भारतकोश
संग्रह पर लौटें

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

५७२ रघुवंशमहाकाव्ये

क्रीडापतत्त्रिणोऽप्यस्य पञ्जरस्थाः शुकादयः । लब्धमोक्षास्तदादेशाद्यथेष्टगतयोऽभवन् ॥ २० ॥

अन्वयः—पञ्जरस्थाः शुकादयः अस्य, क्रीडापतत्त्रिणः अपि तदादेशात् लब्धमोक्षा (सन्तः) यथेष्टगतयः अभवन् ।

क्रीडेति । पञ्जरस्थाः शुकादयोऽस्यातिथेः क्रीडापतत्त्रिणोऽपि किमुतान्य इत्यपिशब्दार्थः, तदादेशात्तस्यातिथेः शासनाल्लब्धमोक्षाः सन्तो यथेष्टं गतिर्येषां ते स्वेच्छाचारिणोऽभवन् ।

भाषार्थ—अतिथि की आज्ञा से क्रीड़ा के लिए पिंजरेमें पाले गये सुग्गा, तोता, मैना आदि छोड़ दिये गये, जो अपने मनसे इधर-उधर उड़ने लगे ॥ २० ॥


ततः कक्ष्यान्तरन्यस्तं गजदन्तासनं शुचिः । सोत्तरच्छदमध्यास्त नेपथ्यग्रहणाय सः ॥ २१ ॥

अन्वयः—ततः स नेपथ्यग्रहणाय कक्ष्यान्तरन्यस्तं शुचि सोत्तरच्छदं गजदन्तासनं अध्यास्त ।

तत इति । ततः सोऽतिथिर्नेपथ्यग्रहणाय प्रधानस्वीकाराय कक्ष्यान्तरं हर्म्याङ्गणविशेषः 'कक्ष्या प्रकोष्ठे हर्म्यादेः' इत्यमरः । तत्र न्यस्तं स्थापितं शुचि निर्मलं सोत्तरच्छदमास्तरणसहितं गजदन्तस्यासनं पीठमध्यास्त । तत्रोपविष्ट इत्यर्थः ।

भाषार्थ—इसके बाद वे अपना राजसी शृङ्गार कराने के लिए हाथी के दाँत के बने हुए पवित्र सिंहासन पर बैठे, जो राजभवन के दूसरे कमरे में रखा हुआ था और जिसपर चादर बिछी हुई थी ॥ २१ ॥


तं धूपाश्यानकेशान्तं तोयनिर्णिंक्तपाणयः । आकल्पसाधनैस्तैस्तैरुपसेदुः प्रसाधकाः ॥ २२ ॥

अन्वयः—तोयनिर्णिंक्तपाणयः प्रसाधकाः धूपाश्यानकेशान्तं तं तैः तैः आकल्पसाधनैः उपसेदुः ।

तमिति । तोयेन निर्णिंक्तपाणयः क्षालितहस्ताः प्रसाधका अलङ्कर्तारो धूपेन गन्धद्रव्यधूपेनाश्यानकेशान्तं शोषितकेशपाशान्तं तमतिथिं तैस्तैराकल्पस्य नेपथ्यस्य साधनैर्गन्धमाल्यादिभिरुपसेदुरुपतस्थुः । अलञ्चक्रुरित्यर्थः ।

भाषार्थ—शृङ्गार करने वालों ने स्वच्छ हाथों से धूप देने से सुगन्धित या सूखे हुए केशवाले राजा अतिथिको उन-उन शृङ्गार-सामग्रियों से अलंकृत कर दिया ॥ २२ ॥

सप्तदशः सर्गः ५७३

तेऽस्य मुक्तागुणोन्नद्धं मौलिमन्तर्गतस्रजम् ।
प्रत्यूषुः पद्मरागेण प्रभामण्डलशोभिना ॥२३॥

अन्वयः—ते मुक्तागुणोन्नद्धं अन्तर्गतस्रजं अस्य मौलिं प्रभामण्डलशोभिना पद्मरागेण प्रत्यूपुः ।

त इति । ते प्रसाधका मुक्तागुणेन मौक्तिकसरेणोन्नद्धमुद्वद्धमन्तर्गतस्रजमस्यानितिथेर्मौलिन्धम्मिल्लं प्रभामण्डलशोभिना पद्मरागेण माणिक्येन प्रत्युप्तं चक्रुः ।

भावार्थ—फूल और मोतियों की लड़ी से गूंथे हुए राजा अतिथि के शिर पर उन्होंने वह पद्मराग मणि बाँधी जिसकी सुन्दर चमक चारों ओर फैल गई ॥२३॥

चन्दनेनाङ्गरागं च मृगनाभिसुगन्धिना ।
समापय्य ततश्चक्रुः पत्रं विन्यस्तरोचनम् ॥२४॥

अन्वयः—मृगनाभिसुगन्धिना चन्दनेन अङ्गरागं समापय्य ततः विन्यस्तरोचनं पत्रं चक्रुः ।

चन्दनेनेति । किं च मृगनाभ्या कस्तूरिकया सुगन्धिना चन्दनेनाङ्गरागमङ्गविलेपनं समापय्य समाप्य ततोऽनन्तरं विन्यस्ता रोचना गोरोचना यस्मिंस्तत्पत्रं चक्रुः ।

भावार्थ—बाद में सिङ्गारियों ने कस्तूरी में बासे हुए चन्दन का सुगन्धित अङ्गराग लगा कर गोरोचन से मुख पर रचना की ॥ २४ ॥

आमुक्ताभरणः स्रग्वी हंसचिह्नदुकूलवान् ।
आसीदतिशयप्रेक्ष्यः स राज्यश्रीवधूवरः ॥२५॥

अन्वयः—आमुक्ताभरणः स्रग्वी हंसचिह्नदुकूलवान् राज्यश्रीवधूवरः सः अतिशयप्रेक्ष्यः आसीत् ।

आमुक्तेति । आमुक्ताभरण आसञ्जिताभरणः स्रजोऽस्यास्तीति स्रग्वी । "अस्मयामेधास्रजो विनिः" इति विनिप्रत्ययः । हंसाश्चिह्नमस्येति हंसचिह्नं यद् दुकूलं तद्वान् । अत्र बहुव्रीहिणैवार्थसिद्धेर्मतुब्वानर्थक्येऽपि सर्वधनीत्यादिवत्कर्मधारयादपि मत्वर्थीयं प्रत्ययमिच्छन्ति । एवमन्यत्रापि द्रष्टव्यम् । राज्यश्रीरेव वधूर्नंवोढा तस्या वरो वोढा । 'वधूः स्नुषा नवोढा स्त्री वरो जामातृषिङ्गयो' इति विश्वः । सोऽतिथिरतिशयेन प्रेक्ष्या दर्शनीय आसीत् । वरोऽप्येवंविशेषणः ।

भावार्थ—आभूषण और माला पहने हुए, हंस छपा हुआ दुपट्टा ओढ़े हुए राजा अतिथि उस समय ऐसे सुन्दर दिखाई देते थे मानो राज्यलक्ष्मीरूपिणी वधू के दूल्हा हों ॥ २५ ॥

५७४ रघुवंशमहाकाव्ये

नेपथ्यदर्शिनश्छाया तस्यादर्शे हिरण्मये।
विरराजोदिते सूर्ये मेरौ कल्पतरोरिव ॥ २६ ॥

अन्वयः—हिरण्मये आदर्शे नेपथ्यदर्शिनः तस्य छाया उदिते सूर्ये मेरौ कल्पतरोः इव विरराज ।

नेपथ्येति । हिरण्मये सौवर्णे आदर्शे दर्पणे नेपथ्यदर्शिनो वेषं पश्यतस्तस्यातिथेश्च्छाया प्रतिबिम्बम् उदिते दर्पणकल्पे मेरौ यः कल्पतरुस्तस्य छायेव विरराज । तस्य सूर्यसंक्रान्तबिम्बस्य संभवान्मेरावित्युक्तम् ।

भाषार्थ—सुवर्ण के बने दर्पण में जब वे अपनी सजावट देखने लगे उस समय उनका प्रतिबिम्ब ऐसा लग रहा था मानो सूर्योदय के समय सुमेरु पर्वत पर कल्पवृक्ष का प्रतिबिम्ब पड़ रहा हो ॥ २६ ॥


स राजककुद्व्यग्रपाणिभिः पार्श्ववर्तिभिः ।
ययावुदीरितालोकः सुधर्मानवमां सभाम् ॥ २७ ॥

अन्वयः—सः राजककुद्व्यग्रपाणिभिः पार्श्ववर्तिभिः उदीरितालोकः सुधर्मावमां सभां ययौ ।

