भारतकोश
संग्रह पर लौटें

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

आ०-२ ] उत्पलदेवकृतवृत्त्योपेता ५७ वाक्यगत्यात्र सत्यत्वं लभ्यते न विशेषतः । 'एको नित्यः क्रमविरहितः कल्पितासत्यभागो वाक्यस्फोटो जनयति मतिं तादृशि स्वाभिधेये । वर्णास्त्वेते प्रकृतिलघवः कल्पनेकप्रतिष्ठा— स्तस्मिन्नर्थे विदधति धियं नेत्यलं तत्कथाभिः ॥' तथा हीत्याहुः कुतो वर्णानामर्थप्रत्यायकत्वम् । ते हि वर्णा गकारा- दयोऽर्थं प्रतिपादयन्तः समस्ता वा व्यस्ताः । न तावत् व्यस्ताः, एकैकवर्णा- कर्णने सति चार्थप्रतीतेरनुत्पादात् । सामस्त्यं पुनर्वर्णानां न संभवत्येव । तद्धि सत्त्या स्यात्, सा चायुक्ता । तथा हि, वर्णप्रयोक्तॄणां प्रयत्नस्थानकरण- क्रमापरित्यागादवश्यंभावी क्रमः । क्रमे च सति ह्येकैकवर्णकारणिकार्थ- प्रतीतिः प्राप्नोति, सा च न दृश्यते इति व्यस्तसमस्तविकल्पानुपपत्तेर्न वर्णा वाचकाः । वर्णविषया अपि बुद्धयस्तथैव कल्प्याः, ता अपि युगपन्न संभवन्ति । क्रमे च सत्येकैकवर्णबुद्धेरर्थसंप्रत्ययः प्रसज्यत इति तस्मान्न वर्णा वाचकाः । यदि च स्युस्तद्विपरीतक्रमप्रयुक्ता अपि तमर्थमवगमयेयुः । अस्ति चेयं शब्दा- दुच्चारितात्तदर्थावगतिः । न चेयमकारणिकैव भवितुमर्हति, तदस्याः कारणं स्फोट इति सर्वार्थप्रतीतिलक्षणकार्यवशात्कल्प्यमानं तत्कारणं स्फोट इत्युच्यते । स च निरवयवो नित्य एको निष्क्रमक इति । तस्माद्वर्णाभि- व्यक्तः स्फोटोऽर्थे प्रतिपत्तिमादधाति । भ्राम्यति जनो वर्णैरियमर्थप्रतीति- रुत्पादितेति । न च वाच्यं स्फोटव्यक्तावपि ते व्यस्तसमस्तविकल्पाः सन्तीति, न स्फोटव्यक्तौ विकल्पाः । तथा हि एके तावदाचक्षते, प्रथमवर्णश्रवणवेलायां स्फोटोऽभिव्यक्तः । न च द्वितीयादिवर्णवैकल्यं तदनुगतेरेवातिशयकारणात्, यथा रत्नपरीक्षायां प्रथमदर्शनं रत्नममलं प्रकाशमानमपि पुनः पुनः परीक्षायां निरवद्यं रत्नतत्त्वं चकास्ति । एवं प्रथमवर्णश्रुत्या व्यक्तेऽपि स्फोटे स्फुटतरप्रतीतयै वर्णान्तराणि प्रयोक्ष्यन्ते इति । अपरे त्वाहुः ध्वनय एव स्फोटस्य व्यंजकाः तैश्च मरुद्भिरनवयव एष स्फोटोऽभिव्यज्यमानस्ता- ल्वादिस्थानकरणसंयोगोपाधिवशोपप्लवमाननानाकारगकारादिभागयोगीव प्रतिभासते । मरुतां चञ्चलत्वादुच्चारितप्रध्वंसिनस्ते काल्पनिक भागा भासन्ते । दृष्टं हि नादात्मको हि शब्दो वीणावेणुमृदङ्गपटहादिव्यंजकभेदेन नानात्वमुपगच्छति । तस्माद्वाक्ये पदानामसत्त्वात्तदर्थे च पदार्थानां निर- वयवी वाक्यवाक्यार्थौ इति । बाधकं चात्रावयवकल्पनायां यथा वाक्यस्या- वयवाः पदानि पदानामवयवा वर्णा एवं वर्णानामप्यवयवैर्भवितव्यं, तदवय-

५८ शिवदृष्टिः [ आ०-२ आप्तानाप्तविचारो वा सर्वथैव निवर्तते ॥ ५९ ॥ भवद्भिः स्फोटः पश्यन्ती च नित्यत्वेनाभ्युपगतौ, ततः स्फोट एव वा पश्यन्ती स्यात् शब्दमात्रभेदात्, ततो वान्द्या, तत्र द्वैतं स्यात् । अन्यत्वपक्षे ऐक्ये वाभ्युपगते तत्पश्यन्त्याः संबन्धि सत्यार्थदर्शित्वं लभ्येत । 'अंगुल्यग्रे हस्तियूथशतमास्ते' इत्यनयाः वाक्यस्फोटप्रतीत्यात्र लोके न तु पश्यन्ती- संज्ञसत्यदर्शनरूपत्वेन सर्वस्य स्फोटस्य सत्याभिमतद्वाक्यात् विशिष्यमाणता लभ्यते । अन्यत्वपक्षे तु स्फोटस्य सत्यस्यापि असत्यार्थत्वं न दोषः१, पश्यन्त्यात्मनस्तु शुद्धसंविद्रूपस्य मिथ्यात्वं दोष एव पश्यन्त्यैक्येन स्फोट- सत्यार्थत्वात् । आप्तप्रणीतानाप्तप्रणीतत्वविचारो२ वा सर्वथा तदा निवर्तते सर्वेषामविशेषेण सम्यरूपत्वात्, पूर्वोक्तपश्यन्तीबहुत्ववन्नित्यस्फोटबहुत्वं ततश्चाद्वयहानिरित्येतदप्यत्र सूचितम् ॥ ५६ ॥ स्फोटस्य सत्यरूपैर्हि पदार्थैर्व्यङ्ग्यता कथम् । पश्यन्त्याः सत्यरूपाया असत्यैर्व्यङ्ग्यता न च ॥ ६० ॥ ताहग्व्यञ्जनसापेक्षा सा न किंचन जायते । स्फोटस्य च कूटस्थनित्यस्य सत्यस्य पदवर्णध्वनिभिरुपप्लुतैरकिं- चित्स्वरूपैरशक्तैरत्यन्तविजातीयैः कथं व्यंग्यता सत्यप्रकाशनसामर्थ्यं तेषां वानामप्यवयावान्तरैरित्यानन्त्यात् का व्यवस्था स्यात् । वर्णान्प्राप्य तु यद्यवयवकल्पनातो विरन्तव्यं तद्वाक्य एव निरम्यताम् । एवं पानकादि- वत्पदार्थेभ्योऽन्य एव वाक्यार्थरूपः स्फोट इति । यथा हि पानकं फाणितनारि- केलमरिचादिभ्योऽर्थान्तरमेव यथा च सिन्दूरलाक्षाहरितालादिभ्योऽर्थान्तर- मेव चित्रमिति सिद्धमेतत् । तत्र तयोः स्फोटशब्दब्रह्मणोरुभयोर्भेदे द्वैतापत्तिः । अभेदमेवमाहुः, यथा पदे वर्णा न सन्ति, वाक्येषु, पदानि न सन्ति तथा महावाक्येष्ववान्तरवाक्यान्यपि न स्युः, ततोऽपि महावाक्यान्यपि प्रकरणा- पेक्षया न स्युः, ततोऽपि प्रकरणान्यपि शास्त्रापेक्षया न स्युः, ततश्चैकमेवेदं शास्त्रतत्त्वमविभागमद्वयमापतति । इत्याक्षिप्ते तथाहूः । सत्यमेतत्, शब्द- ब्रह्मैवेदमद्वयमनाद्यविद्यावासनोपप्लवमानभेदमर्थभेदेन विवर्तते । न तु वाच- काद्भिभवतं वाच्यमपि नाम किञ्चनास्ति । तस्मात्काल्पनिक एवायं वाच्य- वाचकविभाग इति स्फोटवादः । तदनुपपत्तिं दर्शयति तदैक्येति वेति । १ अविद्योपगमात् । २ आप्तप्रणीतत्वेन हि शब्दस्य प्रामाण्यं स्फोटस्य च नित्यत्वेनाप्तप्रणीतत्वम् । अतश्चानित्यत्वं वर्णात्मनः शब्दस्य, नासावर्थ-

