साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
The provided image is completely blank (empty/white) and does not contain any text. Please provide an image with visible text to transcribe.
षष्ठः परिच्छेदः । ३५३ अथ वीथी— वीथ्यामेको भवेदङ्कः कश्चिदेकोऽत्र कल्प्यते । आकाशभाषितैरुक्तैश्चित्रां प्रत्युक्तिमाश्रितः ॥ २५३ ॥ सूचयेद् भूरि शृङ्गारं किंचिदन्यान् रसान् प्रति । मुखनिर्वहणे संधी अर्थप्रकृतयोऽखिलाः ॥ २५४ ॥ कश्चिदुत्तमो मध्यमोऽधमो वा । शृङ्गारबहुलत्वाच्चास्याः कैशिकीवृत्तिबहुलत्वम् । अस्यास्त्रयोदशाङ्गानि निर्दिशन्ति मनीषिणः । उद्घात्य(त)कावलगिते प्रपञ्चस्त्रिगतं छलम् ॥ २५५ ॥ वाक्केल्यधिबले गण्डमवस्यन्दितनालिके । असत्प्रलापव्याहारमृद्(मार्द)वानि च तानि तु ॥ २५६ ॥ तत्रोद्घात्य(त)कावलगिते प्रस्तावनाप्रस्तावे सोदाहरणं लक्षिते । मिथो वाक्यमसद्भूतं प्रपञ्चो हास्यकृन्मतः । यथा विक्रमोर्वश्याम्—पत्थिसविद्वप्पच्चेटोरन्योन्यवचनम् । त्रिगतं स्यादनेकार्थयोजनं श्रुतिसाम्यतः ॥ २५७ ॥ यथा तत्रैव—'राजा— सर्वक्षितिभृतां नाथ दृष्टा सर्वाङ्गसुन्दरी । रामा रम्ये वनान्तेऽस्मिन्मया विरहिता त्वया ॥ (नेपथ्ये तदेव प्रतिध्वन्यते ।) राजा—कथं दृष्टेत्याह ।' लक्षणं दर्शयति । इयं च रूपकप्रभेदान्तर्गता वीथ्याख्यानमिति । त्रयोदशा- ङ्गिका । एक एवेति शेषः । दृश्यकाव्यप्रपञ्चत्वाद् अभिनेयः । अर्थप्रकृतयः बीजादयः पञ्च । आसां चतस्रः पताकावर्जमित्यर्थ इति । पताकावर्जम् । अङ्गानि विशदयन्नाह । तानीति सूत्रोक्तोद्घात्यकादीनि । त्रिगतम्— त्रिगतमिति । 'श्रुतिसाम्यतः शब्दसाम्याद् ध्वनिसादृश्याच्चेत्यर्थः । द्वयोरर्थयोः प्रयोगात् । राजा पृच्छति । 'त्वया दृष्टेति पृष्टे 'दृष्टेति' पुनः प्रयुङ्क्ते इति भावः । १. दृष्टेति । अत्र च सर्वक्षितिभृतां नाथ दृष्टेति वने पर्वतेन प्रतिध्वनि- रूपतया पुनः स एव श्लोकः पठितः । तेनात्र 'मया दृष्टेति' वदता प्रयोगात् त्रैविध्यं ज्ञेयम् ।
३६० साहित्यदर्पणे अत्र प्रश्नवाक्यमेवोत्तरत्वेन योजितम् । ‘नटादित्रितयविषयमेवेद’ दिति कश्चित् । प्रियाभैरप्रियैर्वाक्यैर्विलोभ्य च्छलना छलम् । यथा वेण्याम्—भीमार्जुनौ— कर्ता द्यूतच्छलानां, जतुमयशरणीद्द्दीपनः, सोऽभिमानी राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रम् । कृष्णाकेशोत्तरीयव्यपनयनपटुः, पाण्डवा यस्य दासाः क्वास्ते दुर्योधनोऽसौ कथयत, न रुषा द्रष्टुमभ्यागतौ स्वः ॥' अन्ये त्वाहुश्छलं किंचित्कार्यमुद्दिश्य कस्यचित् ॥ २५८॥ उदीर्यते यद्वचनं वञ्चनाद्धास्यरोपकृत् । वाक्केलिर्हास्यसंबन्धो द्वित्रिप्रत्युक्तितो भवेत् ॥ २५९ ॥ द्वित्रीत्युपलक्षणम् । यथा— ‘भिक्षो मांसनिषेवणं प्रकुरुषे, किं तेन मद्यं विना मद्यं चापि तव प्रियं, प्रियमहो वाराङ्गनाभिः सह । वेश्याप्यर्थरुचिः कुतस्तव धनं, द्यूतेन चौर्येण वा चौर्यद्यूतपरिग्रहोऽपि भवतो, नष्टस्य कान्या गतिः ॥' केचित्— 'प्रक्रान्तवाक्यस्य साकाङ्क्ष्यैव निवृत्तिर्वाक्केलिः' इत्याहुः। अन्ये च ‘अनेकस्य प्रश्नस्यैकमुत्तरम् । अन्योन्यवाक्याधिक्योक्तिः स्पर्धयाधिवलं मतम् । ‘तया विरहिता नया स्या' इत्युत्तरम् ॥ त्रिगतपदव्युत्पत्तिमाह-नटादीति । आदिना नटीप्रतिनटयोर्ग्रहणम् । इदं त्रिगतम् ॥ छलमाह-प्रियाभैरिति । प्रियतुल्यैरित्यर्थः । छलना वञ्चना ॥ जतुमयशरणीद्द्दीपनं जतुगृहदाहकः । अङ्गराजस्य कर्णस्य । कृष्णा द्रौपदी तस्या उत्तरीयस्योपरिवस्त्रस्य व्यपने पटुः । प्रां भवान् । 'आवाम्' इति शेषः ॥ वाक्केलिमाह-वाक्केलिरिति । द्वे वा त्रीणि वा प्रत्युक्तयस्तथा । गतागतप्रत्यागतानामित्यर्थस्य प्रत्ययनात् । अनेकेषां प्रश्नाना- मेकमुत्तरमिति वाक्केलिनिरुक्तिरित्यन्ये ॥ अधिमलमाह-अन्योन्येति । पर-
- प्रतिरिति पाठान्तरम् ॥ 2. 'कथयत द्रष्टुं तमायातावेव' इति वेणीसं० पाठः
- 'द्वित्रिभिः पदैरुक्तिः' इति पाठान्तरम् ॥
The provided image is completely blank (solid white) and contains no text to transcribe. Please upload a clear image containing the text you would like transcribed.
