भारतकोश
संग्रह पर लौटें

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

[ अधि - ५. सू - ६. ] दीपिकासहितम्. ७३ ( १४ ) यो गुणैस्सर्वतो हीनो यश्च दोषविवर्जितः । हेयोपादेयरहितः स आत्मेत्यभिधीयते । एतदन्यस्वभावो यः सोऽनात्मेति सतां मतम् । अनात्मन्यात्मशब्दस्तु सोपचारः प्रयुज्यते । इति वामने । ( १५ ) ' द्वे वाव ब्रह्मणो रूपे आत्मा चैवानात्मा च । तत्र यः भावः । अतो न स वाच्यः इति चोद्यं न युक्तम् । कुतः ? ' आत्मश- ब्दात् ' ' आत्मन्येव ' इति वाक्ये ईक्षणीये तस्मिन् आत्मशब्दश्रवणा- दृश्यो निर्गुण एव, अत एवैक्षत्या लिङ्गेन वाच्योऽपि स एव भवेदिति योजना । यद्यपि सुधायां गौणपदं मायाशबलितैश्वर्यादिधर्मयुक्तसगु- णब्रह्मपरतया व्याख्यातः तथाऽपि पूर्वपक्षिणो मायाशबलितं वा गु- णबद्धा जीवा वा दृश्या वाच्याश्च, न सर्वथा निर्गुणं ब्रह्मेत्याशयान्न विरोधः ॥ ( १४ ) नन्वात्मशब्दसद्भावे कुतोऽयं निर्गुणो न गौण इत्यत आह— य इति ॥ यः ' सर्वतः ' प्रकारेण 'गुणैः' सत्त्वादिभिः शून्यः यश्च दुः- खादिदोषरहितः यश्च हेयोपादेयरहितः । भावप्रधानोऽयम् । हेयत्व- सहितोपादेयत्वरहित इति । उपादेय एवेत्यर्थः । तत्त्वप्रदीपरित्या स्वाभाविकदोषरहितो गुणपूर्णत्वेनाप्तकात्वाद्युपादेयरहित इति वा । तत्त्वोद्योतटीकारीत्या दोषाभावाद्धातुरभावाद्वा हेयत्वरहितः, लौकिकगुणाभावादुपादातुरन्यस्य स्वतन्त्रस्याभावाद्वा उपादेयत्वर- हितः अनिष्टाभावाद्धेयं नास्ति, अपूर्त्यभावादुपादेयमस्य नास्तीति वा तथोक्तः । य एवं भूतस्स आत्मेत्यभिधीयते । य एतद्विरुद्धस्वभा- ववान् सोऽनात्मेति सतां ' मतं ' सम्मतमित्यर्थः । क्वचित् ' हृदि ह्येष आत्मा ' इत्यादावेतदन्यस्वभावेऽप्यात्मपदप्रयोगात् कथं सोऽना- त्मेत्यत आह—अनात्मनीति । ' अनात्मनि ' आत्मशब्दमुख्यार्थभिन्ने जीवे ' आत्मशब्दः ' ' सोपचारः ' उपचारः परममुख्यवृत्त्यन्यमुख्यवृ- त्तिः तत्सहितस्तद्वृत्तिक इत्यर्थः । तुशब्दो विशेषार्थः । ' वामने ' इत्य- नन्तरं ' निर्गुणैकनिष्ठत्वेनोक्तत्वात् ' इति शेषः । अस्य नायं दृश्यो वा च्यश्च गौणः, किन्तु निर्गुण एवेत्यनेनान्वयः ॥ ( १५ ) अत्रैव प्रमाणान्तरमाह—द्वे वावेति ॥ ' ब्रह्मणः ' परब्रह्मणः रूपं च रूपं च रूपे । तत्राद्यो रूपशब्दः स्वरूपपरः द्वितीयो रूप्यते १०

? with an anusvara? Or is it? Wait, let's look at line 14 again: तां म्म ता मं ल्ये र्थः? Wait, does त्यhave an e-matra? Look aboveत्य: YES! There is a slant line going up to the left! That's an e-matra! Wait, an e-matra on त्यmakes itत्ये? No, wait! Is the e-matra on त्यor on the letter before it? Wait! Could the word be: सतां सम्मतान्वय्यर्थः? No. सतां सम्मतामेत्यर्थः? Wait, what if it is: सतां सम्मतामित्यर्थः? Let's look at the character: तां म्म ता मं त्य र्थः Wait, let's look at the dot aboveता: Is that an anusvara? Or a stray dot? Notice on this page, there are several small spots/ink marks (e.g. line 8 above पौन, line 10 under र्थः`).

[ अधि - ५. सू - ७. ] दीपिकासहितम्. ७५ ( १८ ) न हि गौणात्मनिष्ठस्य मोक्षः । ( १९ ) यस्यानुवित्तः प्रतिबुद्ध आत्मा अस्मिन् सन्दोहे गहने प्रविष्टः । स विश्वकृत्स हि सर्वस्य कर्ता तस्य लोकः स उ लोक एव ( बृ. उ. ६-४-१३. ) इत्यात्मनिष्ठस्य मोक्ष उपदिश्यते । धस्य आत्मज्ञानिनः 'मोक्षोपदेशात्' नात्मशब्दमुख्यवाच्यो गौण इ- ति सूत्रार्थः ॥ ( १८ ) तन्निष्ठस्य मोक्षोपदेशोऽपि कुतोऽयमात्मा न गौण इत्यप्रयो- जकत्वमाशङ्कयाह - न हीति ॥ गौणमोक्षपदसमभिव्याहृतो हिशब्दो विरोधाख्यहेतुसूचकः । तथा च- 'हि' यस्मात् 'गौणात्मनिष्ठस्य' गुणबद्धजीवज्ञानिनः तज्ज्ञानाद्गुणबन्धनिवृत्तिरूपो 'मोक्षो' न स- म्भवति, विरोधात् तस्मात् 'न हि' नाप्रयोजकता शङ्क्येत्यर्थः ॥ ( १९ ) असिद्धिशङ्कां परिहर्तुं कोऽसावात्मनिष्ठस्य मोक्षोपदेश इ- त्यतस्तं दर्शयति - यस्येति ॥ अत्र श्रुतिः स्वप्रयुक्तमुशब्दं एवेति व्या- चष्टे । 'उ' एकः प्रधान इति वा । तच्छब्दो विष्णुतज्ज्ञानिपरः । तथा च - 'हि' यस्मात् 'सः' विष्णुः 'सर्वस्य कर्ता' तस्मादेव 'वि- श्वकृत्' वायुकर्ता 'प्रतिबुद्धः' स्वतस्सर्वज्ञः 'अस्मिन् सन्दोहे' स- न्दुह्यते पुरुषार्थो अनेनेति वा कार्यकारणसंघातरूपत्वाद्वा भूतसमुदा- यरूपत्वाद्वा सन्दोहनामके मध्यदेहे स्थिते 'गहने' गम्भीरे हृदयगु- हास्थाने 'प्रविष्टः' सः 'आत्मा' विष्णुः 'यस्य' येनोपासकेन 'अ- नुवित्तः' सम्यग्ज्ञातः 'तस्य' अधिकारिणः 'उः' प्रधानः तस्य वि- ष्णोर्यो 'लोकः' स एव लोकः स्थानं भवतीत्यर्थः । 'सन्दोहे' इ- ति पाठेऽप्ययमेवार्थः । 'सन्देहे' इति पाठे अनेकार्थसङ्कट इत्यर्थः । तत्त्वप्रदीपे तु - सः विश्वकृत् कृतकृत्यः । कुतः ? यतः स हि परमा- त्मा प्रसन्नः सर्वशक्तिः सर्वमस्य ज्ञानिनः कार्यं करोतीत्युक्तम् । अ- स्मिन् पक्षे प्रथमः प्रथमान्ततच्छब्दो विष्णुज्ञानिपरः, विश्वशब्दः कृ- त्यपरः, सर्वशब्दो ज्ञानिकार्यपरः । टीकाकृतपक्षे तु-प्रथमः प्रकृतवि- ष्णुपरः, विश्वशब्दो वायुपरः, सर्वशब्दो जगत्पर इति भेदः । पक्षद्व- येऽपि द्वितीयतृतीयौ विष्णुतल्लोकपरौ । 'इति' इत्येवंरूपे बृहदार-

