भारतकोश
संग्रह पर लौटें

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

चतुर्थोऽध्यायः २७ हस्तादिनवहस्तान्तं शैलं लिङ्गं विधीयते । हस्तवृद्ध्या नवैव स्युर्मध्ये वृद्धिर्यदृच्छया ॥ ५२ ॥ [ इति शैललिङ्गमानम् ] मृद्दारुलोहशैलानां दैर्घ्ये भक्ते जिनांशकैः [२४] । कुर्यात् षट्सार्धसप्ताष्टनवांशै(१)स्तरं शुभम् ॥ ५३ ॥ [ इति लिङ्गमानम् ] श्रीपर्णी (२)शिंशपाशोकशिरीषः (३)खादिनोऽर्जुनः । चन्दनः श्रीफलो निम्बो रक्तचन्दनबीजकौ ॥ ५४ ॥ कर्पूरो देवदारुश्च चन्दनः पारिजातकः । चम्पको मधुवृक्षश्च हिन्तालश्चागुरुः शुभाः ॥ ५५ ॥ [ इति लिङ्गवृक्षाः ] (४)निर्व्रणाः × × × सर्वे लिङ्गार्थे सौख्यदायकाः । ग्रन्थिकोटरसंयुक्तान् शाखोद्भूतान् परित्यजेत् ॥ ५६ ॥ [ इति वृक्षलक्षणम् ] निलयं दारुलिङ्गानामिष्टकादारुजं शुभम् । शैलजं धातुरत्नानां स्वरूपं चाधिकं शुभम् ॥ ५७ ॥ [ इति दार्वादिलिङ्गोचिताः प्रासादाः ] धातुजे रत्नजे बाणे दारुजे च स्वयम्भुवि । (५)गृह्नूनाधिकं वाऽपि (६)वक्तृलिङ्गिषु पार्थिवः ॥ ५८ ॥ हस्तमानं भवेल्लिङ्गं वेदहस्ते सुरालये । (७)ज्येष्ठलिङ्गे तु वेदांशं षट्त्रिंशं नवहस्तकम् ॥ ५९ ॥ पञ्चादिभूतवेदांशे प्रासादे हस्तसंख्यया । मध्यमं पञ्चमांशेन हस्तादिनवहस्तकम् ॥ ६० ॥ (१) '-र्विस्तरं' इति स्यात् । (२) 'शिंशपाऽशोकः' 'शिशुकाऽशोकः' इति वा स्यात् । (३) 'खादिरो-' इति स्यात् । (४) 'निर्व्रणाः' इत्यनन्तरं 'सुदृढा' इति त्रुटितं स्यात् । (५) 'गृहं न्यूनाधिकं' इति स्यात् । (६) 'वक्त्रलिङ्गेषु पार्थिवे' इति स्यात् । (७) 'ज्येष्ठलिङ्गन्तु वेदांशे षट्त्रिंशे' इति स्यात् ।

२८ रूपमण्डने (कृत्वादियुगल्त्वान्तं ?) हस्तसंख्ये शिवालये । षष्ठांशेन प्रकर्त्तव्यं हस्तादिनवहस्तकम् ॥ ६१ ॥ (१) कनिष्ठाज्येष्ठलिङ्गेषु मध्यममध्यमेषु च । प्रासादाः कन्यसे ज्येष्ठाः सीमामानमिदं स्मृतम् ॥ ६२ ॥ गर्भे पञ्चांशके ल्यंशो ज्येष्ठलिङ्गं तु मध्यमम् । नवांशं पञ्चभागं स्याद् गर्भार्धं कन्यसोदयम् ॥ ६३ ॥ [ इति प्रासादमानेन लिङ्गमानम् ] पद्मं शङ्खो ध्वजा छत्रं (२) खड्गशक्तिरुचामरे । वज्रं (३)दण्डोर्ध्वभागञ्च चक्रं मत्स्यौ घटः शुभः ॥ ६४ ॥ सौख्यदं चिह्न(४)मित्याद्यामावर्त्तो दक्षिणेऽपि यः । श्वेतरक्ता पीतकृष्णा रेखा वर्णेषु सौख्यदा ॥ ६५ ॥ [ इति लिङ्गे शुभचिह्नानि ] ब्रह्मांशश्चतुरस्रोऽधो मध्येऽष्टास्रस्तु वैष्णवः । पूजाभागः सुवृत्त(:) स्यात् पीठोर्ध्वं शङ्करस्य च ॥ ६६ ॥ [ इति लिङ्गे ब्रह्मादिभागाः ] पूजायामे कलांशे च (५)लिङ्गचित्रं दशांशकैः । पीठस्यार्धे द्विभागे च रेखा कार्या प्रदक्षिणे ॥ ६७ ॥ (मस्तकं मानमध्ये तु बाह्येऽङ्गे राष्ट्रविभ्रमः ।?) (६)छत्राभमष्टमांशेन (७)सार्धे द्वयंशषडङ्गके ॥ ६८ ॥ त्रपुषाभं विस्तारार्धं कुक्कुटाण्डं शिरो मतम् । त्रिभागे लिङ्गविस्तारे एकांशोनार्धचन्द्रकम् ॥ ६९ ॥ सार्धव्यंशेन तुल्यं स्यादष्टांशे बुद्बुदाकृति(?): । ऊर्ध्वाधोमध्यहीनं यल्लिङ्गं नाशकरं भवेत् ॥ ७० ॥ [ इति लिङ्गस्योर्ध्वादिभागाः ] (१) 'कनिष्ठ-' इति स्यात् । (२) 'खड्गः' इति स्यात् । (३) 'दण्डोऽर्ध-चन्द्रश्च' इत्यन्यत्र । (४) '-मित्याद्यमावर्त्तो' इति स्यात् । (५) 'लिङ्गं चिह्नं' इति स्यात् । (६) 'छत्राभमि'ति स्यात् । (७) 'सार्धद्व्यंशे षडंशके' इति स्यात् ।

