भारतकोश
संग्रह पर लौटें

ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

Ribhu Gita of Shiva Rahasya Hindi

महर्षि ऋभु / महर्षि निदाघ द्वारा

स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)

DevanagariHindipublished249 पृष्ठ

आत्मानमेव वीक्ष्यस्व आत्मानं भावय स्वकम् ।
स्वात्मानं स्वयं भुङ्क्ष्व ह्यात्मनोऽन्यन्न किंचन ॥ १३.२९॥

स्वात्मानमेव संतुष्य आत्मानं स्वयमेव हि ।
स्वात्मानं स्वयं पश्येत् स्वमात्मानं स्वयं श्रुतम् ॥ १३.३०॥

स्वमात्मनि स्वयं तृप्तः स्वमात्मानं स्वयंभरः ।
स्वमात्मानं स्वयं भस्म ह्यात्मनोऽन्यन्न किंचन ॥ १३.३१॥

स्वमात्मानं स्वयं मोदं स्वमात्मानं स्वयं प्रियम् ।
स्वमात्मानमेव मन्तव्यं ह्यात्मनोऽन्यन्न किंचन ॥ १३.३२॥

आत्मानमेव श्रोतव्यं आत्मानं श्रवणं भव ।
आत्मानं कामयेन्नित्यं आत्मानं नित्यमर्चय ॥ १३.३३॥

आत्मानं श्लाघयेन्नित्यमात्मानं परिपालय ।
आत्मानं कामयेन्नित्यं आत्मनोऽन्यन्न किंचन ॥ १३.३४॥

आत्मैवयमियं भूमिः आत्मैवेदमित्थं जलम् ।
आत्मैवेदमित्थं ज्योतिरात्मनोऽन्यन्न किंचन ॥ १३.३५॥

आत्मैवायमयं वायुरात्मैवेदमित्थं वियत् ।
आत्मैवायमहङ्कारः आत्मनोऽन्यन्न किंचन ॥ १३.३६॥

आत्मैवेदमित्थं चित्तं आत्मैवेदमित्थं मनः ।
आत्मैवेयमियं बुद्धिरात्मनोऽन्यन्न किंचन ॥ १३.३७॥

आत्मैवायमयं देहः आत्मैवायमयं गुणः ।
आत्मैवेदमित्थं तत्त्वं आत्मनोऽन्यन्न किंचन ॥ १३.३८॥

आत्मैवायमयं मन्त्रः आत्मैवायमयं जपः ।
आत्मैवायमयं लोकः आत्मनोऽन्यन्न किंचन ॥ १३.३९॥

आत्मैवायमयं शब्दः आत्मैवायमयं रसः ।
आत्मैवायमयं स्पर्शः आत्मनोऽन्यन्न किंचन ॥ १३.४०॥

आत्मैवायमयं गन्धः आत्मैवायमयं शमः ।
आत्मैवेदमित्थं दुःखं आत्मैवेदमित्थं सुखम् ॥ १३.४१॥

आत्मीयमेवेदं जगत् आत्मीयः स्वप्न एव हि ।
सुषुप्तं चाप्याथात्मीयं आत्मनोऽन्यन्न किंचन ॥ १३.४२॥

आत्मैव कार्यमात्मैव प्रायो ह्यात्मैवमद्वयम् ।
आत्मीयमेवमद्वैतं आत्मनोऽन्यन्न किंचन ॥ १३.४३॥

आत्मैवायमयं कोऽपि आत्मैवेदमिदं क्वचित् । आत्मैवायमयं लोकः आत्मनोऽन्यन्न किंचन ॥ १३.४४॥

आत्मैवेदमिदं दृश्यं आत्मैवायमयं जनः । आत्मैवेदमिदं सर्वं आत्मनोऽन्यन्न किंचन ॥ १३.४५॥

आत्मैवायमयं शंभुः आत्मैवेदमिदं जगत् । आत्मैवायमयं ब्रह्म आत्मनोऽन्यन्न किंचन ॥ १३.४६॥

आत्मैवायमयं सूर्य आत्मैवेदमिदं जडं । आत्मैवेदमिदं ध्यानं आत्मैवेदमिदं फलं ॥ १३.४७॥

आत्मैवायमयं योगः सर्वमात्ममयं जगत् । सर्वमात्ममयं भूतं आत्मनोऽन्यन्न किंचन ॥ १३.४८॥

सर्वमात्ममयं भावि सर्वमात्ममयं गुरुः । सर्वमात्ममयं शिष्य आत्मनोऽन्यन्न किंचन ॥ १३.४९॥

सर्वमात्ममयं देवः सर्वमात्ममयं फलं । सर्वमात्ममयं लक्ष्यं आत्मनोऽन्यन्न किंचन ॥ १३.५०॥

सर्वमात्ममयं तीर्थं सर्वमात्ममयं स्वयं । सर्वमात्ममयं मोक्षं आत्मनोऽन्यन्न किंचन ॥ १३.५१॥

सर्वमात्ममयं कामం सर्वमात्ममयं क्रिया । सर्वमात्ममयं क्रोधः आत्मनोऽन्यन्न किंचन ॥ १३.५२॥

सर्वमात्ममयं विद्या सर्वमात्ममयं दिशः । सर्वमात्ममयं लोभः आत्मनोऽन्यन्न किंचन ॥ १३.५३॥

सर्वमात्ममयं मोहः सर्वमात्ममयं भयं । सर्वमात्ममयं चिंता आत्मनोऽन्यन्न किंचन ॥ १३.५४॥

सर्वमात्ममयं धैर्यं सर्वमात्ममयं ध्रुवं । सर्वमात्ममयं सत्यं आत्मनोऽन्यन्न किंचन ॥ १३.५५॥

सर्वमात्ममयं बोधं सर्वमात्ममयं दृढं । सर्वमात्ममयं मेयं आत्मनोऽन्यन्न किंचन ॥ १३.५६॥

सर्वमात्ममयं गुह्यं सर्वमात्ममयं शुभं । सर्वमात्ममयं शुद्धं आत्मनोऽन्यन्न किंचन ॥ १३.५७॥

सर्वमात्ममयं सर्वं सत्यमात्मा सदात्मकः । पूर्णमात्मा क्षयं चात्मा परमात्मा परात्परः ॥ १३.५८॥

