रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
[ ८ ] विषयाः पत्राङ्काः | विषयाः पत्राङ्काः चतुर्भुजकार्त्तिकेयः ... १५३ | महावाणी ... १५९ पञ्चलीलयाः ... १५४ | भारती ... १६० नवदुर्गाः— | सरस्वती ... ,, महालक्ष्मीः ... १५५ | आर्या ... ,, नन्दा ... ,, | ब्राह्मी ... ,, क्षेमङ्करी ... ,, | महाधेनुः ... ,, सर्वती ... ,, | वेदगर्भा ... ,, महरण्डा ... ,, | ईश्वरी ... ,, भ्रमणी ... १५६ | महालक्ष्मीः ... ,, सर्वमङ्गला ... ,, | महाकाली ... ,, रेवती ... ,, | महासरस्वती ... ,, हरसिद्धिः ... ,, | भद्रकाली ... ,, क्षेत्रपालः ... ,, | चण्डी ... १६१ मातरः— | चण्डिकाप्रतीहाराः ... १६२ ब्राह्मी ... १५७ | लक्ष्मीः ... ,, माहेश्वरी ... ,, | महालक्ष्मीः ... १६४ कौमारी ... ,, | कात्यायनी ... ,, वैष्णवी ... १५८ | नृत्ये संस्थानवैशिष्ट्यम् ... १६५ वाराही ... ,, | हस्तादीनां रसाभिव्यञ्जकता ... १६६ ऐन्द्री ... ,, | नृत्ये आस्यादीनां प्रातिस्विकविषय- चामुण्डा ... ,, | निरूपणम् ... १६७ चण्डिका ... १५९ | ग्रन्थकृतः स्वाहङ्कारपरिहारः ... ,, द्वादश सरस्वत्यः— | ग्रन्थसमाप्तिः ... ,, महाविद्या ... १५९ | विषयानुक्रमणी समाप्ता ।
ग्रन्थकर्त्तुर्मङ्गलाचरणम् [आदौ यः सूत्रधारस्त्रिभुवनरचनासूत्रलक्ष्यस्य(स्व?)रूपो येनेदं देवदैत्योरगधरणितलं पर्वताकाशरूपम् । सृष्टं चित्रं विचित्रं जगदिति सकलं जन्तुवृत्तादिसर्वं वन्द्योऽसौ सृष्टिकर्त्ता सुरदनुजनरैः सर्पविद्याधराद्यैः ॥]
इस पृष्ठ पर कोई पाठ (टेक्स्ट) उपलब्ध नहीं है, यह एक रिक्त पृष्ठ (blank page) है।
देवतामूर्त्तिप्रकरणम् प्रथमोऽध्यायः ॐ नमो गणेशाय [ अथ शिलापरीक्षा ] धातुरत्नशिलाकाष्ठचित्रलेपसमुद्भवम् । यद्रूपं विधिवत्तस्य विधिं वक्ष्यामि वस्तुनः ॥१॥ एकवर्णा घना स्निग्धाऽऽमूलाग्रादार्जवान्विता । अजघण्टारवाघोषा सा पुं'शिला प्रकीर्त्तिता ॥२॥ स्थूलमूला कृशाग्रा या कांस्यतालसमध्वनिः । स्त्रीशिला कृशमूलाऽग्रस्थूला षण्ढेति निःस्वना ॥३॥ २ । अजघण्टारवाघोषेति । अजगललम्बिन्या घण्टाया रव इवाऽऽघोषो रवो यस्याः सेत्यर्थः । सा च किङ्किण्यपरपर्याया क्षुद्रा घण्टिका । यच्च मयमते 'गजघण्टारवे'ति (अ० ३३, ८ श्लो० ) पाठस्तस्यापि क्षुद्रघण्टेत्यर्थः, गजगले तादृश्या एव घण्टिकाया बन्धनप्रसिद्धेः । अत्र च किं मयमतीयपाठदर्शनाद् गजघण्टैव लेखकप्रमादादिहाजघण्टात्वमापन्ना, अत्रत्यपाठस्वरसाद्गज- घण्टैव वा मयमते गजघण्टात्वमापन्ना, उतोभयमेव पृथक् प्रमाणमित्यपि च न सुनिर्णयम् । काश्यपशिल्पे तु "घण्टाध्वनिसमोन्नादे"ति (अ० ४९, ५५ श्लो०) पाठः । ३ । स्थूलमूलेति । कांस्यतालसमध्वनिरिति कांस्यनिर्मितेन तालेन वाद्यभाण्डविशेषेण समस्तुल्यो ध्वनिर्यस्याः सा । तथाच मयमते— स्थूलमूला कृशाग्रा या कंसतालसमध्वनिः । स्त्रीशिला ... ... ... ॥ इति । (अ० ३३, ९ श्लो०) कंसं कांस्यञ्च पर्यायशब्दौ । यद्यपि— तालः करतलेऽङ्गुष्ठमध्यमाभ्याञ्च सम्मिते । गीतकालक्रियामाने तालः खड्गादिमुष्टिषु ॥
२. अध्याय ३-४: वैष्णव प्रतिमा लक्षण (दशावतार, चतुर्विंशति केशव रूप व आयुध)
४ देवतामूर्त्तिप्रकरणम् [ शिलाभेदेन कर्मभेदः ] लिङ्गानि प्रतिमा मिश्रं कुर्यात् पुंशिलया बुधः । युञ्ज्यात् स्त्रीशिलया सम्यक् पीठिकाशक्तिमूर्त्तयः ॥४॥ द्रुमभेदे करास्फाले तालस्तु हरितालके । वाद्यभाण्डे च कांस्यस्य ... ॥ इति विश्वदर्शनात् तालशब्देनैव कांस्यनिर्मितवाद्यविशेषलाभात् कांस्यपदं ( मयमते च कंसपदं ) व्यर्थम्, तथापि 'सम्भेदनान्यतरवैयर्थ्यमि'ति न्यायात् 'नयनाश्व' इत्यादिवद् विशेषप्रतिपत्त्यर्थं वा तदुपात्तमिति ज्ञेयम् । स्पष्टमाह काश्यपशिल्पे— “तालशब्दसमाकारा दीर्घा या सा शिला स्त्रियः” इति । (अ० ४९, ५६ श्लो०) निःस्वनेति । निर्नास्ति स्वनो यस्याः सा निःस्वना शब्दहीना । व्यक्तमाह—काश्यपीये— “अस्विन्न झर्झरी इ(रु)क्षा स्वरहीना नपुंसका” इति । (अ० ४९, ५६ श्लो०) मयमते त्वविकलोऽयं श्लोकः परिदृश्यते । एवं मिश्राभ्यामाकृतिस्वराभ्यां भेद उक्तः । केवलया आकृत्यापि स्त्रीपुंनपुंसकादिभेदमाह काश्यपः— चतुरस्रा च वस्वस्रा स्त्रीशिलेति प्रकीर्त्तिता ॥ आयतास्रा च वृत्ता च दशाष्टादशकोणका । पुंलिङ्गा सा शिला ख्याता सुवृत्ता सा नपुंसका ॥ इति । (अ० ४९, ५७-५८ श्लो०) शिलानां वृद्धाबालायुवत्यादिसंज्ञा, अन्ये च विशेषाः काश्यपशिल्पे (अ० ४९) मयमते (अ० ३३) आग्नेये (अ० ५३) च द्रष्टव्याः । ४ । लिङ्गं त्रिविधं निष्कलं सकलं मिश्रञ्चेति । तत्र निष्कलं लिङ्गाख्यम्, सकलं प्रतिमा, सा च प्रस्तावाच्छिवस्यैव । मिश्रञ्च तयोर्मिश्रणादुत्पन्नं मुखलिङ्गाख्यम् । तथा चोक्तं मयमते— निष्कलं सकलं मिश्रं लिङ्गञ्चेति त्रिधा मतम् । निष्कलं लिङ्गमित्युक्तं सकलं बेरमुच्यते ॥ मुखलिङ्गं तयोर्मिश्रं लिङ्गार्चाकृतिसन्निभैः । बिम्बमूर्त्तिः शरीराभा विश्वमूर्त्तिस्वरूपकैः ॥
प्रथमोऽध्यायः ५ षण्ढोपलेन कर्तव्यं (व्ये?) ब्रह्मकूर्मशि(ले त ?) लैस्तथा । प्रासादनल(तल ?)कुण्डादि कर्म कुर्याद्विचक्षणः ॥५॥ छन्नदेहप्रतिच्छन्दप्रतिमाङ्गैस्तु नामभिः । दृश्यो देवसमाख्यातः ... ... ॥ (अ० ३३, १-३ श्लो०) एवं त्रिविधमपि लिङ्गं पुंशिलया कार्यमित्याह—लिङ्गानीति। काश्यपशिल्पे तु 'पुंशिलाभिः कृतं लिङ्गम्' (अ० ४९, ५९ श्लो०) इत्यविशेषेण लिङ्गमात्रोल्लेखः कृतः । व्यक्तमाह मयमते— “सकलं निष्कलं मिश्रं कुर्यात् पुंशिलया सुधीः” इति । (अ० ३३, १० श्लो०) पीठिकेत्यादि—पीठिका पिण्डिका गौरीपीठमित्यर्थः, न तु पादशिला, पुंशिलाभिः कृतं लिङ्गं स्त्रीशिलाभिस्तु पिण्डिका । नपुंसकशिलाभिस्तु पादाधारं समाचरेत् ॥ (अ० ४९, ५९-६० श्लो०) इति काश्यपशिल्पे, बिम्बार्थं पुंशिला ग्राह्या पीठार्थं स्त्रीशिला तथा । नपुंसकशिला पादशिलार्थमखिले मता ॥ इति । (अ० १, २९ श्लो०) शिल्परत्नोत्तरभागे च पादशिलापीठशिलयोर्द्वयोः पृथग्जातीयशिलासाध्यत्वेन निर्देशात् । लौकिक- दृष्ट्यापि युक्तमचेतनस्य पादाधारस्यैव क्लीबशिलया घटनम्, योनिपीठस्य च शक्तिस्वरूपस्य स्त्रीशिलया निर्माणमिति । ग्रन्थकृता तु वक्ष्यमाणश्लोके ब्रह्मकूर्मशिलैरित्युक्त्वा पादाधारशिला संगृहीतेति ज्ञेयम् । शक्तिमूर्त्तयः स्त्रीदेवताप्रतिमाः । तथा च मयमते— “युञ्जीयात् स्त्रीशिलाः सम्यक् नारीवेरञ्च पिण्डिका” (अ० ३३, १० श्लो०) नारीवेरञ्च पिण्डिकेति नारीवेरे स्त्रीप्रतिमायां पिण्डिकायां गौरीपीठे च इत्यर्थः । अत्र मूर्त्तय इति द्वितीयार्थे प्रथमा । ५। षण्ढ
६ देवतामूर्त्तिप्रकरणम् ब्रह्मभागप्रवेशञ्च ज्ञात्वा लिङ्गस्य चोच्छ्रयम् । न्यसेद् ब्रह्मशिलां विद्वान् सम्यक् कर्मशिलोपरि ॥ (अ० ५२, १४ श्लो०) इति । अत्र च कथं ब्रह्मशिलैवोपरिष्टात् स्थापनीया न कर्मशिला, कर्मशिला चाधस्तादेव स्थापनीया न ब्रह्मशिलेति प्रश्ने तयोरौत्तराधर्यं कारणं परावरत्वमेवेत्युत्तरयिष्यन् स्थापन- परिपाटीमाह मात्स्ये— अधः कूर्मशिला प्रोक्ता सदा ब्रह्मशिलाऽधिका । उपर्य्यवस्थिता तस्या ब्रह्मभागाधिका शिला ॥ (अ० २६६, ५ श्लो०) इति । अधः कूर्मशिला प्रोक्ता (तस्याः) अधिका ब्रह्मभागाधिका शिला ब्रह्मशिला तस्या उपरि अवस्थितेत्यन्वयः, ब्रह्मभागाधिक्यमेव तस्या उपर्य्यवस्थाने हेतुरिति भावः । एवञ्च मूलग्रन्थे 'कर्त्तव्यम् इति, ब्रह्मकूर्मशिलैरि'ति चापपाठौ ; शुद्धः पाठस्तु 'कर्त्तव्ये ब्रह्मकूर्मशिले' इति, मयमते तथा पाठदर्शनात्, कोषादौ शिलार्थकस्य 'शिल'शब्दस्यानुपलम्भा- दर्थासङ्गतेश्च । न हि ब्रह्मशिल्या कूर्मशिल्या वा किञ्चित् क्रियते अपि तु ते एव क्रियेते इति कर्मकरणयोरविवेक एवात्रासङ्गतिः । तथा चानयोः कर्त्तव्यतामाह—समराङ्गणसूत्रधारे— याताभिषेक (यावताभ्यधिका ?) ब्रह्मशिला ब्रह्मांशतो भवेत् । ताव(त्या ? ता)भ्यधिका कार्या तस्याः कर्मशिला बुधैः ॥ इति । (अ० ७०, १४० श्लो०) अन्यत्र च— “नपुंसकशिलाभिस्तु कर्त्तव्या ब्रह्मणः शिलाः” इति ब्रह्मशिलाया षण्ढोपलकर्त्तव्यतामुपदिशन् सर्वान् संशयानपुदति । 