सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
चतुर्विंशः परिच्छेदः ६०३ भेद से, द्वार के निर्माण से, पीठ के निर्माण से और प्रत्येक दिशाओं में विस्तार से जो प्रासाद निर्माण किया जाता है । वह 'अरुण' नामक प्रासाद कहा जाता है । हे लाङ्गलिन् ! 'जगतीक' प्रासाद की 'गर्भोत्थ क्षेत्र' संज्ञा है ॥ ४१२-४१४ ॥ ज्ञेयः सजगतीकस्य तन्मानेनापि सर्वदिक् । एभ्यः पादाधिकं कुर्यात् पादाद्यंशोज्झितं तु वै ॥ ४१५ ॥ बुद्ध्वा चायतनानां च संस्थितिश्वाङ्गणे पुरा । चतुरायतनं विद्धि प्रासादैर्दिक्त्रयस्थितैः ॥ ४१६ ॥ आद्येन सह कोणस्थैस्तत्पञ्चायतनं स्मृतम् । विज्ञेयमष्टायतनं त्रिभिरन्यैस्तु दिग्गतैः ॥ ४१७ ॥ क्योंकि सजगतीक प्रासाद का भी वही मान होता है । इनसे एक पाद अधिक अथवा पादाद्यंश से रहित इस प्रकार अङ्गण में आयतनों को समझ कर प्रासाद निर्माण करे । तीन दिशाओं में स्थित प्रासाद की 'चतुरायतन' संज्ञा कही गई है और आदि के साथ कोण में स्थित प्रासाद को 'पञ्चायतन' कहा जाता है । अन्य तीन दिशाओं में होने वाले प्रासाद 'अष्टायतन' कहे जाते हैं ॥ ४१५-४१७ ॥ विना मध्यस्थितेनैव दिग्गतैस्तु द्विभिर्द्विभिः । तद्दशायतनं तेन युक्तमेकाधिकं भवेत् ॥ ४१८ ॥ मध्य स्थिति के बिना दो-दो दिशाओं में दो-दो प्रासाद 'दशायतन' कहे जाते हैं । उसकी अपेक्षा एक प्रासाद अधिक हो, तब उसे 'एकादशायतन' कहा जाता है ॥ ४१८ ॥ प्रतोलीपक्षगेणैव प्रासादद्वितयेन तु । द्वादशायतनं विद्धि सह मध्यस्थितेन तु ॥ ४१९ ॥ तदेवाधिकसंज्ञं तु अतोऽन्योऽनन्तसंज्ञकः । परस्परमुखौ कुर्यात् प्रासादौ द्वारदेशगौ ॥ ४२० ॥ प्रासादाभिमुखाच्चैव दिक्त्रयेऽवस्थितास्तु ये । कोणस्थाभ्यां च साम्मुख्यं द्वाभ्यां द्वाभ्यां विधीयते ॥ ४२१ ॥ प्रतोली (वीथी) तथा पक्षगण से युक्त दो प्रासाद को 'द्वादशायतन' कहा जाता हैं । वही यदि उसी के मध्य में एक प्रासाद और हो तो उसकी अधिक संज्ञा कही गई है । इसके अतिरिक्त अन्य प्रासादों की अनन्त संज्ञा है । द्वार देश पर आमने- सामने मुख वाले दो प्रासाद, प्रासाद के सामने तीन दिशाओं में तीन प्रासाद और दो कोणों के आमने-सामने दो-दो प्रासाद का निर्माण विहित है ॥ ४१९-४२१ ॥ द्वाभ्यामभिमताभ्यां तु कुर्यादुचितदिङ्मुखम् ।
६०४ सात्वतसंहिता द्वौ परस्परवक्त्रौ तु कोणदेशसमाश्रितौ ॥ ४२२ ॥ अपनी इच्छा के अनुसार निर्माण किये जाने वाले दो प्रासादों को उचित दिशा में निर्माण करावे । परस्पर सटे हुए दो मुख वाले दो प्रासादों को कोण देश के समाश्रित निर्माण करावे ॥ ४२२ ॥ द्वाराण्यनन्तायतने प्रासादानां महामते । यथाभिमतदिक्स्थानि कर्तव्यान्यविशङ्कया ॥ ४२३ ॥ हे महामते ! अनन्तायतन नामक प्रासाद में यथाभिमत दिशा में द्वार निर्माण करावे, इनमें संदेह किञ्चिन्मात्र भी न करे ॥ ४२३ ॥ न तत्र तेषां भवति वेधदोषः परस्परम् । अङ्गभावगतत्वाच्च प्रधानायतनस्य वै ॥ ४२४ ॥ इस प्रकार के प्रासाद निर्माण में कभी भी परस्पर वेध दोष नहीं लगता । क्योंकि वे प्रधानायतन के अङ्गभाव बन जाते हैं ॥ ४२४ ॥ अर्धेन च त्रिभागेन हितः पादेन चाङ्गणात् । परण्डकस्य चोच्छ्रायस्तद्विस्तारस्तथोच्छ्रितेः ॥ ४२५ ॥ अङ्गण के आधे अथवा तीन भाग अथवा एक पाद के मान में परण्डक को ऊँचा निर्माण करे तथा उसका विस्तार उसकी ऊँचाई के अनुसार करे ॥ ४२५ ॥ तच्च पीठोपमं कुर्यात् श्लक्ष्णं सोष्णीषमेव वा । युक्तं कोटिगणेनाथ नानादेवान् गणेन तु ॥ ४२६ ॥ उसे पीठ के समान चिकना तथा उष्णीश युक्त बनावे उसे करोड़ों गणों से युक्त करे ॥ ४२६ ॥ यदेकायतनं चैव त्वङ्गणं तन्महामते । युक्तं लघुपरण्डेन केवलं वा परण्डकम् ॥ ४२७ ॥ हे महामते ! जो एक आयतन वाला अङ्गण है उसे लघु परण्डक से युक्त करे अथवा केवल परण्डक ही निर्माण करे ॥ ४२७ ॥ यदा द्व्यायतनार्थं च द्वादशायतनान्तिकम् । एकदिग्विीक्षमाणं च चतुरश्रायतेऽङ्गणे ॥ ४२८ ॥ जब चौकोर अथवा आयत अङ्गण में द्व्रायतन से लेकर द्वादशायतन हो, तब उसे एक दिशा की ओर देखते हुए निर्माण करावे ॥ ४२८ ॥ वृत्तायते वा वितते प्रासादे चोक्तलक्षणे ।
चतुर्विंशः परिच्छेदः ६०५ यस्माद् देवालयानां च अङ्गणानां विशेषतः ॥ ४२९ ॥ चतुरश्रादिपीठानां नित्यमेव महामते । अन्योन्यानुगतत्वं तु हितं सापेक्षकं तु वै ॥ ४३० ॥ भूमिभागवशेनैव तथैवार्चावशेन तु । नानाफलवशेनपि तथा शोभावशेन च ॥ ४३१ ॥ वृत्त, आयत, वितत अथवा उक्त लक्षण प्रासाद में जिस कारण से देवालयों का या अङ्गणों का विशेष कर चौकोर पीठों का, हे महामते ! नित्य ही भूमिभाग वश से, उसी प्रकार अर्चावश से तथा नाना फल वश से एवं शोभावश से सापेक्षक अन्योन्यानुगतत्व रहता है । अतः वे हितकारी होते हैं ॥ ४२९-४३१ ॥ भूलाभश्चतुरश्रात् तु चतुरश्रायताद् धनम् । वर्तुलात् सर्वकामाप्तिर्निर्वृत्तिस्तु तदायतात् ॥ ४३२ ॥ दृष्टादृष्टफलेप्सूनां लोकास्तु महदादयः । यच्छन्ति वैष्णवं स्थानमारोग्यं भूमिमुत्तमाम् ॥ वैष्णवानामकामानां च्युतेरन्ते परं पदम् ॥ ४३३ ॥ ॥ इति श्रीपाञ्चरात्रे श्रीसात्वतसंहितायां प्रतिमापीठप्रासादलक्षणं नाम चतुर्विंशः परिच्छेदः ॥ २४ ॥ चौकोर प्रासाद से भू-लाभ, चतुरश्र और आयत प्रासाद से धन-लाभ, वर्त्तुल प्रासाद से सर्व कामाप्ति, आयत से निर्वृत्ति प्राप्त होती है । दृष्टादृष्ट फल चाहने वाले प्रासाद निर्माण कर्त्ताओं को महदादि लोक वैष्णव स्थान देते हैं । आरोग्य एवं उत्तम भूमि देते हैं । इतना ही नहीं निष्काम वैष्णवों को मरने के बाद परम पद देते हैं ॥ ४२९-४३३ ॥ ॥ इस प्रकार डॉ० सुधाकर मालवीय कृत सात्त्वत संहिता के प्रतिमापीठप्रासादलक्षण नामक चौबीसवें परिच्छेद की हिन्दी समाप्त हुई ॥ २४ ॥
