भारतकोश
संग्रह पर लौटें

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

११९-१२० प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ३२७ ननु ‘ऊख’धातोर्द्वित्वे स्वत एव ह्रस्वत्वात् पूर्वमभ्यासह्रस्वाप्रवृत्तौ हलादिःशेषे सवर्णदीर्घे ह्रस्वांपत्तिरत आह— पर्जन्यवल्लक्षणप्रवृत्तिः ॥ १२० ॥ —: ✤ :— एवञ्च ह्रस्वस्यापि ह्रस्वे कृते ‘लक्ष्ये लक्षणस्ये’ति न्यायेन न पुन- र्ह्रस्वः । तदुक्तम् ‘इको झलि’ति सूत्रे भाष्ये—‘‘कृतकारि खल्वपि शास्त्रं पर्जन्यवद्दि’’ति । सिद्धेऽपि ह्रस्वाधिकारीत्यर्थः । न च लक्ष्ये लक्षणस्य सकृदेव प्रवृत्तिरित्यत्र न मानमिति वाच्यम् ; ‘‘समो वा लोपमेक’’ इति लोपेनैकसकारस्य द्वित्वेन द्विसकारस्य पुन- र्द्वित्वेन च त्रिसकारस्य सिद्धौ ‘समः सुटी’ति सूत्रस्यैव मानत्वात्, ‘सम्प- सारणाच्च, वृद्धिरे’त्यादौ भाष्ये स्पष्टमुक्तत्वाच्च । अत्र विकारकृतो लक्ष्यभेदो नेति ‘सिचि वृद्धिर्’ति भाष्यत् प्रतीयत इत्यन्यत्र विस्तरः ॥ १२० ॥ केचित्तु—‘‘विभाषा फाल्गुनी’ति निर्देशज्ञापितस्य ‘पौर्णमास्यामयं लुब् ने’ति निषेधस्य तत्रैव सूत्रे श्रवणेति निर्देशनानित्यत्वज्ञापनात् ‘श्रावणी’ति सिद्धयतीति वदन्ति । ‘अतिशयने’ इति दीर्घनिपातनाल्लोके अतिशयनशब्दोऽसाधुरेवेति दिक् ॥ ११९ ॥ ह्रस्वे कृत इति । दीर्घात् पूर्वमाङ्गतत्वादिति भावः । कृतकारीति । उद्देश्यतावच्छेद- कावच्छेदेन विधेयान्वयस्य वाक्यमर्यादासिद्धत्वेन तन्मूलषेति भावः । ननु पर्जन्यदृष्टान्ते तस्य तात्कालिकफलाजनकत्वेऽपि पूर्णजलाशयस्य परिरक्षणादिरूपभाविफलजनकत्वस्य सत्त्वेनात्र तत्प्रवृत्तिरनुचिता । अत एव भाष्ये ‘अकृतकारि खल्वपि शास्त्रमग्निवत्, यथाऽग्निर्दग्धं न दहति तथा शास्त्रमपि कृतं न करोती’’त्युक्तमिति चेन्न । ‘ऊख- तुरि’त्यत्रापि ह्रस्वस्य ह्रस्वविधाने ‘लक्ष्ये लक्षण’न्यायेन दीर्घोत्तरं पुनर्ह्रस्वाप्रवृत्ति- रूपफलस्य सत्त्वेन पर्जन्यदृष्टान्तस्य सूपपादत्वात् । अत एव ‘मो राजौ’त्यनेन अनु- स्वारनिवृत्तिरूपफलसत्त्वात् सिद्धस्यापि मकारस्य पुनर्मकारविधानमुपपद्यते । यत्र तु सर्वथा फलाभावो यथा ‘रमाणामि’त्यत्र ‘नामी’ति दीर्घप्रवृत्तेः, तत्राग्निदृष्टान्ते- नास्तु तदप्रवृत्तिः । प्रकृते तु उद्देश्यतावच्छेदकावच्छेदेन अन्वयस्य क्लृप्तस्य त्यागे मानाभाव इति दिक् । विकारकृत इति । तेन ‘उदवोढा’मित्यत्र वृद्धौ कृतायां तल्लक्ष्यत्वेन पुनः सा नेति भावः । इदमागमकृतस्याप्युपलक्षणम् । अत एव ‘सर्वेषामि’त्यत्र पुनः सुडा- गमो नेति बोध्यम् ।

