पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)
Paraskara Grihyasutra Hindi
महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा
स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)
( १३७ )
स्थालीपाकः व्रीहीणामेव न यवानाम् । यत्र यावः स्थालीपाकः वाचनिकः तत्र गुलिकाभिः स्थालीपाकः सम्पाद्यते । यत्र विकल्पः तत्र असम्भवात् विनिवृत्तिः ।
क्षेत्रस्य पुरस्तादुत्तरतो वा शुचौ देशे कृष्टे फलानुपरोधेन । ६
क्षेत्रस्य—शस्यवतः क्षेत्रस्य, पुरस्तात्—पूर्वस्यां दिशि, उत्तरतः—उत्तरस्यां दिशि, कृष्टे—फालेन विलिखिते, शुचौ—अमेध्यरहिते देशे, फलानुपरोधेन— फलस्य शस्यस्य अनुपरोधेन— अबाधेन, सीतायज्ञः कर्त्तव्यः ।
ग्रामे वोभयसंप्रयोगादविरोधात् । ७
वा—पक्षान्तरे । सीतायज्ञः ग्रामे कर्त्तव्यः । कुत इति उभयसंप्रयोगात्—उभयं क्षेत्रं च ग्रामश्च सम्प्रयोक्तुमधिकरणतया सम्बद्धुं शक्यते फलानुपरोधेन कृष्टत्वेन वा । पुरस्तात् उत्तरतो वा शुचौ देशे कृष्टे इति ग्रामस्यापि विशेषणत्वेन सम्बध्यते । अविरोधात्—न विरोधः अविरोधः तस्मात् विकल्पादित्यर्थः ।
यत्र श्रपयिष्यन्नुपलिप्त उद्धतावोक्षितेऽ-
ग्निमुपसमाधाय तन्मिश्रैर्दर्भैस्तीर्त्वाऽऽ-
ज्यभागाविष्ट्वाऽऽज्याहुतीर्जुहोति । ८
यत्र—क्षेत्रे ग्रामे वा चरुं श्रपयिष्यन् भवति, तत्र उपलिप्ते—गोमयोदकेन उपलिप्ते, उद्धते—स्फ्येन उल्लिखिते, अवोक्षिते—मणिकोदकेन सिक्ते अर्थात् पूर्वोक्तपञ्चधासंस्कारसंस्कृते देशे, अग्निम्—आवसथ्यम्, उपसमाधाय—स्थापयित्वा, तन्मिश्रैः—तैः व्रीहिभिः यवैर्वा मिश्राः— मिलिताः तन्मिश्राः तैः दर्भैः, अग्निं स्तीर्त्वा—परिस्तीर्य, आज्यभागौ— आज्यभागाभिधानौ आग्नेयसोमयागौ आघारपूर्वकौ, इष्ट्वा—हुत्वा, वक्ष्यमाणा आज्याहुतीर्जुहोति वक्ष्यमाणैः पञ्चभिर्मन्त्रैः ।
१-पृथिवी द्यौः प्रदिशो दिशो यस्मै द्युभिरावृताः ।
तमिहेन्द्रमुपह्वये शिवा नः सन्तु हेतयः स्वाहा ॥
( १३८ )
२-यन्मे किञ्चिदुपेप्सितमस्मिन् कर्मणि वृत्रहन् । तन्मे सर्व्ठं समृद्ध्यतां जीवतः शरदः शत स्वाहा ॥ ३-सम्पत्तिर्भूतिर्भूमिर्वृष्टिर्ज्यैष्ठ्यं श्रेष्ठ्यं श्रीः प्रजामिहावतु स्वाहा ॥ ४-यस्या भावे वैदिकलौकिकानां भूतिर्भवति कर्मणाम् । इन्द्रपत्नीमुपह्वये सीता ऽसा मे त्वन्नपायिनी भूयात् कर्मणि कर्मणि स्वाहा ॥ ५-अश्वावती, गोमती, सूनृतावतो, बिभर्त्ति या प्राणभृतो अतन्द्रिता खलमालिनीमुर्वरामस्मिन् कर्म्मण्युपह्वये ध्रुवा ऽसा मे त्वनपायिनी भूयात् स्वाहेति । ६
मन्त्राणामर्थः ( पञ्चानां प्रजापतिः आद्ययोरनुष्टुप् तृतीयादिषु प्रतिष्ठा पङ्क्तिजगत्यः लिङ्गोक्ता देवता आज्यहोमे )— पृथिवी, द्यौः प्रदिशः— आग्नेयादिकोणभागाः, दिशः— पूर्वादयः, देवताः, द्युभिः— कान्तिभिः, आवृताः— व्याप्ताः सत्यः, यस्मै— इन्द्राय स्थिताः तम्— इन्द्रम् इह—यज्ञे उपह्वये—समीपमाह्वये । तस्य हेतयः—वज्रादीनि आयुधानि, नः—अस्माकं शिवाः— मङ्गलकारिण्यः, सन्तु— भवन्तु, तस्मै—इन्द्राय, स्वाहा— सुहुतमस्तु । १
हे वृत्रहन्—इन्द्र ! अस्मिन् कर्मणि—सीतायज्ञे, मे—मम, यत्किञ्चित् उपेप्सितम्—अभिलषितं, मे मम यजमानस्य तत्—सर्वम् अभिलषितं समृद्ध्यतां—सम्पद्यताम् । किम्भूतस्य मम ? शतं शरदः—शतं वत्सरान् जीवतः । अहं शतं वर्षाणि जीवामि मम मनोरथपूर्त्तिश्चास्तु इति भावः । २
सम्पत्तिः—धनवृद्धिः, भूतिः—ऐश्वर्य्यम्, भूमिः—आश्रयः क्षेत्रं च, वृष्टिः—अभीष्टस्य पूर्त्तिः । ज्यैष्ठ्यं—ज्येष्ठत्वम् श्रेष्ठ्यं—श्रेष्ठत्वम् । श्रीः—प्रतिष्ठा । एतत्सर्वम् इह—यज्ञे, प्रीतं सत् मम प्रजां—पुत्रादिवर्गम्
( १३६ )
अवतु-पालयतु ! इन्द्रो वा एतैः सम्पत्त्यादिभिः युक्तां मम प्रजां अवतु ।३
यस्याः—सीतायाः, भावे—सम्पत्तौ, वैदिकलौकिकानां कर्मणां भूतिः— अभिवृद्धिः भवति, ताम् इन्द्रपत्नीं सीताम्, उपह्वये—आवाहयामि । सा—सीता, मे—मम, यजमानस्य, कर्मणि कर्मणि—प्रतिकर्म, अनपायिनी—अन्नानां वृद्धिकारिणी, भूयात्—भवतु । ४
