ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)
Ritusamharam of Kalidasa with Hindi Commentary
महाकवि कालिदास द्वारा
तृतीयः सर्गः । ३१ बहुगुणरमणीयः कामिनीचित्तहारी तरुविटपलतानां बान्धवो निर्विकारः । जलदसमय एष प्राणिनां प्राणभूतो दिशतु तव हितानि प्रायशो वाञ्छितानि ॥२८ बहुगुणेति ॥ बहुगुणै रमणीयः सुन्दरः कामिनीनाम- ङ्गनानां चित्तहारी । मनोऽनुरञ्जक इति यावत् । तरुविटपा वृक्षशाखा लता बह्व्यश्च तासाम् । क्वचित्पुस्तके 'नतविट- पिलतानाम्' इति पाठः । तदर्थस्तु—नता नम्रा ये विटपिनः शाखिनो लताश्च तासामिति । 'वल्ली तु व्रततिर्लता' इत्य- मरः । बान्धवो बन्धुः । निर्विकारो विकारशून्यः प्राणिनां जन्तूनाम् । 'प्राणी तु चेतनो जन्मी जन्तुजन्यशरीरिणः' इत्यमरः । प्राणभूतो जीवभूत एष जलदसमयो वर्षाकाल- स्तव प्रायशो बहुशो वाञ्छितान्यभिलषितानि हितानीष्टानि दिशतु ददात्वित्यर्थः ॥ इति भारद्वाजगोत्रोत्पन्नमणिरामविरचितया चन्द्रिकाख्यया व्याख्यया समेतः कविश्रीकालिदासकविवराग्रणीकृतावृतुसंहारे महाकाव्ये प्रावृड्वर्णनं नाम द्वितीयः सर्गः । तृतीयः सर्गः । अथ क्रमप्राप्तं शरत्कालं वर्णयति— काशांशुका विकचपद्ममनोज्ञवक्त्रा सोन्मादहंसरवनूपुरनादरम्या । १ 'योषिताम्'. २ 'एषाम्'. ३ 'प्राणिनः'. ४ 'प्राणहेतुः'. ५. 'रुत'.
३२ ऋतुसंहारे आपक्वशालिरुचिरा$^१$ तनु$^२$गात्रयष्टिः प्राप्ता शरन्नववधूरिव रूप$^३$रम्या ॥ १ ॥ काशांशुकेति ॥ काशमेव काशकुसुममेवांशुकं वस्त्रं यस्याः सा तथोक्ता । पक्षे काशमिवांशुकं वस्त्रं यस्याः सेति । वि- कचं विकसितं यत्पद्मं तदेव मनोज्ञं सुन्दरं वक्त्रं मुखं यस्याः सा तथोक्ता । पक्षे विकचं विकसितं यत्पद्मं तदिव मनोज्ञं सुन्दरं वक्त्रं मुखं यस्याः सेति । 'प्रफुल्लोत्फुल्लसंफुल्लव्याको- शविकचस्फुटाः । फुल्लश्चैते विकसिते' इत्यमरः । 'वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम्' इत्यमरः । सोन्मादानामुन्माद- सहितानां हंसानां रवः शब्द एव नूपुरनादो मञ्जीरध्वनिस्तेन रम्या रमणीया । पक्षे सोन्मादहंसरव इव नूपुरनादस्तैन रम्या । 'शब्दे निनादनिनदध्वनिध्वानरवस्वनाः' इत्यमरः । 'मञ्जीरो नूपुरोऽस्त्रियाम्' इत्यमरः । आ समन्तात्पक्वा परिणता शालिरेव रुचिरा सुन्दरा तन्वी गात्रयष्टिः शरीरलता यस्याः । पक्ष आपक्वशालिरिव रुचिरा तनुर्गात्रयष्टिर्वपुः संहननं यस्याः । 'शरीरं वर्ष्म विग्रहः' इत्यमरः रूपरम्या शरन्नववधूरिव प्राप्तागतेत्यर्थः । वसन्ततिलका वृत्तम् ॥ काशैर्मही शिशिरदीधितिना रजन्यो हंसैर्जलानि सरितां कुमुदैः सरांसि । सप्तच्छदैः कुसुमभारनतैर्वनान्ताः शुक्लीकृतान्युपवनानि च मालतीभिः ॥ २ ॥ काशैरिति ॥ काशैः काशपुष्पैर्मही पृथ्वी । शिशिर- १ 'ललिता'. २. 'नत'. ३. 'हरिरूपा;' 'रम्यरूपा'.
