भारतकोश
संग्रह पर लौटें

पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

Panchatantram with Sanskrit & Hindi Commentary

पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा

DevanagariSanskritpublished536 पृष्ठ

( ४९८ ) पञ्चतन्त्रम् ।

शब्दायमानोऽश्वकुट्यां प्रत्यासन्नवर्त्तिन्यां प्रविष्टः । तत्र तृण- प्राचुर्य्ययुक्तायां क्षितौ तस्य प्रलुठतः सर्वत्रापि वह्निज्वालाः तथा समुत्थिता यथा केचिदश्वाः स्फुटितलोचनाः पञ्चत्वं गताः।केचित् बन्धनानि त्रोटयित्वा अर्द्धदग्धशरीरा इतश्चेतश्च ह्रेषायमाणा धावमानाः सर्वमपि जनसमूहम् आकुलीचक्रुः । अत्रान्तरे राजा सविषादः शालिहोत्रज्ञान् वैद्यान् आहूय प्रोवाच,–“भोः ! प्रोच्यताम् एषाम् अश्वानां कश्चित् दाहो- पशमनोपायः”। तेऽपि शास्त्राणि विलोक्य प्रोचुः,–“देव ! प्रोक्तमत्र विषये भगवता शालिहोत्रेण । यत्–

तब उसके जाननेमें एक दिन वह मेष रसोईमें आया तबही सूपकारोंने ओर कुछ न पाकर आधे जलते काष्ठसे ताडित किया, प्रज्वलित शरीर शब्द करता हुआ समीपवर्ती अश्वशालामें प्रविष्ट हुआ । वह बहुत तृण रक्खी हुई भूमिमें सब स्थानमें उसके लोटनेसे इसप्रकार अग्नि ज्वाला लग उठी कि किसी घोडेकी आंख फूट गई, कोई मरगये, कोई बन्धनको तोडकर अधजले शरीर इधर उधर हींसते दौडते सबही जनसमूहोंको व्याकुल करते हुए । इसी समय राजा विषाद पूर्वक शालिहोत्रके ज्ञानवाले वैद्योंको बुलाकर बोला,–“भो ! इन घोडों की दाहशान्तिका कोई उपाय कहो”। वेभी शास्त्र देखकर बोले-“देव ! इस विषयमें भगवान् शालिहोत्रने कहा है–

कपीनां मेदसा दोषो वह्निदाहसमुद्भवः ।
अश्वानां नाशमभ्येति तमः सूर्योदये यथा ॥ ८० ॥

घोडोंके अग्निदाहसे उत्पन्न हुआ दोष वानरोंकी चरबीसे इस प्रकार नष्ट हो जाता है जैसे सूर्यके उदयमे अन्धकार ॥ ८० ॥

तत् क्रियताम् एतत् चिकित्सितं द्राक् यावत् एते न दाह-दोषेण विनश्यन्ति”। सोऽपि तदाकर्ण्य समस्तवानरवधम् आदिष्टवान् । किं बहुना सर्वेऽपि ते वानरा विविधायुधलगुडपाषाणादिभिः व्यापादिता इति । अथ सोऽपि वानरयूथपः तं पुत्रपौत्रभ्रातृसुतभागिनेयादिसंक्षयं ज्ञात्वा परं विषादम् उपागतः । स त्यक्ताहारक्रियो वनात् वनं पर्य्यटति, अचिन्तयच्च, “कथमहं तस्य नृपापसदस्य अनृणताकृत्येन अपकृत्यं करिष्यामि । उक्तञ्च–

भाषाटीकासमेतम् । ( ४९९ )

सो शीघ्र इनकी चिकित्सा करो कि, यह जबतक दाहके दोषसे नाशको प्राप्त न हों”। वहभी सुनकर सम्पूर्ण वानरोंके वधकी आज्ञा देता हुआ । बहुत कहनेसे क्या है वे सबही वानर अनेक आयुध लगुड पत्थरादिसे मारे गये । तब वह भी वानरयूथप उस पुत्र, पौत्र, भ्रातापुत्र, भानूजे, आदिका क्षय जानकरं परम विषादको प्राप्त हुआ । और भोजनको त्याग विचार करते २ इधरसे उधर वनमें घूमने लगा । किस प्रकार मैं इस नृपनीचका अनृणता सम्पादन (बैरका लेना) कर अपकार करू । कहा है कि—

मर्षयेद्धर्षणं योऽत्र वंशजां परनिर्मिताम् । भयाद्वा यदि वा कामात्स ज्ञेयः पुरुषाधमः ॥ ८१ ॥”

जो इस संसारमे दूसरेके किये कुलके तिरस्कारको भय वा कामसे सहन करता है उसे पुरुषोंमें अधम जानना उचित है ॥ ८१ ॥”

अथ तेन वृद्धवानरेण कुत्रचित्पिपासाकुलेन भ्रमता पद्मिनीखण्डमण्डितं सरः समासादितम् । तत् यावत् सूक्ष्मेक्षिकया अवलोकयति तावत् वनचरमनुष्याणां पदपंक्तिप्रवेशोऽस्ति न निष्क्रमणम् । ततः चिन्तितम् “नूनं अत्र जलान्ते दुष्टग्राहेण भाव्यम्, तत् पद्मिनीनालम् आदाय दूरस्थोऽपि जलं पिबामि”। तथानुष्ठिते तन्मध्यात् राक्षसो निष्क्रम्य रत्नमालाविभूषितकण्ठः तमुवाच,—“भो अत्र यः सलिले प्रवेशं करोति स मे भक्ष्य इति । तत् नास्ति धूर्त्ततरस्त्वत्समोऽन्यो यत् पानीयम् अनेन विधिना पिबसि । ततः तुष्टोऽहम्, प्रार्थयस्व हृदयवाञ्छितम्” कपिराह,—“भोः ! कियती ते भक्षणशक्तिः,” स आह—“शतसहस्रायुतलक्षाणि अपि जलप्रविष्टानि भक्षयामि । बाह्यतः शृगालोऽपि मां दूषयति”। वानर आह—“अस्ति मे केनचित् भूपतिना सह अत्यन्तं वैरम, यदि एनां रत्नमालां मे प्रयच्छसि तत् सपरिवारमपि तं भूपतिं वाक्प्रपञ्चेन लोभयित्वा अत्र सरसि प्रवेशयामि”। सोऽपि श्रद्धेयं व वस्तथ्य श्रुत्वा रत्नमालां दत्त्वा प्राह,—“भो मित्र ! यत् समुचितं भवति तत् कर्त्तव्यम्”इति। वानरोऽपि रत्नमालाविभूषितकण्ठो वृक्षप्रासादेषु परिभ्रमन् जनैः दृष्टः पृष्टश्च—

( ५०० ) पञ्चतन्त्रम् ।

“भो यूथप ! भवान् इयन्तं कालं कुत्र स्थितः ? भवता ईदृक् रत्नमाला कुत्र लब्धा ? या दीप्त्या सूर्य्यमपि तिरस्करोति”। वानरः प्राह,-“अस्ति कुत्रचित् अरण्ये गुप्ततरं महत्सरो धनदनिर्मितम्, तत्र सूर्य्येऽर्द्धोदिते रविवारे यः कश्चित् निमज्जति स धनदप्रसादात् ईदृक् रत्नमालाविभूषितकण्ठो निःसरति”। अथ भूभुजा तदाकर्ण्य स वानरः समाहूतः पृष्टश्च-“भो यूथाधिप ! किं सत्यमेतत् ? रत्नमालासनाथं सरोऽस्ति क्वापि ?” कपिराह,-“स्वामिन् ! एष प्रत्यक्षतया मत्कण्ठस्थितया रत्नमालया प्रत्ययस्ते । तद् यदि रत्नमालया प्रयोजनं तन्मया सह कमपि प्रेषय येन दर्शयामि”। तत् श्रुत्वा नृपतिः आह-“यदि एवं तदहं सपरिजनः स्वयम् एष्यामि येन प्रभूता रत्नमालाः सम्पद्यन्ते”। वानर आह-“एवं क्रियताम्” । तथा अनुष्ठिते भूपतिना सह रत्नमालालोभेन सर्वे कलत्रभृत्याः प्रस्थिताः । वानरोऽपि राज्ञा दोलाधिरूढेन स्वोत्सङ्गे आरोपितः सुखेन प्रीतिपूर्वकम् आनीयते । अथवा साधु इदमुच्यते-