या सीता अश्वावती— अश्वादिदात्री, गोमती— गोदात्री, सूनूतावति—सूनृता—मधुरा वाक् तद्वती, या च सीता अतन्द्रिता—सावधाना सती, प्राणभृतः—प्राणिनः, विभर्ति—पुष्णाति, तां ध्रुवां—स्थिरां, खलमालिनीं—धान्यराशियुक्ताम्, उर्वरां—सर्वशस्यसम्पत्कारिणीं सीताम्, अस्मिन् कर्मणि—सीतायज्ञे उपह्वये—आवाहयामि । सा—प्रसिद्धा सीता मे— मम यजमानस्य, अनपायिनी— अविनाशिनी, भूयात्—अस्तु । ५
स्थालीपाकस्य जुहोति “सीतायै यजायै समायै'भूत्या इति । १०
स्थालीपाकस्येत्यत्र अवयवलक्षणा षष्ठी । अर्थात् स्थालीपाकात् किञ्चिदुद्धृत्य पात्रान्तरे कृत्वा जुहोति “सीतायै स्वाहा, यजायै स्वाहा, समायै स्वाहा, भूत्यै स्वाहा, इति चतसृभ्यः देवताभ्यः ।
मन्त्रवत् प्रदानमेकेषाम् । ११
एकेषाम् आचार्याणां मतेन मन्त्रवत्प्रदानम्—आसां देवतानां होमः मन्त्रपूर्वको विधेयः । न केवलं चतुर्थ्यन्तनामभिः स्वाहाकार सहितैः ।
स्वाहाकारप्रदाना इति श्रुतेः । १२
विनिवृत्तिः । १३
देवाः स्वाहाकारप्रदानाः—स्वाहाकारेण प्रदानं येषु ते स्वाहाकार-प्रदानाः जुहोतयः इति श्रुतेः—श्रुतिनिर्देशात् अत्र सीतायज्ञहोमे मन्त्राणां विनिवृत्तिः—अप्रवृत्तिः निरास इति यावत् एतदाह छन्दोगपरिशिष्टे कात्यायनः—
( १४० )
स्वाहाकारवषट्कारनमस्कारा दिवौकसाम् । हन्तकारो मनुष्याणां स्वधाकारः स्वधाभुजाम् । इति
हरिहरादयः भङ्गीभेदेनं अमुमेवार्थं निरूपयन्ति । अस्मिन्नवसरे लाङ्गलयोजनदेवताभ्यः "सीतायज्ञे च २-१३-६ इति निर्देशानुसारेण भूतोपात्तेन स्थालीपाकेन होमः । ताश्च देवताः—इन्द्रः, पर्जन्यः, अश्विनौ, मरुतः, उदलाकाश्यपः, स्वातिकारी, सीता, अनुमतिश्चेति अष्टौ पूर्वोक्ताः । ततः स्विष्टकृदादिहोमः ।
स्तरणशेषकूर्चेषु सीतागोप्तृभ्यो बलिं हरति "पुरस्तात् ये त आसते सुधन्वानो निषङ्गिणः । ते त्वा पुरस्ताद्गोपायन्त्वप्रमत्ता अनपायिनः नम एषां करोम्यहं बलिमेभ्यो हरामीममिति । १४
स्तरणशेषकूर्चेषु—अग्नेः परिस्तरणे ये कुशाः व्रीहिशस्यमिश्राः यवशस्यमिश्रा वा शेषभावम्—अङ्गभावं गताः त एव कुशाः कूर्चाः आसनानि तेषु, सीतागोप्तृभ्यः—सीता—लाङ्गलपद्धतिः, तां ये गोपायन्ति-पालयन्ति ते सीतागोप्तारः तेभ्यः, पुरस्तात्—प्राच्यां दिशि, बलिं हरति-उपहरति "ये त इत्यादिना मन्त्रेण ।
मन्त्रार्थः (चतुर्णां परमेष्ठी यजुः लिङ्गोक्ता बलिहरणे)—हे सीते ! सुधन्वानः—शोभनधनुर्द्धारणः, निषङ्गिणः—तूणीरयुक्ता ये देवाः, ते—तव, पुरस्तात्—प्राच्यां दिशि, आसते—सन्ति, ते—देवाः, त्वा—त्वां प्राच्यां दिशि अप्रमत्ताः—प्रमादरहिताः, अनपायिनः—अविनष्टाः, निरन्तरंवर्त्तमानाः सन्तः, गोपायन्तु—रक्षन्तु । अहं—यजमानः, एषां देवानां नमः करोमि, एभ्यः इमं बलिं हरामि ।
अथ दक्षिणतोऽनिमिषा वर्मिण आसते ते त्वा दक्षिणतो गोपायन्त्वप्रमत्ता अनपायिनः नम एषां करोम्यहं बलिमेभ्यो हरामीममिति । १५
( १४१ )
अथ—पुरस्ताद्वल्यनन्तरं दक्षिणतः—अग्नेर्दक्षिणपार्श्वे कूर्चेषु बलिं हरति अनिमिषा इत्यादिना मन्त्रेण ।
मन्त्रार्थः—हे सीते ! तवं दक्षिणभागे ये अनिमिषाः—निमेषरहिताः, वर्म्मणः—सन्नद्धाः देवाः आसते—सन्ति ते—प्रसिद्धाः देवाः, त्वा—त्वां दक्षिणतः—दक्षिणस्यां दिशि, अप्रमत्ता गोपायन्तु—रक्षन्तु । अन्यत् सर्वं पूर्ववत् ।
अथ पश्चादाभुवः प्रभुवो भूतिर्भूमिः पार्ष्णिः शुनंकुरिः
ते त्वा पश्चाद्गोपायन्त्वप्रमत्ता अनपायिनः नम एषां
करोम्यहं बलिमेभ्यो हरामीममिति । १६
अथ – दक्षिणपार्श्ववल्यनन्तरं, पश्चात् – अग्नेः पश्चिमायां दिशि कूर्चेषु बलिं हरति, आभुवः प्रभुव इत्यादिमन्त्रेण ।
मन्त्रार्थः—आभुवः—आ—समन्तात् भवन्तीति आभुवः । प्रभुवः—प्रकर्षेण भवाः, भूतिर्भूमिस्त्यादयो देवतानां नामशब्दाः । भूत्यादयो देवाः, ते—तव, पश्चात्—पश्चिमायां दिशि वर्त्तमानाः, त्वा—त्वां, गोपायन्तु—रक्षन्तु । अन्यत् सर्वं पूर्ववत् ।
अथोत्तरतो भीमा वायुसमा जवे ते त्वोत्तरतः
क्षेत्रे खले गृहेऽध्वनि गोपायन्त्वप्रमत्ता अनपायिनः
नम एषां करोम्यहं बलिमेभ्यो हरामीममिति । १७
अथ—पश्चिमकूर्चवल्यनन्तरम्, उत्तरतः—अग्नेरुत्तरस्यां दिशि बलिं हरति "भीमा वायुसमा इत्यादिना मन्त्रेण—
मन्त्रार्थः—भीमाः—भयङ्कराः, जवे—वेगे. वायुसमाः—वायुना समाः देवाः, क्षेत्रे— केदारे, खले— धान्यादीनामुत्पत्तिस्थाने, गृहे अध्वनि—मार्गे च त्वा—त्वाम्, उत्तरतः—उत्तरस्यां दिशि गोपायन्तु—रक्षन्तु । अन्यत् पूर्ववत् ।