आ०-२ ] उत्पलदेवकृतवृत्त्योपेता ५६ सत्यतापत्तेः । पश्यन्त्यात्मत्वेऽपि च स्फोटस्यासत्यव्यञ्जकता तथैव न युक्ता, असत्येनाविद्यात्मनाव्यज्यमानालोकेन रूपमिव स्वयं प्रकाशनशक्त्या न किंचिदेवाविद्यैव सा स्यात् तावत्प्रपञ्चरूपैव अविद्येति कृत्वा १ ॥ पश्यन्ती २ वा प्रमाणेन केनासौ प्रतिपाद्यते ३ ॥ ६१ ॥ प्रत्यक्षस्यागोचरत्वादत्नुमानं प्रदूषितम् । भवद्भिरेव नाप्तस्याननुभूतार्थवक्तृता ४ ॥ ६२ ॥ प्रमाणेन वा केन पश्यन्ती भवद्भिर्व्यवस्थाप्यते । प्रत्यक्षं तावदत्र ५ चक्षुरादिमनोगोचरातिक्रमान्नास्ति । अवस्थेत्यादिना भवद्भिरेव तस्य दूषणाच्चानुमानं न सम्यगवबोधकम् । आप्तस्यापि नाननुभूतार्थवक्तृता, तदपि ६ न प्रमाणम् ॥ अथ ७ स्वानुभवेनैव पश्यन्तीं पश्य युक्तितः । एवं तर्ह्यपरस्यासौ पश्यन्ती कर्मतां गता ॥ ६३ ॥ यो हि पश्यति पश्यन्तीं स देवः परमो मतः । अथ भवन्तो ८ मामाहुः-स्वगतेनानुभवेन प्रमाणेन पश्यन्तीं युक्तितो योगात्समाधेरवधानात् पश्येति । एवं तर्हि अपरस्य स्वानुभवसंज्ञकस्य प्रमाणस्य पश्यन्ती कर्मत्वं प्राप्ता, ततश्च सा परमार्थत्वेनोपगता ९ न तथा स्यात् । यस्मात् स १० एव तदानीं पराकाष्ठाप्राप्तो देवत्वेन सर्वोत्कर्षेण भवतां मतः स्यात् यस्तामपि ११ सर्वदर्शिनीं पश्यति, ततश्च दर्शनत्यागः ॥ प्रतीतिहेतुरतो न प्रमाणम् । यश्चार्थप्रतीतिहेतुः स्फोटात्मा शब्दस्तस्य नानित्यत्वं, न चाप्तप्रणीतत्वमिति सर्वथा व्यवस्थाप्तानाप्तभाषणे नश्येदेव स्फोटाभ्युपगमे । १ इत्यनेन विचारेण । २ प्रमाणव्यवस्थापितं हि वस्त्वस्तु, स्वरूपलक्षणाभ्यां मास्तु, तेनैव प्रमाणेन तस्य दृढं व्यवस्थापितत्वादिति प्रमाणमेव तावद्विकल्पयति पश्यन्ती वेत्यादिना । ३ दृढीक्रियते । ४ अनुभूतमेवार्थमाप्तोपि वक्तीत्यर्थः । ५ अत्र पश्यन्तीविवेके । ६ तदाप्त- वचनमपि । ७ ननु चानुभवाख्यसुदृढप्रमाणरक्षिते वस्तुन्यलमन्थेन प्रत्यक्षा- दिना प्रमाणेन बाह्यार्थनिष्ठेनान्तःस्वरूपेऽनभिज्ञातवार्तालेशेनापि इति समर्थयति अथ स्वानुभवेत्यादि । ८ पूर्वपक्षवादिनो मामुत्तरपक्षवादिनम् । ९ उपगता अंगीकृता तथा परमार्थभूता । १० स एव स्वानुभवः । ११ सर्वो- त्कर्षतामेवास्य दर्शयति यस्तामिति ।

६० शिवदृष्टिः [ आ०-२ प्रतिभा¹ कथिता या वा सानुमानं न तच्च ते ॥ ६४॥ न चापि प्रतिपाद्यस्य कादाचित्कप्रतीक्षणम् । अथ पश्यन्त्यां प्रतिभा प्रमाणं² तत्प्रतिभाप्रभासनं निर्निमित्तमस्ति, कूपे जलमित्यादिवन्न प्रमाणम् । अथात्मस्थितिरेव³ विलक्षणा ममैवं शंसतीति प्रतिभा, तदात्मस्थितेर्विशिष्टायाः साध्याव्यभिचारनिश्चयेनार्था- न्तरावगमेऽनुमानतैव⁴, तच्च भवतामनिष्टम्, अव्यभिचारानिश्चये त्वनव- गमकत्वं, युक्तिवशाच्चानुभवः कदाचिद्भावी⁵ प्रतिभा वा भवेत्, पश्यन्ती⁶ १ तत्र केचित्प्रतिभाप्रत्यक्षं प्रमाणमित्याहुः । तथा च-- 'अस्ति चानागतं ज्ञानमस्मदादेरपि क्वचित्, प्रमाणं प्रातिभं ह्यो मे भ्रातागन्तेति दृश्यते ॥ नानर्थजं न संदिग्धं न बाधविधुरीकृतम् । न दृष्टकारणं चेति प्रमाणमिदमिष्यताम् ॥ क्वचिद्बाधकयोगश्चेदस्तु तस्याप्रमाणता । यत्रापरेद्युरभ्येति भ्राता तत्र किमुच्यताम् ॥' तदेतच्छिथिलयितुमाह 'प्रतिभा कथिता या वा' इति । अत्र वाशब्दोऽस्य स्फुटं प्रत्यक्षानुभवाग्राह्यतां द्योतयति । तथा चानर्थजमिदं ज्ञानं भ्रातुस्तज्जनकस्य तदानीमसत्त्वात् । अथोच्यते भावितयैनं गृह्णाति । तत्र भावितया ग्रहणं ह्यघटमानं भावित्वं नाम प्रागभावः, अभावस्य च भावेन कः संबन्ध इति । यदि मन्यसे अस्ति कूपे जलमिति प्रतिभा, तथा च नानागतानर्थजत्वशङ्का ततश्च प्रमाणमेवेत्यपि निरस्यति निर्निमित्तमिति । तच्च संशयात्मकत्वादस्य यद्युच्यते सोऽपि तदा नानुभूयते । यथा किमिदं रजतमुतारजतमिति । अपि तु रजतमिति प्रतीतिः । न हि संशयानाः प्रवर्तन्ते लौकिकाः, किं तु निश्चिन्वन्त एव विषयमिति किमनुभूयमान एवारोप्यते संशयः, एकतरग्राह्यपि चायं प्रत्ययः तन्निश्चयोपायविरहात्संशय- कोटिपतित एव भवतीति निर्निमित्तमेव । २ यदि हि प्रमाणतयाऽसौ गृह्यते कथं क्वचिद्विसंवदेत् । अप्रमाणतया तु गृह्यमाणः कथं पुमांसं प्रवर्तयेत् । ३ प्रत्यक्षतायां बाधमुक्त्वाऽनुमानवादी समर्थयति अथेति । ४ अयं भावः । यथा हि पर्वतादौ धूमदर्शनाद्धूमाव्यभिचारादग्न्यर्थन्तरनिश्चयः हृदादौ व्यभिचारदर्शनात् नार्थविगमः, तथा विलक्षणयात्मस्थित्या पश्यन्त्यर्थ- साध्याव्यभिचार इति प्रतिभानुमानपक्षे कैश्चिन्निक्षिप्ता । ५ कादाचित्को- ऽनुभवः प्रतिभेत्यन्य इत्यर्थः । ६ पश्यन्ती हि भवद्भिः सदा प्रकाशमानता-