इतोऽप्यात्मा ततोऽप्यात्मा ह्येतैवात्मा ततस्ततः ।
सर्वमात्ममयं सत्यं आत्मनोऽन्यन्न किंचन ॥ १३.५९॥

सर्वमात्मस्वरूपं हि दृश्यादृश्यं चराचरं ।
सर्वमात्ममयं श्रुत्वा मुक्तिमाप्नोति मानवः ॥ १३.६०॥

स्वतंत्रशक्तिर्भगवानुमाधवो
विचित्रकायात्मकजाग्रतस्य ।
सुकारणं कार्यपरंपराभिः
स एव मायाविततोऽव्ययात्मा ॥ १३.६१॥

॥ इति श्रीशिवरहस्ये शंकराख्ये षष्ठांशे ऋभुनिदाघसंवादे सर्वमात्मप्रकरणं नाम त्रयोदशोऽध्यायः ॥

॥ चतुर्दशोऽध्यायः ॥

ऋभुः –

शृणुष्व सर्वं ब्रह्मैव सत्यं सत्यं शिवं शपे ।
निश्चयेनात्मयोगीन्द्र अन्यत् किंचिन्न किंचन ॥ 14.1॥

अणुमात्रमसद्रूपं अणुमात्रमिदं ध्रुवं ।
अणुमात्रशरीरं च अन्यत् किंचिन्न किंचन ॥ 14.2॥

सर्वमात्मैव शुद्धात्मा सर्वं चिन्मात्रमद्वयं ।
नित्यनिर्मलशुद्धात्मा अन्यत् किंचिन्न किंचन ॥ 14.3॥

अणुमात्रे विचिंत्यात्मा सर्वं न ह्यणुमात्रकं ।
अणुमात्रमसंकल्पो अन्यत् किंचिन्न किंचन ॥ 14.4॥

चैतन्यमात्रं संकल्पं चैतन्यं परमं पदं ।
आनन्दं परमं मानं इदं दृश्यं न किंचन ॥ 14.5॥

चैतन्यमात्रमोंकारः चैतन्यं सकलं स्वयं ।
आनन्दं परमं मानं इदं दृश्यं न किंचन ॥ 14.6॥

आनन्दश्चाहमेवास्मि अहमेव चिदव्ययः ।
आनन्दं परमं मानं इदं दृश्यं न किंचन ॥ 14.7॥

अहमेव हि गुप्तात्मा अहमेव निरंतरं ।
आनन्दं परमं मानं इदं दृश्यं न किंचन ॥ 14.8॥

अहमेव परं ब्रह्म अहमेव गुरोर्गुरुः ।
आनन्दं परमं मानं इदं दृश्यं न किंचन ॥ 14.9॥

अहमेवाखिलाधार अहमेव सुखात् सुखं ।
आनन्दं परमं मानं इदं दृश्यं न किंचन ॥ 14.10॥

अहमेव परं ज्योतिरहमेवाखिलात्मकः ।
आनन्दं परमं मानं इदं दृश्यं न किंचन ॥ 14.11॥

अहमेव हि तृप्तात्मा अहमेव हि निर्गुणः ।
आनन्दं परमं मानं इदं दृश्यं न किंचन ॥ 14.12॥

अहमेव हि पूर्णात्मा अहमेव पुरातनः ।
आनन्दं परमं मानं इदं दृश्यं न किंचन ॥ 14.13॥

अहमेव हि शान्तात्मा अहमेव हि शाश्वतः । आनन्दं परमं मानं इदं दृश्यं न किंचन ॥ 14.14॥

अहमेव हि सर्वत्र अहमेव हि सुस्थिरः । आनन्दं परमं मानं इदं दृश्यं न किंचन ॥ 14.15॥

अहमेव हि जीवात्मा अहमेव परात्परः । आनन्दं परमं मानं इदं दृश्यं न किंचन ॥ 14.16॥

अहमेव हि वाक्यार्थो अहमेव हि शंकरः । आनन्दं परमं मानं इदं दृश्यं न किंचन ॥ 14.17॥

अहमेव हि दुर्लक्ष्य अहमेव प्रकाशकः । आनन्दं परमं मानं इदं दृश्यं न किंचन ॥ 14.18॥

अहमेवाहमेवाहं अहमेव स्वयं स्वयं । अहमेव परानन्दोऽहमेव हि चिन्मयः ॥ 14.19॥

अहमेव हि शुद्धात्मा अहमेव हि सन्मयः । अहमेव हि शून्यात्मा अहमेव हि सर्वगः ॥ 14.20॥

अहमेव हि वेदान्तः अहमेव हि चित्परः ॥ 14.21॥

अहमेव हि चिन्मात्रं अहमेव हि चिन्मयः । अन्यन्न किंचित् चिद्रूपादाहं बाह्यविवर्जितः ॥ 14.22॥

अहं न किंचिद् ब्रह्मात्मा अहं नान्यदहं परं । नित्यशुद्धविमुक्तोऽहं नित्यतृप्तो निरंजनः ॥ 14.23॥

आनन्दं परमानन्दमन्यत् किंचिन्न किंचन । नास्ति किंचिन्नास्ति किंचित् नास्ति किंचित् परात्परात् ॥ 14.24॥

आत्मैवेदं जगत् सर्वमात्मैवेदं मनोभवं । आत्मैवेदं सुखं सर्वं आत्मैवेदमइदं जगत् ॥ 14.25॥

ब्रह्मैव सर्वं चिन्मात्रं अहं ब्रह्मैव केवलं । आनन्दं परमं मानं इदं दृश्यं न किंचन ॥ 14.26॥

दृश्यं सर्वं परं ब्रह्म दृश्यं नास्त्येव सर्वदा । ब्रह्मैव सर्वसंकल्पो ब्रह्मैव न परं क्वचित् । आनन्दं परमं मानं इदं दृश्यं न किंचन ॥ 14.27॥

ब्रह्मैव ब्रह्म चिद्रूपं चिदेवं चिन्मयं जगत् । असदेव जगत्सर्वं असदेव प्रपंचकं ॥ 14.28॥