'प्रासादनलकुण्डादी'ति पाठोऽपि प्रामादिक इव प्रतिभाति, अन्यत्र तादृशपाठानुपलम्भा- दर्थासङ्गतेश्च । न च नालमिति पाठः निर्माल्यद्वारलक्षणस्य तस्य पुंशिल्या कर्त्तव्यतोपदेशात् । तथा च काश्यपे— “पुंशिल्या तु कर्तव्यं नालं तु द्विदलान्वितम्” इति । ( अ० ८० १३ श्लो० ) तस्माद् ग्रन्थान्तरसंवादात् 'तल' इत्येव पाठो बन्धनीमध्ये परिकल्पितः । यद्यपि 'कुड्यादी'ति मयमते पाठस्तथापि साधकबाधकयुक्त्यभावाद् भवेदपि 'कुण्डादीत्य'पि पाठ इति बुद्ध्या पाठान्तरं नोपकल्पितम् । मयमतेऽपि 'नन्द्यावर्त्तशिले' इत्यपपाठ इव प्रतिभाति, द्वित्वानुपपत्तेः, 'नन्द्यावर्त्तशिला' इति शुद्धः पाठः । यथोक्तशिलाभिर्यथोक्तकार्याकरणे दोषमाह काश्यपः— “कृतञ्च विपरीतं यत्तत् सदा कर्तृनाशनम्” (अ० ४९, ६० श्लो०) विपरीतमिति यदुक्तं तदेव विवृण्वन्नाह शिल्परत्न उत्तरभागे— स्त्रीशिलाकल्पिते लिङ्गे राष्ट्रं राजा च नश्यति । पुंशिलाकल्पिते पीठे लिङ्गे पीठे च षण्डके ॥
shape of द्ध with subscript. Wait, let's look at the very beginning of that word: "शिलाया ऊर्द्ध्वोधोज्ञानार्थं" vs "शिलाया ऊर्ध्वाधोज्ञानार्थं". Wait, let's search if this exact commentary text is known: The text is from a commentary on Shilparatna or Kashyapa or similar. Look at the main verse: "प्राक् पश्चाद्दक्षिणे सौम्ये स्थिता भूमौ तु या शिला । प्रतिमायाः शिरस्तस्याः कुर्यात् पश्चिमदक्षिणे ॥६॥" This is Shilparatna, Chapter 14, verse 6! Wait! Let's check line 7: "तथा च शिल्परत्ने—" -> no, this text is quoting Shilparatna, so this work itself is NOT Shilparatna. What is this work? Header: "प्रथमोऽध्यायः" (Chapter 1). Main verse 6: "प्राक् पश्चाद्दक्षिणे सौम्ये स्थिता भूमौ तु या शिला । प्रतिमायाः शिरस्तस्याः कुर्यात् पश्चिमदक्षिणे ॥६॥" This is from प्रतिमालक्षणम् or विष्णुसंहिता or हयशीर्षपञ्चरात्र or शिल्परत्न or तन्त्रसमुच्चय? Wait, Tantrasamuccaya! Let's check Tantrasamuccaya, Patala 1 or 2? In Tantras
८ देवतामूर्त्तिप्रकरणम् स्निग्धा शल्यसहा गभीरनिनदा दिश्याहिताग्रा शिला। ग्राह्या बिम्बविधौ ... ... ... ॥ इति। (अ० १४, ११ श्लो०) दिश्याहिताग्रेति दिशि आहितम् अर्थात्कवस्थितम् अग्रं यस्यास्तादृशीत्यर्थः। दिक्- शब्दश्रुत्या जायमानं जनानां कोणभ्रममपनयन् स्पष्टमाह तत्रैव ग्रन्थकारः— “दुःस्पर्शापदिशं निवेशितशिरोदेशा विवर्ज्या शिला” इति। (श्लो० १०) अपदिशमिति अन्तरालं कोणमित्यर्थः। तथा च अमरः— “क्लीबाव्ययं त्वपदिशं दिशोर्मध्ये विदिक् स्त्रियाम्” इति। कोणनिवेशितशिराः शिला वर्ज्येत्यर्थः। “कोणशीर्षा शिला त्याज्या भर्तुर्दुःखकरी यतः” (अ० १४, ४ श्लो०) इति च स्पष्टात् स्पष्टतरं तत्रैव। ग्रन्थकृता कृतः समाधिस्तु न युक्तिं सहते। तथा हि—पूर्वोक्तैः काश्यपमयशिल्परत्नादिवचनै- रैकमत्येन शिलायाः प्रागुदगग्रत्वं प्रतिपद्यते, एवञ्च प्रागग्रया शिलया प्रागग्रा, उदगग्रया शिलया चोदगग्रैव प्रतिमा युक्तितः करणीयेति किमिति तं पन्थानमुत्सृज्य ग्रन्थकृता नवीन इव पन्थाः समवलम्बितः किं वा तत्र प्रमाणं तेनोपलब्धमिति न जानीमः। यद्यप्यस्मत्सूचितेऽर्थे स्फुटं कमपि ग्रन्थान्तरसंवादं नोपलभामहे, तथाऽप्येकत्र दृष्टः शास्त्रार्थो बाधकमन्तरेणान्यत्रापि तथेति न्यायादयमर्थः समर्थयितुं शक्यते। तथा हि, दारवप्रतिमाया उपादानस्य वृक्षस्य यथामूलं यथोर्ध्वं यथापार्श्वञ्च प्रतिमाया अपि शिरःपादादिकं कुर्यादित्युप- लभ्यते। तथा च बृहत्संहितायाम्— लिङ्गं वा प्रतिमा वा यथादिशं यस्मात्। तस्माच्चिह्नयितव्या दिशो द्रुमस्योर्ध्वमथ वाऽधः ॥ ( अ० ५८, ७ श्लो० ) अस्यायमर्थः—लिङ्गं शिवलिङ्गं वा प्रतिमा अर्चा वा यस्माद् द्रुमवद् वृक्षवत् स्थाप्या तस्माद्धेतोर्द्रुमस्य दिश आशाश्चिह्नयितव्याः, एवमूर्ध्वाधरौ भागावपि चिह्नयितव्यौ। अयमर्थः— द्रुमस्य यः पूर्वाभिमुखो भागः स एव प्रतिमायाः पूर्वभागः कार्यः। एवं दक्षिणो दक्षिणः। पश्चिमः पश्चिमः। उत्तरभाग उत्तरभाग एव कार्यः। वृक्षस्य योऽधोभागः स एव प्रतिमाया अधोभागः कार्यः। वृक्षस्य य ऊर्ध्वभागः सोऽपि प्रतिमाया ऊर्ध्वभागः कार्य इति तद्विवृतौ भट्टोत्पलः। बृहत्संहिताविवृतिकृद्धृतकाश्यपे च— वृक्षवत् प्रतिमा कार्या प्राग्भागाद्युपलक्षिता। पादाः पादेषु कर्तव्याः शीर्षमूर्ध्वे तु कारयेत् ॥ इति।