तब उस वृद्ध वानरने क्षुधा पिपासासे व्याकुल हो वनमें घूमते हुए कमलिनी खण्डसे मंडित एक सरोवर प्राप्त किया । जबतक सूक्ष्म दृष्टिसे उसे देखता है कि तबतक वनचर मनुष्योंकी पदपंक्तिसे प्रवेश तो देखा परन्तु निकलना न पाया । तब उसने विचार किया । “निश्चयही इस जलके भीतर दुष्ट ग्राह होगा । सो कमलके पत्तेसे जल ग्रहणकर दूरसे पिऊं”। ऐसा करते ही उसमेंसे राक्षस निकलकर रत्नमालासे भूषित कण्ठ उससे बोला,-“भो ! जो इस जलमें प्रवेश करता है वह मेरा भक्ष्य होता है सो तुमसे अधिक धूर्त दूसरा नहीं होगा जो पानी इस प्रकारसे पीता है । सो मैं तुझसे सन्तुष्ट हू । अपना मनोवांछित मांग ले” वानर बोला,-“भो ! तुममें भक्षणकी शक्ति कितनी है?” वह बोला,-“सो दशसहस्र लक्षभा जलमें प्रवेश हुए खा सक्ता हू। और बाहरसे तौ शृगालभी मुझको पराभव कर सकता है”। वानर बोला,-“मेरा एक राजाके संग बडा बैर है जो इस रत्नमालाको मुझे दे तो सपरिवार उस राजाकूं वाणीके प्रपञ्चसे लोभितकर इस सरोवरमें प्रविष्ट करूं”। घटमी श्रद्धा करने योग्य उसके वचनको

भाषाटीकासमेतम् । (५०१)

सुनकर रत्नमाला देकर बोला,- “भो मित्र ! जो उचित समझो सो करो” । वानरभी रत्नमालासे भूषित कण्ठ होकर वृक्ष और महलोंपर घूमता हुआ जनोंसे देखा और पूछा गया,- “भो यूथप ! आप इतने समयतक कहा थे ? आपने ऐसी रत्नमाला कहा पाई ? जो कान्तिसे सूर्यकोभी तिरस्कार करती है” । वानरने कहा,- एक वनमें गुप्त बडा सरोवर कुबेरका बनाया है वहा सूर्यके आधा निकलनेपर इतवारको जो मनुष्य स्नान करे वह कुबेरके प्रसादसे इस प्रकार भूषितकण्ठ हो निकलता है” । तब राजाने यह सुन उस वानरको बुलाकर पूछा,- “भो ! यूथपति क्या यह सत्य है ?” । वानरने कहा,- “स्वामिन् यह प्रत्यक्ष मेरे कण्ठमें स्थित रत्नमालाही आपको विश्वास कराती है । सो यदि रत्नमालासे प्रयोजन है तौ मेरे संग किसीको भेजो जिसे दिखाऊ” यह सुनकर राजा बोला,- “जो ऐसा है तो मै परिजनसहित स्वयं जाऊगा । जिससे रत्नमाला प्राप्त हो” । वानर बोला,- “ऐसा ही करो” । ऐसा कहनेपर राजाने रत्नमालाके लोभसे सब स्त्री भृत्य भेजे । और वानरकाभी राजा पालकीमें अपनी गोदमे बैठाय सुखसे प्रीतिपूर्वक ले चला” । अथवा यह अच्छा कहा है-

तृष्णे देवि ! नमस्तुभ्यं यया वित्तान्विता अपि । अकृत्येषु नियोज्यन्ते भ्राम्यन्ते दुर्गमेष्वपि ॥ ८२ ॥

हे तृष्णा देवि ! तुमको नमस्कार है, जिससे धनी पुरुषभी अकार्योंमे नियुक्त कर दुर्गम स्थानोंमें भ्रमाये जाते हैं ॥ ८२ ॥

तथाच-
और देखो-

इच्छति शती सहस्रं सहस्री लक्षमीहते । लक्षाधिपस्तथा राज्यं राज्यस्थः स्वर्गमीहते ॥ ८३ ॥

सौवाला सहस्रकी, सहस्रवाला लाखकी, लक्षाधिप राज्यकी ओर राज्याधिप स्वर्गकी इच्छा करता ह ॥ ८३ ॥

जीर्यन्ते जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः । जीर्यतश्चक्षुषी श्रोत्रे तृष्णैका तरुणायते ॥ ८४ ॥”

जीर्ण होनेसे केश जीर्ण होते हैं, जीर्ण होनेसे दात जीर्ण होजाते हैं, नेत्र श्रोत्रभी जीर्ण होते हैं, एक तृष्णाही तरुण होती जाती है ॥ ८४ ॥”

( ५०२ ) पञ्चतन्त्रम् ।

अथ तत्सरः समासाद्य वानरः प्रत्यूषसमये राजानम् उवाच,—“देव ! अर्द्धोदिते सूर्य्येऽत्र प्रविष्टानां सिद्धिर्भवति। तत्सर्वोऽपि जन एकदा एव प्रविशतु, त्वया पुनर्मया सह प्रवेष्टव्यं येन पूर्वदृष्टस्थानम् आसाद्य प्रभूतास्ते रत्नमाला दर्शयामि”। अथ प्रविष्टाः ते लोकाः सर्वे भक्षिता राक्षसेन । अथ तेषु चिरायमाणेषु राजा वानरमाह,—“भो यूथाधिप ! किमिति चिरायते मे जनः ?” । तत् श्रुत्वा वानरः सत्वरं वृक्षम् आरुह्य राजानम् उवाच,—“भो दुष्टनरपते ! राक्षसेन अन्तःसलिलस्थितेन भक्षितस्ते परिजनः साधितं मया कुलक्षयजं वैरम्, तत् गम्यताम् । त्वं स्वामीति मत्वा न अत्र प्रवेशितः । उक्तञ्च—

तब उस सरोवरको प्राप्त होकर वानर प्रभातकालमें राजासे बोला,—“देव ! यहां आधे उदय होते सूर्यके प्रवेश करनेवालोंको सिद्धि होगी। सो सबही मनुष्य एक साथ प्रवेश करें, आप पीछे मेरे साथ प्रवेश करना जिससे पूर्वमें देखे स्थानको प्राप्त होकर बहुतसी रत्नमाला तुमको दिखाऊंगा”। तब प्रवेश कियेहुए वे लोक सब उस राक्षसने खालिये तब उनके देर करनेपर राजा वानरसे बोला,—“भो यूथाधिप ! क्या कारण है जो हमारे जन देर करते है ?”। यह सुनकर वानर शीघ्र वृक्षपर चढकर राजासे बोला—“भो दुष्ट राजन्। भीतर जलके स्थित हुए राक्षसने तुम्हारे परिजन भक्षण किये । मैंने अपने कुलक्षयसे उत्पन्न हुआ वैर साधन किया । सो जाओ स्वामी जानकर इसमें तुम्हें प्रवेश न कराया । कहा है कि—

