भारतकोश
संग्रह पर लौटें

रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

Rasarnava: Tantric Chemistry and Alchemy with Commentary

शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा

DevanagariHindipublished558 पृष्ठ

षष्ठः पटलः । ८१ जम्बीरोदरमध्यस्थं धान्यराशौ निधापयेत् । पुटपाकेन तच्चूर्णं$^1$ जायते सलिलं यथा ॥ १२२ ॥ ॥ इति वज्रविधिः ॥ शृणु देवि महाभागे वैक्रान्ताख्यं महारसम् ॥ १२३ ॥ दैत्येन्द्रो महिषः सिद्धो हरदेहसमुद्भवः$^2$ । दुर्गा भगवती देवी$^3$ तं शूलेन व्यमर्दयत्$^4$ ॥ १२४ ॥ तस्य रक्तं तु पतितं यत्र यत्र स्थितं भुवि । तत्र तत्र तु वैक्रान्तो वज्राकारो महारसः$^5$ ॥ १२५ ॥ विन्ध्यस्य दक्षिणे चास्ति उत्तरे नास्ति सर्व्वथा$^6$ । विक्रन्तयति$^7$ लोहानि तेन वैक्रान्तकः स्मृतः$^8$ ॥ १२६ ॥ श्वेतः पीतस्तथा रक्तो नीलः$^9$ पारावतप्रभः । मयूरबालसदृशश्चान्यो मरकतप्रभः$^{10}$ ॥ १२७ ॥ • (1) K reads तडूर्णं, which is not correct. (2) सर्व्वदैवसमुद्भवः, a variant in K. (3) B reads भगवति देवि. M reads देवि. (4) तं इलेनैव मर्दयत्, a variant in M. (5) All the texts read वैक्रान्त वज्राकारं महारसं. But the term रस is in masculine gender, meaning mercury or any metal. [Rules on genders are not strictly observed in the Puráṇas and Tantras.] (6) सर्व्वथा सर्व्वसिद्धिदम्, a variant in K, which is unconnected with the context. (7) K reads विक्रान्तयति. M reads निष्क्रन्तयति. Both are gram. inc. (8) K has वैक्रान्तकं स्मृतम्. [The term वैक्रान्त is used here in both the genders, masculine and neuter, as it is stated in रस. म. Chap. IV. v. 73.] (9) M reads खलः, which is erroneous. [But the term कृष्ण is used as its synonym in the next śloka.] (10) This hemistich is not found in M.

९२ रसार्णवे देहसिद्धिकरः कृष्णः¹ पीते पीतः सिते सितः² । सर्व्वार्थसिद्धिदो रक्तः³ तथा मरकतप्रभः⁴ । शेषे द्वे निष्फले वर्ज्ये⁵ वैक्रान्तमिति सप्तधा ॥ १२८ ॥ यत्र क्षेत्ने स्थितं देवि⁶ वैक्रान्तं तत्र भैरवम् । विनायकं च⁷ संपूज्य गृह्णीयात् साधकोत्तमः ॥ १२९ ॥ वैक्रान्तं चूर्णितं सूक्ष्मं सुरासुरनमस्कृतम्⁸ । व्याघ्रीकन्दस्य मध्यस्थं⁹ धमयित्वा पुटे स्थितम्¹⁰ ॥ १३० ॥ अश्वमूत्रेण¹¹ मृदग्नौ स्वेदयेत् सप्तवासरात् । छायाशुष्कं ततः कुर्य्या¹²दिदं वैक्रान्तमुत्तमम् ॥ १३१ ॥ अथवा लवणक्षारमूत्राम्ललशुणतैलकैः¹³ । कुलत्थकोद्रवक्वाथे¹⁴ स्वेदयेत् सप्त वासरान् ॥ १३२ ॥ (1) B reads देहसिद्धिकर कृष्ण. M reads देहमसिकरं कृष्ण, which is inc. (2) B and M read पीत पात सिते सित. K reads पीतः पीते सितः सिते. We have adopted the above reading after collating all the MSS. (3) B and K read सर्वार्थसिद्धिदं रक्त. (4) B, K and M read तथा मरकतप्रभम्. (5) K reads वर्जे, which is inc. [From this charaṇa the term वैक्रान्त is used in neuter gender.] (6) B reads स्थिते देवि. M reads यत्न चर्चामद देवि. Both are gram. inc. (7) K reads तु. (8) सुरासुरगमस्कृत, a variant in B. (9) M reads व्याघ्रकन्दकमध्यस्थं. (10) K reads धामयित्वा पुटस्थितं. M reads पुटं स्थितम्. (11) B has अश्वसूत्रेण. M has अग्रिमूत्रेण. Both are inc. (12) This hemistich and the next two are wanting in K. M has a defective charaṇa—तया कुर्या. (13) B reads तृषतैलकैः. (14) कुलत्थं कोद्रवक्वाथे, a variant in B. कुलत्थकेद्रवक्वाथे, a variant in M, which is not correct.

