पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)
Paraskara Grihyasutra Hindi
महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा
स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)
( ११७ )
यदि यजुर्वेदमुपाकरोति तदा, अन्तरिक्षाय स्वाहा वायवे स्वाहेति आहुतिद्वयं हुत्वा ऋग्वेदवत् ब्रह्मणे छन्दोभ्य इति आहुतिद्वयं तथा प्रजापत्याद्यनुमत्यन्ताः सप्ताहुतीर्जुहुयात् ।
सामवेदोपाकरणे दिवे स्वाहा सूर्याय स्वाहेति आहुतिद्वयं हुत्वा तथा ब्रह्मणे छन्दोभ्य इत्याहुतिद्वयं तथा प्रजापत्यादिसप्ताहुतीर्जुहुयात् ।
अथर्ववेदोपाकरणे—दिग्भ्यः स्वाहा, चन्द्रमसे स्वाहा इति आहुतिद्वयं हुत्वा ब्रह्मणे छन्दोभ्य इति आहुतिद्वयं तथा प्रजापत्यादिसप्ताहुतीश्च जुहुयात् ।
एकदा सर्ववेदोपाकरणे प्रतिवेदं स्वस्ववेदाहुतिद्वयं ब्रह्मणे-छन्दोभ्य इति आहुतिद्वयं चेति संकलनया आहुतिचतुष्टयं हुत्वा ततः प्रजापत्याद्यनुमत्यन्ताः सप्ताहुतीः तन्त्रेण जुहुयात् । एतेन एकदा सर्ववेदोपाकरणे त्रयोविंशतिः (२३) आहुतयो भवन्ति । एकस्य वेदस्य उपाकरणे एकादश आहुतयः इति ।
एतदेव व्रतादेशनविसर्गेषु । १०
व्रतादेशनं—वेदारम्भः विसर्गः—समावर्त्तनम् ! व्रतादेशनानि च विसर्गश्च व्रतादेशनविसर्गाः, तेषु—व्रतादेशनविसर्गेषु, एतत्—उपाकरण-विहितहोमकर्म भवति एव ।
सदसस्पतिमित्यक्षतधानास्त्रिः । ११
"सदसस्पति"मितिमन्त्रेण आचार्यः, अक्षतधानाः—अक्षताः यवाः, धानाः—भृष्टयवाः, ताः अक्षतधानाः, त्रिः—त्रिवारम् अर्थात् अक्षतैः वारत्रयं तथा धानाभिश्च वारत्रयं जुहुयात् ।
सर्वेऽनुपठेयुः । १२
सर्वे—सर्वे शिष्याः, अनुपठेयुः—आचार्येण सह पठेयुः सदसस्पति-मिति मन्त्रम् अक्षतधानाहोमकाले । सदसस्पतिमिति मन्त्रो यथा—
"सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् ।
सनिं मेधामयासिषॐ स्वाहा । यजुः ३२-१३
( ११८ )
हुत्वा हुत्वौदुम्बर्यस्तिस्रस्तिस्रः समिध आदध्युरार्द्राः
सपलाशा घृताक्ताः सावित्र्या । १३
हुत्वा हुत्वा—अक्षतधानानां प्रत्येकहोमानन्तरं सर्वे आचार्य-सहिताः शिष्याः, तिस्रः तिस्रः—प्रतिव्यक्ति तिस्रः, सपलाशाः—पत्रसहिताः आर्द्राः-अशुष्काः, घृताक्ताः- घृतलिप्ताः, औदुम्बर्यः—उदुम्बरवृक्षोद्भूवाः समिधः, सावित्र्या— सवितृदेवताकया तत्सवितुरितिऋचा वह्नौ आदध्युः—प्रक्षिपेयुः । अत्र समिधां त्रयस्य वारत्रयेण होमः न तु युगपत् ।
ब्रह्मचारिणश्च पूर्वकल्पेन । १४
ततः ब्रह्मचारिणः—शिष्याः, पूर्वकल्पेन—उपनयनकर्मोक्तविधिना समिदाधानं कुर्युः ।
शन्नो भवन्त्वित्यक्षतधाना अखादन्तः प्राश्नीयुः । १५
“शन्नो भवन्तु वाजिन” इति अनया ऋचा सर्वे आचार्यसहिताः शिष्याः, अक्षतधानाः—अक्षताश्च धानाश्च ताः, अखादन्तः—दन्तैरचर्वयन्तः, प्राश्नीयुः—प्रत्येकं त्रिसंख्याकाः प्राश्नीयुरिति हरिहरः ।
मन्त्रः – शं नो भवन्तु वाजिनो हवेषु देवताता मितद्रवः स्वर्काः ।
जम्भयन्तोऽहिं वृकँ रक्षाँसि सनेम्यस्मद्युयवन्नमीवाः ।। यजुः ६-१६
दधिक्राव्ण इति दधि भक्षयेयुः । १६
सर्वे पूर्वोक्ताः दधिक्राव्ण इति मन्त्रेण दधि भक्षयेयुः ।
मन्त्रो यथा—“दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः । सुरभि नो मुखा करत् प्रण आयूँषि तारिषत् । शु. य. २३-३२
स यावन्तं गणमिच्छेत् तावतस्तिलानाकर्षफलकेन
जुहुयात् सावित्र्या, शुक्रज्योतिरित्युवाकेन वा । १७
सः—आचार्यः, यावन्तं —यावत्संख्याकं, गणं—शिष्याणां समूहम् इच्छेत्—कामयेत, तावतः—तावत्संख्याकान् तिलान्, आकर्षफलकेन—उदुम्बरकाष्ठनिर्मितेन सर्पाकृतिना बाहुप्रमाणेण जुहुयात् तत्सवितुरिति
( ११६ )
सावित्रीमन्त्रेण, शुक्रज्योतिरित्त्यनुवाकेन ( यजुः १७-८० ) वा । अतः धानाभ्यः स्विष्टकृते हुत्वा महाव्याहृत्यादि नवाहुतीर्जुहुयात् ।
प्राशनान्ते प्रत्यङ्मुखेभ्य उपविष्टेभ्य ओँकारमुक्त्वा त्रिंश्च सावित्रीमध्यायादीन् प्रब्रूयात् । १८
