प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
षष्ठोऽङ्कः २३६ मोहान्धकारमवधूय विकल्पनिद्रा- मुन्मथ्य कोऽप्यजनि बोधतुषाररश्मिः । श्रद्धाविवेकमतिशान्तिमयादिकेन विश्वात्मकः स्फुरति विष्णुरहं स एषः ॥ ३० ॥ र्वथा कृतकृत्योऽस्मि भगवत्या विष्णुभक्तेः प्रसादात् । सोऽह- म्— सङ्गं न केनचिदुपैत्य किमप्यपृच्छन् गच्छन्नतर्कितफलं विदिशं दिशं वा । शान्तो व्यपेतभयशोक्कपायमोहः स्वायंभुवो मुनिरहं भवितास्मि सद्यः ॥ ३१ ॥ ब्राह्मोऽथः प्रातः क्षणो मतः' इत्युक्त्या प्रभातपदं बोधपरम् । न्धकारमिति० मोहोऽज्ञानमेवान्धकारस्तमिस्रं तमवधूय समाप्य विकल्प- भ्रमकालरात्रिम् उन्मथ्य सर्वात्मना विनाश-श्रद्धा गुरुवेदवाक्ययोर्विश्वासः, तेर्नित्यानित्यवस्तुविवेचना, शान्तिरौदासीन्यम्, यमश्चित्तवृत्तिनिरोधस्त- तत्प्रभृतिपरिवारेण ( सह ) कोऽपि विलक्षणः बोधतुषाररश्मिः ज्ञानचन्द्रः जातः, ( सम्प्रति ) यः विश्वात्मकः सर्वात्मकः विष्णुः व्यापकः परः स्फुरति । ज्ञाने जाते परामिष्ठोऽस्मि संवृत्त इत्यर्थः ॥ ३० ॥ न केनचिदिति० न केनचित्सङ्गमुपेत्य असङ्गसन् किमपि अपृच्छन् अजिज्ञा- अतर्कितफलम् निरुद्देश्यभावेन दिशं प्राच्यादिकं विदिशम् आग्नेय्यादिं न् उपसर्पन् शान्त उदासीनः व्यपेताः गलिताः—भयं भीतिः, शोको रुषायः रागद्वेषादिकालुष्यम्, मोहः अज्ञानम् यस्य तादृशः सद्यः स्वाय- यमुक्तः मुनिः निदिध्यासनवान्, अहं भवितास्मि भवामीत्यर्थः ॥ ३१ ॥ रूप अन्धकारको दूर कर और विकल्पनिद्राको मथित कर बोधरूप चन्द्रका हुआ है। श्रद्धा, विवेक, मति, शान्ति और यम आदिके साथ जो विश्वात्मक विष्णु है वह यही है ॥ ३० ॥ ती विष्णुभक्तिके प्रसादसे मै सर्वथा कृतार्थ हो गया । मै अब— होकर कुछ भी बिना पूछे निरुद्देश्य भावसे दिशा-विदिशाओंमे गमन करता तथा विगत शोक मोह होकर मै अब स्वायम्भुव मुनि होने जारहा हूँ ॥ ३१ ॥
२४० प्रबोधचन्द्रोदयम् (ततः प्रविशति विष्णुभक्तिः) विष्णुभक्तिः—(सहर्षमुपसृत्य) चिरेण खल्वस्माकं संपन्नाः सर्वे मनोरथाः। येन प्रशान्तारातिं भवन्तमवलोकयामि। पुरुषः—देव्या विष्णुभक्तेः प्रसादात्किं नाम दुष्करम्। (इति पादयोः पतति) विष्णुभक्तिः—(पुरुषमुत्थापयति) उत्तिष्ठ वत्स किं ते भूयः प्रियमुप- करोमि। पुरुषः—अतः परमपि किं प्रियमस्ति। यतः— प्रशान्तारातिरगमद्विवेकः कृतकृत्यताम्। नीरजस्के सदानन्दे पदे चाहं निवेशितः ॥ ३२ ॥ तथाप्येतदस्तु—(भरतवाक्यम्) सम्पन्रा:-पूर्णाः। मनोरथाः-अभिलाषाः। प्रशान्तारातिम्-विनष्टशत्रुम्, शत्रु- श्चात्र मोह एव बोध्यः। प्रशान्तारातिरिति० प्रशान्तो विगलितः मोहरूपोऽरातिः शत्रुर्यस्य तादृशः विवेकः मम सुहृत् कृतकृत्यताम् कृतार्थताम् अगमत् प्राप्तः, अहं पुरुषश्च नीरजस्के विगत- मले नित्यशुद्धे सदानन्दे नित्ये आनन्दरूपे च पदे ब्रह्मात्मतारूपे निवेशितः प्रतिष्ठा- पितः। भगवत्या विष्णुभक्त्या मन्मित्रे विवेके कृतकृत्यतां नीते मयि च सदानन्दरू- पेणावस्थापिते भगवत्याः कर्त्तव्यमात्मनः प्रियान्तरं नावगच्छामीति प्रसङ्गार्थः ॥३२॥ (विष्णुभक्तिका प्रवेश) विष्णुभक्ति—(सहर्ष समीप आकर) चिरकाल पर हमारे सभी मनोरथ पूरे हुए हैं जो प्रशान्तरिपुरूपमे आपको देखती हूं। पुरुष—देवी विष्णुभक्तिकी कृपासे दुष्कर क्या है ? (चरणों पर गिरता है) विष्णुभक्ति—(पुरुषको उठाती है) उठो वत्स, और तुम्हारा क्या प्रिय करूं। पुरुष—इससे प्रिय क्या हो सकता है। क्योंकि— विवेकके शत्रु मारे गये, वह कृतकृत्य हो गया और मै निर्मल सदानन्द पदपर प्रतिष्ठित हुआ ॥ ३२ ॥ तथापि यह हो, (भरतवाक्य)