असदेवाहमेवास्मि असदेव त्वमेव हि । असदेव मनोवृत्तिरसदेव गुणागुणौ ॥ 14.29॥

असदेव मही सर्वा असदेव जलं सदा । असदेव जगत्थानि असदेव च तेजकम् ॥ 14.30॥

असदेव सदा वायुरसदेवदमित्यपि । अहंकारमसद्बुद्धिर्ब्ह्येव जगतां गणः ॥ 14.31॥

असदेव सदा चित्तमात्मैवेदं न संशयः । असदेवासुराः सर्वे असदेवेश्वराकृतिः ॥ 14.32॥

असदेव सदा विश्वं असदेव सदा हरिः । असदेव सदा ब्रह्मो तत्सृष्टिरसदेव हि ॥ 14.33॥

असदेव महादेवः असदेव गणेश्वरः । असदेव सदा चोमा असत् स्कन्दो गणेश्वराः ॥ 14.34॥

असदेव सदा जीव असदेव हि देहकं । असदेव सदा वेदा असद्वेदान्तमेव च ॥ 14.35॥

धर्मशास्त्रं पुराणं च असत्ये सत्यविभ्रमः । असदेव हि सर्वं च असदेव परंपरा ॥ 14.36॥

असदेवेदमाद्यन्तमसदेव मुनीश्वराः । असदेव सदा लोका लोक्या अप्यसदेव हि ॥ 14.37॥

असदेव सुखं दुःखं असदेव जयाजयौ । असदेव परं बन्धमसन्मुक्तिरपि ध्रुवं ॥ 14.38॥

असदेव मृतिर्जन्म असदेव जडाजडं । असदेव जगत् सर्वमसदेवात्मभावना ॥ 14.39॥

असदेव च रूपाणि असदेव पदं शुभं । असदेव सदा चाहमसदेव त्वमेव हि ॥ 14.40॥

असदेव हि सर्वत्र असदेव चलाचलं । असच्च सकलं भूतमसत्यं सकलं फलं ॥ 14.41॥

असत्यमखिलं विश्वमसत्यमखिलो गुणः । असत्यमखिलं शेषमसत्यमखिलं जगत् ॥ 14.42॥

असत्यमखिलं पापं असत्यं श्रवणत्रयं । असत्यं च सजातीयविजातीयमसत् सदा ॥ 14.43॥

असत्यमधिकाराश्च अनित्या विषयाः सदा । असदेव हि देवाद्या असदेव प्रयोजनम् ॥ १४.४४॥

असदेव शमं नित्यं असदेव शमोऽनिशम् । असदेव ससन्देहं असद्युद्धं सुरासुरम् ॥ १४.४५॥

असदेवेशभावं चासदेवोपास्यमेव हि । असच्च कालदेशादि असत् क्षेत्रादिभावनम् ॥ १४.४६॥

तज्जन्यधर्माधर्मौ च असदेव विनिर्णयः । असच्च सर्वकर्माणि असदस्वपरभ्रमः ॥ १४.४७॥

असच्च चित्तसद्भाव असच्च स्थूलदेहकम् । असच्च लिङ्गदेहं च सत्यं सत्यं शिवं शपे ॥ १४.४८॥

असत्यं स्वर्गनरकं असत्यं तद्भवं सुखम् । असच्च ग्राहकं सर्वं असत्यं ग्राह्यरूपकम् ॥ १४.४९॥

असत्यं सत्यवद्भावं असत्यं ते शिवे शपे । असत्यं वर्तमानाख्यं असत्यं भूतरूपकम् ॥ १४.५०॥

असत्यं हि भविष्याख्यं सत्यं सत्यं शिवे शपे । असत् पूर्वमसन्मध्यमसदन्तमिदं जगत् ॥ १४.५१॥

असदेव सदा प्रायं असदेव न संशयः । असदेव सदा ज्ञानमज्ञानज्ञेयमेव च ॥ १४.५२॥

असत्यं सर्वदा विश्वमसत्यं सर्वदा जडम् । असत्यं सर्वदा दृश्यं भाति तौ रङ्गशृङ्गवत् ॥ १४.५३॥

असत्यं सर्वदा भावः असत्यं कोशसम्भवम् । असत्यं सकलं मन्त्रं सत्यं सत्यं न संशयः ॥ १४.५४॥

आत्मनोऽन्यज्जगन्नास्ति नास्त्यनात्म्यमिदं सदा । आत्मनोऽन्यन्न चैवेदं सत्यं सत्यं न संशयः ॥ १४.५५॥

आत्मनोऽन्यत्सुखं नास्ति आत्मनोऽन्यन्न किञ्चन । आत्मनोऽन्या गतिर्नास्ति स्थितमात्मनि सर्वदा ॥ १४.५६॥

आत्मनोऽन्यन्न हि क्वापि आत्मनोऽन्यत् तृणं न हि । आत्मनोऽन्यन्न किञ्चिच्च क्वचिदप्यात्मनो न हि ॥ १४.५७॥

आत्मानन्दप्रकरणमेतत्तेऽभिहितं मया । यः शृणोति सकृद्विद्वान् ब्रह्मैव भवति स्वयं ॥ १४.५८॥

सकृच्छ्रवणमात्रेण सद्योबन्धविमुक्तिदम् ।
एतद्ग्रन्थार्थमात्रं वै गृणन् सर्वैर्विमुच्यते ॥ १४.५९॥

सूतः -
पूर्णं सत्यं महेशं भज नियतहृदा योऽन्तरायैर्विहीनः
सो नित्यो निर्विकल्पो भवति भुवि सदा ब्रह्मभूतो ऋतात्मा ।
विच्छिन्नग्रन्धिरीशे शिवविमलपदे विद्यते भासतेऽन्तः
आरामोऽन्तर्भवति नियतं विश्वभूतो मृतश्च ॥ १४.६०॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे आत्मानन्दप्रकरणवर्णनं नाम चतुर्दशोऽध्यायः ॥

॥ पञ्चदशोऽध्यायः ॥

ऋभुः –

महारहस्यं वक्ष्यामि गुह्यात् गुह्यतरं पुनः ।
अत्यन्तदुर्लभं लोके सर्वं ब्रह्मैव केवलं ॥ 15.1॥

ब्रह्ममात्रमिदं सर्वं ब्रह्ममात्रमसन्न हि ।
ब्रह्ममात्रं श्रुतं सर्वं सर्वं ब्रह्मैव केवलं ॥ 15.2॥

ब्रह्ममात्रं महायन्त्रं ब्रह्ममात्रं क्रियाफलं ।
ब्रह्ममात्रं महावाक्यं सर्वं ब्रह्मैव केवलं ॥ 15.3॥