ननु 'स्यन्दू'धातोः 'स्यन्त्स्यती'त्यादौ आत्मनेपदनिमित्तत्वाभाव- तल्लक्ष्यत्वं च स्वीयप्राथमिकप्रवृत्तौ उद्देश्यतावच्छेदकावच्छेदेन आश्रीयमाणो यावान् शब्दसमुदायस्तद्विशिष्टाघटितत्वे सति स्वीयप्राथमिकप्रवृत्तिपूर्वकालिकप्राप्ति- विषयाघटितत्वम्। वैशिष्ट्यञ्च—स्वाघटकत्व-स्वघटकमात्रोद्देश्यकविकारागमाति- रिक्तत्वैतदुभयसम्बन्धेन। ( 'सुध्युपास्ये'त्यत्र 'अनचि चे'ति शास्त्रप्रवृत्तौ पदत्वरूप- स्वीयोद्देश्यतावच्छेदकरूपेण आश्रीयमानसमुदायः 'सुध् य्' इति, तद्घटकत्वं यद्यपि द्वित्वनिष्पन्ने द्वितीयधकारेऽस्ति; तथापि द्वितीयसम्बन्धाभावात् तदुभयसम्बन्धेन तादृशसमुदायविशिष्टः उदासीनः, तद्घटितत्वं 'सुध्य्' इत्यस्येति तल्लक्ष्यत्वान्न पुनर्द्वित्वं धस्येति समन्वयः।) 'यून' इत्यत्र 'श्वयुवे'ति शास्त्रीयवकारनिष्ठप्राथमिक- प्रवृत्तिपूर्वकालिकप्राप्तिर्यकारनिष्ठा, तद्विषयाघटितत्वाभावेन तल्लक्ष्यत्वाभावात् पुनः सम्प्रसारणप्राप्तौ 'न सम्प्रसारणे सम्प्रसारणमि'ति निषेधश्चरितार्थः। एतत्सूत्रमेवात्र लक्षणे तन्निवेशे मानम्। अत एव 'भूयादि'त्यत्र सकारद्वयस्य लोपः सिद्धयति। मात्रपदन्निवेशात् 'काण्डे' इत्यादौ तल्लक्ष्यत्वाभावेन पुनः प्राप्तस्य ह्रस्वस्य प्रकारान्तरेण वारणपरं भाष्यं सङ्गच्छते। 'षड्धु+सन्त' इत्यत्र 'खरि चे'त्यस्य प्राथमिकी धकारनिष्ठा प्रवृत्तिः, तत्पूर्वकालिकप्राप्तिर्डकारनिष्ठा, धुट्प्रवृत्तेः पूर्वं डकारे 'खरि चे'त्यस्य प्राप्तिसत्त्वात्, तादृशप्राप्तिविषयडकारघटितत्वेन तल्लक्ष्यत्वाभावात् डकारे चर्त्वं सिद्ध्यति। न चैवमपि 'या से'त्यादौ टापा सह एकादेशोत्तरं पुनस्त्यदायत्वा- पत्तिः, 'काण्डे' इत्यनेन तुल्यत्वादिति वाच्यम्; 'न यासयोरि'ति निर्देशेन टापा सह एकादेशस्थले तल्लक्ष्यत्वज्ञापनेनादोषात्। मात्रपदघटितनिवेशेन स्वोद्देश्यकविभक्त्य- नुद्देश्यकत्वस्य ग्रहणेन टाबैकादेशस्य स्वघटकमात्रोद्देश्यकविकारत्वेन तदितराघटितत्व- रूपतल्लक्ष्यत्वसत्त्वेन अदोषाच्च। न च 'दीव्यती'त्यत्र श्यन्प्रवृत्त्युत्तरं दीव्येति समुदायस्य तल्लक्ष्यत्वाभावेन पुनः श्यनापत्तिः, श्यनः स्वीयप्राथमिकप्रवृत्तौ आश्रीयमाण'दिव्ती'ति समुदायाघटकत्वेन तत्समुदायघटकमात्रोद्देश्यकविकारेतरत्वेन च स्वविशिष्टत्वात्। न च विकारपदेन प्रत्ययस्यापि ग्रहणेनादोष इति वाच्यम्, हेतुमण्ण्यन्तस्य तल्लक्ष्यत्वापत्त्या पुनस्तत्तो हेतुमण्णिचोऽनुत्पत्तिप्रसङ्गादिति वाच्यम्; विशिष्टपदेनैतल्लक्षणे विकरणेतरस्य ग्रहणेना- दोषात्। श्यनादीनां प्रत्ययत्वेन स्वप्रकृतिभूतधात्वर्थप्रत्यायकतया कर्त्रर्थत्वाभावेन पुनस्तत्प्राप्तेर्दुर्वचत्वाच्च। भाष्यगूढार्थविदस्तु-तच्छास्त्रस्य प्रथमप्रवृत्तौ यद्घटकस्य स्वघटकेन येन पदेन ग्रहणम्, पुनः प्रवृत्तौ तेन पदेन तद्घटकस्य तदर्थकविकारस्य त

१२०-१२१ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ३२९ निमित्तत्वाच्च ‘न वृद्भूद्भ्यश्चतुर्भ्य’ इति निषेधस्य बहिरङ्गत्वेन अन्तरङ्ग- त्वाद् उदित्त्वलक्षणस्येड्विकल्पस्याऽऽपत्तिरत आह— निषेधाश्च बलीयांसः ॥ १२१ ॥ —: ✤ :— अन्तरङ्गादुपजीव्यादपि बलीयांस इत्यर्थः । चतुर्भ्य इति तु स्पष्टार्थमेव । अत एव तत्प्रत्याख्यानं भाष्योक्तं सङ्गच्छते । अत एव सवर्णसंज्ञादेर्निषेधविषये न विकल्पः ; अन्यथा मीमांसक- रीत्या विधेरुपजीव्यत्वेन प्राबल्यात् तस्य सर्वथा बाधानुपपत्त्या दुर्वारः स इति मञ्जूषायां विस्तरः । अत एव ‘द्वन्द्वे च, विभाषा जसी’ति चरितार्थम् । न न्यायविषयः । नन्वेवं ‘भूयादि’त्यत्र ‘स्कोरि’ति ‘भवेदि’त्यत्र ‘लिङः सलोपे’ति च सकारद्वयलोपानापत्तिः। आद्ये प्रथमप्रवृत्तौ पदपदेन यस्य समुदायस्य ग्रहणं द्वितीयप्रवृत्ता- वपि तेनैव पदपदेन तस्य ग्रहणात् । द्वितीयेऽपि लिङ्पदेनैव तस्य समुदायस्य प्रवृत्ति- द्वयेऽपि ग्रहणादिति चेन्न । अत्र प्रथमप्रवृत्तौ यद्घटकेत्यत्र यत्पदेन तच्छास्त्रीयैककालिक- प्राप्तिविषयानेकार्थघटितस्य ग्रहणेन आद्ये ‘भूयास्स्त्’ इति समुदायस्य पदपदेन गृहीतस्य ‘स्कोरि’ति शास्त्री

