भारतकोश
संग्रह पर लौटें

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

५० साहित्यदर्पणे गोशब्दात्स्यागृहीतसंकेतं वाहीकार्थमभिधातुमशक्यत्वाद् गोशब्दार्थमात्र- बोधनाच्च । अभिधाया विरतत्वाद् विरतायाश्च पुनरुत्थानाभावात् । अन्ये च पुनर्गोशब्देन वाहीकार्थो नाभिधीयते । किंतु स्वार्थ- सहचारिगुणसाजात्येन वाहीकार्थगता गुणा एव लक्ष्यन्ते । तदप्यन्ये न मन्यन्ते । तथाहि—अत्र गोशब्दाद्वाहीकार्थः प्रतीयते, न वा । आद्ये गोशब्दादेव वा । लक्षिताद्वा गुणाद् । अविनाभावाद्वा¹। तत्र, न दृष्टान्तेनाभिप्रायं स्पष्टयन्नपि बोधयन्निवाहन आह—गोशब्दार्थमात्रबोधना- द्येति । विरतत्वात् प्रतीति योग्यताविरहेण नष्टप्रायत्वात् । सहदुद्गतित्वेनानुकम्पा- नियमः शब्दार्थयोरन्योन्यनियमार्थमित्यभिप्रायः । नन्वस्य नियमस्य श्लेषादौ व्यभि- चारदर्शनाच्छब्देन पुनरपि प्रतीतियोग्यता कल्पनीयेत्यत आह—विरताया इति । उत्थानाभावान्न प्रतीतिजननोन्मुखीभावविरहात् । श्लेषादौ धर्मान्तरे गृहीत शक्त्यन्तरमर्थान्तरं बोधयतु । प्रकृते तु गोत्वे गृहीता शक्तिर्गोव्याधर्यं बोधयति यदि गवादिकमपि बोधयेत्तदानिर्वच्य लक्ष्यार्थबोधसम्भवेन लक्षणा नानुष्ठेयेति भावः । स्वार्थेति । स्वार्थो गोत्वम् । तत्समानाधिकरणेऽर्थे । गुणसाजा- त्येनेति । तद्गतगुणानां शश्यार्थगतगुणैर्वाप्त्यसंभव इति भावः । आद्ये प्रती- तिशब्दे । न प्रथमः, न गोशब्दजन्यप्रत्यक्षत । असंकेतितत्वाद् गोशब्दस्ये- न्द्रियसन्निधिवत् । न तृतीयः, अविनाभावजन्यप्रत्यक्षतः । शाब्देऽन्वयेऽ- संभवस्य शाब्दबोधविषयत्वासम्भवात् । अत्र हेतुमाह—शाब्दीति । एव मिष्टसाधनत्वादिना मन्वधियोक्तम् । अर्थापत्त्यादिना मीमांसकानां मते नाभिधेयसम्बन्धजन्यस्य शाब्दी प्रसिद्धिरर्थापत्तिविज्ञानाम् । अन्यथाऽभि- धितदिशा मतेऽप्यस्य शाब्दबोधविषयत्वं न स्यात् । न च लक्षार्थेन तत्र संबन्- धसिद्ध्यिति वाच्यम् । तद्विषयोजनाभावस्य लक्षणाया असंभवत् । न च प्रयोजनाभावाद् वक्ष्यत इति वाच्यम् । लक्ष्यार्थव्यंग्गिनिश्चयस्य, विशेषणत- याऽव्यङ्ग्यस्य फलप्रयोजनस्य चोद्देश्यहेतुत्वाङ्गीकारात् । गवादिपदस्य तु वाहीकादिपदार्थे लक्षणाद् भवेत् । लक्ष्यार्थे प्रयोजनमर्थेव व्याप्तिरङ्गीकृता- स्मिन्तो मुख्यार्थलक्षकत्वे गोत्वे वाच्या साध्योपपादकत्वात् । निक्षेप्यत्वाद्गु- णान् वाच्याधिकृत्य तथार्थं द्वितीयप्रत्यक्षतया मुख्यार्थविशेषणतामङ्गीकृत्यापर- स्वाश्यापह्वणमुपपाद्य व्यभिचारशङ्कानिरासार्थमाह, सजात्येत्याद्यन्ते गोत्वे वैपरीत्य- १. तद्नैति । २. अविनाभावाद्वा । २. 'त' इति । ३. प्रत्यक्षकल्पना...

प्रथमः । वाहीकार्थस्यासंकेतितत्वात् । न द्वितीयः । गोगवयचन्द्रमु- खादिशब्दद्वन्द्वानांमवयवप्रसादादिसाम्येऽप्यन्योन्यस्यान्यतमगद्गदार्थानभि- धायकत्वात् । न तृतीयः । अविनाभावलभ्यस्यार्थस्य शाब्देऽन्वये प्रवेशासंभवात् । शाब्दी ह्याकाङ्क्षा शब्देनैव पूर्यते । न द्वितीयः । यदि हि गोशब्दाद्वाहीकार्थो न प्रतीयेत, तदास्य वाहीक- शब्दस्य च सामानाधिकरण्यमसङ्गतं स्यात् । तस्मादत्र गोशब्दो मुख्यया वृत्त्या वाहीकशब्देन सहान्वयमभ- जमानोऽज्ञत्वादिसाधर्म्यसम्बन्धाद्वाहीकार्थं लक्षयति । वाहीकस्याज्ञत्वा- यतिशयबोधनं प्रयोजनम् । इयं चै गुणयोगाद्गौणीत्युच्यते । पूर्वा तूपचारामिश्रणाच्छुद्धा । उपचारो हि नामात्यन्तं विशकलितयोः शब्दयोः सादृश्यातिशयमहिम्ना भेदप्रतीतिस्थगनमात्रम् । यथा—


संदिग्वर्णाम्' इति जैमिनिसूत्रोक्तं न स्यात् । आक्षेपापेक्षया लक्षणाया मुख्यार्थना- धारिप्रतिसन्धानापेक्षत्वेन विलम्ब्यार्थोपस्थापकत्वात् समवाये विरोधेऽविप्रक- र्षाद्विलम्ब्यार्थोपस्थापकत्वात् । 'श्रुतिर्द्वितीया क्षमता च नित्यं वाक्यं पदान्येव तु संहतानि । सा प्रक्रियार्था कथमित्यपेक्षाभ्यां तयो र्योगदलं समाख्या ॥' इति कारिका सूत्रार्थव्याख्या । न द्वितीयः, न प्रतीतिरित्युभयपक्ष । अत्र गोश- ब्दस्य, वाहीकशब्दस्येत्यनन्तरं चकारो बोध्य । सामानाधिकरण्यमेकस्यार्थप्रति- पादकत्वम् । सन्तमसाह—तस्मादिति । तस्मादुभयरीतितश्च्युतो दोषान्तरम् । अन्वयमिति । अभेदसंसर्गेणान्वयेनापि । अगत्वाद्दीति । व्यक्तिभेदेऽपि गुणादि- गयोरैकमित्यभिप्रेत्येदं निर्वचनम् । अन्यथा शब्दलक्षणापक्षेऽप्यभेदान्वयसम्बन्धो न संभवति । प्रयोजनमिति । अज्ञत्वातिशयेदप्रतीति प्रयोजनमिति काव्यप्रकाश- कारः । इयं चेति । गुणस्य साधारणधर्मस्य योगात् सन्निधानादन्वयसम्बन्धा- द्वात् । तदुक्तम्—'एकस्माद्गुणवै धयेरियाद् दृ ... इति । ... पूर्वं साधारणधर्माभावादविनाभावसम्बन्धादेवेलक्षणा । पूर्वा ... व्यतिदिशन् । सादृश्यसम्बन्धेनाभेदं दर्शयितुमुपचारमाह । ... घटः' इत्याद्यपि प्रयोगस्य उपचारमूलकत्वापत्तेर्न सादृश्य ... पदावली निर्दिशि—अत्यन्तमिति । ... पमेयेऽप्युल्लेख्यमिति । विशकलितयोर्नानाभूतयोः सादृश्यातिश ... स्यस्वाभिधेयप्रतिपादकेन भेदप्रतीत्यसंसर्गेन ... हेतैरस्तीत्याह च ...

  1. जैमि० सू० ...