चतुर्थोऽध्यायः २६ दीर्घे वा सन्धिरेखाभिर्युक्तकाकपदाकृति(:?) । लिङ्गं नान्याश्रितं लिङ्गमाश्रिताः सर्वदेवताः । स्थापयेन्मुख्यदेवस्य (१)स्कन्दमेढ्रान्तरे सुरान् ॥ ७१ ॥ इति घटितरत्नलिङ्गलक्षणम् । वाराणस्यां प्रयागे च गङ्गायाः सङ्गमेषु च । कुरुक्षेत्रे सरस्वत्यां बाणलिङ्गं सुखावहम् ॥ ७२ ॥ यानि वै नर्मदायाञ्च अन्तर्वेद्याञ्च सङ्गमे । केदारे च प्रभासे च बाणलिङ्गं सुखावहम् ॥ ७३ ॥ [ इति बाणोत्पत्तिस्थानम् ] त्रिपञ्चवारं यस्यैव तुलासाम्यं न जायते । तदा बाणः समाख्यातः शेषं पाषाणसम्भवम् ॥ ७४ ॥ [ इति बाणपरीक्षा ] स्थूलं (२)खण्डञ्च दीर्घञ्च स्फुटितं छिद्रसंयुतम् । बिन्दुयुक्तं च शूलाग्रं कृष्णं च चिपिटं तथा ॥ ७५ ॥ (३)चक्रञ्च मध्यहीनञ्च बहुवर्णञ्च यद् भवेत् । वर्जयेन्मतिमाँल्लिङ्गं सर्वदोषकरं यतः ॥ ७६ ॥ [ इति वर्ज्यलिङ्गानि ] ग्रन्थान्तरे ;— महानदीसमुद्(४)भूतसिद्धक्षेत्रादिसम्भवम् । पाषाणं परया भक्त्या लिङ्गवत् पूजयेत् सुधीः ॥ ७७ ॥ सदोषं गुणसंयुक्तं बाणं पूज्यं हि नित्यशः । बलालक्ष्मीं समाकृष्य भुज्यते बाणलिङ्गतः ॥ ७८ ॥ (५) सर्वं व्रततपो दानं तीर्थे देवेषु यत् फलम् । तत् फलं कोटिगुणितं प्राप्यते लिङ्गपूजनात् ॥ ७९ ॥


(१) 'स्कन्ध-' इति स्यात् । (२) 'खर्वञ्च' इति स्यात् । (३) 'वक्रञ्च' इति स्यात् । (४) '-भूतमि'ति स्यात् । (५) 'सर्वव्रततपोदानतीर्थदेवेषु' इति स्यात् ।

३० रूपमण्डने शतवारं कुरुक्षेत्रे सहस्रं जाह्नवीजले । लक्षवारं नर्मदायां कोटिं च कुरुजाङ्गले ॥ ८० ॥ कृत्वा स्नानं तथा पिण्डं होमं दानं च भोजनम् । (१)गुणिते कोटिवारञ्च सर्वपुण्यं लभेन्नरः ॥ ८१ ॥ (२) पद्मे वै शतहस्तेषु (३)बाणेषु च शतेषु च । स्वयम्भुवि सहस्रान्तं शिवतीर्थोदकं स्मृतम् ॥ ८२ ॥ [ इति बाणलिङ्गप्रशंसा ] लिङ्गायामसमं दैर्घ्ये उच्छ्रायः पीठिकासमः । (४)समभागयतो वृष(:)पञ्चभागोन्नतो भवेत् ॥ ८३ ॥ बाणलिङ्गे वृषं कुर्यात् (५)स्वयम्भूर्मुखमृन्मये । शते सहस्रलिङ्गे च वृषं न्यूनाधिकं विदुः ॥ ८४ ॥ [ इति वाहनविधिः ] विस्तारस्य विभागेन प्रणालं चाधिकं मतम् । (६)तदर्धे नम्रविस्तारं त्रिभागो जलवाहकः ॥ ८५ ॥ इति लिङ्गानि । पृथुत्वं पीठिकायास्तु लिङ्गायामसमं भवेत् । उदयो विष्णुभागान्ते उमावत् पीठिका स्मृता ॥ ८६ ॥ जात्यैकया विधातव्यं (७)नित्यमन्यन्योसंकुलम् । आहुः शैलद्रुमे केचित् पीठं पक्केष्टकामयम् ॥ ८७ ॥ उपर्युपरि पीठानां सन्धिरङ्गावसानके । (८)जालस्य मध्यमध्ये च कर्णे सन्धि न सन्धयेत् ॥ ८८ ॥ चतुरस्रादिवृत्तान्ता पीठिका दशधा स्मृता । उन्नता दर्पणाकारा बाह्ये मेखलयाऽन्विता ॥ ८९ ॥ (१) ‘गुणितं’ इति स्यात् । (२) ‘धातवे’ इति ‘घटे वै’ इति वा स्यात् । (३) ‘बाणे पञ्चशतेषु च’ इति स्यात् । (४) ‘समभागायतो वृषः’ इति स्यात् । (५) ‘स्वयम्भूमुख-’ इति स्यात् । (६) ‘तदर्धेनाग्रविस्तारं’ इति स्यात् । (७) ‘नेष्टमन्योन्य-’ इति स्यात् । (८) ‘नालस्य’ इति स्यात् ।

चतुर्थोऽध्यायः ३१ (१)त्रिंशोदंशस्तु पिण्ड्याश्च जगत्याश्च परिक्षिपेत् । ऊर्द्धाधो (जाड्यकुम्भस्य ?) तन्मध्ये कनकं भवेत् ॥ ९० ॥ (अर्द्धा ?) दैर्घ्यसमा दैर्घ्ये लिङ्गायामयता भवेत् । यस्य देवस्य या पत्नी पीठे तां परिकल्पयेत् ॥ ९१ ॥ इति पीठिका । मुखलिङ्गं त्रिवक्त्रं वा एकवक्त्रञ्चतुर्मुखम् । सम्मुखं चैकवक्त्रं स्यात्त्रिवक्त्रे पृष्ठतो नहि ॥ ९२ ॥ पश्चिमास्यं स्थितं शुभ्रं कुङ्कुमाभं तथोत्तरम् । याम्यं कृष्णं करालं स्यात् प्राच्यां दीप्ताग्निसन्निभम् ॥ ९३ ॥ सद्यो वामं तथाऽघोरं तत्पुरुषं चतुर्थकम् । पञ्चमञ्च तथेशानं योगिना(२)मथ गोचरम् ॥ ९४ ॥ इति मुखलिङ्गम् । वामे गणाधिपः स्थाप्यो दक्षिणे पार्वती तथा । नैर्ऋत्ये भास्करं विद्याद् वायव्ये च जनार्दनम् ॥ ९५ ॥ मातृभिर्मातृकास्थानं कारयेद्दक्षिणां दिशम् । सौम्ये शान्तिगृहं कुर्याद् यक्षाधीशांस्तु पश्चिमे ॥ ९६ ॥ इत्येकद्वारशिवायतनम् । (३) वामहस्ते गृहं कुर्याद् यशोध्वारञ्च दक्षिणे । मध्ये रुद्रः प्रतिष्ठाप्यो मातृस्थानञ्च दक्षिणे ॥ ९७ ॥ वामे देवी महालक्ष्मीरुमा (४) × भैरवस्तथा । (५)ब्रह्मविष्णुस्तथा रुद्रः पृष्ठदेशे तु कारयेत् ॥ ९८ ॥ इन्द्रादित्यौ च (६)कर्णौ च आग्नेयां स्कन्द एव च । ईशाने (७)विघ्नराजस्य धूम्र ईशानगोचरे ॥ ९९ ॥ इति चतुर्मुखशिवायतनम् । (१) 'त्रिंशदंशन्तु पिण्ड्याञ्च' इति स्यात् । (२) '-मध्यगोचरम्' इत्यन्यत्र । (३) 'वामे स्नानगृहं' इति स्यात् । (४) त्रुटितस्थाने 'च' 'वै' वा स्यात् । (५) 'ब्रह्मविष्णू तथा रुद्रं' इति स्यात् । (६) 'कर्णे च आग्नेय्यां' इति स्यात् । (७) 'विघ्नराजोऽस्य' इति स्यात् ।