कृते प्रतिकृतिं कुर्य्याद्धिंसिते प्रतिहिंसितम् ।
न तत्र दोषं पश्यामि दुष्टे दुष्टं समाचरेत् ॥ ८५ ॥

उपकारवालेके संग उपकार करे, हिंसावालेके संग हिंसा करे, दुष्टके संग दुष्टता करे, इसमें मै दोष नहीं देखता हूं ॥ ८९ ॥

तत्त्वया मम कुलक्षयः कृतो मया 'पुनस्तव” इति । अथ एतदाकर्ण्य राजा कोपाविष्टः पदातिः एकाकी यथायातमार्गेण निष्क्रान्तः। अथ तस्मिन् भूपतौ गते राक्षसः तृप्तो जलात् निष्क्रम्य सानन्दमिदमाह,—

भाषाटीकासमेतम् । (५०३)

सो तैने मेरा कुलक्षय किया मैंने तेरा” । तब यह वचन सुन राजा महाक्रो-धित हो पैरो इकठा जिधरसे आया था उस मार्गसे चला । तब उस राजाके जानेपर तृप्त हुआ राक्षस जलसे निकल आनन्दसे यह बोला—

“हतः शत्रुः कृतं मित्रं रत्नमाला न हारिता ।
नालेनापिबता तोयं भवता साधु वानर ॥ ८६ ॥”

“हे वानर आपने पद्मनालसे जल पीकर शत्रु मारा, मुझसे मित्रता की, मेरी रत्नमाला भी न खोई, धन्य हो ! ॥ ८६ ॥”

अतोऽहं ब्रवीमि—

इससे मैं कहता हू—

यो लौल्यात्कुरुते कर्म नैवोदर्कमवेक्षते ।
विडम्बनामवाप्नोति स यथा चन्द्रभूपतिः ॥ ८७ ॥”

जो चंचलतासे कर्म करके उसका परिणाम नहीं सोचता है वह चन्द्र राजाकी समान विडम्बनाको प्राप्त होता है ॥ ८७ ॥”

एवमुक्त्वा भूयोऽपि स चक्रधरमाह,–“भो मित्र ! प्रेषय मां येन स्वगृहं गच्छामि”। चक्रधर आह,–“भद्र ! आपदर्थे धनमित्रसंग्रहः क्रियते । तत् माम् एवंविधं त्यक्त्वा क्व यास्यसि । उक्तञ्च–

ऐसा कह फिर भी चक्रधरसे बोला--“मुझे जाने दो जो मैं अपने घर जाऊं”। चक्रधर बोला,--“भद्र ! आपत्तिके निमित्त धन और मित्रका संग्रह किया जाता है, सो इस प्रकार मुझे छोडकर कहा जाता है ? कहा है--

यस्त्यक्त्वा सापदं मित्रं याति निष्ठुरतां सुहृत् ।
कृतघ्नस्तेन पापेन नरके यात्यसंशयम् ॥ ८८ ॥”

जो सुहृत् आपत्तिमें मित्रको छोडकर निष्ठुर हो जाता है वह कृतघ्न उस पापसे अवश्य नरकको जाता है ॥ ८८ ॥”

सुवर्णसिद्धिः आह,–“भोः ! सत्यमेतत यदि गम्यस्थाने शक्तिर्भवति । एतत्पुनः मनुष्याणाम् अगम्यस्थानम् । नास्ति कस्यापि त्वाम् उन्मोचयितुं शक्तिः। अपरं यथा यथा चक्र-भ्रमवेदनया तव मुखविकारं पश्याम तथा तथा अहमेतत जानामि यत् द्राक् गच्छामि मा कश्चित ममापि अनर्थो भवतु। यतः-

( ५०४ ) पञ्चतन्त्रम् ।

सुवर्णसिद्धि बोला,—“भो ! यह सत्य है यदि सुगम स्थानमें शक्ति होती है तो । और यह तो मनुष्योंको अगम्य स्थान है किसीमें भी तुझे छुडानेकी शक्ति नहीं है । और ज्यों ज्यों चक्रके भ्रमणकी वेदनासे तेरे मुखका विकार देखता हूं त्यों त्यों मैं यह जानता हू कि, शीघ्र जाऊ जिससे कोई मेरे ऊपर अनर्थ नहो । क्योकि—

यादृशी वदनच्छाया दृश्यते तव वानर त्रिकालेन गृहीतोऽसि यः परैति स जीवति ॥ ८९ ॥”

हे वानर ! जैसी तेरे मुखकी छाया दीखती है इससे जानता हूं तूभी विपरीत समय ( दुर्भाग्य ) से आक्रान्त हुआ है जो इस संकटसे भागे वह जिये ८९”

चक्रधर आह—“कथमेतत् ?” सोऽब्रवीत्— चक्रधर बोला,—“यह कैसे ?” वह बोला—

कथा ११.

कस्मिंश्चित् नगरे भद्रसेनो नाम राजा प्रतिवसति स्म । तस्य सर्वलक्षणसम्पन्ना रत्नवती नाम कन्या अस्ति । तां कश्चित् राक्षसो जिहीर्षति रात्रौ आगत्य उपभुङ्क्ते । परं कृतरक्षोपधानां हर्तुं न शक्नोति । सापि तत्समये रक्षःसान्निध्यजामवस्थाम् अनुभवति कम्पादिभिः । एवम् अतिक्रामति काले कदाचित् स राक्षसो मध्यनिशायां गृहकोणे स्थितः । सापि राजकन्या स्वसखीम् उवाच,—“सखि ! पश्य एष विकालः समये नित्यमेव मां कदर्थयति अस्ति तस्य दुरात्मनः प्रतिषेधोपायः कश्चित् ?” । तच्छ्रुत्वा राक्षसोऽपि व्यचिन्तयत्—“नूनं यथा अहं तथा अन्योपि कश्चित् विकालनामा अस्या हरणाय नित्यमेव आगच्छति । परं सोऽपि एनां हर्तुं न शक्नोति । तत् तावत् अश्वरूपं कृत्वा अश्वमध्यगतो निरीक्ष्यामि किंरूपः स किम्प्रभावश्च” इति । एवं राक्षसोऽश्वरूपं कृत्वा अश्वानां मध्ये तिष्ठति । तथानुष्ठिते निशीथसमये राजगृहे कश्चित् अश्वचौरः प्रविष्टः। स च सर्वान् अश्वान् अवलोक्य तं राक्षसम् अश्वतमं विज्ञाय अधिरूढः। अत्रान्तरे राक्षसः चिन्तयामास—“नूनमेष विका-

भाषाटीकासमेतम् । (५०५)

