पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
[ अधि - २. सू - ९. ] दीपिकासहितम्. ८२५ प्रकरणभेदान्न वोपसंहारः कार्यः । परोवरीयस्त्वा- द्विषु तावदेव ह्युक्तम् ॥ ८ ॥ ( ८ ) सू-ॐ ॥ संज्ञातश्चेत्तदुक्तमस्ति तु तदपि ॥ ॐ ॥ ९ ॥ दावुपस्कार्यम् । वेति व्यवस्थितविकल्पः । तथा च एवमुपसंहारः कार्यतयोक्तः नासौ कार्यों वा । कुतः ? परोवरीयस्त्वादिवत् प्रकरण- भेदात् । परोवरीयोवैश्वानरादिप्रकरणानां विद्यानां भेदादित्यर्थः । य- द्येकैकस्य सर्वगुणोपासनं स्यान्न तर्हि प्रकरणानि भिद्येरन् कारणा- भावादिति भावः । नन्वेकस्मिन्नेव प्रकरणे सर्वगुणोक्तिसम्भवात्प्र- करणभेदेऽपि सर्वगुणोपासनोपपत्तिरित्यत आह—परोवरीयस्त्वादि- ष्विति । परोवरीयस्त्वादिगुणप्रतिपादकेष्वित्यर्थः । प्रकरणेष्विति। यथे- ति च शेषः । परोवरीयस्त्वं नाम 'परस्मात्' इत्यनेन निरुक्तं निरवधि- कसर्वोत्तमत्वम् । आदिपदेनोद्गीथत्वानन्तत्वे प्रकरणान्तरोक्तं च गृह्य- ते । स्पष्टं गुणप्रतिपत्त्यर्थं त्वप्रत्ययः । सूत्रे तु सप्तम्यन्तं प्रथमान्तं चे- तत् । अनेनैवं सर्वगुणोपसंहारः कर्तव्यतयोक्तः सः न कर्तव्यो वा । कु- तः ? 'प्रकरणभेदात्' परोवरीयोवैश्वानरादिविद्याभेदात् । अन्यथा स न स्यात् । न चैकस्मिन् प्रकरणे सर्वगुणोक्तिसम्भवात्प्रकरणभेदे- ऽपि सर्वगुणोपसंहारोपपत्तिरिति वाच्यम् । यतः 'परोवरीयस्त्वादिव- त्'निरवधिकसर्वोत्कृष्टत्वरूपपरोवरीयस्त्वादिगुणप्रतिपादकेषु 'स एष परो वरीयानुद्गीथः स एषोऽनन्तः' (छा.१-९-२.) इत्यादिषु प्रकरणेषु तावदेवोपास्यगुणेषु । कियदेव ? परोवरीयस्त्वादि उक्तं न सर्वमत इति सूत्रार्थ उक्तो भवति ॥ ( ८ ) उक्तमाक्षिप्य समादधत्सूत्रं—संज्ञात इति ॥ अत्रापि पूर्वव- दुपसंहारः कार्य इत्येतयोरावृत्त्यध्याहाराभ्यामाक्षेपांशं व्याचष्टे— सर्वेति । सर्वस्येत्यावर्तते । गुणाभिधायकत्वात् गुणाभिधानस्य चो- पसंहारार्थत्वादिति शेषः । कार्य इति सावधारणम् । तथा च 'सर्व- स्य' सर्वविद्योक्तगुणस्योपसंहारः कार्य एव । कुतः ? 'सर्वस्य' वि- द्यराशेः ब्रह्मगुणाभिधायकत्वात् गुणाभिधानस्य चोपसंहारार्थत्वात्। न चासिद्धिः । 'सर्वस्य' शब्दराशेः ब्रह्मनामत्वात् । नामोदितगुणा- नुपसंहारे तन्नाम्नो ब्रह्मणोऽनुपासितप्रसङ्गादिति योजना । अनेन सूत्रे सर्वस्येति शेषः कार्यः,संज्ञात इति भावप्रधानमित्युक्तं भवति । ननु स- र्वस्य ब्रह्मनामत्वमसिद्धमित्यत आह—'सोऽहं नामविदेवास्मि नात्म- १०४
८२६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ] सर्वविद्या उक्त्वा 'सोऽहं नामविदेवास्मि नात्मवित्' (छा.७-१-३.) इति वचनात्सर्वस्य ब्रह्मनामत्वात्तदु- पसंहारः कार्यः । ( ९ ) नामत्वात्सर्वविद्यानां गुणानामुपसंहृतिः । कार्यैव ब्रह्मणि परे नात्रकार्या विचारणा ॥ वित्' इति वचनादिति । सनत्कुमारं प्रति नारदोक्तेरित्यर्थः । इति व- चनादवगतात् ब्रह्मनामत्वादित्यन्वयः । 'सः ' एवं सर्वविद्यावेत्ताऽप्य- हं परमात्मनामविदेवास्मि न परमात्मवित् । कुतः ? सर्वविद्यानिर्णेत- व्याज्ञानादिति श्रुत्यर्थः । यद्यपि ' मन्त्रविदेव ' इति छन्दोगानां पाठः । तथाऽपि शाखान्तरवाक्यमेतदित्यदोषः । ' यद्वै किं चिदध्यगीष्ट नामै- वैतत् ' ( छा. ७-१-३.) इति उत्तरवाक्यबलान्मन्त्रशब्दो नामपरो वा । केचित्तु — ' मन्त्रवित् ' इत्येव श्रुतिपाठः । भाष्यं तूपनिषदर्थानुवादप- रमित्याहुः । ननु 'सोऽहम् ' इति वाक्ये स्वस्य नामवित्त्वमात्रोक्तावपि कथं सर्वस्य ब्रह्मनामत्वसिद्धिरित्यत आह — सर्वेति । ऋग्वेदमित्यादि- नेति प्रागध्याहार्यम् । वेदयन्तीति विद्या वेदादयः । तथा च ' ऋ- ग्वेदं भगवोऽध्येमि यजुर्वेदं सामवेदं अथर्वणं चतुर्थमितिहासपुरा- णं पञ्चमं वेदानां वेदम् ' ( छा. ७ - १ - २. ) इत्यादिनाऽऽत्मनः सर्वविद्यावेदित्वमुक्त्वेत्यर्थः । यद्वा — ऋगादिसर्वविद्या आत्मना अ- धीता इत्युक्त्वेत्यर्थः । तथा च सर्वविद्यावेत्ताऽहं नामविदेवेत्युक्ति- बलात् सर्वस्य ब्रह्मनामत्वमवगम्यत इति भावः । श्रुत्यर्थस्तु — ' भग- वो ' भगवन् सनत्कुमार अहं ऋग्वेदादिकमध्येमि । इतिहासपुराणमि- ति द्वन्द्वैकवद्भावः । विशेष्यनिघ्नोऽयं शब्दः । वेदशब्द आवर्तते । तथा च इतिहासपुराणात्मकं ग्रन्थं वेदं सन्तं वेदानां पञ्चमं पञ्चत्वसङ्ख्या- पूरणं वेदमध्येमीति ॥ ( ९ ) अत्रैव स्मृतिमाह — नामत्वादिति ॥ सर्वविद्यानां ब्रह्मनाम- त्वात् । अत एव सर्वगुणाभिधायकत्वाद्गुणाभिधानस्य चोपसंहारार्थ- त्वात्परे ब्रह्मणि गुणानामुपसंहृतिः कार्यैवेति योजना । इति चेति । इ- ति ब्रह्मतर्कवचनाच्चोपसंहारः कार्य इत्यन्वयः । न केवलं सूत्रकृदुक्त- हेतोरिति चार्थः । अभ्युपगमरूपं तदुक्तमित्यादिसमाधानांशं व्याच- ष्टे — सत्यमिति । सोपपत्तिकं यद्गुणोपसंहारकर्तव्यत्वमुक्तं तत् ' स-
