भारतकोश
संग्रह पर लौटें

पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पण्डित विष्णु शर्मा द्वारा

स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)

DevanagariHindipublished536 पृष्ठ

भाषाटीकासमेतम् । ( १६३ बलवान्‌से तिरस्कृत हो विदेशगमन अथवा उसका आश्रय करनाही नीति है सो देशका त्याग करना उचित है। अथवा आत्मा सामादि उपायोंसे रक्षाके योग्य है। कहा है- अपि पुत्रकलत्रैर्वा प्राणान्रक्षेत पंडितः । विद्यमानैर्यतस्तैः स्यात्सर्वं भूयोऽपि देहिनाम् ॥ ३८८ ॥ पंडित पुत्र और कलत्रोंकेभी जानेसे प्राणोंकी रक्षा करे, कारण कि, प्राणोंके रहनेसे देहधारियोंको फिरभी सब होजाते हैं ॥ ३८८ ॥ तथाच- आर देखो- येन केनाप्युपायेन शुभेनाप्यशुभेन वा । उद्धरेद्दिनमात्मानं समर्थो धर्ममाचरेत् ॥ ३८९ ॥ जिस किसी शुभ वा अशुभ उपायसे दीन आत्माका उद्धार करना, कारण कि, समर्थ होकर धर्म करसकेगा ॥ ३८९ ॥ यो मायां कुरुते मूढः प्राणत्यागे धनादिषु । तस्य प्राणाः प्रणश्यन्ति तैर्नष्टैर्नष्टमेव तत् ॥ ३९० ॥” जो मूर्ख प्राणत्यागमे धनादिकोंमें ममता करता है उसके प्राण नष्ट होते हैं उनके नष्ट होनेमे वह सब नष्टहीही ॥ ३९० ॥” एवमभिधाय दमनकः करटकसकाशमगमत । करट- कोऽपि तमायान्तं दृष्ट्वा प्रोवाच- "भद्र ! किं कृतं तत्र- भवता ? " दमनक आह- " मया यावत् नीतिबीजानि- र्वापणं कृतं परतो दैवविहितायत्तम्। उक्तञ्च यतः- यह कह दमनक करटकके समीप गया। करटक उसे आया देखकर बोला- "भद्र ! क्या किया आपने ?" दमनक बोला- "मैने तो नीतिबीज बोदिया आगे करना दैवके आधीन है। क्योंकि कहाहै- पराङ्मुखेऽपि दैवेऽत्र कृत्यं कार्य्यं विपश्चिता । आत्मदोषविनाशाय स्वचित्तस्तम्भनाय च ॥ ३९१ ॥ दैवके पराङ्मुख होनेपरभी अपने दोष नाशकरने और स्वचित्तके स्तम्भन करनेके निमित्त बुद्धिमान्‌को कार्य करना चाहिये ॥ ३९१ ॥

( १६४ ) पञ्चतन्त्रम् ।

( १६४ ) पञ्चतन्त्रम् । तथाच- और देखो- उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी- दैवं हि दैवमिति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ॥ ३९२॥" उद्योगी पुरुषसिंह लक्ष्मीको प्राप्त होते हैं । दैव देता है यह कायर पुरुष कहते हैं दैवको त्याग आत्मशक्तिसे पुरुषार्थ करो यत्न करनेपर यदि सिद्ध न हो तो किसीका क्या दोष है ॥ ३९२ ॥" करटक आह-"तत् कथय कीदृक् त्वया नीतिबीजं निर्वापितम्?" । सोऽब्रवीत्-"मया अन्योन्यं ताभ्यां मिथ्याप्रजल्पनेन भेदस्तथा विहितो यथा भूयोऽपि मन्त्रयन्तौ एकस्थानस्थितौ न द्रक्ष्यसि" । करटक आह-"अहो ! न युक्तं भवता विहितं यत्परस्परं तौ स्नेहार्द्रहृदयौ सुखाश्रयौ कोपसागरे प्रक्षिप्तौ । उक्तञ्च- करटक बोला-"सो कहो किस प्रकार आपने नीतिबीज बोया ?" । वह बोला-"मैने परस्पर उन दोनोंका मिथ्या उक्तियोंसे इस प्रकार भेद किया है कि, फिर उनको एक स्थानमें मंत्रणा करते हुए तुम न देखोगे" करटक बोला,-"अहो ! आपने यह युक्त नहीं किया जो परस्पर स्नेहसे आर्द्रहृदयवाले सुखके आश्रय उन दोनोंको कोपसागरमें डाला । कहाहै- अविरुद्धं सुखस्थं यो दुःखमार्गे नियोजयेत् । जन्मजन्मान्तरे दुःखी स नरः स्यादसंशयम् ॥ ३९३ ॥ अविरुद्ध और सुखमें स्थित हुओंको दुःखमार्गमें लगाता है वह मनुष्य जन्म जन्मान्तरमें दुःखी होता है इसमें सन्देह नहीं ॥ ३९३ ॥ अपरं त्वं यद्भेदमात्रेणापि तुष्टस्तदपि अयुक्तं यतः सर्वोऽपि जनो विरूपकरणे समर्थो भवति नोपकर्तुम् । उक्तञ्च- और जो तू भेदमात्रसेही सन्तुष्ट है सोभी अयुक्त है जो कि, सम्पूर्ण जन विरूप करनेमें समर्थ होता है उपकार करनेको नहीं । कहाहै-

भाषाटीकासमेतम् । ( १६५ ) घातयितुमेव नीचः परकार्य्यं वेत्ति न प्रसाधयितुम् । पातयितुमस्ति शक्तिर्वायोर्वृक्षं नचोन्नमितुम् ॥ ३९४ ॥” नीच परकार्यका नाश करनाही जानता है सिद्ध करना नहीं। वायुकी शक्ति वृक्ष उखाडनेकी है जमानेकी नहीं ॥ ३९४ ॥” दमनक आह-“अनभिज्ञो भवान् नीतिशास्त्रस्य, तेन एतद् ब्रवीषि । उक्तञ्च यतः- दमनकने कहा-“आप नीतिशास्त्रको नहीं जानते इस कारण ऐसा कहते हो। कहाहै- जातमात्रं न यः शत्रुं व्याधिञ्च प्रशमं नयेत् । महाबलोऽपि तेनैव वृद्धिं प्राप्य स हन्यते ॥ ३९५ ॥ उत्पन्न होतेही जो व्याधि और शत्रुको शान्त नहीं करता है वह महा- बळभी उसके साथ वृद्धिको प्राप्त होकर नष्ट होता है ॥ ३९५ ॥ तच्छत्रुभूतोऽयमस्माकं मंत्रिपदापहरणात् । उक्तञ्च- सो यह हमारा मंत्रिपद हरनेसे शत्रुभूत है। कहाहै- पितृपैतामहं स्थानं यो यस्यात्र जिगीषते । स तस्य सहजः शत्रुरुच्छेद्योऽपि प्रिये स्थितः ॥ ३९६ ॥ जो जिसका पितृ पितामहका स्थान जीतनेकी इच्छा करताहै वह उसका सहज ( स्वाभाविक ) शत्रु है वह प्रियमैं स्थितभी नाशके योग्य है ॥ ३९६ ॥ तत् मया स उदासीनतया समानीतोऽभयप्रदानेन यावत् तावदहमपि तेन साचिव्यात् प्रच्यवितः । अथवा साधु चेदमुच्यते । सो पहले मैं उदासीनतासे अभयदान देकर उसको लाया था सो उसने पहले मुझेही मंत्रिपदसे च्यावित किया । अथवा सत्य कहाहै- दद्यात्साधुर्यदि निजपदे दुर्जनाय प्रवेशं तन्नाशाय प्रभवति ततो वाञ्छमानः स्वयं सः । तस्माद्देयो विपुलमतिभिर्नावकाशोऽधमानां जारोऽपि स्याद्गृहपतिरिति श्रूयते वाक्यतोऽत्र ॥ ३९७ ॥