तृतीयः सर्गः । ३३ दीधितिना चन्द्रेण रजन्यो रात्रयः । हंसैः सरितां नदीनां जलानि । कुमुदैः कैरवैः । 'सिते कुमुदकैरवे' इत्यमरः । सरांसि कासाराः । 'कासारः सरसी सरः' इत्यमरः । कुसु- मभारेण पुष्पभारेण नता नम्रास्तैस्तथोक्तैः सप्तच्छदैः सप्तप- र्णैर्वृक्षविशेषैर्वनान्ता अरण्यप्रान्ताः । मालतीभिर्जातीभिश्च । 'सुमना मालती जातिः' इत्यमरः । उपवनान्यारामाः । 'आरामः स्यादुपवनं कृत्रिमं वनमेव यत्' इत्यमरः । शुक्ली- कृतानीति लिङ्गवचनविपरिणामेनान्वयः ॥ चञ्चन्मनोज्ञशफरीरसनाकलापाः पर्यन्तसंस्थितसिताण्डजपङ्क्तिहाराः । नद्यो विशालपुलिनान्तरनितम्बबिम्बा मन्दं प्रयान्ति समदाः प्रमदा इवाद्य ॥ ३ ॥ चञ्चदिति ॥ चञ्चती चञ्चला मनोज्ञा सुन्दरा शफर्येव प्रोष्ठ्येव रसनाकलापः काञ्चीगुणो यासां तास्तथोक्ताः । पक्षे चञ्चन्मनोज्ञशफरीव रसनाकलापो यासां ताः । 'प्रोष्ठी तु शफरी द्वयोः' इत्यमरः । पर्यन्ते प्रान्तभागे संस्थितोपविष्टा या सिताण्डजानां धवलमरालादीनां पङ्क्तिः श्रेणी सैव हारो यासां तास्तथोक्ताः । 'पङ्क्तिः श्रेणी लेखास्तु राजयः' इत्य- मरः । पक्षे पर्यन्तसंस्थितसिताण्डजपङ्क्तिरिव हारो यासां ताः । विशालो विस्तीर्णो यः पुलिनान्तस्तीरप्रान्तः स एव नितम्बबिम्बं कटिपश्चाद्भागो यासां तास्तथोक्ता नद्यः सरितः । 'अथ नदी सरित्' इत्यमरः। समदा यौवनमदगर्विताः प्रमदाः १ 'भक्ति.' २ 'पुलिनोरु.' ४
३४ ऋतुसंहारे स्त्रिय इव मन्दं मन्थरं यथा भवति तथाद्य प्रयान्ति गच्छ- न्तीत्यर्थः ॥ व्योम^२ क्वचिद्रजतशङ्खमृणालगौरै- स्त्यक्ताम्बुभि^१र्लघुतया शतशः प्रयातैः । संलक्ष्यते पवनवेगचलैः पयोदै राजैव चामरवरै^३रुपवीज्यमानः^४ ॥ ४ ॥ व्योमेति ॥ त्यक्तं निवृत्तमम्बु यैस्तथोक्तैरतएव रजतं च शङ्खश्च मृणालं च रजतशङ्खमृणालानि तानीव गौरा गौरव- र्णास्तैस्तथोक्तैः । लघुतया शतशः प्रयातैः पवनस्य वायौर्वे- गेन चलाश्चञ्चलास्तैस्तथोक्तैः पयोदैर्व्योमाकाशं क्वचित्कुत्र- चिद्भागे चामरवरैश्चामरश्रेष्ठैरुपवीज्यमानो राजैव संलक्ष्यते दृश्यत इत्यर्थः ॥ भिन्नाञ्जनप्रचयकान्ति नभो मनोज्ञं बन्धूकपुष्परचितारुणता^५ च भूमिः । वप्राश्च चारुकमलावृतभूमिभागाः^६ प्रोत्कण्ठयन्ति^७ न मनो भुवि कस्य यूनः ॥५॥ भिन्नेति ॥ भिन्नो विभिन्नो योऽञ्जनप्रचयः कज्जलसमू- हस्तद्वत्कान्तिर्यस्य तत्तथोक्तं मनोज्ञं सुन्दरं नभ आकाशम् । बन्धूकानां जीवबन्धूकानां पुष्पैः कुसुमै रचिता कृतारुणता यस्याः सा तथोक्ता । 'बन्धूको बन्धुजीवकः' इत्यमरः । भूमिश्च । चारूणि सुन्दराणि यानि कमलानि तैरावृता आ- १ 'वीताम्बुभिः.' २ 'उत्प्रेक्ष्यते.' ३ 'चामरशतैः.' ४ 'अपि वीज्यमानः,' 'अभिवीज्यमानः.' ५ 'रजसारुणिता.' ६ 'पक्वकलमा.' ७ 'उत्कण्ठयन्ति.'
तृतीयः सर्गः । ३५ च्छादिता भूमिभागा येषां ते तथोक्ता वप्राः प्राकाराश्च ॥ ‘स्याच्चयो वप्रमस्त्रियाम् । प्राकारो वरणः शालः’ इत्यमरः । भुवि कस्य यूनो मनो न प्रोत्कण्ठयन्ति प्रोत्कर्षेण नोत्क- ण्ठयन्ति । अपि तु सर्वस्यापीति विभक्तिविपरिणामेनान्वयः ॥ मन्दानिलाकुलितचारुतराग्रशाखः पुष्पोद्गमप्रचयकोमलपल्लवाग्रः । मत्तद्विरेफपरिपीतमधुप्रसेक- श्चित्तं विदारयति कस्य न कोविदारः ॥ ६ ॥ मन्देति ॥ मन्देन मन्थरेणानिलेन पवनेनाकुलिताश्चारु- तरा अतिसुन्दरा अग्रशाखा यस्य तथोक्तः । पुष्पोद्गमस्य कुसुमप्रादुर्भावस्य प्रचयेनाधिक्येन कोमलानि मृदूनि पल्ल- वाग्राणि यस्य स तथोक्तः । मत्तद्विरेफैरून्मत्तभ्रमरैः परिपी- तो मधुप्रसेको मकरन्दप्रस्रवो यस्य स तथोक्तः कोविदार- श्चमरिकवृक्षः । ‘कोविद्वारे चमरिकः कुद्दालो युगपत्रकः ।’ इत्यमरः । कस्य चित्तं न विदारयति । अपि तु सर्वस्यापि विदीर्णं करोतीत्यर्थः ॥ तारागणप्रवरभूषणमुद्वहन्ती मेघावरोधपरिमुक्तशशाङ्कवक्त्रा । ज्योत्स्नादुकूलममलं रजनी दधाना वृद्धिं प्रयात्यनुदिनं प्रमदेव बाला ॥ ७ ॥ तारागणेति ॥ ताराणां नक्षत्राणां गणः समुदाय एव प्रवरमुत्तमं भूषणम् । पक्षे तारागण इव प्रवरं भूषणम् । १ ‘चारुमनोज्ञ,’ ‘चारुविशाल.’ २ ‘मेघोपरोध.’