लनामा मां चौरं मत्वा कोपात् निहन्तुम् आगतः । तत् किं करोमि”। एवं चिन्तयन सोऽपि तेन खलीनं मुखे निधाय कशाघातेन ताडितः । अथ असौ भयत्रस्तमनाः प्रधावितुम् आरब्धः । चौरोऽपि दूरं गत्वा खलीनाकर्षणेन तं स्थिरं कर्तुम् आरब्धवान् । स तु केवलं वेगाद्वेगतरं गच्छति । अथ तं तथाऽगणितखलीनाकर्षणं मत्वा चौरः चिन्तयामास,— “अहो न एवंविधा वाजिनो भवन्ति अगणितखलीनाः तन्नूनम् अनेन अश्वरूपेण राक्षसेन भवितव्यम् । तद् यदि कथञ्चित् पांशुलं भूमिदेशम् अवलोकयामि तदा आत्मानं तत्र पातयामि । न अन्यथा मे जीवितव्यमस्ति”। एवं चिन्तयत इष्टदेवतां स्मरतस्तस्य सोऽश्वो वटवृक्षस्य तले निष्क्रान्तः । चौरोऽपि वटप्ररोहम् आसाद्य तत्रैव विलग्नः । ततो द्वौ अपि तौ पृथग्भूतौ परमानन्दभाजौ जीवितविषये लब्धप्रत्याशौ सम्पन्नौ । अथ तत्र वटे कश्चित् राक्षससुहृत् वानरः स्थितः आसीत् तेन राक्षसं त्रस्तम् आलोक्य व्याहृतम्-“भो मित्र ! किमेवं पलाय्यतेऽलीकभयेन, त्वद्भक्ष्योऽयं मानुषः भक्ष्यताम्”। सोऽपि वानरवचो निशम्य स्वरूपम् आधाय शंकितमनाः स्खलितगतिः निवृत्तः । चौरोऽपि तं वानराहूतं ज्ञात्वा कोपात् तस्य लांगूलं लम्बमानं मुखे निधाय चर्वितवान् । वानरोऽपि तं राक्षसाभ्यधिकं मन्यमानो भय न किञ्चिदुक्तवान् केवलं व्यथार्त्तो निमीलितनयनः तिष्ठति । राक्षसोऽपि तं तथाभूतम् अवलोक्य श्लोकमेनम्पठत्—

किसी नगरमे भद्रसेन नाम राजा रहता था । उसकी सब लक्षणसे संपन्न रत्नवती नाम कन्या थी । उसे कोई राक्षस ग्रहण करनेकी इच्छा करता रात्रिमें आकर उसे भोगता । परन्तु रक्षाके उपाय होनेके कारण उसे हरनेको समर्थ न होता । वह भी राक्षससे संभोगमें उसके संगकी अवस्थाको कम्पादिसे अनुभव करती । इस प्रकार समयके बीतनेपर एक समय वह राक्षस आधीरातमें घरके कोनेमें स्थित हुआ । वह भी राजकन्या अपनी सखीसे बोली,—“सखि ! देख

( ५०६ ) पञ्चतन्त्रम् ।

इसी ( १ ) विकालमें वह नित्यही मुझे क्लेशित करता है । उस दुरात्माके प्रतिषेध ( नष्ट ) होनेका कोई उपाय है ?” यह सुनकर राक्षस भी विचारने लगा । “अवश्यही जैसा मैं हू ऐसा कोई दूसरा विकाल नाम इसके हरनेको नित्यही आता है । परन्तु वह भी इसके हरनेको समर्थ नहीं होता । सो घोडेका रूप धरकर घोडोंके बीचमें स्थित होकर देखूं कि, वह किस रूप और किस प्रभावका है” । इस प्रकार राक्षस घोडेका रूप करके घोडोंके मध्यमें स्थित हुआ । ऐसा करनेपर अर्द्धरात्रको राजगृहमें कोई घोडोंका चोर आया । वह सब घोडोंको देख उस राक्षसको श्रेष्ठ घोडा जानकर उसपर चढा । इसी समय राक्षस विचारने लगा । “अवश्यही यह विकाल मुझे चोर जानकर क्रोधसे मारनेको आया है । सो मैं क्या करूं” ! ऐसा विचारते वह भी लगामको मुखमें रख कोडेके आघातसे ताडित करता हुआ । तब यह भयसे व्याकुल मन हो पलायन करने लगा । चोरभी दूर जाकर लगाम खेचकर उसको स्थित करने लगा । और वह तो केवल महावेगसे भागनेही लगा । तब वह चोर उसको लगाम खींचनेको न गिननेवाला मानकर विचारने लगा । “अहो इस प्रकारके घोडे नहीं होते हैं जो लगामको न गिनें सो अवश्यही यह घोडेरूपी राक्षस होगा । सो कहीं यदि रेतली पृथ्वी देखूं तो वहां कूद पहूँ । अन्यथा मेरा जीवन न होगा” । ऐसा विचार करते इष्टदेवताका स्मरण करते हुए वह घोडा वटके नीचेको होकर निकला । चोर वटकी शाखा अवलम्बन कर वही स्थित हुआ, इस प्रकार दोनोंही पृथक् होकर परमानन्दको प्राप्त हो जीवनकी प्राप्त आशावाले हुए । उस वटमें कोई राक्षसका मित्र वानर रहता था । उसने राक्षसको व्याकुल हुआ देखकर यह कहा,—“भो मित्र ! वृथा भयसे क्यों पलायन करते हो, सो यह मनुष्य तो भक्ष्य है इसे खाजाओ” । वहभी वानरके वचन सुन अपना स्वरूप धारण कर शंकित मनसे गति रुकीहुई लौटा । चोरभी उसे वानरका बुलाया हुआ जानकर क्रोधसे उसकी लम्बी पूंछको मुखमें डाल चबाने लगा । वानरभी उसको राक्षससे अधिक मान भयसे कुछ न बोला केवल व्यथासे दुःखी हो आंख मीञ्चकर बैठ गया राक्षसभी उसे ऐसा देख यह श्लोक पढने लगा,—


१ कुसमय.

भाषाटीकासमेतम् । (१०७);

"यादृशी वदनच्छाया दृश्यते तव वानर । विकालेन गृहीतोऽसि यः परेति स जीवति ॥ ९० ॥

"हे वानर ! जैसी तेरे मुखकी छाया दीखती है विकालसे गृहीत हुआ तूभी विदित होता है, जो भागेगा सो जियेगा ॥ ९० ॥"

उक्त्वा प्रनष्टश्च । यह कह भागगया-

तत्प्रेषय मां येन गृहं गच्छामि । त्वं पुनः अनुभुङ्क्ष्व अत्र स्थित एव लोभवृक्षफलम्" । चक्रधरः प्राह,-"भोः ! अकारणमेतत्, दैववशात् सम्पद्यते नृणां शुभाशुभम् । उक्तञ्च-

सो मुझे जानेकी आज्ञा दो । और तू यहीं स्थित हुआ लोभवृक्षका फल भोग " । चक्रधर बोला,-"भो ! यह अकारण हुआ है । दैववशसे मनुष्योंको शुभाशुभ फलकी प्राप्ति होती है । कहा है-

दुर्गस्त्रिकूटः परिखा समुद्रो रक्षांसि योधा धनदाच्च वित्तम् । शास्त्रञ्च यस्योशनसा प्रणीतं स रावणो दैववशाद्विपन्नः ॥ ९१ ॥

जिसका दुर्ग त्रिकूट पर्वत, समुद्र खाई, राक्षस योध, कुबेरसे धनकी प्राप्ति, जिसके यहा शुक्रका निर्मित किया शास्त्र वह रावण भी दैववशसे नष्ट हुआ ॥ ९१ ॥

तथाच- और देखो-

अन्धकः कुब्जकश्चैव त्रिस्तनी राजकन्या । त्रयोऽप्यन्यायतः सिद्धाः सम्मुखे कर्मणि स्थिते ॥९२॥"

तथा अंधा कुबडा तीन स्तनवाली राजकन्या यह तीनों कर्मके सन्मुख होनेमें अन्यायसे भी सिद्ध हुए ॥ ९२ ॥"

सुवर्णसिद्धिः आह-"कथमेतत् ?" सोऽब्रवीत्- सुवर्णसिद्धि बोला,-"यह कैसे ?" वह बोला-

( ५०८ )पञ्चतन्त्रम् ।

कथा १२.