स इति । सोऽतिथी राजककुदानि राजचिह्नानि छत्रचामरादीनि । ‘प्राधान्ये राजलिङ्गे च वृषाङ्गे ककुदोऽस्त्रियाम्’ इत्यमरः । तेषु व्यग्राः पाणयो येषां तैः पार्श्ववर्तिभिर्जनैरुदीरितालोक उच्चारितजयशब्दः । ‘आलोको जयशब्दः स्यात्’ इति हलायुधः । सुधर्माया देवसभाया अनवमामन्यूनां सभामास्थानीं ययौ । ‘स्यात्सुधर्मा देवसभा’ इत्यमरः ।

भाषार्थ—तब वे राजा अतिथि अपनी उस सभा की ओर चले जो किसी प्रकार भी देवताओं की सभा सुधर्मा से कम नहीं थी, उनके पीछे-पीछे बहुत से सेवक हाथों में राजचिह्न छत्र लिए चमर डुलाते हुए और जय-जयकार करते हुए चल रहे थे ॥ २७ ॥


वितानसहितं तत्र भेजे पैतृकमासनम् ।
चूडामणिभिरुद्घृष्टपादपीठं महीक्षिताम् ॥ २८ ॥

अन्वयः—तत्र वितानसहितं महीक्षितां चूडामणिभिः उद्घृष्टपादपीठम् पैतृकं आसनं भेजे ।

वितानेति । तत्र सभायां वितानेनोल्लोचेन सहितम् । ‘अस्त्री वितानमुल्लोच’ इत्यमरः । महीक्षितां राज्ञां चूडामणिभिः शिरोरत्नैरुद्घृष्टमुल्लिखितं पादपीठं यस्य तत् । पितुरिदं पैतृकम् । "ऋतष्ठन्" इति ठञ्प्रत्ययः । आसनं सिंहासनं भेजे ।

सप्तदशः सर्गः ५७५

**भाषार्थ—**वहाँ चंदोवा लगे हुए अपने पिता के सिंहासन पर वे जा बैठे । उनके पैर के नीचे जो पीढ़ा रखा हुआ था वह प्रणाम करने वाले राजाओंके मस्तक की मणियों की रगड़ से घिस गया था ॥ २८ ॥

शुशुभे तेन चाक्रान्तं मङ्गलायतनं महत् ।
श्रीवत्सलक्षणं वक्षः कौस्तुभेनेव कैशवम् ॥ २९ ॥

**अन्वयः—**तेन च आक्रान्तं श्रीवत्सलक्षणं महत् मङ्गलायतनम् कौस्तुभेन कैशवं इव शुशुभे ।

शुशुभे इति । तेन चाक्रान्तं श्रीवत्सो नाम गृहविशेषः तल्लक्षणं श्रीवत्स-रूपम् । ‘श्रीवत्सन्न्यावर्तादिविच्छेदो बहवो द्वयोः’ इति सज्जनः । महदधिकं मङ्गलायतनं मङ्गलगृहसभारूपं कौस्तुभेन मणिनाक्रान्तं श्रीवत्सलक्षणम् केशव-स्येदं कैशवम् वक्ष इव शुशुभे ।

**भाषार्थ—**जिस प्रकार भृगु ऋषि के चरण के आघात से बने हुए श्रीवत्स के चिह्नवाला भगवान् विष्णुका वक्षःस्थल कौस्तुभ मणिसे चमक उठता है उसी प्रकार राजा अतिथि के बैठने से विशाल वह सभाभवन भी जगमगा उठा ॥ २९ ॥

बभौ भूयः कुमारत्वादाधिराज्यमवाप्य सः ।
रेखाभावादुपारूढः सामग्रथमिव चन्द्रमाः ॥ ३० ॥

**अन्वयः—**सः कुमारत्वात् भूयः आधिराज्यं अवाप्य रेखाभावात् सामग्रथं उपारूढः चन्द्रमा इव बभौ ।

बभाविति । सोऽतिथिः कुमारत्वाद् बाल्याद् भूयो यौवराज्यमवाप्यैवान-न्तरम् अधिराजस्य भाव आधिराज्यं महाराज्यमवाप्य रेखाभावादधेंन्दुत्वमवाप्यैव सामग्रथमुपारूढः पूर्णतां गतश्चन्द्रमा इव बभौ इति व्याख्यानम् । तदपि यौव-राज्याभावनिश्चये ज्याय एव ।

**भाषार्थ—**राजा अतिथिको युवराज बनने का अवसर ही नहीं आया, क्योंकि वे कुमार अवस्था के बाद तत्काल ही महाराज हो गये मानो एक कला वाले चन्द्रमा में तुरन्त सोलहवीं कला आ गई ॥ ३० ॥

प्रसन्नमुखरागं तं स्मितपूर्वाभिभाषिणम् ।
मूर्तिमन्तममन्यन्त विश्वासमनुजीविनः ॥ ३१ ॥

**अन्वयः—**प्रसन्नमुखरागं स्मितपूर्वाभिभाषिणं त अनुजीविनः मूर्तिमन्तं विश्वासं अमन्यत ।

५७६रघुवंशमहाकाव्ये

प्रसन्नेति। प्रसन्नो मुखरागो मुखकान्तिर्यस्य तं स्मितपूर्वं यथा तथाभिभाषिणमाभाषणशीलं तमतिथिमनुजीविनः सेवकाः मूर्तिमन्तं विग्रहवन्तं विश्वासं विश्रम्भममन्यन्त । 'समो विश्रम्भविश्वासौ' इत्यमरः ।

**भावार्थ—**उस राजा अतिथि का मुख सदा प्रसन्न रहता था और वे सबसे मुस्करा कर बोलते थे इसलिए उनके सेवक उन्हें साक्षात् विश्वास का मूर्तिमान् रूप मानते थे ॥ ३१ ॥

स पुरं पुरुहूतश्रीः कल्पद्रुपमनिभध्वजाम् ।
क्रममाणश्चकार द्यां नागेनैरावतौजसा ॥ ३२ ॥

**अन्वयः—**पुरुहूतश्रीः सः कल्पद्रुमनिभध्वजां पुरं ऐरावतौजसा नागेन क्रममाणः द्यां चकार ।

स इति । पुरुहूतश्रीः सोऽतिथिः कल्पद्रुमाणां निभाः समाना ध्वजा यस्यास्तां पुरमयोध्यामैरावतस्य ओज इवौजौ बलं यस्य तेन नागेन कुञ्जरेण क्रममाणश्चरन् । "अनुपसर्गाद्वा" इति वैकल्पिकमात्मनेपदम् । द्यां चकार । स्वर्गलोकसदृशीं चकारेत्यर्थः । 'द्यौ स्वर्गसुरवर्त्मनोः' इति विश्वः ।

**भावार्थ—**इन्द्र के समान ऐश्वर्यशाली राजा अतिथि जब ऐरावत के समान बलवान् हाथी पर सवार होकर अयोध्या में घूमने निकले तब कल्पवृक्ष के समान ध्वजाओं वाली वह अयोध्या नगरी स्वर्ग के समान लगने लगी ॥ ३२ ॥

तस्यैकस्याच्छ्रितं छत्रं मूर्ध्नि तेनामलत्विषा ।
पूर्वराजवियोगौष्ण्यं कृत्स्नस्य जगतो हृतम् ॥ ३३ ॥

**अन्वयः—**तस्य एकस्य मूर्ध्नि छत्रं उच्छ्रितं अमलत्विषा तेन कृत्स्नस्य जगतः पूर्वराजवियोगौष्ण्यं हृतम् ।

तस्येति । तस्यैकस्य मूर्ध्नि छत्रमुच्छ्रितमुन्नमितम् अमलत्विषा तेन छत्रेण कृत्स्नस्य जगतः पूर्वराजस्य कुशस्य वियोगेन यदौष्ण्यं सन्तापस्तद्धृतं नाशितम् । अत्र छत्रोन्नमनसन्तापहरणलक्षणयोः कारणकार्ययोर्भिन्नदेशत्वादसङ्गतिरलङ्कारः । तदुक्तम्—'कार्यकारणयोर्भिन्नदेशत्वे सत्यसङ्गतिः' इति ।

**भावार्थ—**यद्यपि उस एक राजा अतिथि के शिर पर ताज-छत्र लगा हुआ था पर उस श्वेत रंग के छत्र ने समस्त संसार के उस सन्ताप को दूर कर दिया जो कुश के वियोग से उत्पन्न हुआ था ॥ ३३ ॥

भूमादग्नेः शिखा पश्चादुदयादंशवो रवेः।
सोऽतीत्य तेजसां वृत्तिं सममेवोत्थितो गुणैः ॥ ३४ ॥

सप्तदशः सर्गः ५००

**अन्वयः—**अग्नेः धूमात् शिखा रवेः उदयात् पश्चात् अंशवः (उत्तिष्ठन्ते) स तेजसा वृत्ति अतीत्य गुणैः समं एव उत्थितः ।

धूमादिति । अग्नेर्धूमात्पश्चात् अनन्तरमित्यर्थः । शिखा ज्वाला रवेरुदयात् पश्चादनन्तरमंशवः । उत्तिष्ठन्त इति शेषः । सोऽतिथिस्तेजसामग्न्यादीनां वृत्ति स्वभावमतीत्य गुणैः समं सहैवोत्थित उदितः । अपूर्वमिदमित्यर्थः ।