३६० साहित्यदर्पणे अत्र प्रश्नवाक्यमेवोत्तरत्वेन योजितम् । 'नटादित्रितयविषयमेके' इति केचित् । प्रियाभैरप्रियैर्वाक्यैर्विलोभ्य च्छलना छलम् । यथा वेण्याम्—भीमार्जुनौ— कर्ता द्यूतच्छलानां, जतुमयशरणोद्दीपनः, सोऽभिमानी राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रम् । कृष्णाकेशोत्तरीयव्यपनयनपटुः, पाण्डवा यस्य दासाः क्वास्ते दुर्योधनोऽसौ कथयत, न रुषा द्रष्टुमभ्यागतौ स्वः ॥' अन्ये त्वाहुश्छलं किञ्चित्कार्यमुद्दिश्य कस्यचित् ॥ २५८ ॥ उदीर्यते यद्वचनं वञ्चनाहास्यरोपकृत् । वाक्केलिर्हास्यसंबन्धो द्वित्रिप्रत्युक्तितो भवेत् ॥ २५९ ॥ द्वित्रीत्युपलक्षणम् । यथा— 'भिक्षो मांसनिषेवणं प्रकुरुषे, किं तेन मद्यं विना मद्यं चापि तव प्रियं, प्रियमहो वाराङ्गनाभिः सह । वेश्याप्यर्थरुचिः कुतस्तव धनं, द्यूतेन चौर्येण वा चौर्यद्यूतपरिग्रहोऽपि भवतो, नष्टस्य कान्या गतिः ॥' केचित्—'प्रक्रान्तवाक्यस्य साकाङ्क्षस्यैव निवृत्तिर्वाक्केलिः' इत्याहुः । अन्ये च 'अनेकस्य प्रश्नस्यैकमुत्तरम् । अन्योन्यवाक्याधिक्योक्तिः स्पर्धयाधिवलं मतम् । 'तया विरहिता मया दृष्टा' इत्युत्तरम् ॥ त्रिगतपदव्युत्पत्तिमाह—नटादीति । आदिना नटीप्रतिनटयोर्ग्रहणम् । इदं त्रिगतम् ॥ छलमाह—प्रियाभैरिति । प्रियसूर्यैरित्यर्थः । छलना वञ्चना ॥ जतुमयशरणोद्दीपनः जतुमयगृहदाहकः अङ्गराजस्य कर्णस्य । कृष्णा द्रौपदी तस्या केशोत्तरीययोराकर्षरो पटुः । नौ भवाव । 'आवाम्' इति शेषः ॥ वाक्केलिमाह—वाक्केलिरिति । द्वे वा तिस्रो प्रत्युक्तयस्ताभ्यः । समाप्तप्रश्नानामन्तरत्वादन उपलक्ष्याभावः । इत्येकमुत्तरं दमुत्तममिति वाक्केलिरित्यावृत्त्यन्वयः ॥ अधिवलमाह—अन्योन्येति । अन्य १. द्वित्रितीति । तथा चाह दशरूपककार—'द्वित्रिमान्प्रत्युक्तेर्वाक्यकेलिः' इति । नटादित्रिनटानां यः पूर्वस्मे नटिपने ॥' इति ॥
यथा मम प्रभावत्याम्—'वज्रनाभः— (अस्य वक्षः क्षणेनैव निर्मथ्य गदयाऽनया । लीलयोन्मूलयाम्येष भुवनद्वयमद्य वः ॥) प्रद्युम्नः—अरेरे असुरपसद, अलममुना बहुप्रलापेन । मम खलु अद्य प्रचण्डभुजदण्डसमर्पितोरु- कोदण्डनिर्गलितकाण्डसमूहपातैः । आस्तां समस्तदितिजक्षतजोक्षितेयं क्षोणिः क्षणेन पिशिताशनलोभनीया ॥' गण्डं प्रस्तुतसंबन्धि भिन्नार्थं सत्वरं वचः ॥ २६० ॥ यथा वेण्याम्—'राजा— अध्यासितुं तव चिराज्जघनस्थलस्य पर्याप्तमेव करभोरु ममोरुयुग्मम् ॥' अनन्तरम् '(प्रविश्य) कञ्चुकी—देव, भग्नं भग्नं—' इत्यादि । अत्र रथकेतनभङ्गार्थे वचनमूरुभङ्गार्थे संबन्धे संबद्धम् । व्याख्यानं स्वगोक्तस्यान्यथावत्स्यन्दितं भवेत् । यथा छलितरामे—'सीता—जाद, णाह क्खु उअज्झाएण गन्तव्वं, तर्हि सो राजा विणएण पणयिदव्वो । लवः—अथ किमा- द्वाभ्यां राजोपजीविभ्यां भवितव्यम् । सीता—जाद, मो क्खु तुह्माणं पिदा । लवः—किमादयो रघुपतिः पिता । सीता—(साशङ्कम्।) मा अण्णधा संकहम् । ण क्खु तुह्माणम्, सअलाए जेव पुढवीएत्ति ।' दित्यनेन पाण्ड्यादिशब्देनोक्तिः ॥ अस्य प्रद्युम्नस्य । वो देवानाम् ॥ गण्डमाह— प्रस्तुतसंबन्धि प्रस्तुतसंबद्धपदम् ॥ पर्याप्तं समर्थम् ॥ संबन्धे प्रकृते । अन्य- न्दितमाह—व्याख्यानमिति । सरसत्वेऽथ 'दाक्षाय्य' इति शेषः । जाद इति । 'पुत्र, स्वयं राज उपध्यायेन गन्तव्यम्, तदा स राजा विनयेन प्रणयि- तव्यः ।' (इति संस्कृतम् ।) 'पुत्र, न खलु युष्माकं पिता ।' इति संस्कृतम् । 'मा अन्यथा शङ्किष्ठाः । न खलु युष्माकम्, सकलस्य एव पृथिव्या इति ।' इति संस्कृतम् । यत्र दीक्षया दृष्योऽस्मिन् मौञ्जी इत्यभिधीयते पदत्रयम् । 'विनय' १. आपातिकमिति । शङ्खुकस्तु—'हेतोस्तदस्य यत्तु स्याच्छीघ्रमर्थान्तरस्य सद्भिः सूरिभिस्तद्गण्डमुच्यते।' इति । साहि० ३१