३२ रूपमण्डने मातुलिङ्गञ्च नागेन्द्रं डमरुं बीजपूरकम् । नन्दी मुकुटशोभाढ्यः (१)सर्वाभरणभूषितः ॥ १०० ॥ खट्वाङ्गञ्च कपालञ्च डमरुं बीजपूरकम् । दंष्ट्राकरालवदनो महाकालस्तु दक्षिणे ॥ १०१ ॥ इति पूर्वप्रतिहारौ । तर्जनी च त्रिशूलञ्च डमरुं गजमेव च । हेरम्बो वामभागे स्याद् भृङ्गी दक्षिणतः स्मृतः ॥ १०२ ॥ गजं डमरुखट्वाङ्गं तर्जनीं वामहस्ततः । उभौ च दक्षिणे द्वारे भृङ्गी दक्षिणतः स्मृतः ॥ १०३ ॥ इति दक्षिणप्रतिहारौ । लिशूलं डमरुञ्चैव खट्वाङ्गं च कपालकम् । कपालं डमरुं दन्तं बीजपूरं तथा दधत् ॥ १०४ ॥ दुर्मुखः पश्चिमे वामे पाण्डुरो दक्षिणे तथा । [ इति पश्चिमप्रतीहारौ ] मातुलिङ्गं मृणालञ्च खट्वाङ्गं पद्मदण्डकौ ॥ १०५ ॥ सितो वामेऽसितो दक्षे उत्तरद्वारसंस्थितौ । पद्मदण्डञ्च खट्वाङ्गं मृणालं बीजपूरकम् ॥ १०६ ॥ [ इत्युत्तरप्रतीहारौ ] इति (२)शिवप्रतिहारौ । इति श्रीसूत्र × × मण्डनविरचिते वास्तुशास्त्रे रूपमण्डने शिवमूर्त्तिशिवलिङ्ग- लक्षणाधिकारश्चतुर्थोऽध्यायः ॥ ४ ॥ (१) 'सर्पाभरण-' इति स्यात् । (२) 'शिवप्रतीहाराः' इति स्यात् ।

पञ्चमोऽध्यायः [ शाक्ताधिकारः ] अथ गौर्याः प्रवक्ष्यामि प्रमाणं मूर्त्तिनिर्णयम् । चतुर्भुजा त्रिनेत्रा या सर्वाभरणभूषणा ॥ १ ॥ [ इति गौरीमूर्त्तेः सामान्यलक्षणम् ] अक्षसूत्राम्बुजं धत्ते दर्पणञ्च कमण्डलुम् । उमा-नाम्नी भवेन्मूर्त्तिर्वन्दिता त्रिदशैरपि ॥ २ ॥ [ इत्युमा ] (१)अक्षसूलां शिवां देवीं गणाध्यक्षकमण्डलुम् । पक्षद्वयेऽग्निकुण्डञ्च पार्वती पर्वतोद्भवा ॥ ३ ॥ [ इति पार्वती ] अक्षसूत्रं तथा पद्ममभयञ्च वरन्तथा । गोधासना(२)प्रियामूर्त्तिर्गृहे पूज्या श्रिये सदा ॥ ४ ॥ [ इति श्रिया ] कमण्डल्वक्षसूत्रञ्च बिभ्राणा वज्रमङ्कुशम् । गजासनस्थिता रम्भा कर्त्तव्या सर्वकामदा ॥ ५ ॥ [ इति रम्भा ] शूलाक्षसूत्रदण्डञ्च बिभ्राणा चैव चामरम् । तोतला कथिता चेयं सर्वकोपप्रणाशनी ॥ ६ ॥ [ इति तोतला ] नागपाशाङ्कुशौ (३)चैव भयदं वरदं करम् । त्रिपुरा नाम सा पूज्या वन्दिता त्रिदशैरपि ॥ ७ ॥ [ इति त्रिपुरा ] इति गौर्या मूर्त्तयः । (१) 'अक्षसूत्रं शिवं देवं गणाध्यक्षं' इति देवतामूर्त्तौ (८।४) । (२) 'श्रिया-' इति स्यात् । (३) 'चैवाभयदं' इति स्यात् । रूप-५