प्राशनान्ते—संस्स्रवप्राशनान्ते, प्रत्यङ्मुखेभ्यः—पश्चिमाभिमुखेभ्यः, उपविष्टेभ्यः— आसीनेभ्यः शिष्येभ्यः, प्राङ्मुखउपविष्ट आचार्यः ओङ्कारं—प्रणवम्, उक्त्वा—उच्चार्य, सावित्रीं—तत्सवितुरित्यादिमन्त्रं त्रिः—त्रिवारम् उक्त्वा, अध्यायादीन्—मन्त्रब्राह्मणयोरध्यायानामादीन् प्रब्रूयात्—अध्यापयेत् । इति यजुर्वेदोपाकरणे ।
ऋषिमुखानि बह्वृचानाम् । १९
बह्वृचानाम्—ऋग्वेदिनाम्, ऋषिमुखानि—मण्डलादीन् प्रब्रूयात् ।
पर्वाणि छन्दोगानाम् । २०
छन्दोगानां—सामवेदिनाम्, पर्वाणि—पर्वणामादीन् प्रब्रूयात् ।
सूक्तान्यथर्वणानाम् । २१
अथर्वणानां सूक्तानि—सूक्तादीन् प्रब्रूयात् ।
सर्वे जपन्ति— सह नोऽस्तु सह नोऽवतु सह न इदं वीर्यवदस्तु ब्रह्म । इन्द्रस्तद्वेद येन यथा न विद्विषामह इति । २२
ततः सर्वे— आचार्यसहिताः शिष्याः सहनोऽस्त्वत्यादि मन्त्रं जपन्ति—पठन्ति ।
मन्त्रार्थः (प्रजापतिः यजुः, ब्रह्म जपे)—इदं—प्रसिद्धं ब्रह्म—वेदः सह—सहितानां, नः—अस्माकं हृदये, अस्तु—तिष्ठतु । पुनश्च इदं नः—अस्मान्, सह—सहितान् अवतु—रक्षतु । पुनश्च इदं ब्रह्म सह—सहितानां नः—अस्माकं, वीर्यवत्—वलवत् अयातयामम् अस्तु । येन—येन हेतुना, यथा—येन प्रकारेण न विद्विषामहे— परस्परं विवादं न
( १२० )
कुर्महे, इन्द्रः तद्, वेद—बोधयतु । इन्द्र तथा बुद्धि प्रयच्छतु इति भावः।
त्रिरात्रं नाधीयीरन् । २३
उपाकर्मानन्तरं, त्रिरात्रं—अहोरात्रत्रयं नाधीयीरन्—अध्ययनं न कुर्युः।
लोमनखानामनिकृन्तनम् । २४
लोमनखानां—लोम्नां नखानां च अनिकृन्तनम्—अच्छेदनं, त्रिरात्रमेव।
एके प्रागुत्सर्गात् । २५
एके आचार्याः, प्रागुत्सर्गात्—अर्द्धषष्ठान् मासान् वेदमधीत्य यदा तेषामुत्सर्गं कुर्युः तद्दिवसात् प्राक् लोमनखानामनिकृन्तनम् इच्छन्ति। उत्सर्गानन्तरं लोमनखवपनमिच्छन्ति इति भावः।
इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां
द्वितीयकाण्डे दशमी कण्डिका ॥
—४०४—
वातेऽमावास्यायां सर्वानध्यायः । १
"त्रिरात्रं नाधीयीरन्" इति अनध्ययनप्रसङ्गेन अनध्यायानाह—
वाते—वायौ प्रचण्डे वाति सति, •अमावास्यायां—दर्शे, सर्वानध्यायः सर्वेषु—वेदेषु वेदाङ्गेषु च अनध्यायः। मतान्तरे यद् गुरुमुखात् शिक्ष्यते शिल्पश्रमादि तत्राप्यनध्यायः। अतः यत् किंचित् उपाध्यायात् अधीयते श्रूयते शिक्ष्यते वा तत्र सर्वत्र अनध्यायः। अयमनध्यायः गुरोः सकाशात् अनधीताध्ययने न गुणने। केचित् सर्वशब्देन गुणनेऽपि अनध्यायं मन्यन्ते।
श्राद्धाशने चोल्कावस्फूर्जद्भूमिचलनाग्न्युत्पाते-
ष्वृतुसन्धिषु चाकालम् । २
श्राद्धाशने—श्राद्धान्नभोजने, उल्का—ज्वालाकृतिः पतन्ती तारका।
( १२१ )
अवस्फूर्जन्ती—विद्योतमाना विद्युत्, भूमिचलनं—भूमिकम्पः, अग्निः, तेषाम् उत्पातेषु, आकालं—यस्मिन् काले उल्कादेः आपतनं परदिने तावत्कालपर्यन्तम् अनध्यायः । ऋतुसन्धिषु ऋतूनां सन्धिषु पूर्वस्य ऋतोः अन्त्या रात्रिः उत्तरस्य आद्यम् अहश्च अनध्यायकाल इत्यर्थः ।
उत्सृष्टेष्वभ्रदर्शने सर्वरूपे च त्रिरात्रं त्रिसन्ध्यं वा । ३
उत्सृष्टेषु—वक्ष्यमाणविधिना छन्दःसु उत्सृष्टेषु, अर्थात् उत्सर्गा- नन्तरं त्रिरात्रमनध्यायः । तथा अभ्रदर्शने—अतिशयितस्य मेघस्य दर्शने, सर्वरूपे— विद्युदभ्रवायुवृष्टिगर्जितानां युगपत् प्रवृत्तौ, त्रिरात्रम्— अहोरात्रत्रयं वा—पक्षान्तरे, त्रिसन्ध्यं—सन्ध्यात्रयम् अर्थात् तृतीय- सन्ध्यापर्यन्तम् अनध्यायः ।
भुक्त्वाऽऽर्द्रपाणिरुदके निशाया ॐ सन्धिवेलयो- रन्तःशवे ग्रामेऽन्तर्दिवाकीर्त्ये । ४
भुक्त्वा—भोजनानन्तरम्, आर्द्रपाणिः—अशुष्कहस्तः यावत् स्यात् तावत् अनध्यायः । उदके यावत् वर्त्तते तावत् अनध्यायः । निशायां— महानिशायाम् । "महानिशा च विज्ञेया मध्यमं प्रहरद्वयम् । सन्धिवेलयोः—सूर्यस्य उदयास्तमनयोः, अन्तःशवे—अन्तः—मध्ये शवः— मृतशरीरं यस्य सः अन्तःशवः, तस्मिन् ग्रामे, अन्तर्दिवाकीर्त्ये, दिवाकीर्तिः—चाण्डालः, स अन्तः—मध्ये यस्य सः अन्तर्दिवाकीर्त्यः देशः तत्र अनध्यायः ।
धावतोऽभिशस्तपतितदर्शनाश्चर्याभ्युदयेषु च तत्कालम् । ५