( १४२ )
प्रकृतादन्यस्मादाज्यशेषेण च पूर्ववद्बलिकर्म । १८
प्रकृतात्— प्रधानदेवतासम्बन्धिनः वैह्याद् यावाद् वा स्थालीपाकात्, अन्यस्मात्—अन्यः यः सिद्धोपात्तः चरुः तस्मात्, तथा आज्यशेषेण च पूर्ववत्—लाङ्गलयोजनकर्मवत, बलिकर्म—इन्द्रपर्जन्यादिभ्यः देवताभ्यः बलिहरणं कर्तव्यम् ।
स्त्रियश्चोपयजेरन्नाचरितत्वात् । १९
स्त्रियः—भार्यादयः च, उपयजेरन्—बलिकर्मणा ताभ्य एव देवताभ्यः पूजां कुर्युः, आचरितत्वात्—प्राचीनाभिः स्त्रीभिः कृतत्वात् । अयमेव समाचार इति भावः ।
संस्थिते कर्मणि ब्राह्मणान् भोजयेद् ब्राह्मणान् भोजयेत् । २०
कर्मणि—सीतायज्ञाख्ये कर्मणि, संस्थिते—समाप्ते, ब्राह्मणान्—विप्रान् त्रिप्रभृतीन् भोजयेत् । ब्राह्मणान् भोजयेदिति द्विरुक्तिः काण्डसमाप्तिबोधिनी ।
इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां
द्वितीयः काण्डः समाप्तः ।। १३-४-७५
तृतीयकाण्डः
तृतीयकाण्डः ( नवयज्ञः ) अनाहिताग्नेर्नवप्राशनम् । १
अनाहिताग्निः—अवैतानिकः आवसथिक इति यावत्, तस्य नवप्राशनं—नवप्राशनाख्यं कर्म नवान्नप्राशननिमित्तं भवति । नवप्राशनमिति अन्वर्था संज्ञा । ततः नवप्राशनं कर्म कृत्वा नवान्नं प्राश्यते नान्यथा । अत्र नवपदेन नवानां श्यामाकव्रीहियवानामेव ग्रहणम् । अन्येषां भक्षणे नवप्राशनापेक्षा नास्ति । तदुक्तं गृह्यसंग्रहे—
नवयज्ञाधिकारस्थाः श्यामाका व्रीहयो यवाः ।
नाश्नीयात्तात हुत्वैवमन्येष्वनियमः स्मृतः ॥
ऐक्षवः सर्वशुङ्गाश्च नीवाराश्चणकास्तिलाः ।
अकृताग्रयणोऽश्नीयात् तेषां नोक्ता हविर्गुणाः ॥
अत्र व्रीहियवपाकौचित्येन शरद्वसन्तयोरादरः । किन्तु पौर्णमास्यमावास्यानियमो नास्ति अस्य अनाग्रयणत्वात् ।
नवꣳ स्थालीपाकꣳ श्रपयित्वाऽऽज्यभागाविष्ट्वाऽऽज्याहुतीर्जुहोति ।
१- शतायुधाय शतवीर्याय शतोतये अभिमातिषाहे ।
शतं यो नः शरदोऽजीजानिन्द्रो नेषदति दुरितानि विश्वा स्वाहा ।
२- ये चत्वारः पथयो देवयाना अन्तरा द्यावापृथिवी वियन्ति
तेषां योऽज्यानिमजीमावहात्तस्मै नो देवाः परिधत्तेह
सर्वे स्वाहा । २
नवꣳ—शरदि नूतनं व्रीहिमयं वसन्ते नूतनं यवमयं, स्थालीपाकं—चरुं, श्रपयित्वा—पक्त्वा, आज्यभागौ—आघारपूर्वकौ आग्नेयसोमयागौ इष्ट्वा आज्याहुतीर्जुहोति, ‘शतायुधायेति’ ये चत्वार इति मन्त्राभ्याम् । प्रतिमन्त्रम् एका आहुतिः ।
मन्त्रार्थः— (१) शतायुधाय—शतम् आयुधानि यस्य तस्मै,
( १४४ )
शतवीर्याय—अपरिमितशक्तये, शतोतये—अनन्तलीलाय, अभिमातिषाहे—अभिमातिः—अरातिः तान् सहते—जयतीति अभिमातिषाड्, तस्मै इन्द्राय स्वाहा—सुहुतमस्तु। यः इन्द्रः नः अस्माकं सम्बन्धे शतं शरदः—शतं वर्षाणि शतं धान्यानि वा अजीजन्—जनयति यश्च नः दुरितानि—दुराचरितानि पापानि व्यसनानि च अतिनेषत्—अतिनेष्यति अपगमयिष्यति। इन्द्रः अस्माकं शतमायुः शतमन्नानि च सृजतु पापानि व्यसनानि च अपगमयतु इति सारः।
(२) देवाः—हे सर्वे देवाः द्यावापृथिवी अन्तरा—द्यावापृथिव्योर्मध्ये ये प्रसिद्धाः देवयानाः—देवा यान्ति एभिरिति देवयानाः, चत्वारः—चतुर्विधाः, पथयः—पन्थानः वियन्ति—वितताः सन्ति, तेषां—पथां मध्ये यः—पन्थाः नः—अस्माकम् अज्यानिम्—ग्लानिरहिताम्, अजीजिम्—अजेयताम् आवहात्—आवहेत् प्रापयेत् इत्यर्थः, तस्मै—पथे नः अस्मान् परिदत्त—समर्पयत । अत्र चत्वारः पन्थानः देवपितृमनुष्यसर्पाणां मार्गा इति गदाधरः । मम मते प्रसिद्धदेवयानमार्गस्य चत्वारः अवान्तरभेदाः सर्पादिमार्गस्य अकाम्यत्वात् ।
स्थालीपाकस्याग्रयणदेवताभ्यो हुत्वा जुहोति स्विष्टकृते च
“स्विष्टमग्ने अभि तत्पृणोहि विश्वांश्च देवः पृतना अविष्यत् ।
सुगंनु पन्थां प्रदिशन्न एहि ज्योतिष्मद्धेह्यजरन्न आयुः स्वाहेति ।
ततः स्थालीपाकस्य—चरोः, आग्रयणदेवताभ्यः—आग्रयणदेवता इन्द्राग्नी, विश्वेदेवाः, द्यावापृथिवी, एताभ्यः देवताभ्यः "इन्द्राग्नीभ्यां स्वाहा इदमिन्द्राग्नीभ्याम् इति रीत्या आहुतित्रयं हुत्वा "स्विष्टमग्ने इत्यादिमन्त्रेण एकामाज्याहुतिं जुहोति । स्विष्टकृते—अग्नये स्विष्टकृते स्थालीपाकात् आहुतिं दत्त्वा चकारात् पुनरपि "स्विष्टमग्न" इत्यादि मन्त्रेण आज्याहुतिं जुहोति । अतएवात्र क्रमः—आघारः आज्यभाग समन्त्रकम् आज्याहुतिद्वयम् स्थालीपाकात् आग्रयणदेवताहोमः स्विष्टमग्नइतिमन्त्रेण आज्यहोमः, ततः अग्नये स्विष्टकृते स्थालीपाकहोमः अन्ते च स्विष्टमग्न इति आज्यहोमः ।