अस्ति उत्तरापथे मधुपुरं नाम नगरम् । तत्र मधुसेनो नाम राजा बभूव । तस्य कदाचित् विषयसुखम् अनुभवतः त्रिस्तनी कन्या बभूव । अथ तां त्रिस्तनीं जातां श्रुत्वा स राजा कञ्चुकिनः प्रोवाच,—"यद भोः त्यज्यतामियं त्रिस्तनी गत्वा दूरेऽरण्ये यथा कश्चित् न जानाति" । तच्छ्रुत्वा कञ्चुकिनः प्रोचुः,—"महाराज ! ज्ञायते यत अनिष्टकारिणी त्रिस्तनी कन्या भवति । तथापि ब्राह्मणा आहूय प्रष्टव्या येन लोकद्वयं न विरुद्धयते । यतः—

उत्तर दिशामें एक मधुपुर नाम नगर है । वहां मधुसेन नामवाला राजाथा । उसको कभी विषयसुख अनुभव करते तीन स्तनवाली कन्या हुई । उसको तीन स्तनवाली हुई सुनकर राजा कंचुकीसे बोला,—"भो ! इस तीन स्तनीको दूर वनमें जाकर त्याग दा जो कोई भी इसको न जाने" । यह सुन कंचुकी बोले,—"महाराज ! यह जाना तो है कि, तीन स्तनी कन्या अनिष्टकारिणी होती है । तो भी ब्राह्मणोंको बुलाकर बूझाजाय, जिससे दोनों लोक न बिगडें । क्योंकि—

यः सततं परिपृच्छति शृणोति सन्धायत्यनिशम् । तस्य दिवाकरकिरणैर्नलिनीव विवर्द्धते बुद्धिः ॥ ९३ ॥

जो सदा पूछता, सुनता, रातदिन धारण करता है उसकी बुद्धि सूर्यकी किरणोंसे कमलिनीकी समान बढती है ॥ ९३ ॥

तथाच— और देखो—

पृच्छकेन सदा भाव्यं पुरुषेण विजानता । राक्षसेन्द्रगृहीतोऽपि प्रश्नान्मुक्तो द्विजः पुरा ॥ ९४ ॥"

विज्ञ पुरुषकोभी प्रश्न करना चाहिये, राक्षसेन्द्रसे गृहीत हुआ कोई पुरुष पहले प्रश्नसेही मुक्त हुआ था ॥ ९४ ॥"

राजा आह—"कथमेतत् ?" ते प्रोचुः— राजा बोला,—"यह कैसे ?" वे बोले—

भाषाटीकासमेतम्। ( ५०९ )

कथा १३.

देव ! कस्मिंश्चित् वनोद्देशे चण्डकर्मा नाम राक्षसः प्रतिवसति स्म, एकदा तेन भ्रमता अटव्यां कश्चिद् ब्राह्मणः समासादितः। ततः तस्य स्कन्धमारुह्य प्रोवाच,-“भो ! अग्रेसरो गम्यताम्। ब्राह्मणोऽपि भयत्रस्तमनाः तमादाय प्रस्थितः। अथ तस्य कमलोदरकोमलौ पादौ दृष्ट्वा ब्राह्मणो राक्षसम् अपृच्छत्-“भोः ! किमेवं विधौ ते पादौ अतिकोमलौ?”। राक्षस आह-“भो ! व्रतमस्ति, नाहम् आर्द्रपादो भूमि स्पृशामि”। ततः तच्छ्रुत्वा आत्मनो मोक्षोपायं चिन्तयन् सरः प्राप्तः। ततो राक्षसेन अभिहितम्,-“भो ! यावदहं स्नानं कृत्वा देवतार्च्चनविधिं विधाय आगच्छामि तावत् त्वया अतः स्थानात् अन्यत्र न गन्तव्यम्”। तथानुष्ठिते द्विजः चिन्तयामास । “नूनं देवतार्चनविधेरूर्ध्वं मामेष भक्षयिष्यति। तत् द्रुततरं गच्छामि येन एष आर्द्रपादो न मम पृष्ठम् एष्यात्”। तथानुष्ठिते राक्षसो व्रतभङ्गभयात् तस्य पृष्ठं न गतः। अतोऽहं ब्रवीमि-

देव ! किसी वनके निकट चण्डकर्मा नाम राक्षस रहता था। एक समय रात्रिको वनमें भ्रमण करते उसे कोई ब्राह्मण मिला। तब उसके कंधेपर चढकर बोला,-“भो ! आगे होकर चलो”। ब्राह्मणभी भय व्याकुल मनसे उसे लेकर चला तब उससे कमलके मध्यभागकी समान चरणोंको कोमल देख कर ब्राह्मण राक्षससे पूछने लगा-“भो ! इस प्रकार आपके चरण कोमल क्यों है?” राक्षस बोला,-“भो ! यह मेरा व्रत है कि, गीले पाव मैं पृथ्वीको स्पर्श नहीं करता हूं”। यह सुनकर अपने छूटनेके उपायको विचारता हुआ वह सरोवरको प्राप्त हुआ। तब राक्षसने कहा,-“भो ! जबतक मैं स्नानकर देवतार्चन विधि करके आऊ तबतक तुम इस स्थानसे ओर कहीं न जाना”। ऐसा करने पर ब्राह्मण विचारने लगा-“अवश्यही देवार्चन विधिके उपरान्त यह मुझको खा जायगा। सा शीघ्रतासे जाऊ जिससे यह गीले चरण होनेके कारण मेरे पीछे न आ सकेगा”। ऐसा करनेपर राक्षस व्रतभंगके डरसे उसके पीछे गया। इससे मैं कहता हूं-

( ५१० ) पञ्चतन्त्रम् ।

पृच्छकेन सदा भाव्यं पुरुषेण विजानता ।
राक्षसेन्द्रगृहीतोऽपि प्रश्नान्मुक्तो द्विजः पुरा ॥ ९५ ॥”

ज्ञानी पुरुषको भी सदा पूछना चाहिये, राक्षसेन्द्रसे पूछा हुआ ब्राह्मण प्रश्नसे-ही छूटा ॥ ९५ ॥”

अथ तेभ्यः तच्छ्रुत्वा राजा द्विजान् आहूय प्रोवाच,—“भो ब्राह्मणाः ! त्रिस्तनी मे कन्या समुत्पन्ना तत् किं तस्याः प्रतिविधानम् अस्ति न वा ?” ते प्रोचुः—“देव ! श्रूयताम्–

तब उनसे सुनकर राजा ब्राह्मणोंको बुलाकर बोला,—“भो ब्राह्मणो ! मेरे तीन स्तनकी कन्या उत्पन्न हुई है सो कोई उसका प्रतिविधान है वा नहीं ?” वे बोले,—“देव सुनिये–

हीनाङ्गी वाधिकाङ्गी वा या भवेत्कन्यका नृणाम् ।
भर्तुः स्यात्सा विनाशाय स्वशीलनिधनाय च ॥ ९६ ॥

जो हीन अङ्गवाली वा अधिक अंगवाली कन्या मनुष्योंके हो वह भर्ताके और अपने शीलके नाशके लिये होती है ॥ ९६ ॥

या पुनस्त्रिस्तनी कन्या याति लोचनगोचरम् ।
पितरं नाशयेत्येव सा द्रुतं नात्र संशयः ॥ ९७ ॥

और जो कहीं तीन स्तनवाली कन्या पिताके नेत्रगोचर हो तो वह शीघ्र अपने पिताको नाश करती है इसमें सन्देह नहीं ॥ ९७ ॥