३६ ऋतुसंहारे 'नक्षत्रमृक्षं भं तारा' इत्यमरः । उद्द्वहन्ती दधती । मेघैः कृत्वा योऽवरोधो व्यवधानं तस्मात्परिमुक्तो यः शशाङ्कश्चन्द्रः स एव वक्त्रं वदनं यस्याः सा । पक्षे मेघ इव योऽवरोधो वधूटिवयोऽवलम्बनीयो मुखवसनाच्छादनव्यवहारस्ततः परिमुक्तं तन्नियमानधीनं शशाङ्कमिव चन्द्रमिव वक्त्रं मुखं यस्याः सा । अमलं निर्मलं ज्योत्स्नैव दुकूलं वसनं दधाना परिधानं कृतवती सा । पक्षे ज्योत्स्नेवामलं दुकूलं दधाना सेति । 'चन्द्रिका कौमुदी ज्योत्स्ना' इत्यमरः । रजनी या- मिनी । 'रजनी यामिनी तमी' इत्यमरः । प्रमदा बाला चानुदिनं प्रतिदिनं वृद्धिं प्रयाति गच्छतीत्यर्थः ॥ कारण्डवाननविघट्टितवीचिमालाः कादम्बसारसचयाकुलतीरदेशाः । कुर्वन्ति हंसविरुतैः परितो जनस्य प्रीतिं ²सरोरुहरजोरुणितास्तटिन्यः ॥ ८ ॥ कारण्डवेति ॥ कारण्डवानां पक्षिविशेषाणामाननैर्वदनै- र्विघट्टिता वीचिमालास्तरङ्गपङ्क्तयो यासु तास्तथोक्ताः । 'भङ्ग- स्तरङ्ग ऊर्मिर्वा स्त्रियां वीचिः' इत्यमरः । कादम्बानां कल- हंसानां सारसानां पुष्कराह्वानां चयेन समुदायेनाकुलो व्या- कुलस्तीरदेशो यासां तास्तथोक्ताः । 'कादम्बः कलहंसः स्यात्' इत्यमरः । 'पुष्कराह्वस्तु सारसः' इत्यमरः । सरोरु- हाणां कमलानां रजोभी रेणुभिररुणिता आरक्ताः । 'परागः सुमनोरजः' इत्यमरः । तटिन्यस्तरङ्गिण्यः । 'तरङ्गिणी शैव- १ 'कुलाकुल.' २ 'सरोरुहरजोरुणिताश्च नद्यः,' 'परां कमलरेणु- वृतास्तटिन्यः.'
लिनी तटिनी ह्लादिनी धुनी' इत्यमरः । परितः समन्ततो हंसानां मरालानां विरुतैः शब्दैः । 'तिरश्चां वाशितं रुतम्' इत्यमरः । जनस्य लोकस्य प्रीतिं कुर्वन्ति जनयन्तीत्यर्थः ॥ नेत्रोत्सवो हृदयहारिमरीचिमालः प्रल्हादकः शिशिरसीकरवारिवर्षी । पत्युर्वियोगविषदिग्धशरक्षतानां चन्द्रो दहंत्यतितरां तनुमङ्गनानाम् ॥ ९ ॥ नेत्रोत्सव इति ॥ नेत्राणां लोचनानामुत्सवो हर्षजनकः । 'लोचनं नयनं नेत्रम्' इत्यमरः । हृदयहारिणी मरीचिमाला किरणपङ्क्तिर्यस्य स तथोक्तः । प्रकर्षेण ह्लादको हर्षजनकः । शिशिरं शीतलं सीकराणां वारि वारिकणं वर्षति स तथो- क्तश्चंद्रः सुधाकरः पत्युः प्रियस्य वियोगो विरह एव विषदि- ग्धशरो बाणस्तेन क्षता व्रणितास्तासां तथोक्तानामङ्गनानां वि- रहिणीनां तनुं शरीरमतितरामत्यन्तं दहति संतापयतीत्यर्थः ॥ आकम्पयन्फलभरानतशालिजाला- नानर्तयंस्तरुवरान्कुसुमावनम्रांस् । उत्फुल्लपङ्कजवनां नलिनीं विधुन्व- न्यूनां मनश्चलयति प्रसभं नभस्वान् ॥१०॥ आकम्पयन्निति ॥ फलानां भरेण भारेणानता नम्रा ये शालिजालाः शालिसमूहास्तानाकम्पयन् । कुसुमावनम्रांस्त- रुवरान्वृक्षश्रेष्ठानानर्तयन् । एतेन पवने मान्द्यमावेदितम् । १ 'अनुदिनम्.' २ 'तरुवरान्'; 'कुरुबकान्.' ३ 'प्रोत्फुल्ल.' ४ 'स्खलयति'; 'मदयति.'