षष्ठः पटलः । ८३ लम्ब्याचूर्णेस्तु वैक्रान्तं समांशेन तु चूर्णयेत्¹ । अजामूत्रेण² संभाव्य छायाशुष्कं तु कारयेत् । अश्वनाले धमित्वा तु³ मूषामत्त्वं तु जायते⁴ ॥ १३३ ॥ मोक्षमोरटपालाशक्षारगोमूत्रभावितम्⁵ । वज्रकन्दशिफाकल्क⁶लाक्षाटङ्कणसंयुतम् ॥ १३४ ॥ वैक्रान्तसम्भवं चूर्णं मेषशृङ्गो⁷द्रवान्वितम् । पिण्डितं मूकभूषायां⁸ ध्मातं सत्त्वं विमुञ्चति ॥ १३५ ॥ वैक्रान्तं वज्रकन्दं च⁹ पेषयेद्वज्रवारिणा¹⁰ । माहिषे नवनीते च¹¹ सञ्चौद्रं पिण्डितं ततः । शोधयित्वा धमेत् सत्त्वं¹²-मिन्द्रगोपसमं पतेत्¹³ ॥ १३६ ॥ केतकोस्वरसः काञ्चौ¹⁴ मणिसम्यं सखेचरम्¹⁵ ।


(1) K reads कारयेत्. M reads पूजयेत्. (2) M reads अजमूर्त्रेण. (3) M reads erroneously अश्वनालयांमत्वा तु. (4) K has मूखासत्त्वं तु जायते. (5) M reads काँमूत्रभावितः, which is inc. (6) K has कल्क. M has शिलाकल्क. (7) B reads मेषशृङ्गो, which is inc. M reads मेषश्रृङ्गि. (8) K reads मूकमूखायां. M reads मूकमूषाया, wherein the omission of अनुस्वार is the error of the scribe. (9) वक्रान्तं वज्रकन्दे च, a variant in K, which has no sense. (10) M reads वज्रतौरिणा, which is inc. (11) B reads पेषित नवनीतेन. M reads माहिषं नवनीतञ्च. (12) शोषयित्वा धमेत् सत्वं, a variant in M. (13) इन्द्रगोपासम भवेत्, a variant in K. M reads इन्द्रकोपसमं पतेत्, which is inc. (14) B reads केतकिस्वरसं कांची. K and M read केतकीस्वरसं काँचि. [But the term स्वरस is in masculine gender.] (15) K has सखेचरौ, which is not correct. M has माषिसम्य.

६४ रसार्णवे स्वेदनाज्जायते¹ देवि वैक्रान्तं रससन्निभम् ॥ १३७ ॥ ॥ इति वैक्रान्तविधिः ॥ सुवर्णं रजतं ताम्रं कान्तलोहस्य वा रजः² । अनेन स्वेदविधिना द्रवन्ति सलिलं यथा ॥ १३८ ॥ इत्युक्तमभ्रकादीनां चतुर्णां लक्षणादिकम् । तन्ममाचक्ष्व देवेशि किमन्यच्छ्रोतुमिच्छसि ॥ १३९ ॥ इति श्रीपार्वतीपरमेश्वरसंवादे³ रसार्णवे रससंहितायां अभ्रकादिलक्षणसंस्कारनिर्णयो नाम षष्ठः पटलः ॥ ६ ॥ (1) K reads erroneously खेदणा जायते। (2) B reads कान्तलोहं च वाजरः. K reads कांतलोह च वाजरं. M reads कान्तलोहश्च वा रजः. All the texts seem to be incorrect. We have adopted a reading after collating all of them. (3) This portion is wanting in B and M.

सप्तमः पटलः ।

श्रीदेव्युवाच ।¹ सह लक्षण²संस्कारै-राज्ञापय महारसान् । अन्यच्च तादृशं देव रसविद्योपकारकम् ॥ १ ॥ श्रीभैरव उवाच ।³ माक्षिको विमलः शैलः⁴ चपलो रसकस्तथा । सस्यको दरदश्चैव स्रोतोऽञ्जनमथाष्टकम्⁵ । अष्टौ महारसाश्चैव⁶-मेतान्⁷ प्रथमतः शृणु ॥ २ ॥ कृष्णास्तु भारतं श्रुत्वा⁸ योगनिद्रामुपागतः⁹ । तस्य पादतले विद्धं¹⁰ व्याधेन मृगशङ्कया ॥ ३ ॥ ये तत्र¹¹ पतिता भूमौ क्षताद्रुधिरबिन्दवः । (1) M reads देवी and nothing else. (2) B reads लक्षणे, which is not gram. correct. (3) B has भैरवीवाच । K has श्रीभैरव्युवाच । Both the readings are incorrect. M has श्रीभैरवः and nothing else. (4) B reads मलसः instead of विमलः, which seems to be the blunder of the scribe. K reads माक्षिका विमला शिला. M reads शैलो, which is gram. inc. (5) K has सोताञ्जनमकथाष्टकम्, which is inc. [Vide रसरत्नसमुच्चय Chap. II., and रससार, 6th Paṭala, vs. 2-3.] (6) B reads महारसास्येव. M reads महारसाख्येव. Both the readings are inc. (7) K reads मेतत्. (8) K has कृत्वा. (9) B reads मुपागताः, which is gram. inc. (10) K has विन्नं, which has no sense here. (11) K reads एकत्र.