तस्मात् अस्या दर्शनं परिहरतु देवः । तथा यदि कश्चित उद्वाहयति तदेनां तस्मै दत्त्वा देशत्यागेन नियोजयितव्या इति । एवं कृते लोकद्वयाविरुद्धता भवति” । अथ तेषां तद् वचनम् आकर्ण्य स राजा पटहशब्देन सर्वत्र घोषणाम् आज्ञापयामास—“अहो ! त्रिस्तनीं राजकन्यां यः कश्चित् उद्वाहयति स सुवर्णलक्षम् आप्नोति देशत्यागञ्च” । एवं तस्याम् आघोषणायां क्रियमाणायां महान् कालो व्यतीतः । न कश्चित् तां प्रतिगृह्णाति । सापि यौवनोन्मुखी सञ्जाता सुगुप्तस्थानस्थिता यत्नेन रक्ष्यमाणा तिष्ठति । अथ तत्रैव नगरे कश्चित अन्धः तिष्ठति । तस्य च मन्थरकनामा कुब्जोऽग्रेसरो यष्टिग्राही । ताभ्यां तं पटहशब्दमाकर्ण्य मिथो मन्त्रितम्

भाषाटीकासमेतम्। (५११)

“स्पृश्यतेऽयं पटहो यदि कथमपि दैवात् कन्या लभ्यते तथा सुवर्णप्राप्तिश्च भवति, सुखेन सुवर्णप्राप्त्या कालो व्रजति । अथ यदि तस्या दोषतो मृत्युर्भवति दारिद्र्योपात्तस्य अस्य क्लेशस्य पर्यन्तो भवति । उक्तञ्च--

इस कारण स्वामी ! इसके दर्शनको त्यागिये और जो इसे विवाहनेकी इच्छा करे तो वह उसे देकर देश त्यागकी आज्ञा दो ऐसा करनेपर दोनो लोकोंमें अविरुद्धता होगी”। तत्र उनके यह वचन सुनकर वह राजा बाजेके शब्दसे सर्वत्र घोषणा करानेकी आज्ञा देता हुआ--“अहो ! इस तीन स्तनवाली कन्याको जो विवाह करेगा वह लाख अशरफी पावेगा (परन्तु) देश त्याग करना होगा”। इस प्रकार उसकी घोषणाको बहुत समय बीत गया । किसीने उसको ग्रहण न किया । वहभी युवा अवस्थाको प्राप्त होकर गुप्त स्थानमें स्थित हुई यत्नसे रक्षित थी । उसी नगरमें एक अन्धा था । उसके पास एक मन्थरक नामवाला कुबडा लकडी पकडा कर आगे चलनेवाला था । उन्होंने उस वाद्य-शब्दको सुनकर परस्पर विचारा । “यह शब्द जो घोषित होता है सो यदि हम पटहको स्पर्श करें तो इसके अनुसार प्रारब्धसे कन्या प्राप्त हो जाय तो सुवर्णके लाभसे हमारा समय सुख भोगते बीतेगा और जो यदि उसके दोषसे मृत्यु हो जाय तो दरिद्रतासे प्राप्त हुए इस क्लेशका अन्त होजायगा । कहा है--

लज्जा स्नेहः स्वरमधुरता बुद्धयो यौवनश्रीः
कान्तासंगः स्वजनममता दुःखहानिर्विलासः ।
धर्मः शास्त्रं सुरगुरुमतिः शौचमाचारचिन्ता
पूर्णे सर्वे जठरपिठरे प्राणिनां संभवन्ति ॥ ९८ ॥

लज्जा, स्नेह, स्वरकी मधुरता, बुद्धि, यौवनकी लक्ष्मी, कान्ताका संग, स्वजनकी ममता, दुःखहानि, विलास, धर्मशास्त्र, देव गुरुमें भक्ति, पवित्रता, सदाचारका अनुष्ठान यह सब प्राणियोंके पेट भरनेमें होते हैं ॥ ९८ ॥

एवमुक्त्वा अन्धेन गत्वा स पटहः स्पृष्टः । “भो ! अहं तां कन्याम् उद्वाहयामि यदि राजा मे प्रयच्छति”। ततस्तैः राजपुरुषैः गत्वा राज्ञे निवेदितम्,-“देव! अन्धकेन केनचित् पटहः स्पृष्टः । तदत्र विषये देवः प्रमाणम्” । राजा प्राह-

( ५१२ ) पञ्चतन्त्रम् ।

ऐसा कहकर अन्धेने जाकर उस पटहको स्पर्श किया । "भो ! मैं उस कन्याको विवाहूंगा जो राजा मुझे कन्याको देगा"। तब उन राजपुरुषोंने राजासे जाकर कहा-"देव ! किसी अन्धेने वह घोषणाका वाजा छुआ है। सो इसमें देवही प्रमाण है"। राजा बोला,-

अन्धो वा बधिरो वापि कुष्ठी वाप्यन्त्यजोऽपि वा । प्रतिगृह्णातु तां कन्यां सलक्षां स्याद्विदेशजः ॥ ९९ ॥"

अन्धा, बहरा, कुष्ठी, अन्त्यज ( नीच ) कोईहो लाख अशरफी सहित कन्याको ग्रहण करे और देशसे बाहर हो ॥ ९९ ॥"

अथ राजादेशात् तैः रक्षापुरुषैः तं नदीतीरे नीत्वा सुवर्णलक्षेण समं विवाहविधिना त्रिस्तनीं तस्मै दत्त्वा जलयाने निधाय कैवर्त्ताः प्रोक्ताः-“भोः ! देशान्तरं नीत्वा कस्मिंश्चित् अधिष्ठाने अन्धः सपत्नीकः कुब्जकेन सह मोचनीयः” । तथानुष्ठिते विदेशम् आसाद्य कस्मिंश्चित् अधिष्ठाने कैवर्त्तदर्शिते त्रयोऽपि मूल्येन गृहं प्राप्ताः सुखेन कालं नयन्ति स्म, केवलम् अन्धः पर्य्यङ्के सुप्तः तिष्ठति । गृहव्यापारं मन्थरकः करोति, एव गच्छता कालेन त्रिस्तन्याः कुब्जकेन सह विकृतिः समपद्यत । अथवा साधु इदमुच्यते,-

तब राजाकी आज्ञासे उन राजपुरुषोंने उसे नदीके किनारे लेजाकर लाख सुवर्णके साथ ही विवाह विधिसे वह तीन स्तनकी कन्या उसे देकर नावमें बैठाय मल्लाहोंसे कहा-“भो ! इन्हें देशान्तरमें लेजाकर किसी स्थानमें स्त्रीसहित अन्धे कुबडेको छोडदो" ऐसा करनेपर विदेशको प्राप्त हो कैवर्तकके दिखाये किसी स्थानमें वे तीनों मूल्यके साथ घरको प्राप्त हुए सुखसे समयको विताने लगे। केवल अन्धा पलंगके ऊपर सोताही रहता । घरका कार्य्य कुबडा करता इस प्रकार समय जाते त्रिस्तनीके साथ लगडेका व्यभिचार प्रगट हुआ । अथवा यह अच्छा कहा है-

यदि स्याच्छीतलो वह्निश्चन्द्रमा दहनात्मकः । सुस्वादुः सागरः स्त्रीणां तत्सतीत्वं प्रजायते ॥ १०० ॥

जो अग्नि शीतल चन्द्रमा जलनेवाला और सागर स्वादिष्ट हो तौ कदाचित् स्त्रियोंमें सतीत्व होजाय ॥ १०० ॥

भाषाटीकासमेतम् । (५१३)