प्रथमोऽध्यायः ६ [ आकृतितो ग्राह्यशिलाकथनम् ] निविडा निर्व्रणा मृद्वी सुगन्धा मधुरा शिला । सर्वार्चालिङ्गपीठेषु श्रेष्ठा कान्तियुता च या ॥७॥ काश्यपशिल्पे तु— वृक्षस्य पूर्वभागे तु मुखं पृष्ठन्तु पश्चिमे । दक्षिणं सव्यपार्श्वं स्याद्वामपार्श्वं तथोत्तरम् ॥ इति । (अ० ४९, २३ श्लो०) परं तत्र तत्र शिलाया ऊर्ध्वाधःकथनं प्रतिमाया अपि ऊर्ध्वाधोनिर्णयाभिप्रायकम्, अन्यथा तदुक्तेरुपयोगो दुरुपपाद एव स्यात् । एवञ्च मयमते शिलाया अधोऽग्रादिकमभिधाय मुखपृष्ठादि- निर्णयार्थम्— “मुखमुद्धरणेऽधोऽंशमूर्ध्वं भागं शिरो विदुः” इति यदुक्तं तदपि निराकुलं सम्पद्यते । इतरथात्र शिलायाः शिरोमुखादिवचनमव्यावर्त्तकं भवेत् । श्लोके ‘उद्धरणे’ इत्यस्य शिलाहरणे, ‘शिर’ इत्यस्य च मुखपृष्ठभाग इत्यर्थः । व्यक्तमाह काश्यपशिल्पे— “अधोभागं मुखं ख्यातं पृष्ठमूर्ध्वगतं भवेत्” इति । ( अ० ४९, ६८ श्लो० ) मूलश्लोके पश्चिमादिशिरस्कत्वकथनं शयानशिलाभिप्रायेण । दण्डायमानशिलायास्तु भूमिष्ठो- ऽंशो मूलम्, ऊर्ध्वभागश्चाग्रमिति ज्ञेयम् । तदुक्तं मयमते— “अग्रमूर्ध्वमधो मूलं पाषाणस्य स्थितस्य तु” इति । ( अ० ३३, १८ श्लो० ) ७ । निविडा सुश्लिष्टाङ्गसन्धिः, निर्व्रणा स्फोटकाकृतिबिन्दुरहिता । बिन्दुमाह काश्यपः— ............त्रिविधा बिन्दुरेव हि । कृष्णलोहनिभाकारा कृष्णभ्रमरसन्निभा ॥ शिखिपिच्छसमाकारा............॥ इति ( अ
१० देवतामूर्तिप्रकरणम् [ त्याज्यशिलाकथनम् ] विमलं हेमकांस्यादिचिह्नं लोहमयं हि यत् । य(त?)थान्यद् विविधं चिह्नं प्रतिमायां भयावहम् ॥८॥ [ वर्णतो ग्राह्यशिलाकथनम् ] कपोतकुमुदभृङ्गमाषमुद्गासितोपमा । पाण्डुरा घृतपद्माभा सर्वार्चासु सुखावहा ॥६॥ या च कान्तियुता स्निग्धा शिला सा सर्वार्चालिङ्गपीठेषु सर्वास्वेवर्चासु प्रतिमासु, सर्वेषु लिङ्गेषु पीठेषु चेत्यर्थः, श्रेष्ठा । मृद्वी अरूक्षा, न त्वनायासच्छेदत्वप्रयोजककोमलतापर्यायमृदुत्ववती । मयमते शिलाया बालायुवत्यादिसंज्ञाप्रस्तावे— टङ्काघातादिमृद्वी या मन्दपक्केष्टकोपमा । शिला बाला मता तज्ज्ञैः सर्वकर्मसु निन्दिता ॥ (अ० ३३, ४३ श्लो०) इत्यनेन तादृशशिलाया बालसंज्ञकत्वेन
प्रथमोऽध्यायः ३१ [ शिलाद्याहरणक्षणः ] सुदिने शुभनक्षत्रे शकुने शान्तचेष्टिते । प्रतिमागृहकाष्ठादिकर्म कार्यं न चान्यथा ॥१०॥ इति शिलापरीक्षा इत्येकान्तकृष्णाया एव दोषश्रुतेः, “हरिता कृष्णा शिला ग्राह्या सितवर्णा विशेषतः” इति (अ० ४९, ५० श्लो०) ईषत्कृष्णाया ग्राह्यत्वविधानाच्च । अग्निपुराणे तु— “पाण्डरा ह्यरुणा पीता कृष्णा शस्ता तु वर्णिनाम्” (अ० ४३, १२ श्लो०) इत्यविशेषेण सर्वेषामेव ब्राह्मणादिवर्णानां सर्वाऽप्यरुणपीतादिशिला प्रशस्तेत्याह । इह तु कासाञ्चन कृष्णानां कासाञ्चन पीतानामविशेषेण च श्वेतानां शुभावहत्वमाह—कपोतेत्यादिना । तथा च कपोतादिवत् कृष्णशिला, घृतवत् पद्मवच्च पीतशिला श्वेतशिला च सर्वांर्चासु प्रयुक्ता कर्तुः सुखमावहतीति श्लोकार्थः । १०। सुदिन इति । शुभनक्षत्रे कर्तुरिति ज्ञेयम्, सुदिने इति सामान्यतोऽभिधाय विशिष्य पुनर्नक्षत्रोपादानस्य फलाभावात् । सुदिनञ्च ज्योतिःशास्त्रादाववलोकनीयम् । विशिष्याह काश्यपः— “सुमासतिथिनक्षत्रलग्नवारे शिलां ग्रहेत्” इति । (अ० ४९, १८ श्लो०) मयमते च शिलाद्याहरणं प्रकृत्य— उत्तरायणमासे तु शुक्लपक्षे शुभोदये । प्रशस्तपक्षनक्षत्रे मुहूर्त्ते करणान्विते ॥ इति । (अ० ३३, १९-२० श्लो०) शकुने शान्तचेष्टित इति । शकुने शुभाशुभाशंसिनि निमित्ते शान्तचेष्टिते शान्तं सौम्यं कर्मानुकूलमिति यावत् चेष्टितं यत्र तादृशे सति । शकुनमाह काश्यपशिल्पे— वायसं दक्षिणे वामादागतञ्च तथैव च । श्येनं वै दक्षिणे वामे गृध्रं मांसेन संयुतम् ॥ कन्यागोदर्शनञ्चैव गावस्त्ववावाहनं तथा । दधिना पूर्णकुम्भञ्च क्षीरकुम्भं तथैव च ॥ पुष्पं पुष्पप्लुतं वापि सुतवतीयु(षदयु)वतिस्त्रियः । अन्नञ्च मांसहास्व (हारञ्च) शिवमक्तिपरायणम् ॥ ज्वालाऽनलञ्च दीपञ्च जलैः पूर्णघटावृतम् । त(व)राहं च गजं चैव वेण्या चात्यन्तसुन्दरी ॥ शुभान्येतानि भौमानि अशुभं विपरीतकम् ।
