भारतकोश
संग्रह पर लौटें

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

३७० सात्वतसंहिता जिस आसन पर शङ्ख और कमल का चिह्न हो उसे वर्जित करे उस पर न बैठे। रात्रि के समय अथवा एकादशी के दिन शुद्ध उपवास करे ॥ १३१ ॥ सम्पूर्ण द्वादशी तिथियों, उत्तरायण, दक्षिणायन में तथा सङ्क्रान्ति काल में विशेष पूजा करे ॥ १३२ ॥ यदि मन्त्र सिद्ध न किया गया हो तो उस असिद्ध मन्त्र से भूत एवं ग्रह से दूषितों का तथा व्याधियों का स्वतन्त्र रूप से उत्सारण कदापि न करे ॥ १३३ ॥ स्वप्न में, अथवा प्रत्यक्ष जिसे मन्त्र द्वारा सिद्धि के लक्षण दिखाई पड़ जावे, अथवा मन्त्र से अनुभूत हो जावे यह सिद्धि का चिह्न कदापि किसी से न कहे। किन्तु गुरु से कहा जा सकता है ॥ १३४ ॥ जहाँ किसी नृसिंह का बीज स्पष्ट रूप से दिखाई पड़ जावे। उसे वाक्पुष्प से अर्चन करे, प्रदक्षिणा करे और नमस्कार करे ॥ १३५ ॥ किसी के विप्रयोग का निमित्त होने पर यदि अश्रुपात हो जावे, अथवा शोक हो जावे, तब बिना स्नान किये देवाग्नि पितृ तर्पण न करे ॥ १३६ ॥ जब तक नाभिनाल का छेदन न हो तब तक सूतक का दोष नहीं लगता। अन्यत्र साङ्कर्य हो जाने पर दोष लगता है। अतः पहले जितनी क्रियायें कही गई हैं उन्हें सूतक में तथा अन्य प्रत्यवायों में न करे ॥ १३७ ॥ जिस आगम से अपना अनुष्ठान सिद्ध हो, अथवा प्राप्त हो, उस आगम- शास्त्र का सर्वदा पूजन करे और सर्वदा गुप्त रखे ॥ १३८ ॥ अपनी शक्ति के अनुसार ब्राह्मणादि दीन तथा अनाथों का पालन करे। इस प्रकार संसारी शिष्य भक्तों के कल्याण के लिये गुरु उपदेश करे। जिनके कृपा प्रसाद से शिष्य मन्त्र जन्य फल प्राप्त करता है, उन गुरु का शिष्य को पूजन करना चाहिए ॥ १३९-१४० ॥ इष्ट्वैवं हि ततः कुर्यात् सेचनं कलशेन तु ॥ १४० ॥ आत्मनश्चानु भक्तानां नैवेद्यं प्रार्थयेत् ततः । ब्राह्मणाय च तद्दद्याद् न्यस्तमाहत्य मन्त्रराट् ॥ १४१ ॥ शिष्यस्य महाकुम्भोदकेनाभिकेनाभिषेकमाह—इष्ट्वेत्यर्धेन। एतत्क्रमो विस्तरेण वक्ष्यमाणो ग्राह्यः। स्वानुयागार्थं कारिप्रदानार्थं च देवं हविः प्रार्थयेदित्याह—आत्मन इत्यर्धेन। कारिप्रदानमाह—ब्राह्मणायेत्यर्धेन। अत्रैकमूर्तेर्नृसिंहस्याराधनप्रकरणाद् ब्राह्म- णायेत्येकवचनमुक्तम्, पूर्वं चातुरात्म्यार्चनप्रकरणात्— सम्पूज्य गन्धधूपैश्च ततस्तु भगवन्मयान् ॥

सप्तदशः परिच्छेदः ३७१ यथाक्रमं समभ्यर्च्य नैवेद्यं प्रतिपाद्य च। (६।७४-७५) इति, एवमुक्त्वा समभ्यर्च्य चतुरः पाञ्चरात्रिकान्॥ (१४।३०) इति च चत्वारः कारिणः प्रोक्ता इति ज्ञेयम् । तत्राप्यशक्तावेक एवोक्तः सप्तम- परिच्छेदे (७।७८) । तदानीमेकस्यैव चतुर्मूर्त्यात्मकत्वं बोध्यम् । न्यस्तमन्त्रराडाहृत्य हविषि न्यस्तं मन्त्रत्रयमुपसंहृत्येत्यर्थः । एवमेवोक्तं पारमेश्वरादिष्वपि- विनिवेश्य च देवाय विन्यास्तानोदनोपरि ॥ बलवीर्यादिसन्मन्त्रान् रसवीर्यादिवर्जितान् । ओमित्युपाहरेन्मन्त्री ततः संहृतिमुद्रया ॥ इति । (१८।३८७-३८८) त्रय्यन्तज्ञानसम्पन्नान् यथोक्ताचारनिष्ठितान् । समाहूयार्घ्यगन्धाद्यैः समभ्यर्च्य यथाक्रमम् ॥ भगवच्छेषमादाय न्यस्तमाहृत्य मन्त्रपम् । प्राङ्निवेदनकाले तु चतुर्धा संविभज्य तम् ॥ प्रापणं मधुपर्काद्यमन्यच्चाभ्यवहारिकम् । तेभ्यो दद्यादेकभागमर्घ्योदकपुरस्सरम् ॥ इति । पूर्वं होमात् पूर्वं कारिप्रदानमुक्तम्, इदानीं होमानन्तरमपि कारिप्रदानस्योक्तत्वात् तस्य कालद्वयेऽन्यतरकर्तव्यत्वमुक्तं भवति ॥ १४०-१४१ ॥ इसके पश्चात् गुरु कलशोदक से शिष्य का अभिषेक करे । फिर कार्य- कर्त्ताओं को देने के लिये तथा अपने यज्ञ की सिद्धि के लिये भगवान् से नैवेद्य ग्रहण की प्रार्थना करे । इस प्रकार मन्त्रराज को निवेदित नैवेद्य प्रथमतः ब्राह्मण को ही देना चाहिए ॥ १४०-१४१ ॥ क्षमापयेत् ततो देवं यत्र यत्रावतारितम् । अथ शिष्टैस्तु नैवेद्यैर्यजेद् गणपतिं प्रभुम् ॥ १४२ ॥ अपराधक्षमापणमाह—क्षमापयेदित्यर्धेन । यत्र यत्र कुम्भे मण्डलेऽग्नौ चेत्यर्थः । फिर जहाँ-जहाँ कुण्ड, मण्डल और अग्नि में भगवान् को पधराया गया हो उन-उन स्थानों पर भगवान् से क्षमा प्रार्थना करे । फिर शेष नैवेद्यों से प्रभु गणपति का यजन करे ॥ १४२ ॥ विष्वक्सेनाभिधानं चाप्यर्घ्याद्यैरर्चितो हि यः । चरुरूपेण चान्नेन सोदकेन हृदा ततः ॥ १४३ ॥ बहिराराधनस्थानात् प्रादक्षिण्‍येन निक्षिपेत् । पूर्वादीशानपर्यन्तं मन्त्री भूतबलिं तदा ॥ १४४ ॥ विष्वक्सेनार्चनमाह—अथेति । शिष्टैः कारिप्रदानावशिष्टैरित्यर्थः, नैवेद्यैर्मधुपर्काद्यैर्मुख्यमूर्तेर्निवेदितैः ॥ द्विजप्राशनशिष्टैस्तु स्वयं प्राशनवर्जितैः। (२०।१३-१४)

३. तृतीय भाग (परिच्छेद १४-१९): मन्दिर-प्रतिष्ठा, विग्रह-लक्षण एवं पूजा-पद्धति

३७२ सात्वतसंहिता इति पौष्करे विष्वक्सेनार्चनप्रकरणे व्यक्तोक्तेः ॥ १४२-१४३ ॥ ततः कुमुदादिभूतेभ्यो बलिदानमाह-चरुरूपेणेति सार्धेन ॥ १४३-१४४ ॥ जिन अर्ध्यादिकों से विष्वक्सेन की पूजा की गई हो उन अर्घ्य सहित चरु रूप अन्नों को पूजा स्थान से बाहर दक्षिण दिशा की ओर सोदक हृद (तालाब या वापी) आदि में प्रक्षिप्त कर देवे । फिर मन्त्रज्ञ साधक पूर्व दिशा से आरम्भ कर ईशान पर्यन्त भूतबलि देवे ॥ १४३-१४४ ॥ ततो विसर्जनं कुर्यादुपसंहृत्य चाखिलम् । विनिक्षिप्याम्भसो मध्ये पत्रपुष्पफलादि यत् ॥ १४५ ॥ निष्कामः पावनार्थं तु स्तोकमुद्धृत्य वै पुरा । सन्ध्याय मन्त्रपूर्वं प्राक् तमश्नीयाच्च मौनवान् ॥ १४६ ॥ विसर्जनमाह—तत इत्यर्धेन । विसर्जनमत्र विष्वक्सेनस्येति बोध्यम् । भगवद्वि- सर्जनं तु विष्वक्सेनार्चनात् पूर्वमेव कार्यम्, तच्च—"क्षमापयेत् ततो देवं यत्र यत्राव- तारितम्" (१७।१४२) इत्यनेनैव सूचितं भवति । यता मण्डलेऽग्नौ च भगवद्विसर्ज- नानन्तरं तस्मिन्नेव स्थाने विष्वक्सेनः पूजनीय इति जयाख्यपञ्चदशपटले (१५।२४२- २५०) विस्तरेण एताद्विधानमुक्तम्, अत्रापेक्षितं च । उपसंहृत्य चाखिलं परिवार- देवतासमूहं च विसृज्येत्यर्थः । विष्वक्सेनार्चनानन्तरं पत्रपुष्पफलान्नादीनां जलमध्ये प्रक्षेपम्, स्वप्राशनार्थं किञ्चिदंशस्य तत्पूर्वमेव प्रत्येकं स्थापनम्, तदर्चनानन्तरं प्राशनं चाह—विनिक्षिप्येति सार्धेन । अत्र निष्काम इत्यनेन सकामस्य विष्वक्सेनार्चनानन्तरं प्रत्येकमुद्धृतस्यापि प्राशनं वर्ज्यमिति ज्ञायते । तथा च पञ्चरात्ररक्षायामागमप्रामाण्यवचनम्— यतो भगवदर्थेन त्यक्तं स्रक्चन्दनादिकम् । पश्चादभोग्यतां याति विष्वक्सेनपरिग्रहात् ॥ अत एव निवेद्यादि ततः प्रागेव सात्वतैः । सेव्यते तेन तत् तेषामुत्कर्षस्यैव कारणम् ॥ (पृ० ८२-८३) इति ॥ १४५-१४६ ॥ इसके अखिलकर्म का उपसंहार करके विष्वक्सेन का भी विसर्जन करे । फिर सम्पूर्ण पत्र पुष्पादि फलों को एकत्र कर जल के मध्य में फेंक देवे । विष्वक्सेन की पूजा के पहले अपने को पवित्र करने के लिये कामनारहित हो नैवेद्य का कुछ अंश अपने लिये निकाल कर रख लेवे । विष्वक्सेन के पूजन के पहले उसे मौन हो कर भोजन करे लेवे क्योंकि विष्वक्सेन की पूजा के बाद अलग कर रखे गये भी नैवेद्य का भोजन वर्जित है ॥ १४५-१४६ ॥ भोजनान्ते ततः कुर्यात् सम्प्राप्ते तु निशामुखे । मन्त्रजापं ततो ध्यानं तोयतर्पणपूर्वकम् ॥ १४७ ॥