अथ अन्येद्युः त्रिस्तन्या मन्थरोऽभिहितः। “भोः सुभग ! यदि एषः अन्धः कथञ्चिद्व्यापाद्यते तत् आवयोः सुखेन कालो याति, तदन्विष्यतां कुत्रचित् विषं येन अस्मै तत्प्रदाय सुखिनी भवामि” । अन्यदा कुब्जकेन परिभ्रमता मृतः कृष्णसर्पः प्राप्तः। तं गृहीत्वा प्रहृष्टमना गृहमभ्येत्य तामाह,– “सुभगे ! लब्धोऽयं कृष्णसर्पः। तदेनं खण्डशः कृत्वा प्रभूतशुण्ठ्यादिभिः संस्कार्य्य अस्मै विकलनेत्राय मत्स्यामिषं भणित्वा प्रयच्छ येन द्राक् विनश्यति यतोऽस्य मत्स्यस्य आमिषं सदा प्रियम्”। एवमुक्त्वा मन्थरो बाह्ये गतः । सापि प्रदीप्ते वह्नौ कृष्णसर्पं खण्डशः कृत्वा तक्रम् आदाय गृहव्यापाराकुला तं विकलाक्षं सप्रश्रयमुवाच,–“आर्य्यपुत्र ! तव अभीष्टं मत्स्यमांसं समानीतं यतः त्वं सदा एव तत् पृच्छसि । ते च मत्स्या वह्नौ पाचनाय तिष्ठन्ति । तद्यावत् अहं गृहकृत्यं करोमि तावत् त्वं दवींम् आदाय क्षणमेकं तान् प्रचालय” । सोऽपि तदाकर्ण्य हृष्टमनाः सृक्कणी परिलिहन् द्रुतम् उत्थाय दवीं आदाय प्रमथितुमारब्धः । अथ तस्य मत्स्यान् मथतो विषगर्भबाष्पेण संस्पृष्टं नीलपटलं चक्षुर्भ्याम् अगलत् । असौ अपि अन्धो बहुगुणं मन्यमानो विशेषात् नेत्राभ्यां बाष्पग्रहणम् अकरोत् । ततो लब्धदृष्टिर्जातो यावत् पश्यति तावत्तक्रमध्ये कृष्णसर्पखण्डानि केवलानि एव अवलोकयति । ततो व्यचिन्तयत,–“अहो ! किमेतत् ? मम मत्स्यामिषं कथितमासीदनया, एतानि तु कृष्णसर्पखण्डानि । तत् तावत् विजानामि सम्यक् त्रिस्तन्याः चेष्टितं किं मम वधोपायक्रमः कुब्जस्य वा, उताहो अन्यस्य वा कस्यचित् ?” एवं विचिन्त्य स्वाकारं गूहन् अन्धवत् कर्म करोति यथा पुरा । अत्रान्तरे कुब्जः समागत्य निःशंकतया आलिंगनचुम्बनादिभिः त्रिस्तनीं सेवितुम् उपचक्रमे। सोऽपि अन्धः तम् अवलोकयन् अपि यावत् न

३३

( ५१४ ) पञ्चतन्त्रम् ।

किञ्चित् शस्त्रं पश्यति तावत् कोपव्याकुलमनाः पूर्व्ववत् शयनं गत्वा कुब्जं चरणाभ्यां संगृह्य सामर्थ्यात् स्वमस्तकोपरि भ्रामयित्वा त्रिस्तनीं हृदये व्यताडयत् । अथ कुब्जप्रहारेण तस्याः तृतीयः स्तन उरसि प्रविष्टः । तथा बलात् मस्तकोपरिभ्रामणेन कुब्जः प्राञ्जलतां गतः । अतोऽहं ब्रवीमि-

तब और दिन त्रिस्तनीने मन्थरकसे कहा,-“भो सुभग ! यदि यह अन्ध किसी प्रकारसे मारा जाय तो हम दोनोंका समय सुखसे बीते, सो कहीं विषकी खोज करो जो इसे देकर मैं सुखी हूं”। तब एक दिन कुबड़ेने घूमते हुए काल मराहुआ सांप पाया, उसको ग्रहण कर प्रसन्न हुआ घरमें आकर उससे बोला-“भो सुभगे ! यह काल सांप लम्बा है, सो इसे टुकड़े कर अनेक सोंठआदि मसालोंसे संस्कृत कर इस विकलनेत्रके निमित्त मच्छीका मांस बताकर प्रदान करूं । इससे झटही यह नष्ट हो जायगा । कारण कि इसको मत्स्यका मांस सदा प्रिय है”। ऐसा कह मन्थरक बाहर गया । वह भी दीप्त अग्निमें काले सर्पके टुकड़े कर मठ्ठामें डाल घरके व्यापारमें व्याकुल हुई उस विकलाक्षसे नम्रतापूर्वक बोली,-“आर्य्यपुत्र ! यह तुम्हारा अभीष्ट मत्स्यमांस प्राप्त किया है । जिसको तुम सदाही पूछा करते हो वे मत्स्य अग्निमें पकानेको स्थित हैं सो जबतक मैं घरका कार्य करूं, तबतक तुम करछुलो लेकर एक क्षणमात्रको उन्हें चलाओ”। वह भी यह बचन सुन प्रसन्न मनसे जिह्वासे होठ चाटता हुआ शीघ्र उठ करछुलीसे चलाने लगा । तब उसको मत्स्य मठ्ठेमें विष गर्भसे उठा धुआं नेत्रोंके नील पटलको लगता हुआ । तब यह अन्धा उसे बहुत उपकारक मान विशेषकर नेत्रोंसे ( १ ) बाष्प ग्रहण करता भया । तब दृष्टिके प्राप्त होनेसे जब देखने लगा, तब मठ्ठेके बीचमें केवल काले सांपके टुकड़ेही देखे । तब विचारने लगा,-“अहो यह क्या है ? इसने तो मुझे मत्स्यका मांस बतलाया था और यह तो काले सांपके खण्ड हैं । सो इस त्रिस्तनीकी चेष्टाको भली प्रकारसे जानूं ? क्या यह मेरे वधका उपाय है या कुब्जकके वा किसी अन्यका?” ऐसा विचार कर अपने आकारको छिपाये हुए अन्धकी समान कर्म करने लगा जैसे कि पहिले । इसी समय कुब्जक आकर निश्शंकतासे आलिंगन चुम्बनादिसे त्रिस्तनीको सेवने लगा । वह भी अन्धा उसको देखकर जब कोई शस्त्र


१ भाफ ।

भाषाटीकासमेतम्। (५१५)

न पाता हुआ तबतक पूर्ववत् शयन स्थानमें जाकर कुबड़ेकी टांगे पकड सामर्थ्यसे अपने मस्तकपर घुमांकर त्रिस्तनीके हृदयमें प्रहार करता हुआ । तब कुब्जके प्रहारसे उसका तीसरा स्तन हृदयमें प्रवेश कर गया और बलसे मस्तकके ऊपर घुमानेसे कुबड़ा सीधा होगया । इससे मैं कहता हू-

अन्धकः कुब्जकश्चैव राजकन्या च त्रिस्तनी । त्रयोऽप्यन्यायतः सिद्धाः सन्मुखे कर्मणि स्थिते ॥१०१॥”

अन्धा, कुबड़ा और तीन स्तनवाली राजकन्या यह तीनों सन्मुख कर्मकी स्थितिमें अन्यायसे सिद्ध हुए ॥ १०० ॥”

सुवर्णसिद्धिः आह,-“भोः सत्यमेतत्, दैवानुकूलतया सर्वं कल्याणं सम्पद्यते । तथापि पुरुषेण सतां वचनं कार्य्यम् । न पुनः एवमेव वर्त्तते स त्वमिव विनश्यति ।

सुवर्णसिद्धि बोला,-“भो ! यह सत्य हे, देवानुकूलतासे सब कार्यमें मगल होगा तो भी पुरुषको सत्पुरुषोके वचन करने चाहिये, न कि ऐसाही है यह कहनेसे वह पुरुष तुम्हारी समान नष्ट होगा ।

तथाच- और देखो-

एकोदराः पृथग्ग्रीवा अन्योऽन्यफलभक्षिणः । असंहता विनश्यन्ति भारण्डा इव पक्षिणः ॥ १०१ ॥”

एक उदर, पृथक् ग्रीवावाले परस्पर फलके भक्षण कर्ता मेल नकरनेसे भारण्ड पक्षीकी समान नष्ट होते हैं ॥ १०१ ॥”

चक्रधर आह,-“कथमेतत् ?” सोऽब्रवीत । चक्र धर बोला,-“यह कैसे ?” वह बोला-

कथा १४.