( १६६ ) पञ्चतन्त्रम् ।

( १६६ ) पञ्चतन्त्रम् ।

यदि साधु अपने स्थानमें दुर्जनका प्रवेश करादेताहै सो वह उस पदकी स्वयं इच्छा करता हुआ उसके नाशके लिये यत्न करता है इसकारण बुद्धि- मानोंको चाहिये कि, अधमोंको प्रवेश न दे यह सुना जाता है कि, जारभी गृहपति होता है ॥ ३९७ ॥ तेन मया तस्योपरि वधोपाय एष विरच्यते। देशत्यागाय वा भविष्यति । तच्च त्वां मुक्त्वा अन्यो न ज्ञास्यति, तद्यु- क्तमेतत् स्वार्थार्थानुष्ठितम् । उक्तञ्च यतः- इस कारण मैने उसके ऊपर यह वधका उपाय रचा है । अथवा देशत्याग होगा । सो यह तुम्हारे सिवाय और कोई न जानेगा सो युक्तहीहै और यहभी स्वार्थके निमित्तही अनुष्ठान कियाहै । जो कि कहाहै- निस्त्रिंशं हृदयं कृत्वा वाणीं क्षुरसमोपमाम् । विकल्पोऽत्र न कर्त्तव्यो हन्यात्तत्रापकारिणम् ॥ ३९८ ॥ हृदयको खड्ग सरीखा और वाणीको क्षुरकी समान करके बिना विचारे अपकारीको मारना चाहिये ॥ ३९८ ॥ अपरं मृतोऽपि अस्माकं भोज्यो भविष्यति, तदेकं ताव- द्वैरसाधनम् । अपरं साचिव्यञ्च भविष्यति तृप्तिश्चेति । तद्- गुणत्रयेऽस्मिन् उपस्थिते कस्मान्मां दूषयसि त्वं जाड्य- भावात् । उक्तञ्च- और मरकरभी वह हमारा भोज्य होगा । सो एक तो बैर साधन होगा और मंत्रिपद तथा तृप्ति होगी । सो तीन गुणोंको उपस्थित होनेमें मूर्खतासे तू क्यों मुझको दूषित करता है । कहा है- परस्य पीडनं कुर्वन्स्वार्थसिद्धिं च पण्डितः । मूढबुद्धिर्न भक्षेत वने चतुरको यथा ॥ ३९९ ॥" पंडितजन पराई पीडा करकेभी स्वार्थसिद्धि करते हैं मूढबुद्धि तो भोगको समर्थ नहीं होता जैसे वनमें चतुरक ॥ ३९९ ॥" करटक आह- "कथमेतत् ?" स आह- करटक बोला-"यह कैसे ?" वह बोला-

कथा १६.

भाषाटीकासमेतम् । ( १६७) कथा १६. अस्ति कस्मिंश्चिद्वनोद्देशे वज्रदंष्ट्रो नाम सिंहः । तस्य चतुरकक्रव्यमुखनामानौ शृगालवृकौ भृत्यभूतौ सदैवानु- गतौ तत्रैव वने प्रतिवसतः । अथ अन्यदिने सिंहेन कदा- चित् आसन्नप्रसवा प्रसववेदनया स्वयूथाद् भ्रष्टा उष्ट्री उप- विष्टा कस्मिंश्चिद्द्रुनगहने समासादिता । अथ तां व्यापाद्य यावदुदरं स्फोटयति, तावज्जीवल्लघुदासेरकशिशुर्निष्क्रान्तः। सिंहोऽपि दासेरक्याः पिशितेन सपरिवारः परां तृप्तिमुपा- गतः परं स्नेहात् बालदासेरकं त्यक्तं गृहमानीय इदमुवाच- “भद्र ! न तेऽस्ति मृत्योर्भयं मत्तो न अन्यस्मादपि । ततः स्वेच्छया अत्र वने भ्राम्यतामिति । यतस्ते शंकुसदृशौ कर्णौ ततः शंकुकर्णो नाम भविष्यसि” । एवमनुष्ठिते चत्वारोऽपि ते एकस्थाने विहारिणः परस्परमनेकप्रकारगोष्ठीसुखमनुभ- वन्तस्तिष्ठन्ति । शंकुकर्णोऽपि यौवनपदवीमारूढः क्षणमपि न तं सिंहं मुञ्चति । अथ कदाचित् वज्रदंष्ट्रस्य केनचिद्वन्येन मत्तगजेन सह युद्धमभवत् । तेन मदवीर्यात् स दन्तप्रहारै- स्तथा क्षतशरीरो विहितो यथा प्रचलितुं न शक्नोति । तदा क्षुत्क्षामकण्ठः तान् प्रोवाच- “भो ! अन्विष्यतां किञ्चित्सत्त्वं येन अहमेवं स्थितोऽपि तं व्यापाद्य आत्मनो युष्माकञ्च क्षुत्प्रणाशं करोमि । तच्छ्रुत्वा ते त्रयोऽपि वने सन्ध्याकालं यावद्भ्रान्ताः परं न किञ्चित्सत्त्वमासादितम् । अथ चतु- रकः चिन्तयामास । “यदि शंकुकर्णोऽयं व्यापाद्यते ततः सर्वेषां कतिचिद्दिनानि तृप्तिर्भवति परं नैनं स्वामी मित्रत्वा- दाश्रयसमाश्रितत्वाच्च विनाशयिष्यति । अथवा बुद्धिप्रभा- वेण स्वामिनं प्रतिबोध्य तथा करिष्ये यथा व्यापादयि- ष्यति । उक्तञ्च- किसी वनमें वज्रदष्ट्रनाम सिंह रहताथा उसके चतुरक और क्रव्यमुखनाम- वाले शृगाल वृक भृत्य सदानुगामी उस वनमे रहते थे । दूसरे दिन सिंहने एक

