । दाहजनकदशावृत्तीति । दाहज- नकतादशायां वह्निवृत्तीत्यर्थः । तेन शून्यपदात् ध्वंसप्रागभावान्यतरलाभ इति नोक्तदोषः । हेतौ च वह्नित्वं विशेषणमतो नाकाशादौ दाहजनके व्यभिचारः । न च तथापि दाहानुपहितवह्नौ व्य- भिचारः, तत्राप्युष्णस्पर्शप्रागभावसत्त्वात् । न चैवमपि भाविसंयोगान्तरप्रागभावमादाय सिद्धसा- धनमिति वाच्यम् । दाहानुकूलैकै कदाह्यसंयोगाद्याश्रयवन्हेरेव पक्षत्वात् । न च वह्निकर्म्मणः संयोग- द्वारा दाहानुकूलत्वमिति तद्ध्वंसमादाय सिद्धसाधनमिति वाच्यम् । दाह्यकर्मजसंयोगाश्रयवन्हेरेव पक्षत्वात् । केचित्तु शून्यपदं कादाचित्काभावपरं उक्तकर्माभावमादायोक्तदोष इति वृत्तीत्यन्तं विशे- षणम् । कर्म च दाहोपधानकाले नास्तीति नोक्तदोष इत्याहुः । प्रतिबन्धकाभावेनार्थान्तरमिति । भावभूतेति । दाहजनकत्वादिति । तदनुपहितत्वादित्यर्थः । तेन नासिद्धिः । अत्रेति । कार्यानुकूलेत्याद्यनुमान इत्यर्थः । तत्रेति । पृथिव्यामेव तदुपगमादिति भावः । न च स्थिति- स्थापकस्य द्रव्यचतुष्टयवृत्तित्वप्रतिपादकगुणभाष्यविरोधः, तस्य वैशेषिकमतानुसारित्वात् , न्या- यमते तद्विरोधस्याकिञ्चित्करत्वात् । तस्य चेति । अत्र यत् कार्यस्य व्यधिकरणयद्गुणजन्यं तत्कार्यस्य तद्गुणस्य च समानाधिकरणो यो गुणः तज्जन्यमिति व्याप्तिः, तज्जन्यत्वं च तन्निमि- त्तकारणत्वमतो न कपालरूपजन्यघटरूपे व्यभिचारः । तस्य तत्रासमवायिकारणत्वात् । कार्ये च मूर्त्तवृत्तित्वं विशेषणमतो नेश्वरज्ञानजन्यास्मदादिज्ञाने व्यभिचार इति कश्चित् । तन्न । तथापि घ- टादिरूपे व्यभिचारात् , ईश्वरज्ञानजन्यस्य तस्येश्वरघटसंयोगजन्यत्वात् तथासति क्षणद्वयं घट- स्य नीरूपत्वापत्तावपसिद्धान्तात् । तस्मात् कारणत्वं तद्व्यतिरेकप्रयुक्तव्यतिरेकप्रतियोगित्वं विव- क्षितमतो नेश्वरज्ञानमादाय व्यभिचार इति तत्त्वम् । अत्र चोभयसमानाधिकरणसंयोगजत्वं व्यापकमतो न द्वित्वमादायार्थान्तरम् । अत एव च गुरुत्वजन्यपतनक्रियायां व्यभिचारवा- रणाय व्यधिकरणपदम् । न च निमित्तकारणत्वविवक्षयैव तन्निरासः, असमवायिकारणभिन्नत्वं हि प्रकृते निमित्तकारणत्वं तत्र चासमवायिकारणपदेन कारणैकार्थप्रत्यासन्नकारणमात्राभि- धानं तावतैव कपालरूपजन्यघटरूपे व्यभिचारावारणादिति । निमित्तकारणपदेन गुरुत्वजन्य- पतने व्यभिचारवारणात् । न चात्र व्याप्तावप्रयोजकत्वम् अप्रत्यासन्नस्याजनकत्वादिति दिक्। मकरन्दः । णार्थान्तरम् । हेतुसिद्धियाधयोर्वारणाय । मणीति । वह्नौ तादृशात्यन्ताभावेनार्थान्तरप्रसक्तौ नेष्ट- सिद्धिरित्येत आह । वृत्त्यन्तमित्येके । तच्चिन्त्यम् । भावभूतपदेनैव तन्निरासात् । केचित्तु संयोगद्वारा वह्निकर्मणोऽपि दाहानुकूलतया तस्य च पिण्डीभूतवह्याभावाद्यार्थान्तरवारणाय तदिति । तस्य च संयोगानाश्यत्वेन तदानीमभावादित्याहुः । हेतुः फलोपधानाभाव इति नासिद्धिः । दृष्टान्ते दाह्यसंयोगाभाव उभयसिद्धः । तत्रेति । पृथिव्यामेव तदुपगमादिति भावः । न च 'स्थितिस्था- 'पकस्तु चतुर्षु वर्त्तमान'' इतिगुणभाष्यविरोध इतिवाच्यम् । वैशेषिकमते तथात्वादिति भावः । कार्यस्येति । ननु कार्यपदं यदि स्पन्दपरं तदा प्रकृतासङ्गतिः । स्पन्दस्यातथात्वात् । यदि च जन्यमात्रपरं तदा कपालरूपजन्ये घटरूपे व्यभिचार इति चेन्न । यत् कार्यं यदीयगुण-