पञ्चविंशः परिच्छेदः प्रतिष्ठादिविधिः नारद उवाच सर्वलोकगुरुर्विप्रा यदुक्तो विश्वधारिणा । तदिदानीं प्रवक्ष्यामि मन्त्रबिम्बनिवेशनम् ॥ १ ॥ भोगेप्सूनां च वर्णानां साम्प्रतं यदभीष्टदम् । कैवल्यदं शमाच्चैव चातुराश्रम्यसेविनाम् ॥ २ ॥ अथ पञ्चविंशतिः परिच्छेदो व्याख्यास्यते । इह वासुदेवेन सङ्कर्षणायोपदिष्टं भोगापवर्गादिफलप्रदां मन्त्रबिम्बप्रतिष्ठां वक्ष्यामीत्याह—सर्वेति सार्धद्वाभ्याम् ॥ १-३ ॥ नारद जी ने कहा—हे ब्राह्मणो ! सभी लोकों के गुरु भगवान् श्री कृष्ण ने भगवान् सङ्कर्षण से जो मन्त्र-बिम्ब का सन्निवेश कहा था । वह मै आप लोगों से कह रहा हूँ ॥ १ ॥ यह मन्त्र-बिम्बनिवेश भोगेच्छु वर्ण वालों के लिये अभीष्टप्रद है । शम के कारण चातुराश्रम सेवियों के लिये यह अपवर्ग (मोक्ष) प्रदान करने वाला है ॥ २ ॥ यज्ञधर्मरतानां च सहायं च फलैस्तु तत् । इतना ही नहीं जो इस प्रकार के यज्ञ करने वालों की सहायता करता है उसे भी उत्तम फल की प्राप्ति होती है ॥ ३ ॥ यागमण्डपलक्षणम् प्राग्वद् देवगृहस्याग्रे दिग्भागे सति मण्टपम् ॥ ३ ॥ चतुरश्रं चतुर्द्वारं दर्भमालान्तरीकृतम् । अन्यत्र तदलाभे तु यथाभिमतदिङ्मुखम् ॥ ४ ॥ चतुर्दशकराच्चैव यावत् त्रिंशत्करावधि । षट्करान्तं पुनस्तस्माद् बिम्बमानव्यपेक्षया ॥ ५ ॥ यागशालालक्षणमाह—प्राग्वदिति सार्धद्वाभ्याम् । प्राग्वत् कुम्भस्थापन- प्रकरणोक्तवदित्यर्थः । देवगृहस्याग्रे पुरतः, दिग्भागे सति अवकाशे सति, तत्र चतु-
पञ्चविंशः परिच्छेदः ६०७ द्वारं यागमण्टपं कुर्यात् । तदलाभे अग्रालाभे, अन्यत्र दक्षिणादिदिक्षु विदिक्षु वा यथा- भिमतदिङ्मुखं यागमण्टपं कुर्यात् । चतुर्दशकराच्चैव यावत् त्रिंशत्करावधि चतुर्दश- हस्तमारभ्य त्रिंशद्धस्तपर्यन्तं बिम्बमानव्यपेक्षया बिम्बबृहत्त्वानुगुण्येन वर्धितविस्तारायामं पुनस्तस्माच्चतुर्दशकरादारभ्य षट्करान्तं बिम्बाल्पत्वानुसारेण ह्रासितविस्तारायामं वा यागमण्टपं कुर्यादिति पूर्वेणान्वयः ॥ ३-५ ॥ पूर्ववत् कुम्भ स्थापन प्रकरण में कही गई विधि के अनुसार देवगृह के अग्र- भाग में यदि अवकाश हो, तो किसी दिशा में चतुर्द्वार याग मण्डप स्थापित करे । यदि आगे अथवा दिशाओं में अवकाश न हो, तब यथाभिमत जिस-किसी दिक्- विदिक् स्थान में चौकोर मण्डप स्थापित करे । उस मण्डप को स्थान-स्थान में जहाँ-तहाँ कुशा और पुष्पमाला से सुसज्जित करे । वह मण्डप १४ हाथ से लेकर ३० हाथ पर्यन्त बिम्ब के मान की अपेक्षा करते हुए, उसके अनुसार महान् लम्बा चौड़ा बनावे, अथवा चौदह हाथ से लेकर ६ हाथ पर्यन्त आयाम वाला (लघु भी बिम्ब की अल्पता के अनुसार) ह्रस्व मण्डप भी बनाया जा सकता है ॥ ३-५ ॥ वेदिकलक्षणम् कार्या मध्ये स्थला तेषां द्विसप्तांशैस्ततोऽष्टभिः । समन्तभद्रा सुश्लक्ष्णा चिता पक्वेष्टकादिकैः ॥ ६ ॥ तालोन्नतेः समारभ्य सामान्येऽस्मिन् हि कर्मणि । उन्नताङ्गुलवृद्ध्या तु नीता तद् ह्रासतां क्रमात् ॥ ७ ॥ तत्र वेदिकलक्षणमाह—कार्येति द्वाभ्याम् । तेषां चतुर्दशादिहस्तमाभेदैर्बहु- विधानां मण्टपानां मध्ये द्विसप्तांशैश्चतुर्दशभागैः स्थला कार्या वेदिः कर्तव्या । सा चाष्टभिरष्टभिर्भागैः समन्तभद्रा परितो वीथियुक्तेत्यर्थः । एवं च मण्टपविस्तारायामौ त्रिंशद्भागान् कृत्वा तेषु चतुर्दशभागैर्वेदिकाकल्पनं शिष्टेषु षोडश भागेषूभयतोऽष्ट- भिरष्टवीथीकल्पनमिति ज्ञेयम् । तदौन्नत्यं तु तालोन्नतेः समारभ्याङ्गुलवृद्धयोन्नता, तद्- ह्रासतोऽङ्गुलह्रासतो नीचा वा वेदिका कल्पनीयेत्यर्थः । चतुर्दशकरविस्तारायामयाग- गृहस्थवेदिकायास्तालमानमौन्नत्यम् । तस्मादारभ्य त्रिंशत्करपर्यन्तं यागगेहस्यायाम- विस्तारयोर्वृद्ध्यां षट्करान्तं ह्रासे वा तद्धस्तसंख्यानुरोधेन वेदिकौन्नत्यस्याप्येकैका- ङ्गुलिवृद्धिह्रासौ कार्याविति भावः । एवं च त्रिंशद्धस्तविस्तारायामयागगेहस्थवेदि- कायाश्चतुरङ्गुलाधिकहस्तमानमौन्नत्यं भवति ॥ ६-७ ॥ इस प्रकार मण्डप का विस्तार आयाम अर्थात् लम्बाई चौड़ाई का तीस भाग करके करे । उस (तीस) में से चतुर्दश भाग में पके हुए ईंटों की अत्यन्त सुन्दर चिकनी वेदी बनावे । शेष सोलह के दो भाग करे जिसमें आठ-आठ भाग की दो वीथी बनानी चाहिये । उस वेदी की ऊँचाई ताल के परिमाण से आरम्भ कर क्रमशः एक-एक अङ्गुल ऊँची होनी चाहिये और निचाई एक अङ्गुल तक की होनी चाहिये ॥ ६-७ ॥
६०८ सात्वतसंहिता वेदिकायां मण्डलादिस्थलविभागक्रमकथनम् द्वित्रिरष्टांशकैर्मध्ये सर्वासां मण्डलं भवेत् । चतुरश्रं चतुर्द्वारं चक्राम्बुरुहभूषितम् ॥ ८ ॥ दक्षिणे शयनं सौम्ये कुण्डमग्नेस्तु पूर्ववत् । समेखलं द्विहस्तं तु चक्रपद्माङ्कितं शुभम् ॥ ९ ॥ अथ वेदिकायां मण्डलादिस्थलविभागक्रममाह—द्वित्रिरिति द्वाभ्याम् । सर्वासाम् मानभेदैर्बहुविधानां वेदिकानां मध्ये चतुरश्रत्वादिविशिष्टमण्डलम्, तद्दक्षिणे शयनम्, सौम्ये समेखलत्वादिविशिष्टमग्नेः कुण्डं च क्रमात् क्रमालङ्कारेण द्वित्रिरष्टांशकैः कुर्यादिति योजना । एवं च द्वाभ्यामंशाभ्यां मण्डलं त्रिभिरंशैः शयनमष्टांशैः कुण्ड- स्थानं च कार्यमित्यर्थः । पारमेश्वरव्याख्याने तु ‘‘द्वित्रिरष्टांशकैः क्रमेण नीचा नालोन्न- तेर्न्यूनता न कर्तव्येत्यर्थः’’ इति लिखितम् । तदुपहासास्पदम् ॥ ८-९ ॥ अब वेदिका में मण्डलादि स्थल का विभाग क्रम कहते हैं—उस वेदिका के मध्य में दो अंशों से मण्डल निर्माण करे । तीन अंशों से शयन तथा आठ अंशों से कुण्ड स्थान का निर्माण करे । वह मण्डल मध्य में चौकोर, चतुर्द्वार और चक्र तथा कमल से अलङ्कृत होना चाहिये । उसके दक्षिण में शयन तथा उत्तर में मेखला युक्त दो हाथ का चक्र बनाकर पद्माङ्कित अग्निकुण्ड का निर्माण कराना चाहिये ॥ ८-९ ॥ कुण्डाष्टकनिर्माणकथनम् तदधश्चतुरश्रं प्राग् दाममेखलिकान्वितम् । अथ दक्षिणदिग्भागे कुर्याद् वै चक्रचिह्नितम् ॥ १० ॥ वर्तुलं पश्चिमे सौम्ये कमलाङ्गं मनोहरम् । शङ्खाङ्गं सर्वकोणेषु मानमेषां यथोर्ध्वगे ॥ ११ ॥ अथ वेदिकाया अधस्तात् प्रागाद्यष्टदिक्षु कुण्डाष्टकमाह—तदध इति द्वाभ्याम् । ऊर्ध्वगे कुण्डे यथा मानं = द्विहस्तत्वादिरूपं मानम्, एषां प्रागादिकुण्डनामपि तथैवेत्यर्थः ॥ १०-११ ॥ अब वेदिका के नीचे पूर्वादि क्रम से आठो दिशाओं में आठ कुण्डों के निर्माण का प्रकार कहते हैं—ऊपर के कुण्ड का जितना मान हो उतना ही मान पूर्वादि कुण्डों का भी बनाना चाहिये । पूर्व का कुण्ड चौकोर, दाम एवं मेखला से युक्त बनावे । दक्षिण का कुण्ड चक्र के चिह्न से युक्त हो । पश्चिम का कुण्ड गोला, उत्तर का कुण्ड मनोहर कमलाकार और सभी कोणों का कुण्ड शङ्ख के चिह्न से युक्त होना चाहिये । उसका मान ऊपर के कुण्ड के समान होना चाहिये जो पहले कहा जा चुका है ॥ १०-११ ॥