( १६८ ) पञ्चतन्त्रम् ।

( १६८ ) पञ्चतन्त्रम् । समय प्रसव समीपवाली प्रसववेदनासे अपने यूथसे भ्रष्ट हुई ऊंटनी बैठी हुई गहन वनमें देखी ( पाई ) उसको मारकर जबतक पेट फोडता है तबतक जीता हुआ छोटा ऊंटनीका बच्चा निकला । सिंहभी ऊंटनीके मांससे परिवार- सहित परम तृप्तिको प्राप्त हुआ परंतु स्नेहसे बालक ऊंटनीके त्यागे बच्चेको घरमें लाकर यह बोला—"भद्र ! तेरेको मृत्युसे भय नहीं न मुझसे न अन्यसे । सो स्वेच्छासे अपने वनमें भ्रमण करो । जो कि, तेरे शंकुकी समान कानहैं इससे तेरा शंकुकर्ण नाम होगा" । ऐसा अनुष्ठान कर फिर वे चारों एक स्थानमें विहार करते परस्पर अनेक प्रकार गोष्ठीसुख अनुभव करते स्थित थे । शंकुक- र्णभी यौवनपदवीको प्राप्त हुआ क्षणमात्रभी सिंहको न छोडता । कभी वज्रदं- ष्ट्रका किसी दूसरे वनके हाथीके साथ युद्ध हुआ । उससे मदके वीर्यसे वह दन्तके प्रहारोंसे इस प्रकार क्षतशरीर होगया कि, एक पगभी चलनेको समर्थ न हुआ । तब भूखसे व्याकुल हुआ उनसे बोला—"भो ! कोई जीव ढूंढो जो मैं इस दशामें स्थित हुआभी उसको मारकर अपनी और तुम्हारी क्षुधा शान्त करूं.” यह सुनकर वे तीनों वनमें सन्ध्याकाल पर्यन्त घूमे परन्तु कोई जीव न मिला । तब चतुरक विचार करनेलगा "जो यह शंकुकर्ण माराजाय तो सबकी कुछ दिनोंतक तृप्तिहो परन्तु मित्र तथा आश्रित होनेसे स्वामी इसको न मारेगा । अथवा बुद्धिके प्रभावसे स्वामीको समझाकर ऐसा करूंगा जैसे वह मारडाले । कहाहै— अवध्यं चाथवागम्यमकृत्यं नास्ति किंचन । लोके बुद्धिमतां बुद्धेस्तस्मात्तां विनियोजयेत् ॥ ४०० ॥” इस संसारमें बुद्धिमानोंको कोई अवध्य, अगम्य और अकृत्य नहीं है इस कारण बुद्धिको कार्यमें लगावे ॥ ४०० ॥ एव विचिन्त्य शंकुकर्णमिदमाह, –"भोः शंकुकर्ण ! स्वा- मी तावत्पथ्यं विना क्षुधया परिपीडयते स्वाम्यभावा- दस्माकमपि ध्रुवं विनाश एव । ततो वाक्यं किंचित् स्वा- म्यर्थे वदिष्यामि । तत् श्रूयताम्” । शंकुकर्ण आह—"भोः ! शीघ्र निवेद्यतां येन ते वचनं शीघ्रं निर्विकल्पं करोमि । अपरं स्वामिनो हिते कृते मया सुकृतशतं कृतं भविष्यति” । अथ चतुरक आह—"भो भद्र ! आत्मशरीरं द्विगुणलाभेन

भाषाटीकासमेतम्। ( १६९ )

स्वामिने प्रयच्छ, येन ते द्विगुणं शरीरं भवति, स्वामिनः पुनः प्राणयात्रा भवति”। तदाकर्ण्य शंकुकर्णः प्राह,-"भद्र ! यदि एवं तन्मदीयप्रयोजनमेतदुच्यताम् । स्वाम्यर्थः क्रिय- तामिति, परमत्र धर्मः प्रतिभूः”। इति ते विविच्य सर्वे सिंह- सकाशमाजग्मुः । ततः चतुरक आह-"देव ! न किञ्चित् सत्त्वं प्राप्तम् । भगवानादित्योऽपि अस्तङ्गतः । तद्यदि स्वामी द्विगुणं शरीरं प्रयच्छति ततः शंकुकर्णोऽयं द्विगुणवृद्ध्या स्व- शरीरं प्रयच्छति धर्मप्रतिभुवा”। सिंह आह-"भो ! यदि एवं तत् सुन्दरतरम्, व्यवहारस्य अस्य धर्मः प्रतिभूः क्रियता- म्”इति । अथ सिंहवचनानन्तरं वृकश्गालाभ्यां विदारि- तोभयकुक्षिः शंकुकर्णः पञ्चत्वमुपागतः । अथ वज्रदंष्ट्रः चतुरकमाह-"भोः चतुरक ! यावदहं नदीं गत्वा स्नानं देवतार्चनाविधिं कृत्वा आगच्छामि, तावत् त्वया अत्र अप्र- मत्तेन भाव्यम्” इत्युक्त्वा नद्यां गतः । अथ तस्मिन् गते चतु- रकः चिन्तयामास, कथं मम एकाकिनो भोज्योऽयमुष्ट्रो भविष्यतीति विचिन्त्य क्रव्यमुखमाह,-"भोः क्रव्यमुख ! क्षुधालुर्भवान्, तद्यावद्सौ स्वामी न आगच्छति तावत् त्वमस्य उष्ट्रस्य मांसं भक्षय । अहं त्वां स्वामिनो निर्दोषं प्रतिपादयिष्यामि”। सोऽपि तच्छ्रुत्वा यावत् किञ्चिन्मांसं आस्वादयति तावच्चतुरकेणोक्तम्,-"भोः क्रव्यमुख ! समाग- च्छति स्वामी, तत् त्यक्त्वा एनं दूरे तिष्ठ येनास्य भक्षणं न विकल्पयति”। तथानुष्ठिते सिंहः समायातो यावदुष्ट्रं पश्यति तावद्रिक्तीकृतहृदयो दासेरकः । ततो भुकुटिं कृत्वा परुषत- रमाह-"अहो ! केनैष उष्ट्र उच्छिष्टतां नीतो येन तमपि व्यापादयामि”। एवमभिहिते क्रव्यमुखः चतुरकमुखं अव- लोकयति, "किल तद्वद किंचिद्येन मम शान्तिर्भवति”। अथ चतुरको विहस्योवाच-"भो ! मामनादृत्य पिशितं भक्षयित्वा अधुना मन्मुखमवलोकयसि ! तत् आस्वादय