१२ देवतामूर्तिप्रकरणम् उल्कापातं दिशां दाहं महावातप्रवर्त्तनम् । अशुभान्यन्तरीक्षाणि ... ... ॥ इत्यादि । (अ० ४९, २०-२५ श्लो०) शुभशकुनञ्चेद् गच्छेदशुभञ्चेन्न गच्छेदित्याशयः । तदुक्तं काश्यपे— “शुभञ्चेद् गमनं कुर्यादशुभञ्चेद् विवर्जयेत्” इति । (अ० ४९, २८ श्लो०) कालातिपाताक्षमे कर्मण्यशुभशकुनदर्शने प्रतिप्रसवमप्याह तत्रैव— अशुभे त्वग्निमास्तीर्य शिवेनैव शताहुतीः । समिदाज्योदनैः कुर्यान्नागाङ्गं नागभूषणम् ॥ दत्त्वा शिवं नमस्कृत्य गच्छेदाचार्यशिल्पि च । इति । (अ० ४९, २९-३० श्लो०) प्रतिमेति । एतदुपलक्षणम्, लिङ्गपीठाद्युचितशिलाद्याहरणेऽप्येतद् योज्यम् । तथा च काश्यपे— आचार्यः शिल्पिसंयुक्तः शिलाग्रहणमाचरेत् । दिव्यान्तरीक्षमौमानि निमित्तान्युपलक्षयेत् ॥ (अ० ४९, १९ श्लो०) इति सामान्यतः शिलाहरणमुक्तम् । मयमते च— प्रशस्तपक्षनक्षत्रे मुहूर्त्ते करणान्विते । गच्छेल्लिङ्गं समुद्दिश्य वनं चोपवनं गिरिम् ॥ ... ... ... निमित्तैः शकुनैर्योग्यैः सह मङ्गलशब्दकैः ॥ इति । (अ० ३३, २०-२२ श्लो०) अत्र लिङ्गमित्युपलक्षणमर्चादीनाम् । वनं चोपवनमिति प्रतिमोचितद्रुमोद्देशकथनम्, गिरिमिति लिङ्गाद्युपयोगिशिलास्थानकथनम् । शिलाग्रहणमन्त्रमाह तत्रैव— ॐ अपक्रामन्तु भूतानि देवताश्च सगुह्यकाः । युष्मभ्यन्तु बलिर्भूयात् क्रूराश्च वनदेवताः ॥ कर्मैतत् साधयिष्यामि क्रियतां व[वा ?]स्तुपर्ययः । इति । (अ० ३३, २७-२८ श्लो०) प्रतिमोचितकाष्ठग्रहणे विशेषमाह बृहत्संहितायाम्— कर्तुरनुकूलदिवसे दैवज्ञविशेषिते शुभनिमित्ते । मङ्गलशकुनैः प्रास्थानिकैश्च वनसम्प्रवेशः स्यात् ॥ इति ।
प्रथमोऽध्यायः १३ [ प्रासादमानेनोर्द्ध्वस्थज्येष्ठप्रतिमालक्षणम् ] एकहस्ते तु प्रासादे मूर्त्तिरेकादशाङ्गुला । दशाङ्गुला ततो वृद्धिर्यावद्धस्तचतुष्टयम् ॥११॥ [ ऊर्द्ध्वस्थप्रतिमाया मध्यमाधमभेदकथनम् ] द्व्यङ्गुला दशहस्तान्ता शतार्द्धान्ताऽङ्गुलस्य च । अतो विंशदशांशोना मध्यमार्चा कनीयसी ॥१२॥ एवञ्च तत्रैव ग्राह्याग्राह्यवृक्षानभिधाय तदभिमन्त्रणमाह— अर्चार्थममुकस्य त्वं देवस्य परिकल्पितः । नमस्ते वृक्ष पूजेयं विधिवत् संप्रगृह्यताम् ॥ यानीह भूतानि वसन्ति तानि बलिं गृहीत्वा विधिवत् प्रयुक्तम् । अन्यत्र वासं परिकल्पयन्तु क्षमन्तु तान्यद्य नमोऽस्तु तेभ्यः ॥ इति (अ० ५८, १०-११ श्लो०) गृहकाष्ठाहरणप्रकारोऽप्येतदनुरूपः समराङ्गणसूत्रधारे परिलक्ष्यते । तत्राहरणमन्त्रस्तु— अपक्रामन्तु भूतानि यानि वृक्षाश्रितानि हि । कल्पनं वर्त्तयिष्यामि क्रियतां वासपर्ययः ॥ (अ० १६, २७ श्लो०) तदेतत् सर्वं शेषतो जिज्ञासुभिः समराङ्गणसूत्रधार-(अ० १६) काश्यपशिल्प-(अ० ४९) मयमत-(अ० ३३) बृहत्संहितासु (५८ वनसम्प्रवेशाध्याये) द्रष्टव्यम् । ११ । अथ प्रथमं प्रासादमानेन ऊर्द्ध्वस्थायाः ( दण्डायमानायाः ) प्रतिमायाः प्रमाणम् उच्यते—एकहस्त इत्यादिना । एकहस्ते प्रासादे मूर्त्तिरेकादशाङ्गुला भवेत् । ततो हस्तचतुष्टयं यावत् प्रतिहस्ते दशाङ्गुला वृद्धिः । अर्थात्, द्विहस्ते प्रासादे मूर्त्तिरेकविंशत्यङ्गुला, त्रिहस्ते एकत्रिंशदङ्गुला, चतुर्हस्ते एकचत्वारिंशदङ्गुला भवेत् । १२ । ततो दशहस्तान्ता द्व्यङ्गुला वृद्धिः, अर्थात् पञ्चहस्तादिदशहस्तान्तप्रासादेषु प्रतिहस्ते द्व्यङ्गुला वृद्धिः, तेन पञ्चहस्तप्रासादे त्रिचत्वारिंशदङ्गुला प्रतिमा, षड्ढस्तप्रासादे पञ्चचत्वारिंश- दङ्गुला, सप्तहस्ते सप्तचत्वारिंशदङ्गुला, अष्टहस्ते ऊनपञ्चाशदङ्गुला, नवहस्ते एकपञ्चाशदङ्गुला, दशहस्ते त्रिपञ्चाशदङ्गुला प्रतिमा स्यादित्यर्थः । शतार्द्धान्ताङ्गुलस्य च—शतार्द्धान्ता शतार्द्धहस्तान्ता वृद्धिरित्यस्य विशेषणम् । वृद्धिरङ्गुलस्य एकाङ्गुलस्य ; एकादशहस्तादिपञ्चाशद्धस्तान्तप्रासादेषु प्रतिहस्ते एकैकाङ्गुला वृद्धिरित्यर्थः । तेन च एकादशहस्तप्रासादे चतुःपञ्चाशदङ्गुला प्रतिमा, द्वादशहस्ते पञ्चपञ्चाशदङ्गुला, त्रयोदशहस्ते