पर्जन्योऽस्मिन् जगति महतीं वृष्टिमिष्टां विधत्तां राजानः क्ष्मा गलितविविधोपप्लवाः पालयन्तु । हृत्वोन्मेषोपहततमसस्त्वत्प्रसादान्महान्तः संसारान्धिं विषयममतातङ्कपङ्कं तरन्तु ॥ ३३ ॥ ( इति निष्क्रान्ताः सर्वे ) इति श्रीकृष्णमिश्रविरचिते प्रबोधचन्द्रोदयनाम्नि नाटके जीवन्मुक्तिर्नाम षष्ठोऽङ्कः ॥ ६ ॥ समाप्तमिदं नाटकम् । फलप्राप्तिरूपं निर्वहणसन्धेरङ्गमत्रोपन्यस्तं वेदितव्यम् । पर्जन्य ०इति० अस्मिन् जगति संसारे पर्जन्यः मेघः महतीम् यावदपेक्षिताम् इष्टां यथाकालोपनताम् वृष्टिम् जलवर्षं विधत्ताम् करोतु, गलितविविधोपप्लवाः शान्तोपद्रवा ईत्याद्युपद्रवरहिता। राजानः भूपालाः क्ष्माम् पृथिवीं पालयन्तु रक्षन्तु । महान्तः महाजनाः उन्मेषोपहततमसः स्वोदयविनष्टाज्ञानान्धकारात् त्वत्प्रसादात् तव विष्णुभक्तेरनुग्रहात् विषयममतातङ्कपङ्कम् सांसारिकविषयरूपस्त्रीपुत्रादिममत्व- कृतनानाविधशङ्काकर्दमम् हत्वा निरस्य संसारान्धिं भवसागरं तरन्तु पारं गच्छन्तु । संसारस्य सागरत्वेन रूपणे क्रियमाणे स्त्रीपुत्रादिविषयकनानाविधशङ्कायाः पङ्कत्वं रूप्यते । स्पष्टमन्यत् ॥ ३३ ॥ अत्राशीर्नाम नाट्याङ्गम् । यो जातो धरणीसुरान्वयसरोहंसात्प्रसर्पद्यशो- ज्योत्स्नाद्योतितदिङ्मुखान्मधुरिपुध्यानैकबद्ध्याशयात् । मिश्राख्यान्मधुसूदनादुजयमणौ सीमन्तिनीनां मणौ तस्य श्रीयुतरामचन्द्रसुधियो व्याख्या प्रसिध्यादियम् ॥ १ ॥ मेघ इस धराधाम पर यथेच्छ वृष्टि किया करे, नाना प्रकारके उपद्रवोंसे रहित होकर राजागण पृथ्वीका पालन करें, तुम्हारे प्रसादसे महान् जन तत्क्षण अज्ञानको दूरकर विषयरूप ममतापङ्कपूर्ण संसारसागरका पार जायें ॥ २२ ॥ ( सबका प्रस्थान ) षष्ठ अङ्क समाप्त १६ प्र० च०
२४२ प्रबोधचन्द्रोदयम् क्षीणीचन्द्रखबाहुसम्मितशरच्छाशातिथौ फाल्गुने चन्द्रे पुष्यति देवपूज्यदिवसे श्रीशारदानुग्रहात् । रांचीस्थायिनि राज्यसंस्कृतमहाविद्यालये पूर्णता- मानीतेयमुमामहेश्वरपदाम्भोजेषु विश्राम्यतु ॥ २ ॥ 'विद्वांसो वसुधातले परवचःश्लाघासु वाचंयमा'- उक्त्वैतद्विसुखीभवामि न मनागालोचनावर्त्मनः । ते हि स्वर्णपरीक्षणैकनिकषा निष्पक्षपातां दशां प्रक्षिप्यात्मगुणोचितादरभुवं कुर्युर्ममेमां कृतिम् ॥ ३ ॥ छिद्रान्वेषणमात्रसज्जधिषणानप्यत्र दोषान्वहून् ग्रन्थे दर्शयतो न मत्सरितया निन्दामि किन्त्वर्थये ॥ निर्दोषेण पथा प्रशस्तरचनां निर्माय काञ्चित्कृतिं लोकेभ्यः समुपाहरन्तु भविता भूयो यशोऽनेन वः ॥ ४ ॥ मान्यान्यानहमाद्रिये नतशिरास्ते ते सखायश्च मे येषामाग्रहातो विदन्नपि निशां शक्ति प्रवृत्तोऽभवम् ॥ व्याख्यानेऽत्र न तैरियं मम कृतिः कार्याऽन्यथा दृक्पदं सर्वानिन्दितकीर्तिलाभसुभगं भाग्यं कुतोऽस्मादृशाम् ॥ ५ ॥ इति मुजफ्फरपुरमण्डलान्तःपाति-'एकड़ी'ग्रामवासिना-रांचीस्थराजकीय- संस्कृतमहाविद्यालये साहित्याध्यापकेन व्याकरणवेदान्तसाहित्या- चार्योपाधिप्रसाधिना मैथिलपण्डित श्रीरामचन्द्रमिश्रशर्मणा विरचितायां 'प्रवोधचन्द्रोदय'नाटकस्य टीकायां प्रकाशाभिधायां षष्ठाङ्क'प्रकाशः' । शुभमस्तु ।