१२४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१० कारिकाव्याख्यायां प्रकाशः । भिघातजन्यक्रियायां तथा दर्शनात् । उष्णस्पर्शव्यावर्तनायातीन्द्रियेति । तत्त्वं च साक्षात्कारनिया- मकप्रत्यासत्त्यनाश्रयत्वम् । प्रतिबन्धकाभावनिवारणाय भावभूतेति । उच्यते । अनुमानानां विपक्षबाधकाभावेनाप्रयोजकत्वम् । उभयसिद्धप्रतिबन्धकाभावेनैवोप- पत्तेः । न च सहचारदर्शनव्यभिचारादर्शनाभ्यामेव व्याप्तिग्रहः । साध्ये शक्त्यतिरिक्तेति विशेषणा- त्तेनैव हेतुना तत्सिद्धावेवं तत्तदतिरिक्तेतिविशेषणपरम्परातस्तादृशानन्तधर्मसिद्ध्यापत्तेः । न च घट- वत् क्षितिः क्षितिवद्धट इतीश्वरानन्त्यवच्छक्त्यानन्त्यम् कार्यमात्रे नेश्वरत्वेन द्विकर्तृत्वेन वा कार- णता, गौरवात्, किन्तु कर्तृत्वेनेति तदपादकाभावः । प्रतिकूलतर्कप्रतिघातश्च । शक्तेर्भावहेतुत्वे शक्त्यनुकूलाप्यन्या शक्तिरेवं तत्तदनुकूलाऽप्यन्याऽन्येत्यनवस्थापातात् । भावभूतेति च व्यर्थम् । न च व्यापके न व्यर्थविशेषणता व्याप्यताग्राहक इव व्यापकताग्राहकेऽपि लाघवस्य सहकारित्वात् । द्वितीयाद्यनुमानेषु बहिरिन्द्रियाप्रत्यक्षत्वमुपाधिः । तुल्ययोगक्षेमत्वेऽपि सन्दिग्धोपाधित्वात् । प्रकाशिका । नन्वतीन्द्रियत्वं साक्षात्काराविषयत्वं लौकिकसाक्षात्काराविषयत्वं वा, आद्ये न्यायमतेऽप्रसिद्धिः अन्ये परमते व्यावत्र्याप्रसिद्धिरत आह। तत्त्वञ्चेति । संयोगादिष्वन्यतमप्रत्यासत्त्यनाश्रयत्व- मित्यर्थः । यद्वा साक्षात्कारपदं विषयजन्यज्ञानपरम्, विशिष्टाभावतया च न व्यर्थविशेषणता, उभयेति । भट्टमतेऽभावस्यातीन्द्रियत्वाभिप्रायेणातीन्द्रियप्रतिबन्धकप्रतियोगिकाभावाभिप्रायेण वा इदमुक्तम् । वस्तुतो भावभूतपदवदतीन्द्रियपदमपि व्यापके गौरवेण त्याज्यमेवेत्यभिप्रा- येणैवेदम् । कारणमात्रपक्षकानुमान उपाधिव्यतिरेकस्य न सत्प्रतिपक्षोत्थापकत्वं भागासिद्धत्वा- दित्याशयेनाह । द्वितीयादीति । वह्निपक्षकानुमानद्वयसंयोगपक्षकानुमानेष्वित्यर्थः । न च पिण्डीभूत इत्यनुमाने संयोगपक्षकानुमाने च साध्याव्यापकत्वमुपाधेर्गुरुत्वस्थितिसंस्थापकवति वृक्षादाविति वाच्यम् । उभयत्र कार्यानुकूलपदस्य दाहानुकूलार्थकत्वात् । न च तत्र तथा विव- क्षायामात्मत्वोपाधेर्द्व्यणुके द्रव्यत्वोपाधेरेकत्वादौ साध्याव्यापकत्वाभिधानं ग्रन्थकृतो विरुध्येतेति वाच्यम् । द्व्यणुकपदेनोभयत्र वह्निद्व्यणुकस्योक्तत्वात् । तदीयस्पर्शैकत्वयोश्चावयविमहत्त्वे मकरन्दः । निमित्तकारणं तत् तदुभयसमानाधिकरणगुणजन्यमित्यत्र तात्पर्यात् । कपालरूपन्तु तत्रासम वायिकारणमिति नोक्तदोषः । नचाजसंयोगाभावेनेश्वरज्ञानादिजन्यसुखादिषु व्यभिचार इति वाच्य- म् । मूर्त्तवृत्तित्वस्य कार्यविशेषणत्वाद् घटादावीश्वरसंयोगहेतुत्वस्येष्टत्वात् । अत एव लीलावती- प्रकाशे कण्ठरवेणैव तथोक्तम् अत एव मन्त्रपाठजन्यविषचलनेऽपि व्यभिचारो निरस्तः । अदृष्टा द्वारकतन्वेन विशेषणाद्वा, मन्त्रस्याऽऽशुविनाशित्वेनाऽदृष्टद्वारकत्वात् । नचात्र विपक्षबाधकाभावः । अप्रत्यासन्नस्य जनकत्वेऽतिप्रसङ्गादिति दिक् । नन्वतीन्द्रियत्वं यदि साक्षात्काराविषयत्वं तदा अस्मन्मते अप्रसिद्धिः । लौकिकत्वविशेषणे परस्य व्यावत्र्याप्रसिद्धिरित्यत