९६ रसार्णवे ते निम्बफलसंस्थाना जाता वै माक्षिकोपलाः¹ ॥ ४ ॥ माक्षिको द्विविधस्तत्र² पीतशुक्लविभागतः³ । विमलस्त्रिविधो⁴ देवि शुक्लः पीतश्च लोहितः⁵ ॥ ५ ॥ तैलारनालतक्रेषु गोमूत्रे कदलीरसे⁶ । कुलत्थकोद्रवक्वाथैः⁷ माक्षिकं विमलं तथा⁸ । मुहुः शूरणकन्दस्थं खेदयेदहरवार्णि⁹ ॥ ६ ॥ क्षाराम्ललवणैरण्ड-तैलसर्पिः¹⁰समन्वितम् । पुटत्रयं प्रदातव्यं तद्द्वयं शोधितं भवेत् ॥ ७ ॥ (1) This hemistich is wanting in B. K reads माक्षिकोपला (without विसर्ग), which is gram. inc. M reads जाता माक्षिककोमलाः. (2) This hemistich is not found in B. K has an incomplete charaṇa —माक्षिको द्विवस्तत्र. (3) पीतः शुक्लो विभागः, a variant in K. [रसरत्नसमुच्चय reads माक्षिको द्विविधो हेमाक्षिकस्तारमाक्षिकः. Chap. II. v. 80.] The following śloka is found in MS. K only ;—चतुर्धा करकाकारः शुक्तिकापुटसन्निभः । तथांगुलीयकाकारी भृशकर्करिकासमः ॥ इति माक्षिक लक्षणं ॥ We have placed it in the footnote, because we do not find these varieties of माक्षिक in any other MS., neither in रस.स., nor in रससार. (4) B reads विमलास्त्रिविधा. K reads विमलस्त्रिविधो, which is inc. (5) B has शुक्लः पीतश्च लोहिताः ; here the last term is inc. K has शुक्लपीतश्च. [रस.स. mentions the different names of विमल according to its colour, as पीतः—हेमविमलः, शुक्लः—तारविमलः, लोहितः—कांस्यविमलः. Chap. II. v. 96.] (6) गोमूत्रकदलीरसैः, a variant in K. (7) M reads कुलत्थकोद्रवक्वाथे, which is inc. (8) K reads माक्षिकं विमलस्तथा, which is not gram. correct, as these are objects to स्वेदयेत्. (9) K reads this hemistich very imperfectly—मुहुः शूरणक दर्दहरवार्णि. (10) B and M read तैलसर्पि.

सप्तमः पटलः । २७ माक्षिकं चूर्णितं स्तन्य¹-सुह्यर्कक्षीरभावितम् । सत्त्वं मुञ्चति सुध्यातं टङ्कककुष्ठमोदितम्² ॥ ८ ॥ कदलीकन्दतुलसी-नारङ्गाम्लपरिस्रुतम्³ । सप्तसप्तपुटोपेतं⁴ पञ्चद्रावकसंयुतम्⁵ । स्त्रीस्तन्यमोदितं आतं⁶ सत्त्वं मुञ्चति माक्षिकम् ॥ ९ ॥ क्षौद्रगन्धर्व्वतैलाभ्यां⁷ गोमूत्रेण घृतेन च । कदलीकन्दसारेण भावितं माक्षिकं मुहुः । मूषायां⁸ मुञ्चति आतं सत्त्वं शुल्वनिभं मृदु⁹ ॥ १० ॥ देवदालोरसं क्षिप्त्वा¹⁰ पादांशटङ्कणैर्युतम्¹¹ । प्रकटां मूषिकां¹² कृत्वा धमेत् सत्त्वमपेक्षितम्¹³ ॥ ११ ॥ किमत्र चित्रं कदलीरसेन सुपाचितं¹⁴ सूरणकन्दसम्पुटे ।


(1)

८८ रसार्णव वातारितैलेन पुटेन तार्य पुटेन दग्धं वरशुद्धिमिति¹ ॥ १२ ॥ गोमूत्रैश्च सुहिग्क्षीरैः² भाव्यमेरण्डतैलकैः³ । माक्षिकं दिनमेकन्तु मर्दितं वटकीकृतम् । अभ्रवद्धमयेत् सत्त्वं⁴ सस्यकस्याप्ययं विधिः⁵ ॥ १३ ॥ ताप्यमावर्त्तकं धातु⁶-माक्षिकं⁷ मधुधातुकम् । माक्षिकं तिक्तमधुरं मेहार्शः⁸क्षयकुष्ठनुत् । कफपित्तहरं बल्यं⁹ योगवाहि रसायनम् ॥ १४ ॥ ज्वरसन्निपातदारिद्र्याण्यपि¹⁰ यन्नामकथनमात्रेण¹¹ । नश्यन्ति योजनशते¹² कस्तस्याज्ञोऽवेधकरः¹³ ॥ १५ ॥ ॥ इति माक्षिकशुद्धिः ॥¹⁴ (1) M reads परशुद्धिमिति. (2) गोमूत्रेण सुहिक्षीरैः, a variant in K. (3) B reads तैलतः. (4) K reads सत्वे. M reads अभ्रकन्तु पतेत् सत्वं. (5) B has an incomplete charana—सस्याप्ययं विधिः. (6) ताप्य आव- र्त्तकमाक्षं, an incorrect variant in M. (7) M reads मार्थिकं, which is an error of the scribe. (8) B has मेहात्ताँ, which is inc. M has महार्षः. (9) M reads बल्य (without अनुस्वार). (10) K has ज्वरसन्निपातदार्याण्यपि. M has ज्वरसन्नितादारिद्याण्यपि. Both seem to be inc. (11) K has तु after मात्रेण. But we have not adopted it, because the final ण is optionally a गुरु-letter. (12) K reads योजनशतांतरे. (13) B has कस्तोर्ध्याभाडवेधवरकः, which is entirely absurd. M has कस्त स्याचाज्ञोऽवेधकरः, which has no clear sense. (14) B reads इति माक्षिकक्रियाविधिः । This is wanting in M.

