पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
८०४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ] (४) सू—ॐ ॥ उपपत्तेश्च ॥ ३६ ॥ ऐश्वर्यात्परमाद्विष्णोर्भक्त्यादीनामनादितः । ब्रह्मादीनां सूपपन्ना ह्यानन्दादेर्विचित्रता ॥ इति पाद्मे ॥ ३६ ॥ —— १८. अधिकरणम् ॥ ( १ ) ध्यानकाले यच्चित्ते प्रदृश्यते तदेव ब्रह्मरूपं अतः कथ मव्यक्ततेति । स्वारस्यं चेति ध्येयम् । वाराह इति । उक्तार्थोऽभिहित इति शेषः ॥ ( ४ ) युक्त्यन्तरेण बिम्बानन्दाद्यवैचित्र्येऽपि प्रतिबिम्बवैचित्र्यमु पपादयत्सूत्रं पठित्वा स्मृत्यैव व्याचष्टे--उपपत्तेश्चेति ॥ न केवलं प्रति बिम्बानन्दादिवैचित्र्यस्य बिम्बावैचित्र्येऽपि स्थानविशेषादुपपत्तिः, किन्तु बिम्बभूतभगवदैश्वर्यवशाच्चेति सूत्रवृत्ति चशब्दस्याध्याहृतहे तुनाऽन्वयं चाभिप्रेत्यासिद्धिपरिहारायोपपत्तेरित्यस्य उक्तहेतुकोपप त्तिवचनादित्यर्थमुपेत्य स्मृतिरूपं तद्वचनमुदाहरति--ऐश्वर्यादिति ॥ विष्णोः परमादैश्वर्याद्ब्रह्मादीनां गुणानां भक्त्यादीनां 'अनादितः' अनादिभक्त्यादिवशादिति यावत् । ब्रह्मादीनामानन्दादेः 'विचित्रता' मध्वोच्चादिभेदभिन्नं तारतम्यं 'हि' आनन्दश्रुत्यादिप्रसिद्धं 'सूपपन्ना' सम्यगुपपन्नमित्यर्थः । एकस्यैवानन्दस्य चूतफलादिभोगप्रयुक्ता ये आनन्दादेर्विशेषास्तदात्मकत्वं विचित्रत्वं तु प्रकृतानुपयुक्तम् । भ क्त्यादिग्रहणेन पूर्वसूत्रोक्तभक्त्यादिरूपनिमित्तं चशब्दसमुच्चेयं द र्शितम्। भक्त्यादीनामनादित्वोक्त्या पुरुषापादानां भक्त्यादिस्थानगु णानां कथं स्वाभाविकानन्दादिवैचित्र्ये हेतुत्वमिति शङ्का परिहृता । पाद्म इत्यस्य सूत्रेणान्वयः । 'उपपत्तेः' उपपन्नत्वोक्तेरित्यर्थः । अस्य नासिद्धिरित्यध्याहृतसाध्येनान्वयः ॥ १७ ॥ ॥ इति स्थानविशेषाधिकरणम् ॥ —— १८. अधिकरणम् ॥ ( १ ) अत्राधिकरणे ब्रह्मणो ध्यानप्रतीतादन्यत्वोक्त्या पुनरव्यक्त त्वं समर्थ्यते । पूर्वपक्षयति—ध्यानेति ॥ योजना तु—' यत् ' यतो ब्र ह्म ध्यानकाले 'चित्ते' मनसि 'प्रदृश्यते' तेन प्रतीयते अतः कथं
[ अधि - १८. सू - ३७. ] दीपिका सहितम्. ८०९ ( २ ) अत आह— सू--ॐ ॥ तथाऽन्यप्रतिषेधात् ॥ ॐ ॥ ३७ ॥ यथा जीवानन्दादेरन्यद्ब्रह्म तथोपासाकृतादपि । यन्मनसा न मनुते येनाहुर्मनो मतम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते (केन.१-६०) । इति प्रतिषेधात् । ब्रह्मणोऽव्यक्तता तस्माद्व्यक्तमेवेति । न च यच्चित्ते प्रदृश्यते न तद्ब्र ह्मेति वाच्यम् । यतस्तद्ब्रह्मरूपमेव, न ततोऽन्यत् । ननु ध्यानप्रतीतं न ब्रह्म, तथा सति ध्यातृबहुत्वेन तस्य बहुत्वपत्तेरित्यतोऽप्युक्तं—ब्र ह्मारूपमिति । रूपशब्दोऽत्र व्यक्तिपरः । समुदायैकवचनमेतत् । तथा च चित्ते प्रतीतानि ब्रह्मरूपाण्येव अतः स्वरूपभेदाभावेऽपि रूपाणां नानात्वात् ध्येयबहुत्वोपपत्तिरिति भावः ॥ ( २ ) सिद्धान्तयत्तसूत्रमवतार्य व्याचष्टे—अत इति ॥ ब्रह्मेत्येतत् तदानन्दादेरप्युपलक्षकम् । ‘उपासाकृतात्’ उपासनेन मानसवास नामयस्य वस्तुनो मनसाऽवलोकनाख्येन विषयीकृताद्वासनामयात् । अपिर्भिन्नक्रमः समुच्चयेऽवधारणे च। अत्र यथा जीवानन्दादेः ब्रह्मान न्दादिकमन्यत् तथा ब्रह्म उपासाकृतात् अन्यदिति नान्वयः। वैषम्ये णोपमानोपमेयभावायोगात् । किन्तु जीवानन्दादेरित्यतः परं यथाश ब्दस्यानृत्त्या योजनेन यथा जीवानन्दादेर्यथा येन विकृतत्वापरपर्याया न्यथात्वाल्पत्वादिना कारणेन ब्रह्मानन्दादि ततः ‘अन्यत्’ वि लक्षणं तथा तत्सदृशेन दुर्लक्षणत्वादिना कारणेन ब्रह्मापि उपासाकृ तात् ‘अन्यदपि’ विलक्षणमेवेति । अनेन सौत्रस्तथाशब्दः ‘परमतः’ इत्यत्रोक्तन्यायातिदेशकः समुच्चयार्थ इत्युक्तं भवति । इतीति । इत्येवं रूपे तलवकारवाक्ये उपासाकृतस्य ब्रह्मत्वप्रतिषेधादित्यर्थः। अनेन सू त्रे तद्व्यक्तमित्यनुवर्तनीयम् । अन्यदिति चावर्तनीयम् । तथा च ‘त त्’ ब्रह्म उपासाकृतादन्यत् । कुतः ? यतोऽन्यत् अत एव शेषशेषि णोरैक्यानुपपत्तेरेव श्रुतौ तस्य चित्ते प्रतिबिम्बितस्य ब्रह्मत्वप्रतिषेधः, अतः प्रतिषेधात् तद्वा ब्रह्म न, यतोऽन्यत् अतोऽव्यक्तमेव, न व्यक्तमिति सूत्रयोजना दर्शिता भवति । यदिदं वस्तु ‘उपासते’ ध्याय न्ति नेदं ब्रह्म, किन्तु पुरुषो यद्वस्तु ‘न मनुते’ साकल्येन न जानाति, येन वस्तुना मनो ज्ञातमाहुः कवयस्तदेव त्वं ब्रह्मेति विद्धीत्यर्थः । उ