ब्रह्ममात्रं जगत्सर्वं ब्रह्ममात्रं जडाजडं ।
ब्रह्ममात्रं परं देहं सर्वं ब्रह्मैव केवलं ॥ 15.4॥

ब्रह्ममात्रं गुणं प्रोक्तं ब्रह्ममात्रमहं महत् ।
ब्रह्ममात्रं परं ब्रह्म सर्वं ब्रह्मैव केवलं ॥ 15.5॥

ब्रह्ममात्रमिदं वस्तु ब्रह्ममात्रं स च पुमान् ।
ब्रह्ममात्रं च यत् किञ्चित् सर्वं ब्रह्मैव केवलं ॥ 15.6॥

ब्रह्ममात्रमनन्तात्मा ब्रह्ममात्रं परं सुखं ।
ब्रह्ममात्रं परं ज्ञानं सर्वं ब्रह्मैव केवलं ॥ 15.7॥

ब्रह्ममात्रं परं पारं ब्रह्ममात्रं पुरत्रयं ।
ब्रह्ममात्रमनेकत्वं सर्वं ब्रह्मैव केवलं ॥ 15.8॥

ब्रह्मैव केवलं गन्धं ब्रह्मैव परमं पदं ।
ब्रह्मैव केवलं घ्राणं सर्वं ब्रह्मैव केवलं ॥ 15.9॥

ब्रह्मैव केवलं स्पर्शं शब्दं ब्रह्मैव केवलं ।
ब्रह्मैव केवलं रूपं सर्वं ब्रह्मैव केवलं ॥ 15.10॥

ब्रह्मैव केवलं लोकं रसो ब्रह्मैव केवलं ।
ब्रह्मैव केवलं चित्तं सर्वं ब्रह्मैव केवलं ॥ 15.11॥

तत्पदं च सदा ब्रह्म त्वं पदं ब्रह्म एव हि ।
असीत्येव पदं ब्रह्म ब्रह्मैक्यं केवलं सदा ॥ 15.12॥

ब्रह्मैव केवलं गुह्यं ब्रह्म बाह्यं च केवलं ।
ब्रह्मैव केवलं नित्यं सर्वं ब्रह्मैव केवलं ॥ 15.13॥

ब्रह्मैव तज्जला नीति जगदाद्यन्तयोः स्थितिः ।
ब्रह्मैव जगदाद्यन्तं सर्वं ब्रह्मैव केवलम् ॥ १५.१४॥

ब्रह्मैव चास्ति नास्तीति ब्रह्मैवाहं न संशयः ।
ब्रह्मैव सर्वं यत् किञ्चित् सर्वं ब्रह्मैव केवलम् ॥ १५.१५॥

ब्रह्मैव जाग्रत् सर्वं हि ब्रह्ममात्रमहं परम् ।
ब्रह्मैव सत्यमस्तित्वं ब्रह्मैव तुर्यमुच्यते ॥ १५.१६॥

ब्रह्मैव सत्त्वा ब्रह्मैव ब्रह्मैव गुरुभावनम् ।
ब्रह्मैव शिष्यसद्भावं मोक्षं ब्रह्मैव केवलम् ॥ १५.१७॥

पूर्वापरं च ब्रह्मैव पूर्णं ब्रह्म सनातनम् ।
ब्रह्मैव केवलं साक्षात् सर्वं ब्रह्मैव केवलम् ॥ १५.१८॥

ब्रह्म सच्चित्सुखं ब्रह्म पूर्णं ब्रह्म सनातनम् ।
ब्रह्मैव केवलं साक्षात् सर्वं ब्रह्मैव केवलम् ॥ १५.१९॥

ब्रह्मैव केवलं सच्चित् सुखं ब्रह्मैव केवलम् ।
आनन्दं ब्रह्म सर्वत्र प्रियरूपमेवस्थितम् ॥ १५.२०॥

शुभवासनया जीवं शिववद्भाति सर्वदा ।
पापवासनया जीवो नरकं भोज्यवत् स्थितम् ॥ १५.२१॥

ब्रह्मैवेन्द्रियवद्यानं ब्रह्मैव विषयादिवत् ।
ब्रह्मैव व्यवहारश्च सर्वं ब्रह्मैव केवलम् ॥ १५.२२॥

ब्रह्मैव सर्वमानन्दं ब्रह्मैव ज्ञानविग्रहम् ।
ब्रह्मैव मायाकार्याख्यं सर्वं ब्रह्मैव केवलम् ॥ १५.२३॥

ब्रह्मैव यज्ञसन्धानं ब्रह्मैव हृदयाम्बरम् ।
ब्रह्मैव मोक्षसाराख्यं सर्वं ब्रह्मैव केवलम् ॥ १५.२४॥

ब्रह्मैव शुद्धाशुद्धं च सर्वं ब्रह्मैव कारणम् ।
ब्रह्मैव कार्यं भूलोकं सर्वं ब्रह्मैव केवलम् ॥ १५.२५॥

ब्रह्मैव नित्यतृप्तात्मा ब्रह्मैव सकलं दिनम् ।
ब्रह्मैव तूष्णीं भूतात्मा सर्वं ब्रह्मैव केवलम् ॥ १५.२६॥

ब्रह्मैव वेदसारार्थः ब्रह्मैव ध्यानगोचरम् ।
ब्रह्मैव योगयोगाख्यं सर्वं ब्रह्मैव केवलम् ॥ १५.२७॥

नानारूपत्याद् ब्रह्म उपाधित्येन दृश्यते ।
मायामात्रमिति ज्ञात्वा वस्तुतो नास्ति तत्त्वतः ॥ १५.२८॥

ब्रह्मैव लोकवद्भाति ब्रह्मैव जनवत्तथा ।
ब्रह्मैव रूपवद्भाति वस्तुतो नास्ति किंचन ॥ १५.२९॥

ब्रह्मैव देवताकारं ब्रह्मैव मुनिमण्डलं ।
ब्रह्मैव ध्यानरूपं च सर्वं ब्रह्मैव केवलम् ॥ १५.३०॥

ब्रह्मैव ज्ञानविज्ञानं ब्रह्मैव परमेश्वरः ।
ब्रह्मैव शुद्धबुद्धात्मा सर्वं ब्रह्मैव केवलम् ॥ १५.३१॥

ब्रह्मैव परमानन्दं ब्रह्मैव व्यापकं महत् ।
ब्रह्मैव परमार्थं च सर्वं ब्रह्मैव केवलम् ॥ १५.३२॥