**भाषार्थ—**आग की लपट धूआँ निकलने के पीछे उठती है और किरणें सूर्य के उदय होने के बाद दिखाई देती हैं किन्तु राजा अतिथि ने इन तेजस्वियों के नियमों को भी उलट दिया क्योंकि उनके गुण उनके राजा बनने के साथ ही प्रकट हो गये ॥ ३४ ॥

तं प्रीतिविशदैर्नेत्रैरन्वयुः पौरयोषितः ।
शरत्प्रसन्नैर्ज्योतिर्भिर्विभावर्य इव ध्रुवम् ॥ ३५ ॥

**अन्वयः—**पौरयोषितः प्रीतिविशदैः नेत्रैः तं अन्वयुः शरत्प्रसन्नैः ज्योतिर्भिः विभावर्यः ध्रुवं इव ।

तमिति । पौरयोषितः प्रीत्या विशदैः प्रसन्नैर्नेत्रैः करणैस्तमतिथिमन्वयुरनुजग्मुः । सदृष्टिप्रसारमद्राक्षुरित्यर्थः । कथमिव । शरदि प्रसन्नैर्ज्योतिभिर्नक्षत्रैर्विभावर्यो रात्रयो ध्रुवमिदं ध्रुवपाशबद्धत्वात्ताराराक्रस्येत्यर्थः ।

**भाषार्थ—**जिस प्रकार शरद् ऋतु की निर्मल रात के तारे ध्रुव के चारों ओर घूमते हैं, उसी प्रकार नगर की स्त्रियों की प्रेमभरी आँखें अतिथि पर लट्टू हो गईं और उन्हें प्रसन्न नेत्रों से देखा ॥ ३५ ॥

अयोध्यादेवताश्चैनं प्रशस्तायतनार्चिताः ।
अनुदध्युरनुध्येयं सान्निध्यैः प्रतिमागतैः ॥ ३६ ॥

**अन्वयः—**प्रशस्तायतनार्चिताः अयोध्यादेवताः अनुध्येयं एनं प्रतिमागतैः सान्निध्यैः अनुदध्युः ।

अयोध्यायेति । प्रशस्तेष्वायतनेष्वालयेष्वर्चिता अयोध्यादेवताश्चानुध्येयमनुग्राह्य-मेनमतिथिं प्रतिमागतैरर्चासंक्रान्तैः सान्निध्यैः सन्निधानैरनुदध्युरनुजगृहुः । 'अनुध्यानमनुग्रहः' इत्युत्पलमालायाम् । तदनुग्रहबुद्ध्या सन्निदधुरित्यर्थः ।

**भाषार्थ—**अयोध्या के बड़े-बड़े मन्दिरों में जिन देवताओं की पूजा की गई उन्होंने अपनी मूर्तियों में पैठ-पैठ कर कृपा के योग्य राजा अतिथि पर बड़ी कृपा की ॥ ३६ ॥

३७ र० सम्पू०

५७८ रघुवंशमहाकाव्ये

यावन्नाश्यायते वेदिरभिषेकजलाप्लुता ।
तावदेवास्य वेलान्तं प्रतापः प्राप दुःसहः ॥ ३७ ॥

अन्वयः—अभिषेकजलाप्लुता वेदिः यावत् न आश्यायते तावत् एव अस्य दुःसहः प्रतापः वेलान्तं प्राप ।

यावदिति । अभिषेकजलैराप्लुता सिक्ता वेदिरभिषेकवेदिर्यावन्नाश्यायते न शुष्यति । कर्तरि लट् । तावदेवास्य राज्ञो दुःसहः प्रतापो वेलान्तं वेलापर्यन्तं प्राप ।

भाषार्थ—अभी अभिषेक के जल से भीगी हुई वेदी सूखने भी नहीं पाई थी कि उनका दुस्सह प्रताप समुद्र के तट तक पहुँच गया ॥ ३७ ॥


वसिष्ठस्य गुरोर्मन्त्राः सायकास्तस्य धन्विनः ।
किं तत्साध्यं यदुभये साधयेयुर्न सङ्गताः ॥ ३८ ॥

अन्वयः—गुरोः वसिष्ठस्य मंत्राः धन्विनः तस्य सहायकाः उभये संगताः (सन्तः) यत् साध्यं न साधयेयुः तत् किम् ।

वसिष्ठस्येति । गुरोर्वसिष्ठस्य मन्त्राः धन्विनस्तस्यातिथेः सायकाः इत्युभये सङ्गता सन्तो यत्साध्यं न साधयेयुस्तत्तादृक्साध्यं किम् । न किञ्चिदित्यर्थः । तेषामसाध्यं नास्तीति भावः ।

भाषार्थ—गुरु वसिष्ठ जी के मन्त्र और धनुर्धारी राजा अतिथि के बाण इन दोनों मिलकर वह कौनसा कार्य था जिसे पूरा न कर डाला हो ॥ ३८ ॥


स धर्मस्थसखः शश्वदर्थिप्रत्यर्थिनां स्वयम् ।
ददर्श संशयच्छेद्यान् व्यवहारानतन्द्रितः ॥ ३९ ॥

अन्वयः—धर्मस्थसखः अतन्द्रितः सः शश्वदर्थिप्रत्यर्थिनां संशयच्छेद्यान् व्यवहारान् ददर्श ।

स इति । धर्मे तिष्ठन्तीति धर्मस्थाः सभ्याः । 'राज्ञा सभासदः कार्या रिपौ मित्रे च ये समाः' इत्युक्तलक्षणाः । तेषां सखा धर्मस्थसखः । तत्सहित इत्यर्थः । अतन्द्रितोऽनलसः स नृपः शश्वत् अन्वहमित्यर्थः । अर्थिनां साध्यार्थवतां प्रत्यर्थिनां तद्विरोधिनां च संशयच्छेद्यान्संशयाद्धेतोश्छेद्यान्परिच्छेद्यान्। सन्दिग्धत्वादवश्यनिर्णयानित्यर्थः । व्यवहारानृणादानादिविवादान्स्वयं ददर्शानुसन्दधौ । न तु प्राड्विवाकमेव नियुक्तवानित्यर्थः । अत्र याज्ञवल्क्यः—'व्यवहारान्नृपः पश्येद्विद्वद्भिर्ब्राह्मणैः सह' इति ।

भाषार्थ—धर्मात्माओं से मिलकर राजा अतिथि आलस को छोड़कर वादी-प्रतिवादियों के सन्दिग्ध मुकदमों को स्वयं देखते थे ॥ ३९ ॥

सप्तदशः सर्गः ५७९

ततः परमभिव्यक्तसौमनस्यनिवेदितैः ।
युयोज पाकाभिमुखैर्भृत्यान् विज्ञापनाफलैः ॥४०॥

अन्वयः—ततः परं भृत्यान् अभिव्यक्तसौमनस्यनिवेदितैः पाकाभिमुखैः विज्ञापनाफलैः युयोज ।

तत इति। ततः परं व्यवहारदर्शनानन्तरं भृत्याननुजीविनः अभिव्यक्तं मुखप्रसादादिलिङ्गैः स्फुटीभूतं यत्सोमनस्यं स्वामिनः प्रसन्नत्वं तेन निवेदितैः सूचितैः पाकाभिमुखैः सिद्धयुन्मुखैर्विज्ञापनानां विज्ञप्तीनां फलैः प्रेप्सितार्थैर्युयोज योजयामास। अत्र वृहस्पतिः—‘नियुक्तः कर्मनिष्पत्तौ विज्ञप्तौ च यदृच्छया। भृत्यान्धनैर्नियम्यंस्तु नवोऽप्यक्षोभ्यतां व्रजेत् ।’ इति । कविश्च वक्ष्यति—‘अक्षोभ्यः स नवोऽप्यासीत्’ इत्यादिना । अत्र सोमनस्यफलयोजनादिभिर्नृपस्य वृक्षसमाधिर्ध्वन्यत इत्यनुसन्धेयम् ।

भाषार्थ—इसके बाद जिस प्रकार वृक्ष को फला हुआ देखकर यह अनुमान कर लिया जाता है कि इससे इतने फल मिलेंगे, उसी प्रकार राजा अतिथि के प्रसन्न मुखको देखकर ही उनके सेवक जान लेते थे कि हमें इतना फल मिलेगा ॥४०॥

प्रजास्तद्गुरुणा नद्यो नभसेव विवर्धिताः ।
तस्मिंस्तु भूयसीं वृद्धिं नभस्ये ता इवाययुः ॥४१॥

अन्वयः—प्रजाः तद्गुरुणा नभसा नद्य इव विवर्धिताः तस्मिन् तु नभस्ये ता इव भूयसीं वृद्धिं ययुः ।