[ अधि - ३. सू - १०. ] दीपिकासहितम्. ८२७ इति च ब्रह्मतर्के । इति चेत् सत्यं, उक्तो ह्युपसंहारः । तत्प्रमाणमप्यस्त्येव । ' नाम वा एतां ब्रह्मणः सर्ववि द्यास्तस्मादेकः सर्वगुणैर्विचिन्त्यः' इति कौण्डिन्य श्रुतौ ॥ ९ ॥ ३. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ प्राप्तेश्च समञ्जसम् ॥ ॐ ॥ १० ॥ त्यं' युक्तमेवेत्यर्थः । अनेन सूत्रे सत्यमिति शेषः । तस्य तदित्यनेनान्व य इत्युक्तं भवति । कथं युक्तमित्यतस्तद्धेतुत्वेनापि तदुक्तमित्येतद्योज यति—उक्तो हीति । ' हि' यतः कर्तव्यतयेति शेषः । अनेन तदुपसंहा रकर्तव्यत्वं यतोऽस्माभिः ' उक्तं ' साधितमिति सूत्रखण्डार्थ उक्तो भ वति । श्रुत्याऽप्युक्तार्थसाधनाय—अस्ति तु तदपीति सूत्रांशः प्रवृत्तः । तं व्याचष्टे—तदिति । तदित्यनूद्य प्रमाणमित्यर्थकथनम् । यद्वा—त स्मिन् सर्वविद्यानां ब्रह्मनामत्वेन तद्गुणाभिधायकत्वादुपसंहारः कार्य इत्युक्तार्थे इत्यर्थः । ' प्रमाणं ' श्रुतिवचनम् । न केवलं गुणाभिधान स्योपसंहारार्थत्वादिति युक्तिमात्रमित्यपिशब्दार्थः । सौत्रतुशब्दार्थमा ह—एवेति । अस्य सत्यमित्यनेनान्वयः । एतास्सर्वविद्याः परब्रह्मनामै व, तस्माद्विष्णुरेक एव सर्वगुणैरुपसंहृत्योपास्य इत्यर्थः । यावच्छ क्तिप्रयत्नेनोपसंहारे फलाधिक्यबोधनार्थं बहुप्रमाणग्रहणार्थं च पुनः पुनः उपसंहारोपन्यास इति न पौनरुक्त्यमिति तत्त्वप्रदीपोक्तिः । कौ ण्डिन्यश्रुतावित्यस्य उक्तो ह्युपसंहार इत्यनुषङ्गः । अतः तत्प्रमाणम स्त्येवेत्यन्वयः ॥ २ ॥ ॥ इति उपसंहाराधिकरणम् ॥ ३. अधिकरणम् ॥ ( १ ) अत्राधिकरणे प्रागुक्तोपसंहारानुपसंहारयोः पुरुषभेदेन क र्तव्यत्वं समर्थ्यते । सूत्रे समञ्जसमित्यनेन असमञ्जसमिति पूर्वपक्षस्य सूचनात्तमुपन्यस्य सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे—प्राप्तेश्चे ति ॥ समञ्जसमित्यस्यार्थो—युज्यत इति । चशब्दोऽवधारणे । अनेन सौत्रश्चशब्दः भिन्नक्रम इति सूचितम् । उपसंहारोऽनुपसंहार इति सूत्रेऽनुषक्तपदस्यार्थकथनम् । चः समुच्चये । युज्यत इत्यस्य प्रत्येकं
८२८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ]
युज्यते चोपसंहारोऽनुपसंहारश्च योग्यताविशेषात् । ( २ ) गुणैस्सर्वैरूपास्योऽसौ ब्रह्मणा परमेश्वरः । अन्यैर्यथाक्रमं चैव मानुषैः कैश्चिदेव तु ॥ इति भविष्यत्पर्वणि ॥ १० ॥ :—*—: ४. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ सर्वाभेदादन्यत्रेमे ॥ ॐ ॥ ११ ॥
सम्बन्धः । पुरुषभेदेनेति शेषः । नन्वनेनोपसंहारः कर्तव्यः अनेनानुप- संहार इति निर्णयाभावात् तौ पुरुषभेदेनापि न युक्तावित्यतस्तदुत्तर- त्वेन प्राप्तेरित्येतद्व्याचष्टे—योग्यतेति । प्राप्यते फलमनयेति प्राप्तिर्यो- ग्यता । तथा च स्वभुजवत् ध्यानकाले युगपद्बहुणप्रतीत्यादियोग्यता- विशेषादित्यर्थः । विशेषात् प्राप्तेरित्यनेन प्राप्तेरित्यस्य पुरुषविशेषात् निर्णयसंभवादित्यप्यर्थ उक्तो भवति । तत्र युगपद्वेदोक्तसर्वगुणप्रती- तियोग्यता ब्रह्मणः । देवपित्रादीनां क्रमेण न्यूनगुणप्रतीतिः । मानुषा- णामल्पगुणप्रतीतिरित्येवं युगपत्प्रतीत्यादियोग्यता ज्ञातव्या ॥ ( २ ) युगपत्सर्वगुणप्रतीतिः ब्रह्मणः, अन्येषां क्रमेणेति तदेव शृङ्गग्राहिकया स्मृत्या दर्शयति—गुणैरिति ॥ 'अन्यैः' चतुर्मुखेतर- देवपित्रादिभिः । चोऽप्यर्थः । मानुषैस्त्वित्यन्वयः । 'कैश्चित्' अल्पै- रानन्दादिगुणैः । यद्यपि स्मृतावूपासनाविशेष एवोच्यते न तु प्रती- तिनियमः । तथापि ध्यानरूपोपासनस्य गुणप्रतीतिसाध्यत्वादर्थात्त- ल्लाभ इति भावः । तथा च सर्वैर्गुणैरित्यस्य युगपत् प्रतीतेरित्यभ्युप- गमान्नासंगतिरिति भावः ॥ ३ ॥ ॥ इति प्राप्त्यधिकरणम् ॥
४. अधिकरणम् ॥
( १ ) अत्राधिकरणे बहुगुणोपसंहारस्य फलातिशयोक्त्या कर्तव्यता
समर्थ्यते । प्रमाणाभावेन फलविशेषानिर्णयादयुक्तो बहुगुणोपसंहार
इति प्राप्ते सिद्धान्तयत्सूत्रं पठित्वा व्याचष्टे—सर्वेति ॥ अत्र पूर्वसूत्राद-
वधारणार्थकचशब्दशिरस्कस्य विपरिणतसमञ्जसपदस्योपसंहारस्तू-
त्रादुपसंहारपदस्य चानुवृत्त्या युक्त एव ब्रह्मादीनां यथायोगं बहुगुणो-
पसंहार इति साध्यलाभमभिप्रेत्य तत्र हेतुसमर्पकतया सूत्रं व्याचष्टे—
[ अधि - ५. सू - १२. ] दीपिकासहितम्. ८२९ सर्वगुणयुक्तत्वेनोपासनादन्यत्रैव फले ब्रह्मादयो भवन्ति। ( २ ) सम्पूर्णोपासनाद्ब्रह्मा सम्पूर्णानन्दभाग्भवेत् । इतरे तु यथायोगं सम्यङ्मुक्तौ भवन्ति हि ॥ इति पाद्मे ॥ ११ ॥ —-::-— ५. अधिकरणम् ॥ ( १ ) सर्वेषां मुमुक्षूणां कियन्नियमेनोपास्यमित्यत आह— सर्वैति । सर्वगुणयुक्तत्वेनोपासनादित्यनेन सर्वाभेदादित्यस्य एते गु- णा उपसंहर्तव्या एते तु नेति विभागं विना सर्वेषां गुणानामभेदादवि- भागेनेत्यर्थ उक्तो भवति । 'उपासनात् ' उपसंहृत्योपासनान्निमित्ता- दिति शेषः । अन्यत्रेत्यस्य विशेष्यमाह—फल इति । एवकारेणाल्पफ- लव्यावृत्तिः । अनेनान्यत्रेत्यस्यानुपसंहाराल्पाधिकारिभ्योऽन्यत्र तत्फ- लविलक्षणे फले इत्यर्थ उक्तो भवति। इमे इत्यस्यार्थो—ब्रह्मादय इति। इमे इति विशेषतः प्रस्तुतत्वात् सर्वोपसंहारा उच्यन्त इति तत्त्वप्रदी- पोक्तेः । यद्यपि ब्रह्मैव सर्वोपासक इति आदिपदानुपपत्तिः । तथाऽपि तदनतिन्यूनब्रह्माण्यादिविषयमादिपदमित्युक्तं तत्त्वप्रदीपे । भवन्ती- ति सूत्रे शेषोक्तिः । यत इति शेषः । अस्य लब्धसाध्येनान्वयः ॥ ( २ ) न केवलमुपासनानां महदल्पत्वाभ्यां तत्फलानामपि महद- ल्पत्वे निश्चीयेते, किन्तु तथा स्मृत्युक्तत्वाच्चेत्याह— सम्पूर्णेति ॥ 'आ- नन्दभाक् ' आनन्दयुक्तः । तुशब्दोऽप्यर्थः । सम्यगिति क्रियाविशेषण- म् । तथा च 'इतरे तु' ब्रह्म ब्रह्माणीतरदेवादयोऽपि 'यथायोगं' यथायो- ग्यं उपासनात् मुक्तौ यथायोगं 'सम्यग्भवन्ति' अतिशयवन्तो भव- न्तीत्यर्थः । तत्त्वप्रदीपे तु सम्यङ्मुक्तावित्येकपदाभिप्रायेण इतरे तु यथायोगं यथाशक्त्युपास्तिं कुर्वाणाः 'सम्यङ्मुक्तौ भवन्ति' यथा- योगं फलभाजो भवन्ति । सम्यङ्मुक्ताविति वचनादत्यल्पगुणोपास- कानामपि सम्यङ्मुक्तिरेव नासम्यङ्मुक्तिरिति सिध्यति । दुःखलेशा- भावादिति विशेषार्थ उक्तः । पाद्मे वचनादिति शेषः ॥ ४ ॥ ॥ इति सर्वाभेदाधिकरणम् ॥ :: ५. अधिकरणम् ॥ ( १ ) अत्राधिकरणे सर्वमुमुक्षुसाधारणोपास्यगुणा निर्णाय्यन्ते ।