ब्रह्मैव यज्ञरूपं च ब्रह्मा हव्यं च केवलम् ।
ब्रह्मैव जीवभूतात्मा सर्वं ब्रह्मैव केवलम् ॥ १५.३३॥

ब्रह्मैव सकलं लोकं ब्रह्मैव गुरुशिष्यकम् ।
ब्रह्मैव सर्वसिद्धिं च सर्वं ब्रह्मैव केवलम् ॥ १५.३४॥

ब्रह्मैव सर्वमन्त्रं च ब्रह्मैव सकलं जपम् ।
ब्रह्मैव सर्वकार्यं च सर्वं ब्रह्मैव केवलम् ॥ १५.३५॥

ब्रह्मैव सर्वशान्तत्वं ब्रह्मैव हृदयान्तरम् ।
ब्रह्मैव सर्वकैवल्यं सर्वं ब्रह्मैव केवलम् ॥ १५.३६॥

ब्रह्मैवाक्षरभावं च ब्रह्मैवाक्षरलक्षणम् ।
ब्रह्मैव ब्रह्मरूपं च सर्वं ब्रह्मैव केवलम् ॥ १५.३७॥

ब्रह्मैव सत्यभवनं ब्रह्मैवाहं न संशयः ।
ब्रह्मैव तत्त्वदार्थं च सर्वं ब्रह्मैव केवलम् ॥ १५.३८॥

ब्रह्मैवाहं पदार्थं च ब्रह्मैव परमेश्वरः ।
ब्रह्मैव त्वंपदार्थं च सर्वं ब्रह्मैव केवलम् ॥ १५.३९॥

ब्रह्मैव यद्भात् परमं ब्रह्मैवेति परायणम् ।
ब्रह्मैव कलनाभावं सर्वं ब्रह्मैव केवलम् ॥ १५.४०॥

ब्रह्म सर्वं न सन्देहो ब्रह्मैव त्वं सदाशिवः ।
ब्रह्मैवेदं जगत् सर्वं सर्वं ब्रह्मैव केवलम् ॥ १५.४१॥

ब्रह्मैव सर्वसुलभं ब्रह्मैवात्मा स्वयं स्वयं ।
ब्रह्मैव सुखमात्रत्वात् सर्वं ब्रह्मैव केवलम् ॥ १५.४२॥

ब्रह्मैव सर्वं ब्रह्मैव ब्रह्मणोऽन्यदसत् सदा ।
ब्रह्मैव ब्रह्ममात्रात्मा सर्वं ब्रह्मैव केवलम् ॥ १५.४३॥

ब्रह्मैव सर्ववाक्यार्थः ब्रह्मैव परमं पदम् । ब्रह्मैव सत्यसत्यं च सर्वं ब्रह्मैव केवलम् ॥ १५.४४॥

ब्रह्मैकमनाद्यन्तं ब्रह्मैवेकं न संशयः । ब्रह्मैवेकं चिदानन्दः सर्वं ब्रह्मैव केवलम् ॥ १५.४५॥

ब्रह्मैवेकं सुखं नित्यं ब्रह्मैवेकं परायणम् । ब्रह्मैवेकं परं ब्रह्म सर्वं ब्रह्मैव केवलम् ॥ १५.४६॥

ब्रह्मैव चित् स्वयं स्वस्थं ब्रह्मैव गुणवर्जितम् । ब्रह्मैवात्यन्तिकं सर्वं सर्वं ब्रह्मैव केवलम् ॥ १५.४७॥

ब्रह्मैव निर्मलं सर्वं ब्रह्मैव सुलभं सदा । ब्रह्मैव सत्यं सत्यानां सर्वं ब्रह्मैव केवलम् ॥ १५.४८॥

ब्रह्मैव सौख्यं सौख्यं च ब्रह्मैवाहं सुखात्मकम् । ब्रह्मैव सर्वदा प्रोक्तं सर्वं ब्रह्मैव केवलम् ॥ १५.४९॥

ब्रह्मैवमखिलं ब्रह्म ब्रह्मैकं सर्वसाक्षिकम् । ब्रह्मैव भूरिभवनं सर्वं ब्रह्मैव केवलम् ॥ १५.५०॥

ब्रह्मैव परिपूर्णात्मा ब्रह्मैवं सारमव्ययम् । ब्रह्मैव कारणं मूलं ब्रह्मैवेकं परायणम् ॥ १५.५१॥

ब्रह्मैव सर्वभूतात्मा ब्रह्मैव सुविग्रहम् । ब्रह्मैव नित्यतृप्तात्मा सर्वं ब्रह्मैव केवलम् ॥ १५.५२॥

ब्रह्मैवाद्वैतमात्रात्मा ब्रह्मैवाकाशवत् प्रभुः । ब्रह्मैव हृदयानन्दः सर्वं ब्रह्मैव केवलम् ॥ १५.५३॥

ब्रह्मणोऽन्यत् परं नास्ति ब्रह्मणोऽन्यज्जगन्न च । ब्रह्मणोऽन्यदहं नाहं सर्वं ब्रह्मैव केवलम् ॥ १५.५४॥

ब्रह्मैवान्यत्सुखं नास्ति ब्रह्मणोऽन्यत् फलं न हि । ब्रह्मणोऽन्यत् तृणं नास्ति सर्वं ब्रह्मैव केवलम् ॥ १५.५५॥

ब्रह्मणोऽन्यत् पदं मिथ्या ब्रह्मणोऽन्यन्न किञ्चन । ब्रह्मणोऽन्यज्जगन्मिथ्या सर्वं ब्रह्मैव केवलम् ॥ १५.५६॥

ब्रह्मणोऽन्यदहं मिथ्या ब्रह्ममात्रोऽहमेव हि । ब्रह्मणोऽन्यो गुरुर्नास्ति सर्वं ब्रह्मैव केवलम् ॥ १५.५७॥

ब्रह्मणोऽन्यदसत् कार्यं ब्रह्मणोऽन्यदसद्वपुः । ब्रह्मणोऽन्यन्मनो नास्ति सर्वं ब्रह्मैव केवलम् ॥ १५.५८॥

ब्रह्मणोऽन्यज्जगन्मिथ्या ब्रह्मणोऽन्यन्न किंचन । ब्रह्मणोऽन्यन्न चाहन्ता सर्वं ब्रह्मैव केवलम् ॥ 15.59॥