५४ साहित्यदर्पणे 'स्निग्धश्यामलकन्तिलिप्तवियतो वेल्लद्वलाका घना वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः । कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्वं सहे वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव ॥' द्वेति समाह—धर्मीति । धर्मी लक्ष्यः । तद्वृत्तिपदार्थो धर्मः । स्निग्धश्याम- लेति । विरहिण श्रीरामस्योक्तिरियम् । लिप्तेति । व्याप्तेत्यर्थः । वेल्लद्वलाका सच- ञ्चलवलाकापेता । पयोदसुहृदा मयूराणामाऽऽनन्दजनिका आनन्दजनिता वा केका ध्वनयः ।

  1. स्निग्धश्यामलेति । व्याख्यातोऽयम् श्लोकः चमत्कारतिशयलाभाय पुनर्व्या- ख्यायते—अत्र रामशब्दाद्विविक्ता । तथाहि—स्निग्धया सहिष्णुसन्नवनरम्यया श्यामलया उद्दीपकविभावत्वेऽपि मनोऽभिरामया कान्त्या कान्तगुणान् विश्रान्त्वङ्कुरित नियन्त्रमो ये । वेल्लन्त्यो वायुसञ्चारवशाच्चलाश्चलन्त्यः परभागप्रसाधनार्थंवेलायाम वलाकाः सितपक्षिविशेषा येषु तथाभूता घनाः । एष नभन्ताददूरागेव वर्तन्ते । द्विष्टोऽपि तु महाः । यत सूक्ष्मजल- कणशालिनो वाता इति मन्दमन्दत्वमेषामनियतदिग्भागगमनं च बहुवचनेन सूचितम् । नहि केवलं दृष्टिरूपविषयव्यञ्जनिया आह—पयोदो मेघः सुहृत् केकाजनकत्वादुप- कारकः येषां तेषां केकारूपमपि पान्थपुंखानामानन्देन हर्षेण केका शब्दविशेषाः रता मयूराः स्युः । नाह्य ह्येतद् पयोदसुहृन् न मयूरस्येति । मयि च दुःखदा इति भावः । सम्प्रत्युद्दीपनाधिक्यं निरूप्यम् । वक्ष्यमाणविधानचाटुत्वे । विभावानां साधारण्य- निर्देशमुक्त्वा सम्प्रत्युद्दिष्टमना मध्ये विधाय महनमाह—काममिति । हठेऽपि कामं कामम् । कठोरहृदय इति । रामशब्दात्प्रसिताशेषावकाशादानाय कठोरहृदयपदम् । ततः विदेहराजदुहित्री इत्यभिप्रायः इति । अन्यथा गात्रस्य दशमदशोपपत्तप्रसङ्गाद्वाच्या- भ्युपगतः कठोरहृदयताभ्युपगतो दशामवस्थाविशेषगमनेन सा न जानन्तीति । गण्याहं सर्वं सहिष्ये सह्यामि प्रसिद्धोऽस्मि । अत एव संभूतसंभोगविलासजनितं यत् सर्वम् । एतादृशं दुःखमनुसृत्य । जीविष्यति ? प्रियासामान्यम् । तेन किं भविष्यतीति । रामः स्वस्वभावतः सुव्यक्ताशक्यसाधनतायाः दृष्टदृष्टिर्वा प्रिया सामान्यस्त्रीस्वभाव- सुलभतया प्राणत्यागशीला तद्विरहदुःखसहेति सम्भ्रमादाह—अयेति । भिन्नं तदुत्तरं भिन्नमेव वा । अत्र सङ्घटनया विरहोत्कण्ठायमानतयाऽमृतं दिशन् अन्तः प्रसह्य, सोऽहं चेतः किमुद्गीर्णमिव क्षणं नोपहसति मलिम्लुचानां सहकारम् । धैर्य्यं त्यक्त्वा प्राहहाहाः इति कातराद्विगुणपदद्वयेन हा देवि! धैर्ये समालम्ब्य । यदिहाधिकतरमाह तद् धिग् धिग् । यद्यस्याः सम्प्रतिकालावस्थाऽज्ञानेऽपि कथं भविष्यतीति संशयवर्णनम् तद्वियोगदुःखात् तादृशावस्थायाश्च सम्भावनातो वा । वस्तुतस्तु पूर्वार्द्धे समुदितैस्तद्भावभावितैरेव विरहिणो दुःसहमहो यत्किञ्चिद्रूपं व्यञ्जयत् सुतरामेव परिपोषाय सम्भवति । अत्र च रामशब्देन राज्यभ्रंशादिनाऽत्यन्तविविधदुःखसहिष्णुत्वं व्यज्यते । सीताशब्देन चातिसुकुमार- तरत्वेन तादृशदुःखासहिष्णुत्वम् । अतो न पुनरुक्तम् । अत एवोक्तम् 'रामोऽस्मि' इति ॥

इस पृष्ठ/चित्र में कोई पठनीय या मुद्रित पाठ (Text) उपलब्ध नहीं है (पृष्ठ रिक्त है)।

६८ साहित्यदर्पणे विजनत्वम्, अतः संकेतस्थानमेतदिति कयापि संनिहितं प्रच्छन्नका- मुकं प्रत्युच्यते । अत्रैव स्थाननिर्जनत्वरूपं व्यङ्ग्यार्थवैशिष्ट्यं प्रयोजनम् । 'भिन्नकण्ठध्वनिर्धीरैः काकुरित्यभिधीयते' इत्युक्तप्रकारायाः काको- र्भेदा आकारेभ्यो ज्ञातव्याः । एतद्वैशिष्ट्ये यथा— गुरुपरतन्त्रतया बत दूरतरं देशमुद्यतो गन्तुम् । अलिकुलकोकिलललिते नैष्यति सखि सुरभिसमयेऽसौ ॥' अत्र नैष्यति, अपि तर्हि एष्यत्येवेति काका व्यज्यते । चेष्टावैशिष्ट्ये यथा— ³'संकेतकालमनसं विटं ज्ञात्वा विदग्धया । हसन्नेत्रार्पिताकूतं लीलापद्मं निमीलितम् ॥' अत्र संध्या संकेतकाल इति पद्मनिमीलनादिचेष्टया कयाचिद्द्यो- त्यते । संनिधिः सामानाधिकरण्यम्, तस्य प्रच्छन्नकामुकनिरूपितत्वं वैशिष्ट्यम्, उच्यते व्यज्यते । अत्रैव अस्मिन्नुदाहरण एव निर्जनत्वातिशयो वैशिष्ट्यं प्रयोजनं तृतीयव्य- ज्ञनायाः कारणम् ॥ भिन्नेति । शोकहर्षभयादिकृतेत्यर्थः । आकारेभ्य उपजीव्यभर- तादिग्रन्थेभ्य ॥ सुरभिसमये वसन्तकाले । अपि तर्हीति । अपि त्वित्यर्थः ॥ संकेतेति । विटमुपपतिम् । हसत्प्रफुल्लम् । नेत्राभ्यामर्पितमाकृतमात्माभिप्रायो यत्र तथ्या स्यात्तया निमीलितमित्यर्थ । यद्वा, हसदिति नेत्रविशेषणम् । एतदेव पद्म- निमीलनस्य नेत्रार्पिताकूतत्वं वैशिष्ट्यम् । चेष्टादिकस्येत्यादिपदाच्चेष्टाविरहादिग्रह ।

  1. उच्यत इति । व्यञ्जनया प्रतिपाद्यते इत्यर्थः ॥
  2. काकुरिति । कायलर्योन्तरमिति काकु. । यद्वा काकुर्जिह्वेति पस्पशायां भाष्य- कारः । तद्व्यापारनिक्षेपसवाद्यत्वाच्छोकहर्षभयादिभिर्ध्वनेर्विकारः काकु । तथा चोक्तम्- 'वाकयामभिधेयमानेऽर्थे येनान्य प्रतिपद्यते । भिन्नकण्ठध्वनिर्धीरैः स काकुरिति कध्यते ।।' इति ॥
  3. संकेतेति । संकेतकाले मनो यस्य । तं जिज्ञासुमियर्थः । अत एव हसद्भ्या नेत्राभ्यामर्पितं सूचितमाकूत रहस्यं येन । हसदिति मित्र प्रफुल्लमित्यर्थक पद्मविशेषणं वा । शेषं व्यक्तम् । इह नेत्रेङ्गित्रेन लक्षितो गूढाभिप्राय. कामिन्या निशासूचकेन पद्मनि- मीलनेन प्रकाशित. ॥ १. '-व्यङ्ग्यार्थ-' ग-घ २ 'प्रयोजकम्' ग-घ; ग पुस्तके तु 'अत्रैव-' इति पङ्क्तिः