आह तत्त्वञ्चेति । संयोगाद्यन्यतमप्रत्यासत्त्यनाश्रयत्वमित्यर्थः । साक्षात्कारपदं विषयजन्यज्ञानपरम् । साक्षात्कारथ सन्निकर्षविशेषणमिति न व्यर्थविशेषणते त्यन्ये । अतीन्द्रियप्रतियोगिकाभावाभिप्रायेणाह । प्रतिबन्धकेति । भट्टमतेन वा । प्रथमानुमाने अतीन्द्रियस्यापि पक्षत्वादुपाधिः पक्षाव्यापकविपर्यय इत्यत आह । द्वितीया- टिप्पणी । र्थानुकूलातीन्द्रियादृष्टद्व्यणुकैकत्वतत्स्पर्शानिरूपितो यः समवायस्तन्निरूपकत्वस्य स्वस्मिन्नपि सत्त्वात् साध्याव्यापकत्वं बोध्यम् । तेन द्व्यणुकस्यादृष्टत्वेऽपि न क्षतिः । तुल्ययोगक्षेम- त्वेऽपीति । एकसाधकसाध्यत्वेऽपि यथा कारणानि तादृशधर्म्मवन्ति कार्य्यत्वात् आत्मवदि-

प्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १२५ प्रसङ्गात् । कालविशेषात्तदुत्पादे तदेवानियतहेतुकत्वमिति ॥ १० ॥ स्यादेतत् । मा भूत् सहजशक्तिः, आधेयशक्तिस्तु स्यात् बोधिनी । सङ्ग इति भावः । उत्तम्भकेनानुत्पादेऽपि नानुत्पादप्रसङ्ग इत्याशङ्क्याह-कालविशेषात्-इति । यदुत्तम्भकेन तदुत्पादे वर्णितं तदेवेति ॥ १० ॥ अपूर्वस्य भूतधर्मत्वे सहजा शक्तिर्मा भूद् दृष्टान्त आधेयशक्तिस्तु दृष्टान्तः स्यात् दुरपह्नव- त्वात् तस्या इति पूर्वपक्षयति-स्यादेतत्-इति । अत्र च भूतानामेव स्वहेतुवशेनवातीन्द्रियाति- प्रकाशः । अस्मत्पितृचरणास्तु, जनकत्वस्य केवलान्वयित्वेन व्यतिरेकाप्रसिद्धया नान्वयव्यतिरेकित्व- म् । न च शक्तावेव तत्प्रसिद्धिरन्योन्याश्रयात् । नापि पण्डापूर्वेपरार्द्धसङ्ख्योस्तत्प्रसिद्धिः । अप्रत्य- क्षयोः शब्दैकवेद्ययोस्तयोर्व्याप्तिग्रोहेकेण प्रत्यक्षेण साध्यहेतुव्यतिरेकस्य ग्रहीतुमशक्यत्वादित्याहुः १०. प्रोक्षणजन्यः कालान्तरकार्यानुकूलोऽतीन्द्रियों धर्मोऽस्तीत्युभयसिद्धम् , स व्रीहिसमवेतो न वेति नाधेयशक्तौ संशयः, ग्रन्थे प्रथमं संस्कारसाधनस्यार्थान्तरतापत्तेः, किन्तु प्रोक्षणं व्रीहिनिष्ठा- प्रकाशिका । प्रयोजकतया दाहानुकूलत्वात् । अप्रत्यक्षयोरिति । न च मानान्तरात्तदुपस्थितौ मनसा जन- कत्वाभावग्रहः । शब्दस्य सिद्धार्थकस्याप्रमाणत्वात् , तन्मतेऽनुमानस्य च व्याप्तिग्रहाधीनतया तत्साधकानुमानान्तरापेक्षायामनवस्थानात् । उपमानस्य च नियतविषयत्वात् । यत्तु पण्डापूर्वपरा र्द्धसंख्ययोरपि स्वध्वंसजनकतया तत्र व्यतिरेकप्रसिद्धिशङ्केति । तन्न । अभावस्य गुरुमतेऽधिक- रणत्मकत्वात् । एतेन स्वनिष्ठस्य महत्त्वसमानाधिकरणोद्भूतरूपवत्वाभावस्य ग्रहे प्रत्यासत्तिघट- कतया तयोः कारणत्वान्न तत्र व्यतिरेकप्रसिद्धिशङ्केत्यपास्तम् ॥ १० ॥ किन्तु प्रोक्षणमिति । जलसंयोगवारणायातीन्द्रियेति । व्रीहिनिष्ठत्वं च समवायेन विव- मकरन्दः । दीति । न चात्रापि गुरुत्वस्थितस्थापकादिकमादाय वृक्षादौ साध्याव्याप्तिः । कार्यानुकूलत्वेन दाहानुकूलत्वाभिधानात् । अगुरुत्वरूपपक्षधर्मावच्छिन्नसाध्यव्यापकत्वादित्याहुः । नान्वयेति । तन्मते केवलान्वयिनो हेत्वाभासत्वादिति भावः । अप्रत्यक्षयोरिति । न च मानान्तरात्तद्ग्रहः । तद्धि न शब्दः । तस्य सिद्धार्थत्वात् । नाप्यनुमानम्, जनकत्वसत्त्वे तादृशधर्मवत्त्वस्याऽऽवश्यक- तया जनकत्वाभावेन साध्याभावोऽनुमेयः । जनकत्वाभावानुमानञ्च तादृशधर्माभावेन तादृशधर्मस्य जनकतावच्छेदकस्य सत्त्वे जनकत्वस्यावश्यकत्वादित्यन्योन्याश्रयात् । अनवस्थानादित्यन्ये । उप- मानस्य नियतविषयत्वादनभ्युपगमाच्चेति भावः । न च पण्डाऽपूर्वादौ स्वध्वंससाक्षात्कारजन- कतया जनकत्वाभाव एव नेति वाच्यम् । अतीन्द्रियत्वेन योगिज्ञानस्य विषयाजन्यतया च साक्षात्काराजनकत्वात् । तन्मते ध्वंसस्याधिकरणरूपतया तदसाध्यत्वाच्चेति भावः ॥ १० ॥ किन्त्विति । जलसंयोगेनार्थान्तरवारणायातीन्द्रियेति । न चादृष्टस्यापि स्वरूपसम्बन्धेन टिप्पणी । त्यनुमानं क्रियते तथा कारणानि बहिरिन्द्रियाप्रत्यक्षाणि कारणत्वादात्मवदित्यपि कर्तुं शक्यते पक्षे च व्यभिचारो न यथापूर्वानुमाने दोषस्तयोत्तरत्रापि स्यात् । पूर्वसाधनस्य साधना व्यापकत्वविरहे उत्तरस्यापि तत्त्वं स्यादिति तुल्ययोगक्षेमत्वेनोपाधित्वसम्भवो यद्यपि तथापि पक्ष एव साधनाष्या- पकत्वसन्देहेनोभयोः सोपाधित्वात् अनुकूलतर्कविरहे सन्दिग्धोपाधेरपि दूषकत्वादिति भावः॥१०॥ प्रोक्षणजन्यः कालान्तरकार्यानुकूलोऽतीन्द्रिय इति । अतीन्द्रियधर्मे गुरुत्वादौ व्रीहिसमवेतत्वस्योभयसिद्धत्वेन विप्रतिपन्नत्वासम्भवात् प्रोक्षणजन्य इति । प्रोक्षणजन्यस्या- तथाभूतस्य व्रीहिसमवेतत्वसिद्धावपि न प्रकृतसिद्धिः स्यादतः कालान्तरेत्यादि । प्रथमं सं- स्यादेतत् । एतत् मा भूदित्यादि वक्ष्यमाणम् ।

१२६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [११ कारिकावतरणिकायां दृश्यते हि प्रोक्षणादिना व्रीह्यादेरभिसंस्कारः । कथमन्यथा कालान्तरे तादृशाना- बोधनी । शयशालित्वेनोत्पन्नानां भोगनियामकानुपपत्तावपि यागादिजन्यातिशयभाजां शरीरादिभूतानां त- दुपपत्तेस्तेष्वोधीयतामपूर्वप्रोक्षणादिवन्न त्वात्मनीति भावः । आधेयशक्तिसद्भावे प्रमाणमाह । दृश्यते हि-इति । व्रीहीन् प्रोक्षतीति द्वितीयाश्रुत्या प्रोक्षणस्य व्रीहयः कर्मत्वेनावगम्यन्ते । क्रि- याजन्यफलभागित्वं च कर्मत्वम् । अतः प्रोक्षणादिना व्रीह्यादिषु संस्कारापरनामा शक्तिराधीयत- इत्यत्र श्रुतिरेव प्रमाणमिति । तदनुग्राहकं तर्कमाह—कथम्-इति । यदि तद्गतः कश्चिदतिशयो प्रकाशः । तीन्द्रियधर्मजनकं, न वा ? । व्रीहिगुरुत्वजनके तज्जनकत्वं प्रसिद्धम् । तत्राधायकं शक्तावाह । दृश्यते हीति । ननु व्रीहीन् प्रोक्षतीत्येतावन्मात्रं श्रूयते, न तु प्रोक्षणस्य संस्काराधायकत्वमपी- त्यत आह । कथमिति । कालान्तरेऽवघातादौ प्रोक्षितस्यैव व्रीहेर्विनियोगो न स्यादित्यवश्यं प्रोक्षणजन्यः संस्कारो व्रीहिनिष्ठः स्थिरोऽभ्युपगन्तव्य इत्यर्थः । नन्ववघातादौ कथं प्रोक्षितस्यैव व्रीहेरन्वयः, व्रीहीनवहन्तीत्यस्य व्रीहिमात्रान्वयेऽप्युपपत्तेः । अथावघाते व्रीहिविशेषाकाङ्क्षायां प्रोक्षितानामेवान्वयो व्यक्तिवचनानां सन्निहितविशेषपरत्वमिति न्यायात् । अन्यथा प्रकरणोपस्थि- तंहाने तदन्योपस्थितिकल्पने च गौरवंमिति चेत् । तर्ह्येकस्य द्वयं यत्र प्रोक्षणं तत्रावघातो, न तु प्रकाशिका । क्षितम् । अन्यथादृष्टस्यापि स्वरूपसम्बन्धेन व्रीहिनिष्ठतया सिद्धसाधनापत्तेः । तटस्थः शङ्कते । मकरन्दः । व्रीहिनिष्ठत्वाभ्युपगमात् सिद्धसाधनम् । व्रीहिसमवेतेत्यर्थात् । तटस्थः शङ्कते ॥ नन्विति ॥ प्रोक्षणस्य कालान्तरभाविफलजनकत्वे मानाभावान्न व्यापार- टिप्पणी । स्कारसाधनस्यार्थान्तरतापत्तेरिति । पश्चाद्विप्रतिपाद्य संस्कारसाधनस्यार्थान्तरत्वं न स्यात् प्रथममिति । प्रोक्षणजन्यत्वेन संस्कारसाधनस्येत्यर्थः । तथा हि सिद्धस्यैव पक्षत्वेन सिद्धे- प्रोक्षणजन्यातीन्द्रियधर्मे व्रीहिसमवेतत्वं विप्रतिपन्नं सत् साधनीयं तत्र प्रोक्षणजन्यत्वेन संस्कार- साधनस्यार्थान्तरत्वं तस्य प्रकृताननुगुणत्वात् , तादृशसंस्कारस्य सिद्धत्वाच्च, “दृश्यते हि”त्यादि- ग्रन्थस्येदानीं व्रीहिनिष्ठत्वसाधंकत्वे “न चे”त्यादिना ग्रन्थेन संस्कारेऽन्यथासिद्धिशङ्कायामप्रयोज- कत्वं स्यात् , द्वितीये तु प्रोक्षणेऽतीन्द्रियधर्मजनकत्वं विप्रतिपन्नं तत्साधनं न प्रोक्षणजन्यत्वेन सं- स्कारसाधनं विना, तादृशधर्मस्यैवासिद्धत्वे व्रीहिनिष्ठातीन्द्रियधर्मजनकत्वस्य बाधितत्वादित्या- लोचनीयम् । प्रोक्षितस्यैव व्रीहेर्विनियोग इति । प्रोक्षणस्य तदानीमविद्यमानत्वात् तेनातिश- याजननाच्च प्रोक्षिताप्रोक्षितयोरविशेषादिति भावः । नन्ववघातादौ कथं प्रोक्षितस्यैवेति । वादिनापि प्रोक्षितस्यैवावघातस्वीकारात् तटस्थस्येयं शङ्का । व्रीहिमात्रान्वयेऽप्युपपत्तेरिति । तथा च प्रोक्षणस्यैवाकारणत्वे कुतस्तन्निर्वाहायातिशयकल्पनमिति भावः। व्यक्तिवचनानां सन्नि- हितेति । ननु बहुव्रीहीनवहन्तीत्यत्र व्रीहिपदस्य व्यक्तिवचनत्वमेवेति कुतोऽवधार्यत इति चेद् , जातिपरत्वे बहुवचनवैयर्थ्यादिति । तदन्योपस्थितिकल्पने गौरवमितीति । तथा च प्रोक्षणविशिष्टेऽवघातान्वयेऽसति बाधके उद्देश्यतावच्छेदकविधेययोः प्रयोज्यप्रयोजकभावनियमात् प्रोक्षणेऽवघातजनकत्वप्रतीतिसम्भवादिति भावः । तर्ह्येकस्य द्वयं यत्र प्रोक्षणमिति । तर्हि- दृश्यते=अनुमीयते । अन्यथा=संस्कारं विना । तादृशानामेवप्रोक्षितानामेव।

प्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १२७ मेव कार्यविशेषोपयोगः । न च मन्त्रादीनेव सहकारिणः प्राप्य ते कार्यकारिण इति बोधनी । नाधीयेत प्रोक्षितानामेव पुरोडाशादिकार्योपयोगो नान्येषामिति न स्यादप्रोक्षितेभ्यः तेषामविशेषा- दिति । प्रोक्षणादिस्वरूपसहकृतानामेव कार्योपयोगोऽस्तु, अन्यथादृष्टकल्पनानुपपत्तेरित्याशङ्कयाह- न च-इति । सन्तु तर्हि प्रोक्षणादिप्रध्वंसादयः कालान्तरेऽप्यनुवर्त्तमानाः सहकारिण इत्याशङ्कयाह- प्रकाशः । प्रोक्षणविशिष्ट इति तस्य कारणत्वाज्ञानान्न तज्जन्यातिशयकल्पनम् । प्रोक्षिता व्रीहयोऽवघाताय कल्प- न्ते इति वाक्यशेषादिति चेत् । न । तेनाप्यतीतप्रोक्षणे व्रीहाववघातान्वयो बोध्यत इति प्रोक्षणध्वं- सस्य हेतुतापत्तेः । मैवम् । प्रोक्षणमवघातजनकं प्रमाणतस्तदर्थमुपादीयमानत्वाद् व्रीहिवत् । न च हेत्वसिद्धिः । अप्रोक्षितेऽवघातासम्भवादिति भावः । एतावता तज्जन्यव्यापारमात्रसिद्धावपि न संस्कारः सिद्ध्यति, ध्वंसेनैवोपपत्तेरित्याशङ्कय प्रकाशिका । नन्विति । तथा च न प्रोक्षणस्यावघातजनकत्वमिति न व्यापारकल्पनेति भावः । प्रमाणत इति । अवघातोद्देश्यकप्रमाणमूलकोपादानविषयत्वादित्यर्थः । ननु प्रमाणमिदमेवान्यद्वा नाद्यः, अन्योन्याश्रयात् । नान्त्यः, तदभावात् , भावे वा तेनैव सिद्धसाधनादिति चेत् । न । "दर्शपू- र्णमासाभ्यां यजेत् स्वर्गकाम" इत्यधिकारविधिना निरपेक्षेण तयोः कर्त्तव्यतायां