ब्रह्मैव सर्वमित्येवं प्रोक्तं प्रकरणं मया । यः पठेत् श्रावयेत् सद्यो ब्रह्मैव भवति स्वयं ॥ 15.60॥

अस्ति ब्रह्मेति वेदे इदमिदमखिलं वेद सो सद्भवेत् । सच्चासच्च जगत्तथा श्रुतिवचो ब्रह्मैव तज्जादिकम् ॥ यतो विद्येवेदं परिलुरति मोहेन जगति । अतो विद्यापादो परिभवति ब्रह्मैव हि सदा ॥ 15.61॥

॥ इति श्रीशिवरहस्ये शंकराख्ये षष्ठांशे ऋभुनिदाघसंवादे ब्रह्मैव सर्वं प्रकरणनिरूपणं नाम पंचदशोऽध्यायः ॥

॥ षोडशोऽध्यायः ॥

ऋभुः -

अत्यन्तं दुर्लभं वक्ष्ये वेदशास्त्रागमादिषु । शृण्वन्तु सावधानेन असदेव हि केवलम् ॥ १६.१॥

यत्किञ्चिद् दृश्यते लोके यत्किञ्चिद्भाष्यते सदा । यत्किञ्चिद् भुज्यते क्वापि तत्सर्वमसदेव हि ॥ १६.२॥

यद्यत् किञ्चिज्जपं वापि स्नानं वा जलमेव वा । आत्मनोऽन्यत् परं यद्यत् असत् सर्वं न संशयः ॥ १६.३॥

चित्तकार्यं बुद्धिकार्यं मायाकार्यं तथैव हि । आत्मनोऽन्यत् परं किञ्चित् तत्सर्वमसदेव हि ॥ १६.४॥

अहन्तायाः परं रूपं इदन्त्यं सत्यमित्यपि । आत्मनोऽन्यत् परं किञ्चित् तत्सर्वमसदेव हि ॥ १६.५॥

नानात्वमेव रूपत्वं व्यवहारः क्वचित् क्वचित् । आत्मीय एव सर्वत्र तत्सर्वमसदेव हि ॥ १६.६॥

तत्त्वभेदं जगद्भेदं सर्वभेदमसत्यकम् । इच्छाभेदं जगद्भेदं तत्सर्वमसदेव हि ॥ १६.७॥

द्वैतभेदं चित्रभेदं जाग्रद्भेदं मनोमयम् । अहंभेदमिदंभेदमसदेव हि केवलम् ॥ १६.८॥

स्वप्नभेदं सुप्तिभेदं तुर्यभेदमभेदकम् । कर्तृभेदं कार्यभेदं गुणभेदं रसात्मकम् । लिङ्गभेदमिदंभेदमसदेव हि केवलम् ॥ १६.९॥

आत्मभेदमसद्भेदं सद्भेदमसदण्वपि । अत्यन्ताभावसद्भेदं असदेव हि केवलम् ॥ १६.१०॥

अस्तिभेदं नास्तिभेदमभेदं भेदविभ्रमः । भ्रान्तिभेदं भूतिभेदमसदेव हि केवलम् ॥ १६.११॥

पुनरन्यत्र सद्भेदमिदमन्यत्र वा भयम् । पुण्यभेदं पापभेदं असदेव हि केवलम् ॥ १६.१२॥

सङ्कल्पभेदं तद्भेदं सदा सर्वत्र भेदकम् । ज्ञानाज्ञानमयं सर्वं असदेव हि केवलम् ॥ १६.१३॥

ब्रह्मभेदं क्षत्रभेदं भूतभौतिकभेदकम् । इदंभेदमहंभेदं असदेव हि केवलम् ॥ 16.14॥

वेदभेदं देवभेदं लोकानां भेदमीदृशम् । पञ्चाक्षरमसन्नित्यं असदेव हि केवलम् ॥ 16.15॥

ज्ञानेन्द्रियमसन्नित्यं कर्मेन्द्रियमसत्तदा । असदेव च शब्दाख्यं असत्यं तत्फलं तथा ॥ 16.16॥

असत्यं पञ्चभूताख्यमसत्यं पञ्चदेवताः । असत्यं पञ्चकोशाख्यं असदेव हि केवलम् ॥ 16.17॥

असत्यं षड्विकारादि असत्यं षट्कमूर्मिणाम् । असत्यमरिषड्वर्गमसत्यं षडृतस्तदा ॥ 16.18॥

असत्यं द्वादशमासाः असत्यं वत्सरस्तथा । असत्यं षडवस्थाख्यं षट्कालमसदेव हि ॥ 16.19॥

असत्यमेव षच्छास्त्रं असदेव हि केवलम् । असदेव सदा ज्ञानं असदेव हि केवलम् ॥ 16.20॥

अनुक्तमुक्तं नोक्तं च असदेव हि केवलम् । असत्प्रकरणं प्रोक्तं सर्ववेदेषु दुर्लभम् ॥ 16.21॥

भूयः शृणु त्वं योगीन्द्र साक्षान्मोक्षं ब्रवीम्यहम् । सन्मात्रमहमेवात्मा सच्चिदानन्द केवलम् ॥ 16.22॥

सन्मयानन्दभूतात्मा चिन्मयानन्दसद्घनः । चिन्मयानन्दसन्दोहचिदानन्दो हि केवलम् ॥ 16.23॥

चिन्मात्रज्योतिरादर्शश्चिन्मात्रज्योतिविग्रहः । चिन्मात्रज्योतिरीशानः सर्वदानन्दकेवलम् ॥ 16.24॥

चिन्मात्रज्योतिरखिलं चिन्मात्रज्योतिरस्म्यहम् । चिन्मात्रं सर्वमेवाहं सर्वं चिन्मात्रमेव हि ॥ 16.25॥

चिन्मात्रमेव चित्तं च चिन्मात्रं मोक्ष एव च । चिन्मात्रमेव मननं चिन्मात्रं श्रवणं तथा ॥ 16.26॥

चिन्मात्रमहमेवास्मि सर्वं चिन्मात्रमेव हि । चिन्मात्रं निर्गुणं ब्रह्म चिन्मात्रं सगुणं परम् ॥ 16.27॥

चिन्मात्रमहमेव त्वं सर्वं चिन्मात्रमेव हि । चिन्मात्रमेव हृदयं चिन्मात्रं चिन्मयं सदा ॥ 16.28॥