८३० ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ] सू—ॐ ॥ आनन्दादयः प्रधानस्य ॥ १२ ॥ प्रधानफलस्य मोक्षस्यार्थे आनन्दो ज्ञानं सदात्मेत्यु पास्य एव । पूर्वपक्षं सूचयति — सर्वेषामिति ॥ कियदित्याक्षेपे । उपास्यगुणजातं 'कियत्' न कियदित्यर्थः । अनेन संख्याक्लप्त्याक्षेपः कृतो भवति । किमुपास्यमिति निर्देशक्लप्त्याक्षेपस्याप्युपलक्षकमेतत् । क्वचित् किं मिति पाठः । तदा व्यत्यासः । एवं कियत्किमित्यनयोः नियमशब्देना न्वय यदितीत्थंशब्दाध्याहारेण यदि उपास्यगुणाः चत्वारः पञ्च वा इति चोद्यते तर्हि अन्येषामपि समुच्चयसम्भवात् नैते, अन्ये एवेत्यपि वक्तुं शक्यत्वात् कियत् नियमेन किं नियमेनेति नियमाक्षेपपरत्वेनापीदं व्याख्येयम् । इत्यत इति । सर्वमुमुक्षूपास्यगुणानिर्णयान्न कस्याप्युपा सनं युक्तमित्यर्थः । आहेति । सिद्धान्तं सूत्रकार इति शेषः । सूत्रे प्र धानस्येति हेत्वंशं व्याचष्टे—प्रधानफलस्येति । शेषित्वेन प्रधानस्य फलस्येत्यर्थः । यद्वा—फलेषु प्रधानस्येत्यर्थः । फलं निर्दिशति—मो क्षस्येति । अर्थ इति शेषोक्तिः । मोक्षप्रयोजनायेत्यर्थः । आनन्दादय इ ति साध्यभागं व्याचष्टे—आनन्द इत्यादिना । सर्वेषां मुमुक्षूणामित्य त्रापि सम्बध्यते । सर्वमुमुक्षुभिरित्यर्थः । सदात्मेति भावप्रधानो निर्दे शः । इतिशब्दो वस्तुनिर्देशार्थः । गुणा इति शेषः । एवशब्दस्य एते एवेत्यध्याहृतपदेन सम्बन्धः । न च चतुर्गुणोपासनस्य सर्वमुमुक्षुसा धारण्यानुपपत्तिरेकगुणोपासकानां तदभावात् । अन्यथा 'आत्मेत्येव परं देवमुपास्य' इति वचनविरोधापत्तेरिति वाच्यम् । अस्य चतुर्वि धमोक्षयोग्याधिकारिविषयत्वात् । अत एव तत्र टीका—न चानन्दा दयः प्रधानस्येत्युक्तिविरोधः । तदुपासनस्य सम्पूर्णमोक्षार्थत्वात् । अत्र च 'नोत्क्रामन्ति' इति पूर्णमोक्षाभावोक्तेरिति । न चास्य देव साधारण्यानुपपत्तिः । देवानामुत्क्रान्तिमार्गयोरभावादिति वाच्यम् । तेषामप्यंशेनोत्क्रान्तिसम्भवात्, तत्प्राप्तेः पूर्वं तत्सम्भवाच्च । न च 'सच्चिदानन्द आत्मेति मानुषैः' इत्यणुभाष्ये, ये सम्यङ्मुक्तिमात्रमि च्छन्ति तत्र विशेषान् तेषां ये गुणा उपास्याः ते कियन्त इत्यधुना नि रूप्यत इति तत्त्वप्रदीपे च अस्योपासनस्य मनुष्यमात्राधिकारत्वोक्ते र्विरोध इति वाच्यम् । प्राधान्येन चतुर्गुणोपासनं मनुष्याणामेवेत्यभि प्रायेण ग्रन्थद्वयप्रवृत्तेः । देवैस्तु साधारण्येनैव तदुपास्तेः करणात् ।
[ अधि - ६. सू - १३. ] दीपिकासहितम्. ८३१ ( २ ) सच्चिदानन्द आत्मेति ब्रह्मोपासा विनिश्चिता । सर्वेषां च मुमुक्षूणां फलसाम्यादपेक्षिता ॥ इति ब्रह्मतर्के ॥ १२ ॥ — * — ६. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे ॥ ॐ ॥ १३ ॥ यद्यपि सूत्रे आनन्दमात्रस्य मुखतो निर्देशात्सङ्ख्यानिर्देशक्लप्त्यस- म्भवः। तथाऽपि सत्पदोदितनिर्दोषत्वस्य ज्ञानानन्दयोः आत्मपदोदि- तस्वामित्वस्य सर्वापेक्षितत्वात् स्वसम्बन्धानुस्मरणस्य भगवत्प्रीति- साधनत्वेन सर्वापेक्षितत्वात् 'तं यथा यथा' ( ) इति श्रुते- रपेक्षितफलानुसारेणैवेश्वरस्योपास्यत्वात् प्रधानस्येत्युक्तफलपर्यालो- चनया आदिपदेन ज्ञानादित्रयस्यैव ग्राह्यत्वात् सङ्ख्यानिर्देशज्ञानं सु- करमिति न दोषः। यद्यप्युपासनस्यानन्दादिरूपमोक्षार्थत्वादिति सौत्रो हेतुः निर्देशनियमसाधक एव, न त्वधिकसङ्ख्येयसमुच्चयव्यवच्छेद- मुखेन सङ्ख्यानियमसाधकः। तथाऽपि तत्सूचितस्सर्वेषां मुमुक्षूणाम- धिकोपासनासमर्थत्वादिति हेतुस्तत्साधको भविष्यतीत्यदोषः ॥ ( २ ) अत्र स्मृतिं चाह—सच्चिदिति ॥ 'सर्वेषां मुमुक्षूणां' कर्म- क्षयादिचतुर्विधमोक्षेच्छूनां ब्रह्म सच्चिदानन्दात्मेत्येवं प्रकारेणोपासा वि- निश्चिता कर्तव्यतयेति शेषः । कुतः ? यतः सा 'अपेक्षिता' अपे- क्षितफलसाधनम् । न चास्तु अन्यथाऽप्युपासनं, 'फलसाम्यात्' फ- लस्योपास्तिसदृशत्वात् । यद्वा—उपासनस्य प्रतिमुखस्य 'यथा मुखश्रीः' इति भागवतोक्तेः अपेक्षितफलेन साम्यात् तदनुसारित्वा- दित्यर्थः ॥ ५ ॥ ॥ इति आनन्दाधिकरणम् ॥ —:*:— ६. अधिकरणम् ॥ ( १ ) अत्राधिकरणे ब्रह्मोपासने प्रियशिरस्त्वादिगुणानां सर्वाधि- कारिसाधारण्यनिरासेन सर्वेषां चतुर्गुणनियमः समर्थ्यते । अप्राप्ति- रित्यनेन प्राप्तिपूर्वपक्षसूचनात्तमनुपन्यस्य सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे—प्रियेति ॥ सूत्रे प्रधानस्येत्यनुवर्तते । तस्य भेदशब्देनान्व-
८३२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ] फलभेदार्थमुपचयापचययोः भावान्न सर्वेषां प्रियशि- रस्त्वादिगुणोपासाप्राप्तिः । यः। भेद इति तादर्थ्ये सप्तमी । हिशब्दो हेतौ प्रसिद्धौ चेत्यभिप्रेत्य भेदे उपचयापचयौ हीति हेत्वंशं व्याचष्टे—फलभेदार्थमिति । 'अथात आन- न्दस्य ' इति श्रुतिसिद्धफलतारतम्यार्थमित्यर्थः । ' उपचयापचययोः ' क्रमेणाधिकल्पविशेषविषयकत्वरूपयोः । तारतम्यस्येति यावत् । गु- णोपासनेऽपीति शेषः । केचित्तु—उत्तमानां साधारणातिक्तस्य गुण- स्य यथायोग्यमुपचयः संग्रहः अन्येषां अपचयः त्याग इत्याहुः । 'भावात् ' अभ्युपेतत्वादित्यर्थः । नञ्व्यत्यासेनान्वयमभिप्रेत्य प्रियशि- रस्त्वाद्यप्राप्तिरिति साध्यांशं व्याचष्टे—नेति । 