धावतः—शीघ्रं गच्छतः जनस्य अनध्यायः । तथा—अभिशस्तः— ब्रह्महत्यादिपापेनाभियुक्तः, पतितः—ब्रह्महत्यादिरतनीयपापेन युक्तः, तौ—अभिशस्तपतितौ, तयोः दर्शनम्, आश्चर्यम्—अद्भुतम्, अभ्युदयः— पुत्रजन्मादिः । एतेषु धावनादिनिमित्तेषु चकारात् पूर्वसूत्रोक्तेषु च निमित्तेषु यावत्कालं निमित्तं तावदनध्यायः ।
( १२२ )
नीहारे वादित्रशब्द आर्त्तस्वने ग्रामान्ते श्मशाने
श्वगर्दभोलूकशृगालसामशब्देषु शिष्टाचरिते च तत्कालम्।
नीहारे—कुज्झटिकायां, वादित्रशब्दे—वादित्राणां मृदङ्गादीनां शब्दे, आर्त्तस्वने—आर्त्तस्य दुःखितस्य स्वने—क्रन्दने । ग्रामान्ते—ग्रामसीम्नि, श्मशाने—प्रेतभूमौ, श्वा—कुक्कुरः, गर्दभः—रासभः, उलूकः—पेचकः, शृगालः प्रसिद्धः, साम—सामवेदः, तेषां च शब्दे श्रूयमाणे शिष्टाचरिते—शिष्टस्य श्रोत्रियस्य आचरिते—आगमने च तत्कालं—यावन्निमित्तं तावन्तं कालमनध्यायः ।
गुरौ प्रेतेऽपोऽभ्यवेयाद्दशरात्रं चोपरमेत् । ७
गुरौ—आचार्ये, प्रेते—मृते, अपः—जलम्, अभ्यवेयात्—प्रविशेत्, स्नानपूर्वकमुदकदानायेति भावः । दशरात्रं—दश अहोरात्राणि उपरमेत्—अध्ययनात् विरमेत् । चकारः उदकदानानध्ययनयोः समुच्चयार्थः ।
सतानूनप्त्रिणि सब्रह्मचारिणि च त्रिरात्रम् । ८
तानूनप्त्रं नाम सोमयागे ऋत्विजां दीक्षितस्य च आज्याभिमर्शन-लक्षणं कर्म। समानं तानूनप्त्रं येन सह अस्ति स सतानूनप्त्री, तस्मिन् सतानूनप्त्रिणि, सब्रह्मचारिणि—समाने ब्रह्मणि—वेदे चरतीति सब्रह्मचारी सहाध्यायी, तस्मिन् च प्रेते, त्रिरात्रम्—अहोरात्रत्रयम् अनध्यायः।
एकरात्रमस्रह्मचारिणि । ९
अस्रह्मचारिणि—भिन्नाचार्ये सहाध्यायिनि प्रेते एकरात्रमनध्यायः।
अर्द्धषष्ठान् मासानधीत्योत्सृजेयुः । १०
अर्द्धषष्ठान् मासान्—अर्द्धः षष्ठोमासः येषां मासानां तान्, अधीत्य—पठित्वा उत्सृजेयुः—त्यजेयुः । किमुत्सृजेयुरिति प्रश्ने, पूर्वं श्रावण्यादौ उपाकृतानि छन्दांसि इति यावत् ।
अर्द्धसप्तमासान् वा । ११
( १२३ )
वा—पक्षान्तरे, अर्द्धसप्तमासान्—अर्द्धः सप्तमः येषां मासानां तान् अर्द्धसप्तमासान्, अधीत्य उत्सृजेयुः । अत्र छन्दसामुत्सर्गोपदेशात् अङ्गाध्ययनमनुज्ञायते ।
अथेमासृचं जपन्ति—
उभा कवी युवा यो नो धर्मः परापतत् । परिसख्यस्य धर्मिणो विसख्यानि सृजामह इति । १२
अथ—उत्सर्गानन्तरम्, आचार्यसहिताः शिष्याः इमाम् उभाकवी इत्यादिकाम ऋचं जपन्ति ।
मन्त्रार्थः—हे अश्विनौ ! युवाम् उभा—उभौ, कवी—क्रान्तदर्शिनौ, युवा—युवानौ, धर्मिणः—परस्परमनुकूलस्य परिसख्यस्य—मित्रभावस्य यः धर्मः सः नः—अस्मान्, परापतत्—प्राप्तः । तेन धर्मेण विसख्यानि—विद्वेषादीनि विषमाध्ययनादीनि वा सृजामहे—विसृजामहे—त्यजाम इत्यर्थः "सृज विसर्गे" । सख्यानि सृजामहे इति भावः । विसख्यानि विसृजामहे इति गुजरातिमुद्रणालयपाठः ।
त्रिरात्रं सहोष्य विप्रतिष्ठेरन् । १३
त्रिरात्रम्—अहोरात्रत्रयं, सह—एकत्र आचार्यसहिता शिष्याः उष्य—उषित्वा निवासं कृत्वा, विप्रतिष्ठेरन्—विविधस्थानं प्रति गच्छेयुः ।
इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां द्वितीयकाण्डे एकादशी कण्डिका ॥
( उत्सर्गः )
पौषस्य रोहिण्यां मध्यमायां वाष्टकायामध्यायानूत्सृजेरन् । १
पौषस्य—पुष्यनक्षत्रेण युक्ता पौर्णमासी यस्य मासस्य स पौषो मासः । तस्य मासस्य रोहिण्यां—रोहिणीनक्षत्रे, वा—पक्षान्तरे,
( १२४ )
मध्यमायामष्टकायां—पौषपूर्णिमापरवर्त्तिन्यामष्टम्यामित्यर्थः । अध्यायान्— वेदान् पूर्वमुपाकृतान्, उत्सृजेरन्— पुनरुपाकरणं यावत् नाधीयीरन्।
उदकान्तं गत्वाद्भिर्देवाँ ᳪ श्छन्दाँ ᳪ सि वेदानृषीन् पुराणाचार्यान् गन्धर्वानितराचार्यान्त्संवत्सरं च सावयवं पितॄ नाचार्यान्त्स्वाँ ᳪ श्च तर्पयेयुः । २