प्रजा इति । प्रजास्तस्यातिथेर्गुरुणा पित्रा कुशेन नभसा श्रावणमासेन नद्य इव विवर्धिता तस्मिन्नतिथौ तु नभस्ये भाद्रपदे मासे नद्य इव भूयसीं वृद्धिमभ्युदयमाययुः । प्रजापोषणेन पितरमतिशयितवानित्यर्थः ।

भाषार्थ—कुश के समय जो प्रजा सावन की नदी के समान भरी-पूरी थी वह पुनः राजा अतिथि के राज्यकाल में भादो की नदी के समान और भी अधिक बढ़ने लगी ॥ ४१ ॥

यदुवाच न तन्मिथ्या यद्ददौ न जहार तत् ।
सोऽभूद् भग्नव्रतः शत्रूनुद्धृत्य प्रतिरोपयन् ॥४२॥

अन्वयः—स यत् उवाच तत् मिथ्या न, यत् ददौ तत् न जहार । (किन्तु) शत्रून् उद्धृत्य प्रतिरोपयन् भग्नव्रतः अभूत् ।

यदति । सोऽतिथिर्यद्वाक्यं दानत्राणादिविषयमुवाच तन्न मिथ्याऽनृतं नाभूत् । यद्वस्तु ददौ तन्न जहार न पुनराददे। किन्तु शत्रूनुद्धृत्योत्खाय प्रतिरोपयन्पुनः स्थापयन् भग्नव्रतो भग्ननियमोऽभूत् ।

५८०रघुवंशमहाकाव्ये

भाषार्थ— राजा अतिथिने मुंह से जो कहा उसे पूरा कर दिखाया, जिसे जो दे दिया उससे फिर लिया नहीं, पर शत्रुओं को उखाड़ उन्हें फिर जमाते समय उन्होंने यह नियम तोड़ दिया ॥ ४२ ॥

वयोरूपविभूतीनामेकैकं मदकारणम् ।
तानि तस्मिन्ससमस्तानि न तस्योत्सिषिचे मनः ॥४३॥

अन्वयः— वयोरूपविभूतीनां एकैकं मदकारणं, तानि अस्मिन् समस्तानि, तस्य मनः न उत्सिषिचे ।

वय इति। वयोरूपविभूतीनां यौवनसौन्दर्यैश्वर्याणां मध्य एकैकं मदहेतुः तानि मदकारणानि तस्मिन् राज्ञि समस्तानि मिलितानीति शेषः । तथापि तस्यातिथेर्मनो नोत्सिषिचे न जगर्व । सिचतेः स्वरितत्वादामनेपदम् । अत्र वयोरूपादीनां गर्वहेतुत्वा-न्मदस्य च मदिराकार्यत्वेनात्कारकत्वान्मदशब्देन गर्वो लक्ष्यत । इत्याहुः उक्तं च—‘ऐश्वर्यरूपतारुण्यकुलविद्याबलैरपि। इष्टलाभादिना ह्येषामवज्ञा गर्व ईरितः । मदस्त्वानन्दसम्मोहः सम्भेदो मदिराकृतः ॥’ इति । अतएव कविनाऽपि ‘उत्सिषिचे’ इत्युक्तम् । न तु ‘उन्माद’ इति ।

भाषार्थ— यौवन, सौन्दर्य और ऐश्वर्य इनमें से एक भी वस्तु जिसके पास होती है वह उन्मत्त हो जाता है, अतिथि के पास ये सभी वर्तमान थीं फिर भी उन्हें अभिमान छू तक नहीं गया था ॥ ४३ ॥

इत्थं जनितरागासु प्रकृतिष्वनुवासरम् ।
अक्षोभ्यः स नवोऽप्यासीद् दृढमूल इव द्रुमः ॥४४॥

अन्वयः— इत्थं अनुवासरं प्रकृतिषु जनितरागासु स नवः अपि दृढमूलो द्रुम इव अक्षोभ्य आसीत् ।

इत्थमिति। इत्थमनुवासरमन्वहं प्रकृतिषु प्रजासु जनितरागासु जनित उत्पन्नो रागः प्रीतिर्यासु तासु सतीषु स राजा नवोऽपि दृढमूलो द्रुमः इव अक्षोभ्योऽप्रधृष्य आसीत् ।

भाषार्थ— इस प्रकार प्रजा उनसे दिनों दिन अधिक प्रेम करने लगी और राजा होने पर भी वे गहरी डाल वाले वृक्ष के समान अचल हो गये ॥ ४४ ॥

अनित्याः शत्रवो बाह्या विप्रकृष्टाश्च ते यतः ।
अतः . सोऽभ्यन्तरांस्छिष्यान्षट्पूर्वमजयद्रिपून् ॥४५॥

अन्वयः— यतः बाह्याः शत्रवः अनित्याः विप्रकृष्टाः च ते, अतः सः अभ्यन्तरान् षड् रिपून् पूर्वं अजयत् ।

सप्तदशः सर्गः ५८१

अनित्या इति । यतो बाह्याः शत्रवः प्रतिनृपा अनित्याः । द्विषन्ति स्निह्यन्ति चेत्यर्थः । किञ्च ते बाह्या विप्रकृष्टा दूरस्थाश्च । अतः सोऽभ्यन्तरानन्तर्वर्तिनो नित्यान् षड्रिपून्कामक्रोधादीन्पूर्वमजयत् । अन्तःशत्रुजये बाह्या अपि न दुर्जया इति भावः ।
**भाषार्थ—**यह सोचकर कि बाहरी शत्रु तो सदा होते नहीं और होते भी हैं तो दूर रहते हैं इसलिए राजा अतिथि ने शरीर के अन्दर सदा वर्तमान काम आदि छहों शत्रुओं को पहले जीत लिया ॥ ४५ ॥

प्रसादाभिमुखे तस्मिंश्चपलापि स्वभावतः ।
निकषे हेमरेखेव श्रीरासीदनपायिनी ॥ ४६ ॥
**अन्वयः—**स्वभावतः चपला अपि श्रीः प्रसादाभिमुखे तस्मिन् निकषे हेम-रेखा इव अनपायिनी आसीत् ।
प्रसादेति । स्वभावतश्चपला चञ्चलापि श्रीः प्रसादाभिमुखे तस्मिन्नृपे निकषे निकषोपले हेमरेखेव अनपायिनी स्थिराऽऽसीत् ।
**भाषार्थ—**स्वभाव से चञ्चल लक्ष्मी भी प्रसन्नमुखवाले राजा अतिथि के पास आकर उसी प्रकार स्थिर होकर बैठ गई जिस प्रकार कसौटी पर बनी हुई सोने की लकीर पक्की हो जाती है ॥ ४६ ॥

कातर्यं केवला नीतिः शौर्यं श्वापदचेष्टितम् ।
अतः सिद्धिं समेताभ्यामुभाभ्यामन्वियेष सः ॥ ४७ ॥
**अन्वयः—**केवला नीतिः कातर्यं (केवलं) शौर्यं श्वापदचेष्टितम् । अतः स समेताभ्यां उभाभ्यां सिद्धिं अन्वियेष ।
कातर्यमिति । केवला शौर्यवर्जिता नीतिः कातर्यं भीरुत्वम् । शौर्यं केवलमित्य-नुषञ्जनीयम् । केवलं नीतिरहितं शौर्यं श्वापदचेष्टितम् । व्याघ्रादिचेष्टाप्रायमि-त्यर्थः । ‘व्याघ्रादयो वनचराः पशवः श्वापदा मताः’ इति हलायुधः । अतो हेतोः सोऽतिथिः समेताभ्यां सङ्गताभ्यामुभाभ्यां नीतिशौर्याभ्यां सिद्धिं जयप्राप्तिमन्वि-येष गवेषितवान् ।
**भाषार्थ—**केवल कूट नीति से काम लेना कायरता है और केवल मारकाट करके जीतना हिंसक पशुओं का स्वभाव है इसलिए राजा अतिथि ने समयानुसार राजनीति और वीरता दोनों का आश्रय लेकर कार्य सिद्ध करने की चेष्टा की॥४७॥

न तस्य मण्डले राज्ञो न्यस्तप्रणिधिदीधितेः ।
अदृष्टमभवत्किञ्चिद्व्यभ्रस्येव विवस्वतः ॥ ४८ ॥
**अन्वयः—**न्यस्तप्रणिधिदीधितेः तस्य राज्ञः मण्डले व्यभ्रस्य विवस्वतः इव किञ्चित् अदृष्टं न अभवत् ।

५८२ रघुवंशमहाकाव्ये

न तस्येति । न्यस्ताः सर्वतः प्रहिताः प्रणिधयश्चरा रश्मयो यस्य तस्य । ‘प्रणिधिः प्रार्थने चरे’ इति शाश्वतः । तस्य राज्ञः व्यभ्रस्य निर्मेघस्य विवस्वतः सूर्यस्येव मण्डले स्वविषये किंचिदल्पमप्यदृष्टमज्ञातं नाभवन्नासीत् । स चारचक्षुषा सर्वमपश्यदित्यर्थः ।