नोट्स ( विशेष विवरण ) १ शान्तरसप्रयोगाभिनयेन इसका अर्थ यह हुआ कि शान्तरसप्रधान नाटकके अभिनयसे । यहाँ विचार करना है कि शान्तरसवाला नाटक या रूपकसामान्य तो रीतिशास्त्रविरुद्ध है फिर नाटकको यहाँ शान्तरस यह विशेषण क्यों दिया ? ‘एक एव भवेदङ्गी शृङ्गारो वीर एव वा’ इस वचनके अनुसार नाटकादिमें तदितररसप्राधान्य अयुक्त है, अत एव काव्यप्रकाशकारने — ‘शृङ्गार- हास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः’ यह लिख दिया है । शान्तिका अभिनय उपहासास्पदसा प्रतीत होता है इसीलिये सर्ववादियोंने शान्तरसको अभिनयानुपयुक्त मान लिया है । यहां ध्यान देने योग्य बात यह है कि क्यो शान्त रस नाटकानुपयुक्त है, केवल उपहास सा लगता है यह बात तो वीर रसके सम्बन्धमे भी कही जासकती है । मेरा अनुमान है कि रीति ग्रन्थ बनानेवालोंने देखाकि प्राचीन प्रसिद्ध कृतियोंमें शान्तरस प्रधाननाटकका अभावसा है अतः उन्होनें नाटकमे शान्तरस प्रयोग को अयुक्त करार दिया, वस्तुतः यह तर्कहीन नियम है। अत एव परवर्त्ती कवियोंने नाटकोंमें भी शान्तरस का प्रयोग किया और वह सफल हुए । ‘जीवानन्दम्’ ‘विद्यापरिणयनम्’ ‘अमृतो- दयम्’ ‘चैतन्यचन्द्रोदयम्’ इत्यादिमें सर्वत्र शान्तरसका अच्छा निर्वाह हुआ है और इन ग्रन्थोंके किसी भागमें सहृदय हृदयोद्वेजक कोई स्थल नहीं है फिर लकीर पीटते चलनेकी बात क्यों कर मानी जाये । अतएव इस ग्रन्थमे भी शान्तरस प्रधान रखा गया । २ अहल्यायै जारः सुरपतिरभूत् गौतम की स्त्रीका नाम अहल्या था, इन्द्रने उसका सतीत्व भङ्ग किया, यह पौराणिक कथा है । कुछ लोग यहां अहल्या शब्दको रात्रिपरक माना है और अपने पक्षकी पुष्टिके लिये अहनि लीयते या साऽहल्या यह व्युत्पत्ति की है, तदनुसार ही इन्द्र शब्दका भी सूर्य अर्थ किया है और इस पौराणिक आख्यानको दुनियासे उठाकर आकाशमें फेंक दिया है । स्वारसिक अर्थ तो गौतम की स्त्री पक्षमें ही है, यहां भी उसी अर्थसे वक्तव्यकी पुष्टि सम्भव है ।
२४४ प्रबोधचन्द्रोदयम् ३ आत्मतनयां प्रजानाथोऽयासीत् ब्रह्मा ने अपनी कन्या शतरूपा के साथ मैथुन का प्रयास किया। ब्रह्मवैवर्त्त में यह कथा आई है, दण्डी कविने भी दशकुमारमे इस कथाका उल्लेख किया है, पुष्पदन्त- कृत महिम्नः स्तोत्रमें भी इसकी चर्चा है—‘प्रजानाथं नाथ, प्रसभमभिकं स्वां दुहितरं गतं रोहिद्भूतां रिरमयिषुमृष्यस्य वपुषा’ ४ अधीराक्ष्याः यहाँ पर यद्यपि अधीराक्षी पद विशेषणमात्र वाचक सा प्रतीत होता है तथापि प्राची- नाचार्य कृत व्यवहारोंके आधार पर उसे विशेष्यपरक मानकर स्त्रियाः यह अर्थ किया जाता है। अत एव वामनने भी लिखा है—‘विशेषणमात्रप्रयोगो विशेष्यप्रतिपत्तौ’॥ इसी नियमके आधारपर कवियोंने विशेष्यप्रत्यायनेच्छया विशेषणमात्रप्रयोग किये हैं— देखिये, रघुवंशमें कालिदासने लिखा है—‘निधानगर्भामिव सागराम्बराम्’ एवं सूर्यशतकमें मयूरभट्टने लिखा है—‘जम्भारातीभकुम्भोद्भवमिव दधतः सान्द्रसिन्दूर- रेणुम्’ इत्यादि । ५ ‘गौडं राष्ट्रमनुत्तमं निरुपमा तत्रापि राढापुरी’ यहाँ गौडपदसे वङ्गदेशका ग्रहण होगा, क्योकि वहाँके लिये गौडशब्दका प्रयोग अन्यत्र भी हुआ है। गौडीय माध्वमठ इत्यादिमें भी गौडशब्द वङ्गका ही वाचक है, राढा भी वहीं प्रसिद्ध है। आज भी राढी कायस्थ और राढी ब्राह्मण अपनेको समाजमें श्रेष्ठ गिनते हैं। ६ ‘कथयति भगवानिष्टान्तकाले तारकम्’ यहाँ वाराणसीमें भगवान संसारसे भीतजनको तारकमन्त्रका उपदेश देते हैं। भगवान् शब्दकी व्युत्पत्ति जो भी हो किन्तु यहाँ उसका साभिप्राय प्रयोग किया गया है, उस अभिप्रायका द्योतक वचन अथर्वशिर नामक उपनिषद्में आया है—‘अथ कस्मादुच्यते भगवानीति, यस्मादुच्चार्यमाण एको रुद्रो भवं निहत्य योगं ददाति तस्मादुच्यते भगवानीति’। इस मन्त्रकी व्याख्या इस प्रकार की जाती है—भशब्देन भवः, गशब्देन योगः, एवञ्च सति भगौ हेयत्वेन देयत्वेन यस्य स्तः स भगवान्’ भवं निहत्य योगं ददाति स भगवानित्युच्यते। तारकं तरणहेतुत्व, यह अन्वर्थ संज्ञा है। अथर्व श्रुतिमें लिखा है:— ‘मुमूर्षोर्दक्षिणे कर्णे यस्य कस्यापि वा स्वयम् । उपदेक्ष्यति तं मन्त्रं स मुक्तो भविता शिवः ॥ ७ विश्रमावती इस शब्दमें दीर्घ कैसे हुआ यह एक प्रश्न है सामान्यतः धनवती पुत्रवतीकी तरह विश्रमवती यही प्रयोग होना चाहिये । यदि विश्रमावतीको शुद्ध ही बनाना हो तो ‘मतो