उत्सर्गविधिमाह—उदकान्तं—नद्यादिजलसमीपं गत्वा, यथाविधि स्नात्वा, अद्भिः "देवास्तृप्यन्ताम्, छन्दांसि तृप्यन्ताम्, वेदास्तृप्यन्ताम्, ऋषयस्तृप्यन्ताम्, पुराणाचार्यास्तृप्यन्ताम्, गन्धर्वाचार्यास्तृप्यन्ताम्, इतराचार्यास्तृप्यन्ताम्, संवत्सरः सावयवस्तृप्यन्ताम् इति तर्पणं कृत्वा ततः अपसव्यदक्षिणामुखः स्वान् पितॄन्—स्वपितृपितामहप्रपितामहान् आचार्यांश्च नामगोत्रोच्चारणपूर्वकं तर्पयेयुः।
सावित्रीं चतुरनुद्रुत्य विरता स्म इति प्रब्रूयुः । ३
ततः सावित्रीं— तत्सवितुरित्यादिकामृचं, चतुः— चतुःकृत्वः अनुद्रुत्य—पठित्वा, विरताः स्म इति आचार्यप्रमुखाः शिष्याः प्रब्रूयुः— वदेयुः ।
क्षपणं च प्रवचनं च पूर्ववत् । ४
क्षपणम्—अनध्ययनं, चकारात् लोमनखानामनिकृन्तनं, प्रवचनम्— अध्यायादीनां पठनं, पूर्ववत्—उपाकरणवत् कुर्युः—विदध्युः ।
ततस्त्रिरात्रानन्तरं शुक्लपक्षेषु छन्दांसि कृष्णपक्षेषु अङ्गानि पठेयुः ।
इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां द्वितीयकाण्डे द्वादशी कण्डिका ॥
( १२५ )
( लाङ्गलयोजनम् )
पुण्याहे लाङ्गलयोजनम् । १
कृषिप्रवृत्तस्य एतत् कर्म उच्यते। पुण्याहे—चन्द्रतारानुकूले दिवसे, नात्र उत्तरायणशुक्लपक्षाद्यपेक्षा। लाङ्गलयोजनं—लाङ्गलस्य—हलस्य योजनं—प्रवर्त्तनं कुर्यात्।
ज्येष्ठया वेन्द्रदैवत्यम् । २
वा—पक्षान्तरे। ज्येष्ठया—ज्येष्ठानक्षत्रेण युक्ते दिवसे, इन्द्रदैवत्यम्—इन्द्रदेवताकं कर्म, कृषिकर्म कुर्यात्। ज्येष्ठानक्षत्रस्य हि देवता इन्द्रः। इन्द्राधीनं च कृषिकर्म; ततः ज्येष्ठानक्षत्रे लाङ्गलयोजनं प्रशस्तमिति भावः।
इन्द्रं पर्जन्यमश्विनौ मरुत उदलाकाशयपर्कं स्वातिकारीँ सीतामनुमतिं च दध्ना तण्डुलैर्गन्धैरक्षतैरिष्ट्वाऽनडुहो मधुघृते प्राशयेत् । ३
तत्र मातृपूजाभ्युदयिकादि कृत्वा इन्द्रादीननुमत्यन्तान् देवताविशेषान् दध्ना, तण्डुलैः गन्धैः अक्षतैः—यवैः "अक्षतास्तु यवाः प्रोक्ता" इति छन्दोगपरिशिष्टे। इष्ट्वा—नमोन्तैः नाममन्त्रैः यथा इन्द्राय नमः इत्यादिरूपैः बलिहरणेन संपूज्य, अनडुहः—वलीवद्दान् मधुघृते—मधु च घृतं च मधुघृते मिलिते, प्राशयेत्—लेहयेत्।
सीरा युञ्जन्तीति योजयेत् । ४
"सीरा युञ्जन्ति" इति मन्त्रेण दक्षिणोत्तरक्रमेण वलीवद्दौ हले योजयेत्। सम्पूर्णो मन्त्रो यथा—
"सीरा युञ्जन्ति कवयो युगा वितन्वते पृथक्।
धीरा देवेषु सुम्नया। यजुः १२-६७
शुनं सुफाला इति कृषेत् फालं वाऽऽलभेत । ५
शुनं सुफाला इति मन्त्रेण फालं—हलमुखम्, आलभेत—स्पृशेत्। वा—अथवा, अनेन मन्त्रेण कृषंत्—भूमिकर्षणं कुर्यात्।
( ४२६ )
सम्पूर्णो मन्त्रः—शुनं सुफाला विर्कृषन्तु भूमिं शुनं कीनाशा अभियन्तु वाहैः। शुनासीरा हविषा तोशमाना सुपिप्पला ओषधीः कर्त्तनास्मे। शु. य. १२-६६
नवाग्न्युपदेशात् । ६
वपनानुषङ्गाच्च । ७
वलीवर्दयोजने कर्षणे च मन्त्रप्रयोगो नास्तीति पक्षान्तरमाह— वा—पक्षान्तरे। योजने कर्षणे च न—न मन्त्रयोगः, अग्न्युपदेशात्—अग्निचयने तयोरुपदेशात् । न च अग्निप्रकरणे पठितयोरत्र उपदेशः अतिदेशो वा अस्ति । यदि तौ मन्त्रौ अत्र भवतः तर्हि अग्निप्रकरणे बीजवपने 'या ओषधीरित्यादयः ये मन्त्राः विनियुक्ताः तेषामपि अनुसङ्ग-सम्बन्धः आपतेत् । अतएव वलीवर्दयोजने कर्षणे च मन्त्रो नास्ति। इति पक्षान्तरम् ।
अग्र्यमभिषिच्याकृष्टं तदाऽऽकृषेयुः । ८
अग्र्यं—श्रेष्ठं वलीवर्दम्, अभिषिच्य—गन्धमाल्यादिभिः भूषयित्वा अकृष्टम्—अविलिखितं क्षेत्रं तदा आकृषेयुः—विलिखेयुः ।
स्थालीपाकस्य पूर्ववद्देवता यजेदुभयोर्व्रीहियवयोः प्रवपन् सीतायज्ञे च । ९
साग्निकस्य कृषिकर्मणि विशेषमाह—मातृपूजाभ्युदयिकश्राद्धानन्तरम् आवसथ्याग्नौ ब्रह्मोपवेशनादिप्राशनान्ते लाङ्गलयोजनोक्त तण्डुलस्थाने पूर्वसिद्धस्य स्थालीपाकस्य—चरोः, पूर्ववत्—लाङ्गलयोजनोक्तवत् देवताः—लाङ्गलयोजनदेवताः इन्द्रादीन्, यजेत्, किं कुर्वन् ? प्रवपन्—वपनं कुर्वन् । कयोः ? व्रीहियवयोः, तथा सीतायज्ञे च । व्रीहियवयोः वपनकाले सीतायज्ञे च लाङ्गलयोजनदेवताः अर्च्चा इत्यर्थः।
ततो ब्राह्मणभोजनम् । १०
व्याख्यातमेतत् ।
इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां द्वितीयकाण्डे त्रयोदशी कण्डिका ॥