सप्तमः पटलः । ९९ विमलं¹ शिगुतोयेन काञ्चीकासीसटङ्कणैः² । वज्रकन्दसमायुक्तं भावितं कदलीरसैः³ ॥ १६ ॥ मोचक⁴क्षारसंयुक्तं धमितं मूकमूषया⁵ । सत्त्वं चन्द्रार्कसंकाशं⁶ प्रयच्छति न संशयः ॥ १७ ॥ ॥ इति विमलशुद्धिः⁷ ॥ पतितोऽपतितश्चेति⁸ द्विविधः शैल शेखरि⁹ । ग्रन्थान्तरेऽपि कीर्त्योऽसौ¹⁰ कीर्त्तितो बहुभिः सुरैः ॥ १८ ॥ निदाघे घर्मसंतप्ता धातुसारं धराधराः । निर्यासं च विमुञ्चन्ति तच्छिलाजतु¹¹ कीर्त्तितम् ॥ १९ ॥ शिलावद्दृधातु कं¹² ज्ञातं शैलजं गिरिसानुजम्¹³ ।


(1) B and K read विमला, but use its adjectives in the neuter gender; this is ungrammatical. (2) कांचिकाशौसटकणैः, a variant in K. काचिकासिसटङ्कणैः, a variant in M. (3) M reads कद्लौरसै. (4) K reads मोचिक. M reads मोचष. (5) M has सञ्चितं instead of समितं. K has बूकभूखया, which is incorrect. (6) M reads संयुक्तं. [The 16th and the 17th ślokas nearly agree with the texts in रस. स. Chap. II. vs. 103–104.] (7) Both B and K read विमलाशुद्धिः। This is wanting in M. (8) पातितः पतितश्चैव, a variant in K. (9) B reads शैलमौखरि. M reads द्विविधा शैलमौखरि, which is gram. inc. (10) The portion commencing from this charaṇa and ending in शोधयेत्ततु यत्नतः (ślokas 18—21) is not found in B and M. (11) K reads मिलाजितु, which seems to be inc. [Cf. रस. स. Chap. II. vs. 110— 111.] (12) K reads incompletely धातु. (13) K has गिरि- सानुजम.

ņ or n? In standard Indological transliteration of the era (Bibliotheca Indica), it uses (with underdot) or n or ? Wait, look at the letter: charanas - wait, footnote (2) has charanas? Let's check: "charaņas" vs "charanas" vs "charaṇas": Look at line 11: charaņas - there is a cedilla or underdot? It looks like charaṇas (underdot on n) or plain charanas? Wait, look at line 17: charana: plain n or ? In line 17: (5) This charaņa is wanting in K. M reads कृत्वा instead of बद्धा. Wait! In कृत्वा: Wait, look at footnote 5: M reads कृत्वा instead of बद्धा. Wait, does it say कृत्वा or हत्वा? Let's look at line 17: M reads कृत्वा instead of बद्धा. Wait, look at कृत्वा: it's कृत्वा or हत्वा? Wait, with ? No, it looks like with ? हत्वा? Wait! In the main text: पिण्डं बद्ध्वा तु विधिवत्⁵.