पञ्चविंशः परिच्छेदः ६०९ त्रयोदशहस्तपरिमितमण्डपादिषु कुण्डप्रकारकथनम् सर्वे दशान्तहस्तानां चतुर्णामेकमेखलाः । मण्टपानां तु किन्त्वत्र ऊर्ध्वगं सर्वमेखलम् ॥ १२ ॥ त्रयोदशहस्तपरिमितमण्डपादिषु कुण्डप्रकारमाह—सर्व इति । दशान्तहस्तानां = दशहस्तपरिमितमण्डपानामित्यर्थः । चतुर्णां मण्डपानां त्रयोदशहस्तपरिमितद्वादशहस्त- परिमितैकादशहस्तपरिमितदशहस्तपरिमितचतुर्मण्टपानां सर्वे प्रागाद्यष्टकुण्डा अपि, एकमेखलाः स्थलसंकटादेकथैव मेखलयाऽन्विताः कार्याः । किन्तूर्ध्वगं वेदिको- परिस्थं कुण्डं सर्वमेखलं सर्वाभिर्मेखलाभिरन्वितं कार्यमित्यर्थः ॥ १२ ॥ चौदह, तेरह, बारह एवं ग्यारह से लेकर दश हाथ तक के चार मण्डपों में बनाये जाने वाले सभी आठ कुण्डों की एक मेखला होनी चाहिये । किन्तु ऊपरी वेदिका के ऊपर बनाया जाने वाला कुण्ड सभी मेखलाओं से युक्त बनावे ॥ १२ ॥ अतोऽधः संस्थिताः सर्वे एककुण्डास्तु मण्टपाः । तेषां समेखलं चाद्यं द्वाविंशत्यङ्गुलेर्भवेत् ॥ १३ ॥ ह्रासादङ्गुलयुग्मस्य यावद् वै षोडशाङ्गुलम् । स्यात् षट्करे गृहे कुण्डं कार्या वा मेखलाधिका ॥ १४ ॥ नवहस्तपरिमितमण्डपादिषु प्रागादिकुण्डाभावमाह—अत इत्यर्धेन । अतोऽधः- संस्थिताः सर्वे मण्डपा नवहस्तमिता अष्टहस्तमिताः सप्तहस्तमिताः षड्ढस्तमिता- श्चत्वारो मण्डपाः, एककुण्डाः = वेदिकोर्ध्वकुण्डमात्रसहिता इत्यर्थः । तत्रापि मध्यकुण्डस्य मानभेदमाह—तेषामिति सार्धेन । तेषां षट्करान्तानां चतुर्णां मण्डपानामाद्ये नवहस्तपरिमिते मण्टपे द्वाविंशत्यङ्गुलैः समेखलं कुण्डं भवेत् । एवं षट्करगृहे क्रमेणाङ्गुलयुग्मस्य ह्रासात् षोडशाङ्गुलं कुण्डं यावत् स्यात् । अष्टकरे गृहे विंशत्यङ्गुलमितं कुण्डम्, सप्तकरे गृहेऽष्टादशाङ्गुलमितं कुण्डमित्युक्तं भवति । एवं चेदमप्यूह्यते, चतुर्दशकरमिते गृहेऽष्टाङ्गुलाधिकहस्तमितं कुण्डम्, त्रयो- दशकरमिते गृहे षडङ्गुलाधिकहस्तमितं कुण्डम्, द्वादशकरे गृहे चतुरङ्गुलाधिकहस्तमितं कुण्डम्, एकादशकरमिते गृहे द्व्यङ्गुलाधिकहस्तमितं कुण्डम्, दशकरमिते गृहे हस्त- मितं कुण्डमिति । किञ्च, पञ्चदशकरगृहादित्रिंशत्करगृहपर्यन्तमेकाङ्गुलिवृद्धिश्चोच्यते । अतः पञ्चदशकरे गृहे नवाङ्गुलाधिकहस्तमितं कुण्डम्, षोडशकरे गृहे दशाङ्गुलाधिक- हस्तमितं कुण्डम्, एवं क्रमेण त्रिंशत्करे गृहे द्विहस्तमितं कुण्डमिति ज्ञेयम् । कार्या वा मेखलाधिका षोडशाङ्गुलादिकुण्डानामेकैव मेखला, अधिका वा द्व्यादिका मेखला वा कार्येत्यर्थः ॥ १३-१४ ॥ इसके नीचे नव हस्त चार मण्डप में एक कुण्ड बनाना चाहिये जो ऊपर की वेदी में बनाये गये एक कुण्ड के सहित हो । उसमें आदि (नव हस्त परिमित) मण्डप का कुण्ड मेखला सहित बाइस अङ्गुल का होना चाहिये ॥ १३ ॥
६१० सात्वतसंहिता यहाँ तीस हाथ तक के मण्डपों में बनाये जाने वाले कुण्डों का विवरण इस प्रकार समझना चाहिये—छः हाथ के मण्डप में दो-दो अङ्गुल की कमी होने से वहाँ सोलह अङ्गुल का कुण्ड होता है और आठ हाथ के मण्डप में बीस अङ्गुल का कुण्ड तथा सात हाथ के मण्डप में अठारह अङ्गुल का कुण्ड होना चाहिये । विमर्श—चौदह हाथ के मण्डप में आठ अङ्गुल का कुण्ड, तेरह हाथ के मण्डप में छः अङ्गुल अधिक का कुण्ड, बारह हाथ के मण्डप में चार अङ्गुल अधिक का कुण्ड, ग्यारह हाथ के मण्डप में दो अङ्गुल अधिक का कुण्ड और दश हाथ के मण्डप में एक हाथ का कुण्ड बनाना चाहिये । इसी प्रकार पन्द्रह हाथ से लेकर तीस हाथ तक के मण्डप में एक-एक अङ्गुली की वृद्धि के क्रम से कुण्ड समझना चाहिये । इस प्रकार पन्द्रह हाथ के मण्डप में नव अधिक अङ्गुल का कुण्ड, सोलह हाथ के मण्डप में दश अङ्गुल अधिक और इसी प्रकार तीस हाथ के मण्डप में दो हाथ का कुण्ड निर्माण करना चाहिये । इस प्रकार सोलह अङ्गुलादि क्रम से निर्मित कुण्ड में एक ही मेखला अथवा उससे अधिक दो या तीन मेखलाओं का निर्माण करना चाहिये ॥ १४ ॥ मण्डपोच्छ्रायकथनम् अष्टहस्तोच्छ्रितं पूर्वमतोऽर्धकरवर्धिता । न ह्रासः षट्करान्तानां न्यूनानामुच्छ्रितेर्भवेत् ॥ १५ ॥ त्रयोदशकरादीनां चतुर्णां पातयेत् ततः । अष्टकं चाङ्गुलानां तु सप्तपञ्चचतुः क्रमात् ॥ १६ ॥ अथ मण्टपोच्छ्रायमाह—अष्टहस्तोच्छ्रितमिति द्वाभ्याम् । पूर्वमाद्यं चतुर्दशकर- मितं गृहमष्टहस्तोच्छ्रितम् । अतः परं पञ्चदशकरादयो मण्टपाः क्रमेणार्धकरवर्धिताः । यथा त्रिंशत्करविस्तृतो मण्टपः षोडशहस्तोच्छ्रितः स्यादिति भावः । त्रयोदशकरादीनां चतुर्णां मण्टपानां पूर्वोक्तहस्तोच्छ्राये क्रमादङ्गुलानां मष्टकं सप्तकं पञ्चकं चतुष्कं पात- येत्, ह्रासयेदित्यर्थः । षट्करान्तानां = नवकरादिषट्करान्तानां चतुर्णां तु न्यूनानां = न्यूनहस्तसंख्यानां मण्डपानामुच्छ्रितेरुच्छ्रायस्य ह्रासो न भवेत्, दशहस्तमण्टपोच्छ्रा- यन्यूनो न भवेदित्यर्थः । अत्र मूलभूतसात्वतानुसारेण ह्रास इत्यादिवाक्यस्य पूर्वं विद्यमानत्वेऽपि पाठक्रमादर्थक्रमस्य बलीयस्त्वादित्थं व्याख्यातम् । पारमेश्वरे (१५।११९-१२०) त्वर्थक्रमेणैव पाठोऽप्युपबृंहितः ॥ १५-१६ ॥ पूर्व में कहा गया चौदह हाथ का मण्डप आठ हाथ ऊँचा होना चाहिये । किन्तु नव हाथ से लेकर छः हाथ तक न्यून हाथ वाले मण्डपों की ऊँचाई में ह्रास (कम) करने का नियम नहीं है । इसके बाद पन्द्रह से लेकर तीस हाथ तक के सभी मण्डप क्रमशः आधे हाथ ऊँचे बनाने चाहिये । इसका तात्पर्य यह है कि तीस हाथ का मण्डप सोलह हाथ ऊँचा बनाना चाहिये । तेरह हाथ से लेकर