३६० साहित्यदर्पणे अत्र प्रश्नवाक्यमेवोत्तरत्वेन योजितम् । ‘नटादित्नितयविषयमेवैतत्’ इति केञ्चित् । प्रियाभैरप्रियैर्वाक्यैर्विलोभ्य च्छलना छलम् । यथा वेण्याम्—भीमार्जुनौ— कर्ता द्यूतच्छलानां, जतुमयशरणाद्दीपनः, सोऽभिमानी राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रम् । कृष्णाकेशोत्तरीयव्यपनयनपटुः, पाण्डवा यस्य दासाः क्वास्ते दुर्योधनोसौ कथयत, न रुषा द्रष्टुमभ्यागतौ स्वः ॥ अन्ये त्वाहुर्र्छलं किञ्चित्कार्यमुद्दिश्य कस्यचित् ॥ २५८ ॥ उदीर्यते यद्वचनं वञ्चनाहास्यरोषकृत् । वाकेलिर्हास्यसंबन्धो द्वित्रिप्रत्युक्तितो भवेत् ॥ २५९ ॥ द्वित्रीत्युपलक्षणम् । यथा— ‘भिक्षो मांसनिषेवणं प्रकुरुषे, किं तेन मद्यं विना मद्यं चापि तव प्रियं, प्रियमहो वाराङ्गनाभिः सह । वेश्याप्यर्थरुचिः कुतस्तव धनं, द्यूतेन चौर्येण वा चौर्यद्यूतपरिग्रहोऽपि भवतो, नष्टस्य कान्या गतिः ॥’ केचित्—‘प्रक्रान्तवाक्यस्य साकाङ्क्षस्यैव निवृत्तिर्वाकेलिः’ इत्याहुः। अन्ये च ‘अनेकस्य प्रश्नस्यैकमुत्तरम् । अन्योन्यवाक्याधिक्योक्तिः स्पर्धयाधिवलं मतम् । ‘त्वया विरहिता मया दृष्टा’ इत्युत्तरम् ॥ त्रिगतपदव्युत्पत्तिमाह—नटादीति’ आदिना नटीप्रतिनटयोर्ग्रहणम् । इदं त्रिगतम् ॥ छलमाह—प्रियाभैरिति । प्रियतुल्यैरित्यर्थः । छलना वञ्चना ॥ जतुमयशरणाद्दीपनः अनुजशतस्य अङ्गराजस्य कर्णस्य । कृष्णा द्रौपदी तस्याः केशोत्तरीययोगपद्ये पटुः । अत्रे भवाव । ‘आवाम्’ इति शेषः ॥ वाकेलिमाह—वाकेलिरिति । द्वे वा तिस्रो प्रत्युक्तयस्ताभ्यः । समानप्रत्ययानाममित्यत्रादत्र डप्रत्ययाभावः । अनेकस्येत्यर्थः म्युनगमिति वाकेलित्याहुर्गलन्वयः ॥ अधिवलमाह—अन्योन्येति ।...
- द्वित्रीति । तथा चाह दशरूपककार—‘द्युतिमापन्नादेकस्यैवार्थवचन... ण्ड द्वित्रिवादाः पूर्वंरङ्गे नविध्यन्ते ॥’ इति ॥
षष्ठः परिच्छेदः । ३६१ यथा मम प्रभावत्याम्—‘वज्रनाभः— ( अस्य वक्षः क्षणेनैव निर्मथ्य गदयानया । लीलयोन्मूलयाम्येष भुवनद्वयमद्य वः ॥ ) प्रद्युम्नः—अरेरे असुरापसद, अलममुना बहुप्रलापेन । मम खलु अद्य प्रचण्डभुजदण्डसमर्पितेरु- कोदण्डनिर्गलितकाण्डसमूहपातैः । आस्ता समस्तदितिजक्षतजोक्षितेयं क्षोणिः क्षणेन पिशिताशनलोभनीया ॥’ गण्डं प्रस्तुतसंबन्धि भिन्नार्थं सत्वरं वचः ॥ २६० ॥ यथा वेण्याम्—‘राजा— अध्यासितुं तव चिराज्जघनस्थलस्य पर्याप्तमेव करभोरु ममोरुयुग्मम् ॥’ अनन्तरम् ‘(प्रविश्य) कञ्चुकी—देव, भग्नं भग्नं—’ इत्यादि । अत्र रथकेतनभङ्गार्थं वचनमूरुभङ्गार्थे सबन्धे सबद्धम् । व्याख्यानं स्वरसोक्तस्यान्यथावस्यन्दितं भवेत् । यथा छलितरामे—‘सीता—जाद, कालं क्खु उअज्झाएण गन्तव्वम्, तर्हि सो राजा विणएण पणयिदव्वो । लवः—अथ किमा- दाभ्या राजोपजीविभ्या भवितव्यम् । सीता—जाद, सो क्खु तुह्माणं पिदा । लवः—किमादयो रघुपतिः पिता । सीता—( साशङ्कम् । ) ना अप्पधा सक्कइम् । ण क्खु तुह्माणम्, सअलाए जेव पुहवीएत्ति ।’ पिशितेन दानवातिशयेनेति ॥ अस्य प्रद्युम्नस्य । वो देवानाम् ॥ गण्डमाह— प्रस्तुतसम्बन्धि प्रस्तुतार्थसंबद्धम् ॥ पर्याप्तं समर्थम् ॥ सम्बन्धे प्रस्तुते ॥ अवस्य- न्दितमाह—व्याख्यानमिति । स्वरसोक्तस्य ‘अवश्यम्’ इति शेषः ॥ जाद इति । ‘पुत्र, काल एव उपाध्यायेन गन्तव्यम्, तत्र स राजा विनयेन प्रणयि- तव्यः’ ( इति संस्कृतम् । ) ‘पुत्र, स खलु युष्माकं पिता ।’ इति संस्कृतम् । ‘ना अन्यथा शक्यम् । न खलु युष्माकम् । सकलस्य एव पृथिव्या इति ।’ इति संस्कृतम् । अत्र सीतया युष्मच्छब्दोक्तः श्रीराम इत्यभिप्रायेणेदं वचनम् । ‘वत्सर-’
- आख्यानमिति । प्रस्तुतार्थं ह—रहोनावुञ्च्य पवनदुर्गोऽनुषङ्ग प्रवृत्ते- इति मम तोरुन्तवाप्यन ।’ इति । साहि० ३१
The provided image is completely blank (white) and does not contain any text to transcribe.