मन्त्रार्थः—हे अग्ने ! स्विष्टं—स्विष्टकृद्धोमं तत् अभि—अभितः आदावन्ते च, पृणीहि—पूर्णं कुरु । देवः—दीप्तिक्रीड़ादियुक्तः अग्निः विश्वान्— सर्वान् पुत्रकलत्रादिसहितान् अस्मान्, पृतनाः अस्माकं सेनाश्च अविष्यत्—अवतु । त्वं च अग्निः नः—अस्माकं सुगं—सुखगम्यम् अर्चिरादिरूपं पन्थां—पन्थानं प्रदिशन्—आदिशन् ददत् इत्यर्थः एहि— आगच्छ । नु अनुनये । किं च नः ज्योतिष्मत्—दीप्तिमत् यशोमयम्, अजरं— जरारोगादिरहितम्, आयुः—जीवनकालं ध्येहि— चिन्तय विधेहि वा । स्वाहा—तुभ्यं सुहुतमस्तु ।
अथ प्राश्नाति—
अग्निः प्रथमः प्राश्नातु स हि वेद यथा हविः शिवा अस्मभ्यमोषधीः कृणोतु विश्वचर्षणिः । भद्रान्नः श्रेयः समनैष्ठ देवास्त्वयाऽवशेन समशीमहित्वा स नो मयोऽभूः पितवाविशस्व शं तोकाय तनुवे स्योन इति । ४
अथ—अनन्तरं महाव्याहृत्यादि प्राजापत्यहोमान्ते "अग्निः प्रथम" इति ऋग्द्वयात्मकेन मन्त्रेण व्रीहिसंस्रवं प्राश्नाति । यत्र च हुतशेषप्राशनं तत्रायं गुणविधिरिति गदाधरः । अत्रैवेति हरिहरः ।
मन्त्रार्थः १- ( प्रजापतिः अनुष्टुप् जाठरोऽग्निः संस्रवप्राशने )— अग्निः—जाठरः अग्निः, प्रथमः—मुख्यः, अश्नातु—भुनक्तु, हि—यस्मात्, सः—स एव, यथा—यादृशं पावनम् इदं हविः वेद—जानाति । स च विश्वचर्षणिः—सर्वधान्याधिपः अग्निः, अस्मभ्यम्—अस्मदर्थम्, ओषधीः— ग्राम्यानाताराण्यांश्च व्रीहिनिवारश्यामाकादीन् , शिवाः—सुखावसानाः, कृणोतु—करोतु ।
२-(प्रजापतिः त्रिष्टुप् जाठरोऽग्नि. संस्रवप्राशने) हे देवाः—इन्द्राद्यः! यूयं, भद्रान्—भन्दनीयान्, कल्याणयोग्यान् नः—अस्मान्, श्रेयः— नवान्नप्राशनभवसौख्यं, समनैष्ट—सम्यक् प्रापयत । हे पितो ! अन्न व्रीहे ! वयं अवशेन— पाथेयेन त्वया अनुग्राहकेण कारणभूतेन त्वा—त्वां,
( १४६ )
समशीमहि—सम्यक् संस्कृतम् अशीमहि—अश्नाम, किञ्च सः—प्रसिद्धः त्वं—पितुः, नः—अस्माकं, मयोभूः—कल्याणदः सन् , आविशस्व—रक्तमांसादिरूपेण, स्वर्गमोक्षादिसाधनशक्तिरूपेण च उत्पद्यस्व । तथा तोकाय—अपत्याय, पुनश्च तनुवे—तन्वे शरीराय, स्योनः—सुखकरः रुचिकरश्च भव ।
अन्नपतीयया वा । ५
वा—पक्षान्तरे । अन्नपतीयया—अन्नपतिः अग्निः देवता यस्याः सा अथवा अन्नपतिशब्दो विद्यते यस्यां सा अन्नपतोया ऋक् तया अन्नपतिवत्या ऋचा "अन्नपतेऽन्नस्येत्यादिकया प्राश्नाति ।
सम्पूर्णो मन्त्रः – (परमेष्ठी, बृहती अन्नपतिः प्राशने)
अन्नपतेऽन्नस्य नो देह्यनमीवस्य शुष्मिणः ।
प्र प्रदातारं तारिष ऊर्जं नो धेहि द्विपदे चतुष्पदे । (शु. य. ११।८३)
अथ यवानाम्—
एतमुत्यं मधुना संयुतं यवं सरस्वत्या अधिबनाय चक्रुषुः ।
इन्द्र आसीत् सीरपतिः शतक्रतुः कीनाशा आसन्मरुतः सुदानव इति । ६
अथ—व्रीहिप्राशनमन्त्राभिधानान्तरं यवानां प्राशनमन्त्रमाह—"एतमुत्यमिति"। यवप्राशने पैठीनसिः—अग्निमेवोपासीत नान्यदैवतम् अग्निर्भूम्यामिति विज्ञायते । इत्याह ।
मन्त्रार्थः ( प्रजापतिः जगती इन्द्रः यवान्नप्राशने )—एतम्—इमं प्रत्यक्षं वर्तमानं, त्यं—तं, परोक्षं स्थितं यवं— यौति लीयते अस्मिन्निति यवः परमात्मा, तत्प्राप्तिसाधनत्वेन अयमपि यवः तं यवं धान्यविशेषं मधुना—मधुररसेन, संयुतं—मिश्रितं, सरस्वत्याः—सरः उदकं तद्वत्याः सरस्वत्याः नद्याः इत्यर्थः । अधिवनाय—अधि—उपरि, वनाय— केदारेषु, मरुतः— देवाः, चक्रुषुः— कृष्टवन्तः । अथवा सरस्वत्याः—वाग्देव्याः, अधिवनाय—अधिकभागलाभाय ज्ञानवृद्धये
( १४७ )
इत्यर्थः । अथवा सरः अस्यामस्तीति सरस्वती पृथिवी, तस्या अधि— उपरि. वनाय—सम्भजनाय, पञ्चमहायज्ञार्थ मित्यर्थः । शतक्रतुः— शतयज्ञः शतकर्मा वा, इन्द्रः सीरपतिः—सीरस्य लाङ्गलस्य पतिः आसीत्— बभूव । सुदानवः— शोभनभोगदातारः, मरुतः— देवाः, कीनाशाः—कृषीवलाः कृषिदासाः हालिका वा आसन्— बभूवुः ।
ततो ब्राह्मणभोजनम् । ७
उक्तः सूत्रार्थः !
इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां तृतीयकाण्डे प्रथमा कण्डिका ॥
—४०४—
( आग्रहायणी कर्म )
मार्गशीर्ष्यां पौर्णमास्यामाग्रहायणी कर्म । १
मार्गशीर्ष्यां—मार्गशिरमाससम्बन्धिन्यां, पौर्णमास्यां—शुक्लपञ्च- दश्याम् आग्रहायणीकर्म—आग्रहायणीसंज्ञं कर्म भवति ।
स्थालीपाक ँ श्रपयित्वा श्रवणाबदाज्याहुती हुत्वाऽपरा जुहोति—
१- “यां जनाः प्रतिनन्दन्ति रात्रीं धेनुमिवायतीम् । संवत्सरस्य या पत्नी सा नो अस्तु सुमङ्गली स्वाहा ॥
२- संवत्सरस्य प्रतिमा या ता ॐ रात्रिमुपास्महे । प्रजा ॐ सुवीर्यां कृत्वा दीर्घमायु व्यश्नवै स्वाहा ॥
३- संवत्सराय परिवत्सरायेडावत्सरायेद्वत्सराय वत्सराय कृणुते बृहन्नमः । तेषां वय ँ सुमतौ यज्ञियानां ज्योग्जीता अहताः स्याम स्वाहा ।
४- ग्रीष्मो हेमन्त उत नो वसन्तः शिवा वर्षा अभया शरन्नः । तेषामृतूना ॐ शतशारदानां निवात एषामभये वसेम स्वाहेति । २
( १४८ )
स्थालीपाकं—चरुं, श्रपयित्वा—पक्त्वा आघाराज्यभागानन्तरं, श्रवणावत्—श्रवणाकर्मवत्, आज्याहुती हुत्वा—"अपश्वेतपदा" न वै श्वेतस्येति मन्त्राभ्याम् आज्याहुतिद्वयं हुत्वा अपराः चतस्र आहुतीः "यां जना" इत्यादिना वक्ष्यमाणमन्त्रचतुष्टयेन जुहोति ।
मन्त्रार्थः (प्रजापतिः अनुष्टुप् रात्रिः आज्यहोमे)— १— जनाः यां प्रसिद्धाम् आयतीम्—आगच्छन्तीं रात्रिम् (आयतीं) धेनुमिव प्रतिनन्दन्ति—अभिनन्दन्ति, या—रात्रिश्च संवत्सरस्य—यज्ञस्य 'संवत्सरो वै यज्ञः' इति श्रुतेः, तस्य अथवा 'संवत्सरो दिवसः' इति जैमिनीये ६/७ पादे निर्णीतस्तस्य, पत्नी—यज्ञसंयुक्ता योषा 'पत्युर्नो यज्ञसंयोगे' (पा ४-१-३३) सा धेनुरूपा रात्रिः, नः—अस्माकं, सुमङ्गली—कल्याणमयी, अस्तु—भूयात् । स्वाहा—सुहुतमस्तु ।
२— (प्रजापतिः अनुष्टुप् रात्रिः आज्यहोमे)— या—पूर्वोक्ता रात्रिः संवत्सरस्य—दिवसस्य वर्षस्य वा, प्रतिमा—आकृतिः अवयवविशेषः जायात्वेन अर्धाङ्गमित्यर्थः, तां—प्रसिद्धां, रात्रिम्—संवत्सरस्य जायाम् उपास्महे—आराधयामः । सुवीर्यां—वीर्य्यशालिनीं प्रजां—पुत्रादिरूपां, कृत्वा—उत्पाद्य, दीर्घम्—अखण्डितम्, आयुः—जीवितकालं, व्यश्नवै—प्राप्नवानि ।
३— (विराड् ऋषिः त्रिष्टुप् संवत्सरादयः पञ्च आज्यहोमे)— संवत्सरः, परिवत्सरः, इडावत्सरः, इद्वत्सरः वत्सरः—अनुवत्सरः इति प्रकरणात् सिद्ध्यति, एताभ्यः संवत्सरादिदेवताभ्यः बृहत् यथा स्यात् तथा, नमः—नमस्कारं, कृणुते—कुरुते, मादृशः अयं यजमानः इति शेषः । वयं—अहं मम भार्यापुत्रादयश्च सर्वे, तेषां—पूर्वोक्तानां, यज्ञियानां—यज्ञार्हाणां संवत्सरादीनां पञ्चानां, सुमतौ—कल्याणमये मनसि, ज्योक्—चिरं वर्त्तमानाः सन्तः, जीताः—जैतारः, अहताः—अनुपहताश्च, स्याम—भवेम, स्वाहा—सुहुतमस्तु ।
४— (विराड् ऋषिः त्रिष्टुप् ऋतवः आज्यहोमे)— ग्रीष्मः—वृष-मिथुनमासद्वयात्मकः कालः, हेमन्तः—वृश्चिकधनुर्मासद्वयात्मकः, अथ
( १४६ )
हेमन्तस्याप्युपलक्षकः, उत—पुनश्च, वसन्तः—मीनमेषमासद्वयात्मकः, तथैव वर्षाः—वर्षर्तुः, शरत्—शरदृतुश्च इति सर्वे ऋतवः, नः—अस्माकं, शिवाः—कल्याणामोदप्रदाः, तथा अभयाः—विमलस्वास्थ्यप्रदाश्च सन्तु। शतशारदानां—शरदां शते सम्भूतानां, तेषां—पूर्वोक्तानाम्, एषां— ग्रीष्मादीनामृतूनां, निवाते—ऋतुप्रयुक्त वाताद्युपद्रवरहिते, तथा अभये— भयरहिते, काले तदुपलक्षिते देशे च वसेम—निवसेम। शतं वर्षाणि निरुपद्रवा जीवेम इति सारः।
स्थालीपाकस्य जुहोति—
"सोमाय मृगशिरसे मार्गशीर्ष्यै पौर्णमास्यै हैमन्ताय चेति"॥ ३
एतदनन्तरं स्थालीपाकस्य—चरोः ‘अवयवलक्षणा षष्ठी’। सोमाय इत्यादिभिश्चतुर्भिर्मन्त्रैः स्वाहान्तैः चतस्र आहुतीः जुहोति।
प्राशनान्ते सक्तुशेषठं शूर्पे न्युप्योपनिष्क्रमप्रभृत्यामार्जनात् । ४
प्राशनान्ते—स्विष्टकृद्धोमादिसंस्रवप्राशनान्ते बलिहरणार्थं सक्तुशेषं श्रवणाकर्मप्रभृतिविनियोगावशिष्टं, शूर्पे न्युप्य—कृत्वा उपनिष्क्रमणप्रभृति, .आमार्जनात्—श्रवणाकर्मोक्तविधिना उपनिष्क्रम- णादिमार्जनान्तं कर्म (२-१४-६, २-१४-१६) भवति।
मार्जनान्त उत्सृष्टो बलिरित्याह। ५