१४ देवतामूर्त्तिप्रकरणम् षट्पञ्चाशदङ्गुला, चतुर्दशहस्ते सप्तपञ्चाशदङ्गुला, पञ्चदशहस्ते प्रासादे अष्टपञ्चाशदङ्गुला प्रतिमा । एवंक्रमेण वृद्ध्या पञ्चाशद्धस्तप्रासादे त्रिनवत्यङ्गुला प्रतिमा भवेत् । इत्यूर्ध्वस्थाः पञ्चाशत् प्रतिमाः । अत उक्तमानावधि विंशांशोना विंशेनांशेन न्यूना मध्यमार्चा मध्यमप्रतिमा, दशांशोना दशमांशेन हीना च कनीयसी क्षुद्रतरा अर्चा कथितेति शेषः । एवञ्च एकहस्तप्रासादे एकादशाङ्गुलं ज्येष्ठप्रतिमायाः परिमाणम्, दशाङ्गुलं विंशतिविभक्ताङ्गुलस्योनविंशांशाश्च मध्यमप्रतिमापरिमाणम्, दशाङ्गुलं दशधा विभक्तस्याङ्गुलस्य नवांशाश्च कनिष्ठप्रतिमापरिमाणमिति । एवमन्यास्वपि प्रमाणाधिकप्रतिमासु ज्ञेयम् । प्रासादपरिमाणेन ऊर्ध्वस्थप्रतिमापरिमाणम् । प्रासादस्य प्रतिमाया प्रासादस्य प्रतिमाया हस्तमानम् अङ्गुलिमानम् हस्तमानम् अङ्गुलिमानम् १ ... ... ११ २० ... ... ६३ २ ... ... २१ २१ ... ... ६४ ३ ... ... ३१ २२ ... ... ६५ ४ ... ... ४१ २३ ... ... ६६ ५ ... ... ४३ २४ ... ... ६७ ६ ... ... ४५ २५ ... ... ६८ ७ ... ... ४७ २६ ... ... ६९ ८ ... ... ४९ २७ ... ... ७० ९ ... ... ५१ २८ ... ... ७१ १० ... ... ५३ २९ ... ... ७२ ११ ... ... ५४ ३० ... ... ७३ १२ ... ... ५५ ३१ ... ... ७४ १३ ... ... ५६ ३२ ... ... ७५ १४ ... ... ५७ ३३ ... ... ७६ १५ ... ... ५८ ३४ ... ... ७७ १६ ... ... ५९ ३५ ... ... ७८ १७ ... ... ६० ३६ ... ... ७९ १८ ... ... ६१ ३७ ... ... ८० १९ ... ... ६२ ३८ ... ... ८१
प्रथमोऽध्यायः १५ [ आसनस्थोत्तमप्रतिमापरिमाणम् ] हस्तादेर्वेदहस्तान्ते षड्वृद्धिः स्यात् षडङ्गुला । तदूर्ध्वं दशहस्तान्ता त्र्यङ्गुला वृद्धिरिष्यते । एकाङ्गुला भवेद् वृद्धिर्यावत् पञ्चाशद्धस्तकम् ॥१३॥ प्रासादस्य प्रतिमाया प्रासादस्य प्रतिमाया हस्तमानम् अङ्गुलिमानम् हस्तमानम् अङ्गुलिमानम् ३९ ... ... ८२ ४५ ... ... ८८ ४० ... ... ८३ ४६ ... ... ८९ ४१ ... ... ८४ ४७ ... ... ९० ४२ ... ... ८५ ४८ ... ... ९१ ४३ ... ... ८६ ४९ ... ... ९२ ४४ ... ... ८७ ५० ... ... ९३ १३। इदानीमासनस्थमूर्त्तीनां परिमाणमुच्यते । षडङ्गुला आसनस्था मूर्त्तिः हस्तादे- रेकहस्ताद् वेदहस्तान्ते चतुर्हस्तपर्यन्तप्रासादे षड्वृद्धिः षट् षट् वृद्धैर्यस्याः प्रतिमायास्तादृशी स्यात् । संख्याशब्दस्य वृत्तिविषये वीप्सार्थत्वं सप्तपर्णादिवदित्युक्ते अर्थात् एकहस्तप्रासादे मूर्त्तिः षडङ्गुला, द्विहस्तप्रासादे द्वादशाङ्गुला, त्रिहस्ते अष्टादशाङ्गुला, चतुर्हस्ते चतुर्विंशत्यङ्गुला भवेत् । तदूर्ध्वं पञ्चहस्तप्रासादमारभ्य दशहस्तान्ता त्र्यङ्गुला वृद्धिरिष्यते । तथा हि—पञ्चहस्त- प्रासादे सप्तविंशत्यङ्गुला मूर्त्तिः, षड्ढस्तप्रासादे त्रिंशदङ्गुला, सप्तहस्ते त्रयस्त्रिंशदङ्गुला, अष्टहस्ते षट्त्रिंशदङ्गुला, नवहस्ते ऊनचत्वारिंशदङ्गुला, दशहस्ते द्विचत्वारिंशदङ्गुला मूर्त्तिर्भवेदित्यर्थः । ततः पञ्चाशद्धस्तकं यावत् एकादशहस्तादिपञ्चाशद्धस्तान्तमित्यर्थः, एकाङ्गुला प्रतिहस्ते एकैकाङ्गुला वृद्धिर्भवेत् । तेन एकादशहस्तप्रासादे त्रिचत्वारिंशदङ्गुला मूर्त्तिः, द्वादशहस्ते चतुश्चत्वारिंशदङ्गुला मूर्त्तिः, एवंक्रमेण वृद्ध्या पञ्चाशद्धस्तप्रासादे द्व्यशीत्यङ्गुला मूर्त्तिर्भवेदित्यर्थः । इत्यासनस्था द्वितीयाः प्रतिमाः पञ्चाशत्संख्याकाः । प्रासादपरिमाणेन आसनस्थप्रतिमापरिमाणम् । प्रासादस्य प्रतिमाया प्रासादस्य प्रतिमाया हस्तमानम् अङ्गुलिमानम् हस्तमानम् अङ्गुलिमानम् १ ... ... ६ ५ ... ... २७ २ ... ... १२ ६ ... ... ३० ३ ... ... १८ ७ ... ... ३३ ४ ... ... २४ ८ ... ... ३६