आ०-२ ] उत्पलदेवकृतवृत्त्योपेता ६१ पश्येत्याप्तेन प्रतिपाद्यमानस्य न तु सदा, ततश्च तस्या१ विच्छिन्नं दर्शनं स्यात्, न सदा प्रकाशमानता, न चैतत् तत्कालप्रतीक्षणं मतम् ॥ स्वात्मनात्मानमथ चेत्पश्यन्ती सा भविष्यति ॥ ६५ ॥ तदानीं२ प्रतिपाद्यस्य किमायातं स्ववीक्षणात्३ । वक्तव्यमेव४ तस्यापि पश्यन्तीं पश्य या स्वयम् ॥ ६६ ॥ आत्मानमेव जानाति तथाप्यस्यास्ति कर्मता । नानुभवादिना पश्यन्तीदर्शनमपि तु सा स्वात्मना५ न व्यतिरिक्ते- नानुभवेन स्वमात्मानं पश्यन्ती भविष्यतीति यदि मतं, तदेवं सति प्रति- पाद्यस्य भवद्भिरुपदेष्टृभिः किमपूर्वं कार्यं स्वयमेव तस्याः प्रथनात् । एवं तु अवश्यवक्तव्यं भवद्भिः प्रतिपादकैः६ सद्भिः प्रतिपाद्यस्य७ पश्यन्ती- मदृष्टपूर्वां८ त्वं पश्य या स्वयमेवात्मानं पश्यति । तथापि चास्याः९ प्रतिपाद्यसंबन्ध्यनुभवं प्रति पूर्ववत् कर्मतास्त्येव१०, प्रतिपाद्येन११ परिमित- त्वात् पराभिमतायाः पश्यन्त्याश्च्युतत्वात्, परिमितेनैव द्वैतदशोचिते- नानुभवेन सा दृश्या स्यात्, न तु तदा प्रतिपाद्यप्रतिपादकपश्यन्तीनामैक्यं येन कर्मतापत्तिर्न भवेत् । एवं च कर्मतापत्तौ तस्याः स्वयं प्रकाशता- स्वभावाभ्युपगतेति विरोधः । १ तस्याः पश्यन्त्याः । २ ननु नास्माभिः कादाचित्केनानुभवेन प्रतिपाद्या पश्यन्ती अभ्युपगता, येन कादाचित्क- त्वात्पश्यन्त्या विच्छिन्नदर्शनेऽनित्यत्वादिदोषप्रसङ्गः । अपि तु स्वात्मना प्रकाशमानेनानुभवितृत्वेनानुभवविषयमेव प्रकाशमानं पश्यन्ती पश्यति । एवं च सततं प्रकाशमानतैवेत्यपि निराकरोति तदानीमित्यादिना । तथा स्वात्मनात्मानमेव सा प्रत्यवमृशति परन्तु पश्यन्तीव्यपदेशस्तूपदेश्यजनापेक्ष- यैव न स्वतः कर्मव्यपदेशोऽत्रेति च समर्थयति । ३ तस्याः स्वयंप्रथनात् । ४ उपदेशो ह्यवश्यवक्तव्यत्वाद्विधिलक्षणः, स चाज्ञातज्ञापनलक्षणः । स्वयमेव ज्ञातेऽलमन्योपदेशकथावर्णनया । ५ यदुक्तं 'अथ स्वानुभवेनैव पश्यन्ती पश्य युक्तितः' इत्यस्यैवोऽभिप्रायो यदिष्टः । ६ अन्योपदेशकैः । ७ उपदेश्यस्य । ८ उपदेशो हि न दृष्टे प्रवर्तते । ९ पश्यन्त्याः । १० त्वं पश्यन्तीं पश्य स्वानुभवेन तां लक्षयस्वेति स्फुटमेव पश्यन्त्याः कर्मत्वमायातम् । ११ ननु पश्यन्त्याः स्वयमात्मदर्शनरूपाया न कथंचन कर्मताणुसंस्कारलेशमप्य-

६२ शिवदृष्टिः [ आ०-२ क्षतिरिति पुनरपि तत्प्रकाशकमेव प्रधानं भवेत् । अव्यतिरिक्तोऽपि¹ प्रकाशस्तस्या आत्मानमात्मना पश्यन्तीं पश्येति विवर्तभूम्यालिङ्गनात्² अशुद्धतापन्नः । अस्यातीति पश्यन्तीस्वरूपस्य ।। असत्यः³ प्रतिपाद्योऽस्मिन्नसत्यः प्रतिपादकः ।। ६७ ।। असत्यस्योपदेशत्वमसत्येन परीक्ष्यते । पश्यन्त्यतिरिक्तः⁴ सर्व एव प्रतिपाद्यादिप्रपञ्चोऽस्मिन् दर्शनेऽसत्यः⁵, तत् कुतः पश्यन्त्याः सिद्धिः कस्य वा केन वा प्रमाणेन ।। येन सा वा प्रमाणेन स्थाप्यते तस्य सत्यता ।। ६८ ।। तत्सत्यत्वे⁶ द्विसत्यत्वमसत्यत्वे न किंचन । यदि वा येन प्रमाणेन सा व्यवस्थाप्यते तस्य सत्यता इष्टा, तत् द्वयोः पश्यन्तीतत्प्रमाणयोः सत्यता प्राप्ता⁷, प्रमाणस्यासत्यत्वे न किंचन स्थितं स्यात् ।। साधुशब्दसमुच्चारात्कस्य स्वर्गादियोगिता ।। ६९ ।। पश्यन्त्याश्चेदविद्यात्वं तद्भोगोन्मुख्ययोगतः । मध्यमादेर्जडायाः किं भोगेन शबलात्मना ।। ७० ।। तस्मादसाधुः साधुः स्याच्छब्दविद्याफलप्रदः । एवं व्याकरणस्यापि समुच्छेद उपैति ते ।। ७१ ।।

स्पृशन्त्याः कथं पूर्ववत्कर्मेति । तत्र हि पारतन्त्र्यं कर्मताऽत्र तु स्वतन्त्रैवेत्यत आह प्रतिपाद्येनेत्यादि । १ अथ प्रकारान्तरेणापि । अथ स्वानुभवेनैव पश्यन्तीं पश्येति युनक्ति अव्यतिरिक्त इत्यादिना । २ त्वं तस्या आत्मान- मात्मना पश्येति तथा च न कर्मता नापि चोपदेशानार्थकयमित्येतदपि सम- र्थयति विवर्तभूम्यालिङ्गनात् इत्यादिना । ३ ननु च यः प्रतिपाद्यः सोऽपि पश्यन्ती, योऽपि प्रतिपादकः सोऽप्यसत्यः पश्यन्त्येव, योऽप्युपदेशः सोऽप्य- सत्यः पश्यन्त्येव, योऽपि तत्स्वरूपे परीक्षकः सोऽप्यसत्यः पश्यन्त्येवेति किमत्र परस्य कथनीयमिति चेत्, एतदेव पुनरपि समर्थनार्थं कथनीयमसत्यमेव हि सर्वं तर्ह्येतत्संपन्नमित्यलं भवद्वाक्प्रलापेनेत्यर्थः । ४ विशेषप्रतिषेधे सामान्या- भ्यनुज्ञानमिति नयेनाह पश्यन्त्यतिरिक्त इति । ५ पश्यन्तीविचारे । ६ तस्य प्रमाणस्य । ७ तदप्यनिष्टमेव ।

आ०-२ ] उत्पलदेवकृतवृत्त्योपेता ६३ वैयाकरणैः साधुशब्दप्रयोगः स्वर्गापवर्गफल उक्तः । 'एकः शब्दः शास्त्रपूर्व प्रयुक्तः स्वर्गे लोके कामधुग्भवति' इति । तथा— 'साध्वी१ वाग्भूयसी येषु पुरुषेषु व्यवस्थिता । अधिकं वर्तते तेषु पुण्यरूपं प्रजापतेः ॥ प्राजापत्यं महत्तेजस्तन्मात्रैरेव२ संवृतम् । शरीरभेदे३ विदुषां स्वां योनिमुपधावति ॥' इति । तत्फलं स्वर्गाख्यं तावत्कस्य स्यात् यः शब्दप्रयोगस्य कर्तेति तत्फला- र्थितया पश्यन्त्याः कर्तृत्वे स्वर्गभोगोन्मुख्यात् अविद्यासंपर्केणाशुद्धता स्यात् । मध्यमावैखरीदशायामिष्टानिष्टोपलम्भभाजिप्राप्तिपरिहारोन्मुख्येन प्रवृत्तिः । तन्न, पारमार्थिकप्रमातृनिष्ठा हि विषयव्यवस्थितिः, तन्मध्यमादेः सवि- भागत्वेन द्वैतावस्थाने सति अविद्याशबलरूपतया जडत्वान्न परमार्थपद- प्रतिष्ठेने किञ्चिद्भोगेेन, भोग एवासौ न भवेदित्यर्थः । तस्मात्साधुशब्दः प्रयुक्तः शब्दविद्याफलस्य भोगादेर्दाता, प्रत्युत पश्यन्त्या अशुद्ध्यापादनेना- साधुरशुभः स्यात् । एवं चाशुभकारित्वाद्यथावर्णितफलं व्याकरणमपि त्वदीयं समुच्छिन्नं हेयमेव स्यात् ॥ ७१ ॥ वैयाकरणतां त्यक्त्वा विज्ञानान्वेषणेन४ किम् । भवतामप्रस्तुतेन५ न केवलमिहोदितम्६ ॥ ७२ ॥ विज्ञानाभासनं यावत्समीक्षायामुदाहृतम्७ । १ साध्वी व्याकरणव्युत्पत्तिसंस्कारसहिता । २ तैरेव केवलं संवृतं गोपितम् । ३ मरणक्षणे । ४ सम्यग्ज्ञानवेषणया । ५ प्रस्तावनानर्हेण । ६ ननु साधुशब्दानुशासनत्वमेव प्रधानं प्रयोजनं व्याकरणस्य व्यवस्थापितं प्रसङ्गागतं तत्र विज्ञानाभासनं व्यवस्थापितमिति कात्र हानिरिति समर्थयति न केवलमित्यादिना । ७ अनेन तेषामत्र सिद्धान्तप्रतीतिरस्तीति ध्वनितम् ।