३४ रूपमण्डने वक्ष्यामि (१)गौर्यायतनं देवतानामनुक्रमात् । वामे सिद्धिः श्रिया याम्ये सावित्री चैव पश्चिमे ॥ ८ ॥ पृष्ठकर्णद्वये कार्या भगवती सरस्वती । ईशाने तु गणेशः स्यात् कुमारौ चाग्निकोणके ॥ ९ ॥ कुण्डलाभ्यामलंकृता चेश्वरस्य सदा प्रिया । मध्ये गौरी प्रतिष्ठाप्या सर्वाभरणभूषिता ॥ १० ॥ इति गौर्यायतनम् । अभयाङ्कुशपाशदण्डैर्जया चैव तु पूर्वतः । सव्यापसव्ययोगेन विजया (२)तामसा भवेत् ॥ ११ ॥ अभयाम्बुज(३)पोदण्ड अजिता चापराजिता । अभयवज्राङ्कुशदण्डैर्विभक्ता (४)मण्डलाऽपि च ॥ १२ ॥ अभयं शङ्खपद्मदण्डैर्मोहिनी स्तम्भिनी तथा । जया च विजया चैव अजिता त्वपराजिता ॥ १३ ॥ विभक्ता (५)विमला चैव मोहिनी स्तम्भिनी तथा । गौर्या आयतने श्रेष्ठा(६)अष्टा स्युर्द्वारपालिका(:) ॥ १४ ॥ इति गौर्या अष्टौ द्वारपालिकाः । दन्तञ्च परशुं पद्मं मोदकञ्च गजाननः । गणेशो मूषकारूढो बिभ्राणः सर्वकामदः ॥ १५ ॥ इति गणेशः । वरं तथाऽङ्कुशं दन्तं दक्षिणे (७)पार्श्वधाभयौ । वामे कपालं बाणाक्षं पाशं (८)कौमोदकी तथा ॥ १६ ॥ (१) ‘गौर्यायतनदेवतानामनुक्रमम्’ इति स्यात् । (२) ‘नाम सा’ इति स्यात् । (३) ‘-पाशदण्डैरजिता’ इति स्यात् । (४) ‘मङ्गला’ इति स्यात् । (५) पूर्वत्र (१२) ‘मङ्गला’ ‘मण्डला’ वेत्युपलम्भादत्रापि तयोरन्यतरदेव नाम स्यात् । (६) ‘अष्ट’ ‘अष्टौ’ वा स्यात् । (७) ‘पर्श्वधाभये’ इति स्यात्, एवञ्चात्र पर्श्वधशब्दः ‘पर्शु’- शब्दवत् परशुपर्यायो द्रष्टव्यः । (८) ‘कौमोदकीं’ इति साधुः ।

पञ्चमोऽध्यायः ३५ धारयन्तं करै रम्यैः पञ्चवक्त्रं त्रिलोचनम् । हेरम्बं मूषकारूढं कुर्यात् सर्वार्थकामदम् ॥ १७ ॥ इति हेरम्बः । लम्बोदरं त्रिनयनं पाशाङ्कुशधरं परम् । वरदाभयहस्तञ्च (१)लसत्कर्णं सचामरम् ॥ १८ ॥ [ इति वक्त्रतुण्डः ] वामाङ्गे गजकर्णं तु सिद्धिं दद्याच्च दक्षिणे । पृष्ठकर्णे तथा द्वौ च धूमको बालचन्द्रमाः ॥ १९ ॥ उत्तरे तु सदा गौरी याम्ये चैव सरस्वती । पश्चिमे यक्षराजश्च बुद्धिः पूर्वे सुसंस्थिता ॥ २० ॥ इति गणेशायतनम् । सर्वे च वामनाकाराः सौम्याश्च पुरुषाननाः । तर्जनीपरशुपद्ममविघ्नो दण्डहस्तकः ॥ २१ ॥ तर्जनीदण्डापसव्ये स भवेद् विघ्नराजकः । तर्जनीखड्गखेटञ्च दण्डहस्तः सुवक्त्रकः ॥ २२ ॥ तर्जनीदण्डापसव्ये दक्षिणे बलवान् भवेत् । तर्जनीबाणचापञ्च दण्डञ्च गजकर्णकः ॥ २३ ॥ तर्जनीदण्डापसव्ये गोकर्णः पश्चिमे स्थितः । (२)तर्जनीपद्माङ्कुशं दण्डहस्तः सुसौम्यकः ॥ २४ ॥ तर्जनीदण्डापसव्ये स चैव शुभदायकः । पक्षद्वारादिके सर्वे प्राच्यादिष्वष्ट संस्थिताः ॥ २५ ॥ इति गणेशप्रतिहाराः । कार्तिकेयं प्रवक्ष्यामि तरुणादित्यसन्निभम् । कमलोदरवर्णाभं कुमारं सुकुमारकम् ॥ २६ ॥ (१) ‘चलत्कर्णे’ इत्युचितः पाठो देवतामूर्त्तौ ( अ० ८, श्लो० २५) । (२) ‘तर्जनीपद्माङ्कुशं च’ इति देवतामूर्त्तौ ( अ० ८, श्लो० ३३) ।

३६ रूपमण्डने गण्डकैश्चीरकैर्युक्तं मयूरवरवाहनम् । (१)स्थापनीयाखेटनगरे भुजान् द्वादश कल्पयेत् ॥ २७ ॥ चतुर्भुजः (२)कर्पटे स्याद् वने ग्रामे द्विबाहुकः । दक्षिणे शक्तिपाशञ्च खड्गं बाणं त्रिशूलकम् ॥ २८ ॥ (३)वरदैश्चैकहस्तस्यादथवाऽभयदो भवेत् । एते दक्षिणतो ज्ञेयाः केयूर(४)वनकोज्ज्वलाः ॥ २९ ॥ धनुः पताका मुष्टिश्च तर्जनी तु प्रसारिता । (५)खेटकं ताम्रचूडञ्च वामहस्तेषु शस्यते ॥ ३० ॥ (६)द्विभुजश्च करे शक्तिर्वाम ऊर्ध्वे च (७)कर्कुटम् । चतुर्भुजे शक्तिपाशौ वामतो दक्षिणे त्वसिः ॥ ३१ ॥ वरदोऽभयदो वाऽपि (८)दक्षिणस्यात्तुरीयकम् । कार्तिकेयमनुं शुभ्रं कर्तव्यं सर्वकामदम् ॥ ३२ ॥ इति कार्तिकेयः । अक्षसूत्राम्बुपात्रे च अधोहस्ते प्रकारयेत् । सर्वांसामीदृशौ हस्तौ द्वावूर्ध्वौ कथयाम्यथ ॥ ३३ ॥ पद्मे युग्मे लीलया स्याल्लीला पद्मं च पुस्तकम् । लीलाङ्गी पाशपद्माभ्यां ललिता वज्रमङ्कुशम् ॥ ३४ ॥ पाशाङ्कुशौ लीलावती लीलया(:) पञ्च कीर्तिता(:) । इति पञ्च लीलाः । वरं त्रिशूलं खेटञ्च पानपात्रं च बिभ्रती । नीलकण्ठं तथा नागा महालक्ष्मीः प्रकीर्तिता ॥ ३५ ॥ [ इति महालक्ष्मीः ] (१) ‘स्थानीयखेट-’ इति स्यात् । (२) ‘खर्वटे’ इति स्यात् । (३) ‘वरदश्चैक- हस्तः’ इति स्यात् । (४) ‘-कनकोज्ज्वलाः’ इति ‘-कटकोज्ज्वलाः’ इति वा स्यात् । (५) ‘खेटकस्ताम्रचूडश्च’ इति साधुः । (६) ‘द्विभुजस्य’ इति स्यात् । (७) ‘कुक्कुटः’ इति साधुः । (८) ‘दक्षिणः स्यात्तुरीयकः’ इति स्यात् ।