३३० परिभाषेन्दुशेखरः [ ३ प्रकरणे-

विध्युन्मूलनाय प्रवृत्तिरस्या बीजम् । 'न लुमता, कमेर्णिङ्'त्यनयो- र्भाष्ये स्पष्टैषा ॥ १२१ ॥ ननु अत्यन्तस्वार्थिकानामर्थप्रत्यायकत्वरूपप्रत्ययत्वानुपपत्तिरत आह- अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे ॥ १२२ ॥ —: ֍ :— यस्यार्थः प्रकृत्या प्रत्याय्यते, सोऽपि प्रत्यय इत्यस्याप्यङ्गीकारात्तस्य प्रत्ययत्वमिति न दोषः । स्वार्थ इत्यस्य स्वीयप्रकृत्यर्थ इत्यर्थः । महासंज्ञाबलादर्थकाङ्क्षायामन्यानुपस्थितिरस्या बीजम् । 'सुपि स्थ' इत्यादिसूत्रेषु भाष्ये स्पष्टैषा ॥ १२२ ॥ योगविभागादिष्टसिद्धिः ॥ १२३ ॥ —: ֍ :— इष्टसिद्धिरेव, न त्वनिष्टापादनं कार्यमित्यर्थः । तत्तत्समानविधिक- द्वितीययोगेन विभक्तस्यानित्यत्वज्ञापनमेतद्बीजम् ॥ १२३ ॥


न लुमतेति । तत्र हि 'उत्तरपदत्वे चापदादिविधावि'ति वार्तिकस्य प्रत्याख्यानप्रस्तावे 'निषेधाश्च बलीयांस' इत्यनेन 'असर्वनामस्थान' इति प्रतिषेधः प्राप्नोती'त्युक्तम् । कमेर्णिङिति । तत्र हि 'विङति चे'त्यत्र इग्ग्रहणाननुवृत्तिमते णिङा ण्कारस्य 'णेरनिटि'- त्यत्र सामान्यग्रहणार्थत्वेन ङकारस्य आत्मनेपदार्थत्वेन च सावकाशत्वात् 'कामयते' इत्यत्र अनया वृद्धिनिषेधः प्राप्नोती'त्युक्तम् । यद्यपीदमेकदेशिभाष्यम् ; तथापि भाष्या- नुक्तत्वेन अप्रामाण्यशङ्कानिरासार्थतया एतदुपन्यसनं सार्थकमिति बोध्यम् ॥ १२१ ॥ सोऽपीति । अपिना स्वार्थपरिग्रहः । तथा च स्वस्वप्रकृत्यन्यतरार्थप्रत्यायकत्वं प्रत्ययत्वमित्यर्थः । अन्यानुपस्थितिरिति । 'उपस्थितं परित्यज्ये'ति न्यायादिति भावः । सुपिस्थ इति । तत्र हि 'स्थ' इति योगविभागेन 'आखूत्थ' इत्यस्य साधनावसरे 'भावार्थकत्वमेव कप्रत्ययस्य न त्वन्यार्थकत्वमि'त्युक्तम् ॥ १२२ ॥ इष्टसिद्धिरिति । विश्वतोमुखत्वात् सूत्राणां योगविभागेऽप्याचार्यतातपर्यात् तेनेष्ट- सिद्धिरेव नानिष्टापादनमित्यर्थः । अत एव 'आत्' इति योगविभागेन 'ख्व' इत्यादावेव लोपः, न तु हाहाशब्दादाविति भावः । तदुक्तमभियुक्तैः- "अल्पाक्षरमसन्दिग्धं सारवद्विश्वतो मुखम् । अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ॥" इति । विश्वतोमुखत्वं योगविभागादिभिरनेकार्थबोधकत्वमिति तद्व्याख्यातारः ॥१२३॥

१२४-१२६ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ३३१ पर्यायशब्दानां लाघवगौरवचर्चा नाऽऽद्रियते ॥ १२४ ॥ -: ❖ :- तत्र तत्रान्यतरस्यां विभाषा वेति सूत्रनिर्देशज्ञापितमिदम् ॥ १२४ ॥ ज्ञापकसिद्धं न सर्वत्र ॥ १२५ ॥ -: ❖ :- स्पष्टमेव पठितव्येऽनुमानाद् बोधनमसार्वत्रिकत्वार्थमित्यर्थः, तेन ज्ञापकसिद्धपरिभाषयाऽनिष्टं नाऽऽपादनीयमिति तात्पर्यम् । भाष्येऽपि ध्वनितमेतत् ‘ङ्याप्’सूत्रादौ । ज्ञापकेति न्यायस्याप्युपलक्षणम् । न्याय-ज्ञापकसिद्धानामपि केषा- ञ्चित् कथनमन्येषामनित्यत्वबोधनायेति भावः । यथा ‘तत्स्थानापन्ने तद्धर्मलाभ’ इति न्यायसिद्धं स्थानिवत्सूत्रम्, ज्ञापकसिद्धं च तत्र ‘अनल्- विधावि’ति ॥ १२५ ॥ ननु ‘द्रोग्धा द्रोग्धा, द्रोढा द्रोढे’त्यादौ घत्वादीनामसिद्धत्वात् पूर्वं द्वित्वे एकत्र घत्वमपरत्र ढत्वमित्यस्याप्यापत्तिरत आह— पूर्वत्रासिद्धीयमद्वित्वे ॥ १२६ ॥ -: ❖ :- द्वित्वभिन्ने पूर्वत्र कर्तव्ये परमसिद्धमित्यर्थः । ‘पूर्वत्रासिद्धमि’त्यधि- कारभवं शास्त्रमस्या लिङ्गम् । लाघवगौरवचर्चेति । लाघवगौरवविचार इत्यर्थः । तथा च पर्यायशब्देषु उच्चारणगौरवेणार्थान्तरकल्पनाभिनिवेशो न कार्य इति भावः । बहुलशब्दस्य विकल्पार्थ- कत्वेऽपि वाशब्दपर्यायत्वाभावेन ‘मघवा बहुलमि’त्यत्र बहुलग्रहणसामर्थ्यादर्थान्तर- कल्पनं नैतद्विरुद्धमिति ध्येयम् ॥ १२४ ॥ असार्वत्रिकत्वार्थमिति । तेन ‘अपपरी’त्यनेन बहिरङ्गे ज्ञापिता पञ्चमी ‘करस्य बहिरि’त्यत्र नेति बोध्यम् । ध्वनितमिति । तत्र ज्ञापकेन ‘लिङ्गविशिष्ट’परिभाषामुक्त्वा अनया ‘द्विषतीताप’ इत्यत्र ‘द्विषत्परयोरि’ति नेति सूचितम् । ज्ञापकसिद्धं च तत्रेति । ल्यपि क्त्वावृत्तित्तादित्वस्य स्थानिवत्त्वादेव लाभे ‘अदो जग्धिरि’ति ल्यब्ग्रहणमुक्तपरिभाषायां ज्ञापकम्, तेनाल्विधौ स्थानिवद्भावनिषेध- ज्ञापने तु ल्यपि तादित्वाभावेन ‘अदो जग्धिरि’त्यस्याप्राप्त्या, ‘प्रजग्ध्ये’त्यत्र जग्ध्या- देशार्थं ल्यब्ग्रहणमावश्यकमिति भावः ॥ १२५ ॥ द्वित्वभिन्न इति । द्वित्वे कर्तव्ये त्रैपादिकासिद्धत्वं नेति तु नार्थः, तथा सति

३३२ परिभाषेन्दुशेखरः [ ३ प्रकरणे- यत्र च सिद्धत्वासिद्धत्वयोः फले विशेषस्तत्रैवेयम् । ‘कृष्णर्द्धिरि’त्यादौ जश्त्वात्पूर्वमनन्तरं वा द्वित्वे रूपे विशेषाभावेन नास्याः प्रवृत्तिरित्यन्यत्र विस्तरः । ‘सर्वस्य द्वे’ इति सूत्रे भाष्ये स्पष्टेयम् ॥ १२६ ॥ ननु ‘गोष्वश्वेषु च स्वामी’त्यादिवद् ‘गोष्वश्वानां च स्वामी’त्यपि स्यात्, ‘स्वामीश्वरे’ति सूत्रेण षष्ठीसप्तम्योर्विधानादत आह— एकस्या आकृतेश्चरितः प्रयोगो द्वितीयस्यास्तृतीयस्याश्च न भविष्यति ॥ १२७ ॥ —: ✿ :— यत्रान्याकृतिकरणे भिन्नार्थत्वसम्भावना तद्विषयोऽयं न्याय इत्यन्यत्र विस्तरः । ‘कृञ्चानुपयुज्यते’ इति सूत्रे भाष्ये स्पष्टेयम् ॥ १२७ ॥ ‘द्युभ्यामि’त्यादौ वकारद्वित्वोत्तरमुत्वे तत्पूर्वं वकारश्रवणापत्तेः । अत्र द्वित्वपदेनाष्ट- मिकं पदद्वित्वं वर्णद्वित्वं षाष्ठद्वित्वं च गृह्यते, विनिगमनाविरहादिति स्पष्टमाकरे । अत एव ‘वाक्क्’ इति भाष्योक्तं द्वित्वोदाहरणं सङ्गच्छते । इयं चानित्या ‘उभौ साभ्यासस्ये’ति लिङ्गादित्यन्यत्र विस्तरः । ‘नमुने’ इत्यत्र नेति योगविभागोऽस्या ज्ञापक इति—केचित् । अन्ये तु—ग्राहकसूत्रेऽजिति वक्तव्येऽण्ग्रहणमस्यां ज्ञापकम् । तद्धि ‘सँय्यन्ता, विद्वाँल्लिखती’त्यादौ ‘अनुनासिकयवलानां यत्त्वंबोधनद्वारा द्वित्वार्थम् । एतत्परि- भाषाया अभावे तु द्वित्वात्पूर्वं परसवर्णस्य दौर्लभ्यात्तद्वैयर्थ्यापत्तिः स्पष्टैवेति प्राहुः ॥ १२६ ॥ एकस्या आकृतेरिति । अस्यां यत्र तत्रेति शेषः । आकृतिः = श्रावणप्रत्यक्ष- विषयतावच्छेदको धर्मः । आश्रये चोपचारात्प्रयोगः । तस्य चार्थवत एव व्याख्यानाद् ग्रहणम् । तथा च यत्र वाक्ये यदर्थकयद्धर्मवतः प्रयोगोऽस्ति, तत्र वाक्ये तदर्थकतद्धर्मवत एव सति सम्भवे प्रयोगो भवति, न तु तदर्थकभिन्नधर्मवंत इति परिभाषार्थः । भिन्नार्थत्वसम्भावनेति । तथा च समानार्थकसमानधर्मवति एकस्मिन् तात्पर्या- वधारणेऽन्यत्र तादृशे शब्दे तात्पर्यग्राहकान्तरानपेक्षेति लाघवमेवात्र बीजमिति सूचितम् । अत एव सुध्युपास्यशब्दे द्विधमेकयमित्युक्तं सङ्गच्छते । कृञ्चानुपयुज्यत इति । तत्र हि “आमन्तस्य लिडन्ततया प्रकृतन्यायेनानुप्रयुज्य- मानाः कृञ्भ्वस्तयोऽपि लिट्परा एव भवन्तीति व्यर्थं कृञ्चानुपयुज्यते इत्यत्र लिड्- ग्रहणमि”त्युक्तम् ॥ १२७ ॥

१२८-१३० प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ३३३ ननु 'विव्याधे'त्यादौ परत्वाद् 'हलादिः शेषे' वस्य सम्प्रसारणं स्या- दत आह— सम्प्रसारणं तदाश्रयं च कार्यं बलवत् ॥ १२८ ॥ —: ✤ :— तदाश्रयं 'सम्प्रसारणाच्चे'ति पूर्वरूपम् । वस्तुतो 'लिट्यभ्यासस्ये'ति सूत्रे उभयेषां ग्रहणस्योभयेषां सम्प्रसा- रणमेव यथा स्यादित्यर्थकत्वेनेदं सिद्धमित्येषा व्यर्थेति 'लिट्यभ्यासस्ये'ति सूत्रे स्पष्टम् । फलान्तरान्यथासिद्धिरपि तत्रैव भाष्ये स्पष्टा । 'णौ च संश्चङोरि'त्यादौ संश्चङोरित्यादि विषयसप्तमीति तत्रापि न दोष इत्य- न्यत्र विस्तरः ॥ १२८ ॥ यत्तु— क्वचिद्विकृतिः प्रकृतिं गृह्णाति ॥ १२९ ॥ —: ✤ :— तेन 'निसमुपविभ्यो ह्व' इत्यत्र ह्वाग्रहणेन ह्वेञो ग्रहणसिद्धिः । तथा— औपदेशिकप्रयोगिकयोरौपदेशिकस्यैव ग्रहणम् ॥ १३० ॥ —: ✤ :— तेन 'दादेर्धातोर्घ' इत्यत्र औपदेशिकधातोरेव ग्रहणमिति । —तन्न ; तयोर्निर्मूलकत्वाद्भाष्याव्यवहृतत्वाच्च, "न च विकृतिः प्रकृतिं गृह्णाती"ति 'ग्रहिज्ये'ति सूत्रस्थभाष्येण आद्यायास्तिरस्काराच्च । 'निसमुपविभ्यो ह्व' इत्यादौ ह्वेञोऽनुकरणे सौत्रः प्रयोगः । इदं सिद्धमिति । 'विव्याधे'त्यादि वच्यादिग्राह्याद्युद्देश्यकसम्प्रसारणविषयलक्ष्य- सिद्धमित्यर्थः । व्यर्थेति । नन्वेतदभावे 'भृष्ट' इत्यत्र रमागमापत्तिः, 'जुहुवतुर्'इत्यत्र सम्प्रसारणपूर्वरूपे बाधित्वा परत्वादातो लोपापत्तिः, 'शुशुवतुर्'इत्यत्र सम्प्रसारणं बाधित्वेयङापत्तिरित्यत आह—अन्यथासिद्धिरिति । सम्प्रसारणस्य नित्यत्वेन पूर्वरूपस्य अन्तरङ्गत्वेन पूर्वं प्रवृत्त्या दोषाभावेनैतस्या वैयर्थ्यमिति भावः । इत्यादाविति । आदिना 'स्वपिस्थमिव्येत्रां यङी'त्यस्य सङ्ग्रहः ; अन्यथा 'वेवीयत' इत्यत्रान्तरङ्गत्वात् सम्प्रसा- रणात्पूर्वं द्वित्वे उत्तरखण्डस्यैव सम्प्रसारणेऽनिष्टरूपापत्तिरिति भावः ॥ १२८ ॥ सौत्रः प्रयोग इति । अत्र सूत्रे शित्परकत्वाभावेन ह्वेञ आत्त्वे 'आतो धातोर्'-

३३४ परिभाषेन्दुशेखरः [ ३ प्रकरणे- आत्त्वविषय एवाऽऽत्मनेपदम्, प्रयोगस्थानामेवानुकरणस्य घुसंज्ञासूत्रे भाष्ये स्पष्टमुक्तत्वादित्यन्ये । अन्त्यापि तत्रोपदेशग्रहणं कुर्वतः सूत्रकृतो वार्तिककृतश्चासम्मता । “इह हि व्याकरणे सर्वेष्वेव सानुबन्धकग्रहणेषु रूपमाश्रीयते यत्रास्यैतद्रूप- मिति, रूपनिर्ग्रहश्च शब्दस्य नान्तरेण लौकिकं 'प्रयोगम् । अस्मिंश्च लौकिके प्रयोगे सानुबन्धकानां प्रयोगो नास्तीति कृत्वा द्वितीयः प्रयोग उपास्यते, क उपदेशो नाम ?” इति घसंज्ञासूत्रस्थभाष्येण प्रायोगिकासम्भवे तद्ग्रहण- मित्यर्थस्य लाभेन भाष्यासम्मता च । भाष्ये सानुबन्धकेत्यादि प्रकृताभिप्रायेण । 'दादेर्ध्रि'ति सूत्रे दादिपदस्य औपदेशिकदादित्ववति लक्षणेति न दोष इत्यन्यत्र विस्तरः ॥१२९,१३०॥ यदपि ननु

सिद्धौ (L26) with this glyph in L5: In L26, 'द्ध' has that specific shape. In L5, the bottom part has the tail of 'द': it turns right and down, exactly like 'द्द'! Wait, but could it be a misprint for किञ्चिद्धि, or did the author/editor literally write: 'यत्रैकाज्ग्रहणं किञ्चिद्दि'ति पाठः? Wait, what if it's "किञ्चिद्दि"ति पाठः? Yes, we must transcribe what is printed in the image! Wait, let's look at: "किञ्चिद्दि"ति पाठः । Wait, could it be "किञ्चिद् दी..."? No, it's one glyph: किञ्चिद्दि"ति.