द्वितीयः परिच्छेदः । ६९ एवं वक्त्रादीनां व्यस्तसमस्तानां वैशिष्ट्ये बोद्धव्यम् । त्रैविध्यादियमर्थानां प्रत्येकं त्रिविधा मता ॥ १७ ॥ अर्थानां वाच्यलक्ष्यव्यङ्ग्यत्वेन त्रिरूपतया सर्वा अप्यनन्तरोक्ता व्यञ्जनास्त्रिविधाः । तत्र वाच्यार्थस्य व्यञ्जना यथा—'कालो मधु-’ इत्यादि । लक्ष्यार्थस्य यथा—'निःशेषच्युतचन्दनं-' इत्यादि । व्य- ङ्ग्यार्थस्य यथा—'उअ णिच्चल-’ इत्यादि । प्रकृतिप्रत्ययादिव्यञ्ज- कत्वं तु प्रपञ्चयिष्यते । शब्दबोध्यो व्यनक्त्यर्थः शब्दोऽप्यर्थान्तराश्रयः । एकस्य व्यञ्जकत्वे तदन्यस्य सहकारिता ॥ १८ ॥ यतः शब्दो व्यञ्जकत्वेऽप्यर्थान्तरमपेक्षते, अर्थोऽपि शब्दम्, तदे- कस्य व्यञ्जकत्वेऽन्यस्य सहकारितावश्यमङ्गीकर्तव्या । अभिधादित्रयोपाधिवैशिष्ट्यात्त्रिविधो मतः । शब्दोऽपि वाचकस्तद्वल्लक्षको व्यञ्जकस्तथा ॥ १९ ॥ तद्वैशिष्ट्ये यथा—'नादत्ते भूषणं दत्तं नाहूता चिरमृच्छति । मृगाक्षी न क्षिपत्यक्षि सादरं मयि पश्यति ॥' अत्र चेष्टाविरहेण कोपो व्यज्यते । तस्य च कान्तापराधरा- तीनत्वं वैशिष्ट्यम् । व्यस्तानां प्रत्येकं समस्तानां द्वित्वादिरूपाणाम् ॥ त्रैविध्या- दिति । इयं व्यञ्जना ॥ प्रपञ्चयिष्यते । 'असंलक्ष्यक्रमव्यङ्ग्यध्वन्युदाहरणे' इति शेषः ॥ ननु शाब्द्या व्यञ्जनायामर्थस्यार्थीमपि शब्दस्योपयोगिसत्त्वान्नैव तन्मोदृश- मन्योर्भेदकारणमत आह—शब्दबोध्य इति । अर्थान्तराश्रयः अर्थान्तरेणान्व्य- यकः । 'व्यनक्ति' इत्यनुषज्यते । इत्यनुपपत्तिदर्शनानन्तरमुपपत्तिमाह—एकस्येति । सहकारिता अप्रधानकारणत्वम् । अप्रधानत्वं च व्यवहितोपपादित्वेन । एवं च यत्र यस्याव्यवहितोपपादकत्वेन प्रधानत्वं तत्र तत्सम्बन्धित्वेनैव तस्या व्यवहार इति भावः । ननु नाटकादौ चेष्टाभिनयादेरपि व्यङ्ग्यव्यञ्जकत्वेन व्यञ्जकत्रैविध्यमयुक्तमिति चेत् । न । तत्रापि दृष्टोपस्थितायैव व्यङ्ग्यावबोधकत्वात् । चेष्टादिनाप्यभिप्राय विशेषादिरूपप्रहणादिबोधनानन्तरं दृष्टाच्छब्देऽपि चेष्टाभिनयाद्यपेक्ष्य प्राधान्येन तज्ज्ञव्यवहारः । अत एव वक्ष्यति—'शब्दार्थ चेष्टाभिर्भयान् ईदृश्या बोधकैर्वि- बुद्धिः । शब्दार्थमिव निबद्धं नाटयं चेष्टाभिरुच्यते' । इति । अभिधा- दिविषयविभागं विधाय तद्वृत्तौ शब्दस्यापि त्रैविध्यमाह—अभिधेति । एत- १. 'अपराधरा- २. 'व्यङ्ग्यध्वनौ' ३. 'व्यनक्ति' इत्यस्य स्थाने 'व्यज्यते' दृश्यते'

७० साहित्यदर्पणे अभिधोपाधिको वाचकः । लक्षणोपाधिको लक्षकः । व्यञ्जनोपा- धिको व्यञ्जकः । किं च— तात्पर्याख्यां वृत्तिमाहुः पदार्थान्वयबोधने । तात्पर्यार्थं तदर्थं च वाक्यं तद्बोधकं परे ॥ २० ॥ अभिधाया एकैकपदार्थबोधनविरमाद्वाक्यार्थरूपस्य पदार्थान्वयस्य धिर्व्यापार । अभिधया लक्षणया वा शब्दैः प्रत्येकमुपस्थापिताना पदार्थानां संसर्गो- वाक्याङ्गादसमानस्तात्पर्याख्या वृत्तिमपेक्षत इति प्राचीननैयायिकमतमाह—किं चेति । मतान्तरसूचनाय 'आहुः' इति । 'परे' इति परेणान्वय । इयमेवाधुनिकै- संसर्गमर्यादोच्यते । अभिधाया इति लक्षणाया उपलक्षणम् । अभिहितानामभि- धया लक्षणया वा पदोपस्थापितानामन्वयबोधवादिना प्राचीननैयायिकानामित्यर्थ ।

  1. तात्पर्येति । एतदुक्त भवति—लाघवात्पदाना पदार्थमात्रे शक्तिः, नत्वन्वयांशे- ऽपि । गौरवादनन्यलभ्यत्वाच्च । तादृशो हि तात्पर्यार्थो वाच्यार्थवैलक्षणशरीर आकाङ्क्षा- योग्यतासत्तिवशादपदार्थोऽपि प्रतीयते । न चापदार्थविषयस्यापि शाब्दबोधविषयत्वे कथं- चिदुपस्थितस्य गगनादेरपि तद्विषयत्वापत्तिरिति वाच्यम् । अपदार्थविषयस्य शाब्दबोध- विषयतायामप्रयोजकत्वात् । इत्यभिहितान्वयवादिनो नैयायिक-भाट्ट-मीमांसकाः । तेषा- मयमभिप्रायः—'घटं करोति' इत्यादौ घटवृत्तिकर्मत्वानुकूला कृतिरित्थों बोध्यते । तत्र घटपदस्य घटोऽर्थः, अम्रप्रत्ययस्य च कर्मता, वृत्तिता तु न कस्यापि, इत्यपदार्थोऽपि वृत्तिता तात्पर्यवशादनयोः ससर्गविधया भासते । अन्विताभिधानवादिनः प्राभाक- रास्तु—'अन्वयरूपे वाक्यार्थेऽपि पदाना शक्तिः । व्यवहारेणान्वितसंवोपस्थापनात्तत्रैव शक्तिग्रहात् । तथाहि—'देवदत्त, गामानय' इत्युत्तमवृद्धप्रयोगात्सास्नादिमतीं व्यक्तिं मध्यमवृद्धे सचारयति, तच्चेष्टया तस्य वाक्यस्य तदर्थबोधकतामनुमाय पश्चात् 'गा नय, अश्वमानय' इति प्रयोगे गवापसरणमश्वाहरण च दृष्ट्वान्न्वयव्यतिरेकाभ्यां क्रिया- पदार्थांन्विते कारके कारकपदस्य, कारकपदार्थान्विताया क्रियाया च क्रियापदस्य शक्ति बालोऽवधारयति । ततः प्रयोगकाले तस्य प्रथमत एवान्वितबुद्धिर्जायते । न च गौरवेणान्वयांशपरिहारः । प्रथमगृहीतान्वयशक्तेरुपजीव्यत्वेन तदपरित्यागात् । शाब्द- बोधे तु आकाङ्क्षादिवशाद्वृत्तितादिविशेषरूपमेव भासत इति नापदार्थो वाक्यार्थः' इति वदन्ति । अत्रारुचिबीज तु—'अन्वितत्वेन शक्तावपि अन्वयविशेषावगमाय आकाङ्क्षादिकं कारणमवश्यमङ्गीकार्यम् । एव च विशेषाकारेण अशक्यस्यैव भानमिति तैरप्यवश्यमभ्यु- पेयंम्' इति ॥ १. 'पदार्थमात्रबोधविरमात्पदार्थानामन्वयप्रतिपादिका तात्पर्याख्या वृत्ति' ग. २ 'पदाना क', ' ' ख.

द्वितीयः परिच्छेदः । ७१ बोधिका तात्पर्यं नाम वृत्तिः । १_ तदर्थश्च तात्पर्यार्थः । तद्बोधकं च वाक्यमित्यभिहितान्वयवादिनां मतम् ॥ इति साहित्यदर्पणे वाक्यस्वरूपनिरूपणो नाम द्वितीयः परिच्छेदः । अत्र मूलकारिका = २० । पूर्व्वानि सह २३ । उदाहरणश्लोका = ९ । पूर्व्वैः सह १५ । अन्विताभिधानवादिनो मीमांसकगुरुवस्तु—'क्रियाकारक्यः प्रथमत एवान्व- यबोधो जायते, ततः शक्तिग्रहः, पदविशेषसन्निहारात्तु विशेषस्मृतिरिति । किं तात्पय्र्यवृत्तिकारेण' इत्याहुः ॥ इति श्रीरामचरणतर्कवागीशभट्टाचार्य्यविरचितायां साहित्यदर्पणविवृतौ द्वितीय प्रकाश । १. अभिहितेति । अभिहितानां स्वस्ववृत्त्या पदैरुपस्थितानामर्थानामन्वय इति ये वदन्ति तेऽभिहितान्वयवादिन इत्यन्वर्थमभिधानम् ॥ २ अन्वितेति । पदान्यन्दितानि भूत्वानन्तरं निर्दिष्टमर्थं बोधयन्तीति ये वदन्ति तेऽन्विताभिधानवादिन इत्यन्वर्थं नाम ॥ १. 'तदर्थं च तात्पर्यार्थ' ग

७८ साहित्यदर्पणे . ‘रजस्तमोभ्यामस्पृष्टं मनः सत्त्वमिहोच्यते’ । इत्युक्तप्रकारो बाह्य- मेयविमुखतापादकः कश्चनान्तरो धर्मः सत्त्वम् । तस्योद्रेको रजस्तमसी अभिभूय आविर्भावः । तत्र हेतुस्तथाविधालौकिककाव्यार्थपरिशीलनम् । अखण्ड इत्येक एवायं विभावादिरेत्यादिप्रकाशसुखचमत्कारात्मकः । अत्र हेतुं वक्ष्यामः स्वप्रकाशत्वाद्यैरपि वक्ष्यमाणरीत्या । चिन्मय इति स्वरूपार्थे मयट् । चमत्कारश्चित्तविस्ताररूपो विस्मयापरपर्यायः । तत्प्राणत्वं चास्मद्वृद्धप्रपितामहसहृदयगोष्ठीगरिष्ठकविपण्डितमुख्यश्रीम- न्नारायणपादैरुक्तम् । तदाह धर्मदत्तः स्वग्रन्थे— ‘रसे सारश्चमत्कारः सर्वत्राप्यनुभूयते । तच्चमत्कारसारत्वे सर्वत्राप्यद्भुतो रसः । तस्मादद्भुतमेवाह कृती नारायणो रसम् ॥’ इति । चमत्कारप्राणः । स्वाकारवदिति । यथा स्वात्माद्भिन्नोऽपि देहोऽहं स्थूल इत्यादि- भेदोल्लेखाभावेन प्रतीयते, तथा रसोऽपि ज्ञातृज्ञानभेदोल्लेखाभावेनास्वाद्यत इत्यर्थः । घटादिज्ञाने जाते वेद्मीति यथा ज्ञातृज्ञानभेदः प्रतीयते तथात्र नेति भावः । यद्वा स्वाकारवत्सविषयवत् । परिणामवादिभिर्ज्ञानविषयोर्भेदानङ्गीकारादिति भावः । कामलोभादिबीजभूतौ मनोवर्मा रजस्तमसी, ताभ्यामस्पृष्टं स्वकार्यजननेऽसंस्पृष्टं मनो मनोधर्मः । विवृणोति—इत्युक्त इति । उक्तस्वरूप इत्यर्थः । बाह्यं बहि- र्भवम् । लौकिकमिति यावत् । मेयं वस्तु । विमुखता ज्ञानानुकूलव्यापाराभावः । तस्यापादकः प्रयोजकः । ज्ञानानुकूलव्यापाराभावश्च दृढमनोयोगः । अभिभूय स्वका- र्याक्षमे कृत्वा । आविर्भावः प्रतिबन्धकाभावेन स्वकार्यक्षमत्वेनावस्थानम् । तत्र सत्त्वोद्रेके । अलौकिको यः काव्यार्थो विभावादिस्तस्य परिशीलनमतन्ताभि- निवेशः । प्रकाशः संवित् । ननु मिलिता विभावादयो रसस्तत्कथमस्याखण्डत्वमत आह—अत्रेति । अखण्डतायामित्यर्थः । हेतुमिति । समुदायालम्बनज्ञानादात्म्यमेव हेतुर्वक्ष्यते । स्वप्रकाशत्वाद्यैरपीत्यादिना सुखतादात्म्यपरिग्रहः । स्वरूपार्थे इति । न त्वन्नमयो यज्ञ इतिवत्प्राचुर्यार्थः । लोकातीताश्चर्यदर्शनेन विस्फारिते नेत्रविकासने चिन्मय दीप्ताप्राचुर्य्यं चित्तविस्तारः । दृष्टहेतुभ्योऽसमन्वितज्ञानेन दिष्टसंज्ञाने मनोव्यापाराभाव एव चित्तविस्तार इत्यपरे । विस्मयो विस्मयशब्दोऽय ----------------- । यद्वा अपरपर्यायोऽस्य । तत्प्राणत्वं ----------------- । सर्वत्र शृङ्गारादौ । चमत्कारप्राण्ये १ 'अयं प्रकाशानन्द...' ग. २ 'दर्शयत्याह-सुख...' ३ 'अस्य' ग. ४ 'मयट्' इति ५ 'रतिरस...' क-ख-ग-पुस्तके ६ 'अस्य' इति नास्ति पुस्तकान्तरे ७ 'प्राणता'

७९ तृतीयः परिच्छेदः । कैश्चिदिति प्राक्तनपुण्यशालिभिः । यदुक्तम्— 'पुण्यवन्तः प्रमिण्वन्ति योगिवद्रमसन्ततिम् ।' इति । यद्यपि 'स्वादः काव्यार्थसंभेदाद्भात्मानन्दसमुद्भवः ।' इत्युक्तदिशा रसास्वादानतिरिक्तत्वम्, तथापि 'रसः स्वाद्यते' इति काल्पनिक- भेदमङ्गीकृत्य कर्मकर्तरि वा प्रयोगः । तदुक्तम्— 'रस्यमानतामात्रा- त्स्वात्मनावशरीरादनन्य एव हि रस' इति । एवमन्यत्राप्येवंविध- शैलेषूत्पत्तारेण प्रयोगो ज्ञेय । नन्वेतादृता रसस्याहेयत्वमुक्तं भवति । व्यञ्जनावश्च इत्यभि- धानाद् द्वयोरैक्यमापतितम् । तत्तश्च— घनत्त्वात्पविभाव्यते । रसास्वादान्तरान्नव ... गृह्यतेने दपदस्य पाठान्तराननस्य च यह ... । प्राक्तनेति । ऐहिकपुण्यगोचरतरे दुद्धर्षतरपुण्यवद्भिः । इति नर्वाि यदा रसति । यद्यपीति । काव्यार्थस्यात्माविभूतत्त्वे । रस टति, रसान्द इत्यत्र न गृह्यतेने यच्चातिरिक्तत्वेने ... । एव म्यते इति । प्रयोग इति कर्मकर्तृप्रयोगः । काल्पनिकभेदेनेत्यत्र एवं रसः । रसास्वादानतिरिक्तत्वे कर्मकर्तरि वेति । ... ननू । तस्यैव कर्मत्वात्कर्तृत्वं च ... गतेरिति । रस्यमानतामात्रे ... रस्यमानेतीति । रसनात्मकात्प्रकाराद् नतिरिक्तस्य हेतोरात्, प्रकाशाशरीराद् ... एव रसइति नन्वतिप्रसङ्गादत्रान्य द्वित्वमिति रसास्वाद ... हेतुर्व्यञ्जन न तथा रसास्तेन ... रतः, तैश्च व्य ... यद्व्यञ्जकत्वोक्तौ ... ... रस ... व्यञ्जनावशत्वेनेति स्वैश्वर्यत्वाचेति । ...