६४ शिवदृष्टिः [ आ०-२

अर्थप्रतीतिहेतुसाधुशब्दानुशासनव्यापारमेव¹ वैयाकरणत्वं² त्यक्त्वा मोक्षप्रयोजनैः शास्त्रैर्यत्सम्यग्ज्ञानमनुसरणीयं तदन्वेषणेन भवतां करणीय- त्वेनाप्रस्तुतेन³ न किंचित्, न केवलं चात्रैव पश्यन्त्यभिधानेन सम्यग्ज्ञाना- भास एव उक्तो यावच्छब्दधातुसमीक्षायामपि विद्वद्भर्तृहरिणा॥ ‘दिक्कालादिलक्षणेन व्यापकत्वं विहन्यते। अवश्यं व्यापको यो हि सर्वदिक्षु स वर्तते॥ ‘दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तये⁴ । स्वानुभूत्येकमानाय नमः शान्ताय तेजसे॥’ १ इदानीं यदुक्तं तैरलमनेनाग्रहेण, ‘एवं व्याकरणस्यापि समुच्छेद उपैति त’ इत्येवं रूपेण। यतोऽत्र ‘साधुभिर्भाषितव्यं नासाधुभिः’ इति न ‘ब्राह्मणेन नैव म्लेच्छितवै म्लेच्छो ह वा एष यदपशब्दः’ इति श्रुतिश्च। तथा ‘आहिताग्निरपशब्दं प्रयुज्य प्रायश्चित्तीयां सारस्वतीमिष्टिं निर्वपेत्’ इति च। तथालमन्येन प्रयोजनेन सकलपुरुषार्थ- साधनोपदेशानिधेर्वेदस्य व्याकरणमर्थबोधकत्वात्प्रधानमङ्गमिवि तस्मा- त्सिद्धमेतत्। तस्माद्व्याकरणाभियोगसुभगप्रौढोक्तिभिः पण्डितैरक्लेशेन विचित्रवैदिकपदव्युत्पत्तिरासाद्यते। अन्यैरप्युपबृंहिते दृढतरमङ्गैर्र्निरुक्ता- दिभिर्वेदे स्वार्थधियं वितन्वति कुतः प्रामाण्यभङ्गो भवेत् इति तदेव विषय- भेदोत्थापनपूर्वं सत्यमित्यनुमत्याङ्गीकरोति साधुशब्दानुशासनेत्यादि। २ यतो विभज्य आक्रियन्ते शब्दरूपाणि येन तद्व्याकरणमित्यन्वर्थे तस्य नाम। तद्विदन्ति अधीयन्ते वा वैयाकरणास्ते, तेषां भावस्त्वप्रत्ययेनोक्तः, स च भावप्रत्ययो धर्मान्तरप्रतिक्षेपक इति वैयाकरणतामिति भावप्रत्ययेन ध्वनितः। ३ अप्रस्तुतेनेति प्रस्तावसदृशं हि वावयं शोभावहमिति। तच्च नोपपन्नं, यद्व्याकरणं सादुशब्दानुशासनलक्षणं तद्धि मोक्षं प्रति प्रत्युत बाधकमेव। तथा हि मोक्षो हि सर्वथा विच्छेदः। यत्पुनः ‘साधुभिर्भा- षितव्यं नासाधुभिः’ इति प्रोक्तं, तत्र कोऽसाधुः साधुर्वेति प्रकृतान्तराय- कारित्वान्न किंचित्तेन फलमित्यर्थः। ४ अत्र हि तत्रभवद्भर्तृहरेर्व्यापकत्वमेव मुख्यवृत्त्या कथनीयम्। तथा हि दिग्देशकालैर्यतोऽपरिच्छिन्नोऽपरिमितस्त- तोऽन्तो मर्यादारहितः व्यापक इत्यर्थ। तथा कालपरिच्छेदराहितत्वादन्नतो विनाशरहितो नित्य इत्यर्थः। अत्र हेतुगर्भं विशेषणं चिन्मात्रमूर्तय इति, तदेव व्यापकत्वं प्रमाणादिव्यापारनिरसनेन समर्थयति स्वानुभूतीत्यादिना,

आ०-२ ] उत्पलदेवकृतवृत्त्योपेता ६५ इति लक्षणेन१ दिग्देशकालैरवच्छेदो विशिष्यमाणता निषिद्धा। तच्चायुक्तं, परिमितदेशकालादर्थात्त्तस्यावच्छेदात्, अन्यथा२ सर्वदिक्कालादिविशेषण- भावे व्यापकत्वादि न स्यात् । व्यापको३ हि भवेत् सर्वदिक्षु अवश्यं वर्तमानः सर्वकालावच्छिन्नश्च४ नित्यः। व्यापकत्वमुपलक्षणं५ निर्दिष्टम् ॥ अथ दिक्कालविशेषावच्छेदाभावो मतः, तत्तथैव६ वक्तव्यं न सामा- न्येन न च तदपि युक्तमित्याह-- स्वानुभूतिर्वर्तमानकालेनास्य७ विभाव्यते ॥ ७३ ॥ एवं कालानवच्छेदः कथमस्योदितो हि तैः८ । यस्मिन् हि कालभागे स्थितः सांसारिकः प्रमाता तेनैव वर्तमान- कालेन भविष्यदादिना तदा तस्यावस्थानात् स्वानुभवविषयतास्योपलक्ष्यते, तत्कथं कालविशेषेणाप्यनवच्छेदः ॥ तेजस इति प्रकाशरूपत्वात् । शान्तायेति विकल्पोत्तीर्णत्वात् । तदेतदाभास- रूपतया न सम्यग्रूपमिति कथयति दिक्कालेति । १ असाधारणस्वरूपकथनं लक्षणम्। २ अयं भावः-यदि भवद्भिरत्र दिक्कालाकारविशेषणत्वेन तस्य विशेष्यस्य तदभावसाधनत्वमिष्टं, न तैरयं विशेष्यो भवतीत्येवं प्रकारं तर्हि परिमितादेव तत्सिद्धयति । न च तदिष्टम्, अथ किमिति परिमिता- देवेत्युच्यते । किमिति न सर्वस्मादित्युक्तो बाधमाहान्यथेत्यादि । ३ यदि हि भवतां सर्वस्माद्विशेष्यमाणत्वमिष्टं स्यात्तत्किमर्थं दिक्कालादिविशेषणत्वं निषिद्धम् । अनया हि भवदुक्तया तेऽपि किंचित्स्व- रूपका इत्युक्तं संभवत्येवेत्याह व्यापको हीत्यादि । ४ ननु च यथा भर्तृहरि- श्लोकेऽनन्त इदिशब्देन व्यापकत्वं नित्यत्वं चोक्तं तथैवात्रापि समर्थवाक्ये कथनीयमिति कथमुक्तम्- 'अवश्यं व्यापको यो हि सर्वदिक्षु स वर्तते ।' इति । ५ अत्र हि दिग्व्यापकत्वमेवोक्तं भवेदित्याशंकागर्भीकारेणाहोप- लक्षणं निर्दिष्टम् । तदाह सर्वकालावच्छिन्नश्च नित्य इति । ६ तत्तथा व्यापकत्वनित्यत्वे सिद्धे । तथैव विशेषतयैव । ७ न च भवद्भिरैतादृगेवा- नेनेष्टं येन दिक्कालविशेषावच्छेद एवेति कथयति स्वानुभूतिरिति । ८ यदि हि सर्वकालावच्छिन्नत्वेनैव भवतां कालानवच्छेद इष्टः स्यात्तत्स्वा- नुभूतीति वर्तमानकालानुभवविषयता कथमस्योच्येत ततश्च नैतद्भवता- मिष्टमिति सिद्धम् । ५