७६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] ( २० ) अयमात्मा ब्रह्म । ( मा. उ. १-२, बृ. उ.२-५-१९. ) ( २१ ) ब्रह्मेति परमात्मेति भगवानिति शब्द्यते ॥ दत्तं दुर्वाससं सोममात्मेशब्रह्मसम्भवान् ॥ चेतनस्तु द्विधा प्रोक्तो जीव आत्मेति च प्रभो । जीवा ब्रह्मादयः प्रोक्ता आत्मैकस्तु जनार्दनः ॥ ण्यके ' आत्मनिष्ठस्य ' तज्ज्ञानिनो ' मोक्ष उपदिश्यते ' । अस्य यत इत्युपदिश्यते अतो ' न गौण आत्मा ' इति वक्ष्यमाणप्रतिज्ञाऽन्वयः । सूत्रस्य तु न गौण आत्मशब्द इति पूर्वेणान्वयः । आत्मेत्यनेन सौत्रत च्छब्दो नात्मशब्दपरः, किन्त्वर्थतः प्रधानात्मपर इत्युक्तं भवति ॥ ( २० ) आत्मशब्दो विष्णावेव मुख्यः न जीवेष्वित्यत्र न केवलं त न्निष्ठस्येत्यादिनोक्तमनुमानं मानम्, किन्तु सूत्रकृदभिप्रेताः स्पष्टश्रुति स्मृतयश्चेति भावेन तां ताश्चाह—अयमिति ॥ ब्रह्मेत्यन्तस्य उपदिश्य त इति पूर्वेणान्वयः । ' अयमात्मा ' रमाब्रह्मादिषु आदानादिकर्तृत्वेन स्थितः आत्मा ' ब्रह्म ' विष्णुरेवेति माण्डूकश्रुत्यर्थः “ सोऽयं विष्णु रमाब्रह्मरुद्रानन्तादिगः सदा । आदानादनकर्तृत्वादात्मा ” इति मा ण्डूकभाष्योक्तः ॥ ( २१ ) “ वदन्ति तत्तत्त्वविदस्तत्त्वं यज्ज्ञानमद्वयम् । ब्रह्म” इत्यपरं भागवतवाक्यम् । अद्वयं समाधिकशून्यं ज्ञानस्वरूपं यत्तत्त्वं वदन्ति ज्ञानिनः तत् देशकालादिषु बृंहितत्वात् सर्वान्तर्यामित्वाद्यैश्वर्यादिगु णवत्त्वाच्च निमित्तात् ' ब्रह्मेति परमात्मेति भगवानिति शब्द्यते ' अभि धीयत इत्यर्थः । अस्यापि पूर्वेण सम्बन्धः । तत्रैव चतुर्थस्कन्धे “दत्तं ” इत्यन्यद्वाक्यम् । एतच्च ' अनसूया तथैवात्रेर्जज्ञे पुत्रानकल्मषान् ' इति पूर्वार्धेनैवान्वेतव्यम् । पत्नी मरीचेस्तु कला सुषुवे कर्दमात्मजा । काश्यपं पूर्णिमानं च ययोरापूरितं जगत् ॥ इति प्रकृतेन समुच्चयर्थस्तथाशब्दः । तथा च—अनसूयाख्या अत्रि भार्या अत्रेः सकाशात् ' आत्मेशब्रह्मसम्भवान् ' आत्मा विष्णुरीशो रुद्रः ब्रह्मा चतुर्मुखः आत्मा चेशश्च ब्रह्मा च ते तथोक्ताः तैस्सह भव न्तीत्यात्मेशब्रह्मसम्भवाः तान् 'अकल्मषान्' अपापान् यो दत्तं दुर्वा साः सोमश्चैतान् पुत्रान् 'जज्ञे' जनयामासेत्यर्थः । यद्वा—अनसूया अ त्रेर्दत्तादीन् जनयामास, ते च आत्मेशब्रह्मसम्भवा इति विपरिणामेन

[ अधि - ५. सू - ७. ] दीपिकासहितम्. ७७ इतरेष्वात्मशब्दस्तु सोपचारः प्रयुज्यते । तस्यात्मनो निर्गुणस्य ज्ञानान्मोक्ष उदाहृतः ॥ सगुणास्त्वपरे प्रोक्तास्तज्ज्ञानान्नैव मुच्यते । परो हि पुरुषो विष्णुस्तस्मान्मोक्षस्ततस्मृतः ॥ इति पाद्मे । व्याख्येयम् । अत्र ब्रह्मावेशेन सहोत्पन्ने चन्द्रे निरुक्तसम्भवशब्दो मु- ख्यः । साक्षाद्विष्णुरुद्रांशत्वेन तत्सम्भूतयोर्दत्तदुर्वाससोस्तु छत्रिन्या- येनामुख्य इति द्रष्टव्यम् । यद्यपि “अत्रेः पत्न्यनसूया त्रीन् जज्ञेऽति यशसः सुतान् । दत्तं” इति भागवतपाठः, तथाऽप्यनुव्याख्याने एवं पठितत्वात्तथैव सुधायां व्याख्यातत्वात्तदन्यकल्पीयं पाठान्तरं भवि- ष्यतीत्यदोषः । अस्यापीत्युपदिश्यत इत्यनेनान्वयः । चेतनस्त्विति पा- द्मवाक्यम् । ‘प्रभो’ इति कस्य चित्सम्बोधनम् । तत्रेति शेषः । आ- द्यस्तुशब्दो विशेषार्थे । द्वितीयोऽवधारणे । तथा च—‘जीवाः ब्रह्मा- दयः प्रोक्ताः आत्मा तु’ तच्छब्दमुख्यवाच्यस्तु ‘जनार्दनो’ विष्णुः ‘एकः’ एव प्रोक्तः प्रमाणेषु । ‘इतरेषु’ ब्रह्मादिषु ‘आत्मशब्दः सोप- चारः’ परममुख्यवृत्त्यपेक्षया हीनवृत्तियुक्त इति ज्ञानिभिरभिधीयत इत्यर्थः । कुतस्तस्यैवात्मत्वं नान्येषामित्यत आह—तस्येति । यतः ‘तस्य’ निर्गुणस्य आत्मनो ‘ज्ञानान्मोक्षो’ भवतीति “यस्यानुवित्तः” ( बृ. उ. ४-४-१३. ) इत्यादौ ‘उदाहृतः’ उक्तः अतोऽयमात्मा निर्गुणो विष्णुरेव नान्यः। कुतः? तस्यैव विष्णोर्निर्गुणस्य मोक्षदातृत्वसम्भवात्, अन्येषां तदसम्भवादित्यर्थः । आत्मज्ञानान्मोक्षोपदेशोऽपि कुतो नेतरे- षामात्मत्वं तेषामपि मोक्षदातृत्वसम्भवादित्यत आह—सगुणा इति । तुरवधारणे । तथाच—‘अपरे’ विष्णोरन्ये ब्रह्मादयो यतः ‘सगुणाः’ सत्त्वादिगुणबद्धा एव न स्वतस्तद्विधुराः अतः ‘तज्ज्ञानान्नैव’ सर्वथा ‘मुच्यते’ अधिकारीत्यर्थः, गुणबद्धात्मविज्ञानात् गुणबन्धनिवृत्तिरूप- मोक्षायोगादिति भावः । ननु विष्णावपि निर्गुणत्वेनास्तु मोक्षदातृत्व- सम्भावना, तन्निश्चयस्तु कुत इत्यत आह—परो हीति । ‘हि’ यस्मात् ‘विष्णुःपरः’ स्वतन्त्रः । तत्त्वप्रदीपरीत्या सर्वोत्तम इति वा, ‘पुरुषः’ पूर्णः ‘तस्मान्मोक्षस्ततो’ विष्णोर्भवेदेवेति स्मृतः स्मृत्युक्त इत्यर्थः । ‘इति पाद्मे’ इत्यस्यापि इत्युपदिश्यत इति पूर्वेणान्वयः ॥ ७ ॥