८०६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ] ( ३ ) पश्यन्ति परमं ब्रह्म चित्ते यत्प्रतिबिम्बितम् । ब्रह्मैव प्रतिबिम्बे यत्तस्तेषां फलप्रदम् ॥ तदुपासनं च भवति प्रतिमोपासनं यथा । दृश्यते त्वापरोक्ष्येण ज्ञानेनैव परं पदम् ॥ उपासनात्त्वापारोक्ष्यं गमयेत्तत्प्रसादतः ॥ मां प्रति शङ्करवाक्यमेतत् । यद्यपि तलवकारभाष्ये आसेति भिन्नं प दमुपेत्य नेदं जीवस्वरूपं ब्रह्म, किन्तु यत् 'ते' तव 'उप' समीपे 'आ स' नियामकतया आस्ते तदेव ब्रह्म विद्धीति श्रुत्यर्थोऽभिहितः । तथा ऽपि प्रकृतोपयुक्तं व्याख्यानान्तरमेतत् । तत्राप्यासत्त इत्येकपदं ध्येय विरोधः ॥ ( ३ ) ननु ध्यानकाले प्रतीतस्याब्रह्मत्वे कथं ब्रह्म फलदं स्यात् । न ह्यन्यस्य ध्यानमन्यस्य फलदातृत्वमिति युज्यते अतिप्रसङ्गादित्यत आह—पश्यन्तीति ॥ यन्मनसि 'प्रतिबिम्बितं' प्रतिफलितं वासनाम यं वस्तु तत्परमं ब्रह्मेत्युच्यते । उपचारेण तदाश्रये तद्व्यपदेश इति भावः । तदेव ध्यानकाले पश्यन्ति । केचित्तु—ध्यानानन्तरं परमं ब्र ह्यापरोक्ष्येण पश्यन्तीत्यन्वयमाहुः । ननु प्रतिबिम्बितस्याब्रह्मत्वात् त द्ध्यानं कथं ब्रह्मध्यानफलदं स्यादित्यत आह—ब्रह्मैवेति । यतो न ध्या नं फलदं, किन्तु प्रतिबिम्बे यद्ब्रह्मास्ति तदेव तेषां ध्यातॄणां दर्शनाख्य फलप्रदमतो नोक्तदोष इत्यर्थः । यतः प्रतिबिम्बे ब्रह्मास्ति अतस्तेषां फलप्रदं भवतीत्येव वा । अल्पा अपि पिशाचादयः स्वाकारस्मृतौ किञ्चित्फलं दद्युः किमुत सर्वज्ञं सर्वशक्तिकं ब्रह्मेति भावेन पुनर्ब्रह्मेत्यु क्तिः । ननु स्थितिमात्रेण कथं ब्रह्म फलदमध्यातत्वादित्यत आह-तद्वि ति । प्रतिबिम्बोपासनमित्यध्याहारेण सम्बध्यते । तदुपासनमित्यस्या वृत्तिर्वा । तथा च यथा 'प्रतिमोपासनं' प्रतिमायामित्थंभूतो भगवा नस्तीति स्मृतिः तदुपासनं तदधिष्ठितब्रह्मोपासनं भवति, तथा 'तदु पासनं' प्रतिबिम्बोपासनं वासनामयवस्तुध्यानमपि 'तदुपासनं' ब्रह्मो पासनं भवतीति योजना ॥ प्रतिबिम्बं ब्रह्मैव कुतः न भवतीत्यत आह- दृश्यते इति ॥ यतः 'परं पदं' उत्तमं ब्रह्मापरोक्ष्येण । स्वार्थे ष्यञ्-भावत- द्वतोरभेदोपदेशो वा। अपरोक्षेण ज्ञानेनैव 'दृश्यते' विषयीक्रियते, न तु ध्यानेनेत्यर्थः । अपरोक्षेणेति पाठः स्वरसः। तर्हि ज्ञानायैव प्रयतितव्यं,
[ अधि - १९. सू - ३८. ] दीपिकासहितम्. ८०७ इति ब्रह्मतर्के ॥ ३७ ॥ -------------------------------------------------------------------- १९. अधिकरणम् ॥ ( १ ) देशकालान्तरे अन्यतोऽपि सृष्ट्यादि युक्तम् ॥ इति ॥ ( २ ) अतो ब्रूते— सू—ॐ ॥ अनेन सर्वगतत्वमायामशब्दादिभ्यः ॥ ॐ ॥ ३८ ॥ किमुपासनयेत्यत आह-उपासनेति । तुशब्दो निरर्थकत्वव्यवच्छेदकः, स्वातन्त्र्यव्यवच्छेदको वा अवधारणे वा । तथा चोपासना तस्य ध्या- नमेव । तस्य ब्रह्मणः प्रसादेन 'तत्' ब्रह्मापरोक्ष्यं 'गमयेत्' प्रापये- दित्यर्थः । तद्ब्रह्मापरोक्ष्यमपरोक्षज्ञानं तद्विषयतां गमयेदिति वा । ब्रह्म- तर्के इत्यनन्तरमुक्तं अतो न किञ्चिद्दोषावकाश इति वाक्यशेषः ॥१८॥ ॥ इति तथान्यत्वाधिकरणम् ॥ ::- १९. अधिकरणम् ॥ ( १ ) अत्राधिकरणे भगवत एव सर्वकर्तृत्वादि समर्थ्यते । पूर्वप- क्षयति—देशेति ॥ 'अन्यतो' ब्रह्मणोऽन्यस्मात् । अपिरेवार्थः । तत्त्व- प्रदीपे तु यद्यपि सृष्ट्यादि ब्रह्मण एव, तथाऽपि देशकालान्तरेऽन्यतो युक्तमित्यपिशब्दार्थ उक्तः । तथा च न ब्रह्मणः सकाशादेव सर्वसृ- ष्ट्यादि युक्तमिति भावः । युक्तेति पाठे क्रियेति संयोज्यम् । युक्तेत्यने- न राजादौ तथा दर्शनादिति युक्तिरुक्ता भवति ॥ ( २ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ प्रवर्तेत इ- त्यन्तेन अनेनेति साध्यभागः अनेन एषु इदमित्यावृत्तिविपरिणामा- भ्यां व्याख्यातः । सृष्ट्यादिकं प्रवर्त्तते भवतीति शेषो वा । पूर्वसूत्रेऽ- न्यदित्यस्य विशेष्यतया प्रकृतं ब्रह्मानेनेति परामृश्यते । न त्वन्यत इ- त्यवधारणार्थः । आधारत्वं विषयत्वं च सप्तम्यर्थः । तत्र देशकाल- योराधारत्वं वियदादिवस्तुनो विषयत्वमिति विवेकः । कुत इत्यतोऽत्र हेतुत्वेन प्रवृत्तं सर्वगतत्वेत्याद्यंशं सर्वगतत्वं च मायामयशब्दश्च सर्व- गतत्वमायामयशब्दौ तयोश्शब्द इति शब्दपदावृत्त्या विग्रहं एकत्र ष- ष्ठ्याः प्रतिपाद्यप्रतिपादकसम्बन्धार्थकत्वं अन्यत्र व्याख्यानव्याख्येय- भावसम्बन्धार्थकत्वं चाभिप्रेत्योभयविधश्रुत्युपन्यासपूर्वकं व्याचष्टे- एष इति । 'एषः' हरिः 'सर्वो' गुणपूर्णः व्याप्तश्चेत्यर्थः । प्रत्युद्देश्यं