अथ धीरोद्धतः— मायापरः प्रचण्डश्चपलोऽहंकारदर्पभूयिष्ठः । आत्मश्लाघानिरतो धीरैर्धीरोद्धतः कथितः ॥ ३३ ॥ यथा—भीमसेनादिः । अथ धीरललितः— निश्चिन्तो मृदुरनिशं कलापरो धीरललितः स्यात् । कला नृत्यादिका । यथा—रत्नावल्यादौ वत्सराजादिः । अथ धीरप्रशान्तः— सामान्यगुणैर्भूयान्द्विजादिको धीरशान्तः स्यात् ॥ ३४ ॥ यथा—मालतीमाधवादौ माधवादिः । एषां च शृङ्गारादिरूपत्वे भेदानाह— एभिर्दक्षिणधृष्टानुकूलशठरूपिभिस्तु षोडशधा । तत्र तेषां धीरोदात्तादीनां प्रत्येकं दक्षिणधृष्टानुकूलशठत्वेन षोड- शप्रकारो नायकः । एषु त्वनेकमहिलाससरागो दक्षिणः कथितः ॥ ३५ ॥ द्वयोस्त्रिचतुःप्रभृतिषु नायिकासु तुल्यानुरागो दक्षिणनायकः । यथा— स्नाता तिष्ठति कुन्तलेश्वरसुता, वारोऽङ्गराजस्वसु- द्यूते रात्रिरियं जिता कमलया, देवी प्रसाद्याद्य च । अहंकारः अहं महानिति ज्ञानविशेष । दर्प शौर्यवीर्याद्यतिशय । मृदुः अप्र- चण्डचरितः ॥ सामान्यगुणैर्नायकसामान्यगुणैः । धीरोदात्तादित्रितयभिन्नो नायको धीरप्रशान्त इत्यभिप्राय ॥ एषां धीरोदात्तादीनाम् । षोडशधेति । शृङ्गारे षोडशप्रकारो नायको भवति रसान्तरे तु चतुष्प्रकार इत्यवधेयम् ॥ स्नाता ऋतुस्नाता । वार सुरतार्थं नियमितदिवम । जिता जयेनात्मसुरतार्थं प्राप्ता । देवी कृताभिषेका राजपत्नी । देवेन राज्ञा । अप्रतिपत्त्या कर्तव्यानिश्चयेन मूढं व्याकुलम्

  1. एभिरिति । दक्षिणधीरोदात्त , दक्षिणधीरोद्धतः, दक्षिणधीरललितः, दक्षिणधीर- प्रशान्तः, एवं धृष्टादिपदयोजनेन षोडशप्रकारका नायका इत्यवधेयम् ॥ १ ग पुस्तके रत्नावल्याद्या नास्ति, घ पुस्तके तु 'यथा रत्यादिका' इति पाठः, २ 'धीरप्रशान्त' ३ 'नायकासु' घ, ४ 'नायिकस्य' इति घ पुस्तके नास्ति ५ 'नायकः' इति नास्ति ग पुस्तके

तृतीयः परिच्छेदः । ९९ १इत्यन्तःपुरसुन्दरीः प्रति मया विज्ञाय विज्ञापिते देवेनाप्रतिपत्तिमूढमनसा द्वित्राः स्थितं नाडिकाः^२ ॥ कृतागा अपि निःशङ्कस्तर्जितोऽपि न लज्जितः । दृष्टदोषोऽपि मिथ्यावाक्कथितो धृष्टनायकः ॥ ३६ ॥ यथा मम— शोणं^३ वीक्ष्य मुखं विचुम्बितुमहं यातः समीपं, ततः पादेन प्रहृतं तया, सपदि तं धृत्वा सहासे मयि । किंचित्तत्र विधातुमक्षमतया बाष्पं सृजन्त्याः सखे ध्यातश्चेतसि कौतुकं वितनुते कोपोऽपि वामभ्रुवः ॥ अनुकूल एकनिरतः— १एकस्यामेव नायिकायामासक्तोऽनुकूलनायकः । यथा— अस्माकं सखि वाससी न रुचिरे, ग्रैवेयकं नोज्ज्वलं, नो वक्रा गति, रुद्धतं न हसितं, नैवास्ति कश्चिन्मदः । किंत्वन्येऽपि जना वदन्ति सुभगोऽप्यस्याः प्रियो नान्यतो दृष्टिं निक्षिपतीति विश्वमियता मन्यामहे दुःस्थितम्^२ ॥ अप्राप्तिनिश्चयशून्यं वा मनो यस्य तेन ॥ कृतागाः कृतापराध । मिथ्यावाक् मयै- तन्न कृतमित्ययथार्थवचन ॥ तं पादम् । अत्र प्रथमपादेन कारिकाया प्रथमपा- दोक्तं द्वितीयपादेन द्वितीयपादोक्तं लक्षणं वेदितव्यम् ॥ अस्माकमिति । कस्या- श्चिन्नायिकाया उक्तिरियम् । ग्रैवेयक कण्ठभूषणम् । वक्रा चित्रा । उद्धतमुत्कटम् ।

  1. इतीति । इति अन्तःपुरसुन्दरीः प्रति विज्ञाय यन्मया यद् वक्तव्यं तदवगम्य मया विज्ञापिते विनिश्चय निवेदिते सति । एतदुक्तं भवति—ऋतुत्सवं तावदनुपक्षणीया किमुत कुन्तलमहाराजतनया, साधारणोऽपि समयो दुर्लङ्घ्यः किमुतापनायस्तत्सन्मोहिन्या- यागतसमागमसमय., सामान्योऽपि जने परतन्त्रता किमुत कमलाललामकमलाप्रयुक्ते । एवमुत्तरोत्तराधिककार्यसंपादनेऽपि महाराज्ञाः प्रसादनं तावत्सर्वोपरीति रहस्यम् ॥
  2. नाडिका इति । अत्यन्तसंयोगे द्वितीया ॥
  3. 'वरुणवेक्ष्य चुम्बितुमर्' इति प्राचीयान् पाठ. ॥ १. ग-पुस्तके तु 'सा... सान्द्रस्विद्यत्तनूत्तुङ्गतनूत्तुङ्गकुचेन किं वक्षक्षर... प्रतिनिश्चयनिश्चयात्मने नोदाह्यते । रक्ते प्र... सहसा तन्मुन्तनष्टै तया स्रष्टा रभसेन तन्मुखावलोक्या च तदित्युक्तम्' इति परणीतमुदाहरणं दृश्यते २. 'रख्या-' इति पाठिका ग-पुस्तके । ३. ... 'इत्यदि' इत्यादिर्गं ग-पुस्तके.