सप्तदशः परिच्छेदः ३७३ तथैव रात्रिशेषं तु कालं सूर्योदयावधि । कर्तव्यं सजपं ध्यानं नित्यमाराधकेन तु ॥ १४८ ॥ अथ भोजनानन्तरमा सायं सद्ध्यानमन्त्रजपं सायंकाले जलमध्ये स्वमन्त्रार्चनतर्पणं तदारभ्य सूर्योदयावधि च सध्यानजपमाह—भोजनान्त इति द्वाभ्याम् ॥ १४७-१४८ ॥ भोजन के अनन्तर सायङ्काल के समय जल से तर्पण कर मन्त्रजाप करे । फिर ध्यान करे । आराधक को रात्रिकाल के शेष काल से सूर्योदय पर्यन्त निरन्तर जप और ध्यान में व्यतीत करना चाहिये ॥ १४७-१४८ ॥ एवमेव विधानेन पूजयित्वा दिने दिने । जपेलक्षाष्टकं मन्त्री ततः सिद्ध्यति मन्त्रराट् ॥ १४९ ॥ ददाति मनसोऽभीष्टा सिद्धिः सर्वानुरूपकाः । रुद्रादित्येन्द्रऋषिभ्यो भक्तेभ्यश्च मयोदितम् ॥ १५० ॥ एवं प्रत्यहं भगवदर्चनपूर्वकं शिष्यैर्लक्षाष्टसंख्याके जपे कृते मन्त्रसिद्धिर्भवति, ततः स्वेष्टसिद्धिश्च भवतीत्याह—एवमेवेति सार्धेन ॥ १४९-१५० ॥ इस प्रकार दिन-प्रतिदिन पूजा कर मन्त्रज्ञ साधक आठ लाख की संख्या में जप करे । तब मन्त्रराज सिद्ध हो जाते हैं । सिद्ध हो जाने पर ये मन्त्रराज सर्वानुरूप मानसिक सिद्धियाँ प्रदान करते हैं ॥ १४९-१५० ॥ इसके अतिरिक्त जो बात यहाँ नहीं कही गई है उसे रुद्रादित्यादि के लिये एवं ऋषियों के लिये और भक्तों के लिये अन्यत्र कहा गया है । उसे वहाँ से ज्ञात कर कर्म करना चाहिए ॥ १५० ॥ लोकचित्तानुसारेण शास्त्रं वै युगभेदतः । यागो यागोपकरणं विमलं प्रतिपादकम् ॥ १५१ ॥ ज्ञातव्यं तत् त्वया सम्यगविरोधेन सर्वदा । आगमेभ्योऽथ तज्ज्ञेभ्यः सकाशादात्मसिद्धये ॥ १५२ ॥ अनुक्तमन्यतो ग्राह्यमित्याह—रुद्रादित्येत्यादिभिः । अविरोधेन स्वोक्तार्था- विरोधेनेत्यर्थः ॥ १५०-१५२ ॥ उन स्थानों पर युगभेद से लोकचित्तानुसार वहाँ याग एवं यागोपकरण का स्पष्ट रूप से प्रतिपादन किया गया है ॥ १५१ ॥ हे सङ्कर्षण ! वे सभी बातें अपनी कही हुई बातों के अनुसार ही यहाँ कही गई हैं—किसी बात में कहीं कोई विरोध नहीं है, ऐसा समझना चाहिये । यहाँ आत्मसिद्धि के लिये आगमशास्त्र के अनुसार जो नृसिंहानुष्ठान के पूर्ण ज्ञाता हैं उनसे जान कर सभी बातें कही गई हैं ॥ १५२ ॥

३७४ सात्वतसंहिता अथोक्तमिह संक्षेपाद् वदेदन्यत्र विस्तरात् । अथ संसाधितं मन्त्रं ब्रह्मचर्यादिसंयमैः ॥ १५३ ॥ पयोयावकशाकाम्बुघृतमूलफलाशनैः । मन्त्री यथा प्रयुञ्जीयाच्छान्तिकादिषु तच्छृणु ॥ १५४ ॥ एवं पयोयावकादिप्राशनब्रह्मचर्यनियमैः साधितस्य मन्त्रस्य शान्तिकादिषु प्रयोग- क्रमं शृण्वित्याह—अथेति द्वाभ्याम् ॥ १५३-१५४ ॥ यहाँ संक्षेप में कहा गया है । अन्यत्र विस्तार से कहा गया है । अब दूध यावकादि प्राशनपूर्वक ब्रह्मचर्यादि नियमों द्वारा साधित मन्त्र का शान्तिकादि कर्म में जिस प्रकार अनुष्ठान किया जाता है, हे सङ्कर्षण ! उसे सुनिये ॥ १५३-१५४ ॥ शान्तिविधानम् ज्ञात्वादौ स्वशरीरोत्थैर्लौकिकैरपि लक्षणैः । प्राप्तेन स्वप्नयोगेन संस्थितिं जीवितस्य च ॥ १५५ ॥ ततः शल्यविनिर्मुक्तं स्थानमासाद्य शोभनम् । संच्छन्नं शरजालेन साम्बरेणाथवा गृहम् ॥ १५६ ॥ तत्र मण्डलमालिख्य सर्वोपकरणान्वितम् । चन्दनक्षोदयुक्तेन शशिना सहितेन च ॥ १५७ ॥ सुगन्धशालिचूर्णेन प्रागुदीरितलक्षणम् । निर्व्रणं लक्षणाढ्यं च पूरितं गालिताम्भसा ॥ १५८ ॥ हेमरत्नौषधीवृक्षशाखादूर्वाफलोदरम् । धूपिताहतशुष्केण वाससा परिवेष्टितम् ॥ १५९ ॥ सुसमाधारसंस्थं च बाह्यतो मण्डलस्य च । विन्यसेत् समसूत्रेण दिग्विदिक़्कलशाष्टकम् ॥ १६० ॥ सुधाचन्दनलिप्ताङ्गं लाजतण्डुलपूरितम् । श्वेतपट्टगलोपेतं सितपुष्पस्रगान्वितम् ॥ १६१ ॥ मुक्तफलोदरं चैव बीजमल्लकभूषितम् । उपकुम्भाष्टकं त्वेवं कुम्भानामुपरि न्यसेत् ॥ १६२ ॥ श्वेतचामरसंयुक्तं सितमूर्ध्ववितानकम् । बद्ध्वा सितेन सूत्रेण सप्तधा कलशाष्टकम् ॥ १६३ ॥ संवेष्ट्य कण्ठदेशान्तं त्वच्छिन्नेन दृढेन च । कृत्वैवं च ततः स्नायात् कुर्यान्न्यासादिकं ततः ॥ १६४ ॥ निशाम्बुना चन्दनेन श्वेतदूर्वाङ्कुरेण च ।