( १७० ) पञ्चतन्त्रम् ।

( १७० ) पञ्चतन्त्रम् ।

अस्य दुर्णयतरोः फलम्" इति । तदाकर्ण्य क्रव्यमुखो जीवना- शभयाद्दूरदेशं गतः । एतस्मिन् अन्तरे तेन मार्गेण दासे- रकसार्यो भाराक्रान्तः समायातः । तस्याग्रसरोष्ट्रस्य कंठे महती घंटा बद्धा तस्याः शब्दं दूरतोऽपि आकर्ण्य सिंहो जम्बूकमाह-“भद्र ! ज्ञायतां किमेष रौद्रः शब्दः श्रूयतेऽश्रु- तपूर्वः”। तच्छ्रुत्वा चतुरकः किंचिद्वनान्तरं गत्वा सत्वरम- भ्युपेत्य प्रोवाच,—“स्वामिन्! गम्यतां गम्यतां यदि शक्नोषि गन्तुम्”। सोऽब्रवीत्,—“भद्र ! किमेवं मां व्याकुलयसि, तत कथय किमेतत् 'इति । चतुरक आह-“स्वामिन् ! एष धर्म- राजः तवोपरि कुपितः, यदनेन अकाले दासेरकोऽयं मदीयो व्यापादितः तत्सहस्रगुणमुष्ट्रस्य सकाशाद् ग्रहीष्यामीति निश्चित्य बृहन्मानमादाय अग्रेसरस्य उष्ट्रस्य ग्रीवायां घण्टां बद्ध्वा वध्यदासेरकसत्कानपि पितृपितामहानादाय वैर- निर्यातनार्थमायात एव”। सिंहोऽपि तच्छ्रुत्वा सर्वतो दूरादेव अवलोक्य मृतमुष्ट्रं परित्यज्य प्राणभयात् प्रनष्टः। चतुरकोऽपि शनैः शनैः तस्य उष्ट्रस्य मांसं भक्षयामास । अतोऽहं ब्रवीमि, “परस्य पीडनं कुर्वन् ” इति । यह विचार कर शंकुकर्णसे बोला-“भो शंकुकर्ण ! स्वामी पथ्यके विना क्षुधासे पीडित होता है । स्वामीके न होनेसे हमाराभी अवश्य मरण हो जायगा सो जो कुछ वाक्य स्वामीके निमित्त कहूं वह सुन” । शंकुकर्ण बोला-“भो ! शीघ्र निवेदन करो जो मैं शीघ्र तुम्हारे वचन पे विचारे करूं औरभी स्वामीके हित करनेमें मेरे सौ सुकृत होंगे” तब चतुरक बोला-“भो भद्र ! अपने शरी- रको दुगुण लाभके लिये स्वामिको दो, जिससे तेरा दूना शरीर हो जायगा । और स्वामीकी प्राणयात्रा होगी ” । यह सुन शंकुकर्ण बोला-“भद्र ! जो ऐसा है तो मेरा प्रयोजन यह कहो, स्वामीका अर्थ करो परन्तु इसमें धर्मही साक्षी है”। इस प्रकार वे सब विचार सिंहके समीप गये । तब चतुरक बोला- “देव ! कोई जीव नहीं मिला, भगवान् सूर्यभी अस्ताचलको प्राप्त हुए सो यदि स्वामी दुगुणशरीर प्रदान करें तो यह शंकुकर्ण यह द्विगुणवृद्धिसे धर्मका

[header] भाषाटीकासमेतम् । ( १७१ ) [/header]

विश्वास कर अपने शरीरको देगा,” सिंह बोला-“भो ! यदि ऐसा है तो यह सुन्दरतरहै, यह व्यवहारका कर्महै इसमें धर्मका प्रतिभू करो”। तब सिंहके वचनके उपरान्त वृक शृगालोंने उसकी दोनों कोख विदीर्ण करदीं और शङ्कु- कर्ण मरगया । तब वज्रदंष्ट्र चतुरकसे बोला-“भो चतुरक ! जबतक मैं नदीमें जाकर स्नान देवतार्चनविधि करके आताहू तबतक तुझे यहा सावधान रहना चाहिये” ऐसा कह नदीको गया । उसके जानेमें चतुरक विचारने लगा । “कैसे मुझ इकलेकोही यह ऊट खानेको मिले” यह विचार क्रव्यमुखसे बोला- “भो क्रव्यमुख ! आप भूखेहो सो जबतक स्वामी न आवे तबतक तुम इस ऊटके मासको खाओ मैं तुझको स्वामीसे निर्दोष प्रतिपादन करूंगा।” वहभी यह वचन सुन जबतक कुछ मास खाता है तबतक चतुरकने कहा-“भो क्रव्य- मुख ! स्वामी आताहै सो इसको त्यागकर दूरहो, जो इसके भक्षणमे विकल्प न हो” ऐसा करनेपर सिंह आकर ऊटको देखने लगा तो, रीताहृदय ऊट देखा । तब टेढी भौं करके क्रोधकर बोला-“अहो ! किसने यह ऊंट झूठा कर दिया, जिससे उसकोभी मारू” ऐसा कहनेपर क्रव्यमुख चतुरकका मुख देखने लगा “निश्चयही उसको कह जिससे मेरी शान्ति हो”तब चतुरक हँसकर बोला-“भो ! मुझको अनादर कर मास खाकर अब मेरा मुख देखता है सो उस दुर्नीतिरूपी वृक्षका फल आस्वादन करो”। यह सुनकर क्रव्यमुख जीव- नाशके भयसे दूरस्थानमें चलागया, इसी समय उस मार्गमे ऊटोंका समूह बोझसे लादाहुआ आया, उसके आगे ऊटके गलेमें एक वडा घण्टा बँधाथा । उसके शब्दको दूरसेही सुनकर सिंह जम्बूकसे बोला-“भद्र ! देखो तो यह किसका कठोर शब्द सुनाई देता है जो पहले सुना नहीं था”। यह सुनकर चतुरक कुछ दूर वनान्तरमें जाकर, शीघ्रतासे आकर बोला-“स्वामिन् ! जाओ जाओ यदि जानेमें समर्थ होतो”। वह बोला-“भद्र ! क्यों मुझको व्याकुल- करते हो । सो कहो यह क्या है.” चतुरक बोला-“स्वामिन् ! ये धर्मराज तुम्हारे ऊपर क्रोध किये हैं कि, इसने अकालमें यह हमारा ऊट नाश किया सो हजार गुणा उस ऊटका इससे ग्रहण करूंगा ऐसा कह महापरिमाण ग्रहण कर आगेको ऊंटमें घटा बाव ऊंटमें मन लगाय उसके पितामहादिको लिये वैर लेनेके निमित्त आताही है”। सिंहभी यह वचन सुन दूरसे देख मरे ऊटको छोड

( १७२ ) पञ्चतन्त्रम् ।

( १७२ ) पञ्चतन्त्रम् । प्राणभयसे भागगया, चतुरकभी सहज २ उसका मांस खाता भया, इससे मैं कहता हूं “परका पीडन करके इत्यादि” । अथ दमनके गते सञ्जीवकश्चिन्तयामास, “अहो ! किमेतन्मया कृतं यच्छष्पादोऽपि मांसाशिनस्तस्यानु- गः संवृत्तः । अथवा साधु इदमुच्यते- तब दमनकके जानेसे संजीवक विचारने लगा,-“अहो यह मैंने क्या किया,जो मैं घास खानेवाला इस मांसभोजीका अनुगामी हुआ। अथवा यह सत्य कहा है कि- अगम्यान्यः पुमान्याति असेव्यांश्च निषेवते । स मृत्युमुपगृह्णाति गर्भमश्वतरी यथा ॥ ४०१ ॥ जो पुरुष अगम्योंमें गमन करता है, असेव्योंको सेवन करता है, वह मृत्युको प्राप्त होता है जैसे खच्चरी गर्भके धारण करनेसे ॥ ४०१ ॥ तत् किं करोमि, क्व गच्छामि, कथं मे शान्तिर्भवि- ष्यति, अथवा तमेव पिङ्गलकं गच्छामि, कदाचिन्मां शरणा- गतं रक्षति प्राणैर्न वियोजयति । यत उक्तञ्च- सो मैं क्या करूं कहां जाऊं किस प्रकार मेरी शान्ति होगी अथवा उसी पिंगलकके पास जाऊं कदाचित् मुझ शरण आये हुएको प्राणोंसे वियुक्त न करेगा रक्षा करेगा। कहाहै- धर्मार्थं यततामपीह विपदो दैवाद्यदि स्युः क्वचित् तत्तासामुपशान्तये सुमतिभिः कार्यो विशेषान्नयः । लोके ख्यातिमुपागतात्र सकले लोकोक्तिरेषा यतो दग्धानां किल वह्निना हितकरः सेकोऽपि तस्योद्भवः४०२॥ इस लोकमें धर्मार्थ यत्न करनेमें यदि दैवात् कुछ विपत्तिभी होजाय, तो उसकी शान्तिके लिये सुमतियोंको विशेष नीति करनी चाहिये कारण कि, सब लोकमें यह बात विख्यात है कि, जलेहुए स्थानपर अग्निका सेकही हित- कारक होता है ॥ ४०२ ॥ तथाच- ओरभी कहाहै- लोकेऽथवा तनुभृतां निजकर्मपाकं नित्यं समाश्रितवतां सुहितक्रियाणाम् ।

