षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
इस पृष्ठ पर कोई पाठ (text) उपलब्ध नहीं है, यह एक रिक्त (blank) पृष्ठ है।
॥ श्रीकृष्णाय नमः ॥ ॥ श्रीमदाचार्यचरणकमलेभ्यो नमः ॥ ग्रन्थ--परिचय सुना जाता है कि अपनी व्रजयात्राके दरम्यान श्रीवल्लभाचार्य महाप्रभु महावनमें यमुना तटपर गोकुल ग्रामकी खोजमें परिभ्रमण कर रहे थे तब स्वयम् श्रीयमुनाने प्रकट होकर वर्तमान गोकुलका स्थल दिखलाया था. प्राचीन गोकुल ग्रामके स्थलकी पहचानके बाद श्रीमहाप्रभु वहां बिराजे और तब श्रीयमुनाके पुष्टिमार्गीय माहात्म्य या महत्त्व का गान उनके मुखसे बरवस निकलने लगा. वही षोडशग्रन्थोंमें मंगलाचरणके रूपसे योजित हुआ श्रीयमुनाष्टकस्तोत्रम् है. एक किंवदन्तीके अनुसार श्रीयमुनाष्टक वि. सं १५४९ में श्रावण शुक्ल तृतीयाके दिन श्रीगोकुलमें रचा गया था. १ जैसे श्रीगंगाके साथ दास्यभावात्मिका मर्यादाभक्तिकी एक अन्तर्धारा बहती है, वैसे ही श्रीयमुनाके साथ पुष्टिभक्तिकी अन्तर्धारा बहती है. श्रीयमुनाके साथ बहती पुष्टिभक्तिकी यह अन्तर्धारा व्यापिवैकुण्ठके नाथको छोटेसे गोकुलके नाथ बननेके लिए मार्ग तथा पुष्टिमार्गीय गरिमा प्रदान करती है. क्षयकृत् कालके प्रवाहमें बहते जीवोंको वहांसे बरबस खींचकर अपने साथ बहाती हुई यह धारा उन्हें श्रीकृष्णकी दिव्य मधुर नित्यलीलाओंतक पहुंचा देती है. श्रीवल्लभाचार्य महाप्रभुने इस यमुनाष्टक स्तोत्रमें श्रीयमुनाके आधि- भौतिक आध्यात्मिक एवम् आधिदैविक रूपोंका वर्णन करते हुए पुष्टिमार्गीय दृष्टिकोणसे श्रