भारतकोश
संग्रह पर लौटें

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

३. तृतीय अङ्क: शान्ति-करुणा समागम एवं श्रद्धा खोज

६८ प्रबोधचन्द्रोदयम्

गन्धर्वस्य मदालसां च तनयां पातालकेतुश्छला- दैत्येन्द्रोऽपजहार हन्त विषमा वामा विधेर्वृत्तयः ॥ ४ ॥ एवं विधिविलसितमेतदिति संप्रधारय । तद्भवतु । पाखण्डालयेष्वेव तावदनुसरावः । करुणा—सखि, एवं भवतु ! ( सहि, एवं भोदु ) ( इति परिक्रामतः ) ( अग्रतो विलोक्य ) करुणा—( सत्रासम् ) सखि, राक्षसो राक्षसः । ( सहि, रक्खसो रक्खसो ) शान्तिः—कोऽसौ राक्षसः ? करुणा—सखि, पश्य पश्य । य एष गलन्मलपिच्छिलबीभत्सदुःप्रे- सीत् । गन्धर्वस्य देवयोनिभेदस्य मदालसां नाम तनयाम् पुत्रीम् दैत्येन्द्रः दानव- मुख्यः पातालकेतुः तदाख्यः अपजहार हृत्वा स्वं लोकं नीतवान् । तदेतत्सर्वं सामा- न्यतोऽर्थान्तरन्यासेन समर्थयति—हन्त खेदे, विधेः ब्रह्मणः वृत्तयः व्यापाराः विषमाः कुटिलाः, कारणान्वेषणविधुरा इत्यर्थः । साक्षालक्ष्मीस्वरूपायाः सीताया दशमुख- कर्त्तृकापहरणे वेदत्रय्याश्च दैत्यैः पातालप्रापणे एवं मदालसानामिकाया गन्धर्वसु- तायाः पातालकेतुद्वाराऽपहरणे विधेर्वामत्वादतिरिक्तं किमपि कारणमनुसन्धानदुरापं तदेवं श्रद्धाया अपि विपदुपनिपातो विधिवैपरीत्यप्रभव एवेति बोध्यम् ॥ ४ ॥ विधिविलसितम्-भाग्यकृत्यम् । एतत्-श्रद्धायाः कष्टम् । सम्प्रधारय-निश्चयेन विद्धि । पाषण्डालयेषु-वेदबाह्यजनगृहेषु राजसतामसश्रद्धयोभाजनानां भवनेष्विति हृदयम् । य इति० गलता बहिर्भवता मलेन नासाक्षिकर्णादिकायच्छिद्रद्वारनिर्गतधारावादि- मलेन पिच्छिला आर्द्रा अत एव च बीभत्सा घृणाव्यञ्जिका दुष्प्रेक्ष्या द्रष्टुमयोग्या पहुँचा दिया, गन्धर्वकन्या मदालसाको दैत्येन्द्र पातालकेतुने छलसे हर लिया । विधाता की वृत्तियाँ बड़ी टेढ़ी हुआ करती है ॥ ४ ॥ ऐसा भाग्यका विधान है इसे समझो । अच्छी बात । पाखण्डालयमे खोजे । करुणा—सखि, ऐसा ही हो । ( चलती हैं ) ( आगेकी ओर देखकर ) करुणा—( डरकर ) सखि, राक्षस है राक्षस । शान्ति—कहाँ राक्षस है ? करुणा—सखि, इधर देखो, देखो, मलके गिरते रहनेसे इसकी देह पिच्छिल हों

तृतीयोऽङ्कः ६६ द्यदेहच्छविः उल्लुञ्चितचिकुरमुक्तवसनदुर्दर्शनः शिखिशिखण्डपिच्छ- काहस्त इत एवाभिवर्त्तते । (सहि, पेक्ख पेक्ख । जो एसो गलन्तमलपिच्छि- लबीहत्सदुप्पेक्खदेहच्छवी उल्लुंचिचचिउरमुक्कवसणदुद्दंसणो सिहिसिहण्डपिच्छ- आहत्थो इदो जेव्व अहिवट्टदि ) शान्तिः—सखि, नायं राक्षसः । निर्वीर्यः खल्वयम् । करुणा—तर्हि क एष भविष्यति । (ता को एसो भविस्सदि ) शान्तिः—सखि, पिशाच इति शङ्के । करुणा—सखि, प्रस्फुरन्महामयूखमालोद्भासितभुवनान्तरे ज्वलति प्रचण्डमार्त्तण्डमण्डले कथं पिशाचानामवकाशः ? (सहि, पप्फुरन्तमहामऊ- हमालोब्भासिअभुअणन्तरे जलदि प्पचण्डमत्तण्डमण्डले कहं पिसाआणं अवआसो ? ) देहच्छविः कायकान्तिर्यस्य तादृशः । उल्लुञ्चितचिकुरः लुञ्चितकेशः, मुक्तवसनः नग्नश्च अत एव दुर्दर्शनः दर्शनायोग्यः । शिखिनो मयूरस्य शिखण्डिका पिच्छः हस्ते यस्य तादृशः । इत एवाभिवर्त्तते-इमामेव दिशमागच्छति । एतद्वर्णनं जैन- साधोः-तेषां मते स्नानं निषिद्धं तथाकरणे जीवविनाशसंभवात्, कचोल्लुञ्चनं विवसनत्वं चाचारपरिप्राप्तम्, शिखिपिच्छञ्चते मार्गावस्थितसूक्ष्मजन्तूनामपासनाय बिभ्रतीति तत्परिचायकेऽत्र वाक्ये सर्वमुपात्तम् । निर्वीर्यः = पौरुषबलरहितः । पिशाचः-प्रेतः । शङ्के-उत्प्रेक्षे । मलदिग्धत्वविवसनत्त्वादिमूलेयमुत्प्रेक्षा । प्रस्फुरदिति० प्रस्फुरतः प्रकटस्य महामयूखस्य किरणस्य मालया समूहेन उद्भा- सितं भुवनान्तरं धरित्र्या अन्तरालं येन तादृशे । ज्वलति-दीप्यमाने । प्रचण्ड- मार्त्तण्डमण्डले-प्रखरसूर्य्यमण्डले । कथं पिशाचानामवकाशः-केन प्रकारेण प्रेतानां प्रचारस्यावसरः, ते हि तमसि सर्पन्ति ज्वलति चाधुना मध्यन्दिनतरणिः प्रखरैः स्वैः करैस्तदयं पिशाचो न संभवतीति भावः । रही है, बाल नोंच दिये गये हैं, कपडा नही है, हाथ में मयूरपिच्छिका है । शान्ति-सखि, यह राक्षस नही है, यह निर्वीर्य है । करुणा-तो फिर यह कौन है ? शान्ति-सखि, पिशाच मालूम पड़ता है । करुणा-सखि, किरणों से भुवनको उद्भासित करनेवाले प्रचण्ड सूर्यमण्डलके सामने पिशाच कैसे होगें ?

१०० प्रबोधचन्द्रोदयम् शान्तिः-तर्हि अनन्तरमेव नरकविवरादुत्तीर्णः कोऽपि नारकी भवि- ष्यति । ( विलोक्य विचिन्त्य च ) आः, ज्ञातम् । महामोहप्रवर्तितोऽयं दिग- म्बरसिद्धान्तः । तत्सर्वथा दूरे परिहरणीयमस्य दर्शनम् । ( इति पराङ्मुखी- भवति ) करुणा-सखि, मुहूर्तकं तिष्ठ । यावदत्र श्रद्धामन्वेषयामि । ( सहि, मुहुत्तकं चिट्ठ । जाव एत्थ ! सद्धां अण्णेसामि ) ( उभे तथा स्थिते ) ( ततः प्रविशति यथानिर्दिष्टो दिगम्बरसिद्धान्तः ) दिगम्बरः-ॐ नमोऽर्हद्भ्यः । नवद्वारपुरीमध्ये आत्मा दीप इव ज्वलति । एष जिनवरभाषितः परमार्थोऽयं मोक्षसुखदः । ( इति परिक्रामति ) अनन्तरम्-इदानीम् । नरकविवरात्-रौरवादिनामकनरकविलात् । उत्तीर्णः- बहिर्गतः । कोऽपि नारकी कश्चन नरकवासी । महामोहप्रवर्त्तितः-मोहेन प्रचारितः । दिगम्बरसिद्धान्तः-जैनमतप्रभेदः । परिहरणीयम्-त्याज्यम् , अर्हद्भ्यः-जैनमत ईश्वरस्य नाम अर्हन् इति तथा चोक्तम्-‘अर्हन्नित्यथ जैनशासनरताः' इति । नव- द्वारपुरी-नवेन्द्रिययुता तनुः । दीप इव ज्वलति-प्रदीपवत् प्रकाशते । अयं हि दिगम्बरसिद्धान्तः-अङ्गुष्ठपरिमाण एवात्मा हृत्पुण्डरीककोशमध्ये दीपवज्ज्वलति, गृहाभ्यन्तरवर्त्तिदीपप्रभावदङ्गुष्ठमात्रस्यैव जीवस्य सर्वदेहव्याप्तेः सुखदुःखादयो भवन्तीति । तस्मात्परिच्छिन्नपरिमाण आत्मा, स एवानादिवासनाभिः सुखदुःख- भोगार्थं शरीरे निःक्षिप्य बध्यते, तन्निवृत्तिश्च भगवतार्हतादर्शितैर्धर्मैः केशोल्लुञ्चन- तप्तशिलारोहणादिभिर्जायते, तथा च दिगम्बरश्रुतिः-'पञ्जरस्थः शुको यद्वद्विमुक्तो बन्धनाद् ब्रजेत्' । त्वरितं तद्वदेवात्मा विमुक्तश्चोर्ध्वगो भवेत् । इति परमार्थः-सार- भूतोऽर्थः । मोक्षसुखदः-मोक्षरूपपरमानन्दप्रदः । श्रावकाः-गृहस्था जनाः, ते हि श्रवणाधिकृतत्वात् श्रावका उच्यन्ते । शान्ति—तो फिर अभी अभी नरकसे निकला हुआ कोई नारकी होगा । ( देख तथा सोचकर ) अहा, समझ गया । यह तो महामोह प्रवर्त्तित दिगम्बर मत है । इसके दर्शनसे बचना चाहिये । ( मुह फेर लेती है ) करुणा-सखि, क्षणभर रुकजा, जबतक यहाँ श्रद्धाको खोज लूं । ( दोनों खोजती हुई ठहरती है ) ( यथा वर्णित दिगम्बर मतका प्रवेश ) दिगम्बर-अर्हन् को नमस्कार है । नवद्वारपुरी मध्यमें आत्मा दीपकी तरह जल

तृतीयोग्ङ्कः १०१ (आकाशे) अरेरे श्रावकाः, शृणुध्वम्— (ॐणमो अरिहन्ताणम्। णवदुवालग्घलमज्झे अप्पा दीवेव्वलदि। एसो जिणवलभासिदो पलमत्थो जं मोक्ससुखदो अलेले सावका, सुणुधं)— मलमयपुद्गलपिण्डे सकलजलैरपि कीदृशी शुद्धिः। आत्मा विमलस्वभावः ऋषिपरिचरणैर्ज्ञातव्यः ॥ ५ ॥ (मलमअपोग्गलपिण्डे सव्वलजलेहि वि केलिसी सुद्धी। अप्पा विमलसहाओ रुसिपलिचलणेहिं जाणव्वो ॥) किं भणथ कीदृशमृषिपरिचरणमिति। तच्छृणुध्वम्— (किं भणत्थ केलिसं लिसिपारिचलणं ति। ता सुणुध)— दूरे चरणप्रणामः कृतसत्कारं च भोजनं मिष्टम्। ईर्ष्यामलं न कार्यं ऋषीणां दारान् रममाणानाम् ॥ ६ ॥ (दूले चलणपणामो, किदसक्कारं च भोअणं मिट्ठम्। इस्सामलं ण कज्जं, लिसिणं दालारं लमन्ताणम् ॥) मलमयेति० मलमये श्लेष्ममूत्रादिमलैः पूर्णे पुद्गलानां परमाणूनां पुञ्जरूपे पिण्डे देहे 'पुद्गलपिण्डे' देहे इति वा 'पुद्गलं वपुरात्मनः' इति धरणी। सकलजलैः समस्तै- रपि वारिभिः कीदृशी किमप्राशुद्धिः, सर्वस्मिन्नपि जले उपयुक्ते स्वाभाविकरूपेण मलवतोऽस्य देहस्य शुद्धिर्न संभवतीत्यर्थः। (न चानेन कायिकमलेनात्मा लिप्यते) आत्माविमलस्वभावः सहजनिर्मलः, स चात्मा ऋषिपरिचरणैः साधुसेवाभिर्ज्ञातव्यः। आत्मस्वरूपं प्रागुक्तम् ॥ ५॥ ऋषिपरिचरणैरात्माज्ञातव्य इत्युक्तं तत्र का ऋषिपरिचरणप्रक्रियेति वक्तुमाह— कीदृशमिति। दूरे इति० दूरे दूरदेशतः चरणप्रणामः पादवन्दनम्, शरीरस्पर्शस्तु न कार्य इति भावः। कृतसत्कारं योग्यादरपूर्वकम् मिष्टं मधुरं भोजनम्, नैतावदेव, किन्तु रही है। यही जिनवर भाषित परमार्थ सिद्धान्त मोक्षसुखदाता है। अरे ओ श्रावको, सुनो— मलमय पुद्गलपिण्डरूप देहकी कैसी शुद्धि? यह आत्मा विमल स्वभाव का है यह बात ऋषि परिचर्यासे जानी जाती है ॥ ५ ॥ क्या कहा? ऋषि परिचर्या कैसे की जाती है? तो सुन लो— दूरसे चरणोंमें प्रणाम करो, सत्कारपूर्वक मधुर भोजन दो, यदि ऋषि तुम्हारी स्त्रियों के साथ विहार करें तो मनमें ईर्ष्या मत करो ॥ ६ ॥

१०२ प्रबोधचन्द्रोदयम् ( नेपथ्याभिमुखमवलोक्य ) श्रद्धे, इतस्तावत्। ( सद्धे, इदो दाव ) ( उभे सभयमालोकयतः ) ( ततः प्रविशति तदनुरूपवेषा श्रद्धा ) श्रद्धा—किमाज्ञापयति राजकुलम् । ( किं आणवेदि लाउलम् ) ( शान्तिर्मूर्च्छिता पतति ) दिगम्बरसिद्धान्तः—श्रावकाणां कुटुम्बं मुहूर्तमात्रमपि मा परिहरि- ष्यति भवती । ( सावकाणं कुलं मुहुत्तमेकं वि मा पलिहलिस्सदि भवदी ) श्रद्धा—यदाज्ञापयति राजकुलम् ! ( जं आणवेदि लाउलम् ) ( इति निष्क्रान्ता ) करुणा—समाश्र्वसितु प्रियसखी । न खलु नाममात्रेण प्रियसख्या भेतव्यम् । यतः श्रुतं मया हिंसासकाशाद्यदस्ति पाषण्डानामपि तमसः सुता श्रद्धेति । तेनैषा तामसी श्रद्धा भविष्यति । ( समस्ससदु पिअसही । णं खु णाममेत्तेक्केण पियसहीए भेदव्वं । जदो सुदं मए हिंसासकासादो जं अत्थि ऋषीणाम् साधूनाम् दारान् श्रावकजनवनिताः रममाणानाम् भुञ्जानाम् ईर्ष्यामलात् कथमसमेऽन्येषां दारान् रमयन्तीत्येवं बुद्धिरीर्ष्यामलं तन्न कार्यम् , तेषां वीतबन्धन- त्वाद्यथेच्छाचारस्याविगीतत्वात्तदुपदेशवशादेव च धर्मस्य व्यवस्थाप्यत्वात् ॥ ६ ॥ मूर्च्छिता—विगतचेतना, शान्तिः स्वमातरं श्रद्धां नितान्तश्रद्धानां दिगम्बर- सिद्धान्तानामालयेषु दृष्ट्वा स्वमातुर्दशापरिवर्त्तनेन पातित्यं सम्भाव्य मूर्च्छिता जातेति बोध्यम् । परिहरिष्यति-त्यक्ष्यति, यथामी श्रावका अस्मासु श्रद्धां कथमपि कदापि न जह्युस्तथा यतनीयं भवतीति । नाममात्रेण-श्रद्धेति नामसादृश्येन नेयं भवत्या माता श्रद्धा, सा हि सात्त्विकी, ( नेपथ्यकी ओर देखकर ) श्रद्धे, जरा इधर आना । ( दोनो सभय देखती हैं ) ( तदनुरूप वेशधारिणी श्रद्धाका प्रवेश ) श्रद्धा—राजकुलका क्या आदेश है ? ( शान्ति मूर्च्छित होकर गिर पडती है ) दिगम्बरसिद्धान्त—श्रावक परिवारको क्षणभरके लिये भी मत छोड़ना । श्रद्धा—राजकुलकी जैसी आज्ञा । ( जाती है ) करुणा—धीरज धरो प्रियसखि, नाममात्रसे तुमको नहीं डरना चाहिये । मैने सुना

तृतीयोऽङ्कः १०३ पासण्डाणं वि तमसः सुद्धा सद्धेति । तेण एसा तामसी सद्धा भविस्सदि ) शान्तिः—( समाश्वस्य ) सखि, एवमेवैतत् । तथाहि— दुराचारा सदाचारां दुर्दर्शा प्रियदर्शनाम् । अम्बामनुसरत्येषा दुराशा न कथंचन ॥ ७ ॥ तद्भवतु तावत् । सौगतालयेष्वप्यसावन्विष्यताम् । ( शान्तिकरुणे परिक्रामतः ) ( ततः प्रविशति भिक्षुरूपः पुस्तकहस्तो बुद्धागमः ) भिक्षुः—( विचिन्त्य ) भो भो उपासकाः, सर्वे क्षणक्षयिण एव निरात्मकाश्च यत्रार्पिता बहिरिव प्रतिभान्ति भावाः । अन्या चेयं श्रद्धा तामसी, तन्नामसाम्येन स्वमातुः पातमुत्प्रेक्ष्यालं भयेनेति तात्पर्यम् । एवमेवैतत्-नामसाम्यमेवेदम् , इयमत्र दृश्यमाना तामसी श्रद्धैव, न मम मा- तेति बोध्यम् । दुराचार्येति० दुराचारा । अशोभनाचारा दुर्दर्शा भीषणाकृतिः दुराशा नीचा इयम् तामसी श्रद्धा एषा सदाचाराम् चारित्रशुद्धाम् प्रियदर्शनाम् रमणीयाकृतिमनोहराम् अम्बाम् मम मातरं सात्त्विकीं श्रद्धाम् कथञ्चन केनापि प्रकारेण नैवानुसरति नानु- करोति । केवलं नामैव समानं नान्यत् किमप्यतो न मम मातेयमिति भावः ॥ ७ ॥ सौगतालयेषु—बौद्धगृहेषु असौ-सात्त्विकी श्रद्धा । पुस्तकहस्तः—हस्तधृतपुस्तकः । बौद्धा बुद्धोपदेश सङ्कलितं धर्मग्रन्थं सदा हस्ते धारयन्तीति रूढेयेत्थमुक्तम् । उपासकाः-बौद्धागमविचारतत्पराः । सर्व इति० सर्वे भावाः पदार्थाः क्षणक्षयिणः क्षणभङ्गुराः निरात्मकाः असन्तश्च, है कि हिंसाके मुहसे पाखण्डियोंके पास भी तामसी श्रद्धा रहती है । यह वही तामसी श्रद्धा होगी । शान्ति—( धीरज धर कर ) सखि, यही बात है, क्योंकि— अभागी यह दुराचारा तथा दुर्दर्शना हमारी सदाचारा तथा प्रियदर्शना अम्बाका अनुसरण किसी तरह भी नही कर रही है ॥ ७ ॥ अच्छा, तो तबतक सौगतालयमे उसकी खोज की जाय । (शान्ति और करुणा चलती है) ( भिक्षुरूप पुस्तकहस्त बुद्धागमका प्रवेश ) भिक्षु—( सोचकर ) अरे ओ उपासको, जिस धीसन्ततिमे अर्पित होनेसे सभी क्षणक्षयी तथा शून्यात्मकभाव बहिःस्थितकी

१०४ प्रबोधचन्द्रोदयम्

सैवाधुना विगलिताखिलवासनत्वा-
द्धीसन्ततिः स्फुरति निर्विषयोपरागा ॥ ८ ॥
(परिक्रम्य पुनः सश्लाघम् ) ( अहो, साधुरयं सौगतधर्मो यत्र सौख्यं
मोक्षश्च । तथाहि—
आवासो लयनं मनोहरमभिप्रायानुरूपा वणिङ्-
नार्यो वाञ्छितकालमिष्टमशनं शय्या मृदुप्रस्तराः ।
श्रद्धापूर्वमुपासिता युवतिभिः क्लृप्ताङ्गदानोत्सव-
'यत्सत्तत् क्षणिकं यथा जलधरः सन्तश्च भावा अमी' इति प्रामाणिकोक्तेः । अमी
क्षणभङ्गुरा निरात्मकाश्च भावाः यत्र यस्यां धीसन्ततौ विज्ञानधारायाम् अर्पिताः
प्रतिफलिताः बहिरिव बाह्या इव प्रतिभान्ति भासन्ते, एतन्मते सर्वेऽपि पदार्था
ज्ञानाकारा एवेति । सैव धीसन्ततिः अधुना सम्प्रति विगलिताखिलवासनत्वात्
सकलसंस्कारोच्छेदात् निर्विषयोपरागा विषयरक्तिरहिता स्फुरति प्रकाशते एतन्मते
सांसारिकवासनाभिर्धीसन्ततौ प्रतिफलान्ति भावास्ते च क्षणभङ्गुराः सत्ताशून्याश्चापि
सन्तो प्रतिभासमानशरीरा यावत् तिष्ठन्ति तावद्बन्धः, सांसारिकवासनाच्छेदे तु
विषयोपरागराहित्येन शुद्धा धीसन्ततिः स्फुरति सैव दशा निर्वाणस्येति सिद्धान्तः ।
एतेन मुक्तोऽहमिति कथितम् ! धीसन्ततिस्वरूपमाह धर्मकीर्त्तिः—'स्वाभाविकमेव
संविदः स्वप्रकाशत्वं, विषयास्तत्र विष्वक्प्रकाशन्ते' इति । वसन्ततिलकं वृत्तम् ॥८॥
साधुः-प्रशस्यः । सुगतो बुद्धः, तस्यायं सौगतो धर्मः । सौख्यं कामनापूत्तिः ।
मोक्षः परमपदप्राप्तिः ।
आवास इति० मनोहरम् रमणीयम् लयनम् कुट्टिमगृहम् आवासः निवासस्थानम्,
अभिप्रायानुरूपाः इच्छालभ्याः वणिङ्नार्यः श्रेष्ठिजनललनाः रूपाजीवा वेश्या वा,
वाञ्छितकालम् इष्टे समये इष्टम् अभिलाषानुरूपम् अशनम्, मृदुप्रस्तराः कोमला-
स्तरणाः शय्याः । श्रद्धापूर्वम् एषां भिक्षूणां सेवा शरीरार्पणादिकर्मणाऽऽराधनम् बुद्ध-
तरह प्रतीत होते हैं, समस्त वासनाके विगलित हो जानेके कारण विषयोपरागशून्य वह
धीसन्तति प्रकाशित हो रही है ॥ ८ ॥
( चलकर, प्रशंसासे ) अहा, धन्य है यह सौगतधर्म जिसमे सुख तथा मोक्ष दोनों है ।
क्योंकि—
रहनेके लिये कोठा, इच्छानुवर्त्तिनी सेठोंकी स्त्रियां, उचित समय पर मधुर तथा
यथेष्ट भोजन, कोमल शय्या, श्रद्धासे युवतियाँ अङ्गदानपूर्वक उपासना करती हैं । इस

तृतीयोऽङ्कः १०५ क्रीडानन्दभरैर्व्रजन्ति विलसज्ज्योत्स्नोज्ज्वला रात्रयः ॥ ६ ॥ करुणा—सखि, क एष तरुणतालतरुप्रलम्बो लम्बमानकषायपिशङ्ग- चीवरो मुण्डितसचूडमुण्डपिण्ड इत एवागच्छति । (सहि, को एसो तरुण- तालतलुप्पलम्बो लम्बन्तकसासपिसङ्गचिउरो मुण्डिदसचूडमुण्डपिण्डो इदो जेव्व आअच्छदि) शान्तिः—सखि, बुद्धागम एषः । भिक्षुः—(आकाशे) भो भो उपासकाः भिक्षवश्च, श्रूयतां भगवतः सुगतस्य वाक्यामृतम् । (पुस्तकं वाचयति) पश्याम्यहं दिव्येन चक्षुषा प्रीतिकृते इति विश्वासपूर्वकम् क्लृप्ताङ्गदानोत्सवक्रीडानन्दभरैः सिद्धशरीरसमर्पणजन्य- सुरतानन्दसमूहैः युवतिभिरारूढयौवनाभिरन्यनारीभिः उपासिताः विलसज्ज्योत्स्नो- ज्ज्वलाः स्फुटचन्द्रधवलाः रात्रयः व्रजन्ति । अस्माकं भिक्षूणां सौभाग्यमिदं यत्सुन्दर- मावासस्थानं लभामहे, यथेच्छं वारनारीरालिङ्गामः, उचिते समयेऽभिमतं भोजनं प्राप्नुमः, कोमलप्रच्छदपटं शयनीयमुपयुञ्ज्महे, युवतिभिः परस्त्रीभिः साधूनां सेवया भगवान् प्रसीदतीति विश्वासमन्तराधाय स्वयमागत्य रतियाचनायां क्रियमाणायां चन्द्रधवलासु निशासु ताभिः सह रमामहे इति । बौद्धमते बौद्धपरिव्राजकलिङ्गपूजां स्त्रियो निजपत्यनुमत्यैव कुर्वन्तीति प्रसिद्धिः । एतेनास्माकं भिक्षूणां भोगेन सहैव मोक्षोऽप्युपपद्यत इति परमं सौभाग्यमस्माकमन्येषान्तु न तथेति स्वमते व्यतिरेक उक्तः । शार्दूलविक्रीडितमेव वृत्तम् ॥ ९ ॥ तरुणतालतरुप्रलम्बः-प्रौढतालवृक्षदीर्घः । लम्बमानम् आस्तीर्यमाणम् कषाय- पिशङ्गरक्तं कषायपिशङ्गवर्णं चीवरं बृहदाकृतिपरिधानं यस्य तादृशः । मुण्डितसचूड- मुण्डपिण्डः-कारितसशिखशिरोवपनः । उपासकाः-बौद्धमते श्रद्धालवो गृहस्थाः । वाक्यामृतम्-वचनसुधाम् , वचनानां सर्वविधसन्तापहरत्वेन सुधात्वमुपचरितम् । सुगतिम्-सत्कर्म । दुर्गतिम्-दुष्कर्म । तरह चन्द्रिकाधवल रात्रियों आनन्दमें कटतीं है ॥ ९ ॥ करुणा—यह कौन है जो ताडकी तरह लम्बा, लटकता हुआ केसरिया चोगा पहने शिखा समेत सिर घुटवाये इधर ही आरहा है । शान्ति—सखि, यह बुद्धागम है । भिक्षु—(आकाशकी ओर) अरे ओ उपासको और भिक्षुओं, भगवान् सुगतके वचनामृत सुनलो । (पुस्तक बांचता है) मैं दिव्य दृष्टिसे लोगोंकी सुगति तथा दुर्गति देखा

१०६ प्रबोधचन्द्रोदयम् लोकानां सुगतिं दुर्गतिं च । क्षणिकाः सर्वे संस्काराः । नास्त्यात्मा स्थायी । तस्माद्भिक्षुषु दारान्नाक्रमत्सु नेर्षितव्यम् । चित्तमलं हि तद्यदीर्ष्यानाम । ( नेपथ्याभिमुखमवलोक्य ) श्रद्धे, इतस्तावत् । ( प्रविश्य श्रद्धा ) श्रद्धा—आज्ञापयतु राजकुलम् । ( आणवेदु लाउलम् ) भिक्षुः—उपासकान्भिक्षूंश्च चिरमालिङ्ग्य स्थीयताम् । श्रद्धा—यदाज्ञापयति राजकुलम् । ( जं आणवेदि लाउलम् ) ( इति निष्क्रान्ता ) शान्तिः—सखि, इयमपि तामसी श्रद्धा । करुणा—एवमेतत् । ( एवं णेदम् ) । क्षपणकः—( भिक्षुमालोक्योच्चैःशब्दम् ) । अरेरे भिक्षुक, इतस्तावत् । किमपि पृच्छामि । ( अलेले भिक्खुअ, इदो दाव । किंपि पुच्छिस्सम् ) नास्त्यात्मा स्थायी—सर्वेषां भावानां क्षणिकत्वेनात्मनोऽप्यस्थायित्वं निवेदितमेव, दारान्–स्त्रियः, उपासकानाम् इति शेषः । आत्मनोऽस्थायित्वे येनात्मना परपुरुषोप- सर्पणं कृतं स तु गतं एवेति वृथा कोपं स्त्रीणां भिक्षुरतौ मा कारीति भावः । चित्त- मलम्–मनोमालिन्यकरम् , तच्च ज्ञानपरिपन्थीति तन्न कार्यमिति भावः । उपासकान्– श्रद्धायुक्तान्गृहिणः, चिरम्–बहुकालपर्यन्तम् । तामसश्रद्धावत्त्व एव गृहस्था भिक्षुभ्यो निजदारानुपहिरण्यन्तीति तदुपायमेवान्येन वाक्येन कृतवानयं भिक्षुरिति तात्पर्यम् । क्षपणकः—जैनागममतावलम्बी दिगम्बरः । करता हूं । सभी सस्कार क्षणिक हैं । स्थायी आत्मा नहीं हैं । अतः भिक्षु यदि स्त्रियों पर आक्रमण करे तो ईर्ष्या मत करना । ईर्ष्या चित्तका मल है । (नेपथ्य की ओर देखकर) श्रद्धे, जरा इधर आना । (श्रद्धाका प्रवेश) श्रद्धा—राजकुलका क्या आदेश है ? भिक्षु—उपासकों तथा भिक्षुओंसे सदा लिपटी रहो । श्रद्धा—राजकुलकी जैसी आज्ञा । (जाती है) शान्ति—सखि, यह भी तामसी श्रद्धा है । करुणा—यही बात है । क्षपणक—(भिक्षुको देखकर, जोरसे) अरे ओ भिक्षुक, इधर आना । कुछ तुम्हैं पूछूँगा ।

तृतीयोऽङ्कः १०७ भिक्षुः—( सक्रोधम् ) आः पाप पिशाचाकृते, किमेवं प्रलपसि । क्षपणकः—अरे, मुञ्च क्रोधम् । शास्त्रगतं पृच्छामि । (अले, मुञ्च कोहम् । साच्छगदं पुच्छामि ) भिक्षुः—अरे क्षपणक, शास्त्रकथामपि वेत्सि । भवतु । प्रतीक्षामस्ता- वत् । ( उपसृत्य ) किं पृच्छसि । क्षपणकः—भण तावत्क्षणविनाशिना त्वया कस्य कृते इदं व्रतं धार्यते । ( भण दाव क्खणविणासिणा तुए कस्स किदे एदं व्वदं घालीअदि ) भिक्षुः—अरे श्रूयताम् । अस्मत्संततिपतितः कश्चिद्विज्ञानलक्षणः समुच्छिन्नवासनो मोक्ष्यते । क्षपणकः—अरे मूर्ख, कस्मिन्नपि मन्वन्तरे कोऽपि मुक्तो भविष्यति । पिशाचाकृते-पिशाचवज्जघनाकृतिशालिन् । क्षणविनाशिना-क्षणविनाशिसर्वमिति मन्यमानेन । अयमाशयः-यस्य मते सर्वं क्षणिकं तस्यात्माऽपि क्षणिकः, तर्हि किमर्थं व्रतादिकष्टं क्रियेत, येन व्रतं क्रियते तस्य तत्फलभोगायास्थायित्वादिति । अस्मत्सन्ततीति० भावानां क्षणिकत्वं ज्ञानाकारत्वं चातिष्ठमाना बौद्धा धीसन्तति- मनुवर्त्तमानामभिप्रयन्ति तेनैव शरीरपातप्रसङ्गमापाद्यमानं वारयन्ते, तदभिप्रायेणै- वेदमुत्तरम् , अस्मात् सन्ततिपतितः-अहं व्रतकत्र्त्ता यद्धीसन्ततौ तद्धी सन्ततौ भावी कोऽपि मोक्ष्यते, तेन व्रतानुष्ठायिमोक्ष्यमाणयोरेकसन्ततिगतत्वेन व्रतमोक्षयोर्न वैय- धिकरण्यमिति न त्वदुक्तवृथात्वशङ्का । समुच्छिन्नवासनः-नष्टवासनः, वासनानाशो मोक्षहेतुः स च व्रतादिकायक्लेशसाध्य इति बौद्धप्रसिद्धिसमनुरुध्योक्तम् । मन्वन्तरे-कतिपययुगान्तरे । भिक्षु—( क्रोधसे ) आः पाप पिशाचाकृते, क्या बक-बक कर रहा है । क्षपणक—अरे, क्रोध छोड़ो, शास्त्रगत बात पूछनी है । भिक्षु—अरे क्षपणक, तू शास्त्रकी बातें भी जानता है। अच्छी बात है। मैं इन्तजार करू गा । ( समीप जाकर ) क्या पूछता है । क्षपणक—तू क्षण विनाशी है तो फिर किसके लिये यह व्रत करता है । भिक्षु—अरे, सुनो, हमारी सन्ततिमे पतित कोई विज्ञानलक्षण निवृत्तवासन होगा । उसे मोक्ष होगा । क्षपणक—अरे मूर्ख, किसी मन्वन्तरमे कोई मुक्त होगा, तुम जो इस समय कष्ट उठा

१०८ प्रबोधचन्द्रोदयम् ततस्ते सांप्रतं नष्टस्य कीदृशमुपकारं करिष्यति। अन्यच्च पृच्छामि। केन ते ईदृशो धर्म उपदिष्टः ? ( अले मुलुक्ख, कस्सिंचि मण्णन्तले कोचि सुक्को भविस्सदि। तदो दे संपदं णट्ठस्स कीरिसं उवआलं कलिस्सदि। अण्णं च पुच्छामि। केण दे ईरिसो धम्मो उवदिट्ठो ? ) भिक्षुः—नूनं सर्वज्ञेन भगवता बुद्धेनोक्तोऽयमेव धर्मः। क्षपणकः—अरे, सर्वज्ञो बुद्ध इति कथं त्वया ज्ञातम्। ( अले, सव्वण्णो बुद्धोत्थि त्ति कथं तुए णादम् ) भिक्षुः—ननु रे, तदागमैरेव प्रसिद्धो बुद्धः सर्वज्ञ इति। क्षपणकः—अरे उज्झितबुद्धिक, यदि तस्य भाषितेन सर्वज्ञत्वं प्रति- पन्नोऽस्सि तदहमपि सर्वं जानामि। त्वमपि पितृपितामहैः सह सप्त- पुरुषमस्माकं दास इति। ( अले, उज्झिअभुद्धिअ, जथि तस्स भासिदेण सव्व- ण्णत्तं पडिवज्जेसि ता अहं पि सव्वं जाणामि। तुमंपि पिठुपिदामहेहि सहं सत्त- पुलिसं अम्हाणं दासो त्ति ) भिक्षुः—(सक्रोधम्) आः पाप, पिशाच मलपङ्कधर, कस्तवाहं दासः ? नष्टस्य-मृतस्य। तदागमैः-बुद्धागमैः। उज्झितबुद्धिक निर्बुद्धे तस्य-बुद्धस्य। प्रतिपन्नः-ज्ञातवान्। 'अहमपि सर्वं जानामि' इति मदुक्त्या ममापि सर्वत्वं प्रतिपद्यस्व, बुद्धस्य सर्वज्ञतां यथा तदुक्तौ विश्वस्य प्रतिपन्नोऽसि तथैव मदुक्तौ विश्वस्य ममापि सर्वज्ञतां प्रति विश्वासं कुर्वि- त्याशयः। पाप-पापाचार। पिशाच-राक्षसवदभव्यदर्शन। मलपङ्कधर-मलिनतनो। रहे हो वह तुम्हारा क्या उपकार करेगा। और मै पूछता हू किसने तुम्हे इस तरहका धर्मोपदेश किया ? भिक्षु—सर्वज्ञ भगवान् बुद्ध ने यह उपदेश किया है, यही धर्म है। क्षपणक—अरे, बुद्ध सर्वज्ञ है यह तुमको किसने बताया ? भिक्षु—उनके शास्त्रमें बुद्धकी सर्वज्ञता प्रसिद्ध है। क्षपणक—अरे निर्बुद्धि, यदि उसीके कहनेसे उसे सर्वज्ञ मानता है तो मै भी सर्वज्ञ हू, बाप दादों के सहित तुम भी हमारे दास हो। भिक्षु—(क्रोधसे) अरे पाप, मलपङ्कधर, मै तुम्हारा कैसा दास हूं ?

तृतीयोऽङ्कः १०६

क्षपणकः—अरे विहारदासीभुजङ्ग दुष्टपरिव्राजक, दृष्टान्त एष मया
दर्शितः । तत् प्रियं ते विस्रब्धं भणामि । बुद्धानुशासनं परिहृत्यार्हतानु-
शासनमेवानुसृत्य दिगम्बरमतमेव धारयतु भवान् । (अले बिहालदासी-
भुअङ्ग दुट्ठपलिब्वज्जिअ, दिट्टंतो एसो मए दंसिदो । ता पिअं दे विस्सद्धं भणामि ।
बुद्धाणुसासणं पलिहलिअ अलिहन्ताणुसासणं जेव्व अनुसलिअ दिग्गवलमदं जेव्व
धालेदु भवम् )
भिक्षुः—आः पाप, स्वयं नष्टः परानपि नाशयितुमिच्छसि ।
स्वाराज्यं प्राज्यमुत्सृज्य लोके निन्द्यामनिन्दितः ।
अभिवाञ्छति को नाम भवानिव पिशाचताम् ॥ १० ॥
अपि च, आर्हतमपि धर्मवेदनं कः श्रद्दधाति ?
--------------------------------------------------
विहारदासीभुजङ्ग-वेश्याभर्त्तः । दृष्टान्तः-निदर्शनम् । यथा बुद्धोक्तौ विश्वस्य
तदीयां सर्वज्ञतां प्रतिपन्नोऽसि तथा मदीयोक्तौ विश्वस्य स्वस्य मम दासत्वमपि
त्वया स्वीकर्त्तव्यमिति दृष्टान्तो मया दर्शितो न तु वास्तविके तव दासत्वे मम
तात्पर्यमिति ।
विस्रब्धम्-विश्वस्तम् । बुद्धानुशासनम्-बौद्धमतम् । परिहृत्य-त्यक्त्वा । आर्ह-
तानुशासनम्-जैनमतम् । दिगम्बरमतम्-जैनमतैकदेशम् ।
नष्टः—पतितः । नाशयितुम्-पातयितुम् , जैनमतं धारयित्वा भ्रंशयितुमित्यर्थः ।
स्वाराज्यमिति० प्राज्यं प्रकृष्टम् स्वराज्यम् उत्सृज्य त्यक्त्वा भवानिव भवद्वत्
लोकनिन्द्याम् शास्त्रगर्हिताम् पिशाचताम् क्षपणकत्वम् को नाम अभिवाञ्छति ।
यथाभवानिह मते विश्वस्य पिशाचतांगतः तथा कोऽन्यो बौद्धो नित्यस्वातन्त्र्यं
परित्यज्य पिशाचभावं भजतामित्यर्थः ॥ १० ॥
धर्मवेदनम्-धर्मज्ञानम् ।
--------------------------------------------------
क्षपणक—अरे विहारदासीभुजङ्ग, दुष्ट परिव्राजक, मैने यह दृष्टान्त दिखलाया है ।
विश्वसनीय हित तुम्हे कह रहा हू कि बुद्धमत छोडकर जैनमतमें दिगम्बर जैन सिद्धान्तको
अपना लो ।
भिक्षु—अरे पापी, तू खुद पतित है, अब दूसरोंको गिराना चाहता है ।
प्रचुर स्वाराज्य छोड़कर कौन अनिन्दित जन तुम जैसे इस निन्द्य पिशाचताको ग्रहण
करना चाहेगा ॥ १० ॥
और—आर्हत मत पर श्रद्धा ही किसे है ?

११० प्रबोधचन्द्रोदयम् क्षपणकः—ग्रहनक्षत्रचारचन्द्रसूर्योपरागलुप्तलाभपरमार्थज्ञानसंधानद- र्शनेन निरूपितं सर्वज्ञत्वं भगवतोऽर्हतः । (ग्गहणक्खत्तचारचन्दसूरुलोपत्ता- अलुप्पलाहपलमत्थाणाणसंधाणदंसणेण णिरूविदं सव्वणंतणं भअवदो अरिहन्तस्स) भिक्षुः—अरे, अनादिप्रवृत्तज्योतिषातीन्द्रियज्ञानेन प्रतारितेन भगव- तेदमतिकष्टं व्रतमाश्रितम् । तथाहि— ज्ञातुं वपुः परमितः क्षमते त्रिलोकीं जीवः कथं कथय संगतिमन्तरेण । शक्नोति कुम्भनिहितः सुशिखोऽपि दीपो भावान्प्रकाशयितुमप्युदरे गृहस्य ॥ ११ ॥ ग्रहाः-सूर्यचन्द्रादयः नक्षत्राणि-अश्विन्यादयः । तेषाञ्चारः-नियतमागं नियत- कालं च सञ्चरणम् । चन्द्रसूर्योपरागः-सूर्यग्रहणं चन्द्रग्रहणञ्च । लुप्तलाभः-पृथिव्यादौ निखाय स्थापितस्य धनस्य लुप्तस्य लाभः । अथवा सद्य एवादशंनं गमितस्य पदा- र्थस्य लाभः । परमार्थज्ञानम् तत्त्वज्ञानम् । यदस्माकमर्हन् ग्रहनक्षत्रचारचन्द्रग्रहण- लुप्तलाभादिकं साधारणजनदुर्बोधमाहातोऽसौ सर्वज्ञ इति प्रतीत इति भावः । अनादिप्रवृत्तज्योतिषातीन्द्रियज्ञानेन—चिरकालप्रचलितगणितद्वारेण पूर्वोक्तज्ञानं जायते तेन । ज्ञातुमिति० वपुःपरिमितः शरीरपरिमाणः जीवः विज्ञानरूपः सन् सङ्गतमन्तरेण सन्निकर्षं विना त्रिलोकीम् भुवनत्रयम् सर्वमित्यर्थः कथं केन प्रकारेण ज्ञातुं क्षमते शक्नोति इति कथय ब्रूहि । शरीरपरिमाणो जीवः सकलस्य त्रिभुवनस्य सङ्गति मन्त- रेण तज्ज्ञाने कथं शक्नोति, यदसौ सर्वज्ञः स्वीक्रियतामित्यर्थः । तत्र दृष्टान्तः—कुम्भ- निहितः घटान्तरवस्थापितः सुशिखः समिद्धशिखायुक्तोऽपि दीपः (किम् ) गृहस्य उदरे भावान् पदार्थान् प्रकाशयितुं भासयितुं शक्नोति ? यथा घटान्तरवस्थापितः सुशिखोऽपि दीपः स्वां भासं बर्हिनैतुमसमर्थतया गृहान्तर्गतपदार्थानां प्रकाशने न क्षपणक—ग्रहनक्षत्रकी गति, चन्द्रसूर्यग्रहण, गुप्तवस्तुकी प्राप्ति, परमार्थज्ञान आदिसे अर्हन्‌की सर्वज्ञता सिद्ध हो चुकी है । भिक्षु—अरे, अनादि प्रवृत्त ज्योतिषसे होनेवाले अतीन्द्रिय विषयक ज्ञानसे वञ्चित हो अर्हन्‌ने इस महाकष्टको स्वीकार किया है । क्योकि— शरीरपरिमाण जीव बिना सन्निकर्षके त्रिलोकीको कैसे जान सकेगा ? क्या कुम्भनिहित दीप प्रकाशशील होने पर भी घरके तमको दूर कर सकता है ॥ ११ ॥

तृतीयोऽङ्कः १११ तस्माल्लोकद्वयविरुद्धार्हतमताद्वरं सुगतमतमेव साक्षात्सुखावहमति- रमणीयं पश्यामः । शान्तिः—सखि, अन्यतो गच्छावः । करुणा—एवं भवतु । ( एवं भोदु ) । ( इति परिक्रामतः ) शान्तिः—( पुरो विलोक्य ) एष पुरस्तात्सोमसिद्धान्तः । भवतु । अत्रापि तावदनुसरावः । ( ततः प्रविशति कापालिकरूपधारी सोमसिद्धान्तः ) सोमसिद्धान्तः—( परिक्रम्य ) नरास्थिमालाकृतचारूभूषणः श्मशानवासी नृकपालभोजनः । क्षमते तथैव जीवोऽपि शरीरपरिणामतया दूरस्थवस्तुभिः सहसन्निकर्षमनासादयन्न तेषां ज्ञाने कथमपि शक्तः स्यादिति परमार्थः ॥ ११ ॥ लोकद्वयविरुद्धात्—लोकद्वयम् आगमिकानागमिकरूपसमुदायद्वितयम् । ततो विरुद्धात् । यद्वा लोकद्वयम् इह लोकपरलोकौ जनानां नास्ति तावदिहलोकः पिशाच- रूपताऽऽस्थानात्, न वा परलोकोऽप्यस्ति, सततोऽध्वगमनरूपक्लेशस्य भोक्तृ- व्यत्वात् । सुगतम्-बुद्धमतम् । साक्षात्सुखावहम्-सद्य आनन्दकरम् । सोमसि- द्धान्तः-कापालिकमतम् । नरास्थिमालेति० नराणाम् मनुष्याणाम् अस्थनाम् मालया स्रजा कृतं विहितं भूषणं यस्य तादृशः मनुष्यास्थिमालाभूषितः श्मशानवासी पितृवसति निवासशीलः नृक- पालभोजनः नरमुण्डे भोजनरसिकः ( एवंविधः कापालिकदीक्षितोऽहम् ) योगाञ्जन- दिव्यचक्षुषा समाधिरूपाञ्जनप्रयोगवशलब्धालौकिकशक्तिशालिना नयनेन मिथो- भिन्नम् परस्परविरुद्धम् जगत् सांसारिकं पदार्थजातम् ईश्वरादभिन्नम् अव्यतिरेकि इसलिये इहलोक तथा परलोकसे विरुद्ध आर्हत मतकी अपेक्षा साक्षात्सुखप्रद बौद्ध मत ही अच्छा दीख पड़ता है ॥ शान्ति—सखि, दूसरी ओर चलें । करुणा—अच्छी बात है । ( चलती हैं ) शान्ति—( आगे देखकर ) यह आगे वाला सोमसिद्धान्त है, अच्छा, यहां भी चलें । ( कापालिक रूपधारी सोमसिद्धान्तका प्रवेश ) सोमसिद्धान्त—( चलकर ) नरास्थिमालाका भूषण पहने, नृकपालभक्षी तथा श्मशानवासी मैं योगाञ्जन सिद्ध दृष्टिसे

११२ प्रबोधचन्द्रोदयम् पश्यामि योगाञ्जनशुद्धचक्षुषा जगन्मिथो भिन्नमभिन्नमीश्वरात् ॥ १२ ॥ क्षपणकः—क एष कापालिकं व्रतं पुरुषो धारयति । तदेनमपि पृच्छामि । ( उपसृत्य ) अरेरे कापालिक, नरास्थिमुण्डमालाधारक, कीदृ- शस्तव धर्मः कीदृशस्तव मोक्षः ? ( को एसो कावालिअव्वरं पुलिसो धालेदि । ण णं वि पुच्छिस्सम् । अलेले कावालिअ, णलत्थिमुण्डमालाधारिअ, कीदिसो तुम्हे धम्मो, कीदिसो तुम्हे मोक्खो ? ) कापालिकः—अरे क्षपणक, धर्मं तावदस्माकमवधारय । मस्तिष्कान्त्रवसाभिपूरितमहामांसाहुतीर्जुह्वतां वह्रौ ब्रह्मकपालकल्पितसुरापानेन नः पारणा । सद्यः कृत्तकठोरकण्ठविगलत्कीलालधारोज्ज्वलै- रच्र्यो नः पुरुषोपहारबलिभिर्देवो महाभैरवः ॥ १३ ॥ पश्यामि । उच्चावचोऽयं प्रपञ्चः स्वयं परस्परभिद्यमानोऽपि न परमेश्वराद्भिद्यते यथा मुद्रिकाकङ्कणादेरन्योन्यभेदेऽपि सुवर्णादभिन्नता तद्वद् इति पश्यामीति भावः ॥१२॥ कापालिकम्-कपालीशिवस्तद्देवताकम् । अवधारय-जानीहि । मस्तिष्कान्तेति० मस्तिष्कम् कपालान्तर्गतं स्निग्धं द्रव्यम् , अन्त्राणि सिराः, वसा मज्जा, ताभिः अभिपूरितैः आधारितैः महामांसैः नरमांसैः वह्नौ आहुतीर्जुह्वताम् होमं कुर्वताम् नः अस्माकम् ब्रह्मकपाले ब्राह्मणजातिनरमुण्डे कल्पितायाः उपनी- तायाः सुरायाः मदिरायाः पानेन पारणा व्रतसमाप्तिः भवतीति शेषः, नराणां मांसानि तत् कपालगतस्निग्धद्रव्यतदन्त्रतन्मज्जभिराघार्य वह्नौ जुह्वतो वयं ब्राह्मण- जातिनृमुण्डे स्थापयित्वा सुरया पीतया व्रतं समापयाम इत्यर्थः । ( किञ्च ) सद्यः- कृत्तेभ्य तत्क्षणखण्डितेभ्यः कठोरकण्ठेभ्यः सबलजनदृढगलेभ्यः विगलताम् क्षरताम् जगत्को ईश्वरसे भिन्न तथा अभिन्न देखता हू ॥ १२ ॥ क्षपणक—यह कौन पुरुष कापालिक व्रत धारण किये हुए है ? इससे भी पूछूं । ( समीप जाकर ) अरे कापालिक, नरास्थिमुण्डमालाधारी, कैसा तुम्हारा धर्म तथा कैसा तुम्हारा मोक्ष है ? कापालिक—अरे क्षपणक, हमारा धर्म सुनले— मस्तिष्क, आंत, मज्जा, आदिसे युक्त नरमांसकी वह्निमें आहुति कर ब्रह्मकपालस्थित सुरापानसे पारणा होती है । सद्यः खण्डित कण्ठसे निकलते हुए शोणितकी धार वाली नरबलिसे हम महाभैरवकी आर्चा करते है ॥ १३ ॥

तृतीयोऽङ्कः ११३ भिक्षुः—( कर्णौ पिधाय ) बुद्ध बुद्ध, अहो दारुणा धर्मचर्या । क्षपणकः—अर्हन् अर्हन् , अहो घोरपापकारिणा केनापि विप्रलब्धो वराकः । (अलिहन्त अलिहन्त, अहो घोलपावकारिणा केणावि विप्पलद्धो वलाओ) कापालिकः—( सक्रोधम् ) आः पाप पाखण्डापसद, मुण्डितमुण्ड- चूडाकेश, केशलुञ्चक, अरे, विप्रलम्भकः किल चतुर्दशभुवनोत्पत्तिस्थि- तिप्रलयप्रवर्त्तको वेदान्तप्रसिद्धसिद्धान्तविभवो भगवान्भवानीपतिः। दर्श- यामस्तर्हि धर्मस्यास्य महिमानम् ? कीलालानां रक्तानाम् धाराभिः उज्ज्वलैः प्रकाशितैः पुरुषोपहारबलिभिः नरबलिभिः देवः महाभैरवः कालभैरवः नः अस्माकम् अर्च्यः पूज्यः । महाभैरवस्य पूजायां गल- क्षवद्रक्तनरबलिमुपहारीकुर्म इत्युत्तरार्द्धार्थः। अत्र क्षपणकेन पृष्टस्य कीदृशस्तव धर्मो मोक्षश्च तव कीदृश इति प्रश्नद्वयस्य क्रमशॊ दत्तमुत्तरमिति बोध्यम्। तत्राद्य पाद- द्वयेन प्रथमः प्रश्नः समाहितः, सद्यःकृतेत्यादिना च भैरवोपासनावशात्पाप्तकैलास- वास एव मोक्ष इति च प्रतिपादितं द्वितीयप्रश्नस्योत्तरमिति विवेकः। शार्दूलविक्री- डित वृत्तम् ॥ १३ ॥ बुद्ध बुद्धेति स्वेष्टदेवस्मरणं घृणातिशयव्यञ्जनाय, आस्तिकानां बीभत्सदृश्यदर्शने यथा राम रामेति प्रयोगः, दारुणा-कठोरा, नरबलिदानेन दारुणत्वम् । अर्हन्नर्हन्नित्यपि पूर्ववदेव घृणान्वक्तये । घोरपापकारिणा-अतिपापाचारिणा । विप्रलब्धः-वञ्चितः । वराकः-दयनीयोऽम् । पाखण्डापसद्-नीचपाखण्ड । मुण्डितमुण्डचूडाकेश-कर्त्तितसशिखकचराशे, इदं बौद्धमुद्दिश्य संबोधनम् । केशलुञ्चक-लुञ्चितकच, इदं जैनसंबोधनम् । अरे इति क्रोधे संबोधनम् । चतुर्दशभुवनोत्पत्तिस्थितिप्रलयप्रवर्त्तकः-सकलजगतुत्पादनसत्ता- भङ्गप्रयोजकः । वेदान्तप्रसिद्धसिद्धान्तविभवः-उपनिषदभिमतमतः । भगवान्-सर्व- विधसामर्थ्यशाली । भवानीपतिः-शङ्करः । अस्य धर्मस्य-कापालिकाचारस्य । महि- मानम्-प्रभावम् । भिक्षु—बुद्ध, बुद्ध, अरे बडी भयङ्कर धर्मचर्या है । क्षपणक---अर्हन् , अर्हन् , अहा किसी घोर पापीने इस बेचारे को ठग लिया है । कापालिक---( सक्रोध ) आः पापी पाखण्ड, मुण्डितमस्तक, केश लुञ्चक, अरे वञ्चक, चतुर्दश भुवनके उत्पत्तिस्थितिप्रलयके प्रवर्त्तक वेदान्तप्रसिद्धसिद्धान्त भगवान् शिव धूर्त्त हैं ? दिखाएँ हम इस धर्म की महत्ता ? ८ प्र० च०

११४ प्रबोधचन्द्रोदयम् हरिहरसुरज्येष्ठश्रेष्ठान्सुरानहमाहरे वियति वहतां नक्षत्राणां रुणध्मि गतीरपि । सनगनगरीमम्भःपूर्णां विधाय महीमिमां कलय सकलं भूयस्तोयं क्षणेन पिबामि तत् ॥ १४ ॥ क्षपणकः—अरे कापालिक, अत एव भणामि केनापीन्द्रजालिना मायां दर्शयित्वा विप्रलब्धोऽसीति । (अले कावालिअ, अदो जेव्व भणामि केणावि इन्दजालिणा माअं दंसीअ विप्पलद्धोऽसि त्ति) कापालिकः—आः पाप, पुनरपि परमेश्वरमैन्द्रजालिकमित्याक्षिपसि । तन्न मर्षणीयमस्य दौरात्म्यम् । (खड्गमाकृष्य) तदलमस्य । हरिहरेति० अहम् हरिहरौ विष्णुशिवौ सुराः देवा इन्द्रादयः तेषाम् ज्येष्ठान् वयसाऽधिकान् श्रेष्ठान् प्रभावेणाधिकाँश्च सुरान् देवान् आह्वये आकृष्य नयामि ? अपि वा वियति आकाशे वहताम् चलताम् नक्षत्राणाम् ताराणाम् गतीः गमनानि रुणध्मि वारयामि । सनगनगरीम् पर्वतैः पुरैश्चोपेताम् इमाम् महीम् पृथ्वीम् अम्भः- पूर्णाम् विधाय जलप्लावितां कृत्वा = कलय जानीहि—तत् सकलं तोयम् भूयः पुनः क्षणेन पिबामि । देवानां सकलप्रहमाहरणे व्योमचारितारागणतिरोधे जगतो नगनगरगणयुतस्याम्भसा स्थगने तत्पयसः क्षणेन पुनःपाने च प्रभोर्मम प्रभवतः प्रभावं भावयेति भावः । हरिणीवृत्तम्-तल्लक्षणं यथा—'नसमरसला गः षड्वेदैर्हयै- र्हैरिणी मता' इति ॥ १४ ॥ अत एव—तवेदृशप्रभावदर्शनक्षमत्वादेव । इन्द्रजालिना-मायादर्शननिपुणेनै- न्द्रजालिकेन । मायाम्-इन्द्रजालम् । विप्रलब्धः-वञ्चितः । न मर्षणीयम्-न क्षन्त- व्यम् । दौरात्म्यम्-दुष्टता । हरिहर प्रभृति देवश्रेष्ठोंको मैं बुला सकता हूँ, आकाशचारी नक्षत्रोंकी गति रोक दे सकता हूँ । पर्वत तथा गांवों से पूर्ण इस नगरीको जलपूर्ण बनाकर उस सारे पानीको देखो, मैं तुरत पी जाता हूँ ॥ १४ ॥ क्षपणक—अरे कापालिक, इसीसे तो कहता हूँ कि किसी ऐन्द्रजालिकने माया दिखाकर ठग लिया है । कापालिक—पाप, फिर भी तू परमेश्वरको ऐन्द्रजालिक बताकर उनके ऊपर आक्षेप करता है । अब तुम्हारी दुष्टता नहीं सही जाती है । (तलवार खींचकर) अब इसका—