Let's check L4-5: अत एव 'श्वीदित' इति सूत्रे कैयटे "यत्रैकाज्ग्रहणं किञ्चिद्दि"ति पाठः । Wait, could it be किञ्चिद्धि"ति पाठः? Look at 'द्ध' in 'बुद्ध', 'सिद्धि'. In older fonts, 'द्धि' and 'द्दि' can look very similar. Wait, let's look at the loop of 'ध': does it have a bump? Wait, in "किञ्चिद्दि", look at the lower curve: it bulges right and goes down with a tail, just like 'द'. Wait, but

३३६ परिभाषेन्दुशेखरः [ ३ प्रकरणे- न च आर्धधातुकाक्षिप्तधातोरेकाच इति विशेषणम्। एवं च 'बिभित्स- ती'त्यादावुत्तरखण्डस्य धातोरेकाच्त्वमस्त्येव उत्तरखण्डेऽस्तित्ववत्। एतच्च 'दयतेरि'ति सूत्रे भाष्ये स्पष्टम्। एवं च प्रकृतभाष्यासङ्गतिरिति वाच्यम्; आक्षेपे आक्षिप्तस्यान्वये च मानाभावात्। अङ्गत्त्वं तु विशिष्ट एवेति 'एकाचो द्वे' इति सूत्रे भाष्ये स्पष्टम्। निरूपितं च तनादिशेषे शब्देन्दुशेखरे। धातुत्वं तु उत्तरखण्ड एव। अत एव 'एकाचो बशो भष्'ति सूत्रे धातोरवयवस्यैकाच इति वैयधिकरण्येनान्वये गर्धप्सिद्धिः प्रयोजनमुक्तं भाष्ये, न तु प्रसिद्धम् 'अजर्घा' इति। 'अजर्घा, बेभिदीती'त्यादौ श्नमश्न्यनादयस्तु 'चर्करीतं चे'त्यस्याऽदादौ पाठेन यङ्लुगन्ते गणान्तरप्रयुक्तविकरणस्याप्राप्त्या न भवन्ति। छान्दसत्वादेव कार्यान्तराणामपि छन्दसि दृष्टप्रयोगेष्वदृष्टानाम्भावो बोध्यः। भाषायां तु तादृशानामभाव एव। शिप्शबादिनिर्देशास्तु 'भवतेर' इत्यादिसूत्रस्थतन्निर्देशवन्नार्थसाधका इत्यन्यत्र विस्तरः ॥ १३१ ॥ अङ्गत्त्वं तु विशिष्ट एवेति। द्वित्वनिष्पन्ने 'दयतेरि'ति सूत्रस्थभाष्यात् प्रकृतिवृत्त्य- र्थवत्त्वव्याप्यधातुत्वादिधर्मातिदेशेऽपि प्रकृतित्वानतिदेशेन “सैव च प्रकृतिराद्ये”ति प्रत्यभिज्ञानात् द्वित्वोद्देश्यस्य प्रकृतित्वेन विशिष्टे तत्त्वं सुवचमिति भावः। अत एवेति। उत्तरखण्डे एव धातुत्वसत्त्वादित्यर्थः। 'अजर्घा' इत्यस्य प्रसिद्धत्वं स्वन्यत्रोदाहृतत्वाद् बोध्यम्। 'चर्करीत'शब्दो यङ्लुङन्तपरः। अत एव सप्तमे भाष्ये 'किरति चर्करीतान्त- मि'ति प्रयोग उपपद्यते। नार्थसाधका इति। तेषां भाष्याविचारितप्रयोजनकत्वेन पारायणादिनाऽदृष्टार्थ- साधकत्वमेव कल्पयितुं युक्तमिति भावः। विस्तर इति। परे तु—अत्र सूत्रे 'अज्वत' इत्युकावप्युपदेशेऽनुदात्तस्यानज्वतो- ऽप्रसिद्धेः' सामर्थ्यात्तस्योपदेशावच्छेदेनैकाच इत्यर्थात् उपदेशावच्छेदेनानुदात्तादित्य- र्थाद्वा वधिव्यावृत्तिसिद्ध्या एकपदघटितम् 'एकाजि'ति पदं व्यर्थं सदुक्तपरिभाषायां ज्ञापकम्। किञ्च यङ्लोपे 'बेभिदिते'त्यादिभाष्ये यङ्लोपे दोषवारणाय स्थानि- वत्त्वस्येव यङ्लुक्युपायान्तरस्याप्रदर्शनेन इडागमस्य तत्रेष्टत्वमवगत्य उक्तपरिभाषाया भाष्याभिमतत्वमेव। इड्विषये यङ्लुको लोकेऽनभिधानकल्पने तु न मानम्। किञ्च तस्य छान्दसत्वेऽपि छान्दसरूपसाधकान्यप्रमाणप्रणयनवदेतत्परिभाषा- रूपप्रमाणाभ्युपगमे बाधकाभावः। किञ्च 'यङ्लोप' इति भाष्ये यङ्लुकि- उपायाप्रदर्शनरूपन्यूनतापत्तिपरिहाराय यङ्लुगन्तेड्विषयलक्ष्याणां लोकेऽनभिधान- कल्पनापेक्षया परिभाषाया भाष्याभिमतत्वकल्पनाया एव न्याय्यत्वम्। किञ्च 'एकाच' इति सूत्रशेषे भाष्ये आयुदात्तनिपातनस्वरस्य प्रकृतिस्वरबाधकत्वकल्पनेन 'बधिषीष्टे'त्यादौ उपदेशोऽनुदात्तत्वाभावेन निषेधाविषयत्वोक्तावपि सूत्रे एकाज्-