षष्ठः परिच्छेदः । ३७९ कथांशानां व्यवच्छेद आश्वास इति बध्यते । आर्यावक्त्रापवक्त्राणां छन्दसा येन केनचित् ॥ ३३५ ॥ अन्यापदेशेनाश्वासमुखे भाव्यर्थसूचनम् । यथा—हर्षचरितादिः । 'अपि त्वनियमो दृष्टस्तत्राप्यन्यैरुदीरणात् ।' इति दण्डाचार्यव- चनात्केचित् 'आख्यायिका नायकेनैव निबद्धव्या' इत्याहुः, तदयुक्तम्। आख्यानादयश्च कथाख्यायिकयोरेवान्तर्भावान्न पृथगुक्ताः । यदुक्तं दण्डिनैव— 'अत्रैवान्तर्भविष्यन्ति शेषाश्चाख्यानजातयः ।' इति । एषामुदाहरणम्—पञ्चतन्त्रादि । अथ गद्यपद्यमयानि— गद्यपद्यमयं काव्यं चम्पूरित्यभिधीयते ॥ ३३६ ॥ यथा—देशराजचरितम् । गद्यपद्यमयी राजस्तुतिर्बिरुदमुच्यते । यथा—बिरुदमणिमाला । करम्भकं तु भाषाभिर्विविधाभिर्विनिर्मितम् ॥ ३३७ ॥ यथा मम—प्रौढगणपतिप्रशस्तिरत्नावली । च्छित्तिम् ॥ दण्डाचार्यवचनादिति हेतुः 'तदयुक्तम्' इत्यत्रान्वेति । एषा- मस्य विवरणम् ॥ गद्यपद्यानीति गद्यपद्यमयानीत्यर्थः । भेदाः अन्तरम- भिधेयाः । उद्देशक्रमाद्बिरुदं लक्षयितुं गद्यपद्यमयीत्याह । तथा च केवलपद्यनि- र्भितम्, न तु गद्यनिर्मितमपि ॥ इति दर्पणरसास्वादसंज्ञिकायां साहित्यदर्पणटीकायां षष्ठः परिच्छेदः ।
- चण्डीदासेनेति । साम्प्रतिकैर्निरूप्यते
- दृष्टेनेति । दृश्यते चेदमपरत्राप्यनुभूयत एवेत्यर्थः । मन्त्रादीनां तु काव्यादि- व्यतिरिक्तत्वेनैवाकाव्यत्वं साधूक्तम् । अत एवेतिहासपुराणादौ काव्यशब्दानु- पपत्तिरिति ।
- यथेति । दृश्यते चेदमपरत्रापि
३८० साहित्यदर्पणे अस्यार्थः प्रागेव स्फुटीकृतः । तद्विशेषानाह— ते पुनः पञ्चधा मताः । पदे तदंशे वाक्येऽर्थे संभवन्ति रसेऽपि यत् ॥ १ ॥ स्पष्टम् । तत्र दुःश्रवत्रिविधाश्लीलाऽनुचितार्थाप्रयुक्ताः । ग्राम्याप्रतीतसंदिग्धनेयार्थानिहतार्थताः ॥ २ ॥ अवाचकत्वं क्लिष्टत्वं विरुद्धमतिकारिता । अविमृष्टविधेयांशभावश्च पदवाक्ययोः ॥ ३ ॥ दोषाः केचिद्भवन्त्येषु पदांशेऽपि पदे परे । निरर्थकाममर्थत्वे च्युतसंस्कारता तथा ॥ ४ ॥ परुषवर्णतया श्रुतिदुःखावहत्वं दुःश्रवत्वम् । यथा— 'कार्तान्त्ये यातु तन्वङ्गी कदानङ्गमवंवदा ॥' अस्यार्थ इति । प्रागेव प्रथमपरिच्छेदे एव । श्रुतिदुष्टादेः शब्दार्थोभयधर्मत्वेऽपि रसापकर्षत्वमिति नाव्याप्तिरिति भावः ॥ तद्विशेषान् दोषविभागान् । ते दोषाः तदंशे पदांशे ॥ दोषविशेषान्निर्दिशति—दुःश्रव इति । अयं भावप्रत्ययेन निर्देशः । दुःश्रवत्रिविधाश्लीलेति समस्तपाठे भावप्रत्ययस्य सर्वत्रान्वयात् पृथग्दोषेषु ॥ उद्देशक्रमेण दुःश्रवत्वादिलक्षणं सोदाहरणमाह—परुषेति । केषां- चित्स्पष्टत्वाद्बुदाहरणस्यैव दर्शनम् । 'श्रुतिपतितमात्रं यद्वैषम्यमवदति तत्तद् दुःश्रवं सर्वथा हेयमिति प्रथमं तदुपन्यासः' इत्यन्ये । परुषवर्णता वर्णानां पारुष्यं पुनरुपरिष्टा- र्गोर्भाविष्यति । श्रोतॄणां श्रोत्रावच्छेदेन दुःखजनकत्वं श्रुतिदुःखावहम् । श्रुति- रित महद् यावद् श्रुतिदुःखावहम्, तत्त्वं वा । कार्तान्त्यमिति । अत्र तस्य रेफयोर्योर्गेन पारुष्यम् । तत्प्रयुक्तं पदस्य दुःश्रवत्वं साश्रयपदमपनीयमाने प्र- मत्तस्य शृङ्गारमयस्य प्रकर्षप्रतीतिं प्रतिबध्नाति । इदमेव 'श्रुतिकटु' इत्यभिधीयते नन्वेतनपदानपारुष्यमेव न तु पदपारुष्यमिति चेन् । न । यावद्वटपटशिरोमणिका-
- कार्तान्त्यमिति । 'अनङ्गमङ्गद्गृहापाङ्गभङ्गिरङ्गिभिः । आलिङ्गितः स दयितां कार्तान्त्यं लभते कदा ॥' इति प्रकाशोदाहरणानुरूपम् ॥ १. 'भवन्' घ-पुस्तके नास्ति. २. 'प्राप्यः क. ३. 'दारम्' ङ-सु-ग-प.