७८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] ( २२ ) सू-ॐ ॥ हेयत्वावचनाच्च ॥ ॐ ॥ ८ ॥ 'तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथ । अमृतस्यैष सेतुः ( मुं.उ. २-२-५. ) इत्यन्येषां हेयत्ववच- नादस्याहेयत्ववचनाच्च गौण आत्मा ॥ ( २३ ) सू-ॐ ॥ स्वाप्ययात् ॥ ॐ ॥ ९ ॥ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ (बृ.उ.५-१-१०.) ( २२ ) युक्त्यन्तरेणात्मशब्दादितो न गौण इत्याह सूत्रकृत्-हेय- त्वेति ॥ अत्र हेयत्वं नाम मोक्षार्थे प्राधान्येन ज्ञेयत्वेनाविहितत्वम् । त- था च-न केवलं तन्निष्ठस्य मोक्षोपदेशात्, किन्तु “तमेवैकम्” इति श्रुतौ आत्मनो हेयत्वावचनात्, प्रत्युत 'जानथ' इत्यहेयत्ववचनात्, जीव- स्य च “अन्या वाचो विमुञ्चथ” इति मुमुक्षुभिर्हेयत्ववचनाच्चेति सूत्रवृत्तिभिप्रेत्य सूत्रं व्याचष्टे-तमिति । हे ऋषयः 'तं' आत्मानं विष्णुं 'एव एकं' प्रधानं 'जानथ' जानीध्वम् । 'अन्याः' जीवादि- विषयिणीः 'वाचः विमुञ्चथ' त्यजत, प्राधान्येन विष्ण्वितरान् न जानीध्वमित्यर्थः । 'जानथ आत्मानं' इति विश्लेषो विष्णोः सर्वेभ्यो विलक्षणत्वप्रदर्शनार्थः । विकरणव्यत्ययस्तु छान्दसः । अमृतस्येत्येक- वचनं समुदायविवक्षया । तथा च-‘अमृतस्य’ मुक्तवर्गस्य ‘एषः’ विष्णुः 'सेतुः' मुख्याश्रय इत्यर्थः । 'इति' इत्येवंरूपायां मुण्डकश्रु- तौ 'अन्येषाम्' जीवानां 'हेयत्ववचनात्' इत्यनेन चशब्दसमुच्चेयं द- र्शितम् । सौत्रनञो व्यत्यासेन अन्वयम् अभिप्रेत्य समुच्चेयान्तरमाह-अ- स्य विष्णोरहेयत्वेति । चशब्दः समुच्चये । सूत्रे गौणशब्दानुवृत्तस्य “न गौण आत्मशब्दः” इत्यस्यार्थमाह-नेति । गौण आत्मशब्दमुख्य- वाच्यो न, किन्तु निर्गुणो विष्णुरेवेत्यर्थः । तथा च-आत्मशब्दादीक्ष- तिश्रुत्युक्तोऽपि निर्गुण एवेति सिद्धम् । तस्येक्षत्यन्यथाऽनुपपत्त्या वा- च्यत्वमिति भावः ॥ ८ ॥ ( २३ ) युक्त्यन्तरेणापि निर्गुणस्य विष्णोर्वाच्यत्वमुपपादयत्सूत्रमु- पन्यस्यति-स्वाप्ययादिति ॥ सूत्रं व्याचष्टे-पूर्णमिति । 'अदो' मू- लरूपं 'पूर्ण' 'इदं' अवताररूपं च 'पूर्णम्' । 'पूर्ण' अवताररूपं सृष्टिकाले 'पूर्णात्' मूलरूपात् 'उदच्यते' उद्गच्छति । तत्त्वप्रदीप

[ अधि - ५. सू - ९. ] दीपिकासहितम्. ७९

" स आत्मन आत्मानमुद्धृत्यात्मन्येव विलापयत्य थात्मैव भवति " । स देवो बहुधा भूत्वा निर्गुणः पुरुषोत्तमः । एकीभूय पुनश्शेते निर्दोषो हरिरादिकृत् । इति । ( २४ ) स्वस्यैव स्वस्मिन्नप्ययवचनात् । रीत्या अमुष्मादिदं सङ्ख्यामात्रेणोच्यते एकमेव बहुसङ्ख्यं भवति विशेषादेवैति वा । प्रलये मूलरूपं 'पूर्णस्य' स्वस्य 'पूर्णे' अवतार रूपं 'आदाय' स्वीकृत्यैकीभूय 'पूर्णमेव' अन्यत्रालिनं सदैव स्वयं 'अवशिष्यते' इति बृहदारण्यकश्रुत्यर्थः । 'स' इत्यन्या श्रुतिः । तदर्थ स्तु—'स' विष्णुः 'आत्मनः' स्वस्मात् मूलरूपात् 'आत्मानं' अव- तारगतं स्वस्वरूपं 'उद्धृत्य' सृष्टिकाले पृथग्व्यक्तीकृत्य प्रलये 'आ- त्मनि' स्वस्मिन्नेव 'विलापयति' एकीभावयति । 'अथ' अनन्तरं स विष्णुः 'आत्मैव' मूलरूप्येव 'भवति' अवशिष्यत इति । 'स दे- वः' इति स्काान्दस्मृतिः श्रौततच्छब्दार्थविवरणरूपा । 'देवो' द्योत- नादेः 'निर्गुणः' सत्त्वादिगुणेभ्यो निष्क्रान्तः तत एव गुणकार्यदोष- हीनः 'पुरुषोत्तमः' क्षराक्षरचेतनोत्तमः 'आदिकृत्' विश्वस्योत्पत्ति- कर्ता प्रथमकर्ता वा 'सः' श्वेतद्वीपगो 'हरिः' आदिसृष्टौ 'बहुधा भूत्वा' वराहादिबहुरूपणि सृष्ट्वा 'पुनः' अथ प्रलये 'एकीभूय' मूल- रूपेण तान्येकतां प्रापयित्वा अहिपतौ 'शेते' योगनिद्रां करोतीत्य- र्थः । इतीत्यस्य इति श्रुत्युक्तत्वाच्चेत्यध्याहारेण 'वाच्यमेव तत्' इति परमसाध्येनान्वयः ॥ ( २४ ) एतच्छ्रुत्युक्तोऽपि निर्गुणः कुतः? गौण एव किं न स्यादित्य- तस्तत्र सौत्रं हेतुं सावधारणस्वशब्दावृत्त्या योजयति—स्वस्यैवेति ॥ एवकारो भिन्नक्रमः । इतिशब्द आवृत्तोऽत्रापि योज्यः । वचनादि- त्यावर्त्तते । न गौण इत्यनुवर्तते । अयमिति शेषः । स्वाप्ययपदं पूर्ण- त्वस्याप्युपलक्षकम् । तथा च—पूर्णमिति श्रुतौ स्वाप्ययपदोपलक्षि- तपूर्णत्वस्य वचनात् स्वस्य स्वस्मिन्नेवाप्ययवचनाच्च, स इति स्पष्टश्रु- तावपि आत्मन्येव विलापयतीति स्वस्य स्वस्मिन्नेवाप्ययवचनात्, तस्य च निर्गुणहरिनिष्ठतायाः स्मृतौ वचनाच्च अयं निर्गुण एव न गौण इति योजना । वाच्यत्वे स्वाप्ययस्य साक्षाद्धेतुत्वाभावात् सूत्रे

८० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] न हि गौणात्मनि निर्दोषस्य लयः ॥ ९ ॥ ( २५ ) न च कासुचिच्छाखास्वन्यथोच्यते ॥ भाष्ये च चशब्दाभावः । यद्यप्यत्रोपलक्षणाभिप्रायकटीकारीत्या पूर्ण- त्वहेतुसमुच्चायकश्चशब्दोऽनुवर्तनीयः । तथाऽप्यस्य वाच्यत्वे साक्षा- दहेतुत्वात्तत्र हेत्वन्तरस्य ज्ञापकचशब्दो नानुवर्तनीयः । न च श्रुत्यु- क्तत्वाच्चेत्यध्याहृतहेतौ चशब्दावश्यंभावात् कथं तदभाव इति वा- च्यम्, सूत्रश्रुतहेतौ चशब्दाभाव इत्यभिप्रायात् । अत एव टीकायां तन्नेत्युक्तम् । तथा चायं सूत्रार्थः-न केवलं निर्गुणविष्ण्वाख्यं ब्रह्म ई- क्षणीयत्वाद्वाच्यम्, किन्त्वेतच्छ्रुत्युक्तत्वाच्च । श्रत्युक्तं निर्गुणमेव न गौ- णमिति कुतः? पूर्णत्वात्स्वस्य स्वस्मिन्नप्ययाच्च, गौणस्यापूर्णत्वान् अन्यस्मिन् लयेन स्वाप्ययशून्यत्वाच्चेति । श्रत्युक्तस्वाप्ययपूर्णत्वयोर सिद्धिपरिहाराय हेतौ साध्यसामानाधिकरण्योपपादनाय च श्रुति स्मृत्योर्वचनादित्युक्तं भाष्ये । नन्वयं स्वाप्ययवान् अन्यत्रालीनश्च गौ- णस्स्यात्, निर्गुणोऽन्योऽस्तीति चेत्-न, यद्ययं स्वाप्ययवान् गौणः त- र्ह्ययं निर्गुणश्चोभौ प्रलयेऽन्यत्र लयेहीनौ तिष्ठतः? उत एकस्मिन्नन्यस्य लयो भवति? नाद्यः “इदं वा अग्रे नैव किञ्च नासीत्” (तै.ब्रा.२-२- ९-१०) इत्यादिश्रुतिविरोधात्, अत्र प्रलये द्वितीयामात्रनिषेधात् । द्वि तीये न तावद्गौणस्य निर्गुणे लयः, तस्य स्वाप्ययवत्तया अवस्थानाभ्यु- पगमात् । तथा च निर्गुणस्य सगुणे लयो वाच्यः । स च न सम्भवती- त्याह—न हीति । ‘गौणात्मनि’ जीवे ‘निर्दोषस्य’ सत्त्वादिगुणबन्ध- रूपदोषहीनस्य निर्गुणस्य विष्णोर्लयो नोपपद्यत इत्यर्थः । हिशब्देन “यत्प्रयन्ति” (तै.उ.३-१०) इत्यादिश्रुतिविरोधादिति हेतुः सूचितः । तस्मान्निर्गुणस्य स्वस्मिन्नेव लयो वाच्य इत्यतोऽयमनन्यलीनो निर्गुण एवेति तस्यैव श्रत्युक्तत्वाद्वाच्यत्वं सिद्धमिति भावः । अत्र नये गौणा- दिव्यपदेशः सत्त्वादिगुणयुक्तत्वतदभावरूपधर्माश्रयजीवपरमात्मधि- षयक एव, न तु मुख्यासम्भवे गौणाश्रयणादित्यत्रेव निर्गुणोऽयमित्यत्रे व वा मुख्यार्थगुणहीनविषय इति सूचनाय निर्गुणस्येति वक्तव्यत्वे ऽपि निर्दोषस्येत्युक्तम् ॥ ( २५ ) नन्वस्तु निर्गुणस्य विष्णोर्वाच्यत्वोपपत्तौ सत्यां कारणत्वे न शास्त्रगम्यत्वम् । तच्चोपक्रमादिबलात् प्रसिद्धशाखास्वेव कारणत्वे