पञ्चमोऽध्यायः ३७ वरं त्रिशूलं खेटञ्च पानपात्रञ्च बिभ्रती । क्षेमङ्करी तदा नाम क्षेमारोग्यप्रदायिनी ॥ ३६ ॥ [ इति क्षेमङ्करी ] कमण्डलुञ्च खड्गञ्च (१)मरुं पानञ्च पात्रकम् । हरसिद्धिस्तदा नाम सर्वेषां सिद्धिहेतवे ॥ ३७ ॥ [ इति हरसिद्धिः ] इति दुर्गा-मूर्तयः । गोधासना भवेद् गौरी लीलया हंसवाहना(ः) । सिंहारूढा भवेद् दुर्गा मातरः स्वस्ववाहनाः ॥ ३८ ॥ [ इति गौर्यादीनां वाहनानि ] चण्डिका क्रूररूपा च पिङ्गकेशा कृशोदरी । रक्ताक्षी (२)भयनेत्रा च निर्मांसा विकृतानना ॥ ३९ ॥ (३)चण्डिका क्रूररूपा च पिङ्गकेशा कृशोदरी । व्याघ्रचर्मपरीधाना भुजङ्गाभरणान्विता ॥ ४० ॥ कपालमालिनी कृष्णा शवारूढा भयावहा । त्रिशूलं खेटकं खड्गं धनुः पाशाङ्कुशौ शरः ॥ ४१ ॥ कुठारो दर्पणं घण्टा शङ्खं वस्त्रं गदा पविः । दण्डमुद्गर इत्येतैर्यथास्थानायुधैर्युता ॥ ४२ ॥ बाहुषोडशसंयुक्ता चण्डमुण्डविघातिनी । इति चामुण्डा । खड्गं पात्रञ्च मुशलं लाङ्गलञ्च बिभर्ति सा । आख्याता रक्तचामुण्डा देवी योगेश्वरीति च ॥ ४३ ॥ अधीते य इमं नित्यं रक्तदन्त्या वपुस्तवम् । तं सा परिचरेद्देवी पतिं प्रियमिवाङ्गना ॥ ४४ ॥ [ इति रक्तचामुण्डा.] (१) 'डमरुं पानपात्रकम्' इति स्यात् । (२) 'भीमनेत्रा' इति स्यात् । (३) इदमर्धं सम्पातायातं स्यात् ।

३८ रूपमण्डने अथ (१)कात्यायिनीं वक्ष्ये (२)दशहस्तां महुर्भुजाम् । तेजःप्रतापदां नित्यं नृपाणां सुखबोधिनी(म्) ॥ ४५ ॥ त्रिभङ्गीस्थानसंस्थानां महिषासुरसूदनीम् । (३)दक्षत्रिशूलं खड्गञ्च चक्रं बाणं च शक्तिकाम् ॥ ४६ ॥ खेटकं पूर्णचापञ्च पाशमङ्कुशमेव च । घण्टाञ्च वामतो दद्याद् दैत्यमूर्धजधृक्कराम् ॥ ४७ ॥ हृदि शूलेन निर्भिन्नं तिर्यग्दन्तविभूषितम् । रक्तरक्तीकृताङ्गञ्च रक्तविस्फारितेक्षणम् ॥ ४८ ॥ वेष्टितं नागपाशैश्च भ्रुकुटीभीषणाननाम् ॥ ४९ ॥ देव्यास्तु दक्षिणं पादं समं सिंहोपरि स्थितम् । किञ्चिदूर्ध्वं तथा (४)वाममङ्गुष्ठो महिषोपरि ॥ ५० ॥ इति श्रीकात्यायनीमूर्तिः । चण्डिकायाः प्रतीहारान् कथयिष्याम्यनुक्रमात् । वेताल(:)करटश्चैव पिङ्गाक्षो भ्रुकुटिस्तथा ॥ ५१ ॥ धूम्रकः कङ्कदश्चैव रक्ताक्षश्च सुलोचनः । दंष्ट्राननविक(५)टास्यसस्फुरद्दशनोज्ज्वलः ॥ ५२ ॥ बर्बरीव्यक्तदेहश्च रक्ताक्षश्च महाबलः । तर्जनी चैव खट्वाङ्गमूर्ध्वं डमरुदण्डकौ ॥ ५३ ॥ वेतालः सुसमाख्यातोऽपसव्ये करटः पुनः । अभयं खड्गखेटञ्च दण्डः पिङ्गललोचनः ॥ ५४ ॥ (६)वामापसव्ययोगेन भवेद् भ्रुकुटिनामकः । तर्जनी च त्रिशूलञ्च खट्वाङ्गं दण्ड एव च ॥ ५५ ॥ (१) 'कात्यायनीं' इति साधुः । (२) 'दशहस्तां सुदुर्जयम्' इति स्यात् । (३) 'दक्षे' इति स्यात् । (४) 'वाममङ्गुष्ठं' इति मात्स्ये (२६०।६५) देवतामूर्त्तौ च (न११७) पाठः । (५) '-टास्यः संस्फुर-' इति स्यात् । (६) 'वामेऽपसव्य-' इति स्यात् ।

पञ्चमोऽध्यायः ३६ रक्ताक्षो (१)वाम भेदोऽसौ वामे दक्षे त्रिलोचनः । दिग्द्वारपक्षयुग्मे च प्रशस्ता विघ्ननाशनाः ॥ ५६ ॥ इति चण्डिकाष्टकप्रतिहाराः । अष्टपत्राम्बुजस्योर्ध्वे लक्ष्मीः सिंहासने शुभे । विनायकवदासीना सर्वाभरणभूषिता ॥ ५७ ॥ ऊर्ध्वहस्तौ प्रकर्तव्यौ देव्याः पङ्कजधारिणौ । (२)वामे घृतघटं धत्ते दक्षिणे मातुलिङ्गकम् ॥ ५८ ॥ इति लक्ष्म्या मूर्तिः । क्षेत्रे कोल्हा(३)पुरे दैत्ये महालक्ष्मीर्यदाऽर्च्यते । लक्ष्मीवत् सा सदा कार्या रूपाभरणभूषिता ॥ ५९ ॥ दक्षिणाधःकरे पात्रमूर्ध्वे कौमोदकी भवेत् । वामोर्ध्वे खेटकं धत्ते श्रीफलं तदधःकरे ॥ ६० ॥ इति महालक्ष्मीः । एकवक्त्रा चतुर्हस्ता मुकुटेन विराजिता । प्रभामण्डलसंयुक्ता कुण्डलान्वितशेखरा ॥ ६१ ॥ अक्षाब्जवीणा पुस्तकं महाविद्या प्रकीर्तिता । [ इति महाविद्या ] वराक्षाब्जं पुस्तकञ्च सरस्वती शुभावहा ॥ ६२ ॥ [ इति सरस्वती ] हंसारूढा प्रकर्तव्या साक्षसूलकमण्डलुः । स्रुवं च पुस्तकं धत्ते ऊर्ध्वहस्तद्वये शुभा ॥ ६३ ॥ इति ब्राह्मी । माहेश्वरी प्रकर्तव्या वृषभासनसंस्थिता । कपालशूलखट्वाङ्गवरदा च चतुर्भुजा ॥ ६४ ॥ इति माहेश्वरी ।