६६ शिवदृष्टिः [ आ०-२ अनन्तस्यानुभूतिः¹ का परिच्छेदं विनात्मनः ॥ ७४ ॥ अनन्तेऽवगमः कुत्र² तेजस्वे शान्तता कथम् । असर्वगप्रमाणं हि मूर्त्तिर्नो³ लक्ष्यते चितः ॥ ७५ ॥ धातुषट्कोपगमाद्वेदवादे⁴ देशकालयोगोऽवश्यंभावीत्यनन्तत्वं देशकालपर्यवसानमुच्येत, अतश्चापर्यवसितदेशकालस्य⁵ सानुभूतिर्न तयोः संबन्धो युक्त इत्यर्थः । तथा⁶ हि आत्मनः स्वरूपस्य परिच्छेदमेयत्तां⁷ विना अनन्ते वस्तुनि कुत्रांशेऽवगमोऽस्तु भागानामपर्यवसानात् । अनन्तता⁸- प्रतीतिस्तु परिदृष्टतावतपदार्थनिषेधपुरःसरत्वेनाग्राह्याद्यन्तकोटिदीर्घ- वस्तुमात्रावसायिनी स्फुरति, न त्वनन्तेन रूपेणापरिच्छिन्नेनावभासन- संभवः । परिसमाप्तरूपनिश्चयो हि प्रतीतिः । तेजोरूपता चेत्, निरा- भासत्वाभावात् कथं शान्तता । तत्केयमुक्तिः 'शान्ताय तेजसे' इति । उपचारे च किं प्रयोजनम् असर्वगतद्रव्यपरिमाणं मूर्तिः काठिन्यं वा न चित् भवति, तत्कथं चिन्मूर्तय इति ॥ ७५ ॥ अत्रैव शब्दनित्यत्ववादिनो रूढतां गताः । अनादिनाथ तेनैव शब्दतत्त्वेन तुल्यता ॥ ७६ ॥ अन्ये वैयाकरणा एव स्फोटादन्यदेव शब्दात्मानं नित्यमिच्छन्ति, तत्रैव रूढाः । अथ तत्रापि⁹ तेषां पश्यन्तीरूपेणानादिनिधनात्मना शब्द- १ ननु 'निश्चयेनान्यसिद्धान्तं यो न वेत्ति बुधोऽबुधः । स्वयं स संशयानोऽन्यं कथं खण्डेत स्वल्पधीः ॥' इति नयेनानिश्चितपराशयेन कथं ग्राह्यते । तथा हि दिक्कालानवच्छेदे- नानन्तत्वं देशकालविप्रकृष्टत्वेन देशकालापर्यवसानमुच्यते । तथा च देश- कालसंनिकृष्टं वस्तु अव्यापकमनित्यं चोच्यते, देशकालविप्रकृष्टं तु व्यापकमिति नित्यमिति कथ्यते ततश्च का हानिरित्यत आह अनन्तस्यानु- भूतिः केति । २ अनन्ताय तेजसे इति यदुक्तं तदपि न युक्तमित्यत आह । ३ चिन्मात्रमूर्तय इति एतदपि मूर्तिभागं विदलयति । ४ नैयायिकादिमते । ५ यदि भवद्भिरनन्तत्वमुच्यत इति शेषः । ६ युक्त इत्यर्थ इत्यन्तं युगपदेव देशकालापर्यवसानत्वेन स्फुटमेवानन्त्यमिति निरस्यति । ७ देशेन कालेन च । ८ कुत इति समर्थयति । नित्यशब्दतत्त्वे । ९ तेषां नित्यशब्दात्म- तत्त्ववादिनाम् ।

आ०-२ ] उत्पलदेवकृतवृत्त्योपेता ६७ तत्त्वेन तुल्या प्रमाणाभावादिदूषणता स्फोटात्मना¹ वा ॥ ७६ ॥ तदाह— आप्तानामभाषितत्वे विशेषो नास्ति शब्दगः । नित्यत्वे शब्दतत्त्वस्य व्यङ्ग्यत्वं ध्वनिभिर्न च ॥ ७७ ॥ व्योमवच्चेन्न तुल्यत्वं सदा व्योम्न्यनुमेयता । अनाप्तभाषितस्यापि नित्यत्वाविशेषात् तुल्यप्रमाणता² स्यात् । न³ च नित्यस्य ध्वनिभिः कदाचिद्व्यङ्ग्यत्वं युक्तं नित्यमेकरूपत्वेन व्यक्ताव्यक्ततायोगात् । अथ यथा नित्यमेकमपि चाकाशं ध्वनिभि- र्व्यज्यते घटाकाशादि वा घटादिभिः तथा शब्दोऽपीति । तन्न⁴ तुल्यत्व- मत्र, यतः सदा व्योम्नि शब्दगुणादिनानुमेयता न तु प्रत्यक्षाख्या व्यक्तिः । भवत्पक्षे⁵ न किं न्याय एष आयाति चेच्छिवे ॥ ७८ ॥ तथा रूपानुरूपत्वात्प्रसूतेः शिवरूपतः⁶ । सत्यत्वाच्च न तुल्य⁷त्वमतोऽस्मात्प्रविरम्यताम्⁸ ॥ ७९ ॥ १ तुल्येति संबन्धः । तत्तुल्यत्वमेवाह आप्तेति । २ तथा चाव्यवस्था न चेष्टेति भावः । ३ ननु च नित्यत्वेऽपि शब्दतत्त्वस्याप्ता- नाप्तभाषितव्यवस्था सिद्धयत्येव, नित्यत्वेऽपि ध्वनिभिरेव तस्य व्यङ्ग्य- त्वादाप्तध्वनिव्यंग्यत्वे सत्यता, अनाप्तध्वनिव्यंग्यत्वेऽसत्यतेति । तथा च न कश्चिद्दोष इत्यत आह न चेत्यादि । ४ तन्नेति न शब्दः काकाक्षि- वद्योज्यः । तन्नेति भग्नद्वचनमयुक्तमित्यर्थः । न हि तुल्यमत्रेति योज्यम् । ५ ननु च ‘अचिन्त्याः खलु ये भावा न तांस्तर्केषु योजयेत्’ इत्याप्तोक्ति- रेवैतादृग्विषयेऽनुमन्तव्या कोऽत्र निर्बन्धो ‘यद्याभासान्’ इत्यादि । तथा चाप्तोक्तत्वान्मौनमेवात्र शरणम् । नहि अचिन्त्येऽपि तर्कोद्युक्तस्य कदा- चिदपि सत्यार्थपरिनिष्ठितिः स्यात् । अथ चेत्तर्क एव शरणं, तर्हि किमिति भवद्भिर्वयमेव प्रत्याक्षिप्ताः । भवतामप्यत्र का युक्तिरित्याशंकापूर्वं स्वमतो- त्कर्षं प्रथयति भवत्पक्ष इत्यादिना । न किंशब्दः शिरश्चालने, न किमायाति आयात्येवेत्यर्थः । इति शब्दस्याध्याहारोऽत्र कर्तव्यः । ६ ‘रूपप्रसाररसतो गर्हितत्वमयुक्तिमत्’ इति प्रथमाह्निक एवोक्तत्वादित्यर्थः । ७ भवन्मतेन । ८ भवद्भिरत्र दूषणारोपणादिनेत्यर्थः । अथ वास्मात्प्रविरम्यतामिति

६८ शिवदृष्टिः [ आ०-२ शिवाद्वैतपक्षेऽपि भवतः शब्द इव शिवेऽपि सत्यत्वादिदूषणन्यायः किं नापततीति चेत् । तन्न, जगदपि ततः शिवरूपात् शिवरूपानुरूप्येण तथा सर्वशक्तियोगात् यदा प्रसूतं तदा शिवरूपमेव, अत एव च सत्यरूपम्, तथा च वक्ष्यते विस्तरतः । तन्न तुल्यत्वं शब्दाद्वैतपक्षेण शिवाद्वयस्येत्ये- तद्दूषणापादनात् विरम्यताम् ॥ ७६ ॥ तदेतत्प्रासङ्गिकमुक्त्वा पश्यन्तीमेव पर्यालोचयन्नाह— अथ १ नाम्नैव पश्यन्ती स्फुटमेव जडा ततः । ज्ञानशक्तिः स्मृता भङ्ग्या स्त्रीलिङ्गव्यपदेशतः ॥ ८० ॥ अथ दर्शनार्थान्वये२ दोषात्नाममात्रेण यादृच्छिकेन३ पश्यन्ती इष्यते, स्त्रीलिङ्गभङ्ग्या४ च ब्रह्मसम्बन्धिज्ञानशक्तिरूपा सा मता, ततो विरुद्धमेतत्५ दर्शनासमन्वयात् जडतापत्तेः, जडात्मनि च ज्ञानशक्तित्त्वानु- पपत्तिरिति ॥ ८० ॥ शब्दस्य विषयाख्यस्य मिश्रत्वेनेन्द्रियस्य तु । सर्वदर्शनविज्ञानशून्यता६ पदवेदिनाम् ॥ ८१ ॥ यस्मादनादिनिधनं शब्दतत्त्वं परा हि वाक् । पश्यन्त्या वर्ण्यमानत्वे हस्ते ग्राह्यैकता पतेत् ॥ ८२ ॥ ल्यब्लोपपञ्चम्या व्याख्येयम् । अस्मादेनमाविश्य स्वयमेव भवद्भिः प्रकर्षेण सुखेन स्थीयतां, स्वमतं त्यक्तवैतमेव मतमाश्रयध्वमित्यर्थः । १ ननु कृतं भवद्दोषारोपणेन किं पश्यन्तीति कथ्यतामिति । नहि सर्वत्र यौगिकोऽर्थः संभवति । सन्ति हि डित्थादयोऽपि शब्दाः । ततश्च रूढिमहिम्नैव कुशला- दिवदत्रापि पश्यन्तीनिर्देशः । न च वक्तव्यं किमनेन तथापि पश्यन्तीशब्देन व्यपदेश्यं, स्त्रीलिङ्गनिर्देशादेव ज्ञानशक्तिरूपत्वादस्या इत्यपि निरसयन्ना- हाथेत्यादि । २ दृशिधातोः कर्मरूपस्यार्थस्यानन्वये । ३ सांकेतिकेन । ४ तथापि किं वस्तु पश्यन्त्या स्वीकृतमित्यत आह स्त्रीलिङ्गेति । ५ पश्य- न्तीति दर्शनार्थासंभवेनायौगिकत्वे स्थिते सतीत्यर्थः । अहो महदाश्चर्यं पश्यन्तीति दर्शनासम्भवाद्रूढित्वमाश्रितं तत्रैव च ज्ञानशक्तिरिति । ६ इदानीं केचिदनादिनिधनमित्यत्र शब्दतत्त्वमित्यनेन तथा वाग्रूपतामित्यत्र च परावागित्‍यनेन अनयोर्वाक्शब्दतत्त्वयोः परस्परसंश्लेष एव यः स एव