तृतीयोऽङ्कः ११५ एतत्करालकरवालनिकृत्तकण्ठ- नालोच्छलद्बहुलफेनिलबुद्बुदौघैः । सार्धं डमड्डमरुडांकृतिकूतभूत- वर्गेण भर्गगृहिणीं रुधिरैर्धिनोमि ॥ १५ ॥ ( इति खड्गमुद्यच्छति ) क्षपणकः—( सभयम् ) महाभाग, अहिंसा परमो धर्मोऽस्ति । ( महा- भाअ, अहिंसापलमो धम्मो त्थि ) ( भिक्षोरङ्कं प्रविशति ) : भिक्षुः—( कापालिकं वारयन् ) भो भो महाभाग, कौतुकप्रयुक्तवाक्कल- हेनायुक्तमेतस्मिंस्तपस्विनि प्रहर्तुम् । एतदिति०—एतदिति हस्तधृतखड्गनिर्देशः, एतेन मम हस्तस्थितेन करालेन भीषणेन करवालेन खड्गेन निकृत्तम् खण्डितं यत्कण्ठनालम् गलधमनी ततः उच्च- लद्भिः ऊर्ध्वप्रवाहिभिः बहुलैः भूरिभिः फेनिलबुद्बुदौघैः वेगप्रवृत्ततया फेनयुक्त- बुद्बुदसमुदयैः रुधिरैः ( करणभूतैः ) डमड्डमरुडांकृतिभिः शब्दायमानडमरुशब्दैः आहूतः आकारितः यः भूतानाम् प्रेतानाम् वर्गः गणः तेन सार्धम् सह भर्गगृहिणीम् शिवाम् धिनोमि तर्पयामि । अनेन भीषणेन कृपाणेन तव शिरसि मया छिद्यमाने त्वत्कण्ठनालात् प्रवृत्तानि यानि सबुद्बुदफेनिलरुधिराणि तैः डमरुनादाहूतभूतसह- चरीं शिवां तर्पयामीत्यर्थः । वसन्ततिलकं वृत्तम् ॥ १५ ॥ उद्यच्छति-प्रहर्तुमुत्थापयति । अहिंसापरमो धर्मोऽस्ति, तेन मा मां हिंसीरिति निवेदनं फलितम् । भिक्षोः-बौद्धतपस्विनः । कापालिकं वारयन्-खड्गनिपातनादवरुन्धन् । कौतुकप्रयुक्तवाक्कलहेन-कुतूहल- प्रवर्त्तितकथोपकथनेन । एतस्मिन्-जैनसाधौ । प्रहर्तुम्-प्रहारं कर्तुम् । इस तलवारसे कण्ठ काटकर कण्ठनालसे निकलते हुए फेनिल बुलबुलोंके समुदायसे डमरुशब्दाहूत भूतगणके साथ शिवभामिनीको तर्पित करता हूँ ॥ १५ ॥ ( तलवार उठाता है ) क्षपणक—(भयपूर्वक) महाभाग, अहिंसा परम धर्म है । ( भिक्षुकी गोदमें पैठ जाता है ) भिक्षु—( कापालिकको रोकता हुआ ) अजी महाशय, कौतुकप्रयुक्त बातचीतके कारण इस तपस्विजनपर प्रहार करना अनुचित है ।

११६ प्रबोधचन्द्रोदयम् कापालिकः- ( खड्गं प्रतिसंहरति ) क्षपणकः- ( समाश्वस्य ) महाभागो यदि संहृतघोररोषावेशः संवृत्त- स्ततोऽहं किमपि प्रष्टुमिच्छामि । (महाभाओ जदि संहलिदघोललोसावेसो संवृत्तो तदो अहं किंपि पुच्छिदुमिच्छेमि ) कापालिकः-पृच्छ । क्षपणकः-श्रुतो युष्माकं परमो धर्मः । अथ कीदृशः सौख्यमोक्षः । ( सुदो तुम्हाणं परमो धम्मो । अध केदिसो सोक्खमोक्खो ) कापालिकः-शृणु- दृष्टं कापि सुखं विना न विषयैरानन्दबोधोज्झिता जीवस्य स्थितिरैव मुक्तिरुपलावस्था कथं प्रार्थ्यते । प्रतिसंहरति-नियच्छति । संहृतघोररोषावेशः-नियन्त्रितभयानककोपावेगः । सौख्यमोक्षः-आनन्दस्वरूपा मुक्तिः । दृष्टं कापीति० क्वापि कुत्रापि विषयैः स्रक्चन्दनवनितादिभिः विना अन्तरेणं सुखम् आनन्दः न दृष्टम् कारणस्यासत्त्वे कार्याभावस्य स्वाभाविकतयाऽऽनन्दकारण- त्वेनाभिमतानां स्रक्चन्दनादीनामभावे सुखमशक्यसम्भावमिति भावः । ननु मोक्षो नानन्दरूपः किन्तु दुःखाभावरूप एव मोक्षः समागतो नैयायिकैस्तत्राह- उपलावस्था प्रस्तरभावेनावस्थानं जीवस्य स्थितिरैव ( मोक्षः ) सा कथं प्रार्थ्यते केन प्रकारेण पुमर्थो भवति, चेतनस्याचेतनत्वापत्तिर्हानिरेव न लाभ इति तादृश्या मुक्तेरप्रार्थनीयत्वमिति भावः । उपहसितोऽयं मोक्षो नैषधीये श्रीहर्षेण-'मुक्तये यः शिलात्वाय शास्त्रमूचे सचेतसाम् । गौतमं तमवेक्ष्यैव यथावित्थ तथैव सः' इति । कापालिक- (तलवारको समेटता है ) क्षपणक- ( आश्वस्त होकर ) यदि आप रोषके वेगको रोक चुके हों तो मैं कुछ पूछना चाहता हूँ। कापालिक-पूछो । क्षपणक-आपके परम धर्मके विषयमें तो सुन लिया, सौख्यमोक्ष आपका कैसा है ? कापालिक-सुनो- विषयोंके बिना आनन्द नहीं प्राप्त होता है और शिलाभावरूप मोक्ष जीव क्यों

तृतीयोऽङ्कः ११७ पार्वत्याः प्रतिरूपया दयितया सानन्दमालिङ्गितो मुक्तः क्रीडति चन्द्रचूडवपुरित्यूचे मृडानीपतिः ॥ १६ ॥ भिक्षुः—महाभाग, अश्रद्धेयमेतदर्वीतरागस्य मुक्तिरिति । क्षपणकः—अरे कापालिक, यदि न कुप्यसि तर्हि भणामि । शरीरी सरागी मुक्त इति विरुद्धम् । ( अले कावालित्र, जइ ण कुप्पसि तदो भणामि । सलीलो सलागी मुक्केति विरुद्धम् ) कापालिकः—( स्वगतम् ) अये, अश्रद्धादूषितमनयोरन्तःकरणम् । भव- त्वेवं तावत् । ( प्रकाशम् ) श्रद्धे, इतस्तावत् । ( ततः प्रविशति कापालिकीरूपधारिणी श्रद्धा ) तन्मवेवं कीदृशो मोक्षस्तवभिमत इति चेत्तत्राह—पार्वत्याः हरभार्याया गौर्याः प्रति- रूपया मूर्त्या पार्वतीभावं प्राप्तया दयितया स्वभार्यया सानन्दम् मद्यादिसेवनोत्से- जनया सहर्षम् आलिङ्गितः आश्लिष्टतनुः मुक्तः पाशापगमेन बन्धरहितः चन्द्रचूड- वपुः शिवाभिन्नः साधकः क्रीडति विहरति इति मृडानीपतिः शिव ऊचे उक्तवान् । कौलागमानुसारं साधकः शिवरूपस्तद्भार्या पार्वतीरूपा, तयाऽऽलिङ्गितस्य विधुवन- विहारजन्माऽऽनन्दधुरेव मोक्ष इति शिवोक्तिरिति तात्पर्यम् । शार्दूलविक्रीडितमेव वृत्तम् ॥ १६ ॥ अर्वीतरागस्य रागयुक्तस्य । रागापगमे एव मुक्तिर्जायते, यदि जायातारागः स्थित एव तदा न मुक्तिसम्भव इति । शरीरी सरागी-देहसम्बन्धवान्, रागयुक्तश्च । अश्रद्धाऽऽक्षिप्तम्-अविश्वासोपहतम् । एतेऽविश्वासोपहता अत एव चेमे मोक्ष- तत्त्वबोद्धुमशक्ता इति भावः । भवत्वेवं तावत्-यथाऽमीषां श्रद्धा स्यात्तथा यत्नः क्रियतामित्यर्थः । चाहेगा ? अतः पार्वतीके प्रतिरूपमे अवस्थित अपनी प्रियतमासे आलिङ्गित होकर शिव- स्वरूप जीव मुक्त हो क्रीडा करता है यह शिवने कहा है ॥ १६ ॥ भिक्षु—इस बात पर श्रद्धा नही हो रही है कि विना विरागके ही मुक्ति होती है । क्षपणक—अरे कपालिक, यदि क्रोध न करो तो पूछता हू कि शरीरी और रागवान् मुक्त होता है यह विरुद्ध है । कापालिक—( स्वगत ) अरे, इन दोनोंका हृदय अश्रद्धासे भरा है । अच्छा रहे । प्रकाश ) श्रद्धे, इधर तो आओ । ( कापालिकीरूपमे श्रद्धाका प्रवेश )