सप्तमः पटलः । १०१ शेषौ मध्यौ च लाक्षावत्¹ शीघ्रद्रावौ तु निष्फलौ² । वङ्गवद्द्रवते³ वह्नौ चपलस्तेन कीर्तितः⁴ ॥ २४ ॥ वस्त्रेण बद्धा चपलं लङ्घयेद्यदि सागरम् । वस्त्रञ्च वेष्टयेत् सद्यः तेनासौ चपलः स्मृतः ॥ २५ ॥⁵ सारयेत् पुटपाकेन चपलं गिरिमस्तके । देहबन्धं करोत्येव विशेषाद्रसबन्धनम् ॥ २६ ॥ चपलश्चपलावेधं करोति घनवद्बलः । चपलो लेखनः स्निग्धो देहलोहकरो मतः ॥ २७ ॥ ॥ इति चपलगुद्धिः ॥⁶ मृत्तिका⁷गुड़पाषाण-भेदतो रसकस्त्रिधा⁸ ॥ २८ ॥ पीतस्तु मृत्तिकाकारो मृत्तिकारसको वरः⁹ । (1) B has शेषा मध्याय लाक्षावन्. M has शेषा मध्याश्च लाक्षाय, wherein the last term seems to be incorrect. (2) शीघ्रं द्रावास्तु निष्फलाः, a variant in B. K has शीघ्रद्रावोस्तु, which is inc. रसद्रावास्तु निष्फलम्, a variant in M, wherein the last term is inc. (3) M reads नागवद्द्रवते. (4) The ślokas 23rd and 24th nearly agree with the texts in रस. स. Chap. II. vs. 143–144. (5) The 25th śloka is not found in B and M. (6) The 26th and the 27th ślokas with the portion— इति चपलगुद्धिः are not found in B and M. [The latter hemistich of the 27th śloka exactly agrees with the text in रस. स. Chap. II. v. 145.] (7) M reads मूर्त्तिका, which is inc. (8) B reads भेदको तो, which is not correct. M reads भेदको रसखिधा, which is a defective charaṇa. [But रस. स. states two sorts of रसक. Vide Chap. II. v. 149.] (9) मृत्तिकारसतो वरम्, a variant in M, which is erroneous.

१०२ रसार्णवे गुड़ाभो मध्यमो ज्ञेयः पाषाणाभः कनिष्ठकः¹ ॥ २९ ॥ कटुकालाबुनिर्यासैनालोड्य² रसकं पचेत् । शुद्धो दोषविनिर्मुक्तः³ पीतवर्णस्तु जायते⁴ ॥ ३० ॥ किमत्र चित्रं रसकं⁵ रसेन रजस्वलायाः कुसुमेन⁶ भावितम् । क्रमेण कृत्वा उरगेन⁷ रञ्जितं करोति शुक्लं त्रिपुटेन⁸ काञ्चनम् ॥ ३१ ॥ ध्रीयते नापि वह्निस्थः सत्त्वरूपो महाबलः ॥ ३२ ॥⁹ रसकं चूर्णयित्वा तु बद्धा वस्त्रे विचक्षणः । मूत्रे निधापयेत् स्त्रीणां सप्तरात्रं सुरेश्वरि ॥ ३३ ॥ पुष्पाणां रक्तपीतानां रसैः पत्रैश्च¹⁰ भावयेत् ॥ ३४ ॥ (1) K reads कनिष्टकः. M reads कनिष्ठिकः. Both are incorrect. (2) B has निर्यासै चालोद्य. M has निर्यासै चालोध्या. Both are incorrect. (3) K reads दोषः विनिर्मुक्तः. M reads विनिर्मुक्तो. Both are gram. inc. (4) पीतवर्णसु जायते, a variant in K, which seems to be an error of the scribe. जायते पीतवर्णकः, a variant in M. [Vide रस.स. Chap. II. vs. 153-154.] (5) M reads रसको. [The term रसक is of both genders.] (6) M reads रजस्वलाया ऋतुजेन. (7) K reads तुरगेण. [Both उरग (lead) and तुरग (sulphur) are mentioned in रसचिन्तामणि, Chap. 3.] (8) M has समं त्रिपुटेन. (9) This hemistich is not found in B and M. After this 32nd śloka we find चण्डश्च in K only; hence we have not inserted it in the text. It appears to be redundant. (10) B reads पचैश्च, which is evidently an error of the scribe. K reads पिष्टैश्च, which is also incorrect, as the पिष्ट of flowers is unusual.

सप्तमः पटलः । १०१ क्षारैः स्नेहेश्च चाम्लैः भावितं रसकं मुहुः । ऊर्ध्वालाक्षानिशा¹पथ्या भूलताधूमसंयुतम्² ॥ ३५ ॥ मूकभूषागतं³ ध्मातं टङ्कणेन समन्वितम् । सत्त्वं कुटिलसङ्काशं मुञ्चत्येव⁴ न संशयः⁵ ॥ ३६ ॥ गोभद्दो रसकस्तुत्यं⁶ क्षितिकिट्टो⁷ रसोद्भवः । खर्परो⁸ नेत्ररोगारिः रीतिकृत्ताम्ररञ्जकः⁹ ॥ ३७ ॥ रसको रञ्जको रुच्यो वातहृत् श्लेष्मनाशनः¹⁰ । त्रिदोषघ्नस्तु तत्सत्त्वं नेत्रदोषविनाशनम्¹¹ ॥ ३८ ॥ ॥ इति रसकशुद्धिः¹² ॥ कालकूट¹³विषं पीत्वा गरुड़ः सोढुमक्षमः ।