भाषाटीकासमेतम् । ( १७३ ) भावार्जितं शुभमथाप्यशुभं निकामं यद्भावि तद्भवति नात्र विचारहेतुः ॥ ४०३ ॥ इस लोकमें शरीरधारियोंको अपने कर्मका विपाक होताही है जो कि, नित्य अपने कर्तव्यसे अच्छी प्रकार कियाही है । तथा जो शुभ अशुभभावसे अर्जन किया है और जो होनहार है वह होगाही इसमें विचारकी आव- श्यकता नहीं ॥ ४०३ ॥ अपरं च, अन्यत्र गतस्यापि मे कस्यचित् दुष्टसत्त्वस्य मांसाशिनः सकाशान्मृत्युर्भविष्यति,तद्वरं सिंहात् । उक्तञ्च- और अन्यस्थानमें जाकरभी मेरी किसी मांसभक्षी दुष्ट जीवसे मृत्यु होगी तो उससे तो सिंहके हाथसे मरना भला है । कहाहै- महद्भिः स्पर्द्धमानस्य विपदेव गरीयसी । दन्तभङ्गोऽपि नागानां श्लाघ्यो गिरिविदारणे ॥ ४०४ ॥ बडे पुरुषोंसे स्पर्धा करनेसे विपत्तिभी अच्छी है पर्वतके विदीर्ण करनेमें हाथियोंका दन्तभंगभी श्रेयस्कर है ॥ ४०४ ॥ तथाच- तैसेही- महतोऽपि क्षयं लब्ध्वा श्लाघ्यं नीचोऽपि गच्छति । दानार्थी मधुपो यद्वद्गजकर्णसमाहतः ॥ ४०५ ॥ नीच प्राणी बडे मनुष्योंसे क्षयको प्राप्तहोकर श्लाघ्यताको प्राप्त होता है जैसे दानकी इच्छा करनेवाला हाथीके कर्णसे ताडित हुआ भौंरा ॥ ४०५ ॥ एवं निश्चित्य स स्खलितगतिर्मन्दं मन्दं गत्वा सिंहाश्रयं पश्यन्नपठत, अहो साधु इदमुच्यते- ऐसा निश्चय कर छिन्नगतिसे सजीवक मद मंद जाकर सिंहका आश्रय देखता हुआ यह श्लोक पढने लगा । अहो यह सत्य कहाहै- अन्तर्लीनभुजङ्गमं गृहमिव व्यालाकुलं वा वनं ग्राहाकीर्णमिवाभिरामकमलच्छायासनाथं सरः । नानादुष्टजनैरसत्यवचनासक्तैरनार्यैर्वृतं दुःखेन प्रतिगम्यते प्रचकितै राज्ञां गृहं वार्धिवत् ॥४०६॥

( १७४ ) पञ्चतन्त्रम् ।

( १७४ ) पञ्चतन्त्रम् । भीतर स्थित है सर्प जिसमें ऐसे घरकी समान, हिंसक जीवोंसे व्याप्त वनकी समान, ग्राह ( नाकों ) से युक्त मनोहर छायावाले कमल खिले सरोवरकी समान, अनेक दुष्टजन असत्य वचनोंमे रत असाधुओंसे पूर्ण राजाओंका घर सागरकी समान भीत हुए श्रेष्ठ पुरुषोंसे दुःखसे जाया जाता है ॥४०६॥ एवं पठन् दमनकोक्ताकारं पिङ्गलकं दृष्ट्वा प्रचकितः संवृ- तशरीरो दूरतरं प्रणामकृतिं विनापि उपविष्टः पिङ्गलकोऽपि तथाविधं तं विलोक्य दमनकवाक्यं श्रद्दधानः कोपात् तस्योपरि पपात । अथ सञ्जीवकः खरनखरविदारितपृष्ठः शृंगाभ्यां तदुदरमुल्लिख्य कथमपि तस्मादपेतः । शृंगाभ्यां हन्तुमिच्छन् युद्धायावस्थितः । अथ द्वौ अपि तौ पुष्पितप- लाशप्रतिभौ परस्परवधकांक्षिणौ दृष्ट्वा करटको दमनकमाह- "भो मूढमते ! अनयोर्विरोधं वितन्वता त्वया साधु न कृतम् । न च त्वं नीतितत्त्वं वेत्सि । नीतिविद्भिरुक्तञ्च,- इस प्रकार पढता हुआ दमनकके कहे आकारकी समान पिंगलकको देखकर चकित और रक्षित शरीरसे बिनाही प्रणाम किये दूर बैठगया । पिंगलकभी इस प्रकार उसको देख दमनकका वाक्य सत्य मानकर कोपसे उसके ऊपर टूट पडा तब संजीवक उसके तीक्ष्ण नखोंसे विदीर्ण पीठवाला; सींगोंसे उसके उदरमें प्रहार कर किसी प्रकार उससे अलग हुआ; सींगोंसे मारनेकी इच्छा कर -युद्धके निमित्त स्थित हुआ, तब दोनोंही वह फूले ढाककी समान हुए परस्पर वधकी आकांक्षासे दोनोंको देख करटक दमनकसे बोला,—"भो मूढमते ! इन दोनोंको विरोध करते हुए तैने अच्छा नहीं किया तू नीतिका तत्व नहीं जानता । नीति- जाननेवालोंने कहाहै- कार्याण्युत्तमदण्डसाहसफलान्यन्याससाध्यानि ये प्रीत्या संशमयन्ति नीतिकुशलाः सार्द्धैव ते मन्त्रिणः । निःसारल्पफलानि ये त्वविधिना वाञ्छन्ति दण्डोद्यमै- स्तेषां दुर्णयचेष्टितैर्नरपतेरारोप्यते श्रीस्तुलाम् ॥ ४०७ ॥ जो कार्य्य उत्तम दंड साहसके फलवाले और कष्टसाध्य हैं नीतिकुशल मंत्री वे कार्य्य प्रीति और साम उपायसेही निर्वाहिन करते हैं और जो अन्याय तथा