सुश्लक्ष्णभूर्जपत्रे तु नाम सान्तर्गतं लिखेत्॥ १६५ ॥ अरान्तोपगतेनैव कुर्याद् बीजेन संयुतम्। कमलं तद्बहिर्लेख्यमष्टपत्रं सकर्णिकम् ॥ १६६ ॥ नाभितुर्यमधोवक्त्रं वर्णपत्राष्टकं लिखेत्। तदन्तस्तच्चतुर्थान्तं मन्त्रेशं च लिखेत् परम् ॥ १६७ ॥ नतिप्रणवगर्भं तु ततः कमलबाह्यगम्। विलिख्य नेमिनवमं द्विधोध्र्वाधोमुखं तु वै ॥ १६८ ॥ संवेष्ट्य सितसूत्रेण अर्घ्यकुम्भे निवेशयेत्। आधारे शालिचूर्णीये मण्डलाग्रे निधाय तम्॥ १६९ ॥ आवाह्य मण्डले मन्त्रं प्राग्वद् हृदयकोटरात्। ततः श्वेतोपचारेण तत्र मन्त्रेश्वरं यजेत् ॥ १७० ॥ पूर्णेन्दुमण्डलान्तस्थमुद्गिरन्तं सुधारसम्। शशाङ्कशतसङ्काशं ध्यात्वा सपरिवारकम् ॥ १७१ ॥ यच्छ यच्छ महाशान्तिं पूजान्ते समुदीरयेत्। ततः शशाङ्कदिग्भागे कुण्डे पूर्णेन्दुलक्षणे ॥ १७२ ॥ क्षीरतण्डुलमध्वाज्यैर्गुग्गुलेन तिलेन च। सचन्दनेन होमं तु सप्तरात्रं समाचरेत् ॥ १७३ ॥ पयोभुक् परमेशं च प्रहराष्टकमर्चयेत्। होमान्ते कलशस्थस्य पयसा शीतलेन तु ॥ १७४ ॥ सेचनं चाम्भसा कुर्यात् प्रत्यहं प्रहराष्टकम्। स्नानान्ते ब्रह्मरन्ध्रोर्ध्वं संस्मरेन्मन्त्रनायकम् ॥ १७५ ॥ स्रवन्तममृतं त्वेवं शान्तिर्भवति शाश्वती। अथवाऽऽदाय मृत्पात्रं वैदलं वाऽथ काष्ठजम् ॥ १७६ ॥ तत्र पङ्कजवत् कुर्याद् रचनामोदनेन च। पिष्टनिर्मितपात्राणां सम्प्रज्वाल्य घृतेन तु ॥ १७७ ॥ दीपाष्टकं ततः पूजां कुर्यात् पूजादिकैर्बलैः। स्विन्नानि सप्तबीजानि विकीर्य च तदूर्ध्वतः॥ १७८ ॥ ततोऽर्चिते तोयकुम्भे धूपपात्रं तु विन्यसेत्। अच्छिन्नधूपप्रसरं त्रैकाल्यं च बलिं हरेत् ॥ १७९ ॥ शान्त्यर्थं देशपालानां भूतानामेवमेव हि। पृष्ठे चोदकधारां वै अच्छिन्नां पदसप्तकम् ॥ १८० ॥

शान्तये बलिमन्त्राणामस्त्रमन्त्रेण पातयेत् । इति शान्तिविधानं च पौष्टिकं च निबोधतु ॥ १८१ ॥ पूर्वं शान्तिविधिमाह—ज्ञात्वेत्यारभ्य इति शान्तिविधानं चेत्यन्तम् । शशिना = कर्पूरेण । नाम = साध्यनामधेयमित्यर्थः । साध्यनामधेयप्रकारः पारमेश्वरे प्रतिपादितः— साध्यनामस्वरूपं तु व्यापकं वक्ष्यते पुनः ॥ तारान्ते बीजशक्तिश्च देवतं तस्य चेत् ततः । शान्तिं पुष्टिं च वश्यं च विजयं चैवमादिकम् ॥ द्वितीयान्तं समुच्चार्य कुरुवीप्सान्वितं ततः । यच्छ-यच्छ-पदान्तं वा प्राक्स्थितैः प्रणवान्तिमैः ॥ अङ्गयैदवसाने च साध्यलक्षणमीरितम् ॥ —(२४।११६-११९) इति । सान्तर्गतं = सकारान्तर्गतमित्यर्थः । अरान्तोपगतेन बीजेन, अमुस्वारेणेत्यर्थः । नाभितुर्यं वकारम्, तच्चतुर्थान्तं नाभिचतुर्थान्तम्, वकारान्तमिति यावत् । मन्त्रेशं श्रीनृसिंहबीजम् । नेमिनवमं = टकारमित्यर्थः । तथा च प्रयोगः—आदौ स्वशरीरोत्थैर्लौकिकैर्लक्षणैः प्राप्तेन स्वप्नयोगेन च जीवितस्य संस्थितिं ज्ञात्वा सर्वशल्यविनिर्मुक्तं शोभनं स्थानमासाद्य केवले(न) शरजालेन सवस्त्रेण वा समाच्छादितं यागगेहं परिकल्प्य तत्र मध्ये वेदिकायां चन्दनचूर्णमिश्रेण कर्पूरसहितेन सुगन्धशालिचूर्णेन— चतुरश्रं चतुर्द्वारं मार्गपीठाब्जभूषितम् ॥ त्रिनाभिनेमिषडरं चक्रं तु कमलाद् बहिः । (१७।४९-५०) इत्युक्तलक्ष(ण णं) मण्डलमालिख्य नि(पु र्वणं) सलक्षणं गालितोद(कं क)- पूर्णं हेमरत्नसर्वौषधिपल्लवदूर्वाफलपूरितं सुधूपिताहतशुक्लवस्त्रपरिवेष्टितं महाकु(म्भ म्भं) मण्डलस्य बहिः पूर्वभागे आधारचक्रिकोपरि संस्थाप्य तत्परितोऽष्टदिक्ष्वपि तथाविधं कलशाष्टकं विन्यस्य सुधान्चन्दनलिप्ताङ्गं तण्डुलपूरितं शुक्लकौशेय परिवेष्टितकण्ठं शुक्लपुष्पमालिकाअलङ्कृतं मुक्ताफलोदरं बीजपूरितशरावपिहितमुप- कुम्भाष्ट (क कं) दिक्कलशानामुपरि विन्यस्य यागगेहं श्वेतचामरसंयुक्तसितदुकूल- वितानकैरलङ्कृत्याच्छिद्रेण दृढेन सितेन सूत्रेण कलशाष्टकं कण्ठदेशान्तं सप्तवारं परितः संवेष्टयेत् । एवं सर्वोपकरणानि सम्पाद्य यथाविधि स्नात्वा मन्त्रन्या, सादिकं कृत्वा हरिद्रोदकविमिश्रितेन चन्दनेन दूर्वाङ्कुरेण लेखिन्या सुलक्षणे भूर्जपत्रमध्ये सकारान्तर्गतं साध्यनाम विलिख्य, तद्बहिः सकर्णिकमष्टपत्रं कमलं विलिख्य पत्राष्टकेऽधोवक्त्रं वकारं विलिख्य तदन्तः प्रणवनमःसम्पुटितं वकारान्वितं नृसिंहबीजं विलिख्य कमलाद् बहिरूर्ध्वमुखमधोमुखं च संख्याहीनं टङ्कारमूर्मिकारूपेण परितः संलिख्य तद्यन्त्रं सितसूत्रेण संवेष्ट्यार्घ्यकुम्भे निधाय मण्डलाग्रे शालिचूर्णपरिकल्पिते स्थण्डिले तं कुम्भं निधाय, मण्डले स्वहृदयान्मन्त्रनाथमावाह्य, तत्र श्वेतैरुपचारैरभ्यर्च्य,

सप्तदशः परिच्छेदः ३७७ पूर्णेन्दुमण्डलान्तस्थं सुधारसमुद्गिरन्तं शशाङ्कशसंकाशं सपरिवारं मन्त्रनाथं ध्यात्वा, पूजान्ते महाशान्तिं यच्छ यच्छेति प्रार्थयेत् । तत उत्तरदिग्भागे पूर्णेन्दुसदृशे वृत्तकुण्डे क्षीरतण्डुलमघुघृतगुग्गुलतिलचन्दनैः सप्तभिर्द्रव्यैः सप्तरात्रं होममाचरन् केवलपयः- प्राशनं कुर्वन्, परमेशं मन्त्रनाथं प्रत्यहं प्रहराष्टकेऽप्यर्चयन्, होमान्ते कलशस्थस्य भगवतः पयसा शीतलोदकेन च प्रहराष्टकेऽपि सेचनं कुर्वन्, प्रत्यहं स्नानान्ते साधकस्य ब्रह्मारन्ध्रोपर्यमृतं स्रवन्तं मन्त्रनाथं स्मरेत् । अनेन शान्तिर्भवति । अथवा मृण्मयं वैदलं काष्ठजं वा पात्रमादाय तत्र केवलान्नेनाष्टपत्रं कमलं विरचय्य तद्दलाष्टके पिष्टनिर्मितघृतपूरितप्रज्वालितदीपाष्टकं विन्यस्य पुष्पादि- भिरभ्यर्च्य स्विन्नानि सप्तविधबीजानि तदुपरि विकीर्यैकं तोयकुम्भमभ्यर्च्य तदुपरि धूपपात्रं निधायाच्छिन्नधूपप्रसरं यथा तथा कालत्रयेऽपि देशपालानां भूतानां बलिं हरेत् । बलिधर्तॄणां पृष्ठे सप्तपदावधि शान्त्यर्थमच्छिन्ना करकोदकधारामस्त्रमन्त्रेण सेचयेत् ॥ १५५-१८१ ॥ इति शान्तिविधिः ॥ अब सबसे पहले शान्तिविधि कहते हैं—साधक अपने शरीर में होने वाले लौकिक लक्षणों से, अथवा स्वप्नयोग के लक्षणों से, जीवन की स्थिति का ज्ञान कर किसी उपद्रवरहित शोभन स्थान में जाकर केवल शरपत से आच्छादित किसी स्थान में, अथवा वस्त्र से आच्छादित किसी स्थान में जाकर, वहाँ यागगृह का निर्माण करे । उसके मध्य में वेदी निर्माण कर, उस वेदी पर चन्दनचूर्ण, कर्पूर तथा सुगन्धि शालिचूर्ण को एक में मिश्रित कर, पहले जैसा कहा गया है वैसा, उत्तमोत्तम लक्षण युक्त मण्डल निर्माण करे । फिर उस मण्डल के बाहर पूर्वभाग में सुलक्षण कलश जो वस्त्र से छाने गये जल से पूर्ण हो, हेमरत्न, सर्वौषधि एवं पञ्चपल्लव और दूर्वाफल से पूर्ण हो और सुधूपित नवीन शुक्ल वस्त्र से परिवेष्टित हो ऐसे कलश को आधार चक्र के ऊपर स्थापित करे । उसके आठों दिशाओं में वैसा ही सुलक्षण आठ कलश स्थापित करे । उसे चन्दन तथा चूने से अनुलिप्त करे । तण्डुल (= चावल) से परिपूर्ण करे । शुक्ल रेशमी वस्त्र से तथा शुक्ल माला से उसका कण्ठ परिवेष्टित करे । उन कलशों के ऊपर मोती, चावल एवं बीज पूर्ण शराव (पुरवा) स्थापित करे । इस प्रकार आठो दिशाओं के कलशों पर उपकुम्भाष्टक स्थापित कर याग गेह को भी श्वेत चामर संयुक्त एवं श्वेत वस्त्र निर्मित दुकूल वितान से अलङ्कृत करे तथा उसे आच्छन्न कर, दृढ़ श्वेत सूत्र से उस कलशाष्टक के कण्ठ प्रदेश को सात बार चारों ओर से लपेट देवे ॥ १५५-१६४ ॥ तदनन्तर यज्ञ की समस्त सामग्री एकत्रित कर यथाविधि स्नान करे । फिर मन्त्रन्यास कर, हरिद्रा मिश्रित चन्दन से, दूर्वाङ्कुर की लेखनी से, अत्यन्त चिकने भोजपत्र पर, सकारान्त साध्य नाम लिखकर, उसके बाहर कर्णिका सहित अष्टपत्र कमल लिखे । उसके आठो पत्रों पर अधोमुख वकार लिखकर, उसके भीतर प्रणव एवं नमः सम्पुटित वकारान्वित नृसिंह बीज लिखकर, कमल के बाहर ऊर्ध्वमुख एवं अधोमुख संख्या रहित टकार का ऊर्मिका रूप से चारों ओर लिखकर उस सा० सं० - 28