—४०४—
( १२७ )
( श्रवणाकर्म )
अथातः श्रवणाकर्म । १
अथातः—व्रीहिवापादिकालान्तरं प्राप्तं श्रवणकर्माख्यं कर्म उच्यते।
श्रावण्यां पौर्णमास्यां । २
तत्र श्रवणाकर्म श्रावण्यां पौर्णमास्यां—श्रावणमासस्य पूर्णिमायां भवति।
स्थालीपाकं श्रपयित्वाऽक्षतधानाश्चैककपालं पुरोडाशम् । ३
स्थालीपाकं—चरुम्, अक्षतानां—सतुषाणां यवानां धानाः ताश्च, एककपालं—एकस्मिन् कपाले श्रप्यत इति एककपालं, पुरोडाशं श्रपयित्वा—पक्त्वा।
धानानां भूयसीः पिष्ट्वाऽऽज्यभागाविष्ट्वाऽऽज्याहुतीर्जुहोति "अपश्वेतपदा जहि पूर्वेण चापरेण च । सप्त च वारुणैरिमाः प्रजाः सर्वाश्च राजबान्धवैः स्वाहा । न वै श्वेतस्याध्याचारेऽहिर्ददर्श कंचन । श्वेताय वैदर्ध्याय नमः स्वाहेति । ४
धानानां—भर्जितानां यवानां, भूयसीः—बह्वीः, पिष्ट्वा—सक्तुत्वं सम्पाद्य आज्यभागौ—आग्नेयसौम्ययागौ कृत्वा ततः "अपश्वेतपदा, न वै श्वेतस्येति मन्त्रद्वयेन आहुतिद्वयं जुहोति।
मन्त्रार्थः (द्वयोः प्रजापतिः अनुष्टुप् गायत्र्यौ सर्प, आज्यहोमे)—
हे श्वेतपद ! राजबान्धवैः—वासुकिवंशीयैर्नागैः त्वम् इमाः—सर्वाः मदीयाः सप्त—सपिण्डादिप्रकारेण सप्तपुरुषवर्त्तिनः प्रजाः, पूर्वेण—पूर्वभागेन, अपरेण—पश्चाद्भागेन च अपजहि—परित्यज अर्थात् मम वंशे सर्पभीतिर्नास्तु।
श्वेतस्य—नागस्य, अध्याचारे—आधिपत्ये, अहिः—सर्पः कंचन—लोकं प्राणिजातीयं न ददर्श—न पश्यति। वै—निश्चये। तस्मात् वैदर्ध्याय—विदर्भापत्याय, श्वेताय—शुद्धाय नागाय नमः।
( १२८ )
स्थालीपाकस्य जुहोति-विष्णवे श्रवणाय श्रावण्यै पौर्णमास्यै वर्षाभ्यश्चेति । ५
ततः स्थालीपाकस्य—चरोः, चतस्रः आहुतीः जुहोति—विष्णवे स्वाहा, श्रवणाय स्वाहा, श्रावण्यै पौर्णमास्यै स्वाहा, वर्षाभ्यः स्वाहा, चेति मन्त्रैः ।
धानावन्तमिति धानानाम् । ६
धानावन्तं करम्भिणमिति ऋचा धानानामेकामाहुतिं जुहोति । सम्पूर्णो मन्त्रः—धानावन्तं करम्भिणमपूपवन्तमुक्थिनम् । इन्द्र प्रातर्जुषस्व नः ।। शु. य. २०-२६
घृताक्तान् सक्तून् सर्पेभ्यो जुहोति— आग्नेयपाण्डुपार्थिवाना७ सर्पाणामधिपतये स्वाहा, श्वेतवायवान्तरिक्षाणा७ सर्पाणामधिपतये स्वाहा, अभिभूः सौर्यदिव्याना७ सर्पाणामधिपतये स्वाहा । ७
घृताक्तान्—घृतेन अक्तान्—अभिघारितान् सक्तून् सर्पेभ्यः आग्नेयपाण्डुपार्थिवानामित्यादिभिस्त्रिभिर्मन्त्रैः आहुतित्रयं जुहोति ।
मन्त्रार्थः (त्रयाणां परमेष्ठी यजुः, सर्पाधिपतयः सक्तुहोमे)— आग्नेयाः—अग्निदैवत्याः, पाण्डुपार्थिवाः,—पाण्डुजातीयाः पृथिवीविहारिणश्च, एवम्भूता ये सर्पास्तेषाम्, अधिपतये—वासुकये, स्वाहा—सुहुतमस्तु । श्वेतवायवान्तरिक्षाणां—श्वेता—श्वेतजातीयाः, वायवाः—वायुदैवत्याः, आन्तरिक्षाः—अन्तरिक्षविहारिणः ये सर्पास्तेषाम्, अधिपतये स्वाहा । अभिभूःसौर्यदिव्यानाम्—अभिभवन्ति सर्वानिति अभिभुवः, सौर्याः—सूर्यदैवत्याः दिव्याः—दिविविहाराः ये सर्पास्तेषामधिपतये स्वाहा । अभिभूरित्यत्रविसर्गश्छान्दसः ।
सर्वहुतमकेकपालं ध्रुवाय भौमाय स्वाहेति । ८
सक्तुहोमानन्तरम् एककपालम्—एकस्मिन् कपाले पक्वं पुरोडाशं सर्वहुतं—सम्पूर्णं हुतं यथास्यात्तथा "ध्रुवाय भौमाय स्वाहेति मन्त्रेण
( १२६ )
जुहोति । ततः स्थालीपाक धानासक्तुभ्यः स्विष्टकृद्धोमः । ततो भूरादिहोमश्च ।
प्राशनान्ते सक्तूनामेकदेशं शूर्पे न्युप्योपनिष्क्रम्य बहिःशालायाः स्थण्डिलमुपलिप्योल्कायां ध्रियमाणायां मान्तरा गमतेत्युक्त्वा वाग्यतः सर्पानवनेजयति, आग्नेयपाण्डुपार्थिवानाꣳ सर्पाणामधिपतेऽवनेनिक्ष्व । श्वेतत्रायवान्तरिक्षाणाꣳ सर्पाणामधिपतेऽवनेनिक्ष्व । अभिभूः सौर्यदिव्यानाꣳ सर्पाणामधिपतेऽवनेनिक्ष्वेति । ६