मार्जनान्ते—द्वारदेशे मार्जनावसाने 'उत्सृष्टो वलिः' इति आह— ब्रूयात्। इति आग्रहायणीकर्म।
( स्रस्तरारोहणम् )
पश्चादग्नेः स्रस्तरमास्तीर्याहृतं च वास आप्लुता
अहतवाससः प्रत्यवरोहन्ति । ६
आप्लुताः—स्नाताः, अहतवाससः—अहते नवे सकृत् प्रक्षालिते सदृशे वस्त्रे प्रत्येकं येषां ते यजमानप्रभृतयः, अग्नेः—आवसथ्याग्नेः, पश्चात्— पश्चिमायां दिशि, स्रस्तरं—प्रागग्रैः कुशैः सम्पादितम्,
( १५० )
आस्तीर्य— आस्तृतं कृत्वा, एतदास्तरणम् अग्निशालातो गृहान्तरे युज्यते, अग्निशालायां हि औपवसथ्यरात्रिमन्तरेण शयनप्रतिषेधात्, अहतं — सकृत् प्रक्षालितं, वासः— वस्त्रञ्च स्रस्तरोपरि उदग्दशम् आस्तीर्य प्रत्यवरोहन्ति—स्रस्तरोपरि निविशन्ते ।
दक्षिणतः स्वामी जायोत्तरा यथाकनिष्ठमुत्तरतः । ७
अवरोहणे देशकालनियममाह—दक्षिणतः—सर्वेषां दक्षिणतः स्वामी गृहपतिः, जाया—यजमानपत्नी च उत्तरा—स्वामिनः उत्तरदिगवस्थिता भवति । तस्या उत्तरतः—उत्तरस्यां दिशि यथाकनिष्ठं—यः यस्मात् कनिष्ठः स तस्मादुत्तरतः इति प्रकारेण निविशते ।
दक्षिणतो ब्रह्माणमुपवेश्योत्तरत उदपात्रꣳ शमीशाखासीतालोष्टाश्मनो निधायाग्निमीक्षमाणो जपति—
“अयमग्निर्वीरतमोऽयं भगवत्तमः सहस्रसातमः । सुवीर्योर्यंꣳ श्रेष्ठ्ये दधातु नाविति” । ८
तत्र स्वामी स्रस्तरं प्रत्यवरोक्षन् , दक्षिणतः — अग्नेर्दक्षिणस्यां दिशि, ब्रह्माणं - कर्मसु तत्त्वज्ञं ब्राह्मणम्, उपवेश्य—यथाविधि संस्थाप्य, उत्तरतः—अग्नेरुत्तरस्यां दिशि, उदपात्रं—जलपूर्णभाजनं, शमीशाखां शमीवृक्षस्य शाखां, सीतालोष्टं—सीता हलपद्धतिः, तत्र भवं मृत्खण्डम्, अश्मानं—पाषाणञ्च निधाय—स्थापयित्वा, अग्निम्—आवसथ्याग्निम्, ईक्षमाणः—पश्यन् , जपतिअयमग्निरिति मन्त्रम् ।
मन्त्रार्थः (प्रजापतिः अनुष्टुप् अग्निः उपस्थाने)—अयं—प्रसिद्धः अग्निः—आवसथ्याग्निः, वीरतमः—अचिन्त्यशक्तिः, पुनश्चायं भगवत्तमः भगमस्यास्तीति भगवान् अत्यन्तं भगवान् भगवत्तमः, अत्यन्तमैश्वर्यादिगुणशाली, भगशब्दार्थ उक्तो विष्णुपुराणे—६-५-७४
ऐश्वर्य्यस्य समग्रस्य वीर्य्यस्य यशसः श्रियः ।
ज्ञानवैराग्ययोश्चैव षष्णां भग इतीङ्गना । इति
पुनश्च सहस्रसातमः—सहस्रं सहन्ते ददतीति सहस्रसाहः तेषु श्रेष्ठः
( १५१ )
सहस्रसातमः—नानार्थप्रदमुख्यः, पुनश्चायमग्निः सुवीर्य्यः—श्रेयःप्राप्ति-सहायकः, सः—अग्निः, नौ—आवाम् जायापती, श्रैष्ठ्ये—श्रेष्ठकर्मणि दधातु – स्थापयतु ।
पश्चादग्नेः प्राञ्चमञ्जलिं करोति—
दैवीं नावमिति तिसृभिः । ६
ततः अग्नेः—आवसथ्यस्य, पश्चात्—पश्चिमायां दिशि स्थित्वा, अञ्जलिं – करसंपुटं प्राञ्चं—प्रागग्रं करोति, "दैवीं नाव"मित्यादिभिः तिसृभिः ऋग्भिः । यथा—
"दैवीं नावँ० स्वरित्रामनागसमस्रवन्तीमारुहे मा स्वस्तये । (शु.य.२१-६)
सुनावमारुहेयमस्रवन्तीमनागसम् । शतारित्राँ० स्वस्तये । (शु.य. २१-७)
आ नो मित्रावरुणाघृतैर्गव्यूतिमुक्षतम् । मध्वा रजाँ०सि सुक्रतू । ( शु. य. २१-८ )
स्रस्तरमारोहन्ति । १०
एवमञ्जलिं विधाय स्रस्तरम् आरोहन्ति सर्वे ।
ब्रह्माणमामन्त्रयते— ब्रह्मन् प्रत्यवरोहामेति । ११
स्रस्तरारोहणे विधानमाह—तत्र स्वामी ब्रह्माणम् आमन्त्रयते—पृच्छति । किम् ? ब्रह्मन् प्रत्यवरोहाम इति वाक्येन ।
ब्रह्मानुज्ञाताः प्रत्यवरोहन्त्यायुःकीर्त्तिं यशोबलमन्नाद्यं प्रजामिति । १२
प्रत्यवरोहध्वमिति वाक्येन ब्रह्मणा अनुज्ञाताः—प्रसूताः, प्रत्यवरोहन्ति—स्रस्तरमारोहन्ति "आयुः कीर्त्तिम्" इत्यादिना मन्त्रेण । अत्र स्त्रीणामपि मन्त्रपाठः ।
मन्त्रार्थः—आयुरादि आरोहेम—लभेम इति प्रार्थना ।
उपेता जपन्ति—
सुहेमन्तः सुवसन्तः सुग्रीष्मः प्रतिधीयतान्नः ।
शिवा नो वर्षाः सन्तु शरदः सन्तु नः शिवा इति । १३
( १५२ )
उपेताः—स्रस्तरे उपनीताः, जपन्ति सुहेमन्त इत्यादिमन्त्रम् ।
मन्त्रार्थः (आश्वलायनः, पङ्क्तिः, ऋतवः, जपे)—नः अस्माकं, हेमन्तः—ऋतुविशेषः, सु—शोभनः, प्रतिधीयताम्—सम्पद्यताम्, हेमन्तपदेनात्र शिशिरस्यापि ग्रहणम् । अधिमासपाते यथा नवत्या अहोरात्रैः ऋतुः सम्पद्यते,तथा कादाचित्कतया क्षयमासोपेतवत्सरे हेमन्तशिशिरावपि नवत्या दिवसैः सम्पद्येते इति तयोरेककर्तृत्वेन परिगणनं युज्यते, वसन्तः ग्रीष्मश्च शोभनः सम्पद्यताम् । वर्षाः अपि शिवाः—कल्याणकारिण्यः तथैव शरदः सन्तु । अत्र शरच्छब्दस्य बहुवचनमन्येषामपि ऋतूनां बहुत्वज्ञापकम् । तेन हेमन्तादयः वारम्बारमागताः अस्माकं हिता भवन्तु इति सारः ।