३७८ सात्वतसंहिता यन्त्र को सफेद सूत्र से वेष्टित करे। उसे अर्घ्य वाले कुम्भ पर रखकर मण्डल के अग्रभाग में शालि के चूर्ण से निर्मित स्थण्डिल (वेदी) पर स्थापित करे। मण्डल पर अपने हृदय से मन्त्रनाथ का आवाहन कर, श्वेत उपचारों से उसकी पूजा कर, पूर्णेन्दुमण्डल में स्थित सुधा समुद्र का उद्‌गिररण करते हुए सैकड़ों चन्द्रमा के प्रकाश के समान सपरिवार मन्त्रनाथ का ध्यान करे। फिर पूजा करे और पूजा के अन्त में 'महाशान्तिं यच्छ यच्छ' ऐसी प्रार्थना करे। फिर उसके उत्तर दिग्भाग में पूर्णमासी के चन्द्रमा के समान निर्मित वृत्तकुण्ड में दूध, चावल, मधु, घृत, गुग्गुल, तिल और चन्दन इन सात पदार्थों से सात रात तक होम करे। केवल दूध पीकर रहे। परमेश्वर मन्त्रनाथ का प्रतिदिन आठों प्रहर अर्चन करे। होम के अन्त में प्रतिदिन कलश स्थित भगवान् को शीतलोदक से आठों प्रहर सेचन करे। प्रतिदिन स्नान के बाद साधक के ऊपर ब्रह्मरन्ध्र से अमृत की वर्षा करते हुए मन्त्र नाथ का स्मरण करे इस विधि से शान्ति हो जायेगी ॥ १५५-१७५ ॥ अब शान्ति का दूसरा विधान कहते हैं—मिट्टी का, अथवा पत्ते का, अथवा काष्ठ का पात्र लेकर केवल अन्न से अष्टपत्र कमल का निर्माण करे। उस अष्टपत्र पर पिष्ट निर्मित घृत पूर्ण प्रज्ज्वलित आठ दीपक स्थापित करे। फिर पुष्पादि से उसकी पूजा कर आर्द्र सप्तविध बीज उसके ऊपर विकीर्ण (फैलावे) करे। फिर एक जलपूर्ण कलश की पूजा कर उसके ऊपर धूप पात्र स्थापित कर अविच्छिन्न रूप से उस पर धूप जलाते रहे। इस प्रकार तीनों कालों तक देश के पालक भूतों को बलि देवे। बलि देने वाले के पीठ को सात पद पर्यन्त शान्ति के लिये अविच्छिन्न रूप से करकोदक (करवा के जल की) धारा द्वारा अस्त्र मन्त्रों के साथ बलि मन्त्रों से सींचते रहे ॥ १७६-१८१ ॥ पौष्टिकविधानम् कुङ्कुमक्षोदमिश्रेण कुसुम्भरजसा तु वै। पूर्ववन्मण्डलं कुर्याद् रक्तचन्दनभूषितम् ॥ १८२ ॥ नीवारतण्डुलैर्नैव ताम्रवर्णैस्तिलैः शुभैः। सम्पूर्य बदरोपेतैरुपकुम्भाष्टकं हि यत् ॥ १८३ ॥ सोपकुम्भानि कुम्भानि रक्तसूत्रेण वेष्ट्य च। शेषं यद्विहितं चात्र तत्तद् रक्तं प्रकल्पयेत् ॥ १८४ ॥ ततः स्नातः कृतन्यासो नाम रोचनया लिखेत्। अलक्ताम्बुयुक्तेन सान्द्रदर्भाङ्कुरेण तु ॥ १८५ ॥ पूर्ववत् पद्मगर्भस्थं ततः पत्रेष्वधोमुखम्। बीजं नियोजयेत् तन्मे गदतश्चावधारय ॥ १८६ ॥ नेभैरेकोनविंशाख्यवर्णस्याधोगतं न्यसेत्।

सप्तदशः परिच्छेदः ३७९ बीजं नाभितृतीयं यत् तदधः पञ्चमारगम् ॥ १८७ ॥ शिरसाऽरान्तपूर्वेण युक्तं बाह्याद् दशादिना । तदन्तस्थं न्यसेद् बीजं नाभितुर्यासनस्थितम् ॥ १८८ ॥ नाभिसप्तमगर्भेऽथ विन्यसेत् कमलं तु तत् । बीजं पुष्टिपदोपेतं कुरुवीप्सासमन्वितम् ॥ १८९ ॥ लिखेत् प्रणवपूर्वं तु बहिरष्टासु दिक्षु वै । संवेष्ट्य रक्तसूत्रेण मधुतोयघटे न्यसेत् ॥ १९० ॥ निधाय पूर्ववत् कुर्याद् दिग्बन्धं हृदयादिकैः । अस्त्रेण तु विदिग्बन्धं नेत्रेणोर्ध्वमधस्तथा ॥ १९१ ॥ ततो विद्रुमसंकाशं मन्त्रमावाह्य संयजेत् । अथो मन्त्रगणं सर्वं लोके शास्त्रान्तसंयुतम् ॥ १९२ ॥ रक्तैरकण्टकैर्हृद्यैरर्चनं कुसुमैर्हितम् । राजमुद्गैस्तु नैवेद्यं युक्तमत्र गुलोदनम् ॥ १९३ ॥ गुलरञ्जितभक्ष्याणि कुर्यान्नानाविधानि वै । सम्भवे सति वै रक्तं सर्वं कार्यमसम्भवे ॥ १९४ ॥ रञ्जयेत् कुङ्कुमाद्येन केनचिद् रक्तधातुना । सर्वं जपावसानं तु कृत्वा होमं समाचरेत् ॥ १९५ ॥ घृतैस्तिलैस्तु पूर्वोक्तैः शर्कराबदरान्वितैः । दत्त्वा पूर्णाहुतिं कुर्यात् सेचनं शर्कराम्भसा ॥ १९६ ॥ पूर्ववन्मन्त्रनाथस्य साध्यगर्भीकृतस्य च । ततः पूर्वोक्तविधिना बलिकर्म समाचरेत् ॥ १९७ ॥ सप्तरात्रं त्रिरात्रं वा पुष्टिरुत्पद्यते महत् । प्रभावान्मन्त्रराज्यस्य विधिनानेन सर्वदा ॥ १९८ ॥ अथ पौष्टिकविधिमाह—पौष्टिकं च निबोधतु इत्यारभ्य विधिनानेन सर्वदे- त्यन्तम् । नाम = साध्यनामधेयम् । पूर्ववत् पद्मगर्भस्थं लिखेत्, कर्णिकामध्ये लिखे- दित्यर्थः । नेमेरेकोनविंशाख्यवर्णस्य बकारस्य नाभितृतीयं बीजं लकारं पञ्चमारगम् उकारमरान्तपूर्वेणानुस्वारेण बाह्याद् दशादिना टकारेणेत्यर्थः । नाभितुर्यासनस्थितं पूर्ववद् वकारस्योपरि स्थितं बीजं नृसिंहबीजं तदन्तस्थं न्यसेत्, कर्णिकामध्ये विलिखेदित्यर्थः । नाभिसप्तमगर्भे = सकारगर्भे इत्यर्थः । बीजं = नृसिंहबीजम् । पुष्टिपदोपेतं कुरुवीप्सासमन्वितं 'पुष्टिं कुरु कुरु' इत्यनेनान्वितमित्यर्थः । तथा च प्रयोगः—कुङ्कुमक्षोदमिश्रेण कुसुम्भरजसा पूर्ववन्मण्डलमालिख्य रक्त- चन्द्रकभूषितं कृत्वां कुम्भस्थापनादिकं सर्वं पूर्ववत् कृत्वोपकुम्भाष्टकं तु नीवारतण्डुलै-