[अधि - ५. सू - १०.] दीपिकासहितम्. ८१

सू-ॐ ॥ गतिसामान्यात् ॥ ॐ ॥ १० ॥ सर्वे वेदा युक्तयः सुप्रमाणा ब्राह्मं ज्ञानं परमं त्वेक मेव । प्रकाशयन्ते न विरोधः कुतश्चिद्वेदेषु सर्वेषु तथेतिहासे ॥ इति पैङ्गिश्रुतेर्गतेर्ज्ञानस्य साम्यमेव ॥ न प्रतिपाद्यत्वपर्यवसितम् । अप्रसिद्धशाखासु पुनरन्योऽपि कारणत्वे न उच्यताम् । न च ता न सन्ति, तासामानन्त्येनेयत्ताऽनिश्चयादित्यत आह—न चेति ॥ चोऽप्यर्थः । तथा च—‘कासुचित्’ अप्रसिद्धशा खास ‘अन्यथा’ अन्यो निर्गुणात् सगुणोऽपि ‘अन्यथा’ अकारणत्वादेः कारणत्वेन आत्मशब्दमुख्यवाच्यत्वेन मोक्षजनकज्ञानविषयत्वेन च, निर्गुणो वा ‘अन्यथा’ अकारणत्वादिना ‘उच्यते’ उच्यतामिति ‘न’ इति योजना । ‘नान्यथा’ इत्यनेन सूत्रे गौणसूत्रान्नेत्यस्यानुवृत्तिः अन्यथेत्यध्याहारश्च सूचितः । ‘तत्तु सं’ इत्युक्तादन्यथा नेत्यर्थः । कु तो नेत्यतस्तत्र हेतुत्वेन सूत्रमुपन्यस्य व्याचष्टे—गतीति । उत्तरसूत्र पदाकर्षणेन सर्वाधिकारिसाधारणं गतिसामान्यस्य श्रुतत्वादिति योजनामभिप्रेत्य असिद्धिपरिहाराय तत्सूत्रसूचितां श्रुतिमाह—सर्वे इति । वेदा इत्यस्य विवरणं ‘सर्वे’ इति । तथा च—‘सर्वे वेदाः’ त था ‘सुप्रमाणाः’ सुष्ठु प्रमाणं प्रमाणान्तरं मूलभूतं यासां ताः ‘युक्त यः’ । ‘तथेतिहासे’ इति वक्ष्यमाणानुरोधादत्रेतिहासा अप्युपल क्ष्याः । तथा चेतिहासाश्च । ‘ब्राह्मं’ ब्रह्मैकविषयं ‘एकं’ एकविधमे व परमार्थविषयकत्वात् ‘परमं’ उत्तमं ‘ज्ञानं’ ‘प्रकाशयन्ते’ उत्पा दयन्ति, न पुनरनेकम् । अतः ‘सर्वेषु वेदेषु’ तथा युक्तिषु ‘तथेतिहा से’ इतिहासेषु ‘कुतश्चित्’ कश्चिदपि विषयकृतो वा प्रकारकृतो वा ‘विरोधो न’ इत्यर्थः ज्ञानरूपमेकमेव ब्रह्मस्वरूपं ज्ञापयन्तीति वा । श्रुतेरिति पञ्चमी तृतीयार्थे । गतेरित्यस्य व्याख्या ज्ञानस्येति । सामान्यादिति सौत्रपदे प्रातिपदिकार्थमाह—साम्यमिति । विषयगु णानामनन्योक्त्या साम्यमित्यर्थः । “न ह्येकत्र ज्ञानानन्दादिकमु क्त्वाऽन्यत्राज्ञानादिरूपत्वं ब्रह्मण उच्यते” इति तत्त्वप्रदीपोक्तेः क थ्यत इति शेषः । न तु विषमत्वमिति वा स्वयमेव साक्षान्न त्वन्यमुखे नेति वा एवशब्दार्थः । तथा च—‘सर्वे वेदा’ इति श्रुत्या स्वयमेव ११

८२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] ( २६ ) सू— ॐ ॥ श्रुतत्वाच्च ॥ ॐ ॥ ११ ॥ ‘ एको देवस्सर्वभूतेषु गूढः सर्वव्यापी सर्वभूता [ न्तरात्मा । कर्माध्यक्षस्सर्वभूताधिवासः साक्षी चेता केवलो [ निर्गुणश्च । ” ( श्वे. ६-११. ) इति । साक्षाच्छ्रुतेः सर्वशाखोत्पाद्यज्ञानस्य सामान्यात् एकविधत्वोक्तेः न का सु चिच्छाखासु अन्यथोच्यत इति सूत्रार्थः । अत्र भिन्नविषयप्रकार केष्वपि ज्ञानेषु ज्ञानत्वेन साम्यसत्त्वात्साम्यादित्युक्तौ विषयप्रकारै क्यं न सिद्धयतीति सामान्यात् समानत्वात् एकविधत्वात् इत्युक्तं सू त्रे । भाष्यपदस्याप्ययमेवार्थ इति ध्येयम् ॥ १० ॥ ( २६ ) इतश्च निर्गुणं ब्रह्म वाच्यमित्याह सूत्रकृत्—श्रुतत्वाच्चेति ॥ चो हेतुसमुच्चये । तदशब्दं नेति वर्तते । तथा च तद्विष्ण्वाख्यं निर्गुणं न केवलमीक्षत्यादिभिः नाशब्दं शब्दावाच्यम् । किन्तु “ एकः ” इति श्वेताश्वतरश्रुतौ ‘ श्रुतत्वाच्च ' स्ववाचकनाम्ना साक्षादुक्तत्वाच्चेत्यर्थ इत्याशयेन सूत्रोपात्तश्रुतिं पठति—एक इति । ‘ एकः ’ प्रधानः स्व स्मिन्भेदशून्य इति वा ‘ देवो ’ द्योतनादेः ‘ सर्वभूतेषु गूढः ’ सर्व प्राणिषु गुप्ततयाऽवस्थितः । न केवलं भूतेषु स्थितः किन्तु ‘ सर्वव्या पी ’ च देशतः कालतो गुणतश्च सर्वं व्याप्नोतीत्यर्थः । न केवलं सर्व भूतेषु स्थितिमात्रं, किन्तु ‘ सर्वभूतान्तरात्मा ’ सर्वप्राणिनां अन्तःस्थि त्वा आ सम्यक् तन्नियन्ता च माता चेति वा । आदानादिकर्तृत्वाद्वा तथोक्तः । ‘ कर्माध्यक्षः ’ कर्माधिपतिः, “ कर्मोपरि अस्याक्षाणीन्द्रिया णि वर्तन्त इत्यध्यक्षः ” इति तत्त्वप्रदीपोक्तेः । ‘ सर्वभूताधिवासः ’ सर्वप्राणिनामाश्रयः । सर्वं साक्षादीक्षते पश्यतीति ‘ साक्षी ’ । ईक्षणं च न प्राकृतं किन्तु चैतन्यस्वरूपमित्याह—‘ चेता ’ ज्ञानरूप इति । ‘ केवलो ’ जडामिश्रः, समाभ्यधिकशून्य इति वा “ केवलं तादृशा भावात् ” इति द्वितीयतात्पर्योक्तेः । केवलं चैतन्येनेक्षणमसंप्रज्ञातस माधिस्थस्य योगिनोऽपि भवतीति तद्व्यावर्तनायाह ‘ निर्गुण ’ इति । सत्त्वादिगुणबन्धहीन इत्यर्थः, प्राकृतगुणहीन इति वा । इतिशब्दस्य ‘ श्रुतौ निर्गुणस्य ’ इति पदद्वयाध्याहारेण श्रुतत्वादिति सूत्रेणान्व यः । “ अत्र वाच्यत्वं प्रतिपादयत्सूत्रं तदुपात्तश्रुत्युदाहरणपूर्वकं पठ