स्योना पृथिवि नो भवेति दक्षिणपार्श्वैः प्राक्शिरसः संविशन्ति । १४
स्रस्तरमारुह्य "स्योना पृथिवी" त्यनेन मन्त्रेण स्वामिप्रभृतयः प्राक्शिरसः—प्राक्—पूर्वं शिरः येषां ते प्राक्शिरसः दक्षिणपार्श्वैः—स्वशरीरस्य दक्षिणपार्श्वं भूमौ निपात्य उदङ्मुखाः सन्तः, संविशन्ति—शेरते तत्रैव स्रस्तरोपरि ।
सम्पूर्णमन्त्रः—(दध्यङ् आथर्वणः गायत्री पृथिवी शान्तिकरणे) स्योना पृथिवि नो भवानृक्षरा निवेशनी । यच्छा नः शर्म सप्रथाः । शु. य. ३६-१३
उपोदुत्तिष्ठन्ति—"उदायुषा स्वायुषोत्पर्जन्यस्य वृष्ट्या । पृथिव्याः सप्तधामभिरिति । १५
ततः ते स्वामिप्रभृतयः उप—स्रस्तरसमीपे, उत्—उत्थाय, उत्तिष्ठन्ति—तिष्ठन्ति "उदायुषे"ति मन्त्रेण ।
मन्त्रार्थः—(गौतम ऋषिः । गायत्रीच्छन्दः । अग्निर्देवता । उत्थाने विनियोगः) उदायुषा—दीर्घायुषा तथा स्वायुषा—शोभनजीवितेन, तथा उत्—उत्कृष्टस्य पर्जन्यस्य—मेघस्य, वृष्ट्या पुनश्च पृथिव्याः सप्तभिः धामभिः—स्थानैः श्रेष्ठभूतैः सहिताः भवाम इत्यर्थः ।
( १५३ )
एवं द्विरपरं ब्रह्मानुज्ञाताः । १६
एवम्—उक्तप्रकारेण ब्रह्मानुज्ञाताः सन्तः "ब्रह्मन् प्रत्यवरोहेम" इत्यारभ्य उत्थानपर्यन्तं, द्विः—द्विवारम्, अपरम्—अन्यत् सस्तरम् आरोहन्ति, संविशन्ति उत्तिष्ठन्ति च ।
अधः शयीरंश्चतुरोमासान्यथेष्टं वा । १७
अत ऊर्ध्वं चतुरोमासान्—पौषमाघफाल्गुनचैत्रान्, अधः—खट्वां व्युदस्य भूमौ शयीरन्, अथवा यथेष्टम्—इष्टमनतिक्रम्य यथाकामं भूमौ वा खट्वायां वा शयीरन् स्वामिप्रभृतय इति ।
इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां तृतीयकाण्डे द्वितीया कण्डिका ॥ —४०४—
ऊर्ध्वमाग्रहायण्यास्तिस्रोऽष्टकाः । १
आग्रहायण्याः—मार्गशीर्ष्याः पूर्णिमायाः, ऊर्ध्वम्—उपरि, तिस्रः अष्टकाः—त्रीणि अष्टकानि कर्माणि भवन्ति । तानि सकृत् क्रियन्ते संस्कारकर्मत्वात् । तासाञ्च सस्कारकर्मत्वमुक्तं सुमन्तुगौतमादिभिः 'अष्टकाः पार्वणःश्राद्ध श्रावण्याग्रहायणी चैत्र्याश्वयुजीति सप्तपाकयज्ञसंस्था इत्यादिना । येषां संस्कारकर्मणामभ्यासश्रवणमस्ति तेषामसकृत्करणमनुज्ञातमन्येषां तु सकृत् । "अहरहः स्वाहा कुर्या"दिति(पार.गृ.२-६-१२) पञ्चमहायज्ञादीनां 'मासि मासि वोऽशन'मिति पार्वणस्य 'पक्षादिषु' इति (पार. गृ. १-१२-१ बहुवचनात् स्थालीपाकस्य अभ्यासः श्रूयते न तथाऽष्टकानाम् ।
ऐन्द्री वैश्वदेवी प्राजापत्या पित्र्येति । २
ताः अष्टकाः काः इत्याह—ऐन्द्री—इन्द्रो देवता अस्या इति ऐन्द्री प्रथमा, वैश्वदेवी—विश्वेदेवा देवता अस्या इति वैश्वदेवी द्वितीया, प्राजापत्या—प्रजापतिः देवता अस्या इति प्राजापत्या तृतीया, पित्र्या—पितरो देवता अस्या इति पित्र्या चतुर्थी । उपक्रमे यद्यपि तिस्रः अष्टकाः
( १५४ )
उक्ताः तथापि तासां द्रव्यदेवतानिर्देशावसरे चतुर्थ्या अपि द्रव्यदेवता- निर्देशो युक्त इति तदभिहितम् ।
अपूपमाꣳसशाकै र्यथासंख्यम् । ३
अपूपश्च मांसञ्च शाकाश्च ते अपूपमांसशाकास्तैः अपूपमांसशाकैः यथासंख्यं यथाक्रमं यजेत । अपूपः–मण्डकः तेन प्रथमायामिन्द्रं यजेत, मांसं–गोमांसं तेन मध्यमाष्टकां यजेत । शाकः–कालशाकः तेन तृतीयचतुर्थ्यष्टके यजेते"ति ।
प्रथमाष्टका पक्षाष्टम्याम् । ४
पक्षाष्टम्यां–आग्रहायण्या ऊर्ध्वम् अपरपक्षे अष्टम्यां तिथौ, अनेन चान्द्रमासाष्टमीतिथ्योनिर्देशः कृतः । तत्र प्रथमा–आद्या, अष्टका–अष्टकाख्यं कर्म भवति ।
स्थालीपाकꣳ श्रपयित्वाऽऽज्यभागाविष्ट्वाऽऽज्याहुतीर्जुहोति-
१- त्रिꣳशतस्स्वसार उपयन्ति निष्कृतꣳ समानं केतुं प्रतिमुञ्चमानाः ऋतूंस्तन्वते कवयः प्रजानतीर्मध्ये छन्दसः परियन्ति भास्वतीः स्वाहा ॥
२- ज्योतिष्मती प्रतिमुञ्चते नभो रात्री देवी सूर्यस्य व्रतानि । विपश्यन्ति पशवो जायमाना नानारूपा मातुरस्या उपस्थे स्वाहा ॥