३८० सात्वतसंहिता स्ताम्रवर्णैस्तिलैर्बदरीफलैरापूर्य दिक्कुम्भानामुपरि संस्थाप्य (तां तान्) रक्तसूत्रेण सप्तधा संवेष्टयेत् । अन्यच्चोपयुक्तं यद्यत् तत्सर्वमपि कल्पयेत् । ततः स्नात्वा कृत- न्यासादिकोऽलक्तकाम्बुमिश्रया रोचनया दृढदूर्वाङ्कुरेण लेखिन्या भूर्जपत्रे पद्मगर्भमध्ये साध्यनाम विलिख्याष्टपत्रेष्वधोमुखं ब्लूमिति बीजं विलिख्य परितः पूर्ववत् टङ्कारं विलिख्य पूर्ववद् वकारान्वितं नृसिंहबीजं कर्णिकान्तर्विलिख्य तत्कमलं सकारगर्भे विन्यस्य तदष्टदिक्षु ॐ पुष्टिं कुरु कुर्विति विलिख्य तद्यन्त्रं रक्तसूत्रेण संवेष्ट्य मधु- तोयकुम्भे विन्यस्य तं पूर्वोक्तस्थाने निधाय हृदादिभिश्चतुर्मन्त्रैः प्रागादिदिक्चतुष्टय- मस्त्रमन्त्रेण विदिक्चतुष्टयमस्त्रमन्त्रेणाध ऊर्ध्वं च बद्ध्वा ततो देवमावाह्य विद्रुमाभं ध्यात्वा पूर्वं मण्डलोक्तेन परिवारमन्त्रगणेन सह रक्तवर्णैः कुसुमादिभी राजमुद्गाख्यै- र्बीजैर्गुलोदनैर्गुलरञ्जितभक्ष्यैश्च यथाविधि देवं यजेत् । एवं च सर्वमुपचारगणं रक्तवर्णं कुर्यात् । तदसम्भवे कुङ्कुमादिना गैरिकादिधातुना वा रक्तीकुर्यात् । एवं जपयज्ञान्तम- भ्यर्च्य घृतैः शर्कराबदरफलान्वितैस्ताम्रवर्णैस्तिलैश्च यथाविधि पूर्णाहुत्यन्तं हुत्वा पूर्व- वत् कुम्भस्थस्य देवस्य शर्कराम्भसा सेचनं कृत्वा पूर्वोक्तरीत्या बलिकर्म च कुर्यात्। एवं सप्तरात्रं त्रिरात्रं वा कृते मन्त्रमहिम्ना महती पुष्टिरुत्पद्यते ॥ १८१-१९८ ॥ इति पौष्टिकविधिः ॥ यहाँ तक शान्तिविधान कहा गया अब पौष्टिकशान्ति का प्रकार कहते हैं । कुङ्कुम के चूर्ण से मिश्रित कुसुम्भ के रज से पूर्ववत् मण्डल निर्माण करे । फिर उसे रक्त चन्दन के चूर्ण से भूषित करे ॥ १८२ ॥ फिर उस पर आठ दिशाओं में आठ कुम्भ स्थापित करे । उन आठों कुम्भों पर आठ उपकुम्भ (पुरवा), नीवार, तण्डुल, शुभ ताम्रवर्ण के तिल और बदरी (बैर) फलों से परिपूर्ण कर स्थापित करे । तदनन्तर लाल वर्ण के सूत्र से उन्हें सात बार परिवेष्टित करे और जो-जो उपयुक्त हो, उसे भी वहाँ स्थापित करे । तदनन्तर स्वयं स्नान कर न्यास करे । फिर अलक्तक जल से मिश्रित हल्दी के चूर्ण से पुष्ट दूर्वाङ्कुर की लेखनी से भोजपत्र पर लिखे गये अष्टदल के कमल मध्य में साध्य नाम लिख कर आठों पत्तों पर अधोमुख 'ब्लूं' (= नेमेरेकोनविंशाख्यवर्ण बकार, नाभि तृतीय लकार, पञ्चमारग उकार), इस बीज मन्त्र को लिखे उसके चारों ओर पूर्ववत् 'टं'कार (= दशादिना) लिखकर वकार युक्त (= नाभितुर्य) नृसिंह बीज कर्णिका के मध्य में लिखे उस कमल को दो सकार (= नाभिसप्तम) के मध्य में लिख कर उसके आठों दिशाओं में 'ॐ पुष्टिं कुरु कुरु' ऐसा लिखकर उस यन्त्र को लाल सूत्र से वेष्टित मधु मिश्रित जल कलश में स्थापित करे । पुनः पूर्वोक्त स्थान में रखे । फिर हृदादि चार मन्त्रों से पूर्वादि चारों दिशाओं में तथा अस्त्र मन्त्र से चारों विदिक् (कोणों) दिशाओं में, फिर नीचे ऊपर उस यन्त्र को बाँध कर श्रीनृसिंह देव का आवाहन करे । विद्रुम के आकार में उनका ध्यान करे ॥ १८३-१९२ ॥ पूर्व में मण्डल स्थान पर कहे गये परिवार मन्त्र गण के साथ रक्तवर्ण के पुष्पादिकों से, राजमुद्ग नामक बीज से, गुगुल आदि भक्ष्य पदार्थों से विधि के

सप्तदशः परिच्छेदः ३८१ अनुसार उन भगवान् नृसिंह का पूजन करे। इस प्रकार भगवान् की पूजा रक्त वर्णों के उपचारों से सम्पादित करे। यदि रक्तोपचारों का प्राप्त होना संभव न हो, तब कुङ्कुमादि से तथा गैरिकादि धातुओं से रंग कर पूजा करे ॥ १९२-१९५ ॥ इस प्रकार जप यज्ञ के अन्त में पूजन कर फिर घृत, शर्करा, बदरीफल मिश्रित ताम्रवर्ण के पीली तिलों से यथाविधि पूर्णाहुति के अन्त में हवन कर पूर्व स्थापित कुम्भ मध्यस्थ देव का शर्करा जल से सेचन करे और पूर्वोक्त रीति से बलिदान कर्म करे। इस प्रकार सात रात, अथवा तीन रात तक अनुष्ठान करने से मन्त्र की महत्ता से साध्य को महान् पुष्टि प्राप्त होती है। यहाँ तक पौष्टिक विधि कही गई ॥ १९५-१९८ ॥ आप्यायनविधिकथनम् अथानेन हि मन्त्रेण कुर्यादाप्यायनं तु वै। परस्य चात्मनो मन्त्री यथा तदवधारय ॥ १९९ ॥ मण्डलं मण्डनायुक्तं चतुर्वर्णकभूषितम्। वस्त्रस्रग्दर्पणोपेतं किङ्किणीव्यजनान्वितम् ॥ २०० ॥ घृतेन मधुना दध्ना पयसा सुश्रितेन च। व्यस्तेन उपकुम्भौ तु द्वौ द्वौ सम्पूर्य यत्नतः ॥ २०१ ॥ मधूकफलकर्पूरद्राक्षामलफलैस्ततः । पात्राण्यापूर्य कुम्भानां वक्त्रदेशे निधाय च ॥ २०२ ॥ साङ्कुराणि शरावाणि सिक्तानि शिशिराम्भसा। सुधाचन्दनलिप्तानि सितपुष्पान्वितानि च ॥ २०३ ॥ चर्चितानि सितार्घ्येण योज्य कुम्भान्तरावनेः। सितरक्तं तु हेमाभं पुष्पाद्यमखिलं हि यत् ॥ २०४ ॥ उपचारे तु विहितं तदाहृत्याखिलं तु वै। कृताह्निकः शुद्धवासाःसिंहमन्त्राभिधानधृक् ॥ २०५ ॥ सकुङ्कुमेन क्षीरेण ईषदिक्षुरसेन च। तथा च मधुना भूर्जे वस्त्रे वा सार्णमध्यगम् ॥ २०६ ॥ दत्त्वा संज्ञापदं कुर्याद् बाह्ये पद्मं चतुर्दलम्। तद्बहिर्द्विगुणैः पत्रैः कर्णिकाकेसरान्वितम् ॥ २०७ ॥ द्विषट्कपत्रं तदनु तद्बहिः षोडशच्छदम्। ततस्त्रिरष्टपत्रं तु तद्बाह्ये वृत्तमालिखेत् ॥ २०८ ॥ अधोमुखं तु सर्वेषां दलानां बीजपञ्चकम्।