८०८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ] सर्वदेशकालवस्तुष्वनेनैव सृष्ट्यादिकं प्रवर्त्तते । ' एष सर्व एष सर्वगत एष सर्वेश्वर एषोऽचिन्त्य एष पर मः' इति भालुवेयश्रुतिः । ( ३ ) सर्वत्र सर्वमेतस्मात्सर्वदा सर्ववस्तुषु । स्वरूपभूतया नित्यशक्त्या मायाख्यया यतः ॥ अतो मायामयं विष्णुं प्रवदन्ति सनातनम् । इति चतुर्वेदशिखायाम् । आदिशब्दादन्यत्र प्रमाणा भावाच्च ॥ ३८ ॥ विधेयसम्बन्धबोधनायैष इत्यभ्यासः । यद्यपि प्रथमोक्तं सर्वत्वं न सा- ध्यसाधकमिति भावेन यदनन्तरोक्तं सर्वगतत्वं सूत्रकृता गृहीतं तद प्यस्यैव सृष्ट्यादिकर्तृत्वमित्युक्तसाध्ये साधकं न भवति । तथाऽपि 'अनुप्रविश्य नामरूपे व्याकरोत्' (छा. ६-३-२.) इति श्रुतेः सर्वगत- त्वस्य सृष्ट्याद्यर्थत्वात् तच्छब्देनोक्तसाध्यसिद्धिसम्भवाद्युक्तस्तदुप- न्यासः। ईश्वरपरत्वज्ञापनाय समग्रश्रुत्युपन्यासः। सर्वगतत्वश्रुतौ सर्व- सृष्ट्यादिकर्तृत्वस्य अर्थादुक्तत्वात् मायामयशब्दोक्तायां मायामयशब्द- व्याख्यानरूपायां श्रुतौ तु साक्षादुक्तत्वात् प्रमेयभेदाच्छ्रुतिद्वयोपन्यासः॥ ( ३ ) 'सर्वत्र' सर्वदेशेषु 'एतस्मात्' विष्णोः 'सर्वदा' सर्वका- लेषु सर्ववस्तुषु सर्वमित्यन्वयः । सर्ववस्तुविषयं सृष्ट्यादीत्यर्थः । प्रव- र्तेत इति भाष्यपदमिहापि सम्बध्यते। तथा च यतः एतस्मात् मायया विश्वसृष्ट्यादि 'प्रवर्तते' भवति, अत एनं विष्णुं मायामयं वदन्ति क- वयः। मायया शक्त्या मातीति माया इच्छात्मिका शक्तिः स्वरूपभूता यस्यासौ मायामय इति व्युत्पत्तिसम्भवादिति भावः । कदाचिद्वि- ष्ण्वभावे शक्त्यभावेन सर्वदेशकालीनसर्वसृष्ट्यादिकर्तृत्वायोगा इति शङ्कावारणाय - 'सनातनं' परमनित्यं विष्णुं नित्यशक्त्येति चोक्तम् । नित्यत्वोपपादनाय—स्वरूपभूतयेति । चतुर्वेदशिखायां श्रुतिः पठिते- ति शेषः। 'अन्यत्र' देशकालान्तरे कतिपयवस्तुविषये विष्णोरन्यतः सृष्ट्यादावित्यर्थः । प्रमाणाभावाच्चेति । इति सङ्गृहीतमिति शेषः । न केवलं स्वपक्षसाधकादुक्तसाध्यसिद्धिः, किन्त्वन्यत्र परपक्षे प्रमाणा- भावाच्चेति समुच्चये चशब्दः ॥ १९ ॥ ॥ इति फलाधिकरणम् ॥
[ अधि - २०. सू - ४०. ] दीपिकासहितम्. ८०९ २०. अधिकरणम् ॥ ( १) कर्मापेक्षत्वात्फलदानस्य तदेव ददातीति न वाच्यम्। कुतः ? ( २ ) सू—ॐ ॥ फलमत उपपत्तेः ॥ ॐ ३९ ॥ अत एवेश्वरात्फलं भवति । न ह्यचेतनस्य स्वतः प्रवृ- त्तिर्युज्यते ॥ ३९ ॥ ( ३ ) सू—ॐ ॥ श्रुतत्वाच्च ॥ ॐ ॥ ४० ॥ २०. अधिकरणम् ॥ ( १ ) अत्राधिकरणे भगवतः स्वर्गादिकर्मफलदातृत्वं समर्थ्यते । पूर्वपक्षयति—कर्मेति ॥ फलदानस्येति षष्ठी सप्तम्यर्थे । ईश्वरस्येति शेषः । तथा च शुभाशुभफलदाने ईश्वरस्य पुण्यपापाख्यकर्मापेक्षत्वा दित्यर्थः । यद्वा—ईश्वरकर्तृकफलदानस्य कर्मापेक्षत्वासद्धीनत्वादि त्यर्थः । कर्मापेक्षत्वादित्येतद्व्याहत्यसिद्धिपरिहाराय कर्मापेक्षत्वस्ये श्वरवादिभिरङ्गीकृतत्वादित्यपि व्याख्येयम् । एवं फलदानस्य फलख ण्डनस्य फलादानस्य कर्मापेक्षत्वात् तदकरणापेक्षत्वादिति व्यतिरेक परतयाऽपीदं व्याख्येयम् । तथा च अन्वयव्यतिरेकाभ्यां तदेव कर्मैव फलं ददाति नेश्वर इति ज्ञायत इत्यर्थः । सिद्धान्तयन्नेतत्प्रतिषेधति- इति न वाच्यमिति । अत्र हेतुं पृच्छति—कुत इति ॥ ( २ ) एतच्चोद्योत्तरत्वेन सूत्रमुपन्यस्य व्याचष्टे—फलमिति ॥ अ त इत्यनूद्य सावधारणत्वाभिप्रायेणास्मादीश्वरादेवेति व्याख्यातम् । न कर्मण इत्येवार्थः । उपलक्षणमेतत् । अतः सर्वत्र सर्वमेतस्मादित्यु क्तेरेवेति तत्त्वप्रदीपोक्तमपि द्रष्टव्यम् । 'फलं' स्वर्गनरकादिरूपम् । भवतीति सूत्रशेषोक्तिः । इतिशब्दो हेतौ, सूत्रार्थस्य न वाच्यमिति साध्ये हेतुत्वद्योतकः । फलमत इति प्रतिज्ञायामुपपत्तेरिति हेतुर्यो ज्यः । तस्येश्वरस्य चेतनत्वात्सर्वेशितृत्वाच्च फलदातृत्वोपपत्तेरित्य र्थः इत्याशयेनैवकारेणोक्ते कर्मणः फलदातृत्वाभावे उपपत्तिरित्यनेना र्थलब्धं हेतुं स्वयं योजयति—न हीति । अचेतनस्येति हेतुगर्भः । 'प्र वृत्तिः' फलदाने । फलदातृत्वमिति यावत् । अस्मदादावदर्शनादिति हिशब्दार्थः । अन्याधीनप्रवृत्तिदर्शनात्कथमेतदित्यत आह-स्वत इति॥ ( ३ ) नन्वीश्वरस्य चेतनत्वेन फलदातृत्वसम्भावनैव भवेत् न नि १०२
८१० ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ] 'विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणम्' (बृ. ५- ९-२८.) इति ॥ ४० ॥ (४) सू-ॐ ॥ धर्मं जैमिनिरत एव ॥ ॐ ॥ ४१ ॥ यतः फलं तदेव कर्म ईश्वराद्भवति । 'एष ह्येव साधु श्चयः, अतः कुतोऽसौ निश्चय इत्याशङ्कां परिहरत्सूत्रमुपन्यस्य तदुपा- त्तश्रुतिमेवोदाहरति—श्रुतत्वाद्वेति ॥ इति श्रुतत्वादित्यन्वयः । न के- वलं चेतनत्वादुपपत्तेरीश्वरस्य फलदातृत्वं सम्भाव्यते, किन्तु श्रुत्यु- क्तत्वाच्च तन्निश्चीयते चेति सूत्रार्थः । 'विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणम् । तिष्ठमानस्य तद्विदः' (बृ.