१०२ साहित्यदर्पणे अर्थचिन्तने सहायमाह— मन्त्री स्यादर्थानां चिन्तायां— अर्थास्तन्त्रावापादयः । यत्त्वत्र सहायकथनप्रस्तावे— 'मन्त्री स्वं चोभयं वापि सखा तस्यार्थचिन्तने' इति केनँचिल्लक्षणं कृतम्, तदपि राज्ञोऽर्थचिन्तनोपायलक्षणप्रकरणे लक्षयितव्यम्, न तु सहायकथनप्र- करणे । नायकस्यार्थचिन्तने मन्त्री सहायः, इत्युक्तेऽपि नायकस्यार्थत एव सिद्धत्वात् । यदप्युक्तम्— 'मन्त्रिणा ललितः शेषा मन्त्रिष्वायत्त- सिद्धयः' इति, तदपि स्वलक्षणकथनेनैव लक्षितस्य धीरललितस्य मन्त्रि- मात्रायत्तार्थचिन्तनोपपत्तेर्गतार्थम् । न चार्थचिन्तने तस्य मन्त्री सहायः । किं तु स्वयमेव संपादकः । तस्यार्थचिन्तनाद्यभावात् । शरीरचेष्टाविशेष इत्यर्थः ॥ मन्त्रीति । अस्य इति सहायः इति चानुषज्यते । चिन्तायामुपायनिरूपणे । स्वमण्डले क्रियमाणं कर्म तन्त्रम् । परमण्डले क्रियमाणं कर्म आवाप । आदिना शत्रुनिग्रहादय । यत्त्विति । स्वं चेति चकारो वार्थे । उभयं मन्त्रिसद्वयम् । तस्य नायकस्य । सहायकथनपरत्वे दोषमाह—नायक- स्येति । एवं च स्वं चेत्यादि निरर्थकम् । तदनुपादानेऽपि तल्लाभात् । स्वयं चिन्तापक्षे स्वस्य सहकारित्वरूपसहायत्वानुपपत्तेरुभयचिन्ताया कारणान्तरप्रसङ्गा- च्चेति भाव । सखिशब्दस्योपायार्थत्वम्, न तु सहायपरत्वमित्यवगन्तव्यम् । मन्त्रिणेति । आयत्तसिद्धिरित्यन्वय । ललितो धीरललित । शेषा धीरोदात्तादयः । स्वलक्षणेनेति । चिन्तन इति । धीरललितलक्षणनिविष्टेन तस्यार्थचिन्तनाद्यभावः । तेन च मन्त्रिमात्रायत्तार्थसिद्धिकत्वं प्रतीयत इति भाव । तस्य धीरललि-

  1. तन्त्रेति । तन्त्रण तणम् । स्वाधीनत्वात्स्वराष्ट्रे क्रियमाण कर्मापि तन्त्रशब्देनो- च्यते । आ समन्ताद् वपन्ति इतिकर्तव्यताबीजमत्रेत्यावापः । 'डुपव् बीजतन्तुसन्ताने' 'हलश्च' इति घञ् । 'पर प्रत्यावाप फलति कृतसेकस्तरुखि' इति ॥
  2. केनचिदिति । दशरूपके धनञ्जयेनेत्यर्थः । तत्राय सुगमः सदंर्भः—अथ नेतुः कार्यान्तरसहायानाह—'मन्त्रौ ख वोभय वापि सखा तस्यार्थचिन्तने । तस्य नेतुः अर्थचिन्ताया तन्त्रावापादिलक्षणाया मन्त्री वा आत्मा वा उभय वा सहायः । तत्र विभागमाह—'मन्त्रिणा ललित , शेपा मन्त्रिष्वायत्तसिद्धयः ।' उक्तलक्षणो ललितो नेता मन्वायत्तसिद्धिः । शेषा धीरोदात्तादय अनियमेन मन्त्रिणा स्वेन वा उभयेन वा अङ्गी- कृतसिद्धय इति ॥ १ क पुस्तके तथा मुद्रितपुस्तकेषु 'मन्त्री स्यादर्थाना चिन्ताया तद्वदवरोधे ।' इत्यार्ध २ ... न 'मन्त्री स्यादर्थचिन्तायामर्थास्तन्त्रावापाद्य ।' इत्येवम् ...

अथान्तःपुरसहायाः— तद्वदवरोधे । वामनषण्ढकिरातम्लेच्छाभीराः शकारकुब्जाद्याः ॥ ४३ ॥ मदमूर्खताभिमानी दुष्कुलतैश्वर्यसंयुक्तः । सोऽयमनूढाभ्राता राज्ञः श्यालः शकार इत्युक्तः ॥ ४४ ॥ आद्यशब्दान्मूकादयः । तत्र षण्ढवामनकिरातकुब्जादयो यथा रत्नावल्याम्— नष्टं वर्षवरैर्मनुष्यगणनाभावादपास्य त्रपा- मन्तःकञ्चुकिकञ्चुकस्य विशति त्रासादयं वामनः । पर्यन्ताश्रयिभिर्निजस्य सदृशं नाम्नः किरातैः कृतं कुब्जा नीचतयैव यान्ति शनकैरात्मेक्षणाशङ्किनः ॥ शकारो मृच्छकटिकादिषु प्रसिद्धः । अन्येऽपि यथादर्शनं ज्ञातव्याः । अथ दण्डसहायाः— दण्डे सुहृत्कुमाराटविकाः सामन्तसैनिकाद्याश्च । दुष्टनिग्रहो दण्डः । स्पष्टम् । ऋत्विक्पुरोधसः स्युर्ब्रह्मविदस्तपसस्तथा धर्मे ॥ ४५ ॥ त्स । स्वयमेव महदेव निष्पादक प्रधानकरणम् ॥ तद्वदिति । अवरोधेऽन्त- पुरे । वामनादयो नायकस्य सहाया इत्यर्थः । शकारितानेपक्षः क्लीबो वा । शका- रमाह—मदेति । मदमूर्खताभ्यामभिमानी अहं महानिति ज्ञानवान् । मदा- दिप्रभवान् वा ॥ नष्टमिति । वानरवेगेनान्त पुरप्रविष्टं विदूषकमवलोक्य भये- नान्तःपुरस्थाना पलायनवर्णनमिदम् । नष्टमदर्शन्तां प्राप्तम् । वर्षवरै र्षण्ढैः । 'सौविदल्ला कञ्चुकिनः' इत्यमरः । किर पर्यन्तदेशस्तमटतीति किरात इति नाम्नाः स्ववा- च्यशब्दास्य सदृशं योग्यं पर्यन्तदेशं प्राप्त इत्यर्थः ॥ मृच्छकटिक नाटिकाविशेषः । अन्ये म्लेच्छाभीरादयः । अटाटिनि दण्डारिणः ॥ ऋत्विगिति । धर्मे धर्मकर्मणि १. दण्डेति । राज्ञो ये दण्डमदन्ति दण्डः । 'दण्ड दमने' । डण्डी । मूर्खा- र्थादित् बहुव्रीहिः । तेन दण्डानुवृत्तय बह्मवत्कुलं प्रभोः सद्य नाशमाप्नुयात् । इत्यादी दण्डो दण्डकर्मकरणम् । 'ये सामन्तादयः इत्यतः पूर्वम् नीतिशास्त्रविदः । स चाऽत्र गृहीत भवेत् ते तु मन्त्रिणः स्युस्ततः' इति पाठान्तरं केषुचित्कोशेषूपलभ्यते । २. मूर्खेति । शकारोऽयं नराधमश्चेत् इत्युचितम् ।

१०६ साहित्यदर्पणे अथ विलासः— धीरा दृष्टिर्गतिश्चित्रा विलासे सस्मितं वचः । यथा— दृष्टिस्तृणीकृतजगत्त्रयसत्त्वसारा धीरोद्धता नमयतीव गतिर्धरित्रीम् । कौमारकेऽपि गिरिवद्गुरुतां दधानो वीरो रसः किमयमेत्युत दर्प एव ॥ संक्षोभेष्वप्यनुद्वेगो माधुर्यं परिकीर्तितम् ॥ ५२ ॥ ऊह्यमुदाहरणम् । भीशोकक्रोधहर्षाद्यैर्गाम्भीर्यं निर्विकारता । यथा— आहूतस्याभिषेकाय विसृष्टस्य वनाय च । न मया लक्षितस्तस्य स्वल्पोऽप्याकारविभ्रमः ॥ व्यवसायादचलनं धैर्यं विघ्ने महत्यपि ॥ ५३ ॥ यथा— श्रुताप्सरोगीतिरपि क्षणेऽस्मिन्¹हरः प्रसङ्ख्यानपरो बभूव । आत्मेश्वराणां नहि जातु विघ्नाः समाधिभेदप्रभवो भवन्ति ॥ अधिक्षेपापमानादेः प्रयुक्तस्य परेण यत् । प्राणात्ययेऽप्यसहनं तत्तेजः समुदाहृतम् ॥ ५४ ॥ तादि ॥ तृणीकृतौ तुच्छीकृतौ जगत्त्रयस्य सत्त्वमुत्साहः सारो बलं च यया सा । धीरा मन्थरा । उद्धता उद्भटा च । एतेन गतेश्चित्रत्वं नैकरूपत्वं च । अत्र नाय- कस्य उत्साहदर्पयोरतिशयसूचनाय वीररसत्वेन दर्पत्वेन चोल्लेखः ॥ ऊह्यमुदाह- रणमिति । यथा मम रामविलासे—'तन्निपीय कटु कर्णपदव्या खेदमाप न मनागपि रामः । शूलपाणिरिव घोरसुदग्रं कालकूटपटलं किल पूर्वम् ॥' तस्य श्रीरामस्य । आकारो मुखनेत्रादि तस्य विभ्रमो वैपरीत्यं येन हर्षशोकादयो लक्ष्यन्ते ॥ व्यवसायात् प्रारब्धकर्मणः । अचलनम् अप्रच्यवनम् ॥ प्रसङ्- ख्यानपरो योगनिष्ठः । आत्मेश्वराणां मनोनिरोधक्षमाणाम् ॥ अधिक्षेपो