३८२ सात्वतसंहिता क्रमेण पूर्वपद्मात् तु योजनीयं हि तच्छृणु ॥ २०९ ॥ नाभिसप्तमवर्णं यन्नाभितुर्योपरि स्थितम्। उत्तराधरयोगेन तदेवादाय वै पुनः॥ २१० ॥ अथ नाभितृतीयं तु अधो द्वाभ्यां तु विन्यसेत् । अधःस्थं सप्तमं नाभेस्तच्चतुर्थं तु मूर्धनि ॥ २११ ॥ ततः सप्तममादाय तृतीयं तदधो न्यसेत्। तदधो नेमिवर्णाच्च योजयेदूनविंशकम् ॥ २१२ ॥ भूयो नेमेस्तथादाय नाभिसप्तमपृष्ठगम्। तस्याप्यधस्तृतीयं तु नाभिदेशाच्च विन्यसेत् ॥ २१३ ॥ सर्वेषां नाभिपूर्वं तु पञ्चमार्गसंयुक्तम्। निदध्यादासनं पश्चाच्छिरसा लाञ्छयेत् क्रमात् ॥ २१४ ॥ नवमेन तु वै नेमेररोपान्त्यगतेन तु। नाभीयतुर्यवर्णान्तं प्राग्वन्मध्येऽत्र मन्त्रराट् ॥ २१५ ॥ वौषट्पदद्वयान्तस्थमथ बीजं हि केवलम्। दलान्तरालभूमौ तु चतुष्पत्रस्य योजयेत् ॥ २१६ ॥ अरावसानसंभिन्नं कृत्वा वै नाभिसप्तमम्। तेन युक्तं तथा दद्यादष्टपत्रस्य सन्धिषु ॥ २१७ ॥ तेनैव नाभितुर्यं तु भेदयित्वा तदन्तगम्। कृत्वा बीजवरं कुर्याद् द्विषट्पत्रान्तरालगम् ॥ २१८ ॥ वषट्कारपदोपेतं बीजं शीताम्बुसन्निभम्। न्यसेत् षोडशपत्रस्य सन्धिदेशगतं ततः ॥ २१९ ॥ नाभेः सप्तमबीजं तु तच्चतुर्थासनस्थितम् । अराच्चतुर्दशेनैव तदन्तेनाभिभूषितम् ॥ २२० ॥ एतत्सम्पुटमध्यस्थं क्षरन्तममृतं महत् । पूर्ववद् बाह्यपद्मस्य प्रादक्षिण्येन विन्यसेत् ॥ २२१ ॥ नाभितुर्यमथादाय स्थितं तत्सप्तमोपरि । नेमेर्नवमबीजेन अरान्ताद्येन चाङ्कयेत् ॥ २२२ ॥ बीजमेतन्नियोक्तव्यं संख्याहीनं निरन्तरम्। ऊर्मिभूतं बहिष्ठस्य पयोजावरणस्य च ॥ २२३ ॥ लिख्यैवं सितरक्तेन पीतसूत्रेण वेष्टयेत्। मध्विक्षुरसमाग्राम्बुपूर्णकुम्भे नियोज्य च ॥ २२४ ॥

सप्तदशः परिच्छेदः ३८३ चन्दनेन समालिप्तं कृत्वा पुष्पस्रगन्वितम्। तन्निधायोदिते स्थाने ततो मन्त्रेश्वरं यजेत् ॥ २२५ ॥ हृत्पुण्डरीकमध्यस्थं परिवारसमन्वितम्। स्वच्छस्फटिकवर्णाभं हिमादधिकशीतलम् ॥ २२६ ॥ ध्यायेत् तं ब्रह्मरन्ध्रोर्ध्वं सितं पद्ममधोमुखम्। तत्कर्णिकोदरे लीनं स्मरेद् गगनमण्डलम् ॥ २२७ ॥ प्रकाशितं निशानाथमयूखाखिलतारकैः। विक्षिप्तवाहैराकीर्णं सुरसिन्धुविनिर्गमैः ॥ २२८ ॥ अथार्घ्यपुष्पपूर्वाणां भोगानामर्चने विभोः। प्रागुक्तानां क्रमेणैव अनुसन्धानमाचरेत् ॥ २२९ ॥ यं यं संकल्पयेद् भोगं तं तं भाव्य सुधामयम्। पतन्तमम्बराद् वेगादमृतांशुपरिप्लुतम् ॥ २३० ॥ साक्षादमृतरूपस्तु तैस्तैरमृतसम्भवैः। बृंहितं मुदितं मग्नं संप्लुतं मन्त्रराट् स्मरेत् ॥ २३१ ॥ ततोऽवतार्य हृदयात् साधनेन यजेद् बहिः। इष्ट्वाऽथ वह्निगर्भस्थं ध्यात्वा सन्तर्पयेत् ततः ॥ २३२ ॥ सामलैर्राज्यसिक्तैस्तु विल्वैर्दुर्वाङ्कुरैर्नवैः। तिलैर्गोक्षीरसंयुक्तैर्लाजतण्डुल मिश्रितैः ॥ २३३ ॥ सिताज्यपुष्पसंयुक्तैर्दद्यात् पूर्णाहुतिं ततः। मधुक्षीरोदकेनाथ कुर्याद् द्वै मन्त्रसेचनम् ॥ २३४ ॥ घृतेन पायसान्नेन पायसेन फलैः शुभैः। पूर्ववद् बलिदानं तु कुर्यादाप्यायनं भवेत् ॥ २३५ ॥ अथाप्यायनविधिमाह — अथानेन हि मन्त्रेणेत्यारभ्य कुर्यादाप्यायनं भवेदित्य- न्तम्। सार्णमध्यगं सकारान्तर्गतमित्यर्थः। संज्ञापदं = साध्यनामधेयमित्यर्थः। नाभिसप्तवर्णं यत् सकारः, नाभितुर्योपरि स्थितं वकारोपरि स्थितमित्यर्थः। इदं प्रथमबीजम्। उत्तराधरयोगेन तदेवादाय वैः पुनः। सकारस्याधो वकारं संयोज्ये- त्यर्थः। इदं द्वितीयबीजम्। नाभितृतीयं लकारं द्वाभ्यामधः, वक्ष्यमाणसकार- वकारयोरित्यर्थः। तत्रापि नाभेः सप्तमं सकाराख्यं वर्णम्, अधःस्थम्, तच्चतुर्थं वकाराख्यं वर्णं मूर्धनि। इदं तृतीयबीजम्। सप्तमं सकारम्, तृतीयं लकारम्, नेमिवर्गादूनविंशकं बकारम्। इदं चतुर्थबीजम्। भूयो नेमेस्तमादाय सकार- मादायैत्यर्थः। नाभिसप्तमपृष्ठगं सकारोपरि स्थितमित्यर्थः। नाभिदेशात् तृतीयं लकारमित्यर्थः। इदं पञ्चमबीजम्। सर्वेषां पञ्च(म) बीजानामित्यर्थः। पञ्चमारग-

३८४ | सात्वतसंहिता

संयुक्तम् उकारान्वितं नाभिपूर्वं यकारम् आसनं निदध्याद् अधः संयोजयेदित्यर्थः । अरोपान्त्यगतेन अनुस्वारान्वितेन नेमेर्नवमेन टकारेण शिरसा लाञ्छयेत् टकारमुपरि न्यसेदित्यर्थः । नाभियतुर्र्यवर्णान्तं प्राग्वन्मध्येऽत्र मन्त्रराट् । प्राग्वत् शान्तिकपौष्टिको- क्तवदित्यर्थः । मध्ये कर्णिकामध्ये नाभीयतुरीयवर्णान्तं वकारान्तमित्यर्थः मन्त्रराट् नृसिंहबीजमित्यर्थः । वौषट्पदद्वयान्तस्थमित्यपि मन्त्ररादित्यस्यैव विशेषणम् । केवलं बीजं वकाररहितं नृसिंहबीजमित्यर्थः । अरावसानसंभिन्नं विसर्गान्तमित्यर्थः । नाभि- सप्तमं सकारम्, तेन युक्तं नृसिंहबीजमित्यर्थः । नाभेः सप्तमबीजं सकारम्, तच्चतुर्था- सनस्थितं वकारोपरि स्थितम् । अराच्चतुर्दशेन औकारेण, तदन्तेनानुस्वारेण । एत- त्सम्पुटमध्यस्थं स्वामित्यक्षरद्वयसम्पुटितं नृसिंहबीजमित्यनुषङ्गः । नाभितुर्यं वकारम्, तत्सप्तमोपरि स्थितं सकारोपरि स्थितमित्यर्थः । नेमेर्नवमबीजेन टकारेण, अरान्ताद्येन अनुस्वारेणेत्यर्थः । अथः प्रयोगः —अत्र पूर्वोक्तमेव मण्डलं चतुर्वर्णभूषितं परिकल्प्य तद्यागस्थानं वितानपुष्पमालादर्पणकिङ्किणीचामरव्यजनादिभिरलङ्कृत्य घृतेन मधुना दध्ना सुश्रित- क्षीरेण च प्रत्येकं द्वौ द्वावुपकुम्भौ सम्पूर्य मधूकफलकर्पूरद्राक्षामलकफलैः शरावा- ण्यापूर्य तान्युपकुम्भमुखेषु संस्थाप्य शिरोमन्त्रेणाम्भसा सिक्तानि सुधाचन्दनलिप्तानि सितपुष्पान्वितानि सितार्घ्येणार्चितानि साङ्कुराणि शरावाणि दिक्कुम्भान्तरालेषु संस्था- प्यात्रोपयुक्तं पुष्पादिकं सर्वं सितरक्तं हेमाभं चाहरेत् । ततः कृताह्निकः शुद्धवासाः साधको मन्त्रन्यासादिकं कृत्वा नृसिंहोऽहमिति तदभिमानमाश्रित्य सकुङ्कुमेन क्षीरेणे- क्षुरसमधुभ्यां विमिश्रितेन भूर्जपत्रे सकारान्तर्गतं साध्यनामधेयं विलिख्य तद्बहिश्चतु- र्दलपद्मं तद्बहिः कर्णिकाकेसरान्वितमष्टदलं पद्मं तद्बहिर्द्वादशदलं पद्मं तद्बहिः षोडशदलं पद्मं तद्बहिश्चतुर्विंशतिदलं पद्मं तद्बहिरेकं वृत्तं चालिख्य चतुर्दलेषु स्म्युट् इति बीजम्, अष्टदलेषु प्स्युट् इति बीजम्, द्वादशदलेषु स्फ्युट् इति बीजम्, षोडशदलेषु स्युट् इति बीजम्, चतुर्विंशातिदलेषु स्फ्न्युट् इति बीजं चाधोमुखं विलिखेत्, कर्णिकामध्ये वौषट् क्ष्वौं वौषट् इति विलिख्य चतुर्दलान्तरालेषु क्षौं इति केवलं नृसिंहबीजं विलिख्याष्टपत्रान्तरालेषु क्षः इति बीजं विलिख्य, द्वादशपत्रान्तरालेषु क्ष्वः इति विलिख्य, षोडशदलान्तरालेषु वषट् क्षौं वषट् इति विलिख्य चतुर्विंशति- दलान्तरालेषु स्वौं क्षौं स्वौं इति विलिख्य, वृत्ताद् बहिः प्सांट् इति बीजं प्रदाक्षिण्येन निरन्तरं संख्याहीनमूर्मीभूतं विलिख्य तद्यन्त्रं सितरक्तेन पीतसूत्रेण संवेष्ट्य मध्विक्षुर- सपू(र्वा? र्ण)पूर्णकुम्भे निधाय तं कुम्भं चन्दनैरालिप्य पुष्पमाल्यैरलङ्कृत्य पूर्वोक्ते स्थाने निधाय स्वहृदयकमले समस्तपरिवारसमन्वितं स्वच्छस्फटिकसन्निभं हिमादधि- कशीतलं श्रीमन्नृसिंहं ध्यात्वा तद्ब्रह्मरन्ध्रोपरि स्थितमधोमुखं पद्मं ध्यात्वा तत्कर्णिकायां परिपूर्णेन्दुमण्डलनक्षत्रवृन्दामन्दाकिनीप्रवाहैराकीर्णं गगनमण्डलं संस्मृत्य ततः खाब्जकमध्यात्तु ह्यूर्ध्वस्थां संस्मरेच्च्युताम् । गङ्गां भगवतो मूर्ध्नि तेनामृतजलेन तु ॥ (२।७४) अर्घ्यादिभोगैरभ्यर्च्य ततः स्वहृदयाद् देवमवतार्य कुम्भे मण्डले च यथाविधि समभ्यर्च्यग्नौ देवमावाह्य सामलकैराज्यसिक्तैर्बिल्वैर्दूर्वाङ्कुरैर्गोक्षीरसंयुक्तैर्लाजतण्डुल- मिश्रितैः सिताज्यपुष्पसंयुक्तैस्तिलैश्च सन्तर्प्य पूर्णाहुतिं दत्त्वा प्राग्वन्मधुक्षीरोदकेन यन्त्र-