**भाषार्थ—**जिस प्रकार खुले आकाश में सूर्य की किरणों के फैल जाने से कुछ भी छिपा नहीं रहता, उसी प्रकार राजा अतिथि ने गुप्तचरों का ऐसा जाल बिछा दिया था कि प्रजा की कोई बात उससे छिपी नहीं रह पाती थी अर्थात् वे सर्वत्र नियुक्त गुप्तचरों द्वारा सब जान जाते थे ॥ ४८ ॥

रात्रिंदिवविभागेषु यदादिष्टं महीक्षिताम् ।
तत्सिषेवे नियोगेन स विकल्पपराङ्मुखः ॥ ४९ ॥

**अन्वयः—**रात्रिन्दिवविभागेषु महीक्षितां यत् आदिष्टं तत् स विकल्पपराङ्मुखः (सन्) नियोगेन सिषेवे ।

रात्रिंदिवेति । रात्रौ च दिवा रात्रिंदिवम् । “अचतुरविचतुरस्त्रीपुंसधेन्वनडुह ०' इत्यादिनाधिकरणार्थे द्वन्द्वेऽच्प्रत्ययान्तो निपातः । अव्ययान्तत्वादव्यत्वम् । अत्र षष्ठ्यर्थलक्षणया रात्रिंदिवमिति अहोरात्रयोरित्यर्थः । तयोर्विभागा अंशाः प्रहरादयः तेषु महीक्षितां राज्ञां यदादिष्टमिदमस्मिन्काले कर्तव्यमिति मन्वादिभिरुपदिष्टं तत्स राजा विकल्पपराङ्मुखः संशयरहितः सन् नियोगेन निश्चयेन सिषेवे अनुष्ठितवानित्यर्थः । अत्र कौटिल्यः—'कार्याणां नियोगविकल्पसमुच्चया भवन्ति । अनेनैवोपायेन नान्येनेति नियोगः । अनेन वान्येन वेति विकल्पः । अनेन वेति समुच्चयः' ।

**भाषार्थ—**राजनीतिकारों ने राजाओं के लिए दिन और रात के जो कर्तव्य निर्धारित किये हैं उन सब को राजा अतिथि विश्वास के साथ नियमपूर्वक पालन करते थे ॥ ४९ ॥

मन्त्रः प्रतिदिनं तस्य बभूव सह मन्त्रिभिः ।
स जातु सेव्यमानोऽपि गुप्तद्वारो न सूच्यते ॥ ५० ॥

**अन्वयः—**तस्य प्रतिदिनम् मन्त्रिभिः सह मन्त्रः बभूव । स सेव्यमानः अपि जातु सूच्यते ( यतः सः ) गुप्तद्वारः ( आसीत् ) ।

मन्त्र इति । तस्य राज्ञः प्रतिदिनं मन्त्रिभिः सह मन्त्रो विचारो बभूव । स मन्त्रः सेव्यमानोऽप्यन्वहमावर्त्यमानोऽपि जातु कदाचिदपि न सूच्यते न प्रकाश्यते । तत्र हेतुर्गुप्तद्वार इति संवृतेङ्गितकारादिज्ञानमार्ग इत्यर्थः ।

**भाषार्थ—**वे राजा अतिथि प्रतिदिन मन्त्रियों के साथ राज्य की गुप्त बातें

सप्तदशः सर्गः ५८१

करते थे पर उन्हें इतना गुप्त रखते थे कि व्यवहार में आने पर भी किसी को पता नहीं चलता था ॥ ५० ॥

परेषु स्वेषु च क्षिप्तैरविज्ञातपरस्परैः ।
सोऽपसर्पैर्जजागार यथाकालं स्वपन्नपि ॥ ५१ ॥

अन्वयः—यथाकालं स्वपन् अपि सः परेषु च क्षिप्तैः अज्ञातपरस्परैः अपसर्पैः जजागार ।

परेष्विति । यथाकालमुक्तकालानतिक्रमेण स्वपन्नपि सोऽतिथिः परेषु शत्रुेषु स्वेषु स्वकीयेषु च मन्वादितीर्थेष्विति शेषः । क्षिप्तैः प्रहितै रविज्ञाताः परस्परे येषां तैः । अन्योन्याविज्ञातैरित्यर्थः । अपसर्पश्चरैः । ‘अपसर्पश्चरा स्पर्शः’ इत्यमरः । जजागार बुद्धवान् । चारमुखेन सर्वमज्ञासीदित्यर्थः । अत्र कामन्दकः—‘चारान्वि-चारयेत्तीर्थेष्ववात्मनश्च परस्य च । पाषण्डचादीनविज्ञातानन्योन्यमितरैरपि’ । इति ।

भाषार्थ—उन्होंने अपने कर्मचारियों तथा शत्रुओं का भेद जानने के लिए ऐसी चतुराई से उनके पीछे गुप्तचर लगा रखे थे कि वे गुप्तचर भी आपस में एक दूसरे को नहीं पहचान पाते थे । उनसे सब समाचार मिलते रहने के कारण वे सोते हुए भी मानो जागते रहते थे ॥ ५१ ॥

दुर्गाणि दुर्ग्रहाण्यासंस्तस्य रोद्धुरपि द्विषाम् ।
न हि सिंहो गजास्कन्दी भयाद् गिरिगुहाशयः ॥ ५२ ॥

अन्वयः—द्विषां रोद्धुः तस्य दुर्ग्रहाणि दुर्गाणि आसन् । हि गजास्कन्दी सिंहः भयात् गिरिगुहाशयः न ( किन्तु स्वभावात् ) ।

दुर्गाणीति । द्विषां रोद्धू रोधकस्यापि न तु स्वयं रोध्यस्येत्यर्थः । तस्य राज्ञो दुर्ग्रहाणि परैर्दुर्धर्षाणि दुर्गाणि महीदुर्गादीन्यासन् । न च निर्भीकस्य किं दुर्गैरिति वाच्यमित्यर्थान्तरन्यासमुखेनाह—न हीति । गजानास्कन्दति हिनस्तीति गजास्कन्दी सिंहो भवाद्धेतोः गिरिगुहासु शेत इति । गिरिगुहाशयी न हि किंतु स्वभावत एवेति शेषः । “अधिकरणे शेतेः” इत्यच्प्रत्ययः । अत्र मनुः—‘धन्वदुर्गं महीदुर्गमब्दुर्गं वार्क्ष्यमेव वा । नृदुर्गं गिरदुर्गं वा समाश्रित्य वसेत्पुरम्’ ॥ इति ।

भाषार्थ—यद्यपि वे युद्ध में शत्रुओं को घेरते थे फिर भी उन्होंने राजधानी के चारों ओर बहुत-बड़े बड़े दुर्ग बनवा दिये थे, क्योंकि हाथियों पर आक्रमण करने वाला सिंह भय से पहाड़ की कन्दरा में नहीं सोता । अर्थात् जैसे निर्भीक होने पर भी सिंह सुरक्षित कन्दरा में सोता है वैसे ही निर्भीक अतिथिके भी दुर्जय किले थे ॥ ५२ ॥

५८४ रघुवंशमहाकाव्ये

भव्यमुख्याः समारम्भाः प्रत्यवेक्ष्या निरत्ययाः ।
गर्भशालिसधर्माणस्तस्य गूढं विपेचिरे ॥ ५३ ॥

अन्वयः—भव्यमुख्याः प्रत्यवेक्ष्याः (अतएव) निरत्यया गर्भशालि सधर्माणः तस्य समारम्भाः गूढं विपेचिरे ।

भव्येति । भव्यमुख्याः कल्याणप्रधानाः न तु विपरीताः प्रत्यवेक्ष्या एतावत्कृतमेतावत्कर्तव्यमित्यनुसंधानेन विचारणीयाः । अतएव निरत्यया् निर्बाधा गर्भेऽभ्यन्तरे पच्यन्ते ये शालयस्तेषां सधर्माणः । अतिनिगूढा इत्यर्थः । "धर्मादनिच्केवलात्" इत्यनिच्प्रत्ययः, समासान्तः तस्य राज्ञः समारभ्यन्त इति समारम्भाः कर्माणि गूढमप्रकाशं विपेचिरे । फलिता इत्यर्थः । 'फलानुमेयाः प्रारम्भाः' इति भावः ।

भाषार्थ—वे जो काम करते थे सब कल्याणकारी होते थे । वे काम करने के पहले उस पर भली भाँति विचार कर लेते थे, इसलिए उसमें किसी प्रकार की बाधा नहीं पड़ती थी, जिस प्रकार साठी धान का दाना भीतर ही भीतर पक जाता है उसी प्रकार उनका काम गुप्तरूप से आरम्भ होकर पूरा हो जाता है ॥ ५३ ॥

अपथेन प्रववृते न जातुपचितोऽपि सः ।
वृद्धौ नदीमुखेनैव प्रस्थानं लवणाम्भसः ॥ ५४ ॥

अन्वयः—सः उपचितः जातु अपथेन न प्रववृते हि लवणाम्भसः वृद्धौ नदीमुखेनैव प्रस्थानम् ।