३. तृतीय सर्ग: शरद् वर्णन (कास-पुष्प, चन्द्रिका व हंस-रव)
३८ ऋतुसंहारे उत्फुल्लानि विकसितानि पङ्कजानि कमलानि यस्मिंस्तादृशं वनं जलं यस्यां तां तथोक्ताम् । 'जलम् । पयः कीलालम- मृतं जीवनं भुवनं वनम्' इत्यमरः । नलिनीं कमलिनीं विधुन्वन्विकम्पयन् । एतेन तस्मिन्सौगन्ध्यं शैत्यं चावेदि- तम् । नभस्वान्वायूर्यूनां तरुणानां मनः प्रसभमत्यन्तं चल- यति चञ्चलयतीत्यर्थः ॥ सोन्मादहंसमिथुनैरुपशोभितानि स्वेच्छप्रफुल्लकमलोत्पलभूषितानि । मन्दप्रभातपवनोद्गतवीचिमाला- न्युत्कण्ठयन्ति सहसा हृदयं सरांसि ॥११॥ सोन्मादेति ॥ सोन्मादानामुन्मादसहितानां हंसानां मरा- लानां मिथुनैर्द्वन्द्वैरुपशोभितानि भूषितानि । अपि च स्वच्छा- नि निर्मलानि प्रफुल्लानि च यानि कमलानि पद्मान्युत्पलानि नीलेन्दीवराणि च तैर्भूषितानि शोभितानि । मन्देन मन्थरेण प्रभातपवनेनोषःकालीनेन वायुनोद्गता उत्पन्ना वीचिमालास्त- रङ्गपङ्क्तयो येषु तानि तथोक्तानि सरांसि सरोवराणि । जनाना- मिति शेषः।हृदयं सहसोत्कण्ठयन्त्युत्कण्ठायुक्तं कुर्वन्तीत्यर्थः॥ नष्टं धनुर्बलभिदो जलदोदरेषु सौदामिनी स्फुरति नाद्य वियतपताका । धून्वन्ति पक्षपवनैर्न नभो बलाकाः पश्यन्ति नोन्नतमुखा गगनं मयूराः॥ १२ ॥ नष्टमिति ॥ अद्येदानीं जलदानां मेघानामुदरेषु गर्भेषु । १ 'स्वच्छानि फुल्ल.' २ 'मन्दं प्रभात'; 'मन्दप्रचार.' ३ 'पवनो- द्धत. ४ 'हृदयं प्रसभम्'. ५ 'नापि'.
दृश्यमानमिति शेषः । बलनामकं दैत्यं भिनत्ति विदारयति । हन्तीति यावत् । तस्य बलभिदो बलारातेरिन्द्रस्य धनुः का- र्मुकं नष्टं गतम् । न दृश्यत इत्यर्थः । वियत आकाशस्य पताका सौदामिनी तडिन्न स्फुरति न दीव्यति । बलाका बिसकण्ठिकाः । ‘बलाका बिसकण्ठिका’ इत्यमरः । पक्षाणां पत्राणां पवनैर्वातैः । ‘गरुत्पक्षच्छदाः पत्रं पतत्रं च तनूरु- हम्’ इत्यमरः । नभो न धुन्वन्ति न कम्पयन्ति । उन्नत- मूर्ध्वं मुखं वदनं मेघदिदृक्षया येषां ते तथोक्ता मयूरा बर्हि- णो गगनमाकाशं न पश्यन्ति नावलोकयन्तीत्यर्थः ॥
नृत्यप्रयोगरहिताञ्छिखिनो विहाय हंसानुपैति मदनो मधुरप्रगीतान् । १मुक्त्वा कदम्बकुटजार्जुनसर्जनीपा- न्सप्तच्छदानुपगता कुसुमोद्गमश्रीः ॥ १३ ॥
नृत्येति ॥ मदनः कंदर्पो नृत्यप्रयोगेन नर्तनप्रयोगेन रहिताञ्शिखिनो बर्हिणो विहाय त्यक्त्वा मधुरं प्रगीतं गानं येषां तांस्तथोक्तान्हंसानुपैति प्राप्नोति । कुसुमानां पुष्पाणा- मुद्गम उत्पत्तिस्तस्य श्रीः शोभा कदम्बो धूलिकदम्बः, कुटजः शक्रनामको वृक्षविशेषः, अर्जुनः ककुभवृक्षः, सर्जः शाल- वृक्षः, नीपः पूर्वोक्तकदम्बभिन्नकदम्बस्तान् । ‘अथ कुटजः शक्रः’ इत्यमरः । ‘इन्द्रद्रुः ककुभोऽर्जुनः’ इत्यमरः । मुक्त्वा त्यक्त्वा सप्तच्छदान्सप्तपर्णवृक्षानुपगता प्राप्तेत्यर्थः ॥
१ ‘त्यक्त्वा’.
४० ऋतुसंहारे शेफालिकाकुसुमगन्ध^१मनोहराणि स्वस्थस्थिताण्डजकुल^२प्रतिनादितानि । पर्यन्तसंस्थितमृगीनयनोत्पलानि प्रोत्कण्ठयन्त्युपवनानि मनांसि पुंसाम् ॥१४॥ शेफालिकेति ॥ शेफालिका सुवहा तस्याः कुसुमानां पुष्पाणां गन्धेन मनोहराणि सुन्दराणि । 'शेफालिका तु सुव- हा निर्गुण्डी नीलिका च सा' इत्यमरः । खस्थमनुद्वेगं तीव्र- तराणि तापदावानलादिदुःखाभावाद्यथा भवति तथा स्थिता- नामुपविष्टाना मण्डजानां पक्षिणां कोकिलादीनां कुलैः समु- दायैः प्रतिनादितानि प्रतिध्वनितानि । पर्यन्ते संस्थितानां प्रान्तस्थितानां मृगीणां हरिणीनां नयनानि लोचनान्येवोत्प- लानि कुवलयानि येषु तानि तथोक्तान्युपवनान्युद्यानानि पुंसां मनांसि प्रोत्कण्ठयन्ति समुत्कण्ठितानि कुर्वन्तीत्यर्थः ॥ कह्लारपद्मकुमुदानि^३ मुहु^४र्विधुन्वं- स्तत्संगमादधिकशीतलतामुपेतः^५ । ^६उत्कण्ठयत्यतितरां पवनः प्रभाते पत्रान्तलग्नतुहि^७नाम्बुविधूयमानः ॥ १५ ॥ कह्लारेति ॥ कह्लारपद्मकुमुदानि कह्लारं सौगन्धिकम्, पद्मं नलिनम्, कुमुदं कैरवं तानि । 'सौगन्धिकं तु कह्लारम्' इत्यमरः । 'वा पुंसि पद्मं नलिनम्' इत्यमरः । 'सिते कुमु- दकैरवे' इत्यमरः । मुहुर्वारंवारं विधुन्वन् । तेषां संगमा- १ 'राग.' २ 'गण.' ३ 'कुसुमानि.' ४ 'मुदा.' ५ 'उपेत्य.' ६ 'सोत्कां करोति वनिताम्.' ७ 'तुहिनानि हरंस्तरूणाम्.'