१३२-१३३ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ३३७ ननु ‘जभोऽचि, रधेश्च, नेटचलिटी’त्येव सूत्र्यतां किं दीर्घधिग्रहणे- नेत्यत आह— पदगौरवाद्योगविभागो गरीयान् ॥ १३२ ॥ —: ❀ :— प्रतिवाक्यं भिन्नवाक्यार्थबोधकल्पनेन गौरवं स्पष्टमेव । परन्तु भाष्या- सम्मतेयम्, ‘टाङसि’ति सूत्रस्थभाष्यविरुद्धा च । तत्र च इनादेशे इकारप्रत्याख्यानं योगविभागेनैव कृतमिति बहवः ॥ १३२ ॥ अर्धमात्रालाघवेन पुत्रोत्सवं मन्यन्ते वैयाकरणाः ॥ १३३ ॥ ग्रहणस्य फलान्तराप्रदर्शनेन तस्य यङ्लुग्व्यावर्तकत्वमेव भाष्याभिमतमिति स्पष्टमेव । किञ्च—तत्तद्गणप्रयुक्तश्यन्नादिवारणमप्यशक्यम्, यङ् लुगन्तस्यादादौ पाठस्य भ्वादि- यङ्लुगन्तप्रकृतिकशपो निवर्तनेन चारितार्थ्यात् । यङ्लुकश्छान्दसत्वकल्पनया तत्तत्कार्यं- वारणं तु उक्तयुक्त्याऽयुक्तमेवेति प्राहुः ॥ १३१ ॥ गरीयानिति । अतिशयगौरवविशिष्ट इत्यर्थः । गौरवस्य क्लेशजनकत्वेन हेयत्वं लोकप्रसिद्धमिति नापूर्वमिति बोध्यम् । गौरवमेव उपपादयति—प्रतिवाक्यमिति । प्रत्येकं भिन्नसामग्र्या अपेक्षितत्वात्तस्यां चानेकपदार्थसम्मेलनावश्यकतया गौरवं स्फुटमेवेत्यर्थः । भाष्यासम्मतेति । ईदृश- गौरवस्य कुत्रापि तेनानुक्तेरिति भावः । ननु ‘अप्रतिषिद्धमि’ति न्यायात् लोकसिद्धाया अस्या भाष्यानुमतत्वमित्यत आह—टाङसीतीति । बहव इति । परे तु—तद्भाष्यमेकदेश्येव ; अत एव ‘ऋलृक्’ सूत्रादौ भाष्यकृता कृतं “महतो वंशस्तम्बाल्लट्वाऽनुकृष्यत” इत्यनेन स्वल्पगौरवस्य महता क्लेशेन वार्तिककृता कृतस्य परिहारस्यावहेलनं सङ्गच्छते । किञ्च—वर्णगौरवात् योगविभाग- गरीयस्त्वस्योक्तभाष्यविरुद्धत्वेऽपि निरुक्तपरिभाषायां लोकसिद्धायां भाष्यविरोधाभाव इति वदन्ति ॥ १३२ ॥ अर्धमात्रालाघवेनेति । हेतावेषा तृतीया । अर्धमात्रालाघवजन्यमुत्सवं पुत्रोत्सवम् = पुत्रोत्सवसदृशं मन्यन्ते, पुत्रोत्सववत् सन्तुष्यन्तीत्यर्थः । अन्ये तु—प्रकृत्यादित्वादेषा तृतीया । अर्धमात्रालाघवाभिन्नं पुत्रोत्सवम् = पुत्र- जन्मरूपं सुखजनकं व्यापारं मन्यन्ते इत्यर्थः । तथा च विशिष्टसुखजनके पुत्रजन्मरूपे व्यापारे अर्धमात्रालाघवाभेदबोधने तादृशसुखजनकत्वमुक्तलाघवस्यार्थात् सिद्ध्यति । किञ्च—अत्रापि शब्दशेषेण अर्धमात्रालाघवेनापि पुत्रोत्सवं वैयाकरणा मन्यन्ते, किमुत ततोऽधिकलाघवेनेति ‘कैमुतिक’न्यायेन मात्रादिकृतलाघवस्याऽऽदरणीयतामाहुः । ४३

३३८ परिभाषेन्दुशेखरः [ ३ प्रकरणे- 'एओङ्-ऐऔच्'सूत्रयोर्ध्वनितैषा भाष्ये । तत्र अनेकपदघटितसूत्रे प्रायेण पदलाघवविचार एव, न तु मात्रालाघवविचार इति 'ऊकालोऽच्, अपृक्त एकाल्'त्यादिसूत्रेषु भाष्ये ध्वनितम् । तत्र हि सूत्रे "अल्ग्रहणहल्ग्रह- णयोर्विशेषविचारे संज्ञायां हलग्रहणं 'प्यक्षत्रि'ये'ति सूत्रे अणिञोरिति वाच्य- मिति त्रीणि पदान्यल्ग्रहणे तदेकं स्वादिलोपे हलग्रहणं प्येति सूत्रे अणिञो- रिति न वाच्यमपृक्तस्येति वाच्यमिति त्रीण्येव पदानीति नास्ति लाघवकृतो विशेषः" इत्युक्तम् । "अचि श्न्वो'रिति सूत्रे इण् इत्येव सिद्धे य्वोरिति संमृद्य ग्रहणाच्च पूर्वेणेण्ग्रहणं तत्र विभक्तिनिर्देशे संमृद्य ग्रहणे च सार्धास्तिस्रो मात्रा इण्ग्रहणे