सप्तदशः परिच्छेदः ३८५ स्थस्य मन्त्रनाथस्य सेचनं कृत्वां घृतेन पायसान्नेन पायसेन फलैश्च पूर्ववद् बलिदानं कुर्यात् । अनेन आप्यायनं भवति ॥ १९९-२३५ ॥ इत्याप्यायनविधिः ॥ अब संवर्धन विधि कहते हैं—पूर्व में कही गई विधि के अनुसार चतुर्वर्ण भूषित मण्डल निर्माण करे । फिर उस यागस्थान को चंदोवा, पुष्पमाला, दर्पण, क्षुद्र घण्टिका, चामर तथा व्यजनादि से अलङ्कृत कर घृत-मधु-दधि मिश्रित दूध से दो-दो कलशों को भरकर स्थापित करे । फिर महुआ, कपूर, द्राक्षा और आँवलों से भरे हुए उपकुम्भ (पुरवा) को स्थापित करे । फिर शिरो मन्त्र के जल से संसिक्त शरावो (पुरवों को) जो चूने से लिप्त हों, श्वेत पुष्पों से अलङ्कृत हों, श्वेत अर्घ्य से अर्चित हों और अङ्कुर युक्त हों, ऐसे पुरवों को दिशाओं के कुम्भ के मध्य स्थान में स्थापित करे । उसके लिये उपयुक्त श्वेत रक्त तथा पीले पुष्पों का आहरण करे ॥ १९९-२०५ ॥ फिर आह्निक कर्म सम्पादन कर, शुक्ल वस्त्र धारण कर, साधक स्वयं मन्त्र न्यासादिक क्रियाओं का सम्पादन करे । ‘मैं स्वयं नृसिंह हूँ’ इस प्रकार का अपने में अभिमान कर, कुङ्कुम समन्वित दूध से, जिसमें इक्षुरस तथा मधु मिला हो, उससे भूर्जपत्र पर दो सकार के मध्य में साध्य नाम लिखे । फिर उसके बाहर चतुर्दल कमल, उसके बाहर कर्णिका केशरान्वित अष्टदल कमल, उसके बाहर द्वादशदलान्वित कमल, उसके भी बाहर षोडश दलान्वित कमल, पुनः उसके भी बाहर चौबीस दलान्वित कमल दल बनावे । फिर उसके बाहर एक वृत्त (गोला) बनावे ॥ २०५-२०८ ॥ फिर चतुर्दल कमल पर ‘स्यूट्’ यह बीज, अष्टदल पर ‘प्स्यूट्’, द्वादशदल कमल पर ‘स्क्यूट्’, फिर षोडश दल कमल पर ‘स्युट्’ तथा चौबीस दल वाले कमल पर ‘स्म्यूट्’ यह बीज अधोमुख लिखे । कर्णिका के मध्य में ‘वौषट् क्षौं वौषट्’ इस बीज को लिखकर फिर चार पत्तों वाले कमल के बीच-बीच में ‘क्षौं’ केवल नृसिंह बीज लिखे । आठ पत्तों वाले कमल के बीच-बीच में ‘क्षः’ यह बीज लिखे । फिर बारह पत्तों वाले कमल के बीच-बीच में ‘क्ष्यः’ लिखे । फिर षोडश पत्तों वाले कमल के बीच-बीच में ‘क्षौं वषट् क्षौं वषट्’ तथा २४ दल वाले कमल के बीच-बीच में ‘स्वौं क्षौं स्वौं’ यह बीज मन्त्र लिखे । तदनन्तर वृत्त के बाहर ‘फ्टं’ यह बीज दक्षिण क्रमानुसार निरन्तर लिखे । इसमें संख्या का क्रम नहीं है । इस प्रकार बने हुए यन्त्र को श्वेत रक्त तथा पीत वर्ण के सूत्र से वेष्टित कर मधु तथा इक्षुरस से पूर्ण कुम्भ में स्थापित करे ॥ २०९-२२४ ॥ उस कुम्भ को चन्दन से लेपन कर, पुष्प माला से अलङ्कृत कर, पहले स्थान पर पुनः उसे स्थापित करे । फिर अपने हृदय कमल में समस्त परिवार समन्वित स्वच्छ स्फटिक के समान बर्फ से भी अधिक शीतल श्रीनृसिंह का ध्यान कर अपने ब्रह्मरन्ध्र में स्थित अधोमुख कमल का ध्यान करे । उसकी कर्णिका में

३८६ सात्वतसंहिता पूर्णमासी के चन्द्रमा के सहित समस्त नक्षत्र मण्डलों सहित तथा गङ्गा के प्रवाहों से आच्छन्न गगनमण्डल का ध्यान करे ॥ २२४-२२८ ॥ इसके बाद पहले कहे गये भगवत्पूजन के लिये अर्घ्यादि पुष्पों से तथा उसी प्रकार तत्तद् भोगों से श्रीभगवान् की पूजा कर अनुसन्धान करे ॥ २२९ ॥ जिन-जिन भोगों की कल्पना करे उन-उन भोगों को वेग से गिरते हुए अमृतांशु से आर्द्र, अतएव साधक सुधामय साक्षात् अमृतस्वरूप की उनमें कल्पना करे ॥ २३०-२३१ ॥ फिर ऐसे मन्त्रराट् को हृदय स्थान से नीचे बाहर निकाल कर कुम्भ पर उनका मण्डल में यथाविधि यजन करे । फिर अग्नि के गर्भ में उनका यजन कर ध्यान करे और सन्तर्पण करे । आँवला, घृत, तिल, बिल्व, दूर्वाङ्कुर, गोक्षीर, लावा, तण्डुल तथा श्वेत पुष्पादि से सन्तृप्त कर पूर्णाहुति देवे । फिर घृत, पायसान्न एवं फलादि से पूर्ववत् बलिदान करे इससे साधक का आप्यायन (संवर्धन) होता है ॥ २३२-२३५ ॥ रोगार्तानां रक्षाविधानम् अथ रक्षाविधानं तु वक्ष्ये सम्यग् यथास्थितम् । येन विज्ञातमात्रेण नीरुजः सर्वदा भवेत् ॥ २३६ ॥ सामान्यं सर्वदोषाणां ज्ञातानां च निवारणे । अज्ञातानां विशेषेण तत् सम्यगवधारय ॥ २३७ ॥ ताराग्रहोपतापेन धातुवैषम्यमेति वै । तद्वैषम्यात् प्रकुप्यन्ति व्याधयस्तु ज्वरादयः ॥ २३८ ॥ तत्कोपावसरेणैव ब्रह्मरक्षोमुखा ग्रहाः । शाकिन्यो भूतवेतालाः संक्रामन्ति हि देहिनः ॥ २३९ ॥ निमित्तं विद्धि सर्वेषां कर्म यद् वै पुरा कृतम् । सामर्थ्येन तु मन्त्रेण ज्ञानेन तपसा च वै ॥ २४० ॥ जपाऽध्ययनहोमेन दानेन विविधेन च । मन्त्रौषध्युपयोगेन सहसा नाशमेति तत् ॥ २४१ ॥ प्राधान्येन तु सर्वेषां मन्त्रमत्रानुतिष्ठति । यस्य स्मरणमात्रेण नाविशन्ति ग्रहादयः ॥ २४२ ॥ कृत्वाधारं यथोक्तं तु यजनार्थं नृकेसरेः । बीजैः सिद्धार्थकोपेतैरुपकुम्भानि पूर्य च ॥ २४३ ॥ वक्त्रेष्वप्युपकुम्भानां सफलानि नियोज्य च ।