पञ्चविंशः परिच्छेदः ६११ सोलह हाथ पर्यन्त मण्डपों की ऊँचाई क्रमशः आठ, सात, पाँच और चार हाथ कम करना चाहिये ॥ १५-१६ ॥ एवं स्नानगृहाणां तु विस्तारश्चोन्नतैः सह । किन्तु वै वालुकापीठैर्मध्यतश्चोपशोभिताः ॥ १७ ॥ बालुकापीठमानकथनम् द्विचतुर्भिर्द्विसप्तांशैर्विस्तृताः प्राग्वदुन्नताः । एवं यागमण्टपोक्तं लक्षणं स्नानगेहेऽप्यतिदिशति—एवमिति । उन्नतैः सह औन्नत्यैः सह इत्यर्थः । भावप्रधानो निर्देशः । तत्र विशेषमाह—किन्त्विति । वालुका- पीठैर्मध्यतो वालुकापूरितवेदिकामध्यत उपशोभिताः, स्नानगृहा इति शेषः । बालुकापीठमानमाह—द्विचतुर्भिरिति । द्विसप्तांशैश्चतुर्दशभागैर्द्विचतुर्भिरष्टभिरं- शैश्च विस्तृताः प्राग्वदुन्नताश्च, बालुकापीठा इति शेषः । यागगेहे परितः कुण्ड- निर्माणार्थमुभयतोऽप्यष्टभिरष्टभिरंशैर्वीथीकल्पनमुक्तम् । अत्र कुण्डाभावाच्चतुर्भि- श्चतुर्भिरंशैरेव वीथीकल्पनम्, द्वाविंशत्यंशैर्वालुकापीठकल्पनमिति बोध्यम् । इसी प्रकार स्नानगृह का विस्तार भी उसकी ऊँचाई के साथ विस्तृत करना चाहिये । किन्तु स्नानगृह की वेदी को मध्य में बालुका से परिपूर्ण कर शोभायुक्त बनानी चाहिये । यागगृह में दोनों ओर से कुण्ड निर्माण के लिये आठ-आठ और चौदह अंशों से पहले कही गई ऊँचाई के अनुसार विस्तृत वीथी का निर्माण करना चाहिये ॥ १७-१८ ॥ स्नानशालादिनिर्माणकथनम् स्नानीयादग्रगेहाद् वा दिक्त्रयेऽभिमते शुभम् ॥ १८ ॥ स्नानशालादिनिर्माणस्थाने नियममाह—स्नानीया इति । स्नानीयाः, गृहा इति शेषः । अग्रगेहाद् = अग्रभागस्थितयागगेहं विहाय, दिक्त्रये दक्षिणादिदिक्षु अभिमते शुभे मनोहरे स्थाने कार्या इत्यर्थः ॥ १८ ॥ अब स्नानशालादि निर्माण स्थान के लिये नियम कहते हैं—अग्रभाग में स्थित यागगृह को छोड़कर शेष दक्षिण आदि तीन दिशायें कल्याणकारी कही गयीं हैं ॥ १८ ॥ नयनोन्मीलनगेहलक्षणकथनम् अर्धमानसमं मुख्यात् सुपीठशयनान्वितम् । दृग्दानभवनं कुर्यान्माङ्गल्यकलशैः सह ॥ १९ ॥ नयनोन्मीलनगेहलक्षणमाह—अर्धेति । मुख्याद् यागगेहाद् अर्धमानसमं तदर्ध- विस्तारायामं माङ्गल्यकलशैः सह वक्ष्यमाणकलशैः सह सुपीठशयनान्वितं दृग्दान-
६१२ सात्वतसंहिता भवनं दृशोर्दानमुन्मीलनम्, 'दो अवखण्डने' (१।९४८ दि०) इति धातोः, तदर्थं भवनं गृहं कुर्यात् ॥ १९ ॥ अब नेत्रोन्मीलन के लिये गृह का लक्षण कहते हैं—मुख्य यागगृह का आधा लम्बा चौड़ा मङ्गलकलशों के साथ (वक्ष्यमाण कलश के साथ) सुपीठ शयनान्वित नेत्रोन्मीलन के लिये गृह निर्माण करना चाहिये ॥ १९ ॥ . यागमण्टपादिसाधारणमलङ्कारकथनम् सर्वेषां कर्मभूभागं कोणस्तम्भैर्विभूषितम् । सुनेत्रैर्वेष्टितं कुर्याच्चक्राद्यैः पूर्ववद् युतम् ॥ २० ॥ यागमण्टपादिसाधारणमलङ्कारमाह—सर्वेषामिति । सुनेत्रैः शोभनवस्त्रैः, वितानैरिति यावत् । चक्राद्यैः चक्रध्वजादि-भिरित्यर्थः ॥ २० ॥ इसके अनन्तर सभी के नेत्रों के लिए सुखदायी वितान जो सुन्दर वस्त्रों एवं चक्र ध्वजादि से सुशोभित हो उसका निर्माण करना चाहिये ॥ २० ॥ स्नानपीठलक्षणकथनम् सुस्थिरं दृढपादं च स्नानाम्भोग्रहणक्षमम् । अर्धेन वालुकापीठाद् दीर्घमाद्यक्रमेण तु ॥ २१ ॥ वर्धितं सार्धहस्तेन ह्रासितं चतुरङ्गुलैः । स्वदैर्घ्यादर्धविस्तीर्णं कृत्वैवं सप्रणालकम् ॥ २२ ॥ तेन तद्वालुकापीठं भूषयेन्मध्यगेन तु । अथ स्नानपीठलक्षणमाह—सुस्थितमिति सार्धद्वाभ्याम् । स्नानाम्भोग्रहणक्षमं = स्नानजलग्रहणार्थं पीठोपरि परितश्चतुरङ्गुलोत्सेधावरणयुक्तमित्यर्थः । वालुकापीठा- दर्धेन दीर्घं चतुर्दशहस्तविस्तारायामस्नानगेहस्थितावालुकापीठार्धमानेन दीर्घम्, आद्य- क्रमेण तदादित्रिंशत्करगृहपर्यन्तं क्रमेणार्धहस्तेन वर्धितं तदादिष्ट्करगृहपर्यन्तं क्रमेण चतुरङ्गुलैर्ह्रासितं स्वदैर्घ्यादर्धविस्तीर्णं सप्रणालकं स्नानपीठं कृत्वा तेन तद्वालुकापीठं भूषयेत् ॥ २१-२३ ॥ अब स्नानपीठ का लक्षण कहते हैं—स्नान जल ग्रहण करने के लिये पीठ के ऊपर चारों ओर चार अङ्गुल ऊँचा आवरण बनाना चाहिये । फिर वालुका पीठ के अर्ध मान तक दधि तथा तीस हाथ पर्यन्त लम्बे स्नानगृह के मान तक आधा- आधा हाथ बढ़ाते हुए, प्रणाली (= नाली) से युक्त स्नान पीठ का निर्माण करे । फिर मध्य में बालुका पीठ को भूषित करे ॥ २१-२३ ॥ द्वारतोरणलक्षणकथनम् यागागारस्य वै दिक्षु द्वारार्थं तत्र चान्तरे ॥ २३ ॥
पञ्चविंशः परिच्छेदः ६१३ (शा? श)मार्थवृद्धियोगेन ह्रासोऽन्यत्र कलादिकः । तोरणानि बहिः कुर्याद् दृढैः काष्ठैः सुपूजितैः ॥ २४ ॥ अथ द्वारतोरणलक्षणमाह—यागागारस्येत्यादिभिः ॥ २३-२८ ॥ इसके बाद स्नानागार से बाहर चारों दिशाओं में द्वारों पर दृढ़ काष्ठ का बना हुआ कल्याण हेतु छोटा बड़ा कलापूर्ण प्रशस्त तोरण निर्माण करे ॥ २३-२४ ॥ पञ्चहस्तानि चार्धेन वर्धितानि करेण तु । न ह्रासमाचरेत् तेषामन्यत्र करणे सति ॥ २५ ॥ न शमात् पञ्च हस्तानामृते भूमौ प्रवेशयेत् । शमार्थं वर्धितानां च द्वे द्वे संवर्धयेत् कले ॥ २६ ॥ दैर्घ्यात् प्रवेशशिष्टात् तु त्रिभागेन तदन्तरम् । सर्वे चक्रध्वजाः कार्या वस्त्रस्रङ्मञ्जरीयुताः ॥ २७ ॥ सुधाद्यैर्वर्णकैः पीतैश्चन्दनाद्यैस्तु लेपिताः । वह तोरण पाँच हाथ का होना चाहिये । यागगृह के लम्बे होने पर एक-एक हाथ उसे बढ़ाते रहना चाहिये । यदि तोरण अन्यत्र भी बनाना हो, तो उसे पाँच हाथ से कम में निर्माण न करे । यदि तोरण केवल पाँच हाथ का ही हो, तो उसे शम प्रमाण से अधिक भूमि में न गाड़े । यदि पृथ्वी में गाड़ना ही हो, तो उसे दो-दो कला बढ़ा कर पृथ्वी में गाड़े । इस प्रकार तोरण स्थापित कर उसका पूजन करे । फिर तोरणध्वज तथा ध्वजाष्टक स्थापित करे । ये सभी चक्र, ध्वज, वस्त्र, माला और मञ्जरी से भूषित होने चाहिये और सुधा (चूना) आदि से अनुलिप्त अथवा पीत वर्णानुलिप्त तथा चन्दनादि लेपों से विभूषित होना चाहिये ॥ २५-२८ ॥ विभवाद्यभावे पक्षान्तरकथनम् भिन्नाङ्गमेतदखिलं यथैकस्मिन् हि युज्यते ॥ २८ ॥ कर्म यागगृहे शश्वद् विभूतेर्वाऽवनेर्विना । पञ्चत्रिंशत्करं क्षेत्रं स्वतुर्यांशेन विस्तृतम् ॥ २९ ॥ विभवाद्यभावे पक्षान्तरमाह—भिन्नाङ्गमित्यादिभिः । भिन्नाङ्गं विभिन्नपृथक्- शालाद्यङ्गसहितमेतदखिलं कर्म नयनोन्मीलनस्नपनार्चनहवनाधिवासादिकं समस्तं कार्यम्, विभूतेर्वाऽवनेर्विना विभवाभावात् प्रदेशाभावाद्वा, एकस्मिन् यागगृहे यथा युज्यते, स्नानशालां नयनोन्मीलनशालां च विना यागगेह एव यथा कर्तुं शक्यते, तथा सन्निवेशार्थं पञ्चत्रिंशकरं स्वतुर्यांशेन विस्तृतं क्षेत्रं यागमण्डपं कुर्यादिति शेषः । पार- मेश्वरव्याख्याने तु—"भिन्नाङ्गं वेदिकुण्डतोरणादिभिर्भिन्नलक्षणम् । एकस्मिन्नेकत्र शालास्थले यथा युज्यते तथा कुर्यादित्यर्थः" इति लिखितम् । तन्मन्दम् । तन्मध्ये चतुर्हस्तविस्तारायां स्थलसप्तकं = वेदिकासप्तकमापाद्यं कल्पनीयमित्यर्थः ।
६१४ | सात्वतसंहिता स्थलानां वेदिकानां व्यवधानमन्तरालं तलसंमितं द्वादशाङ्गुलमितं कुर्यात् । तथा सति सप्तवेदिकानामन्तरालानि षट्तालमितानि भवन्ति । तथा व्यवधानानवकाशे द्व्यङ्गुलं द्व्यङ्गुलं विना एकापायेन एकताल्हासेन वा व्यवधानं कुर्यात् । क्रमेणाष्टाङ्गुलान्मानात् = प्रत्येकमष्टाङ्गुलव्यवधानात्, स्थलागणं = स्थलसप्तकं, द्विहस्तान्तं = द्विहस्त- परिमितान्तरालं वा कुर्यात् । संकटानां तथा व्यवधानेऽप्यपेक्षमा(णां?णानां) स्थलानां = द्विगोलकं चतुरङ्गुलं व्यवधानं कुर्यात् । ''द्वे अङ्गुले कलानेत्रं गोलकं भाव एव च'' (२४।९४) इति पूर्वमेवोक्तम् । सर्वेषां स्थलानामुच्छ्राय एवमेव परिकीर्तितः । वेदिकानामुच्छ्रायमपि द्वादशाङ्गलमष्टाङ्गुलं चतुरङ्गुलं वा कुर्यादित्यर्थः । परितो वीथेर्मानं स्वपीठजं विहितं चतुर्हस्तमित्यर्थः ॥ २८-३३ ॥ यहाँ तक विभव सम्पन्न लोगों के लिये विधान कहा गया । अब जिनके पास वैभव नहीं है ऐसे वैभवहीन लोगों के लिये विधान कहते हैं— यदि विभूति के अभाव से, या प्रदेश के अभाव से, एक ही गृह में उपरोक्त नयनोन्मीलन, स्नपन, अर्चन, आवाहन, अधिवासादिक समस्त कार्य पृथक्-पृथक् शालाओं में करना संभव न हो, तो वह सारा कर्म एक ही याग गृह में करे । यह जिस प्रकार किया जा सकता है उसके लिये विधि कहते हैं— पैंतीस हाथ लम्बा उसका चतुर्थ भाग चौड़ा याग मण्डप निर्माण करे ॥ २८-२९ ॥ तन्मध्ये तु चतुर्हस्तं त्वापाद्यं स्थलसप्तकम् । स्थलानां व्यवधानं तु कुर्याद् वै तालसम्मितम् ॥ ३० ॥ एकापायेन वै कुर्याद् द्विहस्तान्तं स्थलागणम् । क्रमेणाष्टाङ्गुलान्मानाद् द्व्यङ्गुलं द्व्यङ्गुलं विना ॥ ३१ ॥ स्थलानां संकटानां च व्यवधानं द्विगोलकम् । एवमेव समुच्छ्रायः सर्वासाम् परिकीर्तितः ॥ ३२ ॥ परितो विहितं वीथेर्मानमत्र स्वपीठजम् । उसके मध्य में चार हाथ लम्बी, चार हाथ चौड़ी सात वेदी निर्माण करे । प्रत्येक वेदियों के निर्माण में ताल प्रमाण (बारह अङ्गुल) का अन्तर रखना चाहिये । ऐसा करने से सात वेदिकाओं के कुल अन्तराल छह ताल (बहत्तर अङ्गुल) होता है । यदि उतना व्यवधान न कर सके, तो दो-दो अङ्गुल के व्यवधान से अथवा एक ताल के व्यवधान से ही वेदी निर्माण करे, अथवा क्रमशः आठ अङ्गुल का व्यवधान देकर सात वेदी बनावे, अथवा दो-दो हाथ का व्यवधान कर सात वेदी निर्माण करे, अथवा संकट (कठिनाई) उपस्थित होने पर द्विगोलक (चार अङ्गुल) का व्यवधान देकर सात वेदी निर्माण करे । इन सभी सातों वेदियों की ऊँचाई क्रमशः एक ही समान बारह अङ्गुल की करे, अथवा अष्टाङ्गुल, अथवा चतुरङ्गुल ऊँचाई करे । उसके चारों ओर की वीथी का मान चार हाथ होना चाहिये ॥ ३०-३३ ॥
पञ्चविंशः परिच्छेदः ६१५ पञ्चवेदिकापक्षकथनम् एवं वा संकटे कुर्यादाद्योक्तान्मण्टपद्वयात् ॥ ३३ ॥ मध्ये मण्डलपीठं तु तस्य दक्षिणदिग् भवेत् । समीपे शयनस्थानं कुम्भानां स्थापनायनम् ॥ ३४ ॥ एवं हि वामनिकटे भोगानां मन्त्रतर्पणम् । ऋग्यजुःसामपूर्वाणां श्रुतीनां हवनं परे ॥ ३५ ॥ दृग्दानं शयनस्थाने ह्यान्यस्मिन् शयने हितम् । प्रासादस्याष्टदिक्मूर्तिशक्तिपानां यथोदितम् ॥ ३६ ॥ स्थण्डिलेष्वथ कुण्डेषु तादर्थ्येनाथवा स्वयम् । स्वकुण्डे हवनं कुर्याच्चतुर्वेदमये वरे ॥ ३७ ॥ एवं सप्तवेदिकानिर्माणस्याप्यनवकाशे पञ्चवेदिकापक्षमाह—एवं वेति त्रिभिः । संकटे स्थलसंकोचे सति, आद्योक्तान् मण्टपद्वयात् । ल्यब्लोपे पञ्चमी । स्नाननयनो- न्मीलनमण्टपद्वयं विहाय, एवं वा कुर्याद् वक्ष्यमाणरीत्या पञ्चवेदिकाकल्पनं वा कुर्यात् । तासां विनियोगस्तु मध्ये मण्डलपीठं तस्य दक्षिणदिक् दक्षिणदिशि समीपेऽ- व्यवहितं धनस्थानम्, कुम्भानां स्थापना धनम् । तदनन्तरवेदिकायां स्नानकुम्भानां स्थापनम् । एवमेव वामनिकटे मण्डलपीठवामभागस्थसमीपवेदिकायाम्, भोगानां मन्त्रतर्पणं भोगानां समिदादीनां मन्त्रतर्पणं हवनमित्यर्थः । तत्र प्रधानकुण्डस्थानं यावत् । पारमेश्वरव्याख्याने तु—"भोगानां मन्त्रतर्पणं कुम्भस्थार्चनमित्यर्थः, जलस्य समस्तभोगत्वात्'' इति लिखितम् । तन्मन्दम, प्रधानकुण्डस्यागतिकत्वात् । ननु तर्हि कुम्भार्चनमगतिकं भवतीति चेन्न, कुण्डदक्षिणभाग एव तदर्चनस्य वक्ष्यमाणत्वात् । ननु तर्ह्यस्मदुक्तार्थोऽपि संगत एवेति चेन्न, तर्पणशब्दस्य भवनपरत्वेनैवात्र बहुशः प्रयोगात् । ऋग्यजुःसामपूर्वाणां श्रुतीनां भवनं विदिक्कु(ण्ड?ण्ड)चतुष्टयोक्तं भवनं परे तदनन्तरवेदिकायामिति ज्ञेयम् । दृग्दानं नयनोन्मीलनं शयनस्थाने पूर्वोक्तशयन- वेदिकायामेव, अन्यस्मिन् शयने पृथक्शय्यायां हितमभिहितमित्यर्थः । पारमेश्वर- व्याख्याने तु पूर्वमेव "समीपे शयनस्थानाम्'' (पा०१५।१३८) इत्यत्र समीपे नयन- मित्यबद्धपाठमङ्गीकृत्य नयनं नयनोन्मीलनमित्यर्थ इति लिखितम् । इहापि तथैव "दृग्दानं शयनस्थाने ह्यान्यस्मिन् शयने हि तत्'' (पा० १५।१४०) इति पाठं परिकल्प्यैकस्मिन् नयनोन्मीलनार्थं शयनकल्पनम्, अन्यस्मिन् तत्प्रसिद्धशयनमिति लिखितम् । सप्तवेदिकापक्षेऽप्येवमेव मण्डलादिस्थाननियमः । किन्तु तत्र दक्षिणा- न्तिमवेदिकायां स्नानपीठस्थापनम्, उत्तरान्तिमवेदिकायां नयनोन्मीलनार्थं शयनकल्पन- मिति ज्ञायते ॥ ३३-३७ ॥ यदि सात वेदी के निर्माण के लिये स्थान न हो, तब पाँच वेदी का पक्ष प्रस्तुत करते हैं । स्थल संकोच होने पर स्नान एवं नयनोन्मीलन दो मण्डपों का