सप्तमः परिच्छेदः । ३८१ अश्लीलत्वं व्रीडाजुगुप्सामङ्गलव्यञ्जकत्वात्त्रिविधम् । क्रमेणोदाहरणम्— 'दसारिविजये राजन्साधनं सुमहत्तव ॥' 'प्रससार शनैर्वायुर्विनाशे तन्वि ते तदा ॥' अत्र साधन-वायु-विनाश-शब्दा अश्लीलाः । 'शूरा अमरता यान्ति पशुभूता रणाध्वरे ॥ अत्र पशुपदं कातर्यमभिव्यनक्तीत्यनुचितार्थत्वम् । पारम्पर्यप्रयुक्तवाच्येषु धवलवतदघटकद्वित्रादिवर्णपारम्पर्यप्रयुक्तपदेषु भयतन्य नी- वारात् । असंख्यार्थान्तरव्यञ्जकमश्लीलं तस्य भावनता । पदगतश्लीलत्वं तु असमर्थस्मृतिहेतुत्वमेव । जुगुप्सा घृणा । अमङ्गलममङ्गलशङ्का । व्यञ्ज- कमिह जनकत्वमेव ॥ अत्रेति । सैन्ये प्रयुक्त साधनशब्दो मेढ्रव्यञ्जनतया श्रोतुर्लज्जाजननेन राजविषयरतिभावस्य, समीरणे प्रयुक्तो वायुशब्दः पशुपानुप- ङ्गकतया श्रोतुर्जुगुप्साजननेन, अदर्शने प्रयुक्तो विनाशशब्दश्च मृत्युव्यञ्जनतया अमङ्गलशङ्काजननेन, शृङ्गारस्य प्रकर्षप्रतिबन्धक ॥ अनुचितार्थत्वं ह्यतिदा- र्ढ्यार्थदोषप्रतिपादकत्वेन, ह्यतिदार्ढ्यासम्भवेन, ह्यतिदार्ढ्यानर्थक्येन । तत्रोदाहर— शूरा इति । पशुभूताश्चेत्यस्वरूपा । अत्र वाच्यार्थस्य शूरस्य व्यङ्ग्यो दोष । १. अश्लीलममिति । व्रीडा लज्जाप्रदार्थोपस्थित्यादि नास्तीति । 'उभयोद्भयम्...' इति च । तद्भिन्नम् । दर्शितोदाहरणे यत् ॥ २. अत्रेति । 'साधन'पद का धोती/उपस्थीति दूषण स्वीकार्य्यम् । हे राजनू! त्रिप- क्षिणां तुभ्यम् यत् सैन्यं तदप्युत्कृष्टं यद् द्विषतामथ प्रतिभटवर्गाणां जयसिद्धये न हेतुः सुतरां सैन्यविशेषतः सिद्धम् । अतः 'साधन' शब्दस्य यत् सैन्यपरकत्वेऽप्युक्तं तस्य यदि लिङ्गार्थकत्वेनापि विपरिणामः स्यात् । तथा'तन्वि—तव वायुः'इत्यादावपि वायुपदस्य वाते प्रयुक्तस्यापि गुदजवातेऽर्थे पर्यवसानं स्याद् इति । 'सुतरां पृष्ठाभिघातकेन स्पर्शेन यः समीरः प्रससार' स चेदपशब्दाद् अमङ्गलं स्यात् । 'विनाश'शब्दाद् अप- मृत्युप्रतीतिरपि सम्भवति तस्माद् दुष्टमेवेत्याहुः एतेषां शब्दानां वाचकत्वे सत्यपि यन्म- लिनोऽर्थो बोध्यते तदेव दूषणम् । अतो जुगुप्साव्यञ्जकम् इति चेद् व्रीडा-व्यञ्जकत्व- दर्शनाद् अमङ्गलव्यञ्जकत्वं स्यात् । ३. पशुपदमिति । 'पशुभूता' इति शब्देन यद्भवत्सु भीतिर् उत्पन्ना साऽप- राधाय, पराक्रमाय न सम्पत्स्यते इत्यर्थः । 'पशुभूताः शूरा अमरतां यान्ति' इति श्लोकार्थे भीतौ सत्यामपि अमरत्वम् उपदिश्यते न तु शूरत्वम् अतोऽनुचितार्थत्वम् । यतो हि अमरत्वस्यावश्यम्भावेऽपि भीतत्वे सति शूरत्वं न सम्भवतीत्यतोऽनुचितत्वं पशुपदे दोषः ।
३. चतुर्थ परिच्छेद: ध्वनि व गुणीभूतव्यङ्ग्य भेद
३८२ साहित्यदर्पणे अप्रयुक्तत्वं तथाप्रसिद्धावपि कविभिरनादृतत्वम् । यथा- 'भाति पद्मः सरोवरे ॥' अत्र पद्मशब्दः पुंलिङ्गः । ग्राम्यत्वं यथा- 'कटिम्ने हरते मनः ॥' अत्र कटिशब्दो ग्राम्यः । अप्रतीतत्वमेकदेशमात्रप्रसिद्धत्वम् । यथा- 'योगेन दलिताशयः ॥' अत्र योगशास्त्र एव वासनार्थ आशयशब्दः । तस्य व्यञ्जकत्वात्तच्छ्रुपदस्यानुचितार्थत्वम् । द्वितीयं यथा-'प्रज्वलज्ज्वल... पतन्ति शरानव ।' अत्र प्रज्वलदिति पदमनुचितार्थम् । तृतीयं यथा-'दि... राद्रक्षति यो गुहासु लीनं दिवाभीतमिवान्धकारम् । क्षुद्रेऽपि नूनं शरणं प्र... ममत्वमुच्चैःशिरसामतीव ॥' अत्रामङ्गत्वान्यन्धकारभयस्य समर्थकं द्वितीयं... चितार्थम् । एवमन्यदपि ज्ञेयम् ॥ तथाप्रसिद्धावपि तेन रूपेण प्रसिद्धिशक्त्यौ... पुंलिङ्ग इति । 'अप्रयुक्त' इति शेषः ॥ हालिकसाधारणप्रसिद्धेरिति... ग्राम्यः । कटिरिति । अत्र शृङ्गारस्य गूढवृत्तत्वादलाभवान्प्रकर्षगतेर्दि... रोधः ॥ योगेन प्रकृतिपुरुषयोर्भेदचिन्तनेन दलितः खण्डित आशयो वास... यस्य सः । आशयशब्दोऽप्रतीत इति शेषः । अत्र योगशास्त्राननुशीलिनः... पदार्थानामिज्ञाना योगिपिदम'वबोधविलम्बकरत्वमप्रतीतत्वम् ॥ प्रकारपादने... 1 पद्मेति । 'वा पुंसि पद्मम्' इत्यनेनाज्ञातोऽपि पुंलिङ्गः पद्मशब्दः कविभिर्न ह... प्रयुक्तः । अत्र दूषकताबीजं तु तादृशरुतिममयलङ्घनप्रयोजनानुसन्धानलक्षणोद्वेग... ऽवति । यमकादिप्रयोजनमत्त्वे तु नायं दोषः, अन्यत्राऽप्युच्चनिश्चैति न... भिः प्रयोगस्य दर्शनेन व्यङ्ग्याभावादिति ॥ 2 कटीति । अत्रेदं तत्त्वम्—श्रोणीनितम्बादिनेव विदग्धैः प्रयुज्यते, कटिशब्दस्तु... दग्धमात्रप्रयोज्यमिति ग्राम्यम् । पदं त्रिविधम्—ग्राम्यं नागरमुपनागरं च । विदग्ध... प्रसिद्धं नागरम्, ग्राम्यकक्षातिक्रान्तमप्राप्तनागरभावमुपनागरम्, नागरेणनादरे हि... ग्राम्यशब्दप्रयोगाद्वक्तुर्विदग्धगोपनयेनात्र दौष्ट्यम् । अत एव विदूषकादावधने वक्तृ... दोषत्वम्, तस्य तथैवाचित्येन वैरस्याभावात् ॥ अत्र प्रकाशे संपूर्णश्लोकस्त्वेवम्-... 'राकाविभावरीकान्तसक्रान्तद्युति ते मुखम् । तपनीयशिलाशोभा कटिश्च हरते मनः ॥' 3. योगशास्त्र इति । 'क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः' इ... पातञ्जलसूत्रे (१।२४) वासनार्थक आशयशब्दः प्रयुक्तः । वासना चात्र दृ... निदानं मिथ्याज्ञानजन्यः संस्कारविशेषः । दूषकताबीजं तु तच्छात्रानभिज्ञस्य तदा...