[ अधि - ६. सू - ११. ] दीपिकासहितम्. ८३ न ह्यशब्दं श्रूयते । न चाप्रसिद्धं कल्प्यम् । सर्व शब्दावाच्यस्य लक्षणाऽयुक्तेः ॥ ५ ॥ ६. अधिकरणम् ॥ ( १ ) तमेव समन्वयं प्रकटयति 'आनन्दमयोऽभ्यासात्' इत्यादि ति—एक इति" इति क्वाचित्कटीकापाठानुसारेण भाष्ये क्वचित् श्रु तिपाठानन्तरं सूत्रपाठो दृश्यते । तत्पक्षे त्वन्वयस्सुलभ एवेति ध्येय म् । श्रुतेत्वेऽप्यशब्दः किं न स्यादित्यप्रयोजकत्वशङ्कायामाह — न ही ति । 'हि' यतः 'अशब्दः' अवाच्यः पदार्थो 'न श्रूयते' न श्रुतिप देनोच्यत इत्यर्थः । अतो नाप्रयोजकत्वं हेतोरिति वाक्यशेषः । विरो धादित्यपि हिशब्दार्थः । ननु अशब्दस्यापि ब्रह्मणो लक्षणया श्रुतत्वं किं न स्यादित्यत आह— न चेति । 'अप्रसिद्धं' अवाच्यस्य ब्रह्मणो लक्ष्यत्वं न कल्प्यमित्यर्थः । कुतः ? यतोऽवाच्यस्य वस्तुनो लक्ष्यत्व मप्रसिद्धं अत इति व्याप्तिपरत्वेनापीदं योजनीयम् । ननु कथमेतत् ? गङ्गापदावाच्यस्यापि तीरस्य तत्पदलक्ष्यत्वप्रसिद्धेरित्यत उक्तं— स र्वेति । 'सर्वशब्दावाच्यस्य' ब्रह्मणो लक्षणायाः वेदपदलक्ष्यत्वस्यायु क्तेः विप्रतिपन्नं न लक्ष्यं, केनापि पदेनावाच्यत्वात् व्यतिरेकेण ती रवदिति युक्तिविरुद्धत्वादित्यर्थः । तथा च— नास्माभिः केवलावा च्यत्वेन लक्ष्यत्वाभावः साध्यते येन तीरादौ व्यभिचारः शङ्क्येत, किन्तु सर्वशब्दावाच्यत्वेन । तच्च न तीरादिगतं, तस्य तीरादिपदवा च्यत्वात् । ब्रह्म तु न तथा, तस्य सर्वशब्दावाच्यतयैव परेणाङ्गीकृत त्वात् । अतो न व्यभिचार इति युक्तिविरोधो दुष्परिहर इति भा वः । ननु लक्ष्यत्वाभाववति प्रवाहादौ हेत्वभावादसाधारणमिति चेत्— न, लक्षणायोग्यस्यैव लक्ष्यपदार्थत्वे सर्वपदार्थानामपि कि ञ्चित्पदलक्षणायोग्यत्वेन तदभावरूपसाध्यस्य कुत्राप्यभावेन स पक्षस्यैवाभावात् ॥ ११ ॥ ॥ इति ईक्ष्यत्यधिकरणम् ॥ ५ ॥ ६. अधिकरणम् ॥ ( १ ) अथाध्यायपादयोरुपोद्घातत्वेन पीठरूपायामस्यां पञ्चा

ना समस्तेनाध्यायेन प्रायेण । त्रिकरण्यां ब्रह्मस्वरूपनिरूपणे अनवशेषात्किमध्यायात्मकशेषग्रन्थेने त्यत आह—तमेवेति ॥ तथाऽपीत्यादौ योज्यम् । समन्वयशब्दश्च विप रिणामेनावर्तनीयः । तथा च—तथाऽपि प्रकटनं विनाऽध्यायाख्यशेष ग्रन्थस्य कृत्यान्तराभावेऽपि ‘तमेव’ ‘ “तत्तु समन्वयात्” इत्यनेन हेतुतया सामान्यतः सिद्धवदुपन्यस्तमेव समन्वयात् ‘समन्वयं’ उ पक्रमादिलिङ्गज्ञाप्यं सम्यग्वचनवृत्त्या सर्वशास्त्रीयवचनानां हरौ नि रूपणं तत्परत्वं ‘प्रकटयति’ प्रतिवाक्यग्रहणेन तद्धेतूपन्यासादिना प्रपञ्चयति “आनन्दमयोऽभ्यासात्” इत्यादिना अनेन प्रथमेनाध्या येन सूत्रकार इत्यर्थः । अन्यथा प्रतिज्ञामात्रस्य “तदेव शास्त्रयोनि, समन्वयात्” इति सिद्धवदुपन्यासमात्रस्य साधकत्वे “विष्णोरन्य देव शास्त्रयोनि, कुतः ? समन्वया

[ अधि - ६. सू - ११० ] दीपिकासहितम्. ८५ (२) प्रायेणान्यत्र प्रसिद्धानां शब्दानां परमात्मनि समन्व यः प्रदर्श्यतेऽस्मिन् पादे । नान्यथा तददृष्टेः । (३) ब्रह्मजिज्ञासा कर्तव्येत्युक्तम् । तच्च 'ब्रह्म पुच्छं भूमार्थे 'प्रायः' इत्यव्ययमप्यस्ति इत्यपिशब्दः प्रायोजि । प्रमेयदीपे ऽपि सान्तस्यैवाव्ययत्वमुक्तम् ॥ (२) तर्हि अध्यायस्यैकार्थत्वात् पादभेदः किं निबन्धन इत्यतः समन्वेतव्यभेदात् समन्वयेऽप्यवान्तरभेद इति भावेन प्रथमाध्यायप्र थमपादप्रतिपाद्यं दर्शयति—प्रायेणेति ॥ 'अस्मिन्' प्रथमे पादे 'प्रा येण' बाहुल्येन 'अन्यत्र' विष्णोरन्यत्र 'प्रसिद्धानां' श्रुत्यादितो लो कतो वाऽऽपाततो रूढत्वेन प्रतीयमानानां नामात्मकानां 'शब्दानां' 'परमात्मनि' विष्णौ निरुक्तः 'समन्वयः' 'प्रदर्श्यते' प्रपञ्च्यत इ त्यर्थः । अत्रापि अन्तरधिकरणे अन्तःस्थत्वलिङ्गसमन्वयप्रतिपादनात् अव्याप्तिनिरासाय—प्रायेणेति । तत्त्वप्रदीपे तु—एक एव भाष्ये प्राये णेति शब्दः । तस्यैवोत्तरत्रापि सम्बन्ध इत्याशयेन “प्रायेणान्यत्र प्र सिद्धानामिति च सम्बन्धः” इत्युक्तम् । तथा -आनन्दमयाधिकरणे लिङ्गविचारात्तदपि प्रायेणेति व्यावर्यमिति चोक्तम् । यद्वा—टीका यामप्यावृत्त्यभिप्रायेणैकस्यैव पुनरुत्तरत्रापि अन्वयप्रदर्शनाय प्रतीक ग्रहणं कृतमिति न ग्रन्थवैरूप्यं कल्प्यम् । अतएव तत्त्वप्रदीपानुसारे ण “आनन्दमयनाम्नः इति टीकायामानन्दमयनामशब्दः आनन्दादि नामपरो वा योज्यः” इत्युक्तं चन्द्रिकायाम् । अथ परोक्तं पादार्थं दू षयति—नेति । 'अन्यथा' प्रथमे स्पष्टब्रह्मलिङ्गानां शब्दानां द्वितीय तृतीययोरस्पष्टब्रह्मलिङ्गानां समन्वयः प्रतिपाद्यते । तयोस्तु सविशेष निर्विशेषविषयतया भेदः । चतुर्थपादे तु प्रधानस्याशाब्दत्वोक्तिरित्ये वं रूपोऽस्मदुक्तादन्यप्रकारेण पादार्थो न वाच्य इत्यर्थः । कुतो नेत्यत आह-तदिति । 'तस्य' परोक्तपादार्थनियमस्य 'अदृष्टेः' एतदध्यायगत पादेष्वदर्शनादित्यर्थः । सर्वसाङ्कर्यादिति भावः । तच्च टीकादावुक्तम्॥ (३) नन्वानन्दमयाधिकरणमारभ्य सर्वेषामधिकरणानामवश्य वक्तव्ये सङ्गतिपञ्चके अस्मिन्नधिकरणे लोकतोऽन्यत्रप्रसिद्धानन्दम यशब्दोपलक्षितगुणवाचिशब्दानामानन्दादिगुणवाचिशब्दानां च ब्र ह्मणि समन्वयकरणात् अस्यास्तु शास्त्रेऽध्याये पादे चान्तर्भावरूपा सङ्गतिः । तथाऽपि आनन्दमयस्य विष्णुत्वसमर्थने का अपूर्वस्सङ्गति