भाषाटीकासमेतम् । (१७५)

युद्धके उद्योगसे अल्प फलकी वाञ्छा करते हैं उन दुर्नीति चेष्टावाले राजोंकी लक्ष्मी सन्देहमें आरोपण की जाती है ॥ ४०७ ॥ तद्यदि स्वाम्यभिघातो भविष्यति तत् किं त्वदीयमन्त्रबु- द्वया क्रियते । अथ सञ्जीवको न बध्यते तथापि अभव्यं यतः प्राणसन्देहात् तस्य च वधः, तन्मूढ ! कथं त्वं मन्त्रिप्दम- भिलषसि सामसिद्धिं न वेत्सि, तद्वृथा मनोरथोऽयं ते दण्डरुचेः । उक्तञ्च- सो यदि स्वामीका नाश होगा तो क्या तेरी मंत्रबुद्धिसे किया जाय । और सञ्जीवक न मरे तो भी अशुभ होगा, जो कि, प्राणसन्देहसे उसका वध है सो मूर्ख ! किसप्रकार तू मन्त्रीपदकी अभिलाषा करता है साम सिद्धिको नहीं जानता सो दण्डरुचि करनेवाले तेरा यह मनोरथ वृथा है । कहा है- सामादिदण्डपर्यन्तो नयः प्रोक्तः स्वयम्भुवा । तेषां दण्डस्तु पापीयांस्तं पश्चाद्विनियोजयेत् ॥ ४०८ ॥ सामसे लेकर दण्ड पर्य्यन्त ब्रह्माने नीति कही है उसमें दंड पापी है उसको पीछे नियुक्त करना चाहिये ॥ ४०८ ॥ तथाच- और देखो- साम्नैव यत्र सिद्धिर्न तत्र दण्डो बुधेन विनियोज्यः । पित्तं यदि शर्करया शाम्यति कोऽर्थः पटोलेन ॥ ४०९ ॥ जहां साम उपायसेही सिद्धि होती है पंडितको वहां दंड प्रयुक्त नहीं करना चाहिये, यदि मिश्री शर्करासेही पित्त शान्त होजाय तो पटोल देनेसे क्या फायदा ॥ ४०९ ॥ तथाच- और भी- आदौ साम प्रयोक्तव्यं पुरुषेण विजानता । सामसाध्यानि कार्य्याणि विक्रियां यान्ति न काचित्४१० ज्ञानी पुरुषोंको प्रथम साम उपाय प्रयोग करना चाहिये सामसे सिद्ध हुए कार्य्य विकारको प्राप्त नहीं होते हैं ॥ ४१० ॥

( १७६ ) पञ्चतन्त्रम् ।

( १७६ ) पञ्चतन्त्रम् ।

न चन्द्रेण न चौषध्या न सूर्येण न वह्निना । साम्नैव विलयं याति विद्वेषिप्रभवं तमः ॥ ४११ ॥ चन्द्रमा, औषधी, सूर्य, अग्निसे विद्वेषतासे उत्पन्न हुआ अंधकार दूर नहीं होता किन्तु साम उपायसेही दूर होता है ॥ ४११ ॥

तथा यत् त्वं मन्त्रित्वमभिलषसि तदपि अयुक्तं यतस्त्वं मन्त्रगतिं न वेत्सि । यतः पञ्चविधो मन्त्रः स च कर्म्मणामा- रम्भोपायः, पुरुषद्रव्यसम्पत्, देशकालविभागो, विनिपात- प्रतीकारः । कार्य्यसिद्धिश्चेति । सोऽयं स्वाम्यमात्ययोरेकतम- स्य किंवा द्वयोरपि विनिपातः समुत्पद्यते लग्नः। तद्यदि का- चिच्छक्तिरस्ति तद्विचिन्त्यतां विनिपातप्रतीकारः, भिन्नस- न्धाने हि मन्त्रिणां बुद्धिपरीक्षा, तन्मूर्ख ! तत् कर्तुमसमर्थ- स्त्वं यतो विपरीतबुद्धिरसि । उक्तञ्च-

और जो तू मन्त्रीपदकी अभिलाषा करता है सोभी अयुक्त है जो कि, तू मंत्रकी गतिको नहीं जानता है जो कि, पांचप्रकारका मंत्र होताहै-कर्मके आर- भका उपाय करना, उपयुक्त कर्मचारियोंकी द्रव्य सम्पत्ति, देश कालका विभाग ( इस समयदान इस समय दंडका प्रयोग इत्यादि ) अपायका प्रतीकार करना और कार्यसिद्धि । सो यह पिंगलक और संजीवक दोनों स्वामी भृत्यमेंसे एकका वा दोनोंका मरण होना उपस्थितहै । सो यदि कोई शक्ति हो तो इस अनिष्ट अपायका प्रतीकार करो भिन्न ( १ ) सन्निधानमेही मन्त्रियोंकी बुद्धिकी परीक्षा कीजातीहै सो हे मूर्ख ! यह करनेमें तू असमर्थ है कारण कि, विपरीतबुद्धिहै । कहाहै-

मन्त्रिणां भिन्नसन्धाने भिषजां सान्निपातिके । कर्म्मणि व्यज्यते प्रज्ञा स्वस्थे को वा न पण्डितः ॥४१२॥ पृथक् हुओंको मिलानेमें मन्त्रियोंकी, सन्निपात रोगके कर्ममें वैद्योंकी बुद्धि देखी जाती है स्वस्थतामें कौन पंडित नहीं है ॥ ४१२ ॥

( १ ) द्वेषियोंकामिलाप कराना ।

भाषाटीकासमेतम् । ( १७७ ) अन्यच्च- औरभी- घातयितुमेव नीचः परकार्य्यं वेत्ति न प्रसाधयितुम् । पातयितुमेव शक्तिर्नाखोरुद्धर्त्तुमन्नपिटम् ॥ ४१३ ॥ नीच पराया कार्य नष्ट करना ही जानता है सिद्ध करना नहीं । चूहेकी अन्न पिटारीके गिरा देनेकीही शक्ति है उठारखनेकी नहीं ॥ ४१३ ॥ अथवा न ते दोषोऽयं स्वामिनो दोषो यस्ते वाक्यं श्रद्द- धाति । उक्तञ्च- अथवा यह तेरा दोष नहीं स्वामीका दोष है जो तेरे वचनमें श्रद्धा की, कहाहै- नराधिपा नीचजनानुवर्त्तिनो बुधोपदिष्टेन पथा न यान्ति ये। विशन्त्यतो दुर्गममार्गिनिर्गमं समस्तसम्बाधमनर्थपञ्जरम् ४१४ जो राजा नीच जनोंसे सेवित होते हैं वे पंडितोंके उपदेश किये मार्गसे नहीं चलते हैं, इस कारण वे निकलनेके मार्गसे रहित समस्त बाधाओंसे युक्त अन- र्थके समूह दुर्गम मार्गमें प्रवेश करते हैं ॥ ४१४ ॥ तद्यदि त्वमस्य मन्त्री भविष्यसि तदा अन्योऽपि कश्चिन्न अस्य समीपे साधुजनः समेष्यति । उक्तञ्च- सो यदि तू इसका मन्त्री होगा तो दूसरा कोई साधु पुरुष इसके समीप न आवेगा । कहाहै- गुणालयोऽप्यसन्मन्त्री नृपतिर्नाधिगम्यते । प्रसन्नस्वादुसलिलो दुष्टग्राहो यथा ह्रदः ॥ ४१५ ॥ गुणोंका स्थान राजा असन्मन्त्रीजनोंसे घिराहो तो उसके निकट कोई नहीं जाता है प्रसन्न ( निर्मल ) स्वादिष्ट जलवाला सरोवर जैसे नाकेसे युक्त होनेसे अगम्य होताहै ॥ ४१५ ॥ तथाच-शिष्टजनरहितस्य स्वामिनोऽपि नाशो भविष्यति उक्तञ्च- तथाच-शिष्टजनरहित स्वामीकाभी नाश होगा । कहाहै- चित्रास्वादकथैर्भृत्यैरनायासितकार्मुकैः । ये रमन्ते नृपास्तेषां रमन्ते रिपवः श्रिया ॥ ४१६ ॥ १२