  1. अस्मिन्निति । अस्मिन्क्षणे वसन्ताविर्भावसमये ॥ घ. ३. 'तस्य-' इत्यादि लक्ष्यते' इत्यन्त पाठो हि 'मनोनिरोधक्षमागाम्' इत्यादग्रे

तृतीयः परिच्छेदः । १०७ वाग्वेषयोर्मधुरता तद्वच्छृङ्गारचेष्टितं ललितम्। दानं सप्रियभाषणमौदार्यं शत्रुमित्रयोः समता ॥ ५५ ॥ एषामुदाहरणान्यूह्यानि । अथ नायिका त्रिभेदा स्वान्या साधारणस्त्रीति । नायकसामान्यगुणैर्भवति यथासंभवैर्युक्ता ॥ ५६ ॥ नायिका पुनर्नायकसामान्यगुणैस्त्यागादिभिर्यथासंभवैर्युक्ता भवति । सा च स्वकी अन्यस्त्री साधारणस्त्रीति त्रिविधा । तत्र स्वकी— विनयार्जवादियुक्ता गृहकर्मपरा पतिव्रता स्वीया । यथा— लज्जापल्लवपसाहणाईं परभत्तिणिप्पिदामाईं । अविणअदुम्मेधाईं धण्णाण घरे कलत्ताईं ॥' नर्मनम् । अपमानः पराभवः । अरिना अपकारि । प्रयुक्तस्य कृतस्य । परेण शत्रुना ॥ उदाहरणं यथा रामतिलके— 'निरुपमरूपशोभा कर्षितस्मितनयनं कृथा किंचिदितो लोचनान्युज्ज्वलोत्फुल्लितविकृतम् । युक्तं तस्य हरधनुर्भागित- तेजोग्राह्येन नेत्रांन्तेन विदार्य स्थितस्य प्रोचे रुषा राघवः ।' विरुपसम- न्वन्तं रूपदोषाणाम् यस्य तम् । तस्य गर्वस्य । अर्थं गन्धम् । तद्धन्वंश- ङ्गुष्ठम् । एतैव सर्वतोऽपरस्यापि रूप—'पौरुषं तस्य दृष्ट्वा वपुश्च सरसव्यापारं मधुरं च भाषितम् । संस्मृत्येदमात्मनः धैर्ये कृतवान् साभिलाषो युक्तम् ।' 'दृष्टे मन्मथधम्मे रात्रिश्चन्दनं च धूपम् । स्निग्धं तरुणे रूपं निर्विकल्पं जरा त्यक्तम् ।' स्या स्वीया । अन्या परकीया । साधारणी सर्वस्त्री- वेश्या । 'स्त्री' इति स्वरूपनिर्देशः । यथासंभवैरिति । रूपकुलीनगुणैर्युक्ता नायिका न भवति । अत एव पञ्चाङ्गेभ्यो नायकेभ्यः शक्तिस्तद्गुणानां यस्याः । तत्रेति । 'लज्जा'प्रसाधनानि परभक्ति...

१२० साहित्यदर्पणे पुनः— अवस्थाभिर्भवन्त्येताः षोडश भेदिताः । स्वाधीनभर्तृका तद्वत्खण्डिताथाभिसारिका ॥ ७२ ॥ कलहान्तरिता विप्रलब्धा प्रोषितभर्तृका । अन्या वासकसज्जा स्याद्विरहोत्कण्ठिता तथा ॥ ७३ ॥ तत्र— कान्तो रतिगुणाकृष्टो न जहाति यदन्तिकम् । विचित्रविभ्रमासक्ता सा स्यात्स्वाधीनभर्तृका ॥ ७४ ॥ यथा—‘अस्माकं सखि वाससी-’ इत्यादि (९० पृ.) । पार्श्वमेति प्रियो यस्या अन्यसंभोगचिह्नितः । सा खण्डितेति कथिता धीरैरीर्ष्याकषायिता ॥ ७५ ॥ यथा—‘तद्वैतथ्यमवादीः-’ इत्यादि (११३ पृ.) । अभिसारयते कान्तं या मन्मथवशंवदा । स्वयं वाभिसरत्येषा धीरैरुक्ताभिसारिका ॥ ७६ ॥ उक्तयथा— न च मेऽवगच्छति यथा लघुतां, करुणां यथा च कुरुते स मयि । निपुणं तथैनमभिगम्य वदेर्गलद्गति कान्हिदिनि संदिशिगे ॥ 'उच्छित्थं करकङ्कणद्वयमिदं, वद्धा दृढं मेखला, करेण प्रतिगदिता मुञ्चय्योर्मङ्गीर्योर्मृरुता । यदा ... । ईर्ष्याकषायिता ईर्ष्या कलुषीकृतचित्ता ॥ अभिसारिकाया लक्षणमाह दूत्येत्याह—अभिसारयत इति ॥ न चेति । स मयि यथा लघुतां नाभिगच्छति तथा कुरु प्रति संदिशिते इति संबन्धः ॥ उच्छित्थ- ...

तृतीयः परिच्छेदः । १२१ आरब्धे रभसान्मया प्रियसखि क्रीडाभिसारोत्सवे, चण्डालस्तिमिरावगुण्ठनपटक्षेपं विधत्ते विधुः॥' संलीना स्वेषु गात्रेषु मूकीकृतविभूषणा । अवगुण्ठनसंवीता कुलजामिसरेद्यदि ॥ ७७ ॥ विचित्रोज्ज्वलवेषा तु रणन्नूपुरकङ्कणा । प्रमोदस्मेरवदना स्याद्वेश्याभिसरेद्यदि ॥ ७८ ॥ मदस्खलितसंलापा विभ्रमोत्फुल्ललोचना । आविद्धगतिसंचारा स्यात्प्रेष्याभिसरेद्यदि ॥ ७९ ॥ तत्राद्ये 'उत्क्षिप्तं-'इत्यादि (१२० पृ.) । अनयोरुद्यमुदाहरणम् । प्रसङ्गादभिसारस्थानानि कथ्यन्ते— क्षेत्रं वाटी भग्नदेवालयो दूतीगृहं वनम् । माँलापन्थः श्मशानं च नद्यादीनां तटी तथा ॥ ८० ॥ तम् ऊर्ध्वं न्यस्तम् । एतेन तयोः शब्दप्रतिरोधः । प्रतिपादितः कृतः । तिमिरमेव अवगुण्ठनपटं आच्छादनवस्त्रं तस्य क्षेपं निरासम् ॥ प्रमदादिसहगमनमाह— संलीनेति । गात्रेषु अङ्गेषु । सङ्कुचितसर्वाङ्गीत्यर्थः । अवगुण्ठनेन आच्छादनपटेन संवीता संवृतदेहा । एतदुपलक्षणम् । अनुचितरागेणापि संवीता । तदान्धकारे नील- वस्त्रपरिधानवस्त्ररीत्यासन्दीप्ता । ज्योत्स्नायां चन्दनद्रवलिप्ता । उक्तेन यथा—'लिन यत्तमर्दिते वपुषि नीलचोलप्रभान्त्या सरागदशनाया मल्लदण्डद मेदिनी । करेण परिवेदितं शङ्कनशङ्कया दुर्जनः परं परमनुध्वनन् गच्छति न लज्जिता प्रेयसी ।', 'मपिचाकाराभरणेष्वपि सर्वोत्कर्षमीड्यतेत्यादि । ध्वन्यङ्गो न लज्जन्ते ज्योत्स्नावसति- गतीना ॥' आविद्ध इत्यादि पदमुदाहरणे यथा । 'आविद्धगतिसंचारा' इति पाठे आविद्धा वक्ररूपा गत्या सञ्चारः यस्यैतादृशप्रमितिशा प्रेक्ष्या । आद्ये कुलजामिसरेणपरे । अनयोश्चेष्याप्रेष्यनिसरेणप्रकणयोः । तत्र कामोदाहर- णम् । यथा मम—'दम्पेयुदेयविकटं यदि दर्शयसि शिरस्समुद्गतैर्गुच्छैः, सीधोः । मन्ये गृहमुदमिल्यमरेण मुक्ताऽथ लज्जातिलकुलं इति भावतः ।', 'जनो तवेदानुमन्मथेनासिने कर्णपूरप्रभाभिरुद्भवन् । प्रसङ्गादेते दिशेत् न- तीति सूचयन् वं प्रकटयिष्यसि ।' अत्र 'समीपम्' इति यमार्क 'समीपिकम्' इति