अपथेनेति । सोऽतिथिरुपचितोऽपि वृद्धिं गतोऽपि सन् जातु कदाचिदप्यपथेन कुमार्गेण न प्रववृते न प्रवृत्तः । मर्यादां न जहावित्यर्थः । तथाहि लवणाम्भसो लवणसागरस्य वृद्धौ पूरोत्पीडे सत्यां नदीमुखेनैव नदीप्रवेशमार्गेणैव प्रस्थानं निःसारणम् । न त्वन्यथेत्यर्थः ।

भाषार्थ—ऐश्वर्यशाली होकर भी उन्होंने बुरे मार्ग में पैर नहीं रखा क्योंकि ज्वार के समय जब समुद्र बढ़ता है तब नदियों के मार्ग से ही बढ़ता है दूसरे मार्गों से नहीं ॥ ५४ ॥

कामं प्रकृतिवैराग्यं सद्यः शमयितुं क्षमः ।
यस्य कार्यः प्रतीकारः स तन्नैवोदपादयत् ॥ ५५ ॥

अन्वयः—प्रकृतिवैराग्यं (दैवादुत्पन्नम्) सद्यः कामं शमयितुं क्षमः शक्तः स यस्य प्रतीकारः कार्यः तत् न उदपादयत् ।

काममिति । प्रकृतिवैराग्यं प्रजाविरागम् । दैवादुत्पन्नमिति शेषः । सद्यः कामं सम्यक्शमयितुं प्रतिकर्तुं क्षमः शक्तः स राजा यस्य प्रकृतिवैराग्यस्य प्रतीकारः कार्यः

सप्तदशः सर्गः ५८५

कर्त्तव्यः। अनर्थहेतुत्वादित्यर्थः। तद्वैराग्यं नोदपादयत्। उत्पन्नप्रतीका- रादनुत्पादनं वरमिति भावः। अत्र कौटिल्यः—'क्षीणाः प्रकृतयो लोभं लुब्धा यान्ति विरागताम्। विरक्ता यान्त्यमित्रं वा भर्त्तारं घ्नन्ति वा स्वयम्'।। तस्मात्प्रकृतीनां विरागकारणानि नोत्पादयेदित्यर्थः।

भाषार्थ— राजा अतिथि में इतनी शक्ति थी कि प्रजा में यदि किसी प्रकार का असन्तोष हो तो उसे क्षणभर में दूर कर दें किन्तु उन्होंने प्रजा में कोई ऐसा असन्तोष उत्पन्न ही नहीं होने दिया जिसे दूर करने की आवश्यकता पड़े ॥५५॥

शक्येष्वेवाभवद्यात्रा तस्य शक्तिमतः सतः।
समीरणसहायोऽपि नाम्भःप्रार्थी दवानलः ॥ ५६ ॥

अन्वयः— शक्तिमतः सतः तस्य शक्येषु एव यात्रा अभवत्, समीरणसहायः अपि दावानलः अम्भःप्रार्थी न ( अभवत् ) ।

शक्येष्विति। शक्तिमतः शक्तिसंपन्नस्यापि सतस्तस्य राज्ञः शक्येषु शक्ति- विषयेषु स्वस्माद्धीनबलेष्वेव विषये यात्रा दण्डयात्राऽभवत्। न तु समधिकेष्वित्यर्थः। तथाहि समीरणसहायोऽपि दवानलोऽम्भःप्रार्थी जलान्वेषी न दग्धुमिति शेषः। किंतु तृणकाष्ठादिकमेवान्विष्यतीत्यर्थः। अत्र कौटिल्यः—'समज्यायोभ्यां सन्दधीत हीनेन विगृह्णीयात्' इति।

भाषार्थ— राजा अतिथि शक्तिमान् थे इसलिए शक्तिशाली राजाओं पर ही चढ़ाई करते थे, दुर्बलों पर नहीं क्योंकि वायु की सहायता मिलने पर भी वन में लगी हुई आग पानी को नहीं चाहती। अर्थात् आग वायु का सहयोग रहने पर जल को जलाने की इच्छा नहीं करती किन्तु तृण, काष्ठ आदि को ही जलाती है ॥ ५६ ॥

न धर्ममर्थकामाभ्यां बबाधे न च तेन तौ।
नार्थं कामेन कामं वा सोऽर्थेन सदृशस्त्रिषु ॥ ५७ ॥

अन्वयः— सः अर्थकामाभ्यां धर्मं न बबाधे, तेन च तौ न बबाधे, अर्थं कामेन कामं वा अर्थेन ( न बबाधे ), ( किन्तु ) त्रिषु सदृशः ( अभूत् ) ।

न धर्ममिति। स राजार्थकामाभ्यां धर्मं न बबाधे न नाशितवान्। तेन धर्मेण च तावर्थकामो न अर्थं कामेन कामं वार्थेन न बबाधे। एकत्रैवासक्ता नाभूदित्यर्थः। किन्तु त्रिषु धर्मार्थकामेषु सदृशस्तुल्यवृत्तिः। अभूदित्यर्थः।

भाषार्थ— राजा अतिथि ने अर्थ और काम के लिए कभी धर्म को नहीं छोड़ा और धर्म में आसक्त होकर अर्थ और काम को नहीं छोड़ा और न अर्थ के

५८६रघुवंशमहाकाव्ये

कारण कामको अथवा कामके कारण अर्थ को छोड़ा किन्तु धर्म, अर्थ और काम इन तीनों के साथ वे एकसा व्यवहार करते थे ॥ ५७ ॥

हीनान्यनुपकर्तॄणि प्रवृद्धानि विकुर्वते ।
तेन मध्यमशक्तीनि मित्राणि स्थापितान्यतः ॥ ५८ ॥

**अन्वयः—**मित्राणि हीनानि अनुपकर्तॄणि प्रवृद्धानि ( चेत् ) विकुर्वते; अतः तेन मित्राणि मध्यमशक्तीनि स्थापितानि ।

हीनानीति । मित्राणि हीनान्यतिक्षीणानि चेदनुपकर्तॄण्यनुपकारीणि प्रवृद्धान्यतिसमृद्धानि चेद्विकुर्वते विरुद्धं चेष्टन्ते । अपकुर्वत इत्यर्थः । "अकर्मकाच्च" इत्यात्मनेपदम् । अतः कारणात्तेन राज्ञा मित्राणि सुहृदः । 'मित्रं सुहृदि मित्रोऽर्के' इति विश्वः ।

**भाषार्थ—**यदि नीच मनुष्य मित्र बन जाते हैं तो कुछ न कुछ खोटा कर्म अवश्य कर देते हैं, यदि धनी मिल जाते हैं तो कुछ न कुछ बाधा डालते हैं, इसलिए राजा अतिथि मध्यममार्ग का अवलम्बन करके ऐसे लोगों को मित्र बनाते थे जो न नीच थे न धनी ही थे ॥ ५८ ॥

परात्मनोः परिच्छिद्य शक्त्यादीनां बलाबलम् ।
ययावेभिर्बलिष्ठश्चेत्परस्मादास्त सोऽन्यथा ॥ ५९ ॥

**अन्वयः—**सः परात्मनोः शक्त्यादीनां बलाबलं परिच्छिद्य एभिः परस्मात् बलिष्ठः चेत् ययौ अन्यथा आस्त ।

परेति । सोऽतिथिः परात्मनोः शत्रोरात्मनश्च शक्त्यादीनां शक्तिदेशकालादीनां बलाबलं न्यूनाधिकभावं परिच्छिद्य निश्चित्य एभिः शक्त्यादिभिः परस्माच्छत्रोर्बलिष्ठः स्वयमतिशयेन बलवाञ् चेत् । बलशब्दान्मतुबन्तादिष्ठन्प्रत्ययः । "विन्मतोर्लुक्" इति मतुपो लुक् । ययौ यात्रां चक्रे । अन्यथा बलिष्ठश्चेदास्तात्तिष्ठत् । ययावित्यर्थः । अत्र मनुः—'यदा मन्येत भावेन हृष्टं पुष्टं बलं स्वकम् । परस्य विपरीतं चेत्तदा यायादरीन्प्रति ॥ यदा तु स्यात्परिक्षीणो वाहनेन बलेन च । तदासीत प्रयत्नेन शनकैः सान्त्वयन्नरीन् ॥' इति ।

**भाषार्थ—**शत्रुओं पर आक्रमण करने के पहले वे राजा अतिथि अपनी और शत्रुओं की त्रुटि को भलीभांति तौल लेते थे, जब शत्रुसे अपना बल अधिक देखा तभी उसपर आक्रमण किया, नहीं तो चुप बैठे रहे ॥ ५९ ॥

सप्तदशः सर्गः ५८७

सप्तदशः सर्गः ५८७

कोशेनाश्रयणीयत्वमिति तस्यार्थसंग्रहः । अम्बुगर्भो हि जीमूतश्चातकैरभिनन्द्यते ॥ ६० ॥