५-९-२८.) इति वाजसनेयवाक्ये एकवचनं समुदायापेक्षया, विशेष्यब्रह्मशब्दवि- वक्षया आनन्दमिति नपुंसकप्रयोगः 'निर्दोषचैतन्यसुखान्तनुम्' इ- ति विष्णुतत्त्वनिर्णयोदाहृतवाक्य इव । तथा च 'दातुः' हविःप्रदातृ- णां यजमानानां पूजकानां 'रातिः' प्रियः । फलप्रद इति यावत् । 'ति- ष्ठमानस्य' स्वस्मिन् मनसा वर्तमानानां 'तद्विदो' ब्रह्मज्ञानिनां 'परा- यणं' परमप्रियं 'विज्ञानं' पूर्णज्ञानं पूर्णानन्दं ब्रह्मेत्यर्थः । यथोक्तं बृ- हद्भाष्ये— स प्रियः सर्वदातॄणां ज्ञानिनां परमप्रियः । ये तु तद्भाविता नित्यं तेषामेव परायणम् ॥ इति ॥ ब्रह्मपरत्वस्फोरणाय विज्ञानमित्याद्युदाहृतम् ॥ (४) उक्तमाक्षिपत्सूत्रमुपन्यस्य व्याचष्टे—धर्ममिति ॥ तत्कर्मैवे- त्येवकारान्वयः । सौत्रधर्मपदमधर्मस्याप्युपलक्षकमिति भावेन तदिति स्वपदं कर्मेति सामान्यपदेन विवृतम् । ईश्वरात् यतश्श्रुतिरित्याभ्यां अ- त इति पदं द्वेधा व्याख्यातम् । कर्मेति सामान्योक्त्या 'एष ह्येव' इति श्रुतिप्रतीकग्रहणेन च 'एष ह्येवासाधु कर्म कारयति' (कौ.३-८.) इ- त्यस्याप्युदाहर्तव्यतां ज्ञापयति । जैमिनिर्मन्यत इति शेषः । श्रुतिस्तु वैष- म्येन्वये व्याख्याता। सूत्रे नेति शेषः । तथा च यदुक्तं ईश्वर एव फल- प्रदो, न कर्मेति तन्न, कुतः ? 'अत एव' फलस्य कर्मान्वयव्यतिरेका- नुविधायित्वादेव । इदं तु न्याय्यं, किं तत्? यत् 'अतो' धर्माधर्मा- ख्यकर्मत एव फलं भवति, तच्च कर्म तदीश्वराद्भवति । कुतः ? 'अ- तः' 'एष ह्येव' इति श्रुतेरेव । यत एवमत ईश्वरोऽपि अतः एतस्मि-
-
सू - ४२. ]
or[ अधि - २०. - सू - ४२. ]. Let's just transcribe:[ अधि - २०. - सू - ४२. ] दीपिकासहितम् । ८११or with dots:[ अधि - २०. - सू - ४२. ] दीपिकासहितम्. ८११`.Let's trace all lines from top to bottom: [ अधि - २०. - सू - ४२. ] दीपिकासहितम्. ८११ कर्म कारयति' (कौ० ३-८.) इति श्रुतेरिति जैमिनिः ॥ ४१ ॥ ( ५ ) सू - ॐ ॥ पूर्वं तु बादरायणो हेतुव्यपदेशात् ॥ ॐ ॥ ४२ ॥ परस्य कर्मणश्चोभयोः फलकारणत्वेऽपि न कर्म पर प्रवर्तकम् । पर एव कर्मणः प्रवर्तकः । 'पुण्येन पुण्यं लोकं नयति पापेन पापम्' (प्र. ३-२.) इति हेतुव्यप ष 'रातिः' इति श्रुतिवचने एतेन फलदातृत्वेन रूपेणोपचर्यत इति । न केवलं कर्मणः फलप्रदत्वमन्वयव्यतिरेकरूपन्यायप्राप्त
९१२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ] देशात् । ‘द्रव्यं कर्म च कालश्च’ इति च ॥ ४२ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रभाष्ये तृतीयस्याध्यायस्य द्वितीयः पादः. * ॥ ॐ ॥ र्वोक्तचेतनत्वादिति हेतुः ‘द्रव्यम्’ इति स्मृतिश्च समुच्चीयत इत्युक्तं भ वति । ‘पुण्येन’ इति श्रुतिः वैषम्यनये ‘द्रव्यम्’ इति स्मृतिश्च रचना धिकरणे व्याख्याता । अत्र श्रुतेः पुण्येन च ज्ञानमुत्पाद्य पापं विनाशय तस्य पुण्यपापरहितस्य ज्ञानिनः प्रसन्नः स्वयमेव फलमनन्तं हि ददा तीत्यहो भगवतो नारायणस्याश्चर्यरूपोऽयं महिमेति तत्त्वप्रदीपोक्तार्थ विशेषोऽपि ग्राह्यः । कर्मब्रह्मणोः स्वातन्त्र्यास्वातन्त्र्यव्युत्पादनप्रका रश्च तत्रैवोक्तः ॥ २० ॥ ॥ इति फलाधिकरणम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्याणां सर्वतन्त्रस्वतन्त्राणां श्रीमद्रघुनाथतीर्थपूज्यपादानां शिष्येण श्रीमज्जगन्ना थयतिना कृतायां श्रीमद्ब्रह्मसूत्रभाष्यदीपिका यां तृतीयाध्यायस्य द्वितीयः पादः. * ॥ ॐ ॥
[ अधि - १०. सू - १. ] दीपिकासहितम्. ८१३ १०. अधिकरणम् ॥ ( १ ) उपासनाऽस्मिन् पादे उच्यते । सर्वपरिज्ञानं प्रथमत उच्यते— सू—ॐ ॥ सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ॥ ॐ ॥ १ ॥ १०. अधिकरणम् ॥ ( १ ) एतत्पादार्थं दर्शयति—उपासनेति ॥ जिज्ञासापरपर्यायोपास ना 'अस्मिन्' तृतीयस्य तृतीये पादे 'उच्यते' कर्तव्यत्वेन प्रतिपाद्यत इत्यर्थः । आद्याधिकरणतात्पर्यमाह-सर्वेति । उपासना द्विविधा । श्रव णमननापरपर्यायशास्त्राभ्यासरूपा ध्यानरूपा चेति । तत्राद्यायाः य थाशक्तिसर्ववेदतदर्थज्ञानरूपाया अज्ञानसंशयविपर्ययनिर्वर्तिकायाः ध्यानाङ्गत्वात् सैव 'प्रथमतः' आद्याधिकरणे 'उच्यते' अधिकारि भिः सम्पाद्यत्वेन प्रतिपाद्यत इत्यर्थः । अत्र भाष्यसुधाटीकासु सर्ववे देति सर्वशाखेति च विशिष्योक्त्या मीमांसकमत इव ऋग्यजुस्साम रूपवेदत्रयस्याध्येतव्यत्वनियमवत्तैत्तिरीयकाण्वादिरूपशाखाद्वयस्य ध्येतव्यत्वनियमो नास्तीति न भ्रमितव्यमिति सूचितम् । अस्मन्मते सर्ववेदसर्वशाखोक्तब्रह्मगुणज्ञानार्थं शक्तैस्सर्ववेदवत्सर्वशाखानां अ ध्येतव्यत्वात् । तदर्थानामपि शक्तैर्ज्ञेयत्वात् । अशक्तैस्तु यथाशक्ति अध्येतव्यत्वात् ज्ञेयत्वाच्च । अत्र किमेकैकेनैव सर्ववेदशाखोक्तं ब्रह्म श्रवणमननाभ्यां ज्ञातव्यं उत स्वस्ववेदशाखोक्तमिति संशये स्वस्ववे दशाखोक्तमेव ज्ञातव्यमिति पूर्वपक्षे च सति सिद्धान्तयत्सूत्रं पठति- सर्वेति । अत्र वेदान्तपदस्योपनिषत्परत्वभ्रान्तिनिवारणाय अन्तपदं व्या चष्टे-अन्त इति । अत्र प्रमाणमाह-उभयोरिति । 