बोधितायामिति- कर्त्तव्यताकाङ्क्षायां व्रीहीनित्यादिविधिप्रवृत्तिः, तेन चोपस्थितस्वावघातद्वारा 'प्रोक्षणस्य परमापूर्व- जनकत्वबोधनात् संसर्गविधया च जनकत्वमवघातं प्रति प्रोक्षणस्य शब्देन बोधितमिति न तत्प्र- कारकानुमाने सिद्धसाधनमित्याशयात् । वस्तुतो व्यक्तिवचनन्यायेन व्रीहेरवघातकारणत्वे बोध्यमा- नउत्सर्गसहकारेण प्रोक्षणस्य विशेषणत्वं बोध्यत इति प्रोक्षणस्यावघातकारणत्वे प्रमाणं तदुक्तं अप्रो- मकरन्दः । त्वेनातिशयकल्पनमिति भावः ॥ प्रमाणत इति ॥ प्रमाणमूलकावघातोद्देश्यकोपादानविषयत्वादि- त्यर्थः । ननु प्रमाणमिदमेव तदुपादानहेतुरन्यद्वा ? । नाद्यः । हेतुज्ञाने सत्येतत्प्रमाणप्रवृत्तिरेतत्प्रमा- णप्रवृत्तौ च तद्धितहेतुज्ञानमित्यन्योन्याश्रयात् । नापरः। तदसत्त्वात् । सत्त्वे वा तन्न साक्षादुपादा- नहेतुः । प्रवृत्तेर्ज्ञानजन्यत्वात् । किन्तु प्रोक्षणमवघातजनकमिति ज्ञानद्वारा । तथा च सिद्धसाधन- मिति । अत्र वदन्ति । प्रकरणादिसहकृतवेदस्यैवावघातजनकत्वबोधकत्वमिति । सिद्धान्तानुसारा- देतदुक्तम् । संसर्गविधया च ततस्तद्धेतुत्वावगम इति तत्प्रकारकबुद्ध्यभावान्न सिद्धसाधनावकाशः । शब्दादेरपि परं प्रति लिङ्गविधया प्रयोगाच्चेति । वस्तुतो व्यक्तिवचनन्यायेनावघाते प्रोक्षितव्रीहेरन्वये प्रोक्षणस्य बाधकं विना विशेषणत्वं, नोपलक्षणत्वमिति । एतदभिप्रायेणाह । अप्रोक्षित इति । टिप्पणी । तथापीत्यर्थः । एकस्य एकस्यैवेत्यर्थः । द्वयं प्रोक्षणावघातौ । सम्पन्नमिति शेषः । तदेव विवृणोति । यत्रेति । न तु प्रोक्षणविशिष्टेति । अवघात इति शेषः । तस्य कारणत्वाज्ञानान्न तज्जन्याति- शयकल्पनमिति । तस्य प्रोक्षणस्येत्यर्थः । प्रोक्षणविशिष्टेऽवघातबोधेऽप्रोक्षितानवघातप्रोक्षितावघाता- भ्यामन्वयव्यतिरेकाभ्यां प्रोक्षणोवघातजनकताज्ञानं स्यात्तदेव नेति भावः । कारणत्वानुपपत्त्यैव त- त्कल्पनादिति भावः । वाक्यशेषादिति चेन्नेति । शङ्कानिवर्त्तकं वाक्यं वाक्यशेषः । शङ्का ह्यत्र व्रीहिन् प्रोक्षति व्रीहिनवहन्त्यादित्यत्र किं व्रीहिः प्रोक्षितव्यः अवघातोऽपि कर्तव्यः । किं प्रोक्षितव्री- हिरवहन्तव्य इति । अतीतप्रोक्षण इति । प्रोक्षणध्वंसविशिष्ट इत्यर्थः । ते=व्रीहयः ।

१२८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [११ कारिकावतरणिकायां साम्प्रतम्। तेषु चिरध्वस्तेष्वपि कार्योत्पादात्। नापि प्रध्वंससहायास्ते तथा। एवं हि यागादिप्रध्वंसा एव स्वर्गादीनुत्पादयन्तु, कृतमपूर्वकल्पनया। तेषामनन्तत्वाद- नन्तफलप्रवाहः प्रसज्यत इति चेत् , अपूर्वेऽपि कल्पिते तावानेव फलप्रवाह बोधनी । नापि-इति । तथाकालन्तरकार्यकारिण इत्यर्थः । अतिप्रसङ्गपरिहारमाशङ्कते—तेषाम्-इति । यागादिप्रध्वंसानामेव फलसाधनत्वे तेषामनन्तत्वेन फलविनाश्यत्वाभावादुत्पन्नेऽपि पुनरपि तत ॰एव फलोत्पादप्रसङ्गेन फलप्रवाहोऽनन्तः स्यात् , तत्र च कर्मान्तरफलोपभोगोऽपवर्गश्च न स्या- ताम् ; अतो यागादिजन्यमपूर्वमवश्यमभ्युपगन्तव्यमिति । तर्हि कल्पितमप्यपूर्वं किञ्चित् स्वर्गा- दिसुखमुत्पाद्य नानन्तरमेव नश्यति सहस्रसंवत्सरादिभोगश्रुतेः, तेन परिमितफलप्रवाहस्तदापि न स्यादित्याह—अपूर्व-इति । यदि तु परिमितफलप्रवाहजनकत्वमपूर्वस्य स्वभावः स तर्हि