आ०-२ ] उत्पलदेवकृतवृत्त्योपेता ६६ विषयरूपत्वेन कर्मतया¹ यस्याख्या प्रतीतिः शब्दस्य तस्य इन्द्रि- यस्य च करणतया² प्रसिद्धस्य वाग्रूपस्य मिश्रत्वेनैकीकारेण यस्मात्तैरुक्त- मनादिनिधनमित्यादिकमभेदाभिधायि तयोः³, तस्मात्तेन मिश्रीकारेण सर्वदर्शनाज्ञानता⁴ पदवेदिनां वैयाकरणानां प्राप्ता। नहि क्वचिदपि सांख्यादि- दर्शनेषु व्यावहारिकयोरिन्द्रियविषययोरभेद इष्टः। एवं⁵ च वा शब्दस्य परत्त्वेनानादिनिधनत्वेनाद्वयवादादैक्येन वर्ण्यमानत्वे हस्तेऽपि⁶ कर्मेन्द्रिये तद्ग्राह्येण विषयेणैकता प्रसज्येत ॥ ८२ ॥ ब्रह्मणो ज्ञानशक्तिः⁷ पश्यन्तीत्यपि यावदिष्यते तावदन्यदपि⁸ सूक्ष्म- तरमेष्टव्यमित्याह-- पश्यन्ती हि क्रिया तस्या भागौ पूर्वापरौ स्थितौ । न तद्दृष्टव्यमित्येतद्विमर्शः ९ पूर्वतो भवेत् ॥ ८३ ॥ यथा कर्तुः कुलालादेर्घटः कार्य इतीदृशः । विमर्श इच्छारूपेण तद्वदत्रापि संस्थितम् ॥ ८४ ॥ सा स्थिता पूर्वतस्तस्य इच्छायाः प्रसरः कथम् । यावन्न सूक्ष्म उल्लासश्चितः कार्योन्मुखः स्थितः ॥ ८५ ॥ तस्या अपि सामरस्ये व्यवस्थावान् स्थितः शिवः । एवं भवप्रक्रियाया अपि सूक्ष्मतरा स्थितिः ॥ ८६ ॥ परं तत्त्वमित्याहुः। तच्च शब्दतत्त्वं विषयाख्यं कर्मरूपं ग्राह्यं वाक्तत्त्वं च करणरूपं ग्राहकं, तथा च ग्राह्यग्राहकयोरभेद एव परमार्थतत्त्वमिति तदेतत्सोपहासं प्रत्याह सर्वदर्शनेति। १ ग्राह्यतया। २ ग्राहकतया। ३ वाक्तत्त्वशब्दतत्त्वयोः। ४ सर्वशास्त्रानभिज्ञत्वं। ५ एवमित्यङ्गीकारे। ६ हस्तेनेत्युपलक्षणं तेनान्येषामपि कर्मेन्द्रियाणामेवमेव बोध्यम्। ७ ननु किमिदमुच्यते जडात्मनि ज्ञानशक्तिरिति, अत्र हि न स्वरूपद्वित्वमाश्रितं, येन स्वरूपं जडात्मकं, सा च स्वयं ज्ञानात्मिका शक्तिरिति। यैव हि ब्रह्मणो ज्ञानात्मिका शक्तिः सैव पश्यन्तीति शक्तिरूपा, न तु स्वतन्त्रा काचिदिति। तथा च न तस्यां काचनापि पूर्वोक्तदूषणावतारसरणिरित्य- भ्युपगमद्वारेण स्वमतेन सिद्धान्तयति। ८ उन्मीलितमायुष्मतो विवेकचक्षुषा न कारणमत्र विद्मो येन न पूर्णं विकसतीति भावत्वेनाह तावदित्यादि। ९ न शब्दोऽत्र शीर्षचालनन्यायेनाभ्युपगमेन द्रष्टव्यं द्रष्टव्यमेवेत्यर्थः।

७० शिवदृष्टि: [ आ०-२ स्थिता सा न पुनः सत्या वाचो वायुगमात्मनः । इष्यते ब्रह्मरूपत्वं¹ घटादेरपि कथ्यताम् ॥ ८७ ॥ पश्यन्ती हि दर्शनक्रियात्मिका पूर्वापरीभूतावयवा, पूर्वं² चैतद्- द्रष्टव्यमिति विमर्शः कुलालादेरिव घटादिकरणेऽवश्यमिच्छात्मकः स्यात्, तद्वदत्रापि³ सर्वमेतत्स्थितम् । एवं चेच्छा दर्शनक्रियायाः पूर्वा स्थिता, तस्याश्चेच्छाया अपि चित्तत्वसंबन्धिसूक्ष्मतरोल्लासमिष्टज्ञेयकार्योन्मुख्य- लक्षणं विना प्रागुक्तन्यायात् कथं प्रसरः, तस्या अपि चित्तो निवृत्यो- न्मुख्येच्छाज्ञानक्रियाक्रमव्यवस्थाया यत्सामरस्यमेकीभावः समावेशविषय- स्तत्र व्यवस्थावान् व्यवस्थाश्रयोऽक्रमः शिवभट्टारकः स्थित इति । एवं ज्ञानशक्तिताभिप्रायेणापि पश्यन्त्या भवलक्षणां प्रक्रियां प्रति सूक्ष्मतरा- न्यापि पररूपा स्थितिरस्ति, ततः साप्यनुमन्तव्या न तु वायुगमात्मिकाया वाचः सत्यास्तस्या ब्रह्मरूपत्वमेष्टव्यम् । एवमिष्यमाणे⁴ भूतत्वाविशेषात् घटादेरप्येवमुच्यताम् ॥ ८७ ॥ यथा⁵ सर्वपदार्थानां भगवच्छिवरूपता । तद्वद्वागिन्द्रियस्यापि न पुनः सा परा दशा⁶ ॥ ८८ ॥ कण्ठादौ वदने वायोर्व्यापारो वाग्रुतस्य सा । करणं, नादरूपादिशब्दस्यास्ति शिवात्मता ॥ ८९ ॥ तस्यापि कथिता पञ्चतत्त्वदीक्षाविधौ क्वचित् । न वाच इष्यते तद्वत्तस्मात्सर्वं शिवात्मकम् ॥ ९० ॥ यद्यपि सर्वार्थानां ज्ञानगोचराणां चिदन्तःप्रवेशात् चिल्लक्षण- परमेश्वररूपता परमार्थतो यथा तथा वागिन्द्रियस्यापि ज्ञेयसर्वार्थान्त- १ यदि च सामान्यतयास्या वाचस्तर्हि घटादेरपि तथा प्रकल्प्यताम् । २ तस्याः क्रियायाः । ३ पश्यन्तीविचारे । ४ तस्या ब्रह्मत्वे । ५ ननु च सत्यमेवैतद्घटादेरपि कथ्यतामिति यत्सर्वार्थानां ज्ञानगोचरत्वाच्चिदन्तः- प्रवेशाच्चिन्मयत्वे परिपूर्णमखण्डमेव परमेश्वरत्वमिति, तच्च साम्येऽपि वाच इयान्विशेषः सत्त्वादेर्यदग्राह्यत्वमिति, सर्वार्थान्तर्भावस्तु सर्वत्र समान एवेति बुद्ध्याद्यग्राह्यत्वविशेषेण तस्या एव ब्रह्मत्वमित्याशंक्याह यथेत्यादि । ६ ‘न पुनः सा परा दशा’ इत्यनेन तस्या अन्येभ्यो विशेषे सत्यपीति ध्वनितम् ।

आ०-२ ] उत्पलदेवकृतवृत्त्योपेता ७१ र्भावादज्ञेयत्वेऽसत्त्वादेः, तथापि वागिन्द्रियदशापरा न भवति, माया- शक्त्या शिवाभेदाख्यात्या तदुत्थानात्। तथा हि कण्ठताल्वादौ वद- नैकदेशे वायोर्योऽभिघातव्यापारः शब्दाविर्भावहेतू रुतं नाम तस्य सा करणम्, एषा च सर्वैव भेदमय्यपरावस्था। अथ नादरूपस्य स्थूलस्य परस्य च शब्दस्यास्ति मन्त्रात्मनः परमशिवात्मता तदिष्टा कथिता पञ्चतत्त्वदीक्षाविधौ दीक्षाशास्त्रे न पुनरेवं वाच इन्द्रियरूपायाः, पर- भावस्तन्मयत्वं वा जगतो युक्तम्, अतः सर्वं शिवात्मकमेवोपपन्नमिति शिवम् ॥ ६० ॥ इति श्रीमदुत्पलदेवपादकृतौ श्रीशिवदृष्टिवृत्तौ द्वितीयमाह्निकम् ॥