( १७८ ) पञ्चतन्त्रम् ।

( १७८ ) पञ्चतन्त्रम् । जो राजा चित्रविचित्र कथाके आस्वादवाले धनुष न चढानेवाले भृत्योंसे रमण करते हैं ( राजकाज नहीं करते हैं ) शत्रु उनकी लक्ष्मीसे रमण करते हैं ॥ ४१६ ॥ तत् किं मूर्खोपदेशेन, केवलं दोषो न गुणः । उक्तञ्च- सो मूर्खके उपदेशसे क्या केवल दोषही है गुण नहीं । कहाहै- नानाम्यं नमते दारु नाश्मनि स्यात्क्षुरक्रिया । सूचीमुख विजानीहि नाशिष्यायोपदिश्यते ॥ ४१७ ॥ नहीं झुकने योग्य काष्ठ टेढा नहीं होता, पत्थरका क्षौरकर्म नहीं होता, अशिष्यको उपदेश नदे इसमें सूचीमुखका दृष्टान्त है ॥ ४१७ ॥ दमनक आह-“कथमेतत् ?” सोऽब्रवीत्- दमनक बोला-“यह कैसे ? ” वह बोला- कथा १७. अस्ति कस्मिंश्चित् पर्वतैकदेशे वानरयूथम् । तच्च कदा- चित् हेमन्तसमये अतिकठोरवातसंस्पर्शवेपमानकलेवरं तुषारवर्षोद्धतप्रवर्षघनधारांनिपातसमाहतं न कथञ्चित् शा- न्तिमगमत् । अथ केचित् वानरा वह्निकणसदृशानि गुञ्जाफलानि अवचित्य वह्निवाञ्छया फूत्कुर्वन्तः समन्तात् तस्थुः । अथ सूचीमुखो नाम पक्षी तेषां तं वृथायास मवलोक्य प्रोवाच-‘‘ भोः ! सर्वे मूर्खाः यूयं, नैते वह्निकणाः, गुञ्जाफलानि एतानि, तत् किं वृथा श्रमेण, न एतस्मात् शीतरक्षा भविष्यति । तत् अन्विष्यतां कश्चित् निर्वातो वनप्रदेशो गुहा वा गिरिकन्दरं वा । अद्यापि साटोपा मेघा दृश्यन्ते” । अथ तेषामेकतमो वृद्धवानरः तमु- वाच-‘‘भो मूर्ख ! किं तव अनेन व्यापारेण, तद्गम्यताम् । उक्तञ्च- किसी पर्वतपर वानरोंका यूथ है वह एक समय हेमन्तसमयमें अति कठोर पवनके लगनेसे कंपितशरीर शीत और वर्षासे उद्धत घनवर्षाके धारानिपातसे

भाषाटीकासमेतम् । ( १७९ ) समाहत हुआ किसी प्रकार शान्त न हुआ । तब कोई बानर अग्निकणकी समान चोंटलियोंको इकट्ठाकर अग्निकी इच्छासे फूक मारते हुए चारों ओरसे स्थित हुए । तब सूचीमुख नाम पक्षी उनके उस वृथा परिश्रमको देखकर बोला- “भोः ! तुम सब मूर्ख हो । यह अग्निकण नहीं हैं, यह चोंटलीहैं क्यों वृथा परिश्रम करतेहो । इससे शीत रक्षा न होगी, सो ढूढ़ो कोई पवनरहित वन- स्थान गुहा वा पर्वतकदरं अबभी मडल बाधे हुए मेघ दीखते हैं” । तब उन- मेसे एक बूढा बानर उससे बोला-“भो मूर्ख ! तुझे इससे क्या प्रयोजन है चलाजा । कहाहै- मुहुर्विघ्नितकर्माणं द्यूतकारं पराजितम् । नालापयेद्विवेको यदिच्छेत्सिद्धिमात्मनः ॥ ४१८ ॥ बारबार कर्ममें विघ्न पानेवाला, जुआ खेलनेवाला, पराजित इनसे यदि अपने मगलकी इच्छा हो तो वार्ता न करे ॥ ४१८ ॥ तथाच- तैसेही- आखेटकं वृथा क्लेशं मूर्ख व्यसनसंस्थितम् । आलापयति यो मूढः स गच्छति पराभवम् ॥ ४१९ ॥” शिकारी, वृथा क्लेशकारी, मूर्ख, दुर्व्यसनमें स्थितसे जो वार्ता करता है वह पराभवको प्राप्त होता है ॥ ४१९ ॥” सोऽपि तमनादृत्य भूयोऽपि वानराननवरतमाह- “भोः ! किं वृथा क्लेशेन” अथ यावद्सौ न कथंचित् प्रलपन्विरमति तावदेकेन वानरेण व्यर्थश्रमत्वात् कुपितेन पक्षाभ्यां गृहीत्वा शिलायामास्फालित उपर- तश्चातोऽहं ब्रवीमि, “नानाम्यं नमते दारु” इत्यादि। वह भी उसको अनादर कर बारबार बानरोसे वही वचन कहने लगा- “भो ! वृथाक्लेशसे क्या है”। सो जब यह किसी प्रकार प्रलापसे न शान्त हुआ तब एक वृथा श्रमसे क्रुद्ध हुए बानरने उसके पख पकड कर शिलापर पट- ककर मार दिया, इससे मैं कहता हूँ “अनमित काष्ठ नहीं नमता इत्यादि” ।