(1) B has उर्वालाक्षा तथा, wherein the first term is not correct. K has तथा in lieu of निशा. M has ऊर्ध्व instead of ऊर्ध्वा. [Vide रस.स. Chap. II. v. 162, which mentions निशा.] (2) K reads संयुता, which is gram. inc. (3) B has गते. K has मूखा. M has एक in place of मूक. All the readings are inc. (4) Vide रस.स. Chap. II. v. 161, which says “वङ्गाभं पतितं सत्त्वं.” K reads मुञ्चत्यथ. M reads मुञ्चत्येवं. (5) Cf. रस.स. Chap. II. v. 162. (6) M has an incomplete charaṇa—रसन्तु······त्य. (7) M reads भद्दो, which seems to be inc. (8) B has खुर्परो. M has कर्परो. (9) K reads रतिकृत्ताम्ररंजकः. M reads रीतिकृत्ता शिरञ्जकः. (10) M reads नाशिनी, which is not correct. [रस.स. states कफपित्तविनाशनः. Chap. II. v. 150.] (11) K reads नेत्ररोगविनाशनम्. M reads नेत्रदोषं हरन्ति च, which is gram. inc. (12) B has not इति. M reads रसकविधिः, which is not correct. (13) B reads कालकूटे.

१०४ रसार्णवे सुधामपि तथावामत्¹ भुक्त चाशीविषामृते² । स्वयं विनिर्गते चक्ष्वोः सस्वकोऽभूत् स कालिकः³ ॥ ३९ ॥ एकधा सत्वकस्तस्य⁴ स्त्रीमूत्रे भावयेद्रजः⁵ । भृशं⁶शोषितमध्ये वा दिनमेकं निधापयेत् ॥ ४० ॥ तस्य चूर्णं महेशानि पादसौभाग्यसंयुक्तम्⁷ । करञ्ज तैलमध्यस्थं दिनमेकं निधापयेत्⁸ ॥ ४१ ॥ मध्यस्थमन्धमूषायाः⁹ धमयेत् कोकिलाचयम्¹⁰ । इन्द्रगोपकसंकाशं¹¹ सत्त्वं पतति शोभनम्¹² ॥ ४२ ॥ एकधा सत्वकस्तस्मात्¹³ आतो निपतितो भवेत् ।

(1) B reads स्वधावामत्. K reads सुधां चाह. M reads सुधामविषमृधात्मानं, which is unintelligible. We have kept अवामत्, though gram. incorrect, merely for the sake of metre. (2) मोक्षमाशीविषामृते, a variant in B. सुह्मामासोदविषामृते, a variant in K. मोक्षमाशीविषाहते, a variant in M. [Vide रस्रत्नसमुच्चय Chap. II. vs. 126–127.] (3) M reads सकामतः. (4) एकश| सखकसुखं, a reading in K, which seems to be inc. M reads एकथा instead of एकधा. (5) M reads द्रावयेद्रजः. (6) M has भर. (7) M has an incorrect reading—पादचन्द्रसायसंयुतम्. (8) Cf. रस.स. Chap. II. v. 133. (9) K has धन्ममूखायां, which is erroneous. M has मयकृपायां, which is absurd. रस.स. has धन्धमूवासमध्यस्थं. Chap. II. v. 134. (10) K reads आपयेत्. रस.स. reads also आपयेत् कोकिलाषयम्. Chap. II. v. 134. (11) M has an absurd reading—षगोपकाभासा- काश. रस.स has इन्द्रगोपाह्वति चैव. (12) रस.स. reads भवति instead of पतति. Chap. II. v. 134. (13) K reads सत्वकस्तुल्यं. M reads रकथा सत्वकामञ्जे.

सप्तमः पटलः । १०५ कालिकांरहितो रक्तः शिखिकंठ¹समाकृतिः ॥ ४३ ॥ सस्यो मयूरतुत्थं स्यात्² वह्निकृत् कालनाशनः³ । रसायने तु योग्यः स्याद्⁴ वयस्तम्भकरो भवेत् ॥ ४४ ॥ सस्यकः शुद्धिमाप्नोति रक्तवर्गेण भावितः⁵ ॥ ४५ ॥ ॥ इति सस्यकशुद्धिः ॥ दरदस्त्रिविधः प्रोक्त⁶श्चर्मांरः शुकतुण्डकः⁷ । हंसपादस्तृतीयः स्याद्⁸ गुणवानुत्तरोत्तरः९ ॥ ४६ ॥ चूर्णपारदभेदेन¹⁰ द्विविधो दरदः पुनः ॥ ४७ ॥


(1) K has शिखिकंस. M has शिखिकर्षिं. But रस.स. has मयूरकण्ठसच्छायं. Chap. II. v. 127. (2) B has तुल्य स्याद्. K has तुल्य स्या. M has तुर्थस्य. All the readings are gram. incorrect. (3) B reads कलताशनः, which has no clear sense. K reads वह्निकृद्वह्निनाशनः. (4) B and K have योग्य स्याद्. M has योग्यस्स्याद्. Both are gram. inc. (5) K and M read रसवर्गेण, which is evidently an error; because we find in रस.स. रक्त- वर्गेण, which is supported by the MS. B. M has भावितम्, which is gram. erroneous. [Vide रस.स. Chap. II. v. 130.] (6) दरदस्त्रिविधो रक्त, a variant in B and M. (7) B has चर्मांरशुकटण्डकः. M has चर्माभः शुकदण्डकः. (8) B and M read इसपादस्तु लेपः स्यात्. [रस.स. reads हंसपाकः. Vide Chap. III. v. 139.] (9) All the MSS. have उत्तरोत्तरम्; but since दरद is written in the masculine gender, it ought to have an adjective in the same gender. (10) K reads भेदानि. M reads दारद. Both are inc. 14