त्स्पर्शादधिकमत्यन्तं शीतलतामुपेतः प्राप्तः । पत्रान्ते दल- प्रान्ते लग्नं यत्तुहिनाम्बु हिमजलं तद्विधूयते स तथोक्तो विधूयमानः पवनो वायुः प्रभाते प्रातःकालेऽतितरामत्यन्त- मुत्कण्ठयत्युत्सुकयतीत्यर्थः ॥ संपन्नशालिनिचयावृतभूतलानि स्वस्थस्थितप्रचुरगोकुलशोभितानि । हंसैः ससारसकुलैः प्रतिनादितानि सीमान्तराणि जनयन्ति नृणां प्रमोदम् ॥१६॥ संपन्नेति ॥ संपन्नानां जलसिक्तानां शालीनां निचयेन समूहेनावृतानि छादितानि भूतलानि येषां तानि तथोक्तानि। स्वस्थमनुद्वेगं स्थितानां प्रचुराणां बह्वीनां गवां कुलैः समुदायैः शोभितानि भूषितानि । सारसानां पक्षिविशेषाणां कुलैः स- हितास्तैस्तथोक्तैर्हंसैः प्रतिनादितानि सीमान्तराणि नृणां ज- नानां प्रमोदं हर्षं जनयन्त्युत्पादयन्तीत्यर्थः ॥ हंसैर्जिता सुललिता गतिरङ्गनाना- मम्भोरुहैर्विकसितैर्मुखचन्द्रकान्तिः । नीलोत्पलैर्मदकलानि विलोकितानि भ्रूविभ्रमाश्च रुचिरास्तनुभिस्तरङ्गैः ॥ १७ ॥ हंसैरिति ॥ अङ्गनानां पुरंध्रीणां सुललितात्यन्तं रमणीया गतिर्हंसैर्जिता । मुखचन्द्रस्य वदनचन्द्रस्य कान्तिः शोभा विकसितैर्विकचैरम्भोरुहैर्जिता । मदेन कलानि मधुराणि विलोकितान्यवलोकितानि नीलोत्पलैर्जितानि । रुचिराः सु- १ 'सुस्थ' २ 'च सारस.' ३ 'जनप्रमोदम्.' ४ 'चलानि. ५ 'विलोचनानि.' ६ 'सरिताम्.'
४२ ऋतुसंहारे न्दरा भ्रूविभ्रमाश्च तनुभिः सूक्ष्मैस्तरंगैर्वीचिभिर्जिता इति लिङ्गवचनविपरिणामेनान्वयः ॥ श्यामा लताः कुसुमभारनतप्रवालाः स्त्रीणां हरन्ति धृतभूषणबाहुकान्तिम् । दन्तावभासविशदस्मितचन्द्रकान्तिं कङ्केलिपुष्परुचिरा नवमालती च ॥ १८ ॥ श्यामा इति ॥ कुसुमानां पुष्पाणां भारेण नता नम्राः प्रवालाः पल्लवा यासां तास्तथोक्ताः श्यामा हरिद्वर्णास्तत्र मध्ये याश्च लता व्रतत्यः । ‘वल्ली तु व्रततिर्लता’ इत्यमरः । स्त्री- णां नारीणां धृतानि भूषणानि यैस्तेषां बाहूनां कान्तिं शोभां हरन्त्यपनयन्ति । कङ्केलिपुष्परुचिरा नवमालती नूतनमा- लिका च दन्तानां रदनानामवभासेन प्रभया विशदं निर्मलं स्मितमेव चन्द्रकान्तिम् । ‘रदना दशना दन्ताः’ इत्यमरः । हरतीति विभक्तिविपरिणामेनान्वयः ॥ केशान्नितान्तघननीलविकुञ्चिताग्रा- नापूरयन्ति वनिता नवमालतीभिः । कर्णेषु च प्रवरकाञ्चनकुण्डलेषु नीलोत्पलानि विविधानि निवेशयन्ति ॥ १९ ॥ केशानिति ॥ वनिता अबला नितान्तमत्यन्तं घनाः संकीर्णा नीलाः कृष्णवर्णा विकुञ्चिताः कुटिला अत एवाग्राः १ ‘भृत.’ २ ‘दन्ते विभास.’ ३ ‘वक्त्रकान्तिम्.’ ४ ‘बन्धूक.’ ५ ‘र- चिता.’ ६ ‘नवमालिका च’; ‘नवमालतीव’; ‘नवमालिकेव.’ ७ ‘प्र- चुर’; ‘प्रबल’; ‘प्रचल’. ८ ‘कुण्डलेषु’. ९ ‘विकचानि.’ १० ‘निवेशयन्ते.’