प्राशनान्ते—संस्स्रवप्राशनान्ते, सक्तूनां—पूर्वकृतधानासक्तूनाम् एकदेशं—बलित्रयपर्याप्तं भागं शूर्पं—वंशादिनिर्मिते पात्रविशेषे, न्युप्य—कृत्वा, शालायाः सकाशात्, उपनिष्क्रम्य—निर्गत्य, बहिः—प्राङ्गणे, स्थण्डिलं—भूमिम्, उपलिप्य—गोमयेन स्वयमेव उपलिप्य उल्कायां ध्रियमाणायाम्—ज्वलति काष्ठे अन्येन गृह्यमाणे "मान्तरा गमत—आवसथ्यस्य मम च अन्तरा—मध्ये, मा गमत—न गच्छत इत्युक्त्वा, वाग्यतः—मौनौ सर्पान् 'आग्नेय-श्वेत-अभिभू-रित्यादिभिः अवनेनिक्ष्व इत्येतदन्तैः मन्त्रैः प्राक्संस्थान् भूमौ उदकप्रक्षेपेण अवनेजयति—शुचीन् करोति ।
यथावनिक्तं दर्व्योपघातꣳ सक्तून् सर्पेभ्यो बलिꣳ हरति आग्नेयपाण्डुपार्थिवानाꣳ सर्पाणामधिपत एष ते बलिः । श्वेतवायवान्तरिक्षाणाꣳ सर्पाणामधिपत एष ते बलिः । अभिभूः सौर्यदिव्यानाꣳ सर्पाणामधिपत एष ते बलिरिति । १०
यथावनिक्तं—येषु देशेषु अवनेजनं कृतं तान् देशान् अनतिक्रम्य, दर्व्योपघातं—प्रादेशमात्रया द्व्यङ्गुष्ठपर्वविस्तीर्णया पालाशादियज्ञियवृक्षोद्भवया दर्व्या उपघातम्—उपहत्य उपहत्य, गृहीत्वा सक्तून् आग्नेय इत्यादिभित्रिभिर्मन्त्रैः सर्पेभ्यो बलिं हरति—ददाति ।
( १३० )
अवनेज्य पूर्ववत् कंकतैः प्रलिखति—
आग्नेयपाण्डुपार्थिवानाँ सर्पाणामधिपते प्रलिखस्व।
श्वेतवायवान्तरिक्षाणाँ सर्पाणामधिपते प्रलिखस्व।
अभिभूःसौर्यदिव्यानाँ सर्पाणामधिपते प्रलिखस्वेति।
अवनेज्य—पुनः पूर्ववत् अवनेजनं दत्त्वा, कंकतैः—वैकङ्कतकाष्ठ-निर्मितैः प्रादेशमात्रैः त्रिभिः एकतोदन्तैः समुच्चितैः प्रतिवलि प्रलिखति-कण्डूयति "आग्नेय" इत्यादिभिर्मन्त्रैः।
अञ्जनानुलेपनं स्रजश्चाञ्जस्वानुलिम्पस्व स्रजोऽपिनह्यस्वेति।
ततः प्रतिवलि यथाक्रमम् "आग्नेयपाण्डुपार्थिवाना"मित्यादिभिः त्रिभिः अञ्जस्व इत्यन्तैः मन्त्रैः अञ्जनं—कज्जलम्, अनुलिम्पस्व इत्यन्तैस्त्रिभिर्मन्त्रैः अनुलेपनं—सुरभिचन्दनादि, स्रजो पिनह्यस्व इत्यन्तैः मन्त्रैः स्रजः—पुष्पमालाः दद्यात्।
सक्तुशेषं स्थण्डिले न्युप्योदपात्रेणोपनिनियोपतिष्ठते-नमोऽस्तु सर्पेभ्य इति त्रिभिः। १३
सक्तुशेषं—यत् शूर्पे न्युप्य आनीतं तत्, स्थाण्डले—वलिदानार्थं उपलिप्ते भूभागे न्युप्य—शूर्पेण क्षिप्त्वा, उदपात्रेण—जलपात्रेण उपनिनोय—प्रवाह्य, प्राङ्मुखः तिष्ठन् सर्पान्, उपतिष्ठते—स्तौति नमोऽस्तु सर्पेभ्य इति तिसृभिः ऋग्भिः।
सम्पूर्णा मन्त्राः—
नमोऽस्तु सर्पेभ्यो ये के च पृथिवी मनु।
ये अन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः। शु. य. १३-६
या इषवो यातुधानानां ये वा वनस्पतीँ ँ रनु
ये वाऽवटेषु शेरते तेभ्यः सर्पेभ्यो नमः। १३-७
ये वामी रोचने दिवो ये वा सूर्यस्य रश्मिषु।
येषामप्सु सदस्कृतं तेभ्यः सर्पेभ्यो नमः। १३-८ इति
( १३१ )
स यावत् कामयेत न सर्पा अभ्युपेयुरिति तावत् सन्ततयोदधारया निवेशनं त्रिः परिषिञ्चन् परीयाद् "अपश्वेतपदा जहोति द्वाभ्याम् । १४
सः—गृहपतिः, यावत्—यावन्तं देशं सर्पा नाभ्युपेयुः—न सञ्चरेयुः इति कामयते—इच्छेत्, तावत्—तावन्तं देशं, सन्ततया—अनवच्छिन्नया, उदधारया—जलधारया, निवेशनं—गृहं, परिषिञ्चन्—सेचितं कुर्वन्, त्रिः—त्रीन् वारान्, परीयात्—प्रादक्षिण्येण परिक्रम्य गच्छेत् “अप श्वेतपदा जहि” इति द्वाभ्यां पूर्वोक्ताभ्यां मन्त्राभ्याम् ।
दर्वी शूर्पं च प्रक्षाल्य प्रतप्य प्रयच्छति । १५
दर्वी—यया दर्व्या वलिदानं कृतं तां, शूर्पं च प्रक्षाल्य—क्षालयित्वा, प्रतप्य—सन्निधानात् उल्कायामेव सकृत् तापयित्वा प्रयच्छति—ददाति, उल्काधाराय ।
द्वारदेशे मार्जयन्त आपोहिष्ठेति तिसृभिः । १६
द्वारदेशे—शालाया द्वारे आपोहिष्ठेति तिसृभिः ऋग्भिः मार्जयन्ते—आत्मशिरसि जलप्रक्षेपेण मार्जनं कुर्वन्ति ब्रह्मयजमानोल्काधाराः बहुवचनोपदेशात् ।
अनुगुप्तमेतठ्ठू सक्तुशेषं निधाय ततोऽस्तमितेऽस्तमितेऽग्निं परिचर्य दर्व्योपघातठ्ठू सक्तून् सर्पेभ्यो बलिं हरेदाग्रहायण्याः ।१७
एतं—प्रकृतं सक्तुशेषम्—अवशिष्टसक्तून्, अनुगुप्तं—सुरक्षितं यथा भवति तथा निधाय—स्थापयित्वा, ततः—श्रवणाकर्मकालात् प्रभृति, अस्तमिते, अस्तमिते—प्रत्यहं सूर्यास्तमनानन्तरम्, अग्निम्—आवसथ्याग्नि, परिचर्य—सायं होमेन आराध्य, ततः दर्व्योपघातं—पूर्वोक्तदर्व्या उपहत्य उपहत्य सक्तून् शूर्पे कृत्वा सर्पेभ्यो बलिं हरेत् पूर्वोक्तप्रकारेण आग्रहायणीं मार्गशीर्षपूर्णिमा यावत् । बलिदानं च अवनेजनदानादिकङ्कतविलेखनान्तं कर्म ।