'नासतो विद्यते भावो नाभावो विद्यते सतः' ( गी. २-१६. ) इति पूर्वार्धेन असच्छब्दितस्य कारणस्य प्रकृतेः सच्छब्दितस्य ब्रह्मणश्चाभावः प्रागभावः प्रध्वंसश्च न विद्यत इति वेदनित्यत्वसाधकानादिनित्यत्वव्याप्तावनेकदृष्टान्तप्रद र्शनाय तत्रादरपूर्वकं प्रकृतिपरब्रह्मणोरनादिनित्यत्वमभिधाय अत्रार्थे सम्प्रदायरूपप्रमाणमुच्यते—उभयोरिति । 'अनयोरुभयोः' सदस तोरन्तो निर्णयोऽनादिनित्यत्वावधारणं 'तत्त्वदर्शिभिः' वेदार्थत तत्त्वज्ञानिभिः 'अपिदृष्टः' कृतश्चेत्यर्थः । अपिसिञ्चेतिवत् अपिदृष्ट इति निर्देशः । यद्वा—तत्त्वदर्शिभिरपीति भिन्नक्रमेणापिशब्दान्वयः । न केवलं 'प्रकृतिः पुरुषश्चैव नित्यौ कालश्च सत्तम' इत्यागमसिद्धमेत
<९४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ] अन्तो निर्णयः 'उभयोरपि दृष्टोऽन्तः' (गी. २-१६.) इति वचनात् सर्ववेदान्तविनिर्णयोत्पाद्यज्ञानं ब्रह्म। (२) 'आत्मेत्येवोपासीत' (बृ.३-४-७.) इत्यादिविधीनां त दित्यपिशब्दार्थः । यद्वा—'अन्तः' निर्णयः तद्विषयीभूतार्थो दृष्ट इत्य र्थः। अनेन दर्शनमूलकः सम्प्रदायः उपदेशपरम्परारूपो लक्षणयो क्तो भवति । वचनादिति । गीतायामिति शेषः । सूत्रे पूर्वसूत्रात् ब्र ह्मवाचकं पूर्वपद्मनुवर्त्य सर्वेति साध्यभागं व्याचष्टे—सर्वेति । सूत्र भाष्ययोर्वेदशब्दः तदर्थपरः । शब्दविषयकनिर्णयस्य ब्रह्मविषयकत्वा भावात् । तथा च सर्ववेदानां तदर्थानां अन्तः सर्ववेदान्तः तद्रूपः प्रत्य यो ज्ञानं यस्य तत्तथोक्तम् । अनेन ब्रह्मण एव सर्ववेदार्थत्वं ज्ञापितम् । अन्यथा सर्ववेदाधिगमो व्यर्थस्स्यात् । तथा च तत्त्वप्रदीपटीकारीत्या पूर्वपदोदितं ब्रह्म सर्ववेदाधिगमानन्तरोत्पन्नविचारसाध्यवेदार्थनिर्ण यरुपज्ञानविषय इति साध्यार्थः । टीकायां ध्यानार्थिना सर्ववेदान्निर्णी य श्रवणमननाभ्यां ज्ञातव्यं ब्रह्मेत्यन्वयः । केचित्तु-सर्ववेदानां योऽन्तः निर्णयः तेनोत्पाद्यं यदर्थज्ञानं तद्विषयो ब्रह्मेत्यर्थ इत्याहुः। अस्मिन् पक्षे व्यधिकरणबहुव्रीहिमात्रं दोषः । उदाहृततत्त्वप्रदीपटीके अनुगुणे । सर्ववेदनिर्णयेनोत्पाद्यज्ञान
[ अधि - १. सू - २. ] दीपिकासहितम्. ८१५ युक्तयुक्तीनां च अविशिष्टत्वात् ॥ १ ॥ ( ३ ) सू-ॐ भेदान्नेति चेदेकस्यामपि ॥ ॐ ॥ २ ॥ तत्र उपासीतेत्यादिज्ञानविधिसमीपगतेषु 'अत्र ह्येते सर्व एकंभवन्ति' (बृ.३-४-७.) 'स य आत्मानमेव लोकमुपास्ते' (बृ.३-४-१५.) 'न हास्य कर्म क्षीयते' (बृ.३-४-१५.) 'अमृतस्यैष सेतुः' (मुं.२-२-५०) 'वाचो विग्लापनं हि तत्' (बृ.६-४-२१.) इत्यादिवाक्येषूक्तानां युक्तीनां 'अविशिष्टत्वात्' सर्वाधिकारिसाधारणत्वादित्यर्थः । इतरांगस्तु भे यादिप्रतिपादकत्वात् नाधिकारिविशेषकल्पक इति भावः । बृहदार ण्यके 'आत्मेत्येवोपासीत' इति विधिसमीपे 'अत्र ह्येते' इत्यात्मत्व प्रशंसार्थमर्थवादइद्भूतः । अत्र आत्मत्वगुणे 'एते' 'प्राणन्नेव प्राणो नाम भवति वदन् वाक् पश्यन् चक्षुः शृण्वन् श्रोत्रं मन्वानो मनः' (बृ. ३-४-७.) इति पूर्ववाक्योक्ताः प्राणत्ववक्तृत्वद्रष्टृत्वश्रोतृत्व मन्तृत्वादयः सर्वेगुणाः 'एकं भवन्ति' अन्तर्भवन्तीत्युक्तेः अत्रा त्मत्वस्य विवक्षितसर्वगुणसंग्राहकत्वयुक्तिरुच्यते । यद्यपि 'अत्र' आत्मत्वे सर्वेऽप्यान्दादयो गुणाः अन्तर्भवन्तीत्यर्थः टीकायां 'आत्म गृहीतिः' इत्यधिकरणे अभिहितः । तथा व्यासतीर्थीये 'अत्र' आत्म शब्दे 'एते' आनन्दादयः सर्वे धर्माः वाच्यत्वेन 'एकं भवन्ति' पुञ्जी भवन्तीत्यर्थ उक्तः । ते च पूर्वे नोक्ताः, किन्तु तत्त्वप्रदीपोदाहृतवाक्यो क्ता एव । तथाऽपि 'प्राणन्' इत्यनेनानन्दस्वामित्वनिर्दोषत्वानां ग्रह णादविरोधः । एवं 'आत्मानमेव लोकम्' इति विधिसमीपवर्तिनि 'न हास्य' इति वाक्ये अक्षयकर्मफलहेतुत्वयुक्तिरुच्यते । तथाऽऽथर्व णे 'तमेवैकम्' इति विधिसमीपवर्तिनि 'अमृतस्य' इत्यर्थवादे मु क्तोपसृप्यत्वयुक्तिरुच्यते । तथा बृहदारण्यके 'विज्ञाय' इति वाक्य समीपवर्तिनि 'वाचो विग्लापनम्' इति वाक्येऽन्यार्थवेदाध्ययनादे र्वाक्श्रमकरत्वयुक्तिरुच्यत इति ध्येयम् । अनेन चोदनानां विधीनाम विशेषात्सर्वसाधारणत्वादत एव चोदनायुक्तकाण्वादिशाखानामवि शेषात्, एवं काण्वैरध्येतव्यं एवं माध्यन्दिनैः इत्यधिकारिविशेषनिर्देश शून्यत्वात् तदुक्तयुक्तीनामप्यविशिष्टत्वेनाधिकारिविशेषकल्पक त्वादिति हेतुवाक्यस्यानेकधार्थ उक्तो भवति ॥ ( ३ ) उक्तमाक्षिप्य समादधत्सूत्रं पठित्वाऽऽक्षेपपाशं तावद्व्याचष्टे-भे दादिति ॥ 'विज्ञानम्' इति वाजसनेयके 'सत्यम्' इति तैत्तिरीयके । आ