६१६ सात्वतसंहिता परि-त्याग कर देवे । केवल पाँच वेदी ही निर्माण करे । उसका प्रकार यह है— मध्य में मण्डल पीठ निर्माण करे । उसके दक्षिण दिशा में अव्यवहित धन स्थान (कुम्भानां स्थापनं धनम्' इस कोश के अनुसार धन का अर्थ कुम्भ है) उसके अनन्तर वाली वेदिका में स्नान कुम्भ स्थापन करे । इसी प्रकार मण्डल पीठ के वाम भागस्थ वेदिका में 'भोगानां मन्त्र तर्पणम्' (समिदादि हवन सामग्री) प्रधान कुण्ड स्थान पर्यन्त स्थापित करे । ऋग्यजुः-सामपूर्वक समस्त श्रुतियों को हवन के चारों कोणों पर स्थापित करे । नयनोन्मीलन शयन स्थान में स्थापित करे । किन्तु पृथक् शय्या बनाकर स्थापित करना हितकारी होता है । प्रासाद के आठों दिशाओं में स्थण्डिल में, अथवा चतुर्वेदमय श्रेष्ठ अपने कुण्ड में हवन करे ॥ ३३-३७ ॥ मूर्तिपकर्त्तव्यहोमस्य गतिकथनम् समस्मूर्तिपीयं वा स्वयमेव समाचरेत् । सामग्रीविरहाद् योग्यमूर्तिपानामभावतः ॥ ३८ ॥ एवं स्थलसंकोचादिनाऽष्टदिक्कुण्डानि विना यागगेहे निर्मिते सति तदानीं मूर्तिपकर्त्तव्यहोमस्य गतिमाह—समस्तेति । सामग्रीविरहाद् अनेकस्रुक्स्रुवाद्यभावात्, योग्यमूर्तिपानामभावत ऋत्विजामभावाद्रा हेतोः, समस्तमूर्तिपीयं मूर्तिपकर्त्तव्यं होमं स्वयमेव समाचरेत् । तत्तत्कुण्डसमीपं गत्वा स्वयमेव तत्तद्धोमं कुर्यादिति भावः ॥ ३८ ॥ तत्तद् ज्ञाताओं के द्वारा अथवा स्वयं मूर्तिप एवं शक्तियों के मन्त्र से हवन करे । इस प्रकार स्थल संकोच से आठों दिशाओं में कुण्ड निर्माण के बिना यागगृह निर्माण करने पर 'मूर्तिपकर्त्तव्य होम' की गति कहते हैं । अनेक स्रुक्- स्रुवादि के अभाव में योग्य मूर्तिप (होता, ऋत्विक्, उद्गाता और ब्रह्मा आचार्य) के अभाव में समस्त मूर्तिप कर्त्तव्य होम स्वयमेव करे ॥ ३८ ॥ सर्वोपकरणानां संप्रवेशकथनम् यश्च यत्रोपयोज्यस्तु तत्र तं सम्प्रवेशयेत् । मन्त्राणामुपदेष्टा तु आत्मतुल्यो महामतिः ॥ ३९ ॥ योक्तव्यः कर्मदक्षस्तु सर्वेष्ववसरेषु च । अथ प्रासादमध्ये कुम्भस्थापनप्रकारोक्तरीत्या सकलमङ्गलवैभवैः सहाचार्यस्य योगगेहप्रवेशं तत्र सर्वोपकरणानां सम्प्रवेशनं चाह—यश्चेत्यर्धेन । मन्त्रतन्त्रस्खालित्य- भिया तदुपदेष्टुरन्यस्याचार्यस्य नियोजनमाह—मन्त्राणामिति ॥ ३९-४० ॥ अब इसके बाद प्रासाद के मध्य में कुम्भ-स्थापन की तरह समस्त मङ्गल वैभव के साथ आचार्य का यागगृह में प्रवेश तथा सभी प्रकार के उपकरणों का प्रवेश कहते हैं—यागगृह में जहाँ जिसका उपयोग संभव हो, उसे उसी स्थान पर
पञ्चविंशः परिच्छेदः ६१७ प्रवेश करावे । मन्त्र तन्त्र में किसी प्रकार का स्खलन न हो, इस भय से अपने ही समान अन्य आचार्य का वरण करे ॥ ३९-४० ॥ स्वयं वस्त्वनुसन्धाय हवनार्चनकर्मणाम् ॥ ४० ॥ आस्ते ह्युत्पत्तिपूर्वाणां न्यासान्तानामनन्यधीः । स्वस्य तु भूतशुद्ध्यादिन्यासान्तकर्मसु हवनार्चनकर्मवस्त्वनुसन्धानपूर्वकमेकाय- तचित्तत्वेन वर्तमान(ता)माह—स्वयमिति ॥ ४०-४१ ॥ स्वयं भूत शुद्ध्यादि न्यासान्त कर्म में तथा हवन एवं अर्चन कर्म के वस्तुओं का अनुसंधान कर सभी अवसरों में हवनार्चन कर्म में दक्ष पुरुष को नियुक्त करना चाहिए ॥ ४०-४१ ॥ कृत्वा दीक्षाविधानोक्तं सहोमं कलशार्चनम् ॥ ४१ ॥ कुर्यात् सतोरणानां तु ध्वजानां स्थापनं ततः । पूर्वं दीक्षाप्रकरणोक्तरीत्या महाकुम्भार्चनहोमादिकं तोरणध्वजस्थापनार्चनं चाह—कृत्वेति ॥ ४१-४२ ॥ दीक्षा विधानोक्त रीति से होम सहित कलशार्चन करे । फिर तोरण सहित ध्वजों का स्थापन करे ॥ ४१-४२ ॥ सितरक्तादिभेदेन प्रागादौ तु ध्वजाष्टकम् ॥ ४२ ॥ निवेश्य मध्यवेदयां तु पुनरप्ययवत् तथा । यजेत् सत्यादिकं तत्र चतुष्कं होवमेव हि ॥ ४३ ॥ उत देवा अवहितमृङ्मयान् पाठयेत् ततः । बहिर्वे सर्ववर्णेन चक्रं तोरणगं यजेत् ॥ ४४ ॥ पाठयेद् द्वारपालीयं साम सामविदस्ततः । मध्यवेद्याः परितो ध्वजाष्ट(क)स्थापनम्, तत्र प्रभवाप्ययक्रमेण सत्यसुपर्णाद्य- र्चनम्, उत देवा इत्यादिमन्त्रपाठनम्, बहिस्तोरणगतनानावर्णचक्रध्वजेषु चक्रराजा- र्चनम्, लोकद्वारमपावृण्वित्यादिद्वारपालीयसामपाठनं चाह—सितेति त्रिभिः । एवं महाकुम्भाद्यर्चनानन्तरं ध्वजार्चनादिकस्योक्तावपि तत्पूर्वमेव वा तत्कार्यमिति ज्ञेयम् । तथा चेश्वरपारमेश्वरयोः—‘‘एतेषामथवा पूर्वं भवेद् द्वास्थैः सहार्चनम्’’ (ई०सं० १८।५८, पा०सं० १५।१७८) इति ॥ ४२-४५ ॥ मध्य वेदी के चारों ओर आठो दिशाओं में सित, रक्त, पीतादि वर्णों की आठ ध्वजायें स्थापित करे । फिर प्रभव एवं अप्यय क्रम से सत्य सुपर्णादि की अर्चना करे । फिर ‘उत देवा’ इत्यादि मन्त्र का पाठ करे । बाहर तोरण पर रहने वाले नाना वर्ण के ध्वजाओं पर चक्रराज का अर्चन करे । फिर ‘लोकद्वारमपावृणु’ इत्यादि द्वारपालीय साम का पाठ करे ॥ ४१-४५ ॥ सा० सं० – 43