सप्तमः परिच्छेदः । ३८१ 'आशीःपरम्परां वन्द्यां कर्णे कृत्वा कृपां कुरु ॥' अत्र वेन्द्यामिति किं बन्दीभूतायामुत वन्दनीयायामिति संदेहः । नेयार्थत्वं रूढिप्रयोजनाभावादशक्तिकृतं लक्ष्यार्थप्रकाशनम् । यथा— 'कमले चरणाघातं मुखं सुमुखि तेऽकरोत् । अत्र चरणाघातेन निर्जितत्वं लक्ष्यम् । लेपादिनार्थजनयः शब्दः संदिग्धः । आशीरिति । कर्णे कृत्वा श्रुत्वा । राजेति । शामिति पदस्य संदिग्धतय शाब्दबोधविलम्बेन राजविषयाशीर्वादाबोधस्यानिवृ- कृत् ॥ अशक्तिकृतं कवेरसामर्थ्यप्रयुक्तम् । असंभवन्मन्त्रानुवदति ॥ चर- घातेन चरणापातपदेन निर्जितत्वं पराभवः । मुखस्य चरणप्रसरणादावसं- भाव्यसंभव इत्यन्वयानुपपत्तिः । वैवमप्यचरणाघातपराभवः स्वपादहतिराग- खवत्वं मुखकमलयोः संबन्धः । अत्र रूढिप्रयोजनव्यतिरिक्तपदेन गृहीत- विनिश्चयः ततो दृष्ट्योपस्थितिः ततः शाब्ददोष इति दृष्टिवैशिष्ट्यं शब्दार्थविशे- षस्यानुपरताधीयम् । केचित्तु—'विशिष्टशक्तिग्रहस्य प्रयोजनैर्विशिष्टलक्ष्ये ऽनेयार्थम्' इति चेत् । न । रूढिप्रयोजनाभावपरस्य मुख्येऽर्थेऽन्वयानुपपत्ति- रूपपरतया प्रकृते तत एव नेयार्थत्वान्तरत्वात् । केचित्—'पद्धतिर्भिन्नैव स्याद् भवेद् यतितं न तु चरणाघातेनेति तन्निर्जितत्वस्यानुपपन्नत्वान्न' इत्याहुः । तन्न । तत्र हि लक्षणाजन्यबोधानन्तरं तादृशप्रतीतिरित्युन्नीयते, न तु निर्जितत्वादिरूपैव प्रतीतिः । तच्चार्थाभावात्, इत्यलक्ष्यं स्पष्टीकृतत्वाभावश्च । यत्तु सत्कविप्रसिद्धिरुन्नीयते इत्याहुः, तन्मन्दैरेवोपपादितत्वात् । दुपपत्तिः । १. आशीःपरम्परामिति पाठान्तरम् । २. वन्द्यामिति पाठान्तरम् । ३. गदाधरेण 'कमलेऽकरोन्मुखं' इति पाठान्तरम् । ४. गदाधरेण 'न तु चरणाघातेनेति निर्जितत्वस्याप्रतीतेः' इति पाठान्तरम् दृश्यते ।
- वन्द्यामिति । बन्दीं कृत्वा राज्ञां सभायां स्तुतिपाठकत्वेन स्थापितां स्तुती रागादिश्रवणेन संपाद्य तां वन्द्यां नृपाशीर्वादरूपां स्तुतिं श्रुत्वा स्वस्मिन् संपादितायाः स्तुतेः श्रवणेन सन्तुष्टो राजा वन्दीभूतां मुक्त्यर्थं प्रार्थयते सा किम् ? उत बन्दनयोग्यां सतीं नृपाशीर्वादरूपां स्तुतिं श्रुत्वा सन्तुष्टः सन् कृपां कुर्यादिति संशयः ।
- नेयार्थत्वमिति । यत्र लक्षणाबीजस्य रूढिप्रयोजनान्यतरस्याभावेऽपि शक्तिभ्रमात् प्रयुक्तेन पदेन लक्ष्यार्थबोधः क्रियते तन्नेयार्थम् । यथाऽत्र चरणाघातरूपमुख्यार्थ- संबन्धेन चरणप्रसरणादावेव चरणस्याघातासंभवात् तिरस्कारात्मकेऽर्थे चरणाघात-
The provided image is blank and does not contain any readable text to transcribe. Please provide an image that contains text.
सप्तमः परिच्छेदः । ३८७ यथा- 'नैवजलधरः संनद्धोऽयं न दृप्तनिशाचरः ॥' उक्तोदाहरणे तु तत्पुरुषसमासे गुणीभावे नञ्. पर्युदासत्या निषे- धस्य विधेयतयानवगमः । यदाहुः- पदार्थतावच्छेदकेन सह सम्बन्धस्य वाक्ये असौ नञ् । प्रसज्यप्रतिषेध इत्यर्थे ॥ उदाहरति-यथेति । नवजलधर इति । गन्धर्वेणोर्वश्या हृताया पुरूरवस- स्तद्विरहे नवजलधरादौ निशाचरादिप्रतीतिरित्पैतन्निदम् । अयं सन्नद्धो न नवज- लधर, दृप्तनिशाचर इति । अयं नवजलधरत्वाभाववानित्यर्थः । अत्रेशपदार्थस्य उद्देश्यत्वम्, नञर्थस्याभावस्य विधेयत्वम्, समभिव्याहृतपदार्थतावच्छेदकेन सह नञर्थस्य सम्बन्धः । न च विधेर्भावपदार्थस्येति व्यारोद्धम् । सन्नद्धो न दृप्तो- नापिलादस्येष्टत्वापत्तेः । विधेयेति । यथारूपताविधेयत्वे तु 'घटो न पटोऽयम्' इत्याद्यसङ्ग्रहेऽप्युदाहरणायसङ्ग्रहता । न च सर्वत्र क्रियान्वयित्वेनै- वोदाहरणादौ नञ प्रसज्यप्रतिषेधत्वमेवे नासीति वाच्यम् । तत्र निषेधविधेयत्वा- भावेन पर्युदासत्वासम्भवात्तत्तत्प्रकारान्तरेणैव प्रसज्यप्रतिषेधत्वस्योदाहर्तुं श- क्यत्वात् । अत एवान्वर्थमादायाभिप्राये गोपीचन्द्रोऽप्याह-'धर्मधर्मिणोः प्र- सज्यप्रतिषेधो नाभूत्', 'प्रत्यग्रोऽयं न भवति', 'इत्यन्वयं प्रक्रैद्य निषिध्यते' इति । 'दुर्निवारम्' इत्यादी रूपात्तुप्रतिषेधत्वमप्रतिपद्यते केवलं नञर्थस्य सम्बन्धः । यदाह 'घटो नेति न घटते', 'तन्न श्रेयसा न योज्यम्' इत्यादौ क्रियान्वयेन सह नञर्थस्यान्येऽपि प्रसज्यप्रतिषेधः स्यात् । सर्वत्र निषेधविधौ नञ्प्रयोगा- दित्यन्वयित्वासाधितम् एव । एवं च 'घटो न पटः' इत्यादावुभयपदार्थेन सह क्रियान्वयं विनापि नञर्थसम्बन्धेऽपि विधित्वमेव प्रसज्यप्रतिषेधस्य । न ह्यत्र घटाभाव एव विधेयः न तु पटभेद इति वाच्यम् । एतेनैतदपि नीतं सर्वत्र नञर्थस्य विधेयत्वैव तस्य प्रसज्यप्रतिषेधरूपत्वाभिप्रायः इतरेतर- भेदाभावयोर्विधेयत्वेन तयोर्निषेध्यप्रतिषेधत्वेनोपपत्तिरिति भावः ।' यद्विधेयं तदभावः (इत्येव प्रसज्यप्रतिषेधत्वं वाच्यम् इति प्रतिषेध्यतादा- त्म्याणां क्रियान्वयित्वस्यापि प्रसक्तत्वात् इति भावः । यत्तु 'आश्रयाभावत्वेन तदभावयोर्विधेयत्वे सामानाधिकरण्यम्' इति तन्निराकृतम् । सर्वत्रैव प्रसज्यप्रतिषेधे विधेयता नञर्थस्य सर्वत्र सम्भवति-एवमेवावधायितमिति दिक् । यदाहुः- पर्युदासोऽयं यत्र पूर्वपदार्थप्राधान्यम् । समासस्यो- ....................................................................... ....................................................................... .......................................................................