चिदेव त्वं चिदेवाहम सर्वं चिन्मात्रमेव हि । चिन्मात्रमेव शान्तत्वं चिन्मात्रं शान्तिलक्षणम् ॥ 16.29॥

चिन्मात्रमेव विज्ञानं चिन्मात्रं ब्रह्म केवलम् । चिन्मात्रमेव सङ्कल्पं चिन्मात्रं भुवनत्रयम् ॥ 16.30॥

चिन्मात्रमेव सर्वत्र चिन्मात्रं व्यापको गुरुः । चिन्मात्रमेव शुद्धत्वं चिन्मात्रं ब्रह्म केवलम् ॥ 16.31॥

चिन्मात्रमेव चैतन्यं चिन्मात्रं भास्करादिकम् । चिन्मात्रमेव सन्मात्रं चिन्मात्रं जगदेव हि ॥ 16.32॥

चिन्मात्रमेव सत्कर्म चिन्मात्रं नित्यमङ्गलं । चिन्मात्रमेव हि ब्रह्म चिन्मात्रं हरिरेव हि ॥ 16.33॥

चिन्मात्रमेव मौनात्मा चिन्मात्रं सिद्धिरेव हि । चिन्मात्रमेव जनितं चिन्मात्रं सुखमेव हि ॥ 16.34॥

चिन्मात्रमेव गगनं चिन्मात्रं पर्वतं जलम् । चिन्मात्रमेव नक्षत्रं चिन्मात्रं मेघमेव हि ॥ 16.35॥

चिदेव देवताकारं चिदेव शिवपूजनम् । चिन्मात्रमेव काठिन्यं चिन्मात्रं शीतलं जलम् ॥ 16.36॥

चिन्मात्रमेव मन्तव्यं चिन्मात्रं दृश्यभावनम् । चिन्मात्रमेव सकलं चिन्मात्रं भुवनं पिता ॥ 16.37॥

चिन्मात्रमेव जननी चिन्मात्रान्नास्ति किञ्चन । चिन्मात्रमेव नयनं चिन्मात्रं श्रवणं सुखम् ॥ 16.38॥

चिन्मात्रमेव करणं चिन्मात्रं कार्यमीश्वरम् । चिन्मात्रं चिन्मयं सत्यं चिन्मात्रं नास्ति नास्ति हि ॥ 16.39॥

चिन्मात्रमेव वेदान्तं चिन्मात्रं ब्रह्म निश्चयम् । चिन्मात्रमेव सद्भावि चिन्मात्रं भाति नित्यशः ॥ 16.40॥

चिदेव जगदाकारं चिदेव परमं पदम् । चिदेव हि चिदाकारं चिदेव हि चिदव्ययः ॥ 16.41॥

चिदेव हि शिवाकारं चिदेव हि शिवविग्रहः । चिदाकारमिदं सर्वं चिदाकारं सुखासुखम् ॥ 16.42॥

चिदेव हि जडाकारं चिदेव हि निरन्तरम् । चिदेवकलनाकारं जीवाकारं चिदेव हि ॥ 16.43॥

चिदेव देवताकारं चिदेव शिवपूजनम् ।
चिदेव त्वं चिदेवाहं सर्वं चिन्मात्रमेव हि ॥ १६.४४॥

चिदेव परमाकारं चिदेव हि निरामयम् ।
चिन्मात्रमेव सततं चिन्मात्रं हि परायणम् ॥ १६.४५॥

चिन्मात्रमेव वैराग्यं चिन्मात्रं निर्गुणं सदा ।
चिन्मात्रमेव संचारं चिन्मात्रं मन्त्रतन्त्रकम् ॥ १६.४६॥

चिदाकारमिदं विश्वं चिदाकारं जगत्त्रयम् ।
चिदाकारमहंकारं चिदाकारं परात् परम् ॥ १६.४७॥

चिदाकारमिदं भेदं चिदाकारं तृणादिकम् ।
चिदाकारं चिदाकाशं चिदाकारमरूपकम् ॥ १६.४८॥

चिदाकारं महानन्दं चिदाकारं सुखात् सुखम् ।
चिदाकारं सुखं भोज्यं चिदाकारं परं गुरुम् ॥ १६.४९॥

चिदाकारमिदं विश्वं चिदाकारमिदं पुमान् ।
चिदाकारमजं शान्तं चिदाकारमनामयम् ॥ १६.५०॥

चिदाकारं परातीतं चिदाकारं चिदेव हि ।
चिदाकारं चिदाकाशं चिदाकाशं शिवायते ॥ १६.५१॥

चिदाकारं सदा चित्तं चिदाकारं सदाऽमृतम् ।
चिदाकारं चिदाकाशं तदा सर्वान्तरान्तरम् ॥ १६.५२॥

चिदाकारमिदं पूर्णं चिदाकारमिदं प्रियम् ।
चिदाकारमिदं सर्वं चिदाकारमहं सदा ॥ १६.५३॥

चिदाकारमिदं स्थानं चिदाकारं हृदम्बरम् ।
चिदाबोधं चिदाकारं चिदाकाशं ततं सदा ॥ १६.५४॥

चिदाकारं सदा पूर्णं चिदाकारं महत्फलम् ।
चिदाकारं परं तत्त्वं चिदाकारं परं भवान् ॥ १६.५५॥

चिदाकारं सदामोदं चिदाकारं सदा मृतम् ।
चिदाकारं परं ब्रह्म चिदहं चिदहं सदा ॥ १६.५६॥

चिदहं चिदहं चित्तं चित्तं स्पृस्य न संशयः ।
चिदेव जगदाकारं चिदेव शिवशंकरः ॥ १६.५७॥

चिदेव गगनाकारं चिदेव गणनायकम् ।
चिदेव भुवनाकारं चिदेव भवभावनम् ॥ १६.५८॥

चिदेव हृदयाकारं चिदेव हृदयेश्वरः ।
चिदेव अमृताकारं चिदेव चलनास्पदम् ॥ १६.५९॥

चिदेवाहं चिदेवाहं चिन्मयं चिन्मयं सदा ।
चिदेव सत्यविश्वासं चिदेव ब्रह्मभावनम् ॥ १६.६०॥