८६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] प्रतिष्ठा ' ( तै. २-५-२. ) इत्यानन्दमयावयवरूपं प्र रिस्यतोऽव्यवहितपूर्वाधिकरणेनैव सङ्गतिर्वक्तव्येति नियमाभावात् व्यवहितपूर्वेण जिज्ञासाधिकरणेन तद्विषयेण च अस्यानन्तर्यलक्षण लक्षितामाक्षेपिकीं सङ्गतिं तावद्दर्शयति—ब्रह्मेति ॥ 'उक्तं' जिज्ञासा धिकरणे इति शेषः । 'तच्चेति' । यज्जिज्ञास्यतया प्रतिज्ञातं ब्रह्म तद्दे वेत्यर्थः । यद्वा—प्रकृतानुसन्धानार्थश्चशब्दः । इतीत्यनन्तरं 'श्रुतौ' इति शेषः । 'आनन्दमयावयवरूपमिति' आनन्दमयाख्यस्य कस्य चित्पुच्छाख्यावयवभूतं प्रतीयत इत्यर्थः । ननु ब्रह्मणोऽवयवत्वोक्ताव पि किमर्थमानन्दमयस्य विष्णुत्वसमर्थनमित्यत आह—न हीति । हि शब्दो हेतौ । 'अत' इत्यावर्तते । 'तच्च' इत्यादि 'इत्यत आह' इत्य न्तं सङ्गतिप्रयोजनोभयपरतया व्याख्येयम् । न हीत्येतत्तदुपपादकम् । योजना तु—यतो 'ब्रह्म पुच्छं प्रतिष्ठा' इति श्रुतौ जिज्ञास्यतयोक्तं ब्र ह्म आनन्दमयाख्यस्य कस्य चिदवयवरूपं 'प्रतीयते' उच्यते यतश्च अन्याङ्गतया जिज्ञास्यत्वेऽपि 'अवयविनं' आनन्दमयं विना 'अवय वमात्रस्य' अवयवस्यैव केवलस्य ब्रह्मणो न पृथक् 'ज्ञेयता' जिज्ञा स्यता सम्भवति । अमुख्यत्वात् । नापि जिज्ञासाया एव त्यागो यु ज्यते । “तद्विजिज्ञासस्व” (तै. उ. ३-१.) इति श्रुतिविहितत्वादित्येवं शङ्का प्राप्ता । अतः शङ्कारूपसङ्गतिसद्भावात् अत्रानन्दमयस्य विष्णुव न्यत्वपक्षे ब्रह्मजिज्ञासाक्षेपात् विष्णुत्वपक्षे च तत्समाधानात् एवं च पूर्वपक्षसिद्धान्तयोः फलसद्भावाच्च 'अतो' ब्रह्मजिज्ञासासिद्ध्यर्थं 'आन न्दमयोऽभ्यासात्' इत्यानन्दमयस्य विष्णुत्वं 'आह' समर्थयति सूत्र कार इति ॥ “ तस्माद्वा एतस्माद्विज्ञानमयात् । अन्योऽन्तर आत्मानन्दमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्व यं पुरुषविधः । तस्य प्रियमेव शिरः । मोदो दक्षिणः पक्षः । प्रमोद उत्तरः पक्षः । आनन्द आत्मा । ब्रह्म पुच्छं प्रतिष्ठा ।” ( तै. उ. २-५-२. ) इति तैत्तिरीयवाक्यस्यायमर्थः । 'तस्मात्' आत्मपदोदितात् 'एत स्मात्' जीवशरीरगतात् विज्ञानपूर्णत्वात् विज्ञानमयशब्दवाच्यात् विष्णोः अनन्योऽप्यन्यशब्दोक्तः 'आनन्दमयः' आनन्दपूर्णत्वादानन्द मयशब्दवाच्यः 'आत्मा' नारायणः 'अन्तरो' विज्ञानमयस्यान्तःस्थितः

[ अधि - ६. सू - ११. ] दीपिकासहितम्. ८७ तीयते । न ह्यवयविनं विना अवयवमात्रस्य ज्ञेयत्वं त्यत आह ॥— 'तेन' आनन्दमयेन 'एषः' विज्ञानमयशब्दवाच्यो वासुदेवः 'पूर्णः' निश्चिद्रत्वेन पूरितः । वैशब्दः प्रसिद्धौ । 'स एष' आनन्दमयः 'पुरु- षविध एव' पुरुषाकार एव । 'तस्य' आनन्दमयस्य शरीरस्थानीयस्य पुरुषाकारतां 'अनु' अनुसृत्य 'अयं' विज्ञानमयः शरीरस्थानीयः 'पुरु- षविधः' तस्मात्प्रादुर्भूतः, उत्तरैः पूरिताः पूर्वे निश्चिद्रत्वेन सर्वशः । सर्वेऽपि पुरुषाकारा उत्तरात्पूर्वसम्भवः ॥ इति तैत्तिरीयभाष्योक्तेः । 'तस्य' आनन्दमयस्य विष्णोः अवयवभू- तं 'परेयं प्रियनामकम्' इति भाष्योक्तेः । परैरुत्तमैः देवैः प्राप्यत्वा- त्प्रियशब्दवाच्यं यत्सुखं तत्तस्य 'शिरः' तदेवानन्दमयाख्यस्य जी- वशरीरस्य परैरन्यैरुपकर्तृभिः प्राप्यत्वात् प्रियनामकमुपकारजन्यवै- षयिकसुखाख्यं यच्छिरः तत्स्थं च । एवमानन्दमयाख्यस्य विष्णोः ये दक्षिणोत्तरबाहुमध्यदेहाः मोदप्रमोदकारित्वानन्तत्वनिमित्तैर्मोदप्रमो- दानन्दनामानः ते आनन्दमयाख्यजीवशरीरस्य दक्षिणोत्तरपक्षा- त्मनामानो दक्षिणसव्यबाहुमध्यदेहाः । “मोदो' भोगनिमित्तकः 'प्र- मोदः' तद्विशेषोत्थः” इत्यैतरेयभाष्योक्तेः । मुन्नाम विषयोत्थं यत्प्रकृष्टविषयात्प्रमूत् । सुखं स्वरूपभूतं यदानन्द इति कथ्यते ॥ इति बृहद्भाष्योक्तेश्च । अपकृष्टविषयोद्भूतत्वप्रकृष्टविषयोत्थत्व- जीवस्वरूपानन्दत्वनिमित्तैर्मोदप्रमोदानन्दनामानस्तेषु स्थिताश्च । ए- वमानन्दमयाख्यस्य विष्णोः 'पुच्छं' प्रतिष्ठति गच्छति लोक आ- भ्यामिति व्युत्पत्त्या प्रतिष्ठापदोक्तौ यः पादाख्योऽवयवः तद्ब्रह्म 'ब्रह्म सृष्ट्या तु बृंहयेत्' इति तैत्तिरीयभाष्योक्तरीत्या सृष्ट्यादिक्रियया वि- श्वगुणवृद्धिकरत्वाद्व्रह्मशब्दवाच्यः स एवानन्दमयाख्यजीवशरीरस्य यत् पुच्छं यः पादाख्योऽवयवः तत्स्थिते ब्रह्माख्ये प्रधानवायौ स्थितः । अनेन कोशावयवस्य ब्रह्मशब्दवाच्यत्वं ब्रह्मशब्दवाच्यप्रधानवाय्वधि- ष्ठानत्वनिमित्तं, प्रधानवायोर्ब्रह्मशब्दवाच्यत्वं तु परब्रह्माधिष्ठानत्वादि- त्युक्तं भवति । अनेनानन्दमयादिशब्दवाच्यस्य विष्णोरवयवभूताः ये प्रि