'सर्वेषां ' उत्तमानाम- वरेषां चेत्यर्थः । प्रियं शिरो यस्यान्नन्दमयस्य तस्य भावः प्रियशिर- स्त्वं, आदिपदेन मोदादिपक्षक्त्वादीनां ग्रहणम् । गुणशब्दात्परो वि- शेषशब्दो योज्यः । प्रियशिरस्त्वादिरूपश्चासौ आनन्दादिगुणविशेष- श्च तस्योपासा आनन्दादिगुणानां प्रियशिरस्त्वादिसकलविशेषयुक्त- त्वेन उपासनेति यावत् । तस्याः प्राप्तिः योग्यता तस्याः प्राप्तिः प्रसक्ति- रित्यर्थः न सर्वैः चतुर्णां गुणानां सकलविशेषयुक्तत्वेनोपासनीयत्वं, तथासति सर्वेषां सर्वगुणोपास्तिप्रसङ्गात्सर्वगुणानामपि गुणचतुष्ट- यविशेषत्वस्य वक्तुं शक्यत्वात् । किन्तूत्तमैरेवेति फलितोऽर्थः । यथोक्तं तत्त्वप्रदीपे—एकैकस्मिन् गुणे विशेषाणामुपचयापचयौ फलतारतम्यार्थं भवतः । अपचयः फलमात्राय भवति, न फला- भावाय । उक्तगुणोपास्तावुपचयोऽधिकफलाय भवति, अतो नावरे- षां प्रियशिरस्त्वादिप्रियगुणविशेषोपास्तिः प्राप्यते इति । अस्यार्थः —आनन्दादिषु एकैकस्मिन्नपि गुणे विद्यमानानां विशेषाणामवान्तर- भेदानां प्रियत्वादीनां विषयीकरणे उपचयापचयावाधिक्याल्पत्वे फल- तारतम्यार्थमङ्गीकार्यो भवतः । ' अपचयः ' कतिपयविशेषविषयत्व- रूपमल्पत्वम् । उपास्तावित्युभयत्राप्याकृष्यते । ' फलमात्राय ' मो- क्षायैव भवति, नातिशयितफलाय । ' उक्तगुणोपास्ताबुपचयः' उक्ता- नां आनन्दादिगुणानां मध्ये एकैकस्मिन्नपि गुणे विद्यमाना ये प्रियत्वा- द्यस्तेषां साकल्येन विषयीकरणमुपचयः साधिकफलाय सातिशय- मोक्षाय भवति । यत इत्यर्थः । ' अवरेषां ' उत्तमाधिकारिव्यतिरिक्ता- नां 'गुणविशेषोपास्तिः' उक्तगुणगतविशेषविषयोपास्तिरित्यर्थः । कि
[ अधि - ७. सू - १४. ] दीपिकासहितम्. ८३३ ( २ ) नैव सर्वगुणाः सर्वैरुपास्या मुक्तिभेदतः । विरिञ्चस्यैव यन्मुक्तावानन्दस्य सुपूर्णता ॥ इति वाराहे ॥ १३ ॥ -- ७. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ इतरे त्वर्थसामान्यात् ॥ ॐ ॥ १४ ॥ स्तमानामेवेति वाक्यशेषः ॥ ( २ ) अत्रैव स्मृतिमाह—नैवेति ॥ सर्वगुणास्तद्विशेषाश्च सर्वैरु- पास्या नैव । कुतो ? 'मुक्तिभेदतः' मुक्तौ फलतारतम्यात् । अन्यथा स न स्यादिति भावः । 'यत्' यस्माद्विरिञ्चस्यैव मुक्तावानन्दफल- स्य सुपूर्णता, अन्येषां विरिञ्चेतरेषामपूर्णता चास्तीत्यर्थः । वाराहे पु- राणे उक्तमिति शेषः । अस्य नेत्यनेनान्वयः । न चास्य सूत्रस्य 'अ- ज्ञात्वैनं सर्वविशेषयुक्तं देवं परं को विमुच्येत बन्धात्' ( ) इति गीताभाष्योदाहृतश्रुतिविरोधः शङ्क्यः । यतः प्रमेयदीपे ध्यानापे- क्षया सूत्रं, ज्ञानापेक्षया तु श्रुतिरिति विशिष्टाधिकारिविषयेयं श्रुतिरि- ति च द्वेधा समाधानमुक्तम् ॥ ६ ॥ ॥ इति प्रियशिरस्त्वाधिकरणम् ॥ -:**:- ७. अधिकरणम् ॥ ( १ ) अत्राधिकरणे देवगन्धर्वपर्यन्तानां ब्रह्माणीतरदेवादीनां प्रियशिरस्त्वादिषड्गुणोपासनं समर्थ्यते । योग्यतानियमानिर्णयाद्वि- रिञ्चेतरदेवादिभिश्चतुर्भ्योऽन्ये मध्यमगुणा नोपास्या इति प्राप्ते सिद्धा- न्तयत्सूत्रं पठित्वा व्याचष्टे—इतरे त्विति ॥ 'आनन्दादयः' इत्यत्र प्र- कृतेभ्यश्चतुर्भ्यः 'सर्वभेदात्' इत्यत्र प्रकृतेभ्यस्सर्वगुणेभ्यश्च 'इतरे' मध्यमगुणाः 'इतरैः' चतुर्मुखेतरदेवादिभिः 'उपसंहर्तव्याः' उपसं- हृत्योपास्या इत्यर्थः । अनेन तुरप्यर्थ इति सूचितम् । न चोपासन- योग्यतानिर्णय इत्यतः तद्धेतुत्वेन अर्थादित्येतत् ल्यब्लोपनिमित्तप- ञ्चमीत्वाभिप्रायेण व्याचष्टे—फलेति । तत्तत्प्राप्यफलानुसारेणेत्यर्थः । फलमपेक्ष्य कथं निर्णय इत्यतः फलोपासनयोः साम्यादिति युक्तिक- थनपरतया सामान्यपदं व्याचष्टे—साम्येति । उपासनस्य तत्तत्प्राप्य १०५
८३४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ] इतरे गुणाः फलसाम्यापेक्षयोपसंहर्तव्याः ॥ १४ ॥ -: ☼ :- ८. अधिकरणम् ॥ ( १ ) उपसंहारानुपसंहारप्रमाणमाह— सू—ॐ ॥ आध्यानाय प्रयोजनाभावात् ॥ ॐ ॥ १५ ॥ आध्यानार्थं हि सर्वे गुणा उच्यन्ते प्रयोजनान्तराभावात् । फलसाम्यमपेक्ष्येत्यर्थः । यद्वा—फलस्योपासनसाम्यमपेक्ष्येत्यर्थः । न च भविष्यत्फलानिर्णयः, गुरूपदेशेन तन्निर्णयोपपत्तेरिति भावः । अ नेन सूत्रे निर्णयोपपत्तेरिति शेषः । तस्य फलनिर्णयोपपत्तेः योग्यता निर्णयोपपत्तेरिति द्वेधार्थ उक्तो भवति ॥ ७ ॥ ॥ इति इतराधिकरणम् ॥ -: ☼ :- ८. अधिकरणम् ॥ ( १ ) अत्राधिकरणे सर्वगुणोपसंहारानुपसंहारयोः कर्तव्यत्वे प्रमा णमुच्यते । मानाभावान्नोषसंहारानुपसंहारौ कर्तव्यौ इति प्राप्तं सि द्धान्तयन्नधिकरणतात्पर्यमाह—उपसंहारेति ॥ सर्वगुणोपसंहारानुप संहारयोः कर्तव्यत्वे प्रमाणमाह अस्मिन्नधिकरणे सूत्रकृदित्यर्थः । अ नुपसंहारशब्दः तत्त्वप्रदीपरीत्याऽल्पगुणोपसंहारपरः । तत्र प्रथममुप संहारप्रमाणप्रदर्शनार्थं सूत्रं पठति—आध्यानायेति । अत्र प्रियशिर स्त्वादीत्यतो हिशब्दमनुवर्त्य सर्वविद्यासु सर्वे गुणा उच्यन्तेऽत इति चोपस्कृत्य आध्यानायेति हेत्वंशं व्याचष्टे—आध्यानार्थं हीति । अत्र तत्त्वप्रदीपे आदद्या धिया ध्यानार्थं हि सर्वे गुणा उच्यन्त इत्याद्योऽर्थ उ- क्तः । अस्यार्थः—धिया अशेषान् गुणानादद्योपसंहृत्येति । स एव टी कायामशेषेत्यादिना विवृतः । तथा च 'हि' यस्मात् 'आध्यानार्थं' अशेषगुणोपसंहारपूर्वकध्यानार्थं सर्वविद्यासु सर्वे गुणा उच्यन्ते इत्य र्थः । अस्य तस्मात् सर्वविद्यातो गुणोपसंहारः कार्य इति उपसंहार सूत्रोक्तसाध्येनान्वयः । सर्वविद्यानां भगवद्गुणभिधायकत्वं च सर्वा सां भगवत्संबन्धित्वात् सिद्धमिति न तदसिद्धिरिति भावः । गुणाभिधा नस्य ध्यानार्थत्वं कुत इत्यतः तत्र हेतुत्वेन प्रयोजनाभावादित्यंशं व्या चष्टे—प्रयोजनान्तरेति । ध्यानं विनाऽन्यस्य प्रयोजनस्याभावादित्य र्थः । ध्यानलक्षणप्रयोजनसत्त्वादसिद्धिवारणाय—अन्तरेति । विप्रकी