चिदेव परमं देवं चिदेव हृदयालयम् ।
चिदेव सकलाकारं चिदेव जनमण्डलम् ॥ १६.६१॥

चिदेव सर्वमानन्दं चिदेव प्रियभाषणम् ।
चिदेव त्वं चिदेवाहं सर्वं चिन्मात्रमेव हि ॥ १६.६२॥

चिदेव परमं ध्यानं चिदेव परमार्चनम् ।
चिदेव त्वं चिदेवाहं सर्वं चिन्मयमेव हि ॥ १६.६३॥

चिदेव त्वं प्रकरणं सर्ववेदेषु दुर्लभम् ।
सकृच्छ्रवणमात्रेण ब्रह्मैव भवति ध्रुवम् ॥ १६.६४॥

यस्याभिध्यानयोगाज्जनिमृतिविवशाः शाश्वतं वृत्तिभैर्ये
मायामोहैर्विहीना हृदुदरभयजं भिद्यते ग्रन्थिजातम् ।
विश्वं विश्वाधिकरसं भवति भवतो दर्शनादाप्तकामः
सो नित्यो निर्विकल्पो भवति भुवि सदा ब्रह्मभूतोऽन्तरात्मा ॥ १६.६५॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे चिदेवत्वंप्रकरणवर्णनं नाम षोडशोऽध्यायः ॥

॥ సప్తదశోఽధ్యాయః ॥

॥ सप्तदशोऽध्यायः ॥

ऋभुः –

निदाघ शृणु गुह्यं मे सर्वसिद्धान्तसंग्रहम् ।
द्वैताद्वैतमिदं शून्यं शान्तं ब्रह्मैव सर्वदा ॥ १७.१॥

अहमेव परं ब्रह्म अहमेव परात् परम् ।
द्वैताद्वैतमिदं शून्यं शान्तं ब्रह्मैव केवलम् ॥ १७.२॥

अहमेव हि शान्तात्मा अहमेव हि सर्वगः ।
अहमेव हि शुद्धात्मा अहमेव हि नित्यशः ॥ १७.३॥

अहमेव हि नानात्मा अहमेव हि निर्गुणः ।
अहमेव हि नित्यात्मा अहमेव हि कारणम् ॥ १७.४॥

अहमेव हि जगत् सर्वं इदं चैवाहमेव हि ।
अहमेव हि मोदात्मा अहमेव हि मुक्तिदः ॥ १७.५॥

अहमेव हि चैतन्यं अहमेव हि चिन्मयः ।
अहमेव हि चैतन्यमहं सर्वान्तरः सदा ॥ १७.६॥

अहमेव हि भूतात्मा भौतिकं त्वहमेव हि ।
अहमेव त्वमेवाहमहमेवाहमेव हि ॥ १७.७॥

जीवात्मा त्वहमेवाहमहमेव परेश्वरः ।
अहमेव विभुर्नित्यमहमेव स्वयं सदा ॥ १७.८॥

अहमेवाक्षरं साक्षात् अहमेव हि मे प्रियम् ।
अहमेव सदा ब्रह्म अहमेव सदाऽव्ययः ॥ १७.९॥

अहमेवाहमेवाग्रे अहमेवान्तरान्तरः ।
अहमेव चिदाकाशमहमेवावभासकः ॥ १७.१०॥

अहमेव सदा स्रष्टा अहमेव हि रक्षकः ।
अहमेव हि लीलात्मा अहमेव हि निश्चयः ॥ १७.११॥

अहमेव सदा साक्षी त्वमेव त्वं पुरातनः ।
त्वमेव हि परं ब्रह्म त्वमेव हि निरन्तरम् ॥ १७.१२॥

अहमेवाहमेवाहमहमेव त्वमेव हि ।
अहमेवाद्वयाकारः अहमेव विदेहकः ॥ १७.१३॥

अहमेव ममाधारः अहमेव सदात्मकः ।
अहमेवोपशान्तात्मा अहमेव तितिक्षकः ॥ १७.१४ ॥

अहमेव समाधानं श्रद्धा चाप्यहमेव हि ।
अहमेव महाव्योम अहमेव कलात्मकः ॥ १७.१५ ॥

अहमेव हि कामान्तः अहमेव सदान्तरः ।
अहमेव पुरस्ताच्च अहं पश्चादहं सदा ॥ १७.१६ ॥

अहमेव हि विश्वात्मा अहमेव हि केवलम् ।
अहमेव परं ब्रह्म अहमेव परात्परः ॥ १७.१७ ॥

अहमेव चिदानन्दः अहमेव सुखासुखम् ।
अहमेव गुरुत्वं च अहमेवाच्युतः सदा ॥ १७.१८ ॥

अहमेव हि वेदान्तः अहमेव हि चिन्तनः ।
देहोऽहं शुद्धचैतन्यः अहं संशयवर्जितः ॥ १७.१९ ॥

अहमेव परं ज्योतिरहमेव परं पदम् ।
अहमेवाविनाशात्मा अहमेव पुरातनः ॥ १७.२० ॥

अहं ब्रह्म न सन्देहः अहमेव हि निश्चलः ।
अहं तुर्यो न सन्देहः अहमात्मा न संशयः ॥ १७.२१ ॥

अहमित्यपि हीनोऽहमहं भावनवर्जितः ।
अहमेव हि भावान्ता अहमेव हि शोभनम् ॥ १७.२२ ॥

अहमेव क्षणातीतः अहमेव हि मङ्गलम् ।
अहमेवाच्युतानन्दः अहमेव निरन्तरम् ॥ १७.२३ ॥

अहमेवाप्रमेयात्मा अहं सङ्कल्पवर्जितः ।
अहं बुद्धः परंधाम अहं बुद्धिविवर्जितः ॥ १७.२४ ॥

अहमेव सदा सत्यं अहमेव सदासुखम् ।
अहमेव सदा लभ्यं अहं सुलभकारणम् ॥ १७.२५ ॥

अहं सुलभविज्ञानं दुर्लभो ज्ञानिनां सदा ।
अहं चिन्मात्र एवात्मा अहमेव हि चिद्घनः ॥ १७.२६ ॥

अहमेव त्वमेवाहं ब्रह्मैवाहं न संशयः ।
अहमात्मा न सन्देहः सर्वव्यापी न संशयः ॥ १७.२७ ॥

अहमात्मा प्रियं सत्यं सत्यं सत्यं पुनः पुनः ।
अहमात्माऽजरो व्यापी अहमेवात्मनो गुरुः ॥ १७.२८ ॥