६१८ सात्वतसंहिता अथार्घ्यपुष्पमृण्मूर्तिधरैर्यायात् समावृतः ॥ ४५ ॥ यत्र तिष्ठति विश्वेशः पीठब्रह्मशिलान्वितः । तत्रावलोकनं तेषां कुर्यात् सन्ताडनादिकम् ॥ ४६ ॥ अथ मूर्तिपैः सह बिम्बसमीपगमनम्, नेत्रमन्त्रेण तदवलोकनादिकम्, सिद्धार्थोद- कादिषट्कलशस्थापनादिकमर्चनम्, देवस्य दक्षिणहस्ते सिद्धार्थैः सह प्रतिसरबन्धनम्, ऋग्वेदिभिरथार्वणिकैश्च रक्षोहणपाठनम्, वेदघोषैर्नृत्तगेयादिभिः सह रथादिना बिम्बा- द्यानयनम्, तदानीं स्वर्णादिदानयागगेहप्रवेशनं चाह—अथार्घ्यपुष्पभृदित्यारभ्य स्व- स्थानं यज्ञभूमेर्वै इत्यन्तम्। चक्राङ्गौषधी = कटुकरोहिणी, “कटुः कटुम्भराऽशोका रोहिणी कटुरोहिणी। मत्स्यपित्ता कृष्णभेदी चक्राङ्गी शकुलादिनी" ॥ (३।८।८६) इति वैजयन्ती। कर्मारम्भं भगवतो बलेनेत्यादिकं मन्त्रम्, ॐ भगवानेव स्वशेषभूतं मामिति मन्त्रं वा ॥ ४५-५५ ॥ इसके बाद अर्घ्य पुष्प मृण्मयमूर्त्ति धारण किये हुए मूर्त्तियों से समावृत होकर पीठ पर ब्रह्मशिला से युक्त विश्वेश (बिम्ब स्वरूप) जहाँ पर स्थित हैं वहाँ जावे। नेत्र मन्त्र से उनका अवलोकन करे तथा सन्ताडनादि करे ॥ ४५-४६ ॥ चक्रास्त्रमन्त्रितैः स्नानकलशैः स्नापयेत् ततः । सिद्धार्थकैस्तथा पञ्चगव्यमृद्धूतिवारिणा ॥ ४७ ॥ वल्मीकमृज्जलेनाथ चक्राङ्गौषधिवारिणा । संक्षाल्याभ्यर्च्य चोद्धर्त्य क्षालयेदस्त्रवारिणा ॥ ४८ ॥ तदनन्तर चक्रास्त्र से अभिमन्त्रित स्नान कलश से स्नान करावे। फिर सिद्धार्थक (श्वेत सर्षप) वारि से, फिर पञ्चगव्य के जल, फिर मिट्टी के जल से, फिर भस्म के जल से, फिर वल्मीकस्थ मिट्टी के जल से, फिर चक्राङ्ग औषधि (= कटुकरोहिणी) के जल से प्रक्षालित कर अर्चन करे, फिर उद्वर्त्तन करे। अस्त्र के जल से बिम्ब का प्रक्षालन करे ॥ ४७-४८ ॥ तमर्घ्येणार्चयित्वा च ततस्तन्मन्त्रितान् करे । सिद्धार्थकान् दक्षिणे तु बद्ध्वायै पाठयेदृचम् ॥ ४९ ॥ रक्षोहणं तथा सर्वान् नयेत् प्रतिसरे मणीन् । सद्द्वस्त्रवेष्टितं कृत्वा समारोप्य रथोत्तमे ॥ ५० ॥ कर्मारम्भं च पठतस्तस्य दक्षिणदिङ् न्यसेत् । ऋक्सामपूर्वन् वामे तु ब्राह्मणांस्तु चतुश्रुतुः ॥ ५१ ॥ पुरतोऽस्त्रं स्मरन् यायात् स्वयं विघ्नांस्तु सूदयन् । तदनन्तर उस बिम्ब का अर्घ्य से अर्चन कर प्रथम अस्त्रमन्त्रित सिद्धार्थक दाहिने हाथ में बाँधे। फिर 'रक्षोहणम्' इस ऋचा का पाठ करते हुए सभी प्रकार की
पञ्चविंशः परिच्छेदः ६१९ मणियुक्त 'प्रतिसरा' उसी हाथ में बाँधे । फिर उस बिम्ब को वस्त्र से वेष्टित कर उत्तम रथ पर समारोपित कर कर्मारम्भ (भगवतो बलेनेत्यादि मन्त्र) का पाठ करते हुए उसके दक्षिण दिशा में न्यास करावे । फिर ऋक् सामपूर्वक मन्त्र का पाठ करते हुए बाईं ओर न्यास करावे । दाहिनी ओर और बायीं ओर मन्त्रों का पाठ करने वाले ब्राह्मणों की संख्या क्रमशः चार-चार होनी चाहिये । इसके बाद स्वयं अस्त्र मन्त्र के द्वारा विघ्नों का नाश करते हुए रथ के आगे-आगे चले ॥ ४९-५२ ॥ सन्नृत्तगेयवादित्रस्तुतिमङ्गलपाठकैः ॥ ५२ ॥ इदं विष्णुर्विचक्रम ऋङ्मयैः सह पाठयेत् । एकायनांस्तदन्ते तु ॐ नमो ब्रह्मणे तु यत् ॥ ५३ ॥ तथैव शाकुनं सूक्तं श्रीसूक्तेन समन्वितम् । स्वर्णादिनार्थिनः शक्त्या तर्पयंस्तान् प्रवेशयेत् ॥ ५४ ॥ उसके साथ-साथ नृत्य करने वाले, गान करने वाले, बाजा बजाने वाले, स्तुति और मङ्गल पाठ करने वाले चलें । 'इदं विष्णुर्विचक्रमे' इन ऋचाओं को पढ़ते हुए वैदिक लोग भी साथ में चलें । सबसे अन्त में शाकुन सूक्त एवं श्रीसूक्त के सहित 'ॐ नमो ब्रह्मणे तु यत्' इस एकायन का पाठ करने वालों से समन्वित रहे । इस प्रकार स्वर्णादि की कामना करने वाले उन-उन अर्थी जनों को अपनी शक्ति के अनुसार तृप्त करते हुए यागगृह में प्रवेश करावे ॥ ५३-५४ ॥ स्वस्थानं यज्ञभूमेर्वे प्रासादाभ्यन्तरं तु वा । वक्ष्यमाणविधानेन युक्तं रत्नशिलादिना ॥ ५५ ॥ कृत्वा द्रव्याधिवासं प्राक् कर्मभूमौ पुरोदितम् । स्नानकर्मशिलादीनामीषत् कृत्वा तु सार्चनम् ॥ ५६ ॥ यथावद् रत्नविन्यासं पीठपूर्वं निवेश्य च । बृहद्विम्बे ततः कुर्यात् कर्मबिम्बेऽखिलं तु वै ॥ ५७ ॥ सन्निरोधस्तु मन्त्राणां तत्र लग्नोदये स्मृतः । आबृहत्स्नपनात् सर्वं यत्किञ्चिदथ तत्र तत् ॥ ५८ ॥ निर्वर्तनीयं पूर्णान्तं बुद्ध्वैवं प्राङ् महामते । तथा कार्यं शुभो येन मुहूर्तो नावसीदति ॥ ५९ ॥ बिम्बे बृहति सति तस्य केवलं प्रासादाभ्यन्तरप्रवेशम्, तत्र रत्नन्यासपूर्वकं पीठे स्थापनम्, यागशालाद्याखिलकर्मणां कर्मबिम्बे कर्तव्यत्वम्, लग्नोदये मूलबिम्ब एव मन्त्रावाहनसन्निरोधम्, मुहूर्तातिक्रमो यथा न संभवेत् तथा बृहत्स्नपनात् पूर्वं कर्तव्यानां पूर्णाहुत्यन्तानां कर्मणां झटित्यनुष्ठानं चाह—प्रासादाभ्यन्तरं तु वेत्यारभ्य मुहूर्तो नावसीदतीत्यन्तम् । आ बृहत्स्नपनात् पूर्वमित्यनेन बृहत्स्नपनस्य मूलबिम्ब एव
६२० सात्वतसंहिता कर्तव्यत्वमुक्तं भवति। तथा चोक्तमीश्वरपारमेश्वरायोः— स्थाप्यमाने बृहद्बिम्बे विशेषः कथ्यते द्विजाः। पूर्ववत् कर्मशालायां संस्थाप्याकारशुद्धये॥ संस्नाप्य विधिना कृत्वा नयनोन्मीलनं ततः। स्नपनं बृहदापाद्य केवलं वा बहूदकैः॥ स्नानकर्म शिलादीनामीषत् कृत्वा तु सार्चनम्। उत्थाप्य मूर्तिपाद्यैस्तु बहुभिस्तु रथस्थितम्॥ समानीय ततो यत्नात् प्रासादाभ्यन्तरं तु वै। यथावद् रत्नविन्यासपूर्वं पीठे निवेश्य च॥ इति। —(ई०सं० १८।७१-७५, पा०सं० १५।१९२-१९५) शिल्पिशालायां केवलं बहूदकैरेव स्नपने कृते बृहत्स्नपनं प्रासादाभ्यन्तर एव कार्यमिति च ज्ञेयम्॥ ५५-५९॥ यदि बिम्ब बहुत बड़ा हो, तब केवल प्रासाद के भीतर उसका प्रवेश करावे। वहाँ रत्नन्यासपूर्वक पीठ पर स्थापित करे। यज्ञशालादि समस्त कर्म ‘कर्म-बिम्ब’ पर करे। लग्नोदय होने पर मन्त्रावाहन एवं सन्निरोध मूल बिम्ब पर ही करे। इसका तात्पर्य यह है कि कर्म बिम्ब पर समस्त यज्ञ शालादिकर्म शीघ्रता से कर ले। लग्नोदय (मुहूर्त्त उपस्थित होने पर) शिल्पिशाला में शीघ्रता से बहूदक स्नान कराकर बृहत्स्नपन एवं मन्त्र सन्निरोध प्रासाद के भीतर मूल-बिम्ब पर ही करे। अतः जिस प्रकार मुहूर्त्त का अतिक्रमण न हो, वैसा करे। ऐसा करने से साधक का कल्याण होता है॥ ५५-५९॥ एवं हि चित्रपूर्वाणामन्येषां कमलेक्षण। सरलब्रह्मपाषाणवर्जितानां समाचरेत्॥ ६०॥ स्नानाद्यं कर्मबिम्बे तु तत्समीपेऽथ दर्पणे। कर्मबिम्बं विना तेषां प्रस्वापाद्यं हि विष्टरे॥ ६१॥ कुर्यात् प्रवेशपूर्वं तु सर्वमुत्सवपश्चिमम्। चित्रबिम्बविषयेऽप्येवमेव कर्मबिम्बे स्नपनाद्यखिलकर्मणामनुष्ठानम्, तस्याभावे दर्पणे छायास्नपनम्, कूर्चद्वारा यागगेहप्रवेशशय्याधिवासोत्सवान्तानां कर्तव्यत्वं चाह— एवं हीति सार्धद्वाभ्याम्॥ ६०-६२॥ हे कमलेक्षण! चित्र बिम्ब के विषय में भी यही विधान कहा गया है। कर्म बिम्ब पर स्नपनादि अखिल कर्म का अनुष्ठान करना चाहिए। यदि उसं स्नानादि का अभाव हो तो दर्पण में छाया स्नपन करे। इसके बाद कूर्च द्वारा यागगेह प्रवेश एवं शय्याधिवास और उत्सव करे। कर्मबिम्ब के बिना ही उस विष्टर पर उन्हें पहले सुलावे इस प्रकार प्रवेश से पूर्व समस्त उत्सव सम्पादन करे॥ ६०-६२॥