बहुचोऽनजिरादीनाम्' से दीर्घ करके शुद्ध बनाले सकते हैं। रह गया गणपाठकी बात, उसकी व्यवस्था लक्ष्यानुसार होगी। ८ 'नवद्वारपुरीमध्ये आत्मा दीप इव ज्वलति दिगम्बरजैनके सिद्धान्तानुसार अङ्गुष्ठपरिमाण आत्मा हृत्पुण्डरीककोशमें दीपकी तरह जला करती है, गृहाभ्यन्तर दीपप्रभा जैसे सम्पूर्ण गृहको उद्भासित करती है उसी तरह आत्मचैतन्य सम्पूर्ण शरीरमें ज्ञानप्रवृत्त्यादि किया करता है। नवद्वार कहनेसे इन्द्रियोंको द्वार कहा है, इन्हींमेसे किसीके द्वारा प्राणनिर्गमके कारण इन्हें द्वार माना गया है—उनके यहाँ मोक्ष इस तरह वर्णित है— 'पञ्जरस्थः शुको यद्वद् विमुक्तो बन्धनाद् व्रजेत् । त्वरितं तद्वदेवात्मा विमुक्तश्चोर्ध्वगो भवेत् ॥' ९ 'सर्वे क्षणक्षयिण एव निरात्मकाश्च' बौद्धोंके अनुसार सभी पदार्थ क्षणस्थायी तथा ज्ञानस्वरूप हैं, ज्ञानस्वरूप होनेसे उन्हें निरात्मक स्वरूपेणासत् कहा है, धर्मकीर्त्तिने कहा है—'स्वाभाविकमेव संविदः स्वप्रका- शत्वं विषयास्तन्न विश्वक्प्रकाशन्ते' इति । किसी और आचार्यने भी कहा है— 'यत्तत्सत्क्षणिकं यथा जलधरः सन्तश्च भावा अमी' इति । विवेक विलासमें भी इसपर कहा है—'क्षणिकाः सर्वसंस्कारा इति या वासना स्थिरा' इति । १० 'लोकद्वयविरुद्धार्हतमतात्' आर्हतमतलोकद्वय विरुद्ध है, इहलोकविरुद्ध इस लिये कहा कि वह साक्षात् पिशाच हो जाता है, केशोल्लुञ्चन, शरीरासंस्कार, आदि पिशाच कार्य ही तो है । परलोक भी इनका ठीक नहीं है क्योंकि सततोर्ध्वगमनलक्षण परलोक क्लेशावह ही है। इनके मतका संक्षिप्त वर्णन इस प्रकार है—जीवोऽजीवश्चेति द्वौ पदार्थों, जीवश्चेतनः शरीरपरिमाणः सावयवः, अत्र जीवः षड्विधः—अभ्रभूभूधरादिरेकः, आस्रवसंवरनिर्जरबन्धमोक्षाख्याः पञ्च। १ 'आस्रवत्यनेन जीवो विषयेष्विति आस्रवः इन्द्रियसङ्घातः' । २. 'संवृणोति विवेकमित्यविवेकादिः संवरः' । ३. निःशेषेण जीर्यत्यनेन कामक्रोधादिः स निर्जरः, केशोल्लुञ्चनतप्तशिलाधिरोहणादिः । ४. कर्मष्टकेन जन्मपरम्परा बन्धः। ५ कर्मष्टकं तु-चत्वारि घातिकर्माणि, चत्वारि शुभानि, तेभ्यो विनिर्गतस्य जीवस्य सततोर्ध्व- गमनं मोक्षः' ११ सोमसिद्धान्तः उमया सहितः सोमः, सोमो यथा पार्वत्या सह कैलासे मोदते तद्वत् भक्तः पार्वतीत्तुल्यया कान्त्या सहितः ईश्वरवेषधारी मोदत इति चन्द्रिका टीका ।
२४६ प्रबोधचन्द्रोदय १२ मैत्रीकरुणा मुदिता उपेक्षा मैत्री, करुणा, मुदिता और उपेक्षा नामकी चार वृत्तियाँ मानी जाती हैं । पुण्यकृत्सु मैत्री, दुःखिषु करुणा, सुखिषु मुदिता, पापिषु उपेक्षा । इनके द्वारा चित्तकी शुद्धि मलनिवृत्ति होती है । १३ मधुमती मधुमती नाम—अभ्यासवैराग्यादिवशादपास्तरजस्तमोलेशसुखप्रकाशमयभाव- नयाऽनवद्य वैशारद्यविद्योतनरूपऋतंभरप्रज्ञाख्या समाधिसिद्धिः । १४ 'तीर्णाः क्लेशमहोर्मयः' अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः, तत्रानित्येषु नित्यत्वाभिमानः, अनात्मनि च देहेन्द्रियादावात्मधीरविद्या । अस्मिता अहङ्कारः । रागोऽभिमतविषया- भिलापः । द्वेषोऽनभिमितेषु रोषः । अनभिनिवेशः कार्याकार्येष्वाग्रहः । ते हि पुरुषं क्लिश्नन्तीति क्लेशा इत्युच्यन्ते । १५ 'क्रिया भवच्छेदकरी न वस्तुधीः' 'भवस्य संसारस्य उच्छेदकरी क्रिया एव न वस्तु स्वरूपज्ञानम्' यही इसका भाव है । श्रुतशाखाका एक सूत्र है—'पञ्चहोतारं चाग्नीध्रे जुहुयात्स्वर्गकामः' इस सूत्रकी व्याख्या इस प्रकार की जाती है—'यः स्वर्गकामः स्यात् स पञ्चहोतारं पुरा प्रातरनुवा- कादाग्नीध्रं जुहुयादिति, स्वर्गशब्दस्यापरिमितनिःश्रेयसवाचकत्वान्मोक्षार्थता' इति । किञ्च -'स्वर्गकामो दर्शपूर्णमासाभ्याम्' इत्यादि स्थलमें भी स्वर्गशब्द अपरिमित निःश्रेयसरूप मोक्षवाचक माना जाता है । किञ्च जीवन्मुक्तिः कैवल्यमुक्तिरपि कर्मसा- ध्यैव । तथा च श्रूयते—'अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवति' ।
सुभाषितानि
'प्रभवति मनसि विवेको विदुषामपि शास्त्रसंभवस्तावत् । निपतन्ति दृष्टिविशिखा यावन्नेन्दीवराक्षीणाम्' ॥ 'एकाभिषप्रभवमेव सहोदराणामुज्जृम्भते जगति वैरमिति प्रसिद्धम् ।' 'गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः । उत्पथप्रतिपन्नस्य परित्यागो विधीयते' ॥ 'सैर्ष्यं प्रायेण योषितां भवति हृदयम्' । 'मूर्खबहुलं जगत्' । 'ब्रीहीञ्जिहासति सितोत्तमतण्डुलाढ्यान् । को नाम भोस्तुषकणोपहितान् हितार्थी' ॥ 'लघीयस्यपि रिपौ नानवहितेन जिगीषुणा भवितव्यम्' । 'अमुष्य संसारतरोरबोधमूलस्य नोन्मूलविनाशनाय । विश्वेश्वराराधनवीजजातात्तत्त्वावबोधादपरोभ्युपायः' ॥ 'प्रायः सुकृतिनामर्थेदेवा यान्ति सहायताम् । अपन्थानं तु गच्छन्त सोदरोऽपि विमुञ्चति'॥ 'निर्दहति कुलमशेषं ज्ञातीनां वैरसंभवः क्रोधः' । 'यद्यप्यभ्युदयः प्रायः प्रमाणादवधार्यते । कामं तथाऽपि सुहृदामनिष्टाशङ्किमानसम्' ॥ 'समानान्वयजातानां परस्परविरोधिनाम् । परैः प्रत्यभिभूतानां प्रसूते सङ्गतिः श्रियम्' ॥
प्रबोधचन्द्रोदयगतानि छन्दांसि
१. अनुष्टुप्— श्लोके षष्ठं गुरुर्ज्ञेयं सर्वत्र लघु पञ्चमम् । द्विचतुःपादयोर्ह्रस्वं सप्तमं दीर्घमन्ययोः' ॥ २. आर्या—'यस्याः पादे प्रथमे द्वादशमात्रास्तथा तृतीयेऽपि । अष्टादश द्वितीये चतुर्थके पञ्चदश सार्या' ॥ ३. इन्द्रवज्रा । ४. उपेन्द्रवज्रा । ५. उपजाति । 'स्यादिन्द्रवज्रा यदि तौ जगौ गः' 'उपेन्द्रवज्रा जतजास्ततो गौ' 'अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः' ६. पृथ्वी—'जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः' । ७. मन्दाक्रान्ता—'मन्दाक्रान्ता जलधिषडगै म्भौ नतौ ताद्गुरू चेत्' ८. शालिनी—'मात्तौ गौ चेच्छालिनी वेदलोकैः' । ९. वंशस्थम्—'जतौ तु वंशस्थमुदीरितं जरौ' १०. वसन्ततिलका—'उक्तावसन्ततिलका तभजा जगौ गः' ११. शार्दूलविक्रीडितम्—'सूर्याश्वैर्यदि मः सजौ सततगाः शार्दूलविक्रीडितम्' ॥ १२. शिखरिणी—'रसैरुद्रैश्छिन्ना यमनसभला गः शिखरिणी' ॥
नाटकीया विषया स्वगतम् ( आत्मगतम् ) 'अश्राव्यं खलु यद्वस्तु तदिह स्वगतं मतम्' । प्रकाशम्— 'सर्वश्राव्यं प्रकाशं स्यात्' अपवार्य्य— '...तद्भवेदपवारितम्' । रहस्यं तु यदन्यस्य परावृत्य प्रकाश्यते । त्रिपताककरेणान्यानपवार्यान्तराकथाम्' जनान्तिकम्— 'अन्योऽन्यामन्त्रणं यत्स्याज्जनान्ते तज्जनान्तिकम्' ॥ नेपथ्यम्— 'नटानां वेषपरिग्रहस्थानम्' नाटकम्— 'नाटकं ख्यातवृत्तं स्यात्पञ्चसन्धिसुसंयुतम् । प्रख्यातवंशो राजर्षिर्धीरोदात्तः प्रतापवान् । दिव्योऽथ दिव्यादिव्यो वा गुणवान्नायको मतः एक एव भवेदङ्गी शृङ्गारो वीर एव वा' अङ्गमन्ये रसाः सर्वे कार्ये निर्वहणेऽद्भुतः' [ लक्षणमिदमत्रग्रन्थे न समन्वेति, तथापि नाटकशब्देन प्राचीनैर्व्यवहृतोऽयं ग्रन्थः अङ्कः— 'प्रत्यक्षनेतृचरितो रसभावसमुज्ज्वलः । भवेदगूढशब्दार्थःक्षुद्रचूर्णकसंयुत नानेकदिननिर्वर्त्य कथया संप्रयोजितः । आवश्यकानां कार्याणामविरोधाद्विनिर्मितः । प्रत्यक्षचित्रचरितैर्युक्तो भावरसोद्भवैः । अन्तर्निष्क्रान्तनिखिलपात्रोऽङ्क इति कीर्त्तितः' नान्दी— आशीर्वचनसंयुक्तास्तुतिर्यस्मात् प्रयुज्यते । देवद्विजनृपादीनां तस्मान्नान्दीतिसंज्ञिता मङ्गल्यशङ्खचन्द्राब्जकोककैरवशंंसिनी । पदैर्युक्ता द्वादशभिरष्टाभिर्वा पदैरुत' ॥ सूत्रधारः— 'नाट्योपकरणादीनि सूत्रमित्यभिधीयते । सूत्रं धारयते यस्तु सूत्रधारः स कथ्यते' ॥ प्रस्तावना— 'नटी विदूषको वापि पारिपार्श्वक एव वा । सूत्रधारेण सहिताः संलापं यत्र कुर्वते ॥ चित्रैर्वाक्यैः स्वकार्योत्थैः प्रस्तुताक्षेपिभिर्मिथः । आमुखं तत्तु विज्ञेयं नाम्ना प्रस्तावनाऽपि सा' ॥ विष्कम्भकः— 'वृत्तवर्त्तिष्यमाणानां कथांशानां निदर्शकः । संक्षिप्तार्थस्तु विष्कम्भ आदावङ्कस्य दर्शितः ॥ प्रवेशकः— 'प्रवेशकोऽनुदात्तोक्त्या नीचपात्रप्रयोजितः । अङ्कद्वयान्तर्विज्ञेयः शेषं विष्कम्भके यथा' ॥
परिशिष्ट २४९ नायकः—‘त्यागी कृती कुलीनः सुश्रीको रूपयौवनोत्साही । दक्षोऽनुरक्तलोकस्तेजो वैदग्ध्यशीलवान्नेता’ ॥ [इदमपि लक्षणमत्रत्ये नायके नान्वेति, तस्यालौकिकत्वादतो विलक्षणताऽस्य मन्तव्या] बीजम्—‘अल्पमात्रं समुद्दिष्टं बहुधा यद्विसर्पति । फलस्य प्रथमो हेतुर्बीजमित्यभिधीयते’ ॥ विन्दुः—‘अवान्तरार्थविच्छेदे विन्दुरच्छेदकारणम्’ । कार्यम्—‘अपेक्षितं तु यत्साध्यमारम्भो यन्निबन्धनः । समापनं तु यत्सिद्धयैतत्कार्यमिति सम्मतम्’ ॥ सन्धिः—‘अन्तरैकार्थसम्बन्धः सन्धिरेकान्वये सति’ । पञ्चसन्धयः—‘मुखं प्रतिमुखं गर्भो विमर्श उपसंहतिः । इति पञ्चस्य भेदाः स्युः०’ मुखम्—‘यत्रबीजसमुत्पत्तिर्नानार्थरससम्भवा । प्रारम्भेण समायुक्ता तन्मुखं परिकीर्त्तितम्’ ॥ प्रतिमुखम्—‘फलप्रधानोपायस्य मुखसन्धिनिवेशितः । लक्ष्यालक्ष्य इवोद्भेदो यत्र प्रतिमुखञ्च तत्’ ॥ गर्भः—‘फलप्रधानोपायस्य प्रागुद्भिन्नस्य किञ्चन । गर्भो यत्र समुद्रभेदो हासान्वेषणवान्मुहुः’ ॥ विमर्शः—‘यत्र मुख्यफलोपाय उद्भिन्नो गर्भतोऽधिकः । शापाद्यैः सान्तरायश्च स विमर्श इति स्मृतः’ ॥ निर्वहणम्—‘बीजवन्तो मुखाद्यर्था विप्रकीर्णा यथातथम् । एकार्थमुपनीयन्ते यत्र निर्वहणञ्च तत्’ । [ एषां या न्यङ्गान्यत्र प्रकाशे समायातानि तानि तत्रैव सलक्षणं निर्दिष्टानीति तत एवावसेयानि ] नायकादिनिरूपणम् नायकः—विवेकः ( आध्यात्मिको भावविशेषः ) नायिका—उपनिषद्देवी ( विद्याप्रभेदः ) स्थायिभावः—निर्वेंदः । उद्दीपनविभावाः—तपोवनरामकथादयः । सात्विकः—हर्षपुलकादयः । व्यभिचारिणः—मतिधृतिहर्षादयः । रसः—शान्तः । गुणः—प्रसादमाधुर्य्ये ।
प्रकाशकर्तृवंशपरिचयः माण्डरसंज्ञकमैथिलभूसुरवंशेऽजनिष्ट कृती । श्रीमान् 'कन्हाइ' मिश्रो हतजनताऽज्ञानतामिस्रः ॥ १ ॥ उदितश्छीतनशर्मा ततः सुमेरोरिवादित्यः । योऽमानि मान्तिनिवहश्रेयान् सुकृतावदातारमा ॥ २ ॥ मृतपितृकः स बाल्ये मातुलकुलमाश्रितः शरणम् । ग्रामे 'पकड़ी' नामनि गृहस्थतां प्रापितो न्यवसत् ॥ ३ ॥ तत्त॒नयेषु प्रथमो वयसा ज्ञानेन यशसा च । 'मधुसूदन' मिश्राख्यो भक्तश्चतुराग्रणीरभवत् ॥ ४ ॥ तत एव श्री 'जयमणि' संज्ञायां मातरि प्रापम् । जनिमब्धिरामवसुभूमितशाके 'रामचन्द्रो'ऽहम् ॥ ५ ॥ प्रभवादष्टमशरदि स्नेहान्मामुपनिनीषन्तम् । तातं सदा स्वतन्त्रा नियतिरकार्षीत् कथाशेषम् ॥ ६ ॥ बाल्ये पण्डित 'किङ्कर' शर्मकृपाप्राप्तबोधस्य । मम चक्षुषी चमत्कृतसंस्कृतभाषा-प्रयोगेषु ॥ ७ ॥ उन्मीलिते अभूतां श्री 'श्रीनाथा'ख्यविबुधस्य । मम मातुलस्य चरणौ निषेवमाणस्य न चिरेण ॥ ८ ॥ गूढं शास्त्ररहस्यं ज्ञातुं निखिलं निबद्धकक्षस्य । उपदेशको ममाऽभू'दीश्वर' नाथो विदद्वन्द्यः ॥ ९ ॥ स्वाभाविक्या कृपया स्नेहेनान्तःप्ररूढेन । ममतादृशा च यो मामपुषत् सोदर्यभावेन ॥ १० ॥ तत्कृपयाऽधिगताखिलसंस्कृतसाहित्यमर्माणम् । बुधवर 'किशोरि' शर्मा मां व्यधिताचार्यपदभाजम् ॥ ११ ॥ श्रीयुत 'जटेश्वरा'भिधविद्वद्वरपादमुपजीव्य । दर्शनशास्त्ररहस्यं न चिरेणाशेषमाचकलम् ॥ १२ ॥ एतानन्याँश्च गुरून् मनसि ममावस्थितान् सततम् । ध्यायामि यत्कृपा मे मानुष्यकमञ्जसाऽस्ताक्षीत् ॥ १३ ॥ सोऽह वाक्परिचरणव्यापृतचेताः प्रकाशममुम् । निरमामिह विद्वांसः कृपास्पृशः स्वाद्दशो दध्युः ॥ १४ ॥
श्लोकानुक्रमणिका अङ्क श्लोक अङ्क श्लोक अकाण्डपात ५ २९ उत्तुङ्गपीवरकुच १ १० अग्निहोत्रं त्रयो २ २६ उद्दामद्युति ६ २८ अत्रानुज्झित ३ २२ उद्भूतपांसु ४ २६ अद्याप्युन्मद १ ५ उप्यन्ते विष ५ १६ अनादरपरो ४ ११ एकः पश्यति ६ १९ अनुग्रहविधौ ६ ११ एकमेव सदा ५ १५ अन्तर्नाडी १ २ एकाग्रिप्रभव १ १८ अन्धीकरोमि २ २९ एकोऽपि बहुधा १ २८ अपि यदि दिशि १ १३ एतत्कराल ३ १५ अप्येतद्वारितं ५ ३० एष देवः पुरोविद्भिः ४ २० अमी धारायन्त्र ४ २७ एषोऽस्मीति ६ २७ अमुष्य संसार ४ ७ कनकसिकतिल ६ ६ अम्भःशीतकरा ६ २२ कल्पान्तवात १ ६ अयःस्वभावा ६ १६ क्वचिद्विश्व ६ २१ अयि पीणघण ३ १९ कान्तेत्युत्पल ४ ८ अरे क इव वासवः २ ११ कालरात्रिकराला ४ २ अवच्छिन्नस्य ६ २६ किंवाप्तं किमपोहित ६ २९ असतां निग्रहो ६ २ कृष्णाजिनानि ६ १३ असावहंकार १ २४ केयं माता २ ३३ असौ स्वदभ्यो ६ २५ क्रुद्धे स्मेरमुखाः ४ १८ अस्तं गतेषु ६ १ क्रोधान्धकार ४ १५ अस्ति प्रत्यर्थि १ ४ ब्रूमो न वाचं ४ १६ अस्पृष्टचरणा २ ८ क्वचिदुपकृति ५ १७ अस्ताक्षीन्नव ५ २३ कालिञ्जनं २ २२ अहल्यायै जारः १ १४ क्षेत्रग्राम २ ३२ अहिंसा क्व १ १५ गङ्गातीरतरङ्ग २ ५ आज्ञामवाप्य २ २४ गुरोरप्यथ १ २२ आत्मप्रस्ति २ १६ गौडं राष्ट्र २ ७ आवासो लयनं ३ ९ घोरं नारक ४ १ इदं पवित्रममृतं ३ २० चन्द्रश्चन्दन ४ १३
२५२ श्लोकानुक्रमणिका जातोऽहं जनको १ २९ निर्दहति कुल ५ ज्ञातुं वपुःपरि ३ ११ निष्पन्दैश्चन्दनानां २ ज्योतिः शान्त ' ९ निहतस्य पशोर्यज्ञे २ ज्वलत्शिवाभि २ २ नीताः क्षयं १ णत्थि जले २ २४ नीतान्यमूनि ६ णत्थि जले णत्थि ३ २५ नीवाराङ्कित ३ तं पापकारिण ' १७ नैवाश्रावि २ तीर्णाः क्लेश ६ ८ परममविदुषां २ तीर्णाः पूर्णाः ५ १८ पर्जन्योऽस्मिन् ६ तुल्यत्वे वपुषां २ १८ पान्थानामिव ५ तोयार्द्राः सुर ४ २८ पुमानकर्ता ६ त्याज्यं सुखं २ २३ युग हि धर्माध्वनि ६ त्वन्मङ्गाच्छा ५ ३३ पुंसः सङ्गमसु १ त्वाष्ट्रं वृत्त २ ३१ प्रतिकुलामकुलजां २ दलितकुच ३ ३५ प्रत्यक्षादिप्रमा २ दुराचारा ३ ७ प्रभवति मनसि १ दूले चलण ३ ८ प्रशान्ताराति ६ दृढतरमपि ४ ११ प्रादुर्भवन्ति ५ दृष्टं क्वापि सुखं ३ १६ प्रायः सुकृति ४ द्वौ तौ सुपर्णौ ६ २० फलं स्वेच्छालभ्यं ४ धनं तावल्लब्धं ४ २ बन्धैको बहुधा १ धाता विश्व २ २८ बहुलरुधिर ५ ध्यायन्निमां ४ ५ बालानामिय ४ ध्रुवं ध्वंसो भावी ५ २ बाह्रोर्भङ्गा ६ न कति पितरो ५ २७ बाह्रोर्भङ्गा ६ : नरास्थिमाला ३ १२ भगवति तव ५ : नानामुखं ४ २० भवसागरतार ६ नार्थैस्ता नव ५ ३२ भूत्वाकल्प ५ ' नास्माकं जननी २ ९ भ्रूभङ्गभीम ४ निकृन्ततीव ५ ३ मध्याह्नाकं १ नित्यं स्मरञ्जलद ५ ३१ मलमअ ३ नित्यानित्यविचार ६ ३ मस्तिष्कान्तर ३ १ निपीता वेश्याभिः ३ २१ मार्जारभक्षिते ५ २ निरन्तराभ्यास ५ २६ मानिन्याश्चिर १ ३