अन्वयः—कोशेन आश्रयणीयत्वं (भवति) इति तस्य अर्थसंग्रहः, हि अम्बु- गर्भः जीमूतः चातकैः अभिनन्द्यते ।

कोशेनेति । कोशेनार्थचयेनाश्रयणीयत्वं भजनीयत्वम् । भवतीति शेषः । इति हेतोस्तस्य राज्ञः कर्तुः अर्थसंग्रहः । न तु लोभादित्यर्थः । तथाहि अम्बुगर्भो यस्य सोऽम्बुगर्भो जीवनस्य जलस्य मूतः पुटबन्धो जीमूतो मेघः । 'मूङ् बन्धने' पृषोद- रादित्वात्साधुः । चातकैरभिनन्द्यते । सेव्यते । अत्र कामन्दकः—'धर्महेतोस्तथार्थाय भृत्यानां रक्षणाय च । आपदर्थं च संरक्ष्यः कोशो धर्मवता सदा' ॥ इति ।

भाषार्थ—राजा अतिथि ने इसलिए धन इकट्ठा किया कि एक तो इससे आदर होता है और दूसरे दीन लोग आकर आश्रय लेते हैं क्योंकि चातक उन्हीं बादलों का स्वागत करते हैं जिनमें पानी भरा रहता है ॥ ६० ॥

परकर्मापहः सोऽभूदुद्यतः स्वेषु कर्मसु । आवृणोदात्मनो रन्ध्रं रन्ध्रेषु प्रहरन्निपून् ॥ ६१ ॥

अन्वयः—स परकर्मापहः (सन्) स्वेषु कर्मसु उद्यतः अभूत्, रिपून् रन्ध्रेषु प्रहरन् आत्मनः रन्ध्रं आवृणोत् ।

परकर्मेति । स राजा परेषां कर्माणि सेतुवार्तादीन्यपहन्तीति परकर्मापहः सन् । ‘‘अन्येष्वपि दृश्यते’’ इत्यपिशब्दसामर्थ्याद्विन्तेर्डप्रत्ययः । किं च रिपून्तरन्ध्रेषु प्रहरन्नात्मनो रन्ध्रं व्यसनादिकमावृणोत्संवृतवान् । अत्र मनुः—‘नास्य छिद्रं परो विद्याद्विद्याच्छिद्रं परस्य तु । गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः ।।' इति ।

भाषार्थ—शत्रुओं का उद्योग नष्ट करके वे राजा अतिथि अपने उद्योग में लग गये । उन्होंने शत्रुओं के दोषों से लाभ उठाकर उन्हें नष्ट कर दिया और अपने दोषों को दूर कर दिया ॥ ६१ ॥

पित्रा सम्बर्धितो नित्यं कृतास्त्रः साम्परायिकः । तस्य दण्डवतो दण्डःस्वदेहात्न व्यशिष्यत ॥ ६२ ॥

अन्वयः—दण्डवतः तस्य पित्रा नित्यं सम्बर्द्धितः कृतास्त्रः साम्परायिकः दण्डः स्वदेहात् न व्यशिष्यत ।

पित्रेति । दण्डो दमः सैन्यं वा तद्वतो दण्डतो दण्डसम्पन्नस्य तस्य राज्ञः पित्रा कुशेन नित्यं सम्बर्धितः कृतास्त्रः शिक्षितास्त्रः सम्परायो युद्धम् । 'युद्धायत्योः सम्प-

५८८ | रघुवंशमहाकाव्ये

राया' इत्यमरः । तमर्हतीति साम्परायिकः । “तदर्हति” इति ठक्प्रत्ययः ।• दण्डः सैन्यम् । 'दण्डो यमे मानभेदे लगुडे दमसैन्ययोः' इति विश्वः । स्वदेहान्न व्यशिष्यत नाभिद्यत । स्वदेहेऽपि विशेषणानि योज्यानि । मूलबलं स्वदेहमिवारक्षदित्यर्थः ।

भाषार्थ—कुशके प्रयत्न से बढ़ी हुई शस्त्रास्त्र चलाने में कुशल और युद्ध करने में समर्थ जो सेना थी, उसे अतिथि अपने शरीर के समान ही प्यार करते थे॥६२॥

सर्पस्येव शिरोरत्नं नास्य शक्तित्रयं परः ।
स चकर्ष परस्मात्तदयस्कान्त इवायसम् ॥ ६३ ॥

अन्वयः—सर्पस्य शिरोरत्नम् इव अस्य शक्तित्रयं परः न चकर्ष । स तु परस्मात् तत् अयस्कान्त आयसम् इव (चकर्ष) ।

सर्पस्येति । सर्पस्य शिरोरत्नमिव अस्य राज्ञः शक्तित्रयं परः शत्रुर्न चकर्ष । स तु परस्माच्छत्रोस्तच्छक्तित्रयम् । अयस्कान्तो मणिविशेष आयसं लोहविकारमिव चकर्ष ।

भाषार्थ—जिस प्रकार सर्प के सिरसे मणि नहीं निकाली जा सकती, उसी प्रकार शत्रु इनके प्रभाव, उत्साह और मन्त्र इन तीन शक्तियों को अपनी ओर नहीं खींच सके, किन्तु जैसे चुम्बक लोहे को अपनी ओर खींच लेता है वैसे ही उन्होंने शत्रुओं की उन शक्तियों को अपनी ओर खींच लिया ॥ ६३ ॥

वापीष्विव स्रवन्तीषु वनेषूपवनेष्विव ।
सार्थाः स्वैरं स्वकीयेषु चेरुर्वेश्मस्विवाद्रिषु ॥ ६४ ॥

अन्वयः—स्रवन्तीषु वापीषु इव अद्रिषु उपवनेषु इव अद्रिषु स्वकीयेषु वेश्मसु इव सार्थाः स्वैरं चेरुः ।

वापीष्विति । स्रवन्तीषु नदीषु वापीषु दीर्घिकास्रिव । 'वापी तु दीर्घिका' इत्यमरः । वनेष्वरण्येषूपवनेष्वारामेष्विव । 'आरामः स्यादुपवनम्' इत्यमरः । अद्रिषु वेश्मस्विव सार्था वणिक्प्रभृतयः स्वैरं स्वेच्छया चेरुश्चरन्ति स्म ।

भाषार्थ—राजा अतिथिका का इतना प्रताप था कि व्यापारी लोग ऐसे बेरोक-टोक व्यापार करते थे कि नदियां बांवलियों जैसी, वन उद्यान जैसे सुखकर और पर्वत अपने घर से सुखकर हो गये थे ॥ ६४ ॥

तपो रक्षन्स विघ्नेभ्यस्तस्करेभ्यश्च सम्पदः ।
यथास्वमाश्रमैश्चक्रे वर्णैरपि षडंशभाक् ॥ ६५ ॥

अन्वयः—विघ्नेभ्यः तपः रक्षन् तस्करेभ्यः सम्पदः च ( रक्षन् ) स आश्रमैः वर्णैः च यथास्वं षडंशभाक् चक्रे ।

सप्तदशः सर्गः

५८९

तप इति। विघ्नेभ्यस्तपो रक्षन् तस्करेभ्यः संपदश्च रक्षन् स राजाश्रमैर्ब्रह्मचर्यादिभिर्वर्णैरपि ब्राह्मणादिभिश्च यथास्वं स्वमनतिक्रम्य षडंशभाक्चक्रे। यथाक्रममाश्रमैस्तपसो वर्णैः सम्पदां च षष्ठांशभाक्कृत इत्यर्थः। षष्ठोऽंशः षडंशः। सङ्ख्याशब्दस्य वृत्तिविषये पूरणार्थत्वमुक्तं प्राक्।

**भाषार्थ—**राजा अतिथि ने विघ्नों से तपस्वियों के तप की रक्षा की, चोरों से प्रजा की सम्पत्तियों को बचाया और चारों वर्ण एवं चारों आश्रमों से उनके अनुसार छठा भाग पाया ॥ ६५ ॥

खनिभिः सुषुवे रत्नं क्षेत्रैः सस्यं वनैर्गजान्।
दिदेश वेतनं तस्मै रक्षासदृशमेव भूः ॥ ६६ ॥

**अन्वयः—**भूः तस्मै राज्ञे रक्षासदृशं एवं वेतनं दिदेश, खनिभिः रत्नं सुषुवे, क्षेत्रैः सस्यं, वनैः गजान् (सुषुवे)।

खनिभिरिति। भूर्भूमिस्तस्मै राज्ञे रक्षासदृशं रक्षणानुरूपमेव वेतनं भृतिं दिदेश ददौ। कथम्? खनिभिराकरैः 'खनिः स्त्रियामाकरः स्यात्' इत्यमरः। रत्नं माणिक्यादिकं सुषुवे अजीजनत्, क्षेत्रैः सस्यं वनैर्गजान्हस्तिनः सुषुवे।