(१) ‘नाम’ इति स्यात् । (२) ‘वामेऽमृतघटं’ इति स्यात् । (३) ‘पुरादन्ये’ इति स्यात् ।

४० रूपमण्डने कुमाररूपा कौमारी मयूरवरवाहना । रक्तवस्त्रधरा तद्वच्छूलशक्तिगदाधरा ॥ ६५ ॥ इति कौमारी । वैष्णवी विष्णुसदृशी गरुडोपरि संस्थिता । चतुर्बाहुश्च वरदा शङ्खचक्रगदाधरा ॥ ६६ ॥ इति वैष्णवी । वाराहीं तु प्रवक्ष्यामि महिषोपरि संस्थिताम् । (१)वाराहसदृशी घण्टानादा चामरधारिणी ॥ ६७ ॥ गदा चक्रगदा तद्वद्दानवेन्द्रविघातिनी । लोकानाञ्च हितार्थाय सर्वव्याधिविनाशिनी ॥ ६८ ॥ इति वाराही । इन्द्राणी त्विन्द्रसदृशी वज्रशूलगदाधरा । गजासनगता देवी लोचनैर्बहुभिर्वृता ॥ ६९ ॥ इति इन्द्राणी । दंष्ट्राला क्षीणदेहा च गर्त्ताक्षा भीमरूपिणी । दिग्बाहुः क्षामकुक्षिश्च मुशलं चक्रमार्गणौ ॥ ७० ॥ अङ्कुशं बिभ्रती खड्गं दक्षिणेष्वथ वामतः । खेटं पाशं धनुर्दण्डं कुठारं चेति बिभ्रती ॥ ७१ ॥ चामुण्डा प्रेतगा रक्ता विकृता(२)स्यादिभूषणा । द्विभुजा वा प्रकर्तव्या ( कृत्तिकाकार्यरान्विता ? ) ॥ ७२ ॥ इति चामुण्डा । वीरेश्वरस्तु भगवान् वृषारूढो धनुर्धरः । वीणाहस्तं त्रिशूलञ्च मातृणामग्रतो भवेत् । मध्ये च मातृका कार्या अन्ते (३)तेषां विनायकः ॥ ७३ ॥ इति सप्त मातरः । (१) 'वराह-' इति स्यात् । (२) '-स्याहिभूषणा' इति स्यात् । (३) 'तासां' इति स्यात् ।

पञ्चमोऽध्यायः ४१ क्षेत्रपालो विधातव्यो दिग्वासा घण्टभूषितः । कर्तिकां डमरुं बिभ्रद्दक्षिणे तु करद्वये ॥ ७४ ॥ वामे शूलं कपालञ्च मुण्डमालोपवीतकम् । (१)करोतिकटितोदारसर्पग्रन्थिसशेखरः ॥ ७५ ॥ इति क्षेत्रपालः । खट्वाङ्गमसिपाशञ्च शूलञ्च दधतः करैः । डमरुञ्च कपालञ्च वरदं भुजगं तथा ॥ ७६ ॥ आत्मवर्णसमोपेतसारमेयसमन्वितम् । ध्यात्वा जपेत् सुसंहृष्टः सर्वान् कामानवाप्नुयात् ॥ ७७ ॥ इति वटुकभैरवः । इति श्रीसूत्रधारमण्डनविरचिते रूपमण्डने वास्तुशास्त्रे गौर्याः प्रमाणमूर्तिलक्षणाधिकारः पञ्चमोऽध्यायः । (१) ‘करोटिनिकरोदार-’ इति देवतामूर्त्तौ पाठः ( अ० ८, श्लो० ६० ) । रूप—६

षष्ठोऽध्यायः अथ जैनमूर्त्तिलक्षणाधिकारप्रारम्भः [ चतुर्विंशतिरर्हन्तः ] एतस्या(१)मिषसर्पिण्या ऋषभोऽ(२)जिनसम्भवः । अभिनन्दस्तु (३)सुमूत्तिस्ततः पद्मप्रभाभिधः ॥ १ ॥ सुपार्श्वश्चन्द्र(४)प्रभेव(५)स्तुविधिस्त्याथ शीतलः । (६)श्रियांशो वासपूज्यश्च विमलोऽनन्ततीर्थकृत् ॥ २ ॥ धर्मशान्ति(७)कुप्यरोममल्लिश्च मुनि(८)सुवृतः । (९)नेमि-नेमि-पार्श्व-वीरश्चतुर्विंशति अर्हताः (?) ॥ ३ ॥ [ जिनानां वर्णाः ] (१०)रक्तो च पद्म(११)प्रभु....भवासंपूज्यौ (१२) शुक्लं च चन्द्रप्रभपुष्पदन्तौ । कृष्णौ पुनर्नेमि(१३) षुगुणेर्विलीनै (१४)श्रीमल्लिः पार्श्वे कनकत्विषोऽन्ये ॥ ४ ॥ [ यथाक्रमं जिनानां ध्वजाः ] वृषो गजोऽश्व(१५)जो मृगवक्त्रोंचोब्जः स्वस्तिकः शशी । मकरवत्सखङ्गीशमहिषः शूकरस्तथा ॥ ५ ॥ श्येनो वज्रं (१६)मृगछागो नन्द्यावर्त्तो घटोऽपि च । कूर्मो नीलोत्पलं शङ्खः (१७)फाणी सिंहोऽर्हतां ध्वजाः ॥ ६ ॥ (१) ‘-मवसर्पिण्याम्’ इति स्यात् । (२) ‘-जित-’ इति स्यात् । (३) ‘सुमति-’ इति स्यात् । (४) ‘-प्रभश्च’ इति स्यात् । (५) ‘सुविधिश्चाथ’ इति स्यात् । (६) ‘श्रेयांसो’ इति स्यात् । (७) ‘कुन्थरयो’ इति स्यात् । (८) ‘-सुव्रतः’ इति स्यात् । (९) ‘नमि-’ इति स्यात् । (१०) ‘रक्तौ’ इति स्यात् । (११) ‘-प्रभवासपूज्यौ’ इति स्यात् । (१२) ‘शुक्लौ’ इति स्यात् । (१३) ‘-मुनी च नीलौ’ इति स्यात् । (१४) ‘श्रीमल्लिपार्श्वौ’ इति स्यात् । (१५) ‘-श्वः प्लवगः क्रौञ्चोऽब्जः’ इति स्यात् । (१६) ‘मृगश्छागो’ इति साधु । (१७) ‘फणी’ इति स्यात् ।