क्वचिदनुपात्तयोर्द्वयोरपि सामर्थ्यादवगमः । यथा— 'न मे शमयिता कोऽपि भारस्येत्युर्वि मा शुचः ॥ नन्दस्य भवने कोऽपि बालोऽस्त्यद्भुतपौरुषः ॥' अत्र योऽस्ति, स ते भारस्य शमयितेति बुध्यते । 'यद्यद्विरहदुःखं मे तत्को वापहरिष्यति ॥' इत्यत्रैको यच्छब्दः साकाङ्क्ष इति न वाच्यम् । तथाहि—ऐ- त्यनेन केनचिद्रूपेण स्थितं सर्वात्मकं वस्तु विवक्षितम् । तथानूद्य तत्- तच्छब्देन परामर्शः । एवमन्येषामपि वाक्यगतत्वेनोदाहरणं योज्यम् । पदांशे दुःश्रवत्वं यथा— 'तद्गच्छ सिद्धयै कुरु देवकार्यम् ॥' 'धातुमत्तां गिरिर्धत्ते ॥' दर्शनीय इति ॥ द्वयोर्यत्तत्पदयोः । सामर्थ्यादाकाङ्क्षात् ॥ ननु यत्र पूर्ववाक्ये यत्पदद्वयं तत्र कथमेकतत्पदेन निराकाङ्क्षप्रतीतिः । तत्र तत्पदद्वन्द्वस्यैव समु- योग्यत्वात् । यथा—'यं यं कामयते कामं तं तमाप्नोति लीलया' इति । तत्र आह—यद्यदिति । एक इति । उत्तरवाक्ये एकतत्पदप्रयोगोऽहं इति भावः । सर्वात्मकमिति । विरहदुःखत्वेन सामान्येन सर्वं विरहदुःखमित्यर्थः ॥ तथा- भूतस्य विरहदुःखत्वावच्छिन्नस्य । तथा च वीप्साया वक्तुस्तात्पर्यमेव निदानङ्कदा सामान्यरूपेण उपस्थापने वक्तृतातपर्यं सति न तत्पदे वीप्सा । तत्तद्विशेष- उपस्थापने तात्पर्यं मनि तत्पदे वीप्सा । क्वचित्तु तत्पदे एव वीप्सा, न तु यत्पदे । यथा—'ते ते सत्पुरुषा परार्थघटकाः स्वार्थस बाधेन ये ॥' एवमिति । अन्येषामनुचितार्थत्वादीनाम् । तच्च मया दर्शितमेव ॥ 'दोषाः केचिद्भवन्त्ये-' १. यद्यदिति । परमार्थस्तु यद्यदिति न पदद्वयम् । किंतु 'नित्यवीप्सयोः' इति सूत्रेण या यडो द्वित्वापन्नोऽयमादेशः । एव चादेशिनैकेन यत्पदेन तत्पदेन वाऽन्यान्यतरेण रूपेण दुःसपरामर्शः । आदेशान्तु सावत्त्वेनान्वये तात्पर्येग्राहके इति यत्तत्पदे न सम्बन्धभानोपपत्तौ न तत्पदेऽपि वीप्साद्योतनरो द्वित्वापन्न आदेशः । यत्र तु तत्पदेऽपि वीप्सा तत्र न यत्पदेऽप्यादेशः । किं तुभाभ्या रूपद्वयेन सर्वोत्पन्नानर्थ्य- तत्त्वम् ॥ २. सिद्धयै इति । अत्र 'सिद्धै' इति चतुर्थ्यन्तपदैकदेशः श्रुतिकटु ॥ अत्र 'तद्गच्छ' मर्थान्तरलम्ब्य एव । अपेक्षते प्रत्ययमङ्गगच्छ्यै बीजाङ्कुर प्रागुदयादिवाग्म ॥' इत्य- वशिष्टा पादत्रयी ॥ १ 'प्रयोगात्' पुस्तकान्तरे
अत्र मत्ताशब्दः क्लीबार्थे निहतः । 'वर्ण्यते किं महासेनो विजेयो यस्य तारकः ॥' अत्र विजेयं इति कृत्यप्रत्ययः क्तप्रत्ययार्थेऽवाचकः । 'पाणिः पल्लवपेलवः ॥' पेलवशव्दस्याद्याक्षरे अश्लीले । 'संग्रामे निहताः शूरा वचोवाणत्वमागताः ॥' अत्र वचःशब्दस्य गीःशब्दवाचकत्वे नेयार्थत्वम् । तथा तत्रैव वाण- वाने शरेति पाठे । अत्र पदद्वयमपि न परिवृत्तिसहम् । जलध्यादौ दाशेऽपि पदे परे' इति यदुक्तम्, तदुदाहरणमाह-तद्गच्छेति ॥ अश्लीले ति । व्रीडाव्यञ्जके ॥ जुगुप्साव्यञ्जकं यथा- 'पूयते' इति । अत्र पूयशब्द । अमङ्गलव्यञ्जकं यथा- 'अभिप्रेत' इति । अत्र प्रेतशब्दः ॥ वचोवाणत्वं गीर्वाणत्वम् । गीःशब्दवाचकत्वे इति । लक्षणया गीःशब्दप्रतिपादकत्वे इत्यर्थ । तथा नेयार्थत्वम् । तत्रैव गीर्वाणशब्द एव । परिवृत्तिसहं श्रुतश-
- अत्र धातुमतो भावो धातुमत्तेति पदैकदेशेन क्लीबार्थेन मत्ताशब्देन मतुपोऽर्थो नेहन्यते । अत्र 'पद्माप्सरोविभ्रममण्डनानां संपादयत्री शिखरेर्विभाति । वलाहकच्छेद- विभक्तरागामकालसन्ध्यामिव धातुमत्ताम् ॥' इति तच्छेषम् ॥