अथ तृतीयमाह्निकम् अद्वयवादः स्थितः१, पश्यन्तीविचारादनन्तरं स्वयूथ्यानद्वयवादिनः२ प्रतीदानीमारम्भः३ । तथा च तैरूक्तम्— ‘यस्या निरुपाधिज्योतीरूपायाः शिवसंज्ञया । व्यपदेशः परां तां त्वामम्बां नित्यमुपास्महे ॥’ इति । तत्राह— अथ४ शक्तेः परावस्था यैर्भक्त्या परिगीयते । युक्त्या प्रकाशितो देवस्ततः५ शक्तिदशा यतः ॥ १ ॥ लिङ्गविशेषान्यथानुपपत्त्या६ शक्तित्वेनैवाभिमतस्यार्थस्य परा- वस्थारूपाभिधानं भक्तिरेव ततः परस्य शक्तिमतोऽभावात् शक्तिमद- भिन्ना हि तत उद्धृत्यापि प्रयोजनवशान्निर्दिश्यमाना तत्पारतन्त्र्येण७ १ स्वसिद्धान्तेन निश्चयेन दृढीकृतः । २ स्वसमानजातीन् । ३ न तु निराकरणमित्यर्थः । ४ अयं भावः--शक्तिरिति पराधीन- त्वादस्याः स्त्रीलिङ्गस्य पुंल्लिङ्गविशेषरूपत्वाच्च सिद्ध एव स्वयं तस्यास्तदधीनत्वे यत्परत्वाभिधानं सा केवलं तत्तत्त्वोत्कर्षाख्यापिका भक्तिरेव । भक्तिस्तत्र प्रेमातिशयः रचना च । रचनया तैस्तदौत्कर्ष्य- प्रख्यापनेन शक्तिमत्प्राधान्यमेव सूचितमित्यर्थः । ननु च यदि भक्तिरेव तद्व्यपदेशः परंतु शक्तिमानेवोत्कर्षेण ख्यापितोऽलं तर्हि तान्प्रति प्रत्या- क्षेपकरणेनेत्यत आह युक्त्येति । युक्तिर्हि कांश्चित्सूक्ष्मदृष्टीन्प्रत्येवोपर्युक्ते इति तदुक्तिर्भूषणमेव सर्वोपकारकत्वाभावादित्यर्थः । ५ न च तेषां शक्तिरेव स्वातन्त्र्येण मतेति मन्तव्यमित्याह तत इत्यादि । ६ सामान्यं पुंलिङ्गं विनेत्यर्थः । ७ ननु च यदि शक्तिमतस्तत्स्वातन्त्र्यरुरूपा शक्तिः— ‘न वह्नेर्वाहिका शक्तिः पृथङ्निर्द्देष्टुमर्हति ।’ इति न्यायेन युक्तिबोधनार्थं भक्त्या वाभिधानं कथं संभवतीत्यत आह

आ०-३ ] उत्पलदेवकृतवृत्त्योपेता ७३ तदनन्तरं निर्देशमर्हति । यतस्तैरेव१ ततः परावस्थातोऽनन्तरं शक्तिदशा किंचिदुच्छूनतेत्यादिनोक्ता ततो यैः शक्तेः परत्वं गीयते तैस्तया धर्म- भूतया धर्मी स्वाश्रयः स्वतन्त्रो वास्तवाभेदयुक्त्या देवः शिवः प्रकाशितः । अनिमित्तमेव२ तु विशेषात्मनि स्त्रीलिङ्गे किमित्यभिनिवेशः, पुंस्त्वं३ हि स्त्रीपुंसयोः सामान्यं लिङ्गं, नपुंसकं४ पुनः शक्ततापर्यायरूपं नैवं- विधविश्वेश्वरनिर्देशावसरे युक्तोपादानमित्यभेदाभिधानार्थं शक्तितद्वतोः पुंस्त्वेनोपपत्तिः ॥ १ ॥ तथा तद्व्यपदेशश्चेद्व्यपदेशः शिवात्मकः । तथा स्त्रीलिङ्गेन परमशिवस्यैव व्यपदेशो मतश्चेत्तत्सोऽपि व्यपदेश उक्तन्यायाच्छिवशब्दात्मकः५ कार्यः । अभेदमेवाह-- न६ शिवः शक्तिरहितो न शक्तिर्व्यतिरेकिणी ॥ २ ॥ शिवः शक्तस्तथा भावानिच्छया कर्तुमीदृशान् । शक्तिशक्तिमतोर्भेदः७ शैवे जातु न वर्ण्यते ॥ ३ ॥ शक्त्या रहितः शून्यो न यद्यपि शिवस्तथापि कथमैक्यं तदाह न शक्तिव्यतिरेकिणीति । तथाहि तेन तेनैव वैचित्र्येण ईदृशानति-


तत्पारतन्त्र्येणेति । तस्याः स्वयं स्वातन्त्र्यं व्याघातविरोधादिदोषप्रसङ्गा- दित्यर्थः । १ न च तेषामेतदनभिप्रेतं येन तदुक्तिरन्यवादिवत्प्रतिक्षेप्यपक्षे ; व्यवतिष्ठेतेत्याह यतस्तैरित । २ विशेषेण तत्पक्षं व्यवस्थापयति अनिमित्त- मित्यादिना । ३ का हानिरत्रेत्याह पुंस्त्वं हीति । ४ नन्वत्र यदि स्त्रीलिङ्गव्यपदेशे विशेषरूपत्वादोष आशंक्यते तर्हि पुंलिङ्गेऽपि शक्ति- मत्स्वरूपप्रख्यापके दोष आपतत्येव स्थूलदृशामिति निर्दोषं नपुंसकलिङ्गमेव गृह्यतां येन शक्तिरिति स्वातन्त्र्यं नपुंसकलिङ्गेनैव तन्निर्देश्टुमर्हतीत्यत आह नपुंसकमिति । ५ पुंल्लिङ्गं सामान्यमिति न्यायात् । ६ न चानयोः परस्परं भेदो युक्तः येन स्त्रीलिङ्गव्यपदेशोऽप्युपपत्स्यत इति स्वमतेन सिद्धान्तयति । ७ शैव इति प्रामाणिकत्वकथनार्थं, तेन च तेषामपि तद्व्यवस्थितिरेव दर्शिता नान्यदर्शनस्थितिरत एव वृत्तिकारेण स्वयूथ्यानिति कथितम् ।

७४ शिवदृष्टिः [ आ०-३ दुष्करानिच्छामात्रेण शक्तः शिवः कर्तुमिति व्यवहारेऽप्यभेदः, शक्तितद्वतो- र्भेदाख्यानुपपद्यमानत्वात् शैवे न कदाचिदवान्तरादिभेदेष्वपि वर्ण्यते यथा- न्यत्राप्रामाणिकदर्शनेषु ॥ ३ ॥ तदेव विचारयन्नाह— शक्तेरेव स्वतन्त्रत्वात्कर्तुं भावान्विचित्रकान् । सामर्थ्यं यदि कल्प्येत तन्नामानन्त्यमेव वा ॥ ४ ॥ भेदे १ हि शक्तिः किं कार्यं करोत्युत च शक्तिमान् । तत्र यदि शक्तिस्तत्किमसौ २ शक्ता करोति अथाशक्ता, अशक्तस्य करणेऽतिप्रसङ्गः ३, शक्तत्वे ४ तस्याः शक्त्यन्तरयोगे शक्तचाश्रयस्य शिव- स्यैव ५ शक्तिरिति नाम स्यात् । अथ ६ शक्त्यैव सत्या भिन्नशक्तियोगस्तत्सैव भिन्नशक्तिः कार्यं कुर्यात्, कथं वा कुर्यादशक्ता, शक्तत्वे शक्त्यन्तरकल्पनेना- नवस्था स्यात् आनन्त्यापत्तेः ॥ १ अभेदेन व्यवस्थाप्य भेदं तयोः खण्डयितुमाह भेदे इति । २ ननु सत्यमेतत्— शक्तिशक्तिमतोर्भेदः शैवे जातु न वर्ण्यते ।' इति, तथापि यदेव शक्तिमतः शक्तित्वं नाम स्वातन्त्र्यं तेनैव तस्य शक्तिमतोऽपि स्वरूपलाभेऽपि शक्तिप्रसर इत्यलं शक्तिमत्स्वरूपविस्त्रम्भेण । येनोक्तं— 'तथा तद्व्यपदेशश्चैद्व्यपदेशः शिवात्मकः ।' इत्यादि, तत्र पृच्छति तत्किमसौ शक्तेति । ३ शून्यादपि सर्वभावोत्पत्तिः स्यात् । अनिष्टापत्तिः प्रसङ्गः । ४ तदेव शक्तत्वं यत्स्वात्मनि शक्त्य- विच्छेदः, शक्तिसमवायं विना शक्तत्वस्यैवानिर्वाहात् । ५ यदि च शक्ति- योगः शक्तेस्तर्हि फलितं ममैव मनोरथकल्पलतेत्याह शिवस्यैव शक्ति- रिति नाम स्यादिति । ६ अथेदानीमभेदपक्षे न कथंचनापि शक्तिव्यपदेशो यदि शक्तिवादी भेदपक्षमनयोराश्रुणोति तत्र विवेचयितुमाह अथेत्यादिना । यदुक्तं शक्तिमतः शक्तत्वं धर्मभूतं स्वभावकल्पमेव येन शक्तिमानिति व्यपदेशः । तन्न, भिन्नैव शक्तिः शक्तिमत इति तत्रापि पृच्छति तद्भिन्न- शक्तिरिति । अत्रापि पूर्ववन्न्यायः, अशक्तस्य करणेऽतिप्रसङ्गः शक्तत्वे पुनस्तस्याप्यन्यत्तस्याप्यन्यदित्यानन्त्यापत्त्यानवस्थाप्रसङ्ग इति ।