[ अधि - ८. सू - १५. ] दीपिकासहितम्. ८३५ ( २ ) ज्ञानार्थमथ ध्यानार्थं गुणानां समुदीरणा । ज्ञातव्याश्चैव ध्यातव्या गुणास्सर्वेऽप्यतो हरेः ॥ नान्यत्प्रयोजनं ज्ञानाद्ध्यानात्कर्मकृतेरपि । श्रवणाच्चाथ पाठाद्वा विद्याभिः किञ्चिदिष्यते ॥ इति परमसंहितायाम् ॥ ( ३ ) गुणास्सर्वेऽपि वेत्तव्या ध्यातव्याश्च न संशयः ॥ नान्यत्प्रयोजनं मुख्यं गुणानां कथने भवेत् ॥ ( ४ ) ज्ञानध्यानसमायोगाद्गुणानां सर्वशः फलम् । र्णगुणोपसंहारफलं तु मोक्षानन्दातिशय इति टीकायामुक्तम् ॥ ( २ ) गुणाभिधानस्य ध्यानार्थत्वे स्मृतिं चाह—ज्ञानार्थमिति ॥ अथशब्दः कर्मणां चेत्यर्थान्तरे । तस्या इति शेषः । तथा च यतः ‘त स्याः' उदीरणायाः विद्याभिर्गुणाद्युक्तेः विद्याभिधेयानां हरेर्गुणानां प रोक्षज्ञानात् ध्यानात् हरेः कर्मकरणात् शब्दग्रहणरूपाच्छ्रवणात् शब्दा भ्यासरूपात्पाठात् अन्यत् किञ्चित्प्रयोजनं 'नेष्यते' नोपेयते, अतो ‘विद्याभिः' ब्रह्मकर्मोभयविद्याभिर्गुणानां कर्मणां च ‘समुदीरणा' अभिधानं ज्ञानार्थं तद्द्वारा ध्यानार्थमेव भवेत् । उपलक्षणमेतत् । कर्म करणार्थं चेत्यपि द्रष्टव्यम् । यतः सोदीरणा ध्यानाद्यर्थमेव, न प्रयोज नान्तराय, अतस्तस्याः प्रयोजनवत्त्वाय सर्वेऽपि हरेर्गुणाः ज्ञातव्या ध्यातव्याश्चैवेत्यर्थः । कर्माणि च कर्तव्यान्येवेत्यपि द्रष्टव्यम् । तथा च अनया स्मृत्या गुणाभिधानमाध्यानायैव भवति, सप्रयोजनस्य सतः प्रयोजनान्तराभावादिति सूत्रकृदुक्तानुमानं ज्ञापितं भवतीति ध्येयम् । ‘इति परमसंहितायां' तदाख्यग्रन्थे सूत्रकृदुक्तं कथितमिति शेषः ॥ ( ३ ) ननु तथाऽपि प्रयोजनान्तराभावादिति हेतुरसिद्धः । स्मृतौ श्र वणपाठयोरपि गुणाभिधानप्रयोजनत्वेनोक्तत्वादित्यत आह— गुणा इति ॥ यतो गुणानां ‘कथने' कथनात् ज्ञानध्यानाभ्यामन्यत् मुख्यं प्रयोजनं न भवेदेव, अतस्तस्य तत्प्रयोजनवत्त्वाय सर्वे हरेर्गुणा ज्ञात व्या ध्यातव्याश्चेत्यर्थः । तथा च श्रवणादेः परोक्षज्ञानध्यानार्थत्वेन त त्साधनत्वान्न तद्गुणाभिधानस्य मुख्यं प्रयोजनमिति हेतुत्वेनाभिमत स्य मुख्यप्रयोजनान्तराभावस्य नासिद्धिरिति भावः ॥ ( ४ ) ननु तथाऽपि ध्यानान्यस्य परोक्षज्ञानस्य गुणाभिधानप्रयो जनत्वात्प्रयोजनान्तराभावादित्यसिद्धमित्यत आह—ज्ञानेति ॥ ‘सर्व
८३६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ] मुख्यं भवेन्न चान्येन फलं मुख्यं क्वचिद्भवेत् ॥ इति बृहत्तन्त्रे ॥ १५ ॥ (५) सू—ॐ ॥ आत्मशब्दाच्च ॥ ॐ ॥ १६ ॥ 'आत्मेत्येवोपासीत' (बृ. ३-४-७.) इत्यनुपसंहारे प्र माणम् ॥ १६ ॥ शः 'सर्वेषां गुणानां 'ज्ञानध्यानसमायोगात्' ज्ञानध्यानयोरुपयोग्यु पयोग्यभावेन संमेलनान्मुख्यं फलमपरोक्षज्ञानादिकं भवेत्, नान्येन परोक्षज्ञानमात्रेणेत्यर्थः । तथा च ध्यानपूर्वभाविज्ञानमपि ध्यानोपयो गितया न मुख्यमिति न मुख्यप्रयोजनान्तराभावहेतोरसिद्धिरिति भा वः । यद्यपि श्रवणादेस्तत्त्वनिश्चयद्वारा जनलोकादिफलकस्य गुणा भिधानमुख्यप्रयोजनत्वसम्भवात् मुख्यत्वविशेषणेऽपि प्रयोजनान्तरा भावहेतोरसिद्धिरेव । तथाऽपि मोक्षाख्यमहाफलसाधनापरोक्षज्ञानसा धनत्वेन विहितस्य श्रवणादेर्जनलोकादिकं न मुख्यं प्रयोजनमिति ज्ञानमेव प्रयोजनं वाच्यम् । तथा च श्रवणादेरपरोक्षज्ञानसाधनतत्त्व ज्ञानार्थत्वेन न श्रवणादिकं गुणकथनस्य मुख्यं प्रयोजनमिति नासि द्धिरिति भावः । इति बृहत्तन्त्रे कथितत्वान्नासिद्ध्यादिदोष इत्यन्वयः। अनेनोपसंहारे मुख्यप्रयोजनान्तरशून्यसप्रयोजनसर्वगुणाभिधानमेव लिङ्गतया प्रमाणमित्युक्तं भवति ॥ (५) एवं सर्वगुणोपसंहारं प्रमाणेन समर्थ्यानुपसंहारं च समर्थ यत्सूत्रं पठित्वा व्याचष्टे—आत्मशब्दाच्चेति॥ चोऽप्यर्थः । तथा च 'आ त्मशब्दात्' तद्घटितश्रुतेः अनुपसंहारोऽपि सिद्धयतीति सूत्रार्थमभि प्रेत्य श्रुत्युदाहरणपूर्वकं सूत्रं व्याचष्टे—आत्मेति । इति वाक्यमिति शेषः । अनुपसंहार इति । उपासनाक्षिताल्पगुणोपसंहारे प्रमाणमित्य र्थः । अन्यथा गुणान्तरव्यावृत्तिपूर्वकं आत्मत्वोपासनस्यैवात्र विधा नादसङ्गतेः । न च अवधारणस्य 'अन्यथात्वम्' इति सूत्रे अयोगव्य वच्छेदकत्वस्योक्तत्वात् कथमन्ययोगव्यवच्छेदकत्वमुच्यत इति वा च्यम् । उपसंहारानुपसंहारवद्ब्रह्मादीन् उत्तमाधिकारिणः प्रत्ययोग व्यवच्छेदकत्वं अधमाधिकारिणः प्रत्यन्ययोगव्यवच्छेदकत्वमित्यधि कारिभेदेनाविरोधात् ॥ ८ ॥ ॥ इति आख्यानाधिकरणम् ॥
[अधि - ९. सू - १७.] दीपिकासहितम्. ८३७ ९. अधिकरणम् ॥ (१) सू- ॐ ॥ आत्मगृहीतिरितरवदुत्तरात् ॥ ॐ ॥ १७ ॥ न च 'आनन्दादयः प्रधानस्य' इत्युक्तिविरोधः । य- तः 'सत्यं ज्ञानमनन्तं ब्रह्म' (तै. २-१.) 'विज्ञानमान- न्दं ब्रह्म' (बृ. ५-९-२८.) इतिवदेवात्मशब्दगृहीतिः । 'अत्र ह्येते सर्व एकीभवन्ति' (बृ. ३-४-७.) इत्युत्तरात् । (२) आनन्दानुभवत्वाच्च निर्दोषत्वाच्च भण्यते । ९. अधिकरणम् ॥ (१) अत्राधिकरणे उपासनायामानन्दादिचतुर्गुणनियमः समर्थ्य- ते । 'आत्मेत्येवोपासीत' इति सावधारणश्रुतेरात्मत्वमेव सर्वोपास्यं न त्वानन्दादयोऽपीति पूर्वपक्षे प्राप्ते सिद्धान्तयत्सूत्रमुपन्यस्यति - आ- त्मेति ॥ अत्रात्मपदं शब्दपरमित्याशयेन आत्मगृहीतिरित्युक्तहेतोरपे- क्षितं साध्यमध्याहृत्य दर्शयति - न चेति । इत्युक्तीत्यावर्तते । तथा च 'आनन्दादयः प्रधानस्य' इत्युक्तेः 'आत्मेत्येवोपासीत' इति सा- वधारणोक्तिविरोधो नैवेत्यर्थः । कुतो नेत्यतस्तत्र हेतुत्वेन इतरवदि- ति दृष्टान्तविवरणपूर्वकमात्मगृहीतिरित्येतद्योजयति - यत इति । 