१०६ रसार्णवे गोमांषे माहिषे मूत्रे¹ दध्यम्लतिलतैल्योः² । एकैकं त्रिदिनं पञ्चा न्निखिप्तेन भावयेत् ॥ ४८ ॥ दरदं पातनावन्त्रे³ पातयेत् सलिलाश्रये⁴ । सत्त्वं तु सूतसंकाशं⁵ जायते नात्र संशयः⁶ ॥ ४६ ॥ शबुकन्दरदो म्लेच्छो⁷ हिङ्गुलं चूर्णपारदम्⁸ । मञ्चिरामजमसैवं⁹ नाम चर्मारगन्धिकम्¹⁰ ॥ ५० ॥ तिक्तोष्णं हिङ्गुलं दिव्यं¹¹ रसगन्धकसम्भवम्¹² । लोहकुष्ठहरं दिव्य¹³-बलमेघाग्निदीपनम् ॥ ५१ ॥ (1) The portion commencing from this charaṇa and ending in घृताक्तकर्पटोपरि (48—70) is wanting in K. (2) दध्नं सतैलतैलयोः, a variant in M, which seems to be incorrect. (3) M has दरदः पात- येत् पात्रे, wherein the first term is gram. inc. [For पातनायन्त्र vide रस.स. Chap. IX. vs. 6—8.] (4) The term पातयेत् is wanting in B, which reads सलिलाश्रया. M reads सलिलाश्रयः. But as we see in रस.स., which nearly agrees with this śloka, the term जलाग्रये, we have adopted the above reading as correct one. [Vide Chap. III. v. 144.] (5) सत्व सूतकसङ्गाशं, a variant in M. [रस.स. reads तद्यत्त्व सूतसंकाशं. Chap. III. v. 144.] (6) रस.स. reads पातयेन्नात्र संशयः. [Chap. III. v. 144.] (7) M has an incorrect and incomplete reading—शबुकन्ददोम्लेन. (8) B reads पूर्वपारम. M reads पुर्वपारवम्. (9) मचिनान्करंदसैब, a variant in B. मञ्चिकाम्राकरं सैव, a variant in M. Both the readings seem to be inc. (10) B reads दावा. M reads नामा चर्मावरनिसिकम्. (11) M reads गुवं. (12) M reads संभवेत्, which is not correct. (13) B has लोहकुष्टहरं दिव्यं M has दोह्य, which has no sense.

सप्तमः पटलः । १०७ विमलं स्विन्नं दरदः सुभावितः क्षीरेण मेष्या बहुशोऽर्कवह्निभिः । सितं सुवर्णं बहुशश्चतापितं करोति साक्षाद्वरकुङ्कुमप्रभम् ॥¹ ५२ ॥ ॥ इति दरदशुद्धिः ॥ वल्मीकशिखराकारं भङ्गे नीलोत्पलद्युति । घृष्टन्तु गैरिकच्छायं² स्रोतोऽञ्जनं सुरवन्दितं³ ॥ ५३ ॥ गोशकृद्रसमूत्रेषु घृतक्षौद्रवसासु च । भावितं बहुशस्तच्च क्षिप्रं बध्नाति सूतकम्⁴ ॥ ५४ ॥ ॥ इति स्रोतोऽञ्जनशुद्धिः ॥⁵ ॥ इत्यष्टमहारसशुद्धिः ॥⁶ एवं महारसाः⁷ प्रोक्ताः शृणुष्वोपरसान्⁸ प्रिये ॥ ५५ ॥


(1) M reads बहुधर्मभावितं. This śloka agrees with the text in रस.स. except the term सितं, which is एवं. [Chap. III. v. 143.] (2) दृष्टन्तु गैरिकछायं,—an incorrect variant in M. (3) M reads सोताऽण्ड, which is evidently an error. This śloka agrees with the text in रस.स. except the last term, which is वरंस्मृतम्.- (4) Cf. रस.स. Chap. III. v. 107. (5) This portion is wanting in M. (6) This portion is not found in M. (7) B reads महारसा (without विसर्ग), which is inc. (8) M has शृणुष्वेव रसान्, which is gram. inc. [The verb शृणुष्व is gram. inc. The correct form is शृणु. This sort of error is generally seen in the Purāṇas and Tantras. For a similar grammatical anomaly vide ante page 100, note 3.]