१६ देवतामूर्त्तिप्रकरणम् [ आसनस्थमध्यमाधमप्रतिमापरिमाणम् ] विंशत्येकाधिका ज्येष्ठा विंशत्योना कनीयसी । ऊर्द्धार्चा प्रथमा प्रोक्ता आसनस्था द्वितीयका ॥१४॥ ९ ... ... ३९ ३० ... ... ६२ १० ... ... ४२ ३१ ... ... ६३ ११ ... ... ४३ ३२ ... ... ६४ १२ ... ... ४४ ३३ ... ... ६५ १३ ... ... ४५ ३४ ... ... ६६ १४ ... ... ४६ ३५ ... ... ६७ १५ ... ... ४७ ३६ ... ... ६८ १६ ... ... ४८ ३७ ... ... ६९ १७ ... ... ४९ ३८ ... ... ७० १८ ... ... ५० ३९ ... ... ७१ १९ ... ... ५१ ४० ... ... ७२ २० ... ... ५२ ४१ ... ... ७३ २१ ... ... ५३ ४२ ... ... ७४ २२ ... ... ५४ ४३ ... ... ७५ २३ ... ... ५५ ४४ ... ... ७६ २४ ... ... ५६ ४५ ... ... ७७ २५ ... ... ५७ ४६ ... ... ७८ २६ ... ... ५८ ४७ ... ... ७९ २७ ... ... ५९ ४८ ... ... ८० २८ ... ... ६० ४९ ... ... ८१ २९ ... ... ६१ ५० ... ...(प्रतिमासङ्ख्या:) ८२ १४। विंशत्येकेति। विंशत्येकत एकविंशत्यङ्गुलाद् अधिका द्वाविंशत्यङ्गुलादिपरिमाणा प्रतिमा ज्येष्ठा। विंशत्योना विंशत्याङ्गुलेन हीना कनीयसी प्रतिमा भवतीत्यर्थः। एवञ्च कण्ठतोऽनुक्तमप्यत्र मध्यमप्रतिमापरिमाणं पारिशेष्यादुन्नेयम्; तथा हि द्वाविंशत्याद्यङ्गुलपरिमाणा ज्येष्ठा, विंशत्योना कनीयसी, विंशैकविंशत्यङ्गुला च मध्यमेति पर्यवसितोऽर्थः। अयञ्च प्रासाद- मानेन प्रतिमापरिमाणनिर्णयप्रकारो ग्रन्थकृदुपज्ञमेव नान्यत्र शिल्पशास्त्रे उपलभ्यते ।
प्रथमोऽध्यायः १७ [ द्वारमानेन ज्येष्ठप्रतिमापरिमाणम् ] द्वारोच्छ्रयोऽष्टधा कार्यो भागमेकं परित्यजेत् । सप्तभागं त्रिधा कृत्वा द्विभागा प्रतिमा भवेत् ॥१५॥ १५। पूर्वं प्रासादमानेन प्रतिमामानमभिहितम्, इदानीं प्रासादद्वारमानेनापि तद्वक्तुं प्रथमं ज्येष्ठप्रतिमापरिमाणमाह—द्वारोच्छ्रय इति । आदौ द्वारस्यौन्नत्यम् अष्टधा विभज्यैकमंशं परित्यज्यावशिष्टान् सप्तांशान् त्रिधा विभज्य द्विभागेन प्रतिमाः कुर्यात् । एकांशेन च पीठिकेत्यनुक्त- मप्यत्रोह्यम् । तथा च बृहत्संहितायाम्— देवागारद्वारस्याष्टांशोनस्य यस्तृतीयांशः। तत्पिण्डिकाप्रमाणं प्रतिमा तद्द्विगुणपरिमाणा ॥ इति (अः ५७, ३ श्लो०) द्वारमानाष्टभागोना प्रतिमा स्यात् सपिण्डिका । द्वौ भागौ प्रतिमा तत्र तृतीयांशश्च पिण्डिका ॥ (अः ५५, १६ श्लो०) इति च । अष्टांशोनस्येति कृताष्टभागस्य द्वारमानस्याष्टमभागेन हीनस्येत्यर्थः । द्वारप्रमाणमाह तत्रैव प्रासादलक्षणमधिकृत्य— यो विस्तारो भवेद् यस्य द्विगुणा तत्समुन्नतिः । उच्छ्रायाद् यस्तृतीयांशस्तेन तुल्या कटिः स्मृता ॥ विस्ताराद्धं भवेद् गर्भो भित्तयोऽन्याः समन्ततः । गर्भपादेन विस्तीर्णं द्वारं द्विगुणमुच्छ्रितम् ॥ (अः ५५, १-२ श्लो०) इति । तथा च दशहस्तविस्तृते प्रासादे गर्भः पञ्चहस्तः गर्भस्य पादेन तुर्यांशेन द्वारविस्तारो भवे- दिति सपादहस्तप्रमाणा द्वारस्य विस्तृतिः उन्नतिश्च सार्द्धद्विहस्तपरिमाणा । एवञ्च—द्वासप्ततिहस्त- विस्तृते प्रासादे षट्त्रिंशद्धस्तमितो गर्भः, गर्भपादसममानतया च नवहस्ता द्वारस्य विस्तृतिस्तद्- द्विगुणोऽष्टादशहस्तश्चोच्छ्रयः तस्य चाष्टधा विभक्तस्य एकमंशं षडङ्गुलाधिकहस्तद्वयं परित्यज्य शिष्टानांमष्टादशाङ्गुलाधिकपञ्चदशहस्तानां त्रिभागीकृतानां भागद्वयपरिमिता द्वादशाङ्गुलाधिकदश- हस्ता प्रतिमा भवेदिति निष्कर्षः । एतच्च ‘एकहस्ते तु प्रासादे मूर्त्तिरेकादशाङ्गुले’(११ श्लो०)ति यदुक्तं ततोऽन्यादृशमेवेति मन्तव्यम्, निरुक्तद्वारमानत एकहस्तविस्तृतप्रासादे द्वारस्य षडङ्गुलत्वेन यथोक्तभागवशात् प्रतिमाया अष्टाविंशतियवपरिमाणत्वप्रसक्तेः । समराङ्गणसूत्रधारे तूत्तममध्यमाधममूर्त्तीः प्रकृत्य— (भव ? तच्च) द्वारं त्रिधा (चत्वा ? भक्त्वा) पीठं भागेन कल्पयेत् ।' (ता ? द्वा) भ्यां (तु) प्रतिमा कार्या ज्येष्ठा (स्या ? यां) मानमीदृशम् ॥ (अः ७०, १४७ श्लो०) इति यदुत्तमप्रतिमापरिमाणमुक्तं तत् प्रकृतग्रन्थस्य कनिष्ठप्रतिमामानानुरूपम् । तथा कनिष्ठमूर्त्ति- परिमाणे—
१८ | देवतामूर्त्तिप्रकरणम्