'विज्ञानमानन्दं ब्रह्म' (बृ. ५-९-२८.) 'सत्यं ज्ञानमन- न्तं ब्रह्म' (तै. २-१.) इत्यादिप्रतिशाखमुक्तिभेदान्नै- काधिकारिविषयाः सर्वशाखा इति चेत्—न, एक- स्यामपि शाखायां 'आत्मेत्येवोपासीत' (बृ.३-४-७.) दिपदेन 'श्रोता मन्ता' (ऐ.आ.३-२-४-१९.) इत्यैतरेयवाक्यम्, 'य आत्मा ऽपहतपाप्मा' (छा.८-७-१.) इति छन्दोगवाक्यं च गृह्यते । प्रतिशाखम- त्याद्युक्तिभेदादित्यन्वयः । इत्यादिरूपा च सा उक्तिश्च इत्यादिरूपा उ- क्तिः वाचिका येषामर्थानामिति च द्वेधा विग्रहः । एवमाक्षेपांशे साध- नांशं व्याख्याय साध्यांशं व्याख्याति—नेति । सर्वशाखाः नैकार्थविषयाः तत्प्रतिपादिकाः, किन्तु भिन्नविषयाः, अत एव नैकविषया नैकाधिका- रिका इत्यावृत्त्याऽन्वयः। एकेनैकस्यैवार्थस्य ज्ञेयत्वादिति भावः । नञावृ- त्त्यभिप्रायेण सौत्रं परिहारांशं व्याचष्टे—नेति । तत्तच्छाखोक्तार्थानां पृ- थक्त्वात्सर्वशाखोक्तं नैकेन ज्ञातव्यम्, किन्त्वनेकैरिति नेत्यर्थः । कुतो नेत्यतः प्रवृत्तं परिहारांशे साधनभागं व्याचष्टे—एकस्यामिति । न केवलमनेकशाखास्वित्यपिशब्दार्थः । चोदनापदस्य विपरिणतस्य वि- शेष्यत्वमभिप्रेत्याह—शाखायामिति । वाजसनेयशाखायामित्यर्थः । इत्यादीति । इत्याद्युक्तीनां तदर्थानामानन्दज्ञानरूपत्वादिकधर्माणां च भे- ददर्शनादित्यर्थः । आवृत्त्यान्वितस्य भेदादित्यस्यासिद्धिपरिहाराय —दर्शनादित्युक्तम् । आवृत्तिसूचनाय चशब्दः। श्रुतौ कखशब्दावानन्द- ज्ञानवाचिनौ । आदिशब्देन गुणान्तरोक्तयो गृह्यन्ते । सूत्रे भेदादपी- त्यपिशब्दान्वयः । न भेदादित्यपि । भेदशब्देन प्रसङ्गभेदोऽपि ग्राह्यः । साम्यादिति शेषः । तथा चायं सूत्रार्थः—'भेदात्' प्रतिशाखं 'वि- ज्ञानमानन्दं ब्रह्म' 'सत्यं ज्ञानमनन्तं ब्रह्म' इत्याद्युक्तिभेदात् अत एव सर्वशाखोक्तार्थानामपि 'भेदात्' एकेनैकस्यैव ज्ञेयत्वात् न पूर्वपदोक्तं ब्रह्म सर्ववेदान्तप्रत्ययं, किन्तु स्वस्वशाखान्तप्रत्ययमिति चेन्न । तथा सति 'एकस्यामपि' चोदनायां शाखायां 'भेदात्' 'आत्मेत्येवोपासीत' 'कं ब्रह्म खं ब्रह्म' (छा.४-१०-५.) इत्याद्युक्तिभेददर्शनात् अत एव तत्रो- क्तार्थानामपि भेदावगमादेकस्यामपि 'भेदात्' अधिकारिभेदप्रसङ्गात्। नन्वेकस्यामपि शाखायां विधेयधर्मस्यैव भेदाद्धर्मिणो 'नभेदात्' अभेदान्न प्रतिपाद्यभेद इति चेन्न । 'अपि' सर्वशाखास्वपि विधेयध- र्मस्यैव भेदाद्धर्मिणां न पृथक्त्वमिति समाधिसाम्यात् । ननु न सर्व
[ अधि - १०. सू - ३. ] दीपिकासहितम्. ८१७ 'कं ब्रह्म खं ब्रह्म' (छा. ४-१०-५.) इत्यादिभेददर्शनात् ॥२॥ (४) सू-ॐ ॥ स्वाध्यायस्य तथात्वेन हि समाचारेऽधि काराच्च ॥ ॐ ॥ ३ ॥ 'स्वाध्यायोऽध्येतव्यः' (तै. आ. २-१५.) इति सामा न्यविधेः । हिशब्दात् वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना । इति स्मृतेः ॥ शाखोक्तं ब्रह्म, तथासति न भेदात् सर्वशाखानामेकविषयत्वात्पौनरु क्त्यप्रसंगादिति चेन्न । एकस्यामपि साम्यात् । नन्वेकस्यां शाखायां प्रसंगभेदात् प्रागुक्तस्यानुवादाद्वा न पौनरुक्त्यम् । काण्वश्रुतौ 'अ यं पुरुषः' (बृ. ६-३-९.) इति द्विरुक्तवाक्यस्य जीवस्य परमात्म ज्योतिष्ट्वपरस्य स्वप्नसुषुप्तिप्रकरणयोः श्रुतस्य प्रसङ्गभेदेनानुवादवि धानाभ्रयणात्पौनरुक्त्यवत् छन्दोगश्रुतौ 'सैषा षड्विधा चतुष्पदा गा यत्री' (छा. ३-१२-५.) इति वाक्ये प्रसङ्गभेदात्प्रागुक्तषाड्विध्यानुवा देन चतुष्पात्त्वविधानात्तदंशेऽपौनरुक्त्यवच्चेति चेन्न । 'अपि' सर्वशा खास्वपि प्रसङ्गभेदात् अनुवादादिपरिहारस्य साम्यादिति ॥ (४) पूर्वं सर्ववेदान्तप्रत्ययमित्यत्रैव हेत्वन्तराभिधानाय सूत्रं-स्वा ध्यायस्येति ॥ अत्र स्वाध्यायस्य तथात्वेनेत्यावृत्तेन हेतुवाक्येनोक्तं हेतुं साधकं हेतुमाह-स्वाध्याय इति । इति विधेः सामान्यादित्यन्वयः । 'स्वा ध्यायोऽध्येतव्यः' इति यजुर्वेदगतविधेः 'सामान्यात्' अयं स्वाध्यायो ऽनेनाध्येतव्यः अयं अनेन इति विशेषं विना सर्ववेदसर्वाधिकारिसा धारणत्वादित्यर्थः । सामान्यपदेन सौत्रं तथात्वपदं अविशेषादिति प्र कृतसाधारणार्थकमित्युक्तं भवति । पञ्चमीप्रयोगेन तृतीया पञ्चम्यर्थे त्युक्तम् । विधेरित्यनन्तरं स्वाध्यायस्य तथात्वेनेति संयोज्यं, तस्य स्वा ध्यायस्य सर्वशाखाध्ययनस्य तथात्वेन सर्वसाधारणत्वेन एकैकाधि कारिकत्वेनेत्यर्थः । सूत्रे भाष्ये च हेत्वन्तरद्योतकः चशब्दोऽत्रापि योज्यः । ननु लोके शाखाभेदस्य प्रसिद्धत्वाद्विधेरपि विशेषनिष्ठता ऽऽवश्यकीति सामान्यादित्यसिद्धमित्यतः प्रवृत्तस्य हिशब्दस्यार्थमा ह-हिशब्दादिति । सूचिताया इति शेषः । स्मृतेरित्यस्य विधेः सा मान्यादित्यनेनान्वयः । ज्ञानोपलक्षकमेतत् । 'द्विजन्मना' त्रैवर्णिकेन 'सरहस्यः' उपनिषत्सहितो रहस्यार्थसहितो वा 'कृत्स्नः' सर्वो वे १०३