पञ्चविंशः परिच्छेदः ६२१ एवं प्रवेश्य तद्बिम्बं साम्प्रतं विनिवेश्य च ॥ ६२ ॥ निषण्णदृढकाष्ठोत्थतोरणेऽस्त्राहुतीस्ततः । एवं यागगेहानयनानन्तरं तत्र दृढकाष्ठोत्थतोरणे सन्निवेशमस्त्रमन्त्रेण होमं चाह—एवमिति । पीठब्रह्मशिलयोः पूर्वमेव तत्रानयनं तदुपरि ब्रह्मस्थापनं कार्य- मित्युक्तमीश्वरपारमेश्वरयोः— यागभूमिं ततो बिम्बमवरोप्य रथादिकात् । निषण्णदृढकाष्ठोत्थतोरणे सन्निवेश्य च ॥ स्नानभूमौ ततः कुर्यादस्त्रेणाज्यतिलाहुतीः । यद्वा पूर्वं समानीय पीठं ब्रह्मशिलान्वितम् ॥ भूमिष्ठे भद्रपीठे तु वेदिकायां निवेश्य च । ततो बिम्बं समानीय स्थापयेत् पिण्डिकोपरि ॥ इति । —(ई०सं० १८।६८-७१, पार०सं० १५।१८६९-१९१) ॥ ६२-६३॥ इसके पश्चात् बिम्ब का प्रवेश कराकर दृढ़ काष्ठ से बने हुए तोरण पर उसे स्थापित करे । फिर अस्त्र मन्त्र से आहुति देवे ॥ ६२-६३ ॥ स्नपनार्थ कलशस्थापनविधिकथनम् निवेश्य स्नानकलशान् हेमाद्युत्थांस्तु निर्व्रणान् ॥ ६३ ॥ पूर्ववद् वदनोपेतान् सुसमांस्त्रासवर्जितान् । निरीक्षणादिसंशुद्धान् कृत्वा सहृदयेन तु ॥ ६४ ॥ द्वादशाक्षरमन्त्रेण मन्त्रयेत् तान् सकृत् सकृत् । तेनैव पूजयेत् पश्चादर्घ्यस्रक्चन्दनादिना ॥ ६५ ॥ तदाहरणहोमं तु यथाशक्ति समाचरेत् । पूर्णान्तमथ सम्पूर्य क्रमाद् द्रव्यैर्नियोजयेत् ॥ ६६ ॥ अथ स्नपनार्थं कलशस्थापनविधिमाह—निवेश्य स्नानकलशानित्यारभ्य वस्त्रे- णाच्छाद्य वै तत इत्यन्तम् । पूर्वोदितैर्दीक्षाप्रकरणोक्तैरित्यर्थः । अस्य स्नपनस्य पार- मेश्वरेऽप्युक्तत्वात् तद्व्याख्याने पाद्यार्घ्याचमनीयद्रव्याण्युपरि स्पष्टीकरिष्यतीत्युक्तम् । तद्विरुद्धम्, पूर्वोदितैरिति विशेषणस्य वैयर्थ्यात्, तत्रोपरि स्पष्टीकरिष्यमाणपाद्यादि- द्रव्याणां वैजात्याच्च । चमसी = मलनिरहरणार्थकसुगन्धद्रव्यविशेषः । त्रिफलं (नेल्लिक्कायि अरलेकायि तारेकायि । वचा बजे) 'वचोग्रन्था' (२।४।१०२) इत्यमरः। शतावरी = आषाढी । कन्या लोलिसरकन्या, कुमारीति निघण्टुः । व्याघ्री गुल्ली सिंही आडुसोगे । कृताञ्जलिः सट्टदकरिकै कृताञ्जलिर्नार्गबालेति निघण्टुः । गोलोमी पिल्लगरिकै, 'गोलोमी शतवीर्या च' (२।४।१५९) इत्यमरः । "गोलोमी शतपर्विका" (२।४।१०२) इति गोलोमीशब्दस्य वचापरत्वमप्यस्ति, वचायाः पूर्वमेवोक्तत्वादत्र श्वेतदूर्वैव प्रकृता । सिंहलोमी नरियाल्दहुल्लु, क्रोष्टुविन्ना सिंहपुच्छी''
६२२ सात्वतसंहिता (२।४।९३) इत्यमरः । कुष्ठं चगलकोष्ठ, "व्याधि कुष्ठं पारिभाव्यम्" (२।४। १२६) इत्यमरः । भूम्यञ्जनम् । महागंरुडवेगा गरुडनगरिगिड्डा । महानीला करि- गुरुग, गलूची अमृतवल्ली, गल्लूच्यमृतवल्ली चेति निघण्टुः । सहदेवी प्रसिद्धा । विष्णुकान्ता च प्रसिद्धा । शतावरी पूर्वोक्ता । कार्कोटा तोट्टिगिड्डा, हिंस्रा कार्कोटकी चेति निघण्टुः । सिंहा बिल्वः शैलूषश्रीफलसिंहा इति वैद्यनिघण्टुः । वह्निशिखा गिणिमृभिनगड्डे, "स्याल्लाङ्गलिक्यग्निशिखा" (२।४।११८) इत्यमरः । यष्टि अतिमधुरम् । वाराहकर्णी, "अनेलदालु । बला बेण्णेगरुड, "बला वाट्यालकी घण्टा" (२।४।१०७) इत्यमरः । मोटा अगलशुण्ठी । पद्मकं प्रसिद्धम् । सप्त ग्राम्यौषधयः शालिमुद्गादयः, सप्तान्यका वेणुश्यामाकादयश्चेश्वरपारमेश्वरयोर्हविः- पाकप्रकरणोक्ता ग्राह्याः । एवं वामभागे स्थापितचत्वारिंशत्कलशस्नपनस्य स्थूलपर- संज्ञत्वम्, पृष्ठभागे स्थापितचत्वारिंशत्संख्याककेवलशीतोदककलशस्नपनस्य स्थूल- सूक्ष्मसंज्ञत्वम्, दक्षिणभागे स्थापितगन्धोदकपूरितचत्वारिंशत्कलशस्य स्थूलस्थूल- संज्ञत्वं चेश्वरपारमेश्वरयोः प्रतिपादितम् । एवं देवस्य वामभागादिषु स्नपनत्रयकलश- स्थापनं पृथक् स्नपनमण्डपे सति कार्यम्, तदभावे यागगेहस्थतदर्थपीठ एव पूर्वादि- पश्चिमान्तं तत्तद्दिने तत्तत्स्नपनकलशस्थापनं कार्यमिति च तत्रैव प्रतिपादितं ज्ञेयम् । तत्तत्स्नपनकालश्च तत्रैवोक्तः- अधिवासदिने कुर्यात् स्नानं स्थूलपराभिधम् ॥ प्रतिष्ठादिवसे कुर्यात् स्नपनं स्थूलसूक्ष्मकम् । चतुर्थे दिवसे स्नानं स्थूलस्थूलाभिधं भवेत् ॥ इति । -(ई०सं० १८।१६४-१६५, पा०सं० १५।२८८-२८९) एषां स्नपनानां सति विभवे विस्तारस्तदभावे संकोचश्च तत्रैव स्नपनाध्याये प्रतिपादितः- भक्तिश्रद्धावशाच्चापि विभवानुगुणं तु वा ॥ त्रिविधं स्थूलभेदं तु द्विगुणं तु समाचरेत् । अनुकल्पे तदर्धं वा पादमष्टांशमेव वा ॥ चतुष्टयं वा कुम्भानां प्रत्येकं वा द्वयं द्वयम् । एकैकं वापि विप्रेन्द्राः सर्वद्रव्यमयं घटम् ॥ -(ई०सं० १५।१३८-१४०, पा०सं० १४।१४०-१४२) इति ॥ ६३-९० ॥ इसके बाद स्वर्णादि विनिर्मित व्रण रहित दीक्षा प्रकरण में कहे गये मुखों से युक्त सर्वत्र एक समान, फूटने-टूटने के भय से वर्जित, अच्छी तरह देखभाल कर, शुद्ध किये गये, सौहार्दपूर्वक बनाये गये कलशों को स्थापित करे । फिर एक-एक कलश को द्वादशाक्षर मन्त्र से अभिमन्त्रित करे । पुनः उसी मन्त्र से अर्घ, माला एवं चन्दन से उनकी पूजा करे । उसके स्थापित करने के मन्त्र से यथाशक्ति होम करे । पूर्णाहुती करे । तदनन्तर उसमें तत्तद् द्रव्य स्थापित करे ॥ ६३-६६ ॥