आ०-३ ] उत्पलदेवकृतवृत्त्योपेता ७५ किंच¹-- शक्तिमानेव शक्तिः स्याच्छिववत्करणार्थतः ॥ ५ ॥ शक्तेः³ स्वातन्त्र्यकार्यत्वाच्छिवत्वं न क्वचिद्भवेत् । शक्तिरपि शक्त्यन्तरयोगात्कुर्वती शक्तिमानेव स्यात् । करणलक्षणाद- र्थप्रवृत्तिनिमित्तात्कर्तृत्वादित्यर्थः, यथा शिवभट्टारकः⁴ । शक्तेश्च स्वतन्त्रं स्वनिबन्धनं कार्यं नान्याश्रयमिति⁵ शिवता नान्यत्र क्वचिद्भवेदिति शैवदर्शनानुपपत्तिः स्वयूथ्यानाम् ॥ मुञ्चतोऽपि निजां शक्तिं स्वातन्त्र्ये⁶ ज्ञानमापतेत् ॥ ६ ॥ १ न केवलं शक्तेः शक्त्यन्तरयोगेन शिवस्य शक्तिरिति भवदभीष्टमेव नाम निर्वहेद्येन स्ववचनविरुद्धव्याघातदोषोऽप्यापतेदित्याह किंचेत्यादिना । २ शक्तिमत्त्वं हि कर्तृत्वमुच्यते, शक्तित्वं हि करणत्वं, शक्तेश्च शक्तता- योगे स्फुटमेव तस्या एव शक्ततायाः करणत्वमेतस्याश्च तद्योगात्कर्तृत्वमिति शक्तिरपि शक्तिमद्व्यपदेशमर्हति न काचनापि शक्तिरिति स्यादिति, येन क्रियते तत् करणं इति । ३ ननु किमिदमुच्यते शक्तियोगे शिवस्यैव शक्तिरिति नाम, तथा ‘शक्तिमानेव शक्तिः स्यात्’ इति च, यतस्तदेव शक्तेः शक्तित्वं यत्स्वा- तन्त्र्येण स्वात्मन्येव स्वनिबन्धनमेव कार्यकारित्वं, तथा च कार्यत्वमपि स्वतन्त्रं तदेकाकारं नान्याश्रयमिति तदेतदपि विघटयति शक्तेरित्यादिना । ४ करणलक्षणेनार्थेन शक्त्या यथा शिवभट्टारकस्य कर्तृत्वमित्यर्थः । ५ तथा च कुतोऽयं निर्देशस्तैः कृतः— ‘शक्तिश्च शक्तिमांश्चैव पदार्थद्वयमुच्यते । शक्तयोऽस्य जगत्सर्वं शक्तिमांस्तु महेश्वरः ॥’ इति ॥ ६ ननु च न शैवदर्शनानुपपत्तिः स्वयूथ्यानां येनोक्तं ‘शिवता नान्यत्र क्वचिद्भवेत्’ इति । अस्त्येव शिवताया विषयः यावद्धि शक्तित्वसमावेशः तावत्केन शिव इति व्यपदिश्यते, तद्व्यतिरेके तु विविक्तत्वाच्छिव इति व्यपदेशः केनापह्रूयत इति विविक्तविषयत्वात्स्फुटमनयोः स्वरूपलाभोऽ- स्त्येव । तत्राह ‘स्वातन्त्र्ये ज्ञानमापतेत्’ इति । अयं भावः, यद्यत्र भवद्भि- र्विषयभेदेन व्यवस्थाप्यते तर्हि तावत् ‘शक्त्या गर्भान्तर्वर्तिन्या शक्तिगर्भं परं महः’ इति लक्षणं शिवभट्टारकस्य भवदनुरोधेन छिन्द्यात् । छिनत्तु वा नास्त्यत्र तव कोपि भरः । तथापि ‘स्वातन्त्र्ये ज्ञानमापतेत्’, स्वातन्त्र्यं हि

७६ शिवदृष्टिः [ आ०-३ शक्तिं मुञ्चतो विविक्तस्य शिवभट्टारकस्याभ्युपगमे' .... तत्त्वात्स्वा- तन्त्रचे ज्ञेयनिष्ठत्वाभावस ... ... ... माप्नोति ज्ञेया- प्रकाशनात् तच्च ... ... ... अथवा निजशक्ति- त्यागे ......... हि तस्य स्वस्वात्तन्त्रचस्य...... तथैव ज्ञानं स्यात्...... शक्ति- मतः शक्तेः पृथग्भावेन प्रतीतिरस्ति केवलमेकस्मिन्नेव यस्मिन् वस्तुनि प्रतीतेः किञ्चिद्भवति२ तत्समानं शक्तं व्यवहारसारमेवमुच्यते३ शक्ति- मानिति४ ॥ तदाह-- न५ हिमस्य पृथक् शैत्यं नाग्नेरौष्ण्यं पृथग्भवेत् । शक्तिः शक्तत्वं शक्तस्य धर्मः, न च धर्मो धर्मिणो भिद्यते तथा६ हिमवह्न्योः शीतोष्णस्पर्शौ न पृथगुपलभ्येते ॥ ६ ॥ स्वतन्त्रस्य शक्तिमतः स्वभावभूतो धर्मः स्वभाववन्तं विना न कथनार्हमिति भावः। १ अभ्युपगमे' इति प्रभृति 'ज्ञानं स्यात्' इत्यन्तं निम्नलिखितः पाठः कपुस्तके दृश्यते—नास्त्यत्र भवतो विप्रतिपत्तिसम्भावनापि केवलं स्वातन्त्र्ये शक्तिमन्तं विनापि शक्तौ स्वभावभूते धर्मे ज्ञानं स्वतः संभावनानिष्ठापत्ति- रायाति, न चेष्टा, नहि भवतां--२ आधिक्यमिव तस्याः स्पन्दस्वरूपं किंचिच्चलनात्मकत्वात् । ३ किंचिच्चलत्ताव्यवहारसारम् । ४ इदमत्र तात्पर्यम्, एकमेवेदं स्वस्वभावाख्यं शक्तिगर्भं शक्तिमत्स्वरूपं तत्रैतादृशे यत्किचित्प्रतीतेराधिक्यं यदा स्फुरति, तत्तदा शक्तिरिति भण्यते । तदा- श्रयत्वेन च तत्समानं तदेकसङ्घट्टमीहग्व्यवहारसारं चलत्तात्मकस्वरूपा- भासनविश्रान्ति सामरत एव शक्तमिति तच्छक्तिसहितं शक्तिमानिति कथ्यते, न तु शक्तिशक्तिमतोर्वस्तुतो भेदो लक्ष्यत इति । ५ नन्वस्तु शक्ति- शक्तिमतोरभेद एव तथापि यथाग्नितदौष्ण्ययोर्हिमशैत्ययोश्चभेदेऽपि औष्ण्य- शैत्याभ्यामेव व्यवहारो नाग्निना नापि हिमेन तथानयोरपि चोभेदेऽपि शक्तद्वयवाद एव युक्तियुक्तः, न शिवाद्रयवाद इत्याशङ्क्याह न हिमस्येति । अयं भावः—सत्यमेव शक्त्यैव व्यवहारदर्शनात्तद्द्वयवाद एव वक्तुं युक्त- मित्येतद्यद्यपि तथापि न धर्मिणं विना धर्मो व्यवहारशक्तः । न हि हिमाग्नी विना शैत्यौष्ण्यस्पर्शो जातुचित्संभवति तद्व्यवहारेऽपि। तथा शक्तिसंबन्धेऽपि सर्वत्र तद्व्यवहारदर्शनान्न तथा धर्मिणं व्यवधाय व्यवहारो युक्त इति शिवा- द्वयवाद एव युक्तियुक्तोऽङ्गीकर्तव्य इति । ६ यद्यपि हिमवह्न्योरत्र दृष्टान्तत्वेन