८१८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - . ३. ] ( ५) सर्ववेदोक्तमार्गेण कर्म कुर्वीत नित्यशः । आनन्दो हि फलं यस्मात् शाखाभेदो ह्यशक्तिजः ॥ सर्वकर्मकृतौ यस्मात् अशक्तास्सर्वजन्तवः । शाखाभेदं कर्मभेदं व्यासस्तस्मादचीक्लृपत् ॥ इति समाचारे सर्वेषामधिकाराच्च ॥ ३ ॥ दः 'अधिगन्तव्यः ' अर्थज्ञानार्थमध्येतव्य इत्यर्थः । एवं सर्वशाखत्यपि द्रष्टव्यम् ॥ ( ५ ) किं च अनुष्ठानापेक्षया ज्ञानमात्रस्य सुलभत्वात् यदा सर्ववे- दोक्तशक्यकर्मानुष्ठाने सर्वेषामधिकारसद्भावः तदा तदुक्तब्रह्मज्ञानं सु- तरामिति भावेन हेत्वन्तरप्रतिपादनाय प्रवृत्तं समाचारेऽधिकाराच्चेत्यं- शं सप्रमाणकं व्याचष्टे—सर्वेति ॥ सर्वान् वेदान् सर्वशाखाश्च अधिग- म्य ' सर्ववेदोक्तमार्गेण' तदुक्तप्रकारेणानुष्ठानपूर्वकं यज्ञादि कर्म 'नि- त्यशः ' नित्यं कुर्यात् सर्वोऽपि जन्तुरिति विपरिणामेनान्वयः । न च प्र- योजनाभावः। 'हि' यतः यस्माद्वेदोदितसर्वकर्मज्ञानतदनुष्ठानात् 'आन- न्दः ' मौक्त
[ अधि - १०. सू - ५० ] दीपिकासहितम्. ८१९ ( ६ ) सू—ॐ ॥ सलिलवच्च तन्नियमः ॥ ॐ ॥ ४ ॥ यथा सर्वं सलिलं समुद्रं गच्छति । एवं सर्वाणि वच नानि ब्रह्मज्ञानार्थानीति नियमः । ( ७ ) आग्नेये च— यथा नदीनां सलिलं शक्ये सागरगं भवेत् । एवं वाक्यानि सर्वाणि पुंशक्त्या ब्रह्मवित्तये ॥ इति ॥४ ॥ ( ८ ) सू—ॐ ॥ दर्शयति च ॥ ॐ ॥ ५ ॥ सर्वैश्च वेदैः परमो हि देवो जिज्ञास्योऽसौ नाल्पवेदैः प्रसिध्येत् । र्यवसायित्वं, न त्वक्षरग्रहणमात्रे चरितार्थत्वम् । न केवलं स्वाध्याय स्य तथात्वात्, किन्तु सर्ववेदोक्तकर्मसमाचारे सर्वेषामधिकारात् , अत एव सुतरां तत्साध्ये ब्रह्मज्ञानेऽधिकाराच्च , पूर्वं ब्रह्म एकैकेनैव सर्ववेदान्तप्रत्ययमिति सूत्रार्थ उक्तो भवति । तत्त्वप्रदीपे तु कैमुत्यं न प्रदर्शितम् ॥ ( ६ ) ननु यदि सर्वशाखोक्तप्रकारेण जानतो ध्यानाधिकारः, त र्ह्यधमाधिकारिणां ध्यानाभावः प्राप्त इत्याशङ्कां परिहरत्सूत्रं पठित्वा व्याचष्टे—सलिलवदिति ॥ ‘सर्वं सलिलं’ नद्यादिजलं ‘गच्छति’ प्राप्नोति ‘वचनानि’ वेदवचनानि ‘ब्रह्मज्ञानार्थानि’ पुंशक्त्यनुसारेण स्वज्ञानद्वारा ब्रह्मज्ञानप्रयोजनानीत्यर्थः । इति नियम इति । इत्येवंरू पन्नियम इत्यर्थः । अनेन सूत्रे स चासौ नियमश्च तन्नियमः ध्यानेच्छु ना सर्ववेदान्तप्रत्ययं ब्रह्म सर्ववेदोक्तप्रकारेण ज्ञातव्यमित्येवंरूपः, त स्य तत्त्वं च प्रतिबन्धाभावमपेक्ष्य प्रवृत्तत्वं, चशब्दश्च प्रतिबन्धाभाव मपेक्ष्यैव नियमो, न त्वतिदृढ इत्यवधारणार्थ इत्युक्तं भवति ॥ ( ७ ) चशब्दः स्मृतिसमुच्चायकोऽपीत्यभिप्रेत्यात्रैवार्थे स्मृतिमा ह—आग्नेये चेति ॥ न केवलं सूत्रे, किन्तु स्मृतावप्ययमर्थ उक्त इत्य र्थः । शक्य इति । समुद्रं गन्तुं शक्ये सतीत्यर्थः । असति प्रतिबन्धक इति यावत् । ‘वाक्यानि’ वेदवचनानि ‘पुंशक्त्या’ पुरुषशक्त्यनु सारेण ‘ब्रह्मवित्तये’ अध्ययनद्वारा परब्रह्मज्ञानाय भवन्तीत्यर्थः । त था च यथाशक्त्यधीतसर्ववेदेभ्यः श्रवणमननाभ्यां ब्रह्म जानतां मन्दा नामपि ध्यानोपपत्तिरिति भावः । इत्याग्नेये इतीतिशब्दान्वयः ॥ ( ८ ) चोदनाद्यविशेषादित्यक्तिसमर्थितार्थे श्रुतिस्मृतिभ्यां च सां
) सर्वैर्वेदैर्ज्ञेयो नोपास्योऽशक्यत्वात् इति । Line 11: अत आह— And then the Bhashya cuts off or continues on the next page!
NOW LOOK AT THE COMMENTARY SECTION (below the horizontal rule): Line 12 starts with: "...ध्यत्सूत्रं पठित्वा तद्वचनद्वयमुदाहरति—दर्शयति चेति ॥" Wait! What was at the bottom of the previous page (page 819) in the commentary section? Probably something ending in: "मध्य..." or "...त्य"! Wait, could it be "तृतीयं सूत्रं पठित्वा..."? No, "ध्यत्सूत्रं" -> "...ध्य तत्सूत्रं"? Yes! Page 819 ended with something like "...समा", and page 820 continues: "ध्य तत्सूत्रं पठित्वा तद्वचनद्वयमुदाहरति—दर्शयति चेति ॥" Or "बोध्य तत्सूत्रं"? "विचार्य तत्सूत्रं"? "ध्य तत्सूत्रं" -> because of space/hyphenation or sandhi: "ध्य तत्सूत्रं" or "ध्यत्सूत्रं"! Look at the characters: "ध्यत्सूत्रं" (dhya-tsū-traṃ)! It's definitely continuing from page 819!