[ मध्यमप्रतिमापरिमाणम् ] द्वारं विभज्य नवधा भागमेकं परित्यजेत् । अष्टौ भागांस्त्रिधा कृत्वा द्विभागे प्रतिमा भवेत् । [ कनिष्ठप्रतिमापरिमाणम् ] त्रिभागैर्भाजिते द्वारे द्विभागेऽर्चा प्रकीर्त्तिता ॥१६॥ इति प्रासाद्द्वारमानेन प्रतिमाप्रमाणम् । ........हीनायां विदध्याद् द्वारमष्टधा । ए(व ? क) मुत्सृज्य शेषेण ****** ॥ (अः ७०, १४९ श्लो०) इत्यपि यदुक्तं तत्तु प्रक्रान्तश्लोकानुसारोति दृश्यते । एवम् अस्माभिरुपरिष्टात् प्रदर्शयिष्यमाणं तदुक्तमध्यमप्रतिमापरिमाणमपि वक्ष्यमाणमध्यमप्रतिमापरिमाणानुसारोति ज्ञेयम् । न चैवं समराङ्गणसूत्रधारप्रामाण्यात् प्रकृतेऽपि ग्रन्थे वैपरीत्येन अधममध्यमोत्तमप्रतिमापरिमाणलक्षकतया श्लोकानां परिपाटीः स्वीकृत्य तदेकवाक्यता करणीयेति वाच्यम्, बृहत्संहितायां मध्यमादिभेद- मनादृत्य केवलमेतच्छ्लोकोक्तपरिमाणस्यैव ग्रहणेनास्यैवोत्तमत्वस्वीकारात् । मत्स्यपुराणेऽपि— द्वारोच्छ्रयस्य यन्मानमष्टधा तत्तु कारयेत् । भागमेकं ततस्त्यक्त्वा परिशिष्टन्तु यद् भवेत् ॥ भागद्वयेन प्रतिमा........... । ( अ० २५८, २४-२५ श्लो० ) इति द्वारमानेनैकमेव प्रतिमापरिमाणमुक्तमिति सर्वं सुसमञ्जसम् । १६। मध्यमाधमप्रतिमापरिमाणमाह—द्वारमिति त्रिभागैरिति च । स्पष्टोऽर्थः । मध्यम- प्रतिमालक्षणमाह समराङ्गणसूत्रधारे— मध्यायां नवधा द्वारं कृ ( ते ? त्वै ) कं भागमुत्सृजेत् । शेषान् भागांस्त्रिधा कृत्वा पीठं भागेन कल्पयेत् ॥ अर्चातुभागाभ्याम्........... । इति । ( अ० ७०, १४८-१४९ श्लो० ) अधमप्रतिमापरिमाणमप्याह तत्रैव—‘हीनायां विदध्याद् द्वारमष्टधे’त्यादि प्रागेवोल्लिखितम् । द्वारप्रमाणायाः प्रतिमाया विनियोगमाह समराङ्गणसूत्रधारे— ‘यात्रार्था प्रतिमा द्वारप्रमाणेन विधीयते । इति । ( अ० ७-१४६ ) यात्रार्था उत्सवार्थं निर्मिता । द्वारमानेन प्रतिमापरिमाणेऽन्येऽपि विशेषाः समराङ्गणसूत्रधारतो जिज्ञासुभिर्विज्ञेया । प्रतिमानां मुखाद्यवयवपरिमाणादिकञ्च मत्स्यपुराण ( अ० २५८ )-बृहत्संहिता ( अ० ५७ )- काश्यपशिल्प ( अ० ५० )-समराङ्गणसूत्रधारादिषु ( अ० ७६ ) द्रष्टव्यम् ।
प्रथमोऽध्यायः १६ [ गृहपूज्यायाः प्रतिमायाः परिमाणम् ] आरभ्यैकाङ्गुलादूर्ध्वं पर्यन्ते द्वादशाङ्गुलम्। गृहेषु प्रतिमा पूज्या नाधिका शस्यते ततः ॥१७॥ [ देवगृहोचितप्रतिमापरिमाणम् ] तदूर्ध्वान्नवहस्तान्ता पूजनीया सुरालये। [ बहिरर्चनीयप्रतिमापरिमाणम् ] दशहस्तादितो याऽर्चा प्रासादेन विनाऽर्चयेत् ॥१८॥ १७। इदानीं कुत्र कीदृशी प्रतिमा पूजनीयेति वक्तुं प्रथमं गृहोचितायाः प्रतिमायाः परिमाण- माह—आरभ्येति । एकाङ्गुलादारभ्य उच्छ्रायेण द्वादशाङ्गुलपर्यन्ता प्रतिमा गृहेषु पूज्या । स्पष्टमुक्तं मत्स्यपुराणे— अङ्गुष्ठपर्वादारभ्य वितस्तिर्यावदेव तु। गृहेषु प्रतिमा कार्या नाधिका शस्यते बुधैः ॥ ( अ० २५८, २२ श्लो० ) इति। वितस्तिर्द्वादशाङ्गुलम्। १८। देवालयपूज्यामाह तदूर्ध्वमिति। द्वादशाङ्गुलतोऽष्टहस्तपरिमाणं यावत् प्रतिमा सुरालये पूजनीया। तथा च मात्स्ये— 'आषोडशा तु प्रासादे कर्तव्या नाधिका ततः' इति। ( अ० २५८.२३ ) 'आषोडशा' षोडश वितस्तिपर्यन्ता अष्टहस्तपर्यन्तेति यावत्, प्रासाद इति देवालय इत्यर्थः। एतदेकवाक्यताविधित्सयैव 'नवहस्तान्ता' इत्यस्य नव हस्ताः परिमाणं यस्याः सा नवहस्ता, सा अन्ते यस्याः त्रयोदशाङ्गुलाद्यष्टहस्तान्तायाः प्रतिमायाः सा तथेत्यतद्गुणसंविज्ञानव्यधिकरण- बहुव्रीहिणा तादृशोऽर्थः कष्टकल्पोऽपि युक्त इत्युत्पश्यामः। दशहस्तादित इति। दशहस्तायाः प्रतिमाया आदिरादिभूता प्रतिमा ताम् आरभ्य नवहस्त- प्रतिमामारभ्येत्यर्थः, न तु दशहस्तप्रतिमामारभ्येति यथाश्रुतार्थः करणीयः, पूर्वोक्तमत्स्य- पुराणवचनेन नवहस्तायाः प्रतिमाया अपि प्रासादे पूजननिषेधात्, सम्भवति च तद्वचनेन सहैकवाक्यत्वे वाक्यभेदस्यान्याय्यत्वात्। इत्थञ्च—'दशादिकरवृद्धा च' (१९) इति वक्ष्यमाण- वाक्येन दशहस्तप्रतिमामारभ्य पञ्चचत्वारिंशद्धस्तां यावच्चतुष्क्यां पूजनविधानादियमेकैव नवहस्ता प्रतिमा वर्त्तते, यस्याः पूजास्थानं किमपि नोपदिष्टं ग्रन्थकृता। इदमत्र मनस्यापतति,—प्रासादेन विनाऽर्चयेदित्यनेन सामान्यत आसां दशहस्तादिप्रतिमानां प्रासादे पूजां निषिध्य क्व तर्हीमाः पूजनीया इत्यपेक्षायां दशादिकरवृद्धेति विशेषोऽभिहितो ग्रन्थ- कृतेति। अत्र च पक्षे 'नवहस्तान्ता' इत्यस्य 'दशहस्तादित' इत्यस्य च यथाश्रुत एवार्थः करणीयः