ध्वनितैवेति । 'कैमुतिक'न्यायसूचितार्थविशिष्टेत्यर्थः । तत्र हि "सन्ध्यक्षरेषु तपरो- पदेशाभावे एचो ह्रस्वानुशासनेषु अर्धैकारार्धौकारयोर्वारणार्थम् 'एच इग्घ्रस्वादेशे' इति सूत्रं कर्तव्यमि"त्युपक्रम्य "यदि हि तौ स्यातां तावेवायमुपदिशेत्" इत्युक्तम् । तथा च प्रत्येकमेङिः एकमात्र लाघवानुरोधेन "तावेवायमुपदिशेदि"ति वदता भाष्यकृतैतदर्थं सूचित इति स्पष्टमेव । इत्यादिसूत्रेष्विति । आदिना 'प्रत्ययस्य लुक्श्लुलुपः, एओङ्, ऐऔजि'त्यस्य परिग्रहः। इत्युक्तमिति । अन्यथा मात्रालाघवकृतविशेषस्य सत्त्वात्तद- सङ्गतिः स्पष्टैव । केचित्तु—संज्ञाशब्दानां सार्धमात्रिकत्वेन मात्रालाघवकृतविशेषाभावादुक्तयुक्त्या पदलाघवकृतविशेषाभावाच्च लाघवकृतविशेषाभावोपपादनप्रयुक्तविरोधाभावेन, 'अचि श्न्व'ति सूत्रोक्तभाष्यविरोधेन चानेकपदघटितसूत्रेषु मात्रालाघवविचारो नास्तीत्युक्त- मयुक्तमेव। 'अपृक्त' इति सूत्रमेव सार्धमात्रिकत्वं संज्ञानामित्यत्र मानम् । 'ऊकाल' इति सूत्रे पदगौरवप्रदर्शनेन मात्राकृतगौरवस्यापि स्पष्टमुक्तप्रायतया पृथङ् नोक्तमिति न तद्विरोधलेशोऽपि । अनुगमप्रस्तावे प्रायपदनिवेशनं तु तदसामर्थ्यबोधनमेवेति प्राहुः । संमृद्य ग्रहणादिति । आदेशेन स्थानिनौ निवर्त्त्य 'य्वोरि'त्यादेशरूपेण ग्रहणा- दित्यर्थः । इण्ग्रहणे तिस्रो मात्रा इतीति । 'य्वोरि'त्यस्य स्थाने इण् इत्युच्चारणे 'इण्,

तावेवायमुपदिशेदितीति । नन्वेवं मात्रिकयोरेव गुणसंज्ञा स्यात्, तपरत्वादिति चेन्न । तत्र 'ए-ओ' इति स्वरूपयोर्दीर्घयोर्निर्देशात् । एवमपि अर्धमात्रालाघवं भवति । मूले—अपृक्तस्येति वाच्यमितीति । अपृक्तशब्दस्य संज्ञाशब्दत्वादखण्डत्वमिति तात्पर्यम् ॥ १३३ ॥ इति श्रीवैयाकरणप्रवर-'गणपति-शास्त्रि-मोकाटे'कृततत्त्वप्रकाशिकाभिधे 'भूति'व्याख्याने शास्त्रशेषनामकं तृतीयं प्रकरणम् ।

१३३ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ३३९ तिस्रा मात्रा'' इति 'लण्' सूत्रे भाष्योक्तेः, तथा 'ओतः श्यनी'ति सूत्रे “शितीति न वक्तव्यम्, तत्राप्ययमर्थः—'ष्ठिबुक्लम्बि'ति सूत्रे शितीति न कर्तव्यं भवती''ति भाष्ये न केवलं मात्रालाघवं यावदयमप्यर्थ'' इति कैय- टोक्तेः प्रायेणेति शिवम् ॥ १३३ ॥ ॥ इति शास्त्रशेषनामकं तृतीयं प्रकरणम् । इति श्रीमन्महामहोपाध्याय-शिवभट्ट-सतीगर्भज- नागोजीभट्टकृतः परिभाषेन्दुशेखरः समाप्तः । ──────────────────────── इयङु वङावि'त्यत्र रुत्वयत्वयलोपेषु तु सार्धमात्राद्वयमिति बोध्यम् । अयमपीति । अयम् = अर्धमात्रालाघवरूपः, अपिना तदलाघवपरिग्रहः । तथा च 'कैमुतिक'न्यायबोधितपुत्रो- त्सवाद्यनेकफलदातृत्वेन अभ्यर्हितत्वात् प्रथमं पदलाघवविचारस्तदसम्भवे मात्रालाघव- विचारोऽप्याश्रीयते, यतः पुत्रोत्सवादिनाऽभीष्टसकलार्थसिद्धिः ॥ १३३ ॥ ॥ इति भूतितिलके शास्त्रशेषनामकं तृतीयं प्रकरणम् ॥ इति श्रीमन्महामहोपाध्याय-पटवर्धनोपनामक-तात्याशास्त्र्यपरनाम- धेयेन रामकृष्णशास्त्रिणा विरचिता 'भूति'नाम्नी परिभाषेन्दुशेखरव्याख्या समाप्ता । —: ✤ :— ॥ समाप्तश्चायं ग्रन्थः ॥ ॥ श्रीभवानीशङ्करार्पणमस्तु ॥ ●

समर्पणम् वेदबाणाङ्कवसुधा (१९५४) वैक्रमेऽब्दे गुरोर्दिने । भाद्रे भूततिथौ भूतिः सिते सम्पूर्णतामगात् ॥ १ ॥ माता श्री गोपिकाख्या स्म भवति जनकः श्रीमहादेवशर्मा पूज्यः श्रीबालशास्त्री विबुधनृपनुतोऽभूद् गुरुर्यस्य मुख्यः । तात्येत्याख्या द्वितीया सकलजनमता यज्जनेः काशिकायां सोऽयं श्रीरामकृष्णो गुरुजनदयया पूजितोऽभूद् बुधेषु ॥ २ ॥ भूतिं यां पटवर्धनेति कुलजाख्यो दाक्षिणात्यो द्विजः सम्पाद्यैव मुदे सदा चरणयोः शम्भोरिमामार्पयत् । तामेनां स्वमुखे दधाति हृदि वा प्रीत्या प्रसादेव य- स्तस्य स्यात्तु विवादिभूतजनिता बाधा कदाऽपीह न ॥ ३ ॥ —म० म० श्रीतात्याशास्त्री

उपलब्ध पृष्ठ अत्यधिक धुंधला (faded/washed-out) होने तथा केवल पिछले पृष्ठ की अस्पष्ट छाया (bleed-through/show-through) दिखने के कारण इस पर मुद्रित पाठ अपठनीय (illegible) है। अतः इसका देवनागरी लिप्यंतरण संभव नहीं है।

इस पृष्ठ पर कोई पाठ (text) उपलब्ध नहीं है। यह पुस्तक का एक रिक्त पृष्ठ (blank page/endpaper) है।

चौखम्बा सुरभारती प्रकाशन वाराणसी