- विजेय इति । 'अर्हे कृत्यतृचश्च' इति सूत्रेणार्हार्थे 'अचो यत्' इति सूत्रेण विहितः कृत्यसंज्ञो यत्प्रत्ययो भूतत्वरूपे क्तप्रत्ययार्थेऽवाचकः ॥ अत्र 'चापाचार्यस्त्रिपुर- विजयी कार्तिकेयो विजेयः शस्त्रन्यस्तः सदनमुदधिर्भूरियं हन्तकार । अस्यैवैतत् त्रिभुवनपतेः कृण्वतो रेणुकाकण्ठदाया दत्तरूपस्त्वय परशुना लूनने चन्द्रहासः ॥' इत्यपनीयम् ॥
- पेलवेति । 'पेल' इति वर्णद्वयं लाटभाषाया वृषणरूपस्याद्रव्यत्याचकत्वया व्रीडा- दायीति प्रकाशव्याख्याताराः ॥ अत्र 'अतिपेलवमतिपरिमितवर्णं लघुदन्तमुदाहरति भट । परमार्षतः सहृदयं हरति पुनः कालकूटघटिनमिव ॥' इति प्रकाशोदाहरणं शरणम् ॥
- जलध्यादाविति । तथा चोक्तममरासिंहेन-'उत्पादिषु पूर्वपदे सरोजमूर्धेषु चोत्तरपदेषु । वारिजनेषु चोभयपदेषु पर्यायाप्रवृत्तिः ॥ इति परिवृत्तिसहा ये दीक्षात्वे दीक्षिताः शब्दाः । परिवृत्त्यसहा ये तु निभ्रा गीर्वाणतुल्यास्ते ॥' द्योतत्विन्त्यो गीर्वाणदित्येतच्छब्दाः परिवृत्तिं न सहन्त इत्यर्थः ॥ अत्र वचोबाणेत्युदाहरणम् 'सिंह- च्छत्रेडस्य भूपालमौलिमाणिक्यनंशानोः । मुकुटैर्नं वचोबाणैश्चेतो दन्तं निनाय्यते ।' इत्येतदनुरूपम् । वचोबाण गीर्वाणः शब्दयोरभेदात् ॥
कोई OCR पाठ नहीं।
सप्तमः परिच्छेदः। ४२१ अतिविस्तृतिरङ्गस्य प्रकृतीनां विपर्ययः । अर्थानौचित्यमन्यच्च दोषा रसगता मताः । रसस्य स्वशब्दो रसशब्दः शृङ्गारादिशब्दश्च । क्रमेण यथा— 'तामुद्वीक्ष्य कुरङ्गाक्षीं रसो नः कोऽप्यजायत ॥' 'चन्द्रमण्डलमालोक्य शृङ्गारे मग्नमन्तरम् ॥' स्थायिभावस्य स्वशब्दवाच्यत्वं यथा— 'सजायत रतिस्तस्यास्त्वयि लोचनगोचरे ॥' व्यभिचारिणः स्वशब्दवाच्यत्वं यथा— 'जाता लज्जावती मुग्धा प्रियस्य परिचुम्बने ॥' अत्र प्रथमे पादे 'आसीन्मुकुलिताक्षी सा' इति लज्जाया अनुभाव- मुखेन कथने युक्तः पाठः । 'मानं मा कुरु तन्वङ्गि ज्ञात्वा यौवनमस्थिरम् ॥' अत्र यौवनास्थैर्यंनिवेदनं शृङ्गाररसस्य परिपन्थिनः शान्तरसस्याङ्गं शान्तस्यैव च विभाव इति शृङ्गारे तत्परिग्रहो न युक्तः । 'धवलयति शिशिररोचिषि भुवनतल लोकलोचनानन्दे । ईषत्स्मितकटाक्षा लॆरसुमुखी सा निरीक्ष्यतां तन्वी ॥' अत्र रतस्योद्दीपनालम्बनविभावावनुभावपर्यवसायिनौ स्थिताविति दुष्टकल्पना । दित्यर्थः रसस्यैव । प्रकृतीनां नायकौचितधर्माणाम् विपर्ययोऽन्यथावर्तनम् । इद- मेवानौचित्यम् । अन्यत्प्रकृतेर्निर्धर्त्यत्विम् ॥ कोऽप्यनिर्वचनीयप्रमदः ॥ व्यभिचारिणः सम्भवनेयोगत एव स्वशब्दवाच्यत्वं दोषः, रसव्यापृतार्थसम्पादने तु न दोषः । यथा लज्जामन्थरेति, भमन्वित्तमुखे च । स्वशब्दवाच्यत्वं रसादिप्रकर्षदोषप्रविपर्यस्तम् ॥ विरोधिकलापपरिग्रहमुदाहरति—मानमिति । शान्तस्यैव चेति । चशब्दो हेतौ । विभाव उद्दीपनविभावः । तत्परिग्रहो यौवनास्थैर्यतिवेदनपर्यन्तम् ॥ अनुभावस्य व्यञ्जकत्वमाह—धवलयतीति । विशि- ररोचिषि चन्द्रे चन्द्रिकयोद्भासमानतल इत्यर्थः । अत्रेति । आलम्बनं १. तामिति । 'तामुन्मदकटाक्षविभ्रमाभिरुद्भासितानन्दाम् । नेत्राभ्यामुपल- भ्यमानगोचरे वीक्ष्यास्माकं रसो निष्पन्नः ।' इति प्रकाशीकारसम्मतम् पूर्वार्द्धम् २. चन्द्रेति । 'निर्मेघमेकदेशेन्दुबिम्बाभिरुद्भासिते गगने शृङ्गारसङ्गिचित्तं वृत्तम् । पूर्वार्द्ध काव्यप्रकाशे विलोकनीयः शृङ्गारमपि सर्वतोऽवगाहितम्' इति प्रकाशीका- रस्याभिप्रायः ।