तिलसर्षपपूर्णानि पात्राणि विततानि च ॥ २४४ ॥ सुसमं तद्बहिर्दद्याद् दिक्षु लोहशराष्टकम् । कण्ठदेशेषु बध्नीयाच्छराणां दृढतन्तुना ॥ २४५ ॥ बर्हिपक्षसमायुक्तां सर्पकञ्चुकभूषिताम् । महौषधीं भूतजटां शमीशाखासमन्विताम् ॥ २४६ ॥ पञ्चरागेण सूत्रेण उदगाशादितः क्रमात् । प्रादक्षिण्येन तु त्रेधा वेष्टयेत् तच्छराष्टकम् ॥ २४७ ॥ अष्टानां पूर्णकुम्भानामन्तरान्तरयोगतः । दद्यादुच्चासनस्थं तु दीपाष्टकमनुक्रमात् ॥ २४८ ॥ तैलेन राजिकाख्येन ताम्रपात्रस्थितास्तु वै । दीपानां वर्तयो देया महाराजतरञ्जिताः ॥ २४९ ॥ अथ बद्धशिखो मौनी प्राग्वद् दिग्बन्धमाचरेत् । अभिसन्धाय मनसा सर्वदोषपलायनम् ॥ २५० ॥ संयजेन्मन्त्रनाथं तु काम्यैर्बहुविधैः शुभैः । पुष्पैर्धूपैस्तु नैवेद्यैर्भक्ष्यैः सफलमूलकैः ॥ २५१ ॥ हुत्वाऽथ सर्वबीजानि सिद्धार्थकयुतानि च । राजिकाघृतयुक्तानि तिलानि सफलानि च ॥ २५२ ॥ ध्यात्वा पूर्णाहुतिं दद्यान्मध्याह्नसमये ततः । रक्ष्यं सुनिर्मलं कृत्वा पूर्वमभ्यञ्जनादिकैः ॥ २५३ ॥ हेमर(क्तौ? त्लौ)षधिस्नानैः प्रोक्षयित्वा प्रवेश्य च । ताडयित्वाऽस्त्रपुष्पेण आपादात् सन्निरीक्ष्य च ॥ २५४ ॥ नतजानुशिरः कृत्वा देवाय विनिवेदयेत् । उत्तराभिमुखं कृत्वा आसने परिधान्विते ॥ २५५ ॥ अस्त्रोपलक्षिते चैव तथार्घ्यादिसमन्विते । षडङ्गेनाथ मन्त्रेण तस्य न्यासं समाचरेत् ॥ २५६ ॥ मनसा करशाखासु स्वस्थानेष्वथ विग्रहे । सचक्रमथ तस्याग्रे षट्कोणं मण्डलं लिखेत् ॥ २५७ ॥ वृत्तं ज्वालागणेनैव ततस्तत्र निवेशयेत् । प्रागुक्तरचनाढ्यं तु सुपूर्णं गन्धवारिणा ॥ २५८ ॥ सप्तकं कलशानां तु मध्ये योज्यं तदक्षिषु । अश्रिभ्यामन्तरालस्थं दीपषट्कं यथा पुरा ॥ २५९ ॥

३८८ सात्वतसंहिता कृत्वा मध्यमकुम्भे तु साङ्गं मन्त्रेश्वरं यजेत् । नमो नृसिंहभूतेभ्यः प्रणवाद्येन पूजयेत् ॥ २६० ॥ कोणेषु भगवद्भक्तनिचयं दोषनाशनम् । पूजयित्वा यथान्यायं पुष्पधूपादिकेन वै ॥ २६१ ॥ दिग्बन्धमथ वै कुर्यात् सास्त्रैः सिद्धार्थकैः क्रमात् । ताडयेदातुरं पश्चादा पादान्मस्तकावधि ॥ २६२ ॥ स्वपाणिव्यजनेनाथ समाकृष्य विनिक्षिपेत् । दोषजालं च तद्देहाद् गगने वा धरातले ॥ २६३ ॥ ततोऽग्निपात्रमादाय निर्धूममतिदीप्तिमत् । तस्मिन्निरिन्धने कुर्याद् होमं सिद्धार्थकैस्तिलैः ॥ २६४ ॥ मूलमन्त्रेण वास्त्रेण शताष्टाधिकसंख्यया । अमुकं रक्ष रक्षेति स्वाहाशब्दसमन्वितम् ॥ २६५ ॥ मन्त्रान्ते तु पदं कुर्याद् भ्रामयेन्मूर्ध्नि चाहुतिम् । महिषाक्षमथादाय सिद्धार्थकसमन्वितम् ॥ २६६ ॥ प्रजप्य धूपयेत् तं वै कृत्वा च्छन्नं तु वाससा । निधाय सजलं पात्रमग्निपात्रोपगं ततः ॥ २६७ ॥ नैवेद्यशेषमन्यस्मिन् सर्वमुद्धृत्य सोदकम् । पशुप्रतिनिधिं चैव रञ्जितं कुङ्कुमादिना ॥ २६८ ॥ धात्वाश्रितानां दोषाणां मनसा परिकल्पितम् । यदीयमस्य वै बाधमिन्द्रियाणां च धातुषु ॥ २६९ ॥ आदाय च बलिं शश्वत् सिंहसत्येन मुञ्चतु । अन्तरान्तरयोगेन वामदक्षिणपाणिना ॥ २७० ॥ असंख्यमाचरेद् होमं बलियुक्तं प्रदक्षिणैः । बलिपाणिमथ क्षाल्य अस्त्रजप्तेन वारिणा ॥ २७१ ॥ भूतिमादाय वै कुण्डाद् दग्धगोमयजं तु वा । प्रजप्य बहुशोऽस्त्रेण ललाटादङ्घ्रिगोचरम् ॥ २७२ ॥ कार्याणि चोर्ध्वपुण्ड्राणि पृष्ठे पार्श्वद्वयेऽपि वा । स्वस्त्यस्तु ते युतेनाथ मन्त्रेणार्घ्योदकेन तु ॥ २७३ ॥ मन्त्रकुम्भात् समेतेन विप्रुड्भिह्लादियेदनु । ध्यात्वा पूर्णेन्दुगं मन्त्रं पूर्णचन्द्रायुतोपमम् ॥ २७४ ॥ ब्रह्मरन्ध्रे तु साध्यस्य स्रवन्तममृतं महत् ।

सप्तदशः परिच्छेदः ३८९ शरीरविटपं तेन सेचयेच्च नखावधि ॥ २७५ ॥ एवं कृत्वाऽर्चयेद् भूयो मन्त्रं मण्डलकुम्भगम् । कुम्भं तं शयनागारे ऊर्ध्वदेशे निधाय वै ॥ २७६ ॥ वस्त्रपीठोपरिस्थं तु च्छन्नं कृत्वा तु वाससा । तत्रापि दिग्विदिकूस्थं च दद्यात् पूर्णघटाष्टकम् ॥ २७७ ॥ अच्छिन्नप्रसरं धूपं दीपपात्रं घृतादिना । फलपुष्पौषधीदीपलाजाः सिद्धार्थकं दधि ॥ २७८ ॥ पात्रसङ्घं तदग्रे तु कृत्वा चाथ बलिं हरेत् । बलिदानप्रकारकथनम् निशामुखे तु सम्प्राप्ते सर्वदोषप्रशान्तये ॥ २७९ ॥ एकस्मिन् वै समादाय पात्रे यत् कल्पितं विभोः । आपुष्पधूपदीपाच्च उपसंगृह्य यत्नतः ॥ २८० ॥ तद्भूतदत्तमन्यस्मिन् षण्णां वा तत्पृथक् पृथक् । स्वदीपालङ्कृतं कृत्वा स्वघटोपरि विन्यसेत् ॥ २८१ ॥ रक्षरक्षपदोपेतं मन्त्रमस्त्रयुतं स्मरेत् । रक्ष्यस्य शिरसि भ्राम्य यथा दत्तं क्रमेण तु ॥ २८२ ॥ सत्त्वशुद्धांस्तथा भूयो मद्भक्तान् बलिवाहकान् । अस्त्राभिमन्त्रितान् दद्यात् तेषां सिद्धार्थकान् करे ॥ २८३ ॥ प्रजप्य भस्मना कुर्याल्ललाटे तिलकं तु वै । प्रवाहयेद् बलिं मन्त्री हागाधेऽम्भसि वै पुरा ॥ २८४ ॥ चत्वरे वृक्षमूलेऽथ ग्रामाद् वा नगराद् बहिः । देवभूतबलिक्षेपो विहितश्चात्र कर्मणि ॥ २८५ ॥ धूमायन्तं च सिद्धार्थैर्वह्निपात्रं पुरोदितम् । तेनैव बलिपात्रेण सोदकेन समन्वितम् ॥ २८६ ॥ त्यजेत् कूपसमीपे तु वाप्यां वा निकटे तरोः । बलिं क्षिप्त्वा समाचम्य धौताङ्घ्रिकरपल्लवः ॥ २८७ ॥ रक्ष्यावनौ सुलिप्तायां परितः शोधितस्य च । तन्मूर्ध्नि दीपपात्रे च सिद्धार्थक्षेपमाचरेत् ॥ २८८ ॥ प्रजप्य बहुशोऽस्त्रेण मूलसम्पुटितेन च । बध्नीयात् सप्तरात्रं तु प्रत्यहं तस्य चाम्बरे ॥ २८९ ॥