  • वाटीति । ... न तु इति शेषः । क्षेत्रं यत् प्रसिद्धाख्यम् । वाटी पुष्पवाटी- वनम् बिल्वपाटलविशालवने । यत् वनौषधिसहितं वनम् इतरत्तु केवलं बिल्व- ...पादपैः । श्मशानं ... नद्योराद्योतीयादिना नदीमुखम् ... ... तदर्थम् ...

१२६ साहित्यदर्पणे 'तव कितव किमाहितैर्वृथा नः क्षितिरुहपल्लवपुष्पकर्णपूरैः । ननु जनविदितैर्भवद्व्यलीकैश्चिरपरिपूरितमेव कर्णयुग्मम् ॥' '१मुहुरुपहसितामिवालिनादैर्वितरसि नः कलिकां किमर्थमेनाम् । वसतिमुपगतेन धाम्नि तस्याः शठ कलिरेष महांस्त्वयाद्य दत्तः ॥' 'इति गदितवती रुषा जघान स्फुरितमनोरमपक्ष्मकेसरेण । श्रवणनियमितेन कान्तमन्या सममसिताम्बुरुहेण चक्षुषा च ॥' इयं हि वक्रोक्त्या परुषवचनेन कर्णोत्पलताडनेन च धीरमध्यताधी- रमध्यताधीरप्रगल्भताभिः संकीर्णा । एवमन्यत्राप्यूह्यम् । २इतरा अप्यसंख्यास्ता नोक्ता विस्तरशङ्कया ॥ ८८ ॥ ता नायिकाः । पिवति पाती वेति व्युत्पत्तिद्वयेन सैव विटपा अयमपि विटप इति तुल्ययोर्योगो योग्यो भवतीत्यर्थः । भवद्व्यलीकैर्भवतोऽप्रियवचनै । स्फुरितो मनोरमः पक्ष्मवत्के- सरो यस्य तेन । चक्षु पक्षे-पक्ष्मैव केसरो यस्य तेन । वक्रोक्त्येति । विटश- ब्दस्य नानार्थकल्पनाविचित्रोक्त्येत्यर्थः ॥ इतरा अपि पद्मिनीहस्तिनीप्रभृतयः ॥ अमु विटान्पातीति विटपं पल्लवम् । 'विटपः पल्लवे पिङ्गे' इति विश्वः । ददस्व प्र- यच्छ । व्रज गच्छ । यतो दानाच्चिराय सदृशोरनुरूपयोर्योगो भवतु । उभयोरपि विटपत्वादिति भावः ॥ हे कितव धूर्त, वृथा व्यर्थमेवाहितैः । तत्कार्यस्यान्यथा- सिद्धत्वादिति भावः । तव सम्बन्धिभिः क्षितिरुहाणा पल्लवा. पुष्पाणि च तान्येव कर्ण पूरयन्तीति कर्णपूराः कर्णावतंसाः । तैनोऽस्माकं किं तत्साध्यम् । न किंचिदस्ती- त्यर्थ । ननु अङ्ग, जनविदितैर्भवद्व्यलीकैस्तवाप्रियवचनैः कर्णयुग्म चिरपरिपूरित नित्य पूर्णमेव । अतः पूरितस्य पूरणायोगादलमेभिरिति ॥ अलिनादैर्मुहुरुपहसिता प्रतारणा- येति प्रहस्यमानामिव स्थितामेना कलिका कोरकम्, अत्र कलि कलह च । 'कलहे च युगे कलि.' इति वैजयन्ती । स्त्रीप्रत्ययस्त्वविवक्षितः श्लेषे । नः अस्माक किमर्थ वितरसि । हे शठ गूढविप्रियकारिन्, तस्याः त्वत्प्रियाया धाम्नि भवने वसतिं स्थितिमुपगतेन त्वया अद्यैव वर्तमानो महान् कलि. कलहो दत्त• । स्वदत्त एव महति कलौ स्थिते कि कल्पन्तरेणेत्यर्थः ॥ इति गदितवती उक्तवती अन्या स्त्री रुषा कान्त स्फुरितान्युज्ज्वलानि मनोरमाणि च पक्ष्माणीव केसराणि । अन्यत्र केसराणीव पक्ष्माणि, यस्य तेन श्रवणे नियमितेन श्रोत्रे निरुद्धेन असिताम्बुरुहेण नीलोत्पलेन चक्षुषा च सम युगपज्जघान ताडयामासेति ॥

  1. इतरा इति । तथा चोक्तम्- 'पुनश्च तास्त्रिधा ज्ञेया दिव्यादिव्योभयात्मना । चतुर्धा चोद्धतोदात्ता ललिता शान्तिका तथा ॥ अक्षता च क्षता यातायाता यायावरेत्यपि । १ अयं श्लोक क-ग-घ पुस्तके नास्ति, २ 'इतरा-' इति कारिकार्धं नास्ति ग पुस्तके.

तृतीयः परिच्छेदः । १३३ अथ विव्वोकः- विव्वोकस्त्वतिगर्नेण वस्तुनीष्टेऽप्यनादरः ॥ १०० ॥ यथा- 'यासा सत्यपि सद्गुणानुसरणे दोषानुवृत्तिः परा, याः प्राणान्वरमर्पयन्ति, न पुनः संपूर्णदृष्टिं प्रिये । अत्यन्ताभिमतेऽपि वस्तुनि विधिर्यासां निषेधात्मक- स्तास्त्रैलोक्यविलक्षणप्रकृतयो वामाः प्रसीदन्तु ते ॥' अथ किलिकिञ्चितम्- स्मितशुष्करुदितहसितत्रासक्रोधश्रमादीनाम् । सांकर्यं किलिकिञ्चितमभीष्टतमसंगमादिजाद्धर्षात् ॥ १०१ ॥ यथा- 'पाणिरोधमविरोधितावाञ्छं भर्त्सनाथ मधुरस्मितगर्भाः । कामिन सा कुरुते करभोरुर्हारि शुष्करुदितं च सुखेऽपि ॥' यासामिति । वंचिन्तासिनं प्रति मयूरगर्दवचनमिदम् । सद्गुणानुसरणे पर- स्तावने दोषाणामनुवृत्तिः सत्य पुन पुनरुद्भावनम् ॥ सांकर्यं मेलनम् ॥ पाणि- रोधं दद्यक्षेपवारिश्रणनायस्वरप्रतिबन्धम् । हारि मनोहरम् । वरणं निम्-रहितं १. प्राणानिति । गलद्ग्रहश्चापगार्हणं तत्तदुत्तरम् न पुनः संपूर्णदृष्टिप्रिये । २ वस्तुनीति । निषेधन्तीष्टविधे ॥ ३ वामा इति । वना रोषिनः । दृष्टेपि वस्तुनि अनिच्छुकास्त्रैलोक्यप्रकृतयो