८८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] सू—ॐ ॥ आनन्दमयोऽभ्यासात् ॥ ॐ ॥ १२ ॥ ( ४ ) आनन्दमयो ब्रह्मादिः प्रकृतिर्विष्णुर्वा । यादयः ते विष्णवभिन्नाः ये चानन्दमयादिजीवकोशावयवाः प्रियादय स्ते प्रतिशरीरं भिन्ना इति द्विविधा प्रियादय इत्युक्तं भवति । यथो क्तं चन्द्रिकायाम्—ये जीवाभिमन्यमानानन्दमयादिकोशावयवाः प्रि यादयस्ते प्रतिशरीरं भिन्नाः, न ते आनन्दमयाद्याख्यस्य विष्णोरवय वाः । ये च भगवतोऽवयवाः प्रियादयो न ते प्रतिशरीरं भिन्नाः कि न्त्वभिन्ना इति जीवस्वरूपस्यानन्दस्य हृदयाख्यमध्यगतत्वात्कोशम ध्यदेहत्वं स्वरूपदेहस्य जडावयवत्वं चामूख्यं युज्यते । यद्यपि भाष्ये ' शिरो नारायणः ' इत्युदाहरिष्यमाणवचनपर्यालोचनयाऽऽनन्दमया ख्यो नारायणः पुनर्नाrayana... wait, पुनर्नारायणादिरूपेण पञ्चधा भिन्नः शिरःप्रभृत्यवय वात्मना तिष्ठतीति प्रतीयते । तैत्तिरीयभाष्ये तु—प्रियादीनामानन्दम यावयवत्वम् । तथापि प्रियादिसुखविशेषदेहस्थितब्रह्माख्यप्रधानवा युगतानां नारायणादिरूपाणामेव आनन्दमयाख्यविष्ण्ववयवत्वसम्भ वात्तेषामेव । परेयं प्रियनामकम् । मोदप्रमोदनामानौ मोदनाच्च प्रमोदनात् । देहस्थवायुसंस्थं च ब्रह्म सृष्ट्या तु बृंहयेत् । इति तैत्तिरीयभाष्योक्तरीत्या प्रियादिशब्दवाच्यत्वस्यापि सम्भवान्न विरोधः । तत्त्वप्रदीपे तु-प्रियशिरस्त्वादिनये “श्रवणोत्थं प्रियं, दर्शनो त्थो मोदः, भोगोत्थः प्रमोदः ” इति पदत्रयस्यार्थान्तरमुक्तम् । तथा तत्रैव ' अभावं बादरिः ' इति सूत्रेण ' प्रियाप्रिये ' ( छां. ८-१२-१. ) इति श्रुतिस्थप्रियशब्देन ' परेयं प्रियनामकम् ' इति तैत्तिरीयच्छान्दो ग्यभाष्ययोरुक्तत्वात्परप्राप्यसुखसामान्यवाचकेन प्राकृतं सुखं ग्राह्य मिति सूचितम् ” इति चोक्तम् । इदं त्ववधेयं—परिदृश्यमानमन्नम यं शरीरम् । तदन्तः प्राणमयो देहः । तदन्तर्मनोमयो देहः । तदन्त र्विज्ञानमयो देहः । तदन्तरानन्दमयोऽस्ति । एतेषु पञ्चसु देहाख्यको शेषु तत्तच्छब्दवाच्यानि पुरुषाकाराणि अनिरुद्धप्रद्युम्नसङ्कर्षणवासुदे वनारायणरूपाणि देहदेहिभावेन वर्तन्त इति ॥ ( ४ ) एवं सङ्गतिं फलं चोक्त्वा विषयसंशयौ दर्शयति—आन न्दमय इति ॥ आनन्दमय इत्युपलक्षकपदेन विषयो दर्शितः । ब्रह्म

[ अधि - ६. सू - १२. ] दीपिकासहितम्. ८९ ( ५ ) ब्रह्मशब्दाद्धिरण्यगर्भस्य प्राप्तिः । शतानन्दनाम्ना च । ( ६ ) अष्टमूर्तित्वात्सूर्ये प्रोक्तत्वाच्च रुद्रस्य । ( ७ ) एवमन्येषामपि । ( ८ ) ‘ मम योनिर्महद्ब्रह्म ’ ( भ.गी. १४-३. ) इति ब्रह्मश दिरित्यत्र ब्रह्मा आदिर्यस्य जीवसङ्घस्येति विग्रहः । ब्रह्मा चतुर्मुखः, आदिशब्देन रुद्रेन्द्रबृहस्पतिमुखा देवास्तत्तद्देहगतजीवाश्च गृह्यन्ते । प्रकृतिशब्देन च चित्प्रकृतिः । ‘ इति संशय ’ इति शेषः ॥ ( ५ ) अत्र सयुक्तिकं पूर्वपक्षमाह-ब्रह्मशब्दादिति ॥ आनन्दमयमध्- कृत्योदाहृते ‘ अस्ति ब्रह्मेति चेद्वेद ’ ( तै.उ.२-६-१. ) इत्यादौ श्रुताद्ब्र- ह्मशब्दादित्यर्थः । ब्रह्मशब्दस्य अन्यत्रापि वृत्तेः कथं तेन चतुर्मुखस्या- नन्दमयत्वनिश्चय इत्यतो युक्त्यन्तरमाह— शतेति । चोऽप्यर्थे समुच्च- ये । “ ते ये शतं प्रजापतेरानन्दाः, स एको ब्रह्मण आनन्दः ” ( तै.उ. २ - ८ - ४. ) इति वाक्यादर्थात्सूचितेन शतानन्दनाम्नेत्यर्थः । यद्वा— आनन्दमयशब्दसमानार्थकेन हिरण्यगर्भे विद्यमानेन शतानन्दनाम्ने- त्यर्थः । ‘प्राप्तिः ’ आनन्दमयत्वस्येति शेषः । तथा च—हिरण्यगर्भस्य आनन्दमयत्वस्य प्राप्तिरित्यन्वयः ॥ ( ६ ) एवमेकं पूर्वपक्षमभिधाय अन्यमाह— अष्टमूर्तित्वादिति ॥ चशब्दो रुद्रस्य चेति सम्बध्यते । प्राप्तिरित्यस्यानुकर्षणार्थो वा । तथा च-रुद्रस्य चानन्दमयत्वप्राप्तिः । कुतः ? सूर्ये प्रोक्तत्वात् । ‘यश्चासावा- दित्ये’ ( तै.उ.२-८-५. ) इत्यानन्दमयस्य सूर्ये स्थितेः उक्तत्वादुद्रस्य च सूर्याद्यष्टशरीरत्वादित्यर्थः । तथाच-रुद्रलिङ्गस्य आनन्दमये श्रुत- त्वात् आनन्दमयो रुद्र एवेति भावः । रुद्रस्य सूर्याद्यष्टप्रतिमत्वं च सूर्यो जलं मही वह्निर्वायुराकाश एव च । दीक्षितो ब्राह्मणस्सोम इत्येतास्तनवः क्रमात् ॥ इति विष्णुपुराणवाक्यात्सिद्धम् ॥ ( ७ ) पूर्वपक्षान्तरं दर्शयति-एवमिति ॥ उक्ताभ्यां ‘अन्येषां’ इन्द्र- बृहस्पत्यादीनामपि ‘ एवं ’ उक्तप्रकारेण स्वावरसूर्याद्यधिष्ठातृत्वादि- ना आनन्दमयत्वप्राप्तिरित्यर्थः ॥ ( ८ ) सयुक्तिकं पूर्वपक्षान्तरमाह—ममेति ॥ योजना तु चित्प्रकृ- तेर्याऽऽनन्दमयत्वप्राप्तिः । कुतः ? ब्रह्मशब्दात् । आनन्दमये श्रुतस्य ब्रह्म- शब्दस्य ‘ मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम् ’ इति गीता- १२

९० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] ब्दात्, बहुभावाच्च प्रकृतेः । ( ९) बृह जातिजीवकमलासनशब्दराशिष्विति ब्रह्मशब्द। देव सर्वजीवानां, अन्नमयत्वादेश्च । यां चित्प्रकृतौ प्रयोगादिति । स्मृतौ—महद् ब्रह्मेति भिन्ने पदे । तथा च महत् ब्रह्मशब्दवाच्या लक्ष्मीः मम योनिः गर्भाधानार्थे भार्या । त स्मिन् ब्रह्मणि प्रकृतौ अहं गर्भं दधामि दध इत्यर्थः । अर्जुनं प्रति कृ ष्णवाक्यमेतत् । कथं सावकाशेन ब्रह्मशब्देन प्रकृतेरानन्दमयत्वनि श्चय इत्यतो हेत्वन्तरमाह—'बहुभावात्' बहुरूपत्वाच्चेति । चौ हेतु समुच्चये । तथा च 'सोऽकामयत । बहु स्याम्' (तै. उ. २-६-२.) इत्यानन्दमयस्य 'बहुभावात्' बहुभावश्रवणात् तदभिमानित्वाच्चित्प्र कृतेः स्वाभिमन्यमानविकारिजडद्वारा बहुभावसम्भवादित्यर्थः । एवं