कस्मिंश्चित् सरोवरे भारण्डनामा पक्षी एकोदरः पृथग्ग्रीवः प्रतिवसति स्म । तेन च समुद्रतीरे परिश्रमता किञ्चित् फलम् अमृतकल्पं तरङ्गाक्षिप्तं सम्प्राप्तम् । सोऽपि भक्षयन् इदमाह,-“अहो! बहूनि मया अमृतप्रायाणि समुद्रकल्लोलाहतानि फलानि भक्षितानि । परमपूर्वोऽस्य आस्वादः, तत

( ५१६ ) पञ्चतन्त्रम् ।

किं पारिजातहरिचन्दनतरुसम्भवं किं वा किञ्चित् अमृतमयफलम् अव्यक्तेनापि विधिना पतितम्”। एवं तस्य ब्रुवतो द्वितीयमुखेन अभिहितम्,-“भो ! यदि एवं तत् ममापि स्तोकं प्रयच्छ येन जिह्वासौख्यम् अनुभवामि”। ततो विहस्य प्रथमवक्रेण अभिहितम्,-“आवयोः तावदेकं उदरं एका तृप्तिश्च भवति । ततः किं पृथग्भक्षितेन, वरमनेन शेषेण प्रिया तोष्यते”। एवं अभिधाय तेन शेषं भारण्ड्याः प्रदत्तं सापि तत् अस्वाद्य प्रहृष्टतमा आलिङ्गनचुम्बनसम्भावनानेकचाटुपरा बभूव । द्वितीयं मुखं तद्दिनादेव प्रभृति सोद्वेगं सविषादञ्च तिष्ठति । अथ अन्येद्युः द्वितीयमुखेन विषफलं प्राप्तम् । तद् दृष्ट्वा अपरमाह,-“भो! नित्रिंश पुरुषाधम निरपेक्ष ! मया विषफलम् आसादितम्। तत् तवापमानात् भक्षयामि”। अपरेण अभिहितम्,-“मूर्ख ! मा मा एवं कुरु, एवं कृते द्वयोरपि विनाशो भविष्यति”। अथ एवं वदता तेन अपमानेन फलं भक्षितं किं बहुना, द्वौ अपि विनष्टौ । अतोऽहं ब्रवीमि,-

किसी सरोवरमें भारण्ड नामवाला पक्षी एक उदर और दो शिरवाला रहता था । उसने सागरके किनारे घूमते हुए कोई फल अमृतकी समान तरङ्गोंसे फेंका हुआ प्राप्त किया वह भी उसे भक्षण करता यह बोला,-“अहो ! बहुतसे मैंने अमृतकी समान सागरकी लहरसे क्षिप्त हुए फल खाये हैं परन्तु इसका स्वाद अपूर्व है । सो क्या पारिजात हरिचन्दनके वृक्षसे उत्पन्न हुआ है ? क्या कोई अमृतमय फल ? वा मेरी अच्छी विधिसे प्राप्त हुआ है”। इस प्रकार उसके कहनेसे उसके दूसरे मुखने कहा,-“भो ! यदि ऐसा है तो मुझे भी थोडासा दो जिससे जिह्वाका सुख अनुभव करूंगा”। तब हँसकर प्रथम मुखने कहा-“हम दोनोंका एकही उदर है एकही तृप्ति होती है। सो पृथक् भक्षण करनेसे क्या है इस शेषसे प्रियाको सन्तुष्ट करेंगे”। ऐसा कहकर उसने शेष भारण्डीको दिया । वहभी उसको खाकर प्रसन्न मनसे आलिंगन चुम्बनकी सम्भावनासे अनेक चाटु बचन कहती हुई । दूसरा मुख उसी दिन लेकर उद्वेग और विषाद युक्त रहने लगा। तब ओर दिन दूसरे मुखने एक विष फल पाया । उसको देखकर

भाषाटीकासमेतम् । (५१७)

दूसरेसे बोला,-"हे निष्ठुर पुरुषोंमें नीच ! दूसरेके सुखकी अपेक्षासे रहित ! मैंने विषफल पाया है । सो तेरे अपमानसे खाता हूँ" । दूसरेने कहा-"मूर्ख ! ऐसा मत करे । ऐसा करनेसे दोनोंहीका नाश होगा" । तब ऐसा कहनेपरभी उसने अपमानसे फल खा लिया ! बहुत कहनेसे क्या दोनोंही नष्ट हुए । इससे मै कहता हू-

एकोदराः पृथग्ग्रीवा अन्योन्यफलभक्षिणः । असंहता विनश्यन्ति भारण्डा इव पक्षिणः ॥ १०२ ॥"

कि एक उदर पृथक् मुख परस्पर फलभक्षणकी इच्छावाले विना मेलके भारण्ड पक्षीकी समान नष्ट होते हैं ॥ १०२ ॥"

चक्रधर आह,-"सत्यमेतत् । तद्गच्छ गृहम्, परमेकाकिना न गन्तव्यम् । उक्तञ्च,-

चक्रधर बोला,-"यह सत्य है । सो घरको जाओ । परन्तु इकले न जाना । कहा है-

एकः स्वादु न भुञ्जीत नैकः सुप्तेषु जागृयात् । एको न गच्छेदध्वानं नैकश्चार्थान् प्रचिन्तयेत् ॥ १०३ ॥

स्वादु पदार्थ इकंला न खाय, सोते हुओंमें इकंला न जागे इकंला मार्गमें न जाय और इकंलाही कार्यको न विचारे ॥ १०३ ॥

अपिच- औरभी-

अपि कापुरुषो मार्गे द्वितीयः क्षेमकारकः । कर्कटेन द्वितीयेन जीवितं परिरक्षितम् ॥ १०४ ॥

मार्गमें दूसरे कायर पुरुषकोभी साथ ले जानेसे हित होता है, जैसे दूसरे सङ्गी कर्कटने जीवनकी रक्षा की ॥ १०४ ॥"

सुवर्णसिद्धिः आह,-"कथमेतत् ?" सोऽब्रवीत्,- स्वर्णसिद्धि बोला,-"यह कैसे ?" चक्रधर बोला,-

कथा १७.

कस्मिंश्चित् अधिष्ठाने ब्रह्मदत्तनामा ब्राह्मणः प्रतिवसति स्म, स च प्रयोजनवशात् ग्रामे प्रस्थितः स्वमात्रा अभिहितः-"यत् वत्स ! कथमेकाकी व्रजसि ? तदन्विष्यतां कश्चित् द्वितीयः । सहायः स आह,-"अम्ब ! मा भैषीः । निरुपद्र-