तृतीयः सर्गः । ४३ श्रेष्ठांस्तस्तथोक्तान्र्केशान्कुन्तलान् । ‘चिकुरः कुन्तलो बालः कचः केशः शिरोरुहः’ इत्यमरः । नवमालतीभिर्नवमालतीकु- सुमैरापूरयन्ति । प्रवरणि श्रेष्ठािन काञ्चनकुङ्मलानि खर्ण- ताटङ्कादीनि येषु तेषु तथोक्तेषु कर्णेषु श्रवणेषु । ‘कर्णश- ब्दग्रहो श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः’ इत्यमरः । विविधानि विचित्राणि नीलोत्पलानीन्दीवराणि निवेशयन्ति । स्थापय- न्ति । अवलम्बयन्तीत्यर्थः ॥ हारैः सचन्दनरसैः स्तनमण्डलानि श्रोणीतटं सुविपुलं रसनाकलापैः । पादाम्बुजानि कलनूपुरशेखरैश्च नार्यः प्रहृष्टमनसोऽद्य विभूषयन्ति ॥ २० ॥ हारैरिति ॥ प्रहृष्टमनसः प्रहर्षितचेतसो नार्यः स्त्रियोऽद्य सचन्दनरसैश्चन्दनद्रवसहितैर्हारैः स्तनमण्डलानि कुचमण्ड- लानि । रसनाकलापैः काञ्चीगुणैः सुविपुलं महच्छ्रोणीतटं कटिपश्चाद्भागम् । कलनूपुरशेखरैरुत्तममञ्जीरैः पादाम्बुजानि चरणकमलानि च विभूषयन्तीत्यर्थः ॥ स्फुटकुमुदचितानां राजहंसस्थितानां^२ मरकतमणिभासा वारिणा भूषितानाम्^३ । श्रियमतिशयरूपां व्योम तोयाशयानां वहति विगतमेघं चन्द्रतारावकीर्णम् ॥२१॥ स्फुटेति ॥ विगता मेघा यस्मात्तं तथोक्तं चन्द्रश्च तारा नक्षत्राणि च ताभिरवकीर्णं व्याप्तं व्योमाकाशं स्फुटैर्विक- सितैः कुमुदैः कैरवैश्चिता व्याप्तास्तेषां तथोक्तानाम् । राज- १ ‘वर.’ २ ‘आश्रितानाम्’. ३. ‘आपूरितानाम्.’
४४ ऋतुसंहारे हंसा हंसविशेषाः स्थिता येषु तेषां तथोक्तानाम् । 'राजहं- सास्तु ते चञ्चुचरणैर्लोहितैः सिताः' इत्यमरः । मरकतमणे- र्भा इव भाः कान्तिर्यस्य तेन तथोक्तेन वारिणा जलेन भूषितानां शोभितानां तोयाशयानां जलाशयानामतिशयरू- पामत्यन्तसुन्दरां श्रियं शोभां वहति धत्त इत्यर्थः । मालि- नीवृत्तम् । तल्लक्षणं तु पूर्वोक्तम् ॥ शरदि १कुमुदसङ्गाद्२वायवो ३वान्ति शीता ४विगतजलदवृन्दा दिग्भागा मनोज्ञाः । विगतकलुषमम्भः ५श्यानपङ्का धरित्री विमलकिरणचन्द्रं व्योम ताराविचित्रम् २२ शरदीति ॥ शरदि शरत्काले कुमुदस्य कैरवस्य सङ्गा- त्संसर्गाच्छीताः शीतला वायवः पवना वान्ति वह- न्ति । दिग्भागा आशाप्रान्ताः । 'दिशस्तु ककुभः काष्ठा आशाश्च' इत्यमरः । विगतानि जलदानां मेघानां वृन्दानि समूहा येभ्यस्ते तथोक्ता अत एव मनोज्ञाः सुन्द- राः । अम्भो जलं विगतं विनष्टं कलुषं कालुष्यं यस्य १ 'कुसुम'. २ 'तोयात्.' ३ 'यान्ति.' ४ 'विशद.' ५ 'शालिपक्वा.' २२-२३ श्लोकयोर्मध्येऽयमंशो दृश्यते— करकमलमनोज्ञाः कान्तसंसक्तहस्ता वदनविजितचन्द्राः काश्चिदन्यास्तरुण्यः । रचितकुसुमगन्धि प्रायशो यान्ति वेश्म प्रबलमदनहेतौ सूक्तसङ्गोक्तरम्याः ॥ सुरतरुचिविलासाः सत्सखीभिः समेता असमशरविनोदं सूचयन्ति प्रकामम् । अनुगतमुखराभिः श्रोणिमध्ये विनोदं शरदि तरुणकान्ताः सूचयन्ति प्रमोदान् ॥
[Header] तृतीयः सर्गः । ४५
तत्तथोक्तम् । निर्मलमित्यर्थः । धरित्री क्षितिः । 'धरा धरित्री धरणिः क्षोणी ज्या काश्यपी क्षितिः' इत्यमरः । श्यानपङ्का शुष्कपङ्का व्योमाकाशं विमला निर्मलाः किरणा मयूखा यस्य तादृशश्चन्द्रो यत्र तत्तथोक्तम् । 'किरणोस्रमयूखांशु-' इत्यमरः । ताराभिर्नक्षत्रैर्विचित्रं सुन्दरमित्यर्थः । 'नक्षत्रमृक्षं भं तारा तारकाप्युडु वा स्त्रियाम्' इत्यमरः ॥ दिवसकरमयूखैर्बोध्यमानं प्रभाते वरयुवतिमुखाभं पङ्कजं जृम्भतेऽद्य । कुमुदमपि गतेऽस्तं लीयते चन्द्रबिम्बे हसितमिव वधूनां प्रोषितेषु प्रियेपु ॥ २३ ॥ दिवसेति ॥ प्रभाते प्रातःकाले दिवसकरस्य सूर्यस्य मयूखैः किरणैर्बोध्यमानं विकास्यमानमित्यर्थः । 'स्युः प्रभारुचि- स्त्वड्भाभाश्छविद्युतिदीप्तयः' इत्यमरः । पङ्कजं कमलमद्येदा- नीं जृभते शोभते । कुमुदं कैरवमपि चन्द्रबिम्बेऽस्तमस्ताचलं गते प्राप्ते सति प्रोषितेषु विदेशगतेषु प्रियेपु कान्तेषु वधूनां रमणीनां हसितमिव लीयते । क्षीणं भवतीत्यर्थः ॥ असितनयनलक्ष्मीं लक्षयित्वोत्पलेषु क्वणितकनककाञ्चीं मत्तहंसस्वनेषु । अधररुचिरशोभां वन्धुजीवे प्रियाणां पथिकजन इदानीं रोदिति भ्रान्तचित्तः ॥ २४ ॥ असितेति ॥ पथिकजनः पान्थजन इदानीं शरत्काले प्रि- १ 'म्लायते'. २ 'चन्द्रबिम्बम्'. ३ 'कान्तिम्'. ४ 'हंसी'. ५ 'प्रि- यायाः'. ६ 'भ्रान्तचेतः'. ५
४६ ঋतुसंहारे याणां प्रेयसीनामसितानां कृष्णानां नयनानां नेत्राणां लक्ष्मीं शोभाम् । 'कृष्णे नीलासितश्यामकालश्यामलमेचकाः' इ- त्यमरः । 'लोचनं नयनं नेत्रम्' इत्यमरः । उत्पलेषु कमलेषु क्वणिता क्वणन्ती या कनककाञ्ची सुवर्णरशना तां मत्तहंस- स्वनेषून्मत्तमरालशब्देष्वधरस्योष्ठस्य रुचिरा सुन्दरा या शो- भा तां बन्धुजीवे बन्धूककुसुमे लक्षयित्वा दृष्ट्वा भ्रान्तचित्तः सन्नेदिति । रोदनं करोतीत्यर्थः ॥ स्त्रीणां विहाय वदनेषु शशांकलक्ष्मीं कामं च हंसवचनं मणिनूपुरेषु । बन्धूककान्तिमधरेषु मनोहरेषु कापि प्रयाति सुभगा शरदागमश्रीः ॥२५॥ स्त्रीणामिति ॥ सुभगा सुन्दरा या शरदागमस्य श्रीः शोभा। शशाङ्कस्य चन्द्रस्य लक्ष्मीं शोभां स्त्रीणां सुन्दरीणां वदनेषु मुखे- षु । कामं रमणीयं हंसवचनं मरालविरुतं च मणिनूपुरेषु मणि- खचितमञ्जीरेषु । बन्धूकस्य बन्धूककुसुमस्य कान्तिं च मनोहरेषु सुन्दरेष्वधरेषु विहाय त्यक्त्वा कापि कुत्रचिदपि प्रयाति गच्छ- तीत्यर्थः । एतेन हेमन्तागमः सूचितः । वसन्ततिलकावृत्तम् ॥ विकचकमलवक्त्रा फुल्लनीलोत्पलाक्षी विकसितनवकाशश्वेतवासो वसाना । कुमुदरुचिरकान्तिः कामिनीवोन्मदेयं प्रतिदिशतु शरद्वश्चेतसः प्रीतिमग्र्याम् ॥२६॥ १ 'निनाय'. २ 'लक्ष्मीः.' ३ 'हास्ये विशुद्धवदने कुमुदाकरश्रीम्'; 'हास्ये विशुद्धवदने कुमुदाकरश्रीः'. ४ 'कान्तिः'. ५ 'विकसि- तनवकाशासंकुलालम्बिवस्त्रा'; कुसुमितवनकाशाव्याकुलालम्बिवासा'. ६ 'हासा'. ७ 'परिदिशतु'; 'उपदिशतु'.
चतुर्थः सर्गः । ४७ विकचेति ॥ विकचं विकसितं कमलमेव वक्त्रं मुखं यस्याः सा तथोक्ता । पक्षे विकचं कमलमिव वक्त्रं यस्याः सेति । फुल्लानि प्रफुल्लानि नीलोत्पलानीन्दीवराण्येवाक्षिणी यस्याः सा तथोक्ता । पक्षे फुल्लानि नीलोत्पलानीवाक्षिणी यस्याः सेति । विकसितं विकाशं प्राप्तं नवकाशं नूतनं काश- कुसुममेव श्वेतवासः श्वेतवस्त्रम् । पक्षे विकसितनवकाशमिव श्वेतवासो वसाना । कुमुदेन कैरवेण सदृशी रुचिरा कान्ति- र्यस्याः सा तथोक्ता । पक्षे कुमुदमिव रुचिरा कान्तिर्यस्याः सेयं शरदुन्मदोत्कटमदा कामिनीव प्रेयसीव वो युष्माकं चेतसश्चित्तस्याग्र्यामुत्तमां प्रीतिं प्रतिदिशतु ददात्वित्यर्थः । मालिनीवृत्तमेतत् ॥ इति भारद्वाजगोत्रोत्पन्नमणिरामविरचितया चन्द्रिकाख्यया व्याख्यया समेतः कविश्रीकालिदासकविवराग्रणीकृतावृत्तुसंहारे महाकाव्ये शरद्वर्णनं नाम तृतीयः सर्गः । चतुर्थः सर्गः । अथ क्रमप्राप्तं हेमन्तकालं वर्णयति— नवप्रवालोद्गमसंस्यरम्यः प्रफुल्ललोध्रः परिपक्वशालिः । विलीनपद्मः प्रपतत्तुषारो हेमन्तकालः समुपागतोऽयम् ॥ १ ॥ नवेति ॥ नवानां नूतनानां प्रवालानां पल्लवानामुद्गम १ 'पुष्प'. २ 'प्रिये'.