प्रध्वंस- प्रकाशः । निराकरोति । नापीति । तेषामिति । ननु ध्वंसव्यापारत्ववादिनां व्यापारस्य यावत्सत्त्वं फलो- त्पादकत्वाप्रसिद्धिः । न च व्यापारकालस्य फलोत्पत्तिनियमेन फलानन्त्यापत्तिः । उत्तरकालीन- कीर्त्तनादिनाश्यपूर्वे व्यभिचारात् । मैवम् । विवादाध्यासितः कालो यदि चैत्रस्वर्गोत्तरत्वे सति प्रकाशिका । क्षितेऽवघातासंभवादिति । सिद्धसाधननिरासस्तु पूर्ववदेवेति । ध्वंसव्यापारवादिनामिति । प्रकृतमपेक्ष्य वस्तुतः सर्वेषामेवेदमप्रसिद्धमन्ततो व्यापारोत्पत्तिकाल एव व्यभिचारात् । उत्तर- कालीनकीर्त्तनेति। जनितफलव्यापारकालगर्भा व्याप्तिराशङ्कितुरभिमतत्यजनितफलकीर्त्तनानाश्य- पूर्वस्थले न व्यभिचार इत्युत्तरकालीनत्वं कीर्त्तनविशेषणम् नाश्यपूर्वस्य किञ्चित्फलजननोत्तरकाली- नत्वं च तदर्थः । न च व्यापारे भोगतेरनाशकालानाश्यत्वमपि विशेषणं किञ्चित्फलजननोत्तरं प्रतिकृत्यापूर्वप्रतिरुद्धकृत्यापूर्वे व्यभिचारात् । न च तत्रापूर्वस्य प्रथमस्य नाश एवेति वाच्यम् । तथा सति प्रतिकृत्यापूर्वेण फलजननापत्तेः । न च सुन्दोपसुन्दन्याय इति वाच्यम् । मानाभा- वात् । आपाततः सन्देहेऽप्यनैकान्तिकसन्देहाच्च विवादाध्यासित इति । कालमात्रपक्षत्वे चैत्रस्वर्गपूर्वकाल आपादकासिद्धेश्चैत्रस्वर्गाधिकरणकाले च इष्टापत्तिरिति तद्वारणाय प्रथमविशेषणम् तदर्थश्च तद्व्यापारजन्यचैत्रस्वर्गोत्तरं यथाभूतस्वर्गानधिकरणम् । अजनितस्वर्गव्यापारकाले व्य- भिचार इति सत्यन्तम् , किञ्चित्स्वर्गोत्तरत्वं तत्रापीति सत्यन्ते चैत्रपदं तद्व्यापारजन्यस्वर्गोत्तरत्वे मकरन्दः । : कीर्त्तनादोति । न च शब्दबोधितनाशकनाश्यत्वं विशेषणम् । प्रतिकृत्यापूर्वप्रतिरुद्धे कृत्यापूर्वे व्यभिचारात् । न च तत्र प्रतिरोधो नाशो वेति कथं निर्णय इति वाच्यम् । तथापि सन्दिग्धानैकान्तादिति भावः । विवादाध्यासित इति । उभयसिद्धचैत्रस्वर्गाधारकालोत्तरकाल इत्यर्थः । तेन कालमात्रपक्षत्वे स्वर्गकालभाग इष्टापत्तिः । तत्पूर्वकाले सत्यन्तापादकासिद्धिरिति दूषणमलग्नकं बोध्यम् । स्वर्गपूर्वकाले व्यभिचारादाह सत्यन्तम् । किञ्चित्स्वर्गोत्तरत्वं तत्रापीत्यत- उक्तं, चैत्रेति । तद्व्यापारजन्यस्वर्गोत्तरत्वे सतीत्यर्थः । स्वर्गान्तरजनकव्यापारान्तरवति स्वर्ग- तेषु=मन्त्रादिषु । तथा=कार्यविशेषोपयोगिनः । ननु प्रोक्षणादीनां परमापूर्वं प्रत्येव हेतुतया तस्य ध्वंसव्यापारकत्वेऽपि परमापूर्वहेतुयागादिक्रियायाः कालान्तरेऽसत्त्वात् फलानन्त्यापत्त्य- सम्भवात् तत्र तदेवास्तु यागस्य ध्वंसव्यापारकत्वे व्यापारमात्रोच्छेद्यस्वर्गादिफलस्यानन्त्यापत्तिः स्यादिति न तत्रतद्वक्तुमुचितमिति कः प्रतिबन्ध्यवकाश इति मीमांसकं प्रत्याशङ्कते । तेषामिति । अनन्तेति । न अन्तो ध्वंसो यस्य सोऽनन्तः ध्वंसप्रतियोगीति यावत् । प्रवाहेऽनन्त त्वञ्च प्रागभावव्याप्यध्वंसप्रतियोगित्वम् ।