श्लोकानुक्रमणिका २५३ मामनालोक्य ३ २ शब्दान्नैव शृणोति ६ ५ मुक्तासङ्ककुरङ्ग २ १ शान्तेऽनन्तमहिम्नि ४ ६ मुक्ताहारलता ४ ९ शान्तं ज्योतिः ६ २३ मूलं देवी ३ २६ श्येनावपात ४ ३ मृतानामपि २ २१ श्रियो ज्वाला ५ २४ मृत्युर्नृत्यति ४ २३ श्रीदेवी जनका ३ ४ मृद्भिन्दुलाञ्छित २ ६ श्रोणीभारभरालसा २ ३४ मोहान्धकार ६ ३० सङ्गं न केनचि ६ ३१ यदप्यभ्युदयः ५ ४ सज्जन्तां कुम्भ ४ २५ यन्नास्येव २ १७ सततधृति १ २५ यः प्रागासीदभि २ ३६ सदनमुपगतो २ १० यस्माद्विश्वमुदेति ६ १४ स नरकादिव ६ ४ यस्य हस्तौ च ३ १४ सन्तु विलोकन १ १६ येन त्रिःसप्त १ ७ सन्ध्येते मम २ ३० षण्डाः पीनपयो १ १८ संभूतः प्रथम १ १७ रम्यं हर्म्यतलं १ १२ समानान्वय ५ ८ रागादिभिः सरल १ २२ समारम्भा भग्नाः ४ २० लभ्यं लब्धं १ २१ संमोहयन्ति १ २७ कलिततानां ५ १९ सर्वं क्षणक्षयिण ३ ८ वश प्राप्ते मृत्योः ५ २२ सहजमलिन १ २१ विद्याधरी वाथ ३ २३ साङ्ख्यन्याय ५ ७ विद्याप्रबोधोदय २ १२ सैषान्तर्वर्धती ४ २९ विष्पट्टणीलुप्यल ३ १७ सोऽपि स्ववीर्या १ ८ विपाकदारुणो २ २७ सोऽहं प्रकीर्णैः ४ १४ विपुलपुलिनाः ४ १२ स्फटिकमणि १ २६ विभेचकर्म ६ १८ स्फुरद्रोमोद्भेद १ २० विवेकेनैव १ ९ स्मर्यते सा हि २ ३७ विष्णोरायतना ५ ५ स्वप्नेऽपि देवी ५ १३ विसर्पति ५ १२ स्वभावलीनानि ६ १७ वेदोपवेदाङ्ग ५ ६ स्वर्गः कर्तृक्रिया २ १९ वेश्यावेश्मसु २ १ स्वाराज्यं प्राप्य ३ १० व्यतीतवेदार्थ २ २५ हरिहरसुरज्येष्ठ ३ १०
प्रकाशित होगई ! प्रकाशित होगई !! डॉ० भोलाशङ्कर व्यास की अमर कृति संस्कृत-कवि-दर्शन इसमें संस्कृत के चुने हुए चोटी के २० कवियों पर गवेषणापूर्ण आलोचनात्मक निबन्धों का संग्रह है । पाश्चात्य नव्य समीक्षा-पद्धति और पौरस्त्य रसालङ्कारवाली आलोचनसरणि का समन्वय कर विद्वान् लेखक ने समीक्षा के क्षेत्र में निःसन्देह एक नवीन उद्भावना की है । समाज-शास्त्र की वैज्ञानिक आधारभित्ति को लेकर पल्लवित किया गया यह आलोचनप्रासाद अपनी प्रामाणिकता और शास्त्रीयता में बेजोड़ है । इस ग्रन्थ में न तो पाश्चात्य पण्डितों की तरह कोई पूर्वाग्रह ही है, न भारतीय पण्डितों की आलोचना की तरह एकाङ्गिता ही । नवीनता और प्राचीनता के समन्वय ने डॉ० व्यास की समीक्षा में मणि- काञ्चन-संयोग घटित कर दिया है। कवियों पर निजी मौलिक उद्भावनाएँ उपन्यस्त कर विद्वान् लेखक ने व्यावहारिक समीक्षा को दार्शनिक रूप दिया है, और ग्रन्थ का नामकरण भी इसका सङ्केत करता है । कई कवियों के विषय में ऐसे मौलिक सङ्केत किये गये हैं, जो अनुसन्धान-कर्त्ताओं को मार्ग दिशा दे सकते हैं। साहित्यिक समाज को बड़े दिनों से संस्कृत कवियों पर हिन्दी में सैद्धान्तिक, व्यावहारिक और समाजशास्त्रीय आलोचना का अभाव खटकता था। डॉ० व्यास ने इस अभाव की पूर्ति कर दी है । इस दिशा में डॉ० व्यास का यह प्रयास राष्ट्रभाषा में सर्व- प्रथम होते हुए भी, प्रामाणिक और महनीय है । साहित्य के शास्त्री, आचार्य तथा बी० ए०, एम० ए० और साहित्यरत्न की परीक्षाओं में निबन्ध और इतिहास के लिये यह पुस्तक अधिक उपादेय है । मूल्य ६) प्राप्तिस्थान— चौखम्बा विद्या भवन चौक, बनारस-१