३- एकाष्टका तपसा तप्यमाना जजान गर्भं महिमानमिन्द्रम् । तेन दस्यून्व्यसहन्त देवा हन्ताऽसुराणामभवच्छचीभिः स्वाहा ॥
४- अनानुजामनुजां मामकर्त्त सत्यं वदन्त्यन्विच्छ एतत् । भूयासमस्य सुमतौ यथा यूयमन्या वोऽन्यामति मा प्रयुक्त स्वाहा ॥
५- अभून्मम सुमतौ विश्ववेदा आष्ट प्रतिष्ठामविदद्धि गाधम् । भूयासमस्य सुमतौ यथा यूयमन्या वो अन्यामति मा प्रयुक्त स्वाहा ॥
( १४५ )
६- पञ्च व्युष्टीरनु पञ्चदोहा गां पञ्चनाम्नीमृतवोऽनु पञ्च । पञ्च दिशः पञ्चदशेन क्लृप्ताः समानमूर्द्ध्नौरधिलोकमेकꣳ स्वाहा
७- ऋतस्य गर्भः प्रथमा व्यूषिष्यपामेका महिमानं बिभर्त्ति । सूर्यस्यैका चरति निष्कृतेषु घर्मस्यैका सवितैकान्नियच्छतु स्वाहा ॥
८- या प्रथमा व्यौच्छत्सा धेनुरभवद्यमे । सा नः पयस्वती धुक्ष्वोत्तरामुत्तराꣳ समाꣳ स्वाहा ॥
९- शुक्र ऋषभा नभसा ज्योतिषाऽऽगाद् विश्वरूपा शबलीरग्निकेतुः । समानमर्थꣳ स्वपस्यमाना बिभ्रती जरामजर उष आगाः स्वाहा ।'
१०-ऋतूनां पत्नी प्रथमेयमागादह्नां नेत्री जनित्री प्रजानाम् । एका सती बहुधोषो व्यौच्छत्साऽजीर्णा त्वं जरयसि सर्वमन्यत् स्वाहेति ॥ ५
व्याख्या—स्थालीपाकं—चरुं, श्रपयित्वा—पक्त्वा, आज्यभागौ—आग्नेयसोम्ययागौ इष्ट्वा अज्याहुतीः दश ‘त्रिंशत्स्वसार’ इत्यादिभिर्मन्त्रैः जुहोति ।
मन्त्रार्थः— १- (प्रजापतिः त्रिष्टुप् तिथयः आज्यहोमे) निष्कृतं—शुद्धं, समानं—तुल्यं, केतुं—चिह्नं चन्द्रादिरूपं, प्रतिमुञ्चमानाः—धारयन्त्यः कवयः—क्रान्तदर्शनाः, प्रजानतीः—कालस्वरूपं जानानाः, भास्वतीः—दीप्तिमतीः, त्रिंशत्—त्रिंशत्संख्याकाः, स्वसारः—स्वसृस्वरूपाः प्रतिपदादितिथयः, उपयन्ति— अष्टकायाः समीपमागच्छन्ति, हविर्ग्रहणार्थमिति शेषः । ताश्च स्वसृस्वरूपास्तिथयः, ऋतून्—हेमन्तादीन्, तन्वते—विस्तारयन्ति, पुनश्च ताः छन्दसः—वत्सरस्यमध्ये परियन्ति—आवर्तन्ते, छदनान् व्यापकत्वात् छन्दो वत्सरः, प्रजानतीः—भास्वती=रिति प्रथमार्थे द्वितीया । ताभ्यः तिथिभ्यः स्वाहा—सुहुतमस्तु ।
२- (प्रजापतिः, त्रिष्टुप्, रात्रिः आज्यहोमे) ज्योतिष्मती—नक्षत्रादिभि-
( १५६ )
ज्योतिर्मयी, देवी—देवतारूपा, रात्रिः—कालविशेषः, नभः—आकाश-मण्डल' तथा सूर्यस्य— दिवाकरस्य, व्रतानि— दिवसोचितकर्माणि, प्रतिमुञ्चते— धारयति, पशवः— गवादयः, नानारूपाः— विडाल-छागलादिविभिन्नरूपेण, जायमानाः— जर्नि लभमानाः, अस्याः—सिद्धायाः, मातुः—मातृरूपायाः पृथिव्याः, उपस्थे—क्रोडे उपरभागे इत्यर्थः। विपश्यन्ति—विविधं पश्यन्ति विशेषेण पश्यन्ति वा ।
३- ( प्रजापतिः त्रिष्टुप् इन्द्रः आज्यहोमे ) एकाष्टका—वर्षासु प्रसिद्धा अष्टका, तपसा—शास्त्रविहितधर्मेण तप्यमाना सती, महिमानं—महत्त्वविशिष्टम्, गर्भं—स्तुत्यं “गर्भो गृभेर्गृ'णात्यर्थे” इति निरुक्ते (३-१०-२-२३) । इन्द्रं—परमैश्वर्ययुक्तं तन्नामानं वा देवं, जजान—जनयामास । देवाः तेन पूर्वोक्तेन गर्भेण—इन्द्रेण दस्यून्—प्रतिपक्षान् व्यसहन्त—निवारितवन्तः । स च गर्भः शचीभिः—कर्मभिः, असुराणाम्—विरुद्धानां, हन्ता - हिंसकः, अभवत्—बभूव ' स्वाहा—तस्मै सुहुतमस्तु ।
४- (प्रजापतिः त्रिष्टुप् अष्टका आज्यहोमे) अष्टका स्वभगिनीः प्रत्याह—हे भगिन्यः ! यूयम् अनुजां—गुणकनिष्ठां माम्—अष्टकाम्, अनानुजाम्—न अनुजाम् अननुजां “छान्दसो दीर्घः” ज्येष्ठा मित्यर्थः। अकर्त—कृतवत्यः। अहम्—अष्टका, सत्यं—यथार्थं, वदन्ती—कीर्तयन्ती, एतत्—भवद्गतप्राधान्यम्, अन्विच्छे— स्वीकरोमि, अहम्— अष्टका, अस्य—यजमानस्य, सुमतौ—शोभनमतौ, भूयासम्—भवेयम्, मद्विषये यजमानस्य श्रद्धा अस्तु इति भावः। यूयमपि—वः भगिनीनां मध्ये यथा—येन प्रकारेण, अन्यां-अन्यां मा अतियुक्त-न विप्रतिपद्येत। परस्परं विरोधं न कुरुत सर्वथा ऐक्यमत्येन यजमानस्य कल्याणं कुरुध्वमिति भावः ।
५- (प्रजापतिः त्रिष्टुप् अष्टका आज्यहोमे) हे भगिन्यः ! अयं—यजमानः, हि—यतः मम—अष्टकायाः, सुमतौ—शोभनमतौ वर्त्तमानः अभूत्, अर्थात् यतः यजमाने, अहं सर्वदा सन्तुष्टास्मि तस्मात् अय ं यजमानः विश्ववेदा—सर्वधनः सर्वज्ञो वा भवतु । विश्वानि—सर्वाणि वेदांसि ज्ञानानि धनानि वा यस्य सः विश्ववेदाः, पुनश्च सः प्रतिष्ठां—