षष्ठोऽध्यायः ४३ अथ नक्षत्राणि उत्तराषाढरोहिण्यौ मृगशीर्षं पुनर्वसुः । मघा चित्रा विशाखा चानुराधा मूलमेव च ॥ ७ ॥ पूर्वाषाढा श्रुतिश्चैव शतभिषोत्तरं पदम् । रेवती पुष्यभरणी कृत्तिका रेवती क्रमात् ॥ ८ ॥ अश्विनी श्रवणाश्विन्यौ तथा चित्रा विशाखिका । उत्तरा फल्गुनी चेति जिनानां जन्मभानि वै ॥ ९ ॥ अथ राशयः धनुर्वृषोऽथ (१)मिथुनौ मिथुनं सिंह(२)कन्यकैः । तुलावृश्चिकचापानि धनुर्मकर(३)कुम्भकैः ॥ १० ॥ (४)मीनामीने कर्कमेषा वृषो मीनोऽप्यजः क्रमात् । मकरो मेष-कन्ये तु तुला कन्येति राशयः ॥ ११ ॥ [ जिनोपासकयक्षनामानि ] (५)यक्षिणी स्याद् गोमुखो महायक्षस्त्रिमुखो यक्षनायकः । तुम्बरुः कुसुमश्चापि मातङ्गो विजयो जयः ॥ १२ ॥ ब्रह्मा यक्षेद् कुमारः षण्मुखपातालकिन्नराः । गरुडो गन्धर्वो यक्षेद् कुबेरो वरुणोऽपि च ॥ १३ ॥ भृकुटि(६)र्गोंऽभिधः पार्श्वे वा मातङ्गोऽर्हदुपासकाः [ जिनानां शासनदेवताः ] चक्रेश्व(७)र्यजिनबला दुरितारिश्च कालिका ॥ १४ ॥ महाकाली(८)शमा शांता (९)भृगुढद्यश्च सुतारिका । अशोका मानवी चण्डी विदिता चाङ्कुशी तथा ॥ १५ ॥ (१) मिथुनं' इति स्यात् । (२) '-कन्यके' इति स्यात् । (३) '-कुम्भकौ' इति स्यात् । (४) 'मीनो मीन-' इति स्यात् । (५) अत्र 'यक्षिणी'ति सम्पातायातं स्यात् ; 'स्याद् गोमुखो महायक्ष-' इतिक्रमेण पाठ्यम् । (६) '-गौमेघपार्श्वौ मातङ्गोऽ-' इति स्यात् । (७) '-र्यनितबला' इति देवतामूर्त्तौ (७।१४) । (८) 'श्यामा' इति स्यात् । (९) 'भृकुटिश्च' इति स्यात् ।

४४ रूपमण्डने कन्दर्पी निर्वाणी बाला धारिणी (१)धरणाप्रिया । नादरक्ता च गन्धर्वीऽम्बिका (२)पद्मवती तथा । सिद्धायका चेति जैन्यः(३)क्रमा वासवदेवताः ॥ १६ ॥ इति जिनानां (४)यक्षणीनामानि । [ एतेषां लक्षणम् , तत्र गोमुखः ] (५)रिषभो गोमुखो यक्षो(६)हेमवर्णो गजानना । (७)वराक्षसूत्रमाशाञ्च उभबीजपुरेषु च ॥ १७ ॥ [ चक्रेश्वरी ] चक्रेश्वरी हेमवर्णा तार्क्ष्यारूढाऽष्टबाहुका । वरं बाणं (८)चक्रं ( शक्तिशूलमनाकुलम् ? ) ॥ १८ ॥* [ अम्बिका ] सिंहारूढाऽम्बिका पीता(मलुंबि ?)नागपाशकम् । अङ्कुशञ्च तथा(९)पुत्रं तथा हस्तेष्वनुक्रमात् ॥ १९ ॥ [ पार्श्वः ] (१०)पार्श्वे स्यात् पार्श्वनानाथस्य कूर्मारूढा गजानना । बीजपूरोरगं नागं नकुलं श्यामवर्णकैः ॥ २० ॥ [ पद्मावती ] (११)रक्तायसावती पूर्णा कुर्कुटोरगचतुर्भुजा । (१२)पद्मपाशोंशो बीजपूरं हस्तेषु कारयेत् ॥ २१ ॥


(१) 'धरणप्रिया' इति स्यात् । (२) 'पद्मावती' इति साधु । (३) 'क्रमात् शासनदेवताः' इति स्यात् । (४) 'यक्षयक्षिणी-' इति स्यात् । (५) 'ऋषभे' इति स्यात् । (६) 'हेमवर्णो गजाननः' इति स्यात् । (७) 'वरोऽक्षसूत्रं पाशञ्च बीजपूरं करेषु च' इति स्यात् । (८) 'पाशचक्रं' 'चक्रपाशं' वा स्यात् । (९) 'फलं' इति स्यात् । (१०) 'पार्श्वः स्यात् पार्श्वनाथस्य कूर्मारूढो गजाननः' इति स्यात् । (११) 'पद्मा- वती रक्तवर्णा कुक्कुटस्था' इति स्यात् । (१२) 'पद्मं पाशाङ्कुशौ' इति स्यात् ।