[ अधि - ६. सू - १२. ] दीपिकासहितम्. ९१ (१०) तथाऽपि न त आनन्दमयशब्देनोच्यन्ते । किन्तु, वि- ष्णुरेव । 'तदेव ब्रह्म परमं कवीनाम्' (महाना. १-६०. ) 'एतमेव ब्रह्मेत्याचक्षते' (ऐ.आ. ३-२-३-१२. ) (११) ब्रह्मशब्दः परे विष्णौ नान्यत्र क्वचिदिष्यते । असम्पूर्णाः परे यस्मादुपचारेण वा भवेत् ॥ मिति ध्येयम् ॥ (१०) सिद्धान्तयति—तथाऽपीति ॥ यद्यप्येवमन्येषां प्राप्तिः, तथाऽ- पि अत्र ये आनन्दमयशब्देनोच्यन्ते न ते हिरण्यगर्भादय इत्यर्थः । कस्तर्हीत्याशङ्कते-किन्विति । उत्तरमाह-विष्णुरेवेति । य उच्यते स विष्णुरेवेत्यन्वयः । अनेनोदाहृतानन्दमय इति सूत्रप्रतिज्ञाभागस्य स- ङ्गत्यर्थमन्वयार्थं समन्वयसूत्रोदाहृतो विधेयसमर्पकः 'तन्तु' इति प्र- तिज्ञाभागो व्याख्यातो भवति । कुत आनन्दमयो विष्णुरेवेत्यतः प्रवृ- त्तं सौत्रं हेतुं व्याचष्टे—तदेवेति । इत्यादिषु वाक्येषु तस्मिन्विष्णावे- व प्रसिद्धस्य मुख्यार्थत्वेनोक्तस्य ब्रह्मशब्दस्य तस्मिन्नानन्दमये आन- न्दमयं प्रत्युदाहृते 'असन्नेव' इति श्लोके 'अभ्यासात्' असकृच्छ्रव- णादित्यर्थः । अभ्यासादित्यनन्तरं 'विष्णौ तात्पर्यावगमात्' इति शे- षः । अप्रयोजकत्वशङ्कावारणाय ब्रह्मशब्दस्यान्यत्र निरवकाशत्वज्ञाप- नाय तस्मिन् प्रसिद्धेति एवेति चोक्तम् । आदिशब्देन 'परमं यो मह- द्ब्रह्म' 'वासुदेवात्परः को नु ब्रह्मशब्दोदितो भवेत्' इति वाक्यं गृह्य- ते । तदेवेति श्रुत्यर्थस्तु जिज्ञासानयेभिहितः । 'एतमेव' इति श्रु- त्यर्थः सर्वत्राधिकरणे वक्ष्यते ॥ (११) 'ब्रह्मशब्दः' इति स्मृतौ 'परे' पूर्णे इति हेतुगर्भविशेष- णम् । वाशब्दोऽवधारणे । तथा च यतो विष्णुः परः, अतः 'परे' वि- ष्णावेव ब्रह्मशब्दो मुख्यतया 'इष्यते' अङ्गीक्रियते प्रामाणिकैः । न तु विष्णोः 'अन्यत्र' हिरण्यगर्भादिष्वपीत्यर्थः । कुत इत्यतस्तेषां ब्र- ह्मशब्दमुख्यार्थत्वाभावे हेतुमाह—'परे' अन्ये यस्मादसम्पूर्णा इ- ति । तर्हि 'तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते' (मु. १-१-९.) 'द्वे ब्रह्मणी वेदितव्ये' (मैत्रि.उ.६-२२.) 'ब्रह्माणि जीवाः सर्वेऽपि' इत्यादौ ब्रह्मशब्दस्तेषु कथमित्यत आह—क्वचिदन्यत्रेष्टोऽपि ब्रह्मशब्दः 'उपचारेण' परममुख्यवृत्त्यन्यमुख्यवृत्त्यैव भवेदिति । 'ब्रह्म' इति भागवतस्मृत्यर्थः । प्रागेवोक्तः । मध्ये आत्मपदोपेतसाधारणस्मृ-

९२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] ब्रह्मेति परमात्मेति भगवानिति शब्द्यते । वासुदेवात्मकं ब्रह्म मूलमन्त्रेण वा यतिः ॥ इत्यादिषु तस्मिन्नेव प्रसिद्धब्रह्मशब्दाभ्यासात् । ( १२ ) सू— ॐ ॥ विकारशब्दान्नेति चेन्न प्राचुर्यात् ॥ ॐ ॥ १३ ॥ त्युपादाननिमित्तं तु अभ्यासादित्यस्य ‘अन्योन्तर आत्मा’ (तै.उ.२- २-१०) इत्यादौ ब्रह्मवाचकात्मशब्दाभ्यासादित्यप्यर्थो वर्णनीय इति ज्ञापनमित्युक्तं चन्द्रिकायाम् । ‘वासुदेवात्मकम्’ इति व्यासस्मृ- तिवाक्यं तु ‘बुद्ध्याप्यविहिंसन् पुष्पैर्वा प्रणवेन समर्चयेत्’ इति पूर्ववाक्येन सह योजनीयम् । अत्र हि वासुदेवात्मकं ब्रह्मेत्यादेर्भ- गवान् ब्रह्मेति प्रतीयते इति न्यायदीपोक्तेः । ‘यतिः’ ‘वासुदेवात्मकं’ कृष्णाख्यं ब्रह्म ‘बुद्ध्या’ मनसा समर्चयेदित्यनेन यतीनां मानसपू- जोच्यते पुष्पैर्वा समर्चयेत् इत्यनेन कायिकपूजा । ‘अविहिंस- न्’ कस्याऽपि हिंसां हानिमकुर्वन्निति तेषां सामान्यधर्मोक्तिः । अनेन यतीनां वैष्णवत्वप्रयुक्तात् तुलसीपुष्पाद्याहरणरूपाद्वैशेषिकाद्धर्माद् हिंसालक्षणः सामान्यधर्म एव बलवानित्युक्तं भवति । यथोक्तं बृह- द्भाष्ये—‘सामान्यधर्मो बलवान् धर्माद्वैशेषिकाद्यतः’ इति । ‘प्रणवे- न’ ओंङ्कारेण ‘मूलमन्त्रेण’ अष्टाक्षरेण वा समर्चयेदित्यनेन वाचक- पूजोच्यते इति ज्ञातव्यम् ॥ ( १२ ) उक्तमाक्षिप्य समादधत्सूत्रं पठित्वाऽऽक्षेपांशं व्याचष्टे— विकारेति ॥ अत्र चो हेतुसमुच्चये । प्रकृतिशब्देन चिदचित्प्रकृती गृ- ह्येते । आदिशब्देन जीवा गृह्यन्ते । प्रकृत्यादय इति च विपरिणम्य- ते । नञ् आवर्तते । आनन्दमय इत्यस्ति, किं तु विष्णुरिति च । तुश- ब्दो विशेषार्थोऽवधारणार्थे च । तथा च—आनन्दमयो न विष्णुः, किन्तु, प्रकृत्यादय एव । कुतः ? यतोऽत्र ‘विकारशब्दो’ विकारार्थकम् यच्छब्दो ‘युज्यते’ प्रयुज्यते । स च यतो विकारतदभिमानित्वाभ्या- मेव ‘युज्यते’ प्रवर्तते । अतः प्रकृत्यादीनामेव युज्यते । कुतः? जडप्रकृ- तेर्विकारात्मकत्वाच्चेतनप्रकृत्यादीनां च विकाराभिमानित्वात् । न तु परमात्मनः; तस्याविकारित्वाददनभिमानित्वाच्चेति योजना । ‘इति चे- न्न’ इत्यंशं व्याचष्टे—इति मा भूदिति । शङ्केति शेषः । कुत इत्यतः प्र- वृत्तं सौत्रं हेतुं व्याचष्टे —प्रचुरेति । आनन्दमयः कथ्यत इति शेषः । हिशब्दो हेतौ । तुशब्दोऽवधारणार्थः । तथा च ‘हि’ यतः ‘आनन्द