( १३२ )
तं हरन्तं नान्तरेण गच्छेयुः । १८
हरन्तं—बलीन् उपहरन्तं, तं—गृहपतिम् आवसथ्याग्निं च अन्तरेण—मध्ये न गच्छेयुः प्राणिनः। ततः श्वादयोऽपि निवार्याः।
दर्व्याचमनं प्रक्षाल्य निदधाति । १९
दर्व्याः—पूर्वोक्तायाः, आचमनं—मुखं, प्रक्षाल्य—क्षालयित्वा, निदधाति—स्थापयति। शूर्पं न प्रक्षालयेत् अनुक्तत्वात्।
धानाः प्राश्नन्त्यसँस्क्यूताः । २०
असंस्क्यूताः—दन्तैरलग्राः, धानाः—भर्जितान् यवान् प्राश्नन्ति—अचर्वयन्तः भक्षयन्ति, ब्रह्मयजमानोल्काधाराः।
ततो ब्राह्मणभोजनम् । २१
व्याख्यातमेतत् ।
इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां द्वितीयकाण्डे चतुर्दशी कण्डिका ॥
—४०४—
( इन्द्रयज्ञः )
प्रौष्ठपद्यामिन्द्रयज्ञः । १
प्रौष्ठपद्यां—प्रौष्ठपदी—भाद्रपदपौर्णमासी तस्याम्, इन्द्रयज्ञः—इन्द्रयज्ञाख्यं कर्म भवति औपासनाग्नौ।
पायसमैन्द्रँ श्रपयित्वाऽपूपारँश्च । २
तस्यां—प्रौष्ठपद्याम्, ऐन्द्रं—इन्द्रदैवत्यं पायसं—पयसा सिद्धं चरुं, श्रपयित्वा—पक्त्वा, अपूपांश्च चतुरः श्रपयित्वा।
अपूपैस्तीर्त्वाऽऽज्यभागाविष्ट्वाऽऽज्याहुतीर्जुहोती- न्द्रायेन्द्राण्या अजायैकपदेऽहिर्बुध्न्याय प्रौष्ठपदाभ्यश्चेति । ३
अपूपैः प्रतिदिशम्, अग्निं स्तीर्त्वा—परिस्तीर्य, आज्यभागौ—आधारपूर्वकौ आग्नेयसौम्ययागौ कृत्वा इन्द्राय स्वाहा, इन्द्राण्यै स्वाहा
( १३३ )
अजायैकपदे स्वाहा, अहिर्बुध्न्याय स्वाहा, प्रौष्ठपदाभ्यः स्वाहा, इत्येतैः पञ्चभिर्मन्त्रैः प्रतिमन्त्रं पञ्च आज्याहुतीर्जुहोति । आज्याहुत्यन्ते इन्द्राय स्वाहेति पायसेन एकाहुतिहोमः । ततः पायसेन स्विष्टकृदादिहोमः ।
प्राशनान्ते मरुद्भ्यो बलिं हरत्यहुतादो मरुत इति श्रुतेः । ४
ततः प्राशनान्ते—स्विष्टकृदादिसंस्रवप्राशनानन्तरं मरुद्भ्यः—वक्ष्यमाणेभ्यः एकोनपञ्चाशत्संख्यकेभ्यः बलिं हरति—बलिं ददाति । बलिदाने कारणमुपन्यस्यति—मरुतः—देवताविशेषाः, अहुतादः—न हुतम् अहुतं, तत् अहुतम् अदन्तीति अहुतादः अर्थात् मरुतां होमो नास्त्येव किन्तु बलिरेव । इति श्रुतेः—अहुतादो मरुत इति श्रुतिवचनात् ।
आश्वत्थेषु पलाशेषु मरुतोऽश्वत्थे तस्थुरितिवचनात् । ५
मरुद्भ्यः कुत्र बलिं दद्यादित्याह—आश्वत्थेषु पलाशेषु—अश्वत्थवृक्षपत्रेषु । कस्मात् ? मरुतः—अश्वत्थे—वृक्षराजे, तस्थुः—स्थितवन्तः इति वचनात् ।
शुक्रज्योतिरिति प्रतिमन्त्रम् । ६
विमुखेन च मनसा । ७
नामान्येषामेतानीति श्रुतेः । ८
शुक्रज्योतिरित्यादिभिः षड्भिः मन्त्रैः प्रतिमन्त्रं, तथा विमुखेन—मुखोच्चारणभिन्नेन मनसा—मनसा उच्चारितेन “उग्रश्च भीमश्चे”त्यादिना सप्तमेन मन्त्रेण च बलिं ददाति—दद्यात् । एतानि—शुक्रज्योतिरित्येवमादीनि एषां— मरुतां, नामानि— अभिधेयानि इति श्रुतेः—वेदवचनात् ।
ते च नाममन्त्रा यथा— शु० यजुः १७-८० तः—
“शुक्रज्योतिश्च चित्रज्योतिश्च सत्यज्योतिश्च ज्योतिष्माँश्च
शुक्रश्च ऋतपाश्चात्यं२हाः । १७-८०
ईदृङ् चान्यादृङ् च सदृङ् च प्रतिसदृङ् ।
मितश्च सम्मितश्च सभराः । १७-८१
( १३४ )
ऋतश्च सत्यश्च ध्रुवश्च धरुणश्च धर्त्ता च विधर्त्ता च विधारयः । १७ ८२ ऋतजिच्च सत्यजिच्च सेनजिच्च सुषेणश्च । अन्तिमित्रश्च दूरे अमित्रश्च गणः । १७-८३ ईदृक्षास एतादृक्षास ऊषुणः सहक्षास प्रतिसहक्षास एतन । मितासश्च सम्मितासो नो अद्य सभरसो मरुतो यज्ञे अस्मिन् । १७-८४ स्वतवाँश्च प्रघासी च सान्तपनश्च गृहमेधी च : क्रीड़ी च शाकी चोज्जेषी । १७-८५ उग्रश्च भीमश्च ध्वान्तश्च धुनिश्च । सासह्वाँश्चाभियुग्वा च विक्षिपः स्वाहा ।
इन्द्रं दैवीरिति जपति । ९
वलिहरणान्ते इन्द्रं दैवीरिति ऋचं जपति ।
मन्त्रोयथा—शु. यजुः १७-८६
इन्द्रं दैवीर्विशो मरुतोऽनुवर्त्मानोऽभवन् यथेन्द्रं दैवीर्विशो मरुतोऽनुवर्त्मानोऽभवन् । एवमिमं यजमानं दैवीश्च विशो मानुषीश्चानुवर्त्मानो भवन्तु !