Then in the commentary section: Lines 12–23 explain: "दर्शयति चेति ॥ तमेतमर्थं यतः श्रुति
[ अधि - २. सू - ६. ] दीपिकासहितम्. ८२१ सू—ॐ ॥ उपसंहारोऽर्थाभेदाद्विधिशेषवत्समाने च ॥ ॐ ॥ ६ ॥ सर्ववेदोक्तान् गुणान् दोषाभावांश्चोपसंहृत्यैव परमा- त्मोपास्यः । ( २ ) उपास्य एकः परतः परो यो वेदैश्च सर्वैस्सह चेतिहासैः । सपञ्चरात्रैस्सपुराणैश्च देवः सर्वैर्गुणैस्तत्र तत्र प्रतीतैः । इति भाल्लवेयश्रुतिः । पोपसंहारस्याशक्यत्वेन तत्पूर्वकोपासनस्याप्यशक्यत्वादित्यर्थः । स- र्वपरिज्ञानं तु विततप्रज्ञानां केषां चित् कथं चित् क्रमेण शक्यमिति भावः । सूत्रे सर्ववेदान्तेत्यतः सर्ववेदेत्यनुवर्तते । अर्थशब्दो गुणदोषा- भावपरः । सर्ववेदार्थाभेदात् उपसंहार इत्यन्वयः । अर्थपदं चोभयान्व- यीत्यभिप्रेत्य उपसंहारोऽर्थाभेदादिति प्रति
८२२ ब्रह्मसूत्रभाष्यम्. [अध्या - ३. पा - ३.] ( ३ ) आग्नेये च-- विधिशेषाणि कर्माणि सर्ववेदोदितान्यपि । यथा कार्याणि सर्वैश्च सर्वाण्येवाविशेषतः ॥ एवं सर्वगुणान् सर्वदोषाभावांश्च यत्नतः । योजयित्वैव भगवानुपास्यो नान्यथा क्वचित् ॥ इति ॥ ( ४ ) समानविषये चोपसंहारः । न तु ' सोऽरोदीत् ' ( तै.सं. १-५-१० ) इत्यादीनाम् । श्रुतिः। एक इति पदेनार्थभेदादिति सूत्रावयवं व्याचष्टे । एको हि पर मात्मा सर्ववेदादिभिरुपास्योऽर्थ इति तत्त्वप्रदीपोक्तेः । अस्मिन् पक्षे ' एकः ' अभिन्न इत्यर्थः । ' सूत्रावयवं ' अभेदादिति सूत्रावयवावय वम् । भावबोधे तु बहुवचनेन त्रिमात्रप्रतीतिवारणाय सर्वैरितिपदेन विवृतमित्युक्तम् । ' तत्र तत्र ' वेदपुराणादिषु ' प्रतीतैः ' प्रतिपादितै रित्यर्थः । श्रुतिरित्यनन्तरं यत इति शेषः ॥ ( ३ ) उपसंहृत्योपास्य इत्यत्रैवार्थे स्मृतिमाह-आग्नेये चेति ॥ श्रुति समुच्चये चः। ' विधिशेषाणि ' शिष्यन्त इति शेषाणि विधिभिः शिष्टानि 'सोमेन यजेत' (आप.श्रौ.१०-२-१.) इत्यादिविधिविहितानि कर्माणि ज्यो तिष्टोमादीनि । यद्वा-प्रधानविधिशेषाणि कर्माणि प्रयाजादीनि । न के वलं स्वस्वशाखाविधिविहितानि, किन्तु सर्ववेदोदितान्यपि 'अविशेष तः ' अधिकारिविशेषाविभागेन ' सर्वैः ' शाखिभिः यथा कार्याणि, ए वं भगवान् सर्ववेदोक्तान् गुणान् दोषाभावांश्च ' यत्नतः ' श्रवणादिप्र यत्नतः ' योजयित्वा ' यथाशक्त्युपसंहृत्यैव सर्वैरुपास्यो, न तु ' क्वचि त् ' कालदेशपुरुषेषु उक्तस्यान्यथाभावोऽस्तीत्यर्थः । इतिशब्दस्य इत्या ग्नेये वचनाच्च उपास्य इत्यन्वयः ॥ ( ४ ) सर्ववेदोक्तगुणोपसंहारमुक्त्वा तदपवादमाह - समाने चेति ॥ तद्व्याचष्टे - समानविषये चेति ॥ योग्यगुणविषय एवेत्यर्थः । अनेन विषयसप्तमीयम्, चोऽवधारण इति सूचितम् । उपसंहार इत्यस्यावृ त्त्याऽत्राप्यन्वय इत्याह - उपसंहार इति । चशब्दार्थवधारणव्यावर्त्य माह - न त्विति । ' इत्यादीनां ' इत्यादिवाक्यबोध्यानामर्थानाम् । अस मानानामिति शेषः । इत्यादीनामुपसंहार इत्यन्वयः । अयोग्योपासनेना नर्थप्राप्तेरिति भावः । आदिशब्देन 'यदरोदीत्तद्रुद्रस्य रुद्रत्वम् ' ( तै. सं.१-५-१.) 'रुद्रस्य त्वेव धनुरार्त्निः शिर उत्पिपेष' (तै.आ.१-५०) इत्या
[ अधि - २. सू - ७. ] दीपिकासहितम्. ८२३ ( ५ ) गुणैरेव स तूपास्यो नैव दोषैः कथञ्चन । गुणैरपि न तूपास्यो ये पूर्णत्वविरोधिनः ॥ इति बृहत्तन्त्रे ॥ ६ ॥ ( ६ ) सू—ॐ ॥ अन्यथात्वं च शब्दादिति चेन्नाविशेषात् ॥ॐ॥७॥ ‘ आत्मेत्येवोपासीत ’ (बृ. ३-४-७.) इति शब्दादुपसं- दिश्रुतिर्गृह्यते । ‘ सः ’ प्रकृतो महादेवः ‘ अरोदीत् ’ रोदनमकार्षीत् । अरोदीदिति पदबोध्यं यद्रोदनं तद्रुद्रस्य प्रसिद्धस्य ‘ रुद्रत्वं ’ रुद्रश- ब्दप्रवृत्तिनिमित्तम् । विष्णुविवक्षायां तु रोदनस्वातन्त्र्यं रुद्रशब्दप्रवृ- त्तिनिमित्तमिति विवेकः। आरोपितं धनुः क्षिताववष्टभ्य स्थितस्य रुद्र- स्य शिरो ज्यायां वम्रिरूपेण इन्द्रेण छिन्नायां उत्क्षिप्तवा ‘धनुरात्निः’ धनुष्कोटिः ‘ उत्पिपेष ’ चिच्छेदेति श्रुत्यर्थः ॥ ( ५ ) अत्र स्मृतिमाह—गुणैरिति ॥ ‘ सः ’ विष्णुः ज्ञानानन्दादि- गुणैरेवोपास्यः, न तु दुःखादिदोषैः । ननु रोदनादीनामपि विधिमुख- वेद्यत्वेन गुणत्वादुपास्यत्वापत्तिः । तथा च ‘ नैव दोषैः ’ इति व्याहत- मित्यतः उक्तस्यापवादमाह—गुणैरिति । भगवान् ये पूर्णत्वविरोधि- नो मितभुक्तवादयस्तादृशगुणैरपि नोपास्य एव मितभुक्तवादीनां लो- के गुणत्वेऽपीश्वरे दोषत्वात् । तत्र बहुभुक्तस्यैव गुणत्वात् । तदुक्त- म् —‘बहुभुक्त्वं यथा दोषो नृषु नैव हरौ क्वचित् ’ इति बृहत्तन्त्रे उ- क्तमिति शेषः । सूत्रार्थस्तु—अर्थानां सर्ववेदार्थभूतानां धर्माणां भावा- भावरूपाणां अभेदात् अविभागेन एते उपसंहर्तव्या एते तु नेति वि- भागमन्तरेण उपसंहारो युगपद्बुद्ध्यावारोपः कार्यः । उपसंहृत्य च पर- मात्मा तद्गुणात्मकत्वेन ध्यातव्य इति यावत् । कुतः? यतो ‘विधिशेष- वदयं ’ विशिष्टसन्ध्यावन्दनादिवदस्यापि विहितत्वात् । गुणदोषाभा- ववत् दोषाणामप्युपसंहर्तव्यत्वं किं न स्यादिति न वाच्यम् । यतः स चोपसंहारः ‘ समाने च ’ योग्ये एव पूर्णत्वाविरोधिगुणविषये ए- व युक्तः, न तु तद्विरोधिरोदनमितभुक्तत्वादिष्विति ॥ ( ६ ) उक्तमाक्षिप्य समादधत्सूत्रमुपन्यस्य व्याचष्टे—अन्यथात्व- मिति ॥ अत्र पूर्वसूत्राद्विधिशेषवदिति पदस्यानुवृत्तिं उपसंहारस्येति विपरिणतपदानुवृत्तिं अन्यथात्वमित्यस्यावृत्तिं चाभिप्रेत्य शब्दपदगृ- हीतश्रुत्युदाहरणपूर्वकं आक्षेपांशं व्याचष्टे—आत्मेति । योजना तु ‘वि-