'सत्यं ज्ञानम्' इति तैत्तिरीये 'विज्ञानमानन्दं ब्रह्म' इति बृहदारण्य- के । इतिवदिति । इत्यादिवाक्येषु यथा अनेकेषां सत्यत्वज्ञानानन्दादी- नां ग्रहणम्, तथा आत्मशब्देनापि सत्यज्ञानानन्दादीनां 'गृहीतिः' ग्र- हणं भवेत् । 'आनन्दानुभवत्वाच्च' इति वचनादात्मशब्दस्यापि सत्य- ज्ञानानन्दादिग्राहकत्वात् । यथोक्तं तत्त्वप्रदीपे - यथेतरेषु विज्ञानमा- नन्दं ब्रह्मेत्यादिषु वचनेषु नैकगुणगृहीतिः तद्वदितरयुक्तत्वेनैवात्मश- ब्दगृहीतिरानन्दादयो गुणा आत्मशब्देन विवक्षिता इत्यर्थ इति । कुतो ऽयमात्मशब्दः सत्त्वानन्दाद्यभिधायको, न स्वामित्वमात्रस्येत्याशङ्क्यो- त्तरत्वेनोत्तरादित्यंशं व्याचष्टे - अत्रेति । उत्तरादिति । बृहदारण्यके 'आत्मा' इति विधेरुत्तरत्र श्रुताद्वाक्यादित्यर्थः । व्याख्यातमेतत्सर्वंवे- दान्तनये ॥ (२) आत्मशब्दो न स्वामित्वमात्रं वक्ति, किन्तु सत्त्वानन्दादीन- पीत्युक्तार्थे स्मृतिं चाह - आनन्देति ॥ ईश्वरो वेदवादिभिर्न केवलं स्वामित्वादात्मेति भण्यते, किन्तु 'आनन्दरूपत्वात्' अनुभवरूपत्वा- च्च निर्दोषत्वात् नित्यत्वाच्च 'भण्यते' उच्यत इत्यर्थः । निर्दोषत्वाद्वि
८३८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ] नित्यत्वाच्च तथाऽऽत्मेति वेदवादिभिरीश्वरः ॥ इति बृहत्तन्त्रे ॥ १७ ॥ —— १०. अधिकरणम् ॥ ( १ ) सू- ॐ ॥ अन्वयादिति चेत्स्यादवधारणात् ॥ ॐ ॥ १८ ॥ सर्वगुणानामन्वय आत्मशब्दे भवति । ' आप्तव्याप्तेरा त्मत्वाद्'त्यनेन सत्त्वमात्मशब्दार्थ इति सूचितम् । चशब्दः समुच्चये । बृहत्तन्त्रे उक्तमिति शेषः ॥ ९ ॥ ॥ इति आत्मगृहीत्यधिकरणम् ॥ —— १०. अधिकरणम् ॥ ( १ ) अत्राधिकरणे आत्मशब्दस्य पूर्वोक्तमनुपसंहारमानत्वमाक्षि प्य समाधीयते । पूर्वपक्षस्य सूत्र एवोक्तत्वात्तदुपन्यस्य पूर्वपक्षांशं तावद्व्याचष्टे - अन्वयादिति ॥ अत्रेत्थं योजना - नात्मशब्दस्यानुपसं हारमानत्वं युक्तम्, तदुक्तगुणानां सर्वोपास्यत्वाभावात् । कुतः ? श्रु तचतुर्गुणोपासनस्य पुंसः विभ्रमकरत्वेन निश्चायकत्वाभावात् । सोऽ पि कुतो ? यत आत्मशब्दे सर्वगुणानां वाच्यतयाऽन्वयो भवति अत आत्मशब्दस्य सर्वगुणाभिधायकत्वमिति यावत् । तदपि कुतः ? आ प्तव्याप्तेरिति वचनादिति । वचनार्थस्तु - आप्ता प्राप्ता व्याप्तिर्देशकाल गुणापरिच्छेदो यं स तथोक्तस्तस्येति हेतुगर्भं विशेषणम् । ' पर मस्य' परमात्मनः । सप्तम्यर्थे षष्ठी । 'आत्मशब्दः' आत्मेति शब्दः 'इति वचनात्' इत्यन्वयवचनात् । सत्यमेवमिति पदद्वयाध्याहारेण स्यादवधारणादिति सिद्धान्तांशं व्याचष्टे - सत्यमिति । अर्थाङ्गीकारे सत्यमितिशब्दः । तथा च यत् परेण सर्वगुणाभिधायकत्वमात्मश ब्दस्योक्तं तदङ्गीक्रियते । यदात्मशब्दोक्तस्य सर्वोपास्यत्वाभावोऽनुप संहारामानत्वं च तन्नाङ्गीक्रियत इति भावः । कथं परेणोक्तमभ्युप गम्यत इत्यत आह - स्यादिति । चोऽवधारणे । यत्परेणात्मशब्दस्य सर्वगुणाभिधायकत्वमुक्तम् । 'तदेवं' तथा स्यादेव । कुतः ? यतः 'आप्तव्याप्तेः' इति प्रमाणमत्र स्यात् । तथा च प्रमितत्वात्परोक्ताङ्गी कारो न दोषायेति भावः । ननु श्रुतचतुर्गुणोपासनस्य पुंसो विभ्रमक
[ अधि - १०. - सू - १८. ] दीपिकासहितम्. ८३९ त्मशब्दः परमस्य प्रयुज्यते' इति वचनादिति चेत्स त्यम्, स्याच्चैवम् । ( २ ) 'आत्मेत्येव' (बृ. ३-४-७.) इत्यवधारणात् । अन्यथा रत्वात्कथमात्मशब्दोक्तगुणानां सर्वोपास्यत्वमित्यतो प्याह - स्याच्चैव- मिति । ब्रह्मादीन् प्रत्येव, नान्यान् प्रतीति शेषः । तथा च यद्यात्मश- ब्दस्य सर्वगुणाभिधायकत्वमङ्गीकृतम् 'तदेवं' तथा स्यादेव, किन्तु ब्रह्मादीन् प्रत्येव, नाल्पाननुपसंहर्तृन् प्रति, तान् प्रति तु अल्पगुणाभि- धायकः स्यात् । कुतः ? 'अन्वयात्' तथाऽनुभवात् । अतो विघ्नमक- रत्वाभावात् तदुपासने सर्वेषां' स्यात् ' युक्तमित्यर्थः ॥ ( २ ) ननु ब्रह्मादीनामात्मशब्दः सर्वगुणान् ज्ञापयतीति कुतः, अ- न्यान प्रतीव तान्प्रत्यल्पगुणाभिधायकः किं न स्यादित्याशङ्कोत्तरत्वे- नावधारणादित्यंशं व्याचष्टे - आत्मेति ॥ अन्ययोगव्यवच्छेदकावधा- रणयुक्तत्वादित्यर्थः । अवधारणेऽपि किमायातमित्यत आह - अन्यथे- ति । आत्मशब्दस्यान्यान् प्रतीव ब्रह्मादीन् प्रत्यल्पगुणाभिधायकत्व इ- त्यर्थः । सर्वोपसंहारेति । 'गुणैस्सर्वैरूपास्योऽसौ' इत्यादिसर्वोपसंहा- रपूर्वकोप,सनवचनविरोधादित्यर्थः । अयं भावः - यद्ययमात्मशब्दोऽ- न्यान् प्रतीव ब्रह्मादीन् प्रत्यल्पगुणाभिधायकः, तर्हि अवधारणमप्य- न्यान् प्रतीव तान् प्रत्यन्ययोगव्यवच्छेदकमेव स्यात् । न चेष्टापत्तिः । तथा सति आत्मशब्दोक्तस्यैवोपास्यत्वप्राप्त्या सर्वोपसंहारवचन- विरोधः स्यात् । अतोऽसौ ब्रह्मादीन् प्रति सर्वगुणाभिधायक इति । यद्यपि तत्त्वप्रदीपे सत्यमिति वाक्यं नानुपसंहार एव प्र- माणं, किन्तु सर्वोपसंहारेऽपि प्रमाणं स्यादेव, कुतः ? 'आत्मे- त्येव' इति सर्वगुणपूर्ण इत्येवेत्यवधारणात् । 'अन्यथा' एवमर्थानङ्गी- कारे सर्वोपसंहारवचनविरोधादित्यामेति वाक्यस्यानुपसंहारमात्रमा- नत्वाङ्गीकारपरतया सत्यमिति भाष्यं व्याख्यातम् । तथाऽपि टी- काकृत् तदङ्गीकृत्यावधारणादित्यंशं तद्भाष्यं च प्रकारान्तरेणापि व्या- ख्यातवानिति ध्येयम् । अनेन - 'अन्वयात्' 'आप्तव्याप्तेः' इत्यन्वय- वचनात् आत्मशब्दे सर्वेषां गुणानां अन्वयात् वाच्यतया सम्बन्धात् तस्य तदभिधायकत्वात् अत एव श्रुतचतुर्गुणोपासनस्य पुंसः विघ्न- मकरत्वात् अत एव तदुक्तगुणानां सर्वोपास्यत्वाभावात् न तस्यानुप- संहारमात्रत्वं युक्तमिति चेत् सत्यं, यतः तथा स्यादेव यत्परेणात्मश-