ततो ब्राह्मणभोजनम् । १०
व्याख्यातमेतत् ।
इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां द्वितीयकाण्डे पञ्चदशी कण्डिका ॥
आश्वयुज्यां पृषातकाः । १
आश्वयुज्याम्—आश्विनपौर्णमास्यां, पृषातकाः—पृषातका इति कर्म भवति ।
पायसमैन्द्रं श्रपयित्वा दधिमधुघृतमिश्रं जुहोतीन्द्रायेन्द्राण्यै अश्विभ्यामाश्वयुज्यै पौर्णमास्यै शरदे चेति । २
( १३५ )
तत्र— ऐन्द्रम्—इन्द्रदेवत्यं, पायसं—पयसा सिद्धं चरुं दधिमधु-घृतसिश्रं—दधिमधुघृतैः मिश्रितं कृत्वा "इन्द्राय स्वाहा, इन्द्राण्यै स्वाहा, अश्विभ्यां स्वाहा, आश्वयुज्यै पौर्णमास्यै स्वाहा, शरदे स्वाहा, इति पञ्चभिः मन्त्रैः प्रतिमन्त्रं पञ्चाहुतीः जुहोति ।
प्राशनान्ते दधिपृषातकमञ्जलिना जुहोति
“ऊनं मे पूर्यतां पूर्णं मे माविगात् स्वाहेति । ३
ततः प्राशनान्ते—स्विष्टकृत्प्रभृतिसंस्रवप्राशनान्ते दधिपृषातकं—दधिमिश्रितमाज्यम् अञ्जलिना जुहोति "ऊनं मे पूर्यता"मित्यादिना मन्त्रेण । दुग्धमिश्रितमाज्यं यद्यपि पृषदाज्यं भवति तथापि अत्र वचनात् दधिपृषातकग्रहणम् ।
मन्त्रार्थः—हे इन्द्र ! मे—मम यत् ऊनं, तदनेन होमेन, पूर्यतां—पूर्णं क्रियताम् । यच्च पूर्णं तच्च, माविगात्—अपूर्णतां न गच्छतु ।
दधिमधुघृतमिश्रममात्या अवेक्षन्त आयात्विन्द्र इत्यनुवाकेन । ४
होमानन्तरम् अमात्याः—गृहजनाः, अमा—गृहं तत्र भवाः यजमानगृहजनाः भ्रातृपुत्रादय इत्यर्थः । ते दधिमधुघृतमिश्रं हुतशेषं पायसम् 'आयात्विन्द्रोऽत्रस' इत्यनुवाकेन अवेक्षन्ते पश्यन्ति । अनुवाको यथा—
आयात्विन्द्रो वस उपन इह स्तुतः सधमादस्तु शूरः ।
वावृक्षानस्तविर्षीयस्य पूर्वी र्द्यौर्न क्षत्रमभिभूति पुष्यात् । इति
(शु. य. २०-४७) आरभ्य 'यूयं पात स्वस्तिभिः सदा नः
(शु. य. २०-५४) इत्यन्तः ।
मातृभिर्वत्सान्त्संसृज्य ताꣳ रात्रिमाग्रहायणीं च । ५
ताम्—आश्विनपूर्णिमारात्रिम्, आग्रहायणीं—मार्गशीर्षपूर्णिमारात्रिं च अत्र अत्यन्तसंयोगे द्वितीया, मातृभिः जननीभिर्धेनुभिः सह वत्सान् संसृज्य—संसृष्टान् कृत्वा, स्थापयेत् तेन सन्ध्यायां वत्सान् मातृभिः सह
( १३६ )
संयोज्य सम्पूर्णां रात्रिं न वध्नीयात् । ततो ब्राह्मणभोजनम् । ६
व्याख्यातमेतत् ।
इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां
द्वितीयकाण्डे षोडशी कण्डिका ॥
—४०४—
( सीतायज्ञः )
अथ सीतायज्ञः । १
अथ—इदानीं, सीतायज्ञः—सीतायज्ञकर्म व्याख्यास्यते । तत्र कृषिप्रवृत्तः साग्निः अधिकारी ।
व्रीहियवानां यत्र यत्र यजेत तन्मयं स्थालीपाकं श्रपयेत् । २
व्रीहियवानां—व्रीहयश्च यवाश्च व्रीहियवाः तन्मध्ये, यत्र यत्र—व्रीहिकाले यवकाले वा, यजेत—सीतायज्ञेन यजेत, तत्र, तन्मयं—व्रीहिकाले व्रीहिमयं यवकाले यवमयं स्थालीपाक—चरुं श्रपयेत् ।
कामादीजानोऽन्यत्रापि व्रीहियवयोरैवान्यतरं
स्थालीपाकं श्रपयेत् । ३
ईजानः—यागं कुर्वाणः अन्यत्रापि यज्ञादिषु व्रीहियवयोरैव, अत्र एवकाररेण इतरव्यवच्छेदः । अन्यतरं—व्रीहिमयं यवमयं वा स्थालीपाकं—चरुं कामात्—स्वेच्छया श्रपयेत् ।
न पूर्वचोदितत्वात् सन्देहः । ४
व्रीहियवयोरन्यतरेण यागः कर्त्तव्यः इति "व्रीहीन् वा यवान् वा १-६-१ इति पूर्वचोदितत्वात्—पूर्वम् उक्तत्वात् सन्देहः न कर्त्तव्यः।
असम्भवाद् विनिवृत्तिः । ५
किन्तु असम्भवात्—यवेन चरुसम्पादनस्य असम्भवात् एव यवस्य विनिवृत्तिः दृश्यते न शास्त्रात् । कथमसम्भव इति चेत् यतः अनवस्राविणन्तरौषणपक्वके ईषदसिद्धेऽप्यनुक्तवाक्येकीकृत्याप्यशक्यप्रयोगात्, ततः