( १८० ) पञ्चतन्त्रम् ।

( १८० ) पञ्चतन्त्रम् । तथाच- तैसेही- उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये । पयःपानं भुजंगानां केवलं विषवर्द्धनम् ॥ ४२० ॥ मूर्खोंको उपदेश करना कोपके वास्ते है शान्तिको नहीं सर्पोंको दूध पिलाना केवल विष बढानेके निमित्त है ॥ ४२० ॥ अन्यच्च- औरभी- उपदेशो न दातव्यो यादृशे तादृशे जने । पश्य वानरमूर्खेण सुगृही निर्गृहीकृतः ॥ ४२१ ॥" जैसे तैसे मनुष्यको उपदेश देना न चाहिये देखो एक मूर्ख वानरने उत्तम गृहस्थ घरसे शून्य कर दिया ॥ ४२१ ॥” दमनक आह-"कथमेतत् ?" सोऽब्रवीत् । दमनक बोला-"यह कैसे ?" वह बोला- कथा १८. अस्ति कस्मिंश्चित् वनोद्देशे शमीवृक्षः । तस्य लम्ब- मानशिखायां कृतावासौ अरण्यचटकदम्पती वसतः स्म । अथ कदाचित् तयोः सुखसंस्थयोर्हेमन्तमेघो मन्दं मन्दं वर्षितुमारब्धः । अत्रान्तरे कश्चित् शाखा- मृगो वातासारसमाहतः प्रोद्धलितशरीरो दण्डवीणां वादयन् वेपमानः तत शमीमूलमासाद्य उपविष्टः । अथ तं तादृशमवलोक्य चटका प्राह-"भो भद्र ! किसी एक वनके स्थानमें शमीका पेड था । उसकी लम्बमान शिखामें निवास करनेवाले बनेले चटक चटका रहतेथे । एक समय सुखसे बैठे हुए उन दोनोंके हेमन्त कालका मेघ मन्द २ वर्षने लगा । इसी समय कोई शाखामृग ( वानर ) पवन वर्षासे हत हुआ वर्षाके जलसे भीजा शरीरवाला दंड- वीणाको बजाता हुआ कंपित हुआ, उस शेमलके नीचे आकर बैठा उसकी यह दशा देख चटका बोली,-"भो भद्र !

भाषाटीकासमेतम् । ( १८१ ) हस्तपादसमोपेतो दृश्यसे पुरुषाकृतिः । शीतेन भिद्यसे मूढ ! कथं न कुरुषे गृहम् ॥ ४२२ ॥” हाथ पैरसे युक्त हुए तुम पुरुषाकार दीखते हो और हे मूर्ख ! शीतसे भेदित होकर भी तू घर क्यों नहीं बनाता है ॥ ४२२ ॥” एतच्छ्रुत्वा तां वानरः सकोपमाह,-“अधमे ! कस्मात् न त्वं मौनव्रता भवसि । अहो ! धाष्टर्यमस्याः अद्य मामुपहसति !- यह सुन क्रोध कर वानर बोला,-“अधमे ! चुप क्यों नहीं होती, अहो ! इस- की ढीठता कि, मेरा उपहास करती है- सूचीमुखी दुराचारा रण्डा पण्डितवादिनी । नाशङ्कते प्रजल्पन्ती त त्किमेनां न हन्म्यहम् ॥ ४२३ ॥” सूचीमुखवाली दुराचार रण्डा वृथा अपनेको पंडित माननेवाली बकवाद करती हुई नहीं डरती । सो इसको मैं क्यों नहीं नष्ट करूं ॥ ४२३ ॥” एवं प्रलप्य तामाह,-“मुग्धे ! किं तव ममोपरि चिन्तया । उक्तंच- इस प्रकार जल्पना कर उससे बोला,-“मुग्धे ! मेरी चिन्तासे तुझे क्या, कहा है- वाच्यं श्रद्धासमेतस्य पृच्छतश्च विशेषतः । प्रोक्तं श्रद्धाविहीनस्य अरण्यरुदितोपमम् ॥ ४२४ ॥ श्रद्धासे युक्त पूछते मनुष्यसेही विशेष कर कहना चाहिये श्रद्धाहीनसे कहना वनमें रोनेकी समान है ॥ ४२४ ॥ तत् किं बहुना । तावत् कुलायस्थितया तया पुनरपि अभिहितः स तावत् तां शमीमारुह्य तस्याः कुलायं शतधा खण्डश अकरोत् । अतोऽहं ब्रवीमि “उपदेशो न दातव्यः” इति। सो बहुत कहनेसे क्या है जब कि, घोंसलेमें बैठी हुई उसने फिर कहा तब इसने शमी वृक्षपर चढकर उसके घोंसलेके सौ खण्डकर दिये । इससे मैं कहता हूँ कि, “जिस किसीको उपदेश न देना चाहिये” तन्मूर्ख ! शिक्षापितोऽपि न शिक्षितः त्वम् । अथवा न ते दोषोऽस्ति, यतः साधोः शिक्षा गुणाय सम्पद्यते न असाधोः । उक्तञ्च-

( १८२ ) पञ्चतन्त्रम् !

( १८२ ) पञ्चतन्त्रम् ! सो हे मूर्ख ! सिखाया हुआ भी तू न सीखा । अथवा तेरा दोष नहीं है साधुमें शिक्षा गुणके निमित्त होतीहै असाधुमें नहीं। कहाहै- किं करोत्येव पाण्डित्यमस्थाने विनियोजितम् । अन्धकारप्रतिच्छन्ने घटे दीप इवाहितः ॥ ४२५ ॥ अनुचित स्थानमें लगाई पंडिताई क्या कर सकतीहै जैसे अंधकारसे पूर्ण घडेके ऊपर धरा हुआ दीपक (उसके भीतरका अंधकार दूर नहीं कर सकता) ॥ ४२५ ॥ तद्व्यर्थपाण्डित्यमाश्रित्य मम वचनमशृण्वन् न आत्मनः शान्तिमपि वेत्सि, तन्नूनमपजातः त्वम् । उक्तञ्च- सो वृथा पांडित्यका आश्रय कर मेरे वचन न सुने न अपनी शान्तिको भी जाना सो अवश्यही तू विजातीयहै। कहा है- जातः पुत्रोऽनुजातश्च अतिजातस्तथैव च । अपजातश्च लोकेऽस्मिन्मन्तव्याः शास्त्रवेदिभिः ॥ ४२६ ॥ इस संसारमें शास्त्रके जाननेवाले जात, अनुजात, अतिजात और अपजात यह चार प्रकारके पुत्र कहते हैं ॥ ४२६ ॥ मातृतुल्यगुणो जातस्त्वनुजातः पितुः समः । अतिजातोऽधिकस्तस्मादपजातोऽधमाधमः ॥ ४२७ ॥ माताके तुल्य गुणवाला जात, पिताके तुल्य गुणवाला अनुजात, पितासे अधिक अतिजात और अपजात अधमाधम कहाता है ॥ ४२७ ॥ अप्यात्मनो विनाशं गणयति न खलः परव्यसनहृष्टः । प्रायो मस्तकनाशे समरमुखे नृत्यति कबन्धः ॥ ४२८ ॥ पराये दुःखसे प्रसन्न हुआ दुष्ट अपने नाशको नहीं गिनताहै प्रायः मस्तकके नाश होनेमेंभी कबन्ध समरमें नृत्य करता है॥ ४२८ ॥ अहो ! साधु चेदमुच्यते । अहो ! यह सत्य कहा है कि- धर्मबुद्धिः कुबुद्धिश्च द्वावेतौ विदितौ मम । पुत्रेण व्यर्थपाण्डित्यात्पिता धूमेन घातितः ॥ ४२९ ।