१०८ रसार्णवे गन्धकस्तालकः¹ शिला सौराष्ट्री खग²गैरिकम् । राजावर्त्तश्च³ कङ्कुष्ठम्⁴ चष्टा⁵ उपरसाः स्मृताः⁶ ॥ ५६ ॥ श्वेतद्वीपे पुरा देवि सर्व्वरत्नविभूषिते । सर्व्वकाममये रम्ये तीरे क्षीरपयोनिधेः⁷ ॥ ५७ ॥ विद्याधरीभिर्मुख्याभिरङ्गनाभिश्च योषिते ।⁸ सिद्धाङ्गनाभिश्चिष्टाभिस्तथैवाप्सरसां गणैः ॥ ५८ ॥ देवाङ्गनाभिरन्याभिः क्रीड़िताभिः पुरा प्रिये । गीतनृत्यैर्विचित्रैश्च वाद्यैर्नानाविधैस्तथा ॥ ५६ ॥ एवं⁹ संक्रीड़मानायास्तवाभूत् प्रस्रुतं¹⁰ रजः । तद्रजोऽतीव सुश्रोणि¹¹ सुगन्धि सुमनोहरम्¹² ॥ ६० ॥ रजस्यातिबाहुल्यात् वासस्ते रक्ततां¹³ ययौ । तत्र त्यक्ता तु तद्वासः¹⁴ सुस्नाता¹⁵ क्षीरसागरे ॥ ६१ ॥

(1) B reads here मसकं तालकं. But it writes afterwards मसकः and तालकः. (2) M reads खर here ; but we see afterwards in B and M काशीशं instead of खग or खर. [Vide śloka 81.] (3) B and M read at first राजावर्त्त, but afterwards राजावर्त्त.. (4) B reads कङ्गुष्ट. (5) B has महा, which is grammatically inc. (6) B reads प्रिये. (7) B has पयोनिधं (without विसर्ग), which is incorrect. (8) This hemistich and the next three are not found in M. (9) M reads बहु. (10) B reads प्रसूतं, which is neither accurate nor metrical. (11) M has सूश्रोणि, which is gram. inc. (12) B reads सुमहत्तरम्. (13) B reads पक्कतां. (14) B has तद्वस्त्र. (15) M reads साक्षावि.

सप्तमः पटलः । १०९ हृता¹ देवाङ्गनाभिस्त्वं सुरैश्चापि पुरं² गता । जम्भीभिस्ते रजोवस्त्रं³ नीतं मध्ये⁴ पयोनिधेः ॥ ६२ ॥ एवं ते शोषितं भद्रे प्रविष्टं क्षीरसागरे । क्षीराब्धिमथने चैतदमृतेन सहोत्थितम् । निजगन्धेन तान् सर्व्वान् हर्षयद्देवदानवान्⁵ ॥ ६३ ॥ ततो देवगणैरुक्तं⁶ गन्धकाख्यो भवत्वयम् ॥ ६४ ॥ रसस्य बन्धनार्थाय जारणाय⁷ भवत्वयम् । ये गुणाः पारदे प्रोक्ता⁸स्ते चैवात्र भवन्त्विति ॥ ६५ ॥ इति देवगणैः प्रीतैः पुरा प्रोक्तं सुरेश्वरि । तेनायं गन्धको नाम विख्यातः क्षितिमण्डले ॥ ६६ ॥ स चापि त्रिविधो देवि शुकचञ्चुनिभो वरः । मध्यमः पीतवर्णः स्याच्छुक्लवर्णोऽधमः प्रिये ॥ ६७ ॥ करञ्जैरण्डतैलेन द्रावयित्वाजदुग्धके⁹ । सिञ्चेदुक्तस्तनिर्यासे¹⁰ त्रीन् वारांस्तं¹¹ पृथक् पृथक् ॥ ६८ ॥


(1) B reads हृता, which is not accurate. (2) B has सुरैरासु पुरा, which has no sense. (3) व्यंर्भोभिस्तद्रजोवस्त्रं, a variant in M. (4) This term is wanting in M. (5) Both B and M read सर्व्व- दानवान्, which creates tautology. (6) M has देवगणैर्युक्तं, which appears to be incorrect. (7) M reads जारणार्थाय. (8) B has पारदैः प्रोक्ताः, which is gram. inc. M has पारदेऽप्युक्ताः. (9) द्रावयित्वा च दुग्धकैः, a variant in M. (10) M reads सिञ्चेदुत्तमनिर्यासेः, wherein the middle term seems to be inaccurate. (11) Both B and M read त्रीन् वारांस्तं, which is gram. inc.

११० रसार्णवे ज्वालिनीबीजचूर्णेन मत्स्यपित्तेन भावयेत् । भृङ्गाम्भसा वा सप्ताहं भावितः क्षालितोऽम्भसा¹ ॥ ६९ ॥ तापितो बदराङ्गारैः² घृताक्ते लोहभाजने । भावर्त्तितश्च सूक्ष्मग्नौ घृताक्तात्³कर्पटोपरि ॥ ७० ॥ क्षिप्रं भृङ्गस्य निर्यासे⁴ चालितो गन्धको हितः⁵ ॥ ७१ ॥ गन्धको हि स्वभावेन रसरूपः⁶ स्वरूपतः । गन्धकं शोधयेत् क्षीरे⁷ शृङ्गवेररसे तथा⁸ ॥ ७२ ॥ रसे च⁹ भृङ्गराजस्य निम्बुकस्य रसे तथा¹⁰ । शोधितः सप्तवाराणि¹¹ गन्धको जायतेऽमलः¹² ॥ ७३ ॥ ॥ इति¹³ गन्धकशुद्धिः ॥ तालकः पटलः पिण्डो द्विधा तत्राद्य उत्तमः । **