४८ ऋतुसंहारे उत्पत्तिः सस्यानि च तै रम्यो रमणीयः प्रफुल्लाः संफुल्ला लोध्रा लोध्रवृक्षा यस्मिन्स तथोक्तः । परिपक्वाः परिणताः शालयो धान्यानि यस्मिन्स तथोक्तः । विलीनानि म्लानानि पद्मानि कमलानि यस्मिन्स तथोक्तः । प्रपतत्तुषारो हिमं यस्मिन्स तथोक्तः । 'तुषारस्तुहिनं हिमम्' इत्यमरः । अयं हेमन्त- कालः समुपागत आगतः । प्राप्त इत्यर्थः । उपेन्द्रवज्रावृत्तम् । तल्लक्षणं तु—'उपेन्द्रवज्रा जतजास्ततो गौ' इति ॥ मनोहरैः कुङ्कुमरागरक्तै- स्तुषारकुन्देन्दुनिभैश्च हारैः । विलासिनीनां स्तनशालिनीना- मलंक्रियन्ते स्तनमण्डलानि ॥ २ ॥ मनोहरैरिति ॥ स्तनैः कुचैः शालन्ते शोभन्त इति स्तन- शालिन्यस्तासां तथोक्तानां विलासिनीनां विलासवतीनां स्तनमण्डलानि कुचमण्डलानि मनोहरैः कुङ्कुमस्य कश्मीर- जन्मनो रागेण रक्ताः पिञ्जरास्तैस्तथोक्तैः । 'अथ कुङ्कुमम् । 'कश्मीरजन्माग्निशिखं वरं बाह्लीकपीतने' इत्यमरः । तुषारो हिमम्, कुन्दः कुन्दकुसुमम्, इन्दुश्चन्द्रस्तैर्निभाः सदृशा- स्तैस्तथोक्तैर्हारैर्मुक्ताहारैरलंक्रियन्त इत्यर्थः ॥ न बाहुयुग्मेषु विलासिनीनां प्रयान्ति सङ्गं वलयाङ्गदानि । नितम्बबिम्बेषु नवं दुकूलं तन्वंशुकं पीनपयोधरेषु ॥ ३ ॥ १ 'चन्दनरागगौरैः,' 'कुङ्कुमरागपिञ्जरैः'. २ 'नालंक्रियन्ते'.
चतुर्थः सर्गः । ४९ नेति ॥ विलासिनीनां बाहुयुग्मेषु करयुगेषु वलयानि कटकान्यङ्गदानि केयूराणि तानि । 'कटको वलयोऽस्त्रियाम्' इत्यमरः । 'केयूरमङ्गदं तुल्ये' इत्यपि । सङ्गं संबन्धं न प्रयान्ति न प्राप्नुवन्ति । नवं नूतनं दुकूलं वस्त्रं नितम्बबि- म्बेषु कटिपश्चाद्भागेषु सङ्गं न प्रयाति । तनु सूक्ष्ममंशुकं वस्त्रं कञ्चुक्यादि पीनाः परिपुष्टा ये पयोधराः कुचास्तेषु सङ्गं न प्रयातीति वचनविपरिणामेनान्वयः ॥ काञ्चीगुणैः काञ्चने१रत्नचित्रै- र्नो भूषयन्ति प्रमदा नितम्बम् २ । न नूपुरैर्हंसरुतं भजद्भिः पादाम्बुजान्यम्बुजकान्तिभाँञ्जि ३ ॥ ४ ॥ काञ्चीति ॥ प्रमदाः स्त्रियो नितम्बं काञ्चनं स्वर्णं रत्नानि च तैश्चित्रैश्चमत्कृतैः काञ्चीगुणै रसनाकलापैर्नो भूषयन्ति नालंकुर्वन्ति । तथाम्बुजस्य कमलस्य कान्तिं भजन्ति तानि तथोक्तानि पादाम्बुजानि चरणकमलानि हंसरुतं मरालवि- रुतं भजद्भिर्नूपुरैर्मञ्जीरैर्न भूषयन्ति । उपजातिवृत्तमेतत् । तल्लक्षणं तु—'स्यादिन्द्रवज्रा यदि तौ जगौ गः । उपेन्द्र- वज्रा जतजास्ततो गौ । अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः ॥ इति ॥ गात्राणि कालीयकचर्चितानि सपत्रलेखानि मुखाम्बुजानि ४ । १ 'रत्न'. २ 'नितम्बान्'. ३ 'भान्ति'. ४ 'नखाम्बुजानि'.
५० ऋतुसंहारे शिरांसि कालागुरुधूपितानि कुर्वन्ति नार्यः सुरतोत्सवाय ॥ ५ ॥ गात्राणीति ॥ नार्यः स्त्रियः सुरतोत्सवाय गात्राणि शरीराणि कालीयकेन जायकेन चर्चितानि लिप्तानि । 'अथ जायकम् । कालीयकं च कालानुसार्यम्' इत्यमरः ॥ मुखा- म्बुजानि वदनकमलानि पत्रलेखा पत्राङ्गुलिः कपाले कस्तू- रिकापत्रावली तया सहितानि युक्तानि । 'पत्रलेखा पत्राङ्गु- लिरिमे समे' इत्यमरः । शिरांसि कालागुरुणा धूपितानि संजातधूपानि सुगन्धान्वितानि कुर्वन्तीत्यर्थः ॥ रतिश्रमक्षामविपाण्डुवक्त्राः संप्राप्तहर्षाभ्युदयास्तरुण्यः हसन्ति नोच्चैर्दशनाग्रभिन्ना- न्प्रपीड्यमानानधरानवेक्ष्य ॥ ६ ॥ रतीति ॥ रतिश्रमेण सुरतश्रमेण क्षामं कृशं विपाण्डु विपाण्डुवर्णं वक्त्रं यासां तास्तथोक्ताः । संप्राप्तो हर्षस्यानन्द- स्याभ्युदयो याभिस्तास्तथोक्तास्तरुण्यः कामिन्यो दशनानां रदनानामग्रैरग्रभागैर्भिन्नाः क्षतास्तथोक्तानत एव प्रपीड्यमा- नानधरानोष्ठानवेक्ष्य दृष्ट्वोच्चैरुच्चैः स्वरेण न हसन्ति हास्यं न कुर्वन्तीत्यर्थः । उच्चैर्हसन्ति तेऽधिकं पीड्यन्त इति भावः ॥ १ 'भवन्ति'. २ 'प्राप्तेऽपि हर्षाभ्युदये'. ३ 'प्रभिन्नरागान्'.