  • अत्रैतदनन्तरं नेमिनाथोपासकस्य 'गोमेघ'यक्षस्य लक्षणं लेखकप्रमादात् त्रुटितम् इति सम्भाव्यते । यतोऽत्र ग्रन्थकृता संक्षेपबुद्ध्या जिनोपासकानां यक्षाणां यक्षिणीनाञ्च तावन्ति लक्षणान्यनभिधाय 'चतस्रोऽतिशयैर्युक्तास्तासां पूज्या विशेषतः' ( २९) इत्यग्रिमप्रतिज्ञाग्रन्थानु- सारेण आदिनाथ (ऋषभ)-नेमिनाथ-पार्श्वनाथ-महावीराणामुपासकान् गोमुख-गोमेध-पार्श्व- मातङ्गाह्नो यक्षान्, चक्रेश्वर्यम्बिका-पद्मावती-सिद्धायकाख्या यक्षिणीश्च लक्षयितुं प्रवृत्तम् इति विज्ञायते । नास्ति चास्य 'गोमेध'मलक्षयतः प्रतिज्ञाताथपरिसमाप्तिरित्यवसेयम् ।

षष्ठोऽध्यायः ४५ [ मातङ्गः ] महावीरस्य मातङ्गो (१)गजारूढो मितो भवेत् । दक्षिणे नकुलं हस्ते वामे स्याद् बीजपूरकम् ॥ २२ ॥ [ सिद्धायका ] सिद्धायका नीलवर्णा (२)सिद्धारूढाश्चतुर्भुजा । पुस्तकं चाभयं (३)दत्ते बाणं वै मातुलिङ्गकम् ॥ २३ ॥ अथ द्वितीयभेदेन चक्रेश्वरी द्वादशभुजाष्टचक्राणि वज्रयोर्द्वयमेव च । मातुलिङ्गाभये चैव पद्मस्था गरुडोपरि ॥ २४ ॥ [ जिनेषु चतुर्णां प्राधान्यकथनम् ] जिनस्य मूर्त्तयोऽनन्ताः पूजिताः (४)सौख्यसर्वदा । चतस्रोऽतिशयैर्युक्तास्तासां पूज्या विशेषतः ॥ २५ ॥ [ एषां नामानि ] श्रीआदिनाथो नेमिश्च (५)पर्वे वीरश्चतुर्थकः । (६)चक्रे चर्याम्बिका पद्मावती सिद्धायकेति च ॥ २६ ॥ कैलासं सोमशरणं सिद्धिवर्तिं सदाशिवम् । सिंहासनं धर्मचक्रमुपरीन्द्रातपत्रकम् ॥ २७ ॥ [ जिनप्रतीहारनामानि ] इन्द्र इन्द्रजयश्चैव माहेन्द्रो विजयस्तथा । धरणेन्द्रः पद्मकश्च सुनाभः सुरदुन्दुभिः ॥ २८ ॥ इत्यष्टौ च प्रतीहारा वीतरागे तु शान्तिदाः । [ प्रतीहाराणामायुधानि ] फलं वज्राङ्कुशौ दण्डमिन्द्र(७)मिन्द्रजयस्तथा ॥ २९ ॥ द्वौ वज्रौ फलदण्डश्च माहेन्द्रो विजयोद्भवः । ( तदा युद्धयोगाद्भव्रा त्रिपञ्चादिफणोर्ध्वगाः ? ) ॥ ३० ॥ (१) 'गजारूढः सितो' इति स्यात् । (२) 'सिंहारूढा चतुर्भुजा' इति स्यात् । (३) 'धत्ते' इति स्यात् । (४) 'सर्व सौख्यदाः' इति स्यात् । (५) 'पार्श्वो वीरश्चतुर्थकः' इति स्यात् । (६) 'चक्रेश्वर्यम्बिका' इति स्यात् । (७) 'इन्द्रजय-' इति स्यात् ।

४६ रूपमण्डने धरणेन्द्रः पद्मकश्च सर्वे शान्तिकराः स्मृताः । यक्षरूपाधिकाराश्च निधिहस्ताः (१)शुभोदराः ॥ ३१ ॥ (२)सुनाभ्यो दुन्दुभश्चैव क्रमेणाष्टौ प्रकीर्तिताः । इत्यष्टौ च प्रतीहारा वीतरागाः प्रकीर्तिताः ॥ ३२ ॥ (३)नागरादिपूरग्रामे सर्वे विघ्नप्रणाशनाः । छत्रत्रयं जिनस्यैव रथिकाभिस्त्रिभि(४)र्युताः ॥ ३३ ॥ अशोकद्रुमपत्रैश्च देवदुन्दुभिवादिकैः । सिंहासनमसुराद्यो गजसिंहा विभूषिताः ॥ ३४ ॥ मध्ये च कर्मचक्रं च तत्पार्श्वयोश्च यक्षिणी । द्वितालविस्तराः कार्या बहिः परिकरस्य तु ॥ ३५ ॥ दैर्घ्ये तु प्रतिमा तुल्या तयोरूर्ध्वे तु तोरणम् । वाहिकाबाह्यपक्षे तु (५)गोसिंहैरलंकृताः ॥ ३६ ॥ कर्तव्या द्वारशाखा च तत्तन्मूर्तिगसंयुता । तोरणं पञ्चधा प्रोक्तं रथिकार्य च देवताः ॥ ३७ ॥ ललितं चेतिकारं त्रिरथं वलितोदरम् । श्रीपुञ्जं पञ्चरथिकं सप्तावानन्दवर्धनम् ॥ ३८ ॥ रथिकायां भवेद् ब्रह्मा विष्णुरीशश्च चण्डिका । जिनो गौरी गणेशश्च स्वे स्वे स्थाने सुखावहाः ॥ ३९ ॥ इति परिकरः । श्रीमद्देशे (६)मैदपाठाभिधाने (७)क्षेलाख्येऽभूत् सूत्रधारो वरिष्ठः । पुत्रो ज्येष्ठो मण्डनस्तस्य तेन प्रोक्तं शास्त्रं मण्डनं रूपपूर्वम् ॥ ४० ॥ इति श्रीसूत्रधारमण्डनविरचिते वास्तुशास्त्रे रूपमण्डने (८)षष्ठमोऽध्यायः समाप्तः । ॥ समाप्तश्चायं ग्रन्थः ॥ (१) 'शुभोदयाः' इति स्यात् । (२) 'सुनामो' इति स्यात् । (३) 'नगरादिपुर-' इति स्यात् । (४) '-र्युतम्' इति स्यात् । (५) 'गोसिंहैः समलंकृताः' इति स्यात् । (६) 'मेद-' इति स्यात् । (७) 'क्षेताख्योऽभूत्' इति स्यात् । (८) 'षष्ठोऽध्यायः' इत्येतन्मात्रं साधु ।