प्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १२६ इति कुतः । अपूर्वस्वभावादिति चेत्तुल्यमिदमिहापि । तावतापि तत्प्र- ध्वंसो न विनश्यतीति विशेषः । बोधनी । स्यापि भविष्यतीति शङ्कोत्तराभ्यामाह-अपूर्व-इति । तावता-इति । परिमितफलोत्पादकत्वाभ्यु- पगमे नामान्तरेणापूर्वमेवाङ्गीकृतं स्यादित्याशङ्क्य फलविनाश्यत्वाविनाश्यत्वाभ्यां विशेषोऽस्तीत्याह- तावता-इति ॥ प्रकाशः । तत्स्वर्गजनकयागव्यापारवान् स्यात् , तत्स्वर्गाधारः स्यादित्यापादनार्थत्वात् । अपूर्वेति । प्रति- नियतकालावच्छिन्नस्वर्गजनकस्वभावत्वादित्यर्थः । तुल्यमिति । तर्हि तद्ध्वंसस्यापि स एव प्रकाशिका । सतीति च सत्यन्तार्थः । अन्यथैकस्मिन्नपूर्वे जनितफले चैत्रस्य नष्टे सति चैत्रस्यैव स्वर्गजनकेऽ- पूर्वान्तरेऽजनिफले तिष्ठति व्यभिचारापत्तेः । अजनितफलेऽपूर्वे नष्टे सति व्यभिचार इत्युत्तर- दलम् । स्वर्गान्तरजनकव्यापारान्तरवति स्वर्गपूर्वकाले व्यभिचार इति तदिति । सुखप्राप्त्यनन्तरं मे राज्यं भूयादिति कामनाकृतप्रयागस्नानजन्यापूर्वेण सुखजनने कृते व्यभिचार इति यागेति । मकरन्दः । पूर्वकाले व्यभिचारादाह । तदिति । तथा च फलोपहितयागव्यापारस्य यावत् सत्त्वं फलोपपा- दकत्वमिति नियमेन फलानन्त्यापत्तिरिति तात्पर्यम् । अन्यस्वर्गाधारत्वेनेष्टापत्तिवारणायापाद्ये तदिति । तद्व्यापारजन्यस्वर्गाधारः स्यादित्यर्थः । आद्यस्वर्गोत्तरतत्स्वर्गाधारकालो दृष्टान्तः । टिप्पणी । क्तप्रत्ययस्य भूतार्थकत्वात् प्रोक्षणध्वंसस्य हेतुतापत्तेरिति । प्रोक्षणध्वंसविशिष्टेऽवघातान्वये तेन सहान्वयव्यतिरेकाभ्यां ध्वंसस्यैव कारणत्वप्रतीतेः । प्रमाणतस्तदर्थमुपादीयमानत्वादिति [पृ. १२७] । अवघातोद्देश्यकप्रमाणमूलकतदर्थोपादानविषयत्वादित्यर्थः । नन्ववघातार्थप्रोक्षणप्रवृत्तेर्मू- लभूतं किं प्रमाणम् ? उच्यते "व्रीहीन् प्रोक्षति" 'व्रीहिनवहन्त्यात्" इति वाक्यद्वयम्, प्रोक्षिता व्रीह योऽवघाताय कल्पन्त इति वाक्यशेष एव वा । तथा हि व्यक्तिवचनन्यायेनोच्चवचनाभ्यां यत्र प्रो- क्षण तन्नावघाते बोधित एवं वाक्यशेषाच्च प्रोक्षिते तद्बोधिते प्रोक्षणेऽवघातपूर्वत्वावगतौ जनकत्वा- ग्रहेऽपि पूर्वस्य तस्यासत्त्वे परोऽवघातः कथमित्यतः प्रोक्षणगोचरावघातार्थं जनानां प्रवृत्तिः प्र- माणमूलिकेति भावः । अवघातासम्भवादिति । अवघातादर्शनादित्यर्थः । ननु ध्वंसव्यापार- त्वादिनामिति । इदन्तु प्रकृतमपेक्ष्य, वस्तुतः सर्वेषामेव यावत्सत्त्वं व्यापारस्य फलोत्पादक- त्वमप्रसिद्धमेवेति बोध्यम् । फलोत्पादकत्वाप्रसिद्धिरिति । तथा च व्यापारस्य यावत्सत्त्वं फलोत्पादकत्वनियमो यदि स्यात् तदैवानन्तफलप्रवाहः प्रसज्येत, तदेव नेति भावः । न च व्या- पारकालस्य फलपूर्वत्वेति । व्यापारस्य यावत्सत्त्वं फलोत्पादकत्वाभावेऽपि यावतो व्यापार- कालस्य फलपूर्वत्वमस्त्येव । न च प्रायशो व्यापारस्य फलपूर्वक्षणस्थायित्वेन तत्रैव व्यभिचारः फलो- त्पत्तिकक्षणान्यत्वेन विशेषणीयत्वादित्यनुशयेनाह । व्यापारेत्यादि । फलानन्त्येति । तथा च ध्वंसस्य व्यापारत्वे फलोत्तरकालस्यापि व्यापारकालत्वेन तस्य फलपूर्वत्वरक्षार्थं तदुत्तरं फलं स्वी- अपूर्वस्वभावादिति । अत्र स्वभावेत्युपलक्षणम् कालविशेषघटितेश्वरेच्छातोऽपि नियमः स्यादेव । एवं यज्ञानां कालविशेषावच्छिन्नफलान्वयित्वेनेच्छाविषयतया तदिच्छाजन्यत्वमपि निया- मकं स्यादेवदुभयमपि ध्वंसपक्षेऽपि तुल्यमेवेति । तुल्यमिति । इदम् = स्वभाववर्णनम् । इहापि। ध्वंसव्यापारत्वपक्षेऽपि । तावतापि = फलमुत्पाद्यापि । न विनश्यति = अपूर्वं तु विनश्यतीति शेषः । १७ न्या० कु०