२४० ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३.] सर्वोपसंहारवचनविरोधात् ॥ १८ ॥ ―――※――― ११. अधिकरणम् ॥ ( १ ) सू-ॐ ॥ कार्याख्यानादपूर्वम् ॥ १९ ॥ 'अलौकिकास्तस्य गुणा ह्युपास्या अलौकिकं मुक्ति ब्दस्य सर्वगुणाभिधायकत्वमुक्तं तत् तथा स्यादेव ब्रह्मादीन् प्रति । कुतः ? अस्य वाक्यस्य 'अवधारणात्' अयोगव्यवच्छेदकावधारण युक्तत्वात्, नान्यान् अल्पान् प्रति । कुतः ? अन्ययोगव्यवच्छेदकावधा रणात् । अतो विभ्रमकत्वाभावात् नौकानुपपत्तिरिति सूत्रार्थ उक्तो भवति । तत्त्वप्रदीपरीत्या तु—यत्त आत्मेत्यस्य अनुपसंहारमात्रेणान- र्थक्यमुक्तं तत्सत्यं युक्तमेव । कुतः ? तस्य सर्वोपसंहारेऽपि मानत्वात् । तत्कुतः ? अवधारणात् 'आत्मेत्येव' इति सर्वगुणपूर्ण इत्येवेत्ययोग व्यवच्छेदकावधारणादिति सूत्रखण्डार्थः ॥ १० ॥ ॥ इति अन्वयाधिकरणम् ॥ ―――※――― ११. अधिकरणम् ॥ ( १ ) अत्राधिकरणेऽलौकिकगुणानामेवोपसंहार्यत्वं समर्थ्यते । लौकिका एव गुणा उपसंहृत्य ध्यातव्या नालौकिकास्तेषां पूर्वमननु भूतत्वेन ध्यानकालेऽप्रतीतेरिति प्राप्ते सिद्धान्तयत्सूत्रमुपन्यस्यति— कार्येति ॥ मुक्तिकार्यत्वाख्यानात् ध्यानकार्यभूताया मुक्तेरलौकिक त्वाख्यानादिति हेतुवाक्यार्थमभिप्रेत्य तत्सूचितां श्रुतिं दर्शयति— अलौकिका इति । अलौकिका एवेत्यर्थः । 'तस्य' हरेः । कुत इत्यतो हेतुमाह—अलौकिकमिति । 'अस्य' उपासनस्य 'मुक्तिकार्ये' का र्यभूता मुक्तिः 'अलौकिकं' अलौकिकी । कार्यानुसार्युपासनस्यैव क र्तव्यत्वनियमादिति हेतुसूचको हिशब्दः । इति कार्याख्यानादिति । इति श्रुतौ कार्यस्य मोक्षस्यालौकिकत्वोक्तेः ध्यानकार्यत्वोक्तेश्चेत्यर्थः । अनेन सूत्रे कार्याख्यानादिति मध्यमपदलोपी समासः, आ ख्यानादि त्याङ्प्रश्लेषो वा । आङोऽर्थस्तु सम्यक्त्वमलौकिकत्वपर्यवसितं, का र्यपदं भावप्रधानमावर्तनीयं चेति सूचितम् । अपूर्वमिति प्रतिज्ञाभाग मन्वयेतिपदाकर्षणेन श्रुत्यनुसाराद्वचनविपरिणामेन चोपास्या इति पदाध्याहारेण व्याचष्टे—अन्यत्रेति । ब्रह्मणोऽन्यत्र लोके इत्यर्थः । 'म
कार्ये 'शेतेऽस्य' इति कार्याख्यानादन्यत्र अदृष्टा एव गुणा उपास्याः ॥ १९ ॥ १२. अधिकरणम् ॥ ( १ ) सू— ॐ ॥ समान एवं चाभेदात् ॥ ॐ ॥ २० ॥ दृष्टाः ' अप्रतीता अलौकिका इति यावत् । गुणा ब्रह्मणः 'उपास्याः' ध्यातव्या इत्यर्थः । एवेत्यनेनापूर्वपदं सावधारणमिति सूचितम् । य- द्यप्यपूर्वशब्दः तद्व्याख्यानरूपोऽदृष्टशब्दश्च यागादिक्रियाजन्ये पुण्ये रूढः । तथाऽपि श्रुतौ यौगिकालौकिकपदप्रयोगात्तत्समानार्थकस्यापू- र्वपदस्यादृष्टपदस्य च योगवृत्तिरेवाश्रयणीयेति भावेन असावाश्रिता । न चालौकिकगुणाप्रतीतेः शक्तिग्रहानुपपत्तिः । अभिमान्यधिकरण- सुत्रोक्तरीत्या इन्द्रादौ यस्सहस्राक्षः स इन्द्रः यः पाशहस्तः स वरु- णः इत्याद्युपदेशवदत्रापि साक्षात्कृतभगवद्रूपाणां योगिनां योऽनुकूल- वेदनीयो गुणः स आनन्दः यत् सर्वविषयं तत् ज्ञानमित्याद्युपदेशोप- पत्तेः । उपदेशेन च गुणप्रतीतिसम्भवाच्छक्तिग्रहोपपत्तेश्च ॥ ११ ॥ ॥ इति कार्याधिकरणम् ॥ १२. अधिकरणम् ॥ ( १ ) अत्राधिकरणे उपासनस्य स्वसदृशफलप्रदत्वसिद्धयर्थं ब्र- ह्माणीब्रह्मणोरुपासनस्य समविषमत्वं समर्थ्यते । तत्र ब्रह्माणीब्रह्मणोः सत्यलोकादिस्थानैक्यस्य आनन्दादिगुणतारतम्यस्य च सद्भावेन फ- लस्य समविषमत्वेऽप्युपासनस्य न तथात्वं युक्तं, विरोधादतो नोपास- नसदृशं फलमिति प्राप्ते सिद्धान्तहेत्वभिधानाय प्रवृत्तं सूत्रं पठति— समान इति ॥ त्रिविक्रमत्वादिक्रियाणां लोकदृष्टक्रियाविलक्षणत्वेना- त्याश्चर्यत्वात् कथं तदुपासनं ब्रह्माणी हास्यतीत्याशङ्काप्रदर्शनाय—ए- वं चेत्युक्तम् । तत्रैवंशब्देन पूर्वसूत्रोक्तं परामृश्यते । चोऽप्यर्थ इत्या- शयेनैवं चेत्येतद्व्याचष्टे—अपूर्वत्वेऽपीति । अन्यत्रादृष्टत्वेऽपीत्यर्थः । त्रिविक्रमत्वादिक्रियाणामित्येतत् आदावन्वीयते । यद्यपितथापीत्यर्थेऽ- पिः । सूत्रे समाने चेत्यपि चशब्दान्वयः । स चावधारणार्थः । विष- यसप्तमी चेयमित्यभिप्रेत्य प्रदर्शितशङ्कापरिहारकं समाने चेत्येतद्व्या- चष्टे—समानानामेवेति । साधारणानां नित्यविक्रान्तिनित्यरमणादि १०६
८४२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ] अपूर्वत्त्वेऽपि समानानामेवोपसंहारः । न तु त्रिविक्र- मत्त्वादीनां कादाचित्कानां पृथक्त्वेन नित्यविक्रान्त्य- दिष्वन्तर्भावात् ॥ २० ॥ ( २ ) सू—ॐ ॥ सम्बन्धादेवमन्यत्रापि ॥ ॐ ॥ २१ ॥ रूपाणां योग्यानामेव क्रियाणामित्यर्थः । उपसंहार इति सूत्रेऽनुवृत्तं पदम् । उपसंहृत्योपासनमित्यर्थः । एवशब्दव्यावृत्तिं दर्शयति--न त्विति । तुशब्दो योग्यत्वविशेषद्योतकः । त्रिविक्रमत्वेति । अत्र त्रित्व- स्यान्वयः पादद्वारा विन्यासेषु, त्रिविक्रमरूपस्य पादत्रययुक्तत्वात् । त्रयो विक्रमा यस्य स तथोक्तः, तस्य भावस्तत्त्वं त्रित्वसङ्ख्योपेतपा- दविक्षेपरूपक्रियादीनामित्यर्थः। आदिशब्देन रिङ्गणरमणभक्षणसंहर- णादिक्रिया गृह्यन्ते । कादाचित्कानामिति । कदाचिदभिव्यक्तानामि- त्यर्थः । ननु त्रिविक्रमत्वादीनामप्यन्तर्भावेन कदाचिद्विशेषरूपेण च उपास्यत्वान्निषेधायोग इत्यत आह—पृथक्त्वेनेति । सदेत्यपि प्राग- ध्याहार्यम् । तथा च सर्वदा त्रिविक्रमत्वादिविशेषाकारेणोपसंहार इत्यर्थः । ननु त्रिविक्रमत्वादिक्रियाणां सदा पृथक्त्वेनानुपासने सर्व- था तन्निषेधादनुपासनमेव प्राप्नोति प्रकारान्तरेणोपासनानुक्तेरि- त्याशङ्कानिरासाय—अभेदादित्युक्तं सूत्रे, तद्व्याचष्टे—नित्येति । किं- त्वर्थकस्तुशब्द आदौ संयोज्यः । तेन सौत्रचशब्दस्तुशब्दार्थकत्याऽ- पि व्याख्यातः । त्रिविक्रमत्वादीनामित्यत्राप्यन्वीयते । विक्रान्तिः क्रि- या । आदिपदेन पूर्वोक्तमुच्यते । अन्तर्भावादिति । अन्तर्भाव्य उपसं- हारः । नित्यमनन्तरूपेषु अनन्तक्रियास्सन्तीत्युपास्तौ त्रिविक्रमत्वा- दीनामपि सामान्यत उपास्यासु नित्यविक्रान्त्यादिरूपक्रियासु अन्त- र्भूतत्वादिति भावः। सूत्रस्य ब्रह्माणीब्रह्मणोः फलवत् उपासनमपि स- मविषममेवेति उपस्कृतसाध्येनान्वयः ॥ ( २ ) ननु न विरिञ्चस्यापि सदा त्रिविक्रमत्वादिविशेषक्रियोपसं- हारो युज्यते, तासामनित्यत्वेन ध्यानकालेऽभावादित्याशङ्कां परिहर- त्सूत्रं पठति—सम्बन्धादिति ॥ अत्र सम्बन्धादिति हेतूक्त्या तत्सा- ध्यं नित्यत्वमपि सूचितमिति भावेन सम्बन्धन्तरप्रदर्शनपूर्वकं सम्ब- न्धादित्येतद्व्याचष्टे—परमात्मेति । सम्बन्धस्तादात्म्यं परमात्माभिन्न- त्वेनेत्यर्थः । त्रिविक्रमत्वादीनामिति वर्तते । सूत्रे ऐक्यादित्यनुक्त्वा सम्बन्धादित्युक्तिः ऐक्येऽपि विशेषबलात्तत्सम्बन्धित्वव्यवहारो न
[ अधि - १३. सू - २२. ] दीपिकासहितम्. ८४३ परमात्मसम्बन्धित्वेन नित्यत्वात् त्रिविक्रमत्वादिष्व प्युपसंहार्यत्वं युज्यते । ( २ ) गुणास्त्रैविक्रमाद्यास्तु संहर्तव्या न संशयः । विरिञ्चस्यैव नान्येषां स हि सर्वगुणाधिकः ॥ इति बृहत्तन्त्रे ॥ २१ ॥ -:-※-:- १३. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ न वा विशेषात् ॥ ॐ ॥ २२ ॥ विरुद्ध इति सूचनायेति ज्ञापयितुं सम्बन्धित्वेनेत्युक्तम् । ‘नित्यत्वात्’ शक्त्यात्मना नित्यत्वात् । एवमन्यत्रेत्यस्य नित्यव्यक्तवदेव ततोऽन्यत्र कादाचित्कव्यक्तिषु त्रिविक्रमत्वादिवित्यर्थ इत्याशयेनाह—त्रिविक्र- मत्वादिष्विति । त्रिविक्रमादिष्वितिपाठे भावप्रधानो निर्देशः । विषय- सप्तमीयम् । न केवलं नित्यव्यक्तिषु किन्त्वन्यत्रापीति समुच्चयेऽपिश- ब्दः । एवमित्यस्यार्थमाह—उपसंहार्यत्वमिति । युज्यते इति । हिरण्य- गर्भेण सदेति शेषः ॥ ( २ ) अत्रार्थे स्मृतिं चाह—गुणा इति ॥ ‘त्रैविक्रमाद्याः’ त्रिविक्रम- मस्यायं त्रैविक्रमः त्रिविक्रमत्वादिक्रियात्मकधर्मा इत्यर्थः । आद्यश- ब्देन हननभक्षणादिकमुच्यते । तुरवधारणे, भिन्नक्रमः । पृथक्त्वेनेति विशेषद्योतको वा । ‘संहर्तव्याः’ उपसंहर्तव्याः ‘अन्येषाम्’ वाग्वादी- नाम् । अत्र युक्तिमाह—स हीति । ‘सः’ विरिञ्चः । हिशब्दो हेतौ । सर्वैति । सर्वेभ्योऽधिकारिभ्यो गुणैरधिक इत्यर्थः । बृहत्तन्त्रे कथित मिति शेषः ॥ १२ ॥ ॥ इति समानाधिकरणम् ॥ —*— १३. अधिकरणम् ॥ ( १ ) अत्राधिकरणे आत्मशब्दोक्तगुणोपासनस्य सर्वैः कर्तव्यत्वं समर्थ्यते । आत्मशब्दस्य सर्वगुणाभिधायकत्वेन विभ्रमकरत्वात् आ- त्मशब्देन अस्यैतावन्त एवोच्यन्त इति प्रातिस्विकनियमाभावेनोपास- नाऽसम्भवाच्च न तदुक्तगुणाः सर्वोपास्या इति प्राप्ते सिद्धान्तयितुं सू- त्रं पठति--न वेति । अत्र युक्तमेव सर्वेषामात्मशब्दोक्तगुणोपासनमि- ति साध्यमध्याहार्यमित्याशयेन तत्र हेतुत्वेन न वेत्यंशं व्याचष्टे--न
८४४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ] न वाऽऽत्मशब्देन सर्वगुणगृहीतिः अधिकारिविशेषात् ॥२२॥ ( २ ) सू—ॐ ॥ दर्शयति च ॥ ॐ ॥ २३ ॥ 'सर्वान् गुणानात्मशब्दो ब्रवीति ब्रह्मादीनामितरेषां न चैव' इति भाल्लवेयश्रुतिः ॥ २३ ॥ —::— १४. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ सम्भृतिद्युव्याप्त्यपि चातः ॥ ॐ ॥ २४ ॥ वेति । वाशब्दो व्यवस्थितविकल्पे । आत्मशब्देनेत्यनेन सूत्रे आत्मगृ- हीतिरिति पदानुवृत्तिस्सूचिता । तथा च आत्मपदेन सर्वेषां गुणानां शुभधर्माणां गृहीतिरभिधानं न वा सर्वान् प्रति, किन्तु ब्रह्मादीन् प्र- त्येवेत्यर्थः । अस्य यत इति शेषेणाध्याहृतसाध्येनान्वयः । कुतो नेत्य- तस्तत्र हेतुत्वेन विशेषादित्यंशं व्याचष्टे—अधिकारिति । आत्मशब्द- स्य अधिकारिसामर्थ्यविशेषमपेक्ष्य तत्तद्योग्यगुणाभिधायकत्वादित्यर्थः ॥ ( २ ) विशेषादिति युक्तिसिद्धार्थं श्रुत्याऽपि समर्थयत्सूत्रं पठित्वा तां श्रुतिमुदाहरति —दर्शयति चेति ॥ न वेत्युक्तमर्थं श्रुतिरपि दर्शय- तीत्यर्थः । न केवलं युक्तिरिति चार्थः । बह्वर्थकोऽप्यात्मशब्दः 'ब्रह्मा- दीनां' ब्रह्मब्रह्माण्यादीन् प्रति 'सर्वान्' स्वयोग्यान् बहून् 'गुणान्' भगवद्धर्मान् 'ब्रवीति' ध्यानकाले युगपत्प्रकाशयतीत्यर्थः । 'इतरेषां' देवगन्धर्वाणां मनुष्योत्तमानां च न बहुगुणान्, किन्त्वल्पानित्यर्थः । यथोक्तं तत्त्वप्रदीपे— सर्वान् गुणानात्मशब्दो ब्रवीति ब्रह्मणः, ब्रह्म- ण्यादीनां शतं शतमूनान् क्रमादिति, न्यूनत्वायौग्यतायाः । अवरेषा- मल्पगुणानेवेति। अनेन यस्य यावन्तो गुणा आत्मशब्देन युगपत्प्रतीय- न्ते तेन तावन्तो ध्यातव्या इति हेतोः व्युत्पत्तिवशेनार्त्मशब्देन जाता प्रतीतिः न ध्यानोपयोगिनीत्युक्तं भवति ॥ १३ ॥ ॥ इति नवाधिकरणम् ॥ —— १४. अधिकरणम् ॥ ( १ ) अत्राधिकरणे सम्भृत्यादिगुणस्य सर्वोपास्यत्वं नेत्युच्यते । मोक्षे स्वाधमभरणस्य प्रकाशव्याप्तेश्च सर्वापेक्षितत्वात् फलानुसारेण सम्भृतिद्युव्यापी सर्वोपास्ये इति प्राप्ते सिद्धान्तयत्सूत्रमुपन्यस्य व्या-