**भाषार्थ—**जिस प्रकार वे रक्षा कर रहे थे उसी प्रकार पृथ्वी भी उन्हें ऐश्वर्य देती जा रही थी, खानों ने रत्न दिये, खेतों ने अन्न दिया और वनों ने उन्हें हाथी दिये ॥ ६६ ॥

स गुणानां बलानां च षण्णां षण्मुखविक्रमः।
बभूव विनियोगज्ञः साधनीयेषु वस्तुषु ॥ ६७ ॥

**अन्वयः—**षण्मुखविक्रमः षण्णां गुणानां बलानां च साधनीयेषु वस्तुषु विनियोगज्ञः बभूव।

स इति। षण्मुखविक्रमः स राजा षण्णां गुणानां सन्धिविग्रहादीनां बलानां मूलभृत्यादीनां च साधनीयेषु वस्तुषु साध्येष्वर्थेषु विनियोगं जानातीति विनियोगस्य ज्ञ इति वा विनियोगज्ञः। कर्मविवक्षायामुपपदसमासः। "आतोऽनुपसर्गे कः" इति कप्रत्ययः। शेषविवक्षायां षष्ठीसमासः। "इगुपधज्ञा०" इत्यादिना कप्रत्ययः। बभूव। 'इदमत्र प्रयोक्तव्यम्' इत्याद्यज्ञासीदित्यर्थः।

**भाषार्थ—**कार्तिकेय के समान पराक्रमी राजा अतिथि यह अच्छी तरह जानते थे कि सन्धि, विग्रह, यान, आसन, संश्रय एवं द्वैधीभाव इन छ राजगुणों को कैसे व्यवहार में लाना चाहिए तथा मूल, भृत्य, सुहृद्वर्ग, शत्रु, आटविक और बल इन छ प्रकार की सेनाओं के साथ कैसा व्यवहार करना चाहिए ॥ ६७ ॥

५९०रघुवंशमहाकाव्ये

इति क्रमात्प्रयुञ्जानो राजनीतिं चतुर्विधाम् ।
आतीर्थादप्रतिघातं स तस्याः फलमानशे ॥ ६८ ॥

अन्वयः— इति चतुर्विधां राजनीतिं क्रमात् प्रयुञ्जानः सः आतीर्थात् तस्याः फलं अप्रतिघातं आनशे ।

इतीति । इति चतुर्विधाम् । सामाद्युपायैरिति शेषः । राजनीतिं दण्डनीतिं क्रमात्सामादिक्रमादेव प्रयुञ्जानः स राजा तीर्थान्मन्त्र्याद्यष्टादशात्मकतीर्थपर्यन्तम् । 'योनौ जलावतारे च मन्त्र्याद्यष्टादशस्वपि । पुण्यक्षेत्रे तथा पात्रे तीर्थं स्यात्' इति हलायुधः । तस्या नीतेः फलमप्रतिघातमप्रतिबन्धं यथा तथानशे प्राप्तवान् । मन्त्र्यादिषु यमुद्दिश्य य उपायः प्रयुज्यते स तस्य फलतीत्यर्थः ।

भाषार्थ— इस प्रकार साम, दाम, दण्ड और भेद इन चार उपायों के साथ राजनीति चलाते हुए राजा अतिथि ने उन उपायों का निर्विघ्न फल पा लिया ॥६८॥

कूटयुद्धविधिज्ञेऽपि तस्मिन्सन्मार्गयोधिनि ।
भेजेऽभिसारिकावृत्तिं जयश्रीर्वीरगामिनी ॥ ६९ ॥

अन्वयः— कूटयुद्धविधिज्ञे अपि सन्मार्गयोधिनि तस्मिन् वीरगामिनी श्रीः अभिसारिका वृत्ति भेजे ।

कूटेति । कूटयुद्धविधिज्ञेऽपि कपटयुद्धप्रकाराभिज्ञे सन्मार्गेण योधिनि धर्मयोद्धरि तस्मिन्नतिथौ वीरगामिनी जयश्रीरभिसारिकावृत्तिं भेजे । 'कान्तार्थिनी तु या याति सङ्केतं साभिसारिका' इत्यमरः । जयश्रीस्तमन्विष्यागच्छदित्यर्थः ।

भाषार्थ— वे कपट-युद्ध भी जानते थे पर युद्ध क्षेत्र में वे धर्म की लड़ाई ही लड़ते थे इसलिए वीरों की सखी जयश्री उनके पास अभिसारिका के समान चुपके से पहुँचती थी ॥ ६९ ॥

प्रायः प्रतापभग्नत्वादरीणां तस्य दुर्लभः ।
रणो गन्धद्विपस्येव गन्धभिन्नान्यदन्तिनः ॥ ७० ॥

अन्वयः— अरीणां प्रतापभग्नत्वात् तस्य गन्धभिन्नान्यदन्तिनः गन्धद्विपस्य इव प्रायः रणः दुर्लभः ( भवति ) ।

प्राय इति । अरीणां सर्वेषामपि प्रतापेनातितेजसैव भग्नत्वात्तस्य राज्ञः गन्धेन मदगन्धेनैव भिन्ना भग्ना अन्ये दन्तिनो येन तस्य गन्धद्विपस्येव प्रायः प्रायेण रणो दुर्लभः । खलर्थयोगेऽपि शेषविवक्षायां षष्ठीमिच्छन्तीत्युक्तम् ।

भाषार्थ— युद्ध क्षेत्र में अतिथि को देखते ही शत्रुओं के छक्के छूट जाते थे और वे प्राण लेकर भाग खड़े होते थे, इसलिए जैसे बिना मद वाले हाथी मतवाले

सप्तदशः सर्गः ५९१

सप्तदशः सर्गः ५९१

हाथी से नहीं लड़ते हैं वैसे ही प्रतापी राजा अतिथि से लड़ने का कोई साहस नहीं करता था ॥ ७० ॥

प्रवृद्धौ हीयते चन्द्रः समुद्रोऽपि तथाविधः । स तु तत्समवृद्धिश्च न चाभूत्ताविव क्षयी ॥ ७१ ॥

**अन्वयः—**प्रवृद्धौ चन्द्रः हीयते समुद्रः अपि तथाविधः, सः तु तत्समवृद्धिः अभूत् तौ इव क्षयी न (अभूत्) ।

प्रवृद्धाविति । प्रवृद्धौ सत्यां चन्द्रे हीयते समुद्रोऽपि तथाविधश्चन्द्रवदेव प्रवृद्धौ हीयते । 'प्रवृद्धः' इति वा पाठः । स राजा तु ताभ्यां चन्द्रसमुद्राभ्यां समा वृद्धिर्यस्य स तत्समवृद्धिश्चाभूत् । तौ चन्द्रसमुद्राविव क्षयी । “जिदृक्षि०” इत्यादिनेन-प्रत्ययः । नाभूत् ।

**भाषार्थ—**पूरा बढ़ चुकने पर चन्द्रमा घटने लगता है और समुद्र की भी यही दशा होती है किन्तु राजा अतिथि के साथ यह बात उलटी थी, वे चन्द्रमा और समुद्र के समान बढ़े तो सही पर उनके समान घटते नहीं थे ॥ ७१ ॥

सन्तस्तस्याभिगमनादत्यर्थं महतः कृशाः । उदधेरिव जीमूताः प्रापुर्दातृत्वमर्थिनः ॥ ७२ ॥

**अन्वयः—**अत्यर्थं कृशाः अर्थिनः सन्तः महतः तस्य अभिगमनात् उदधेः जीमूताः इव दातृत्वं प्रापुः ।

सन्त इति । अत्यर्थं कृशा दरिद्रा अत एवार्थिनो याचनशीलाः सन्तो विद्वांसो महतस्तस्य राज्ञोऽभिगमनात् उदधेरभिगमनाज्जीमूता इव दातृत्वं वदान्यत्वं प्रापुः । अर्थिषु दानभोगपर्याप्तं धनं प्रयच्छतीत्यर्थः ।

**भाषार्थ—**जिस प्रकार निर्जल मेघ समुद्र के पास जाते हैं और वह उन्हें इतना जल दे देता है कि वे संसारभर को बाँटने लगते हैं, उसी प्रकार जो निर्धन विद्वान् राजा अतिथि के पास जाते थे उन्हें वे इतना धन दे देते थे कि स्वयं दूसरों को भी दान देने लगते थे ॥ ७२ ॥

स्तूयमानः स जिह्राय स्तुत्यमेव समाचरन् । तथापि ववृधे तस्य तत्कारिद्वेषिणो यशः ॥ ७३ ॥

**अन्वयः—**स स्तुत्यं एव समाचरन् (अत एव ) स्तूयमानः ( सन् ) जिह्राय तत्कारिद्वेषिणः तस्य यशः ववृधे ।

स्तूयमान इति । स राजा स्तुत्यं स्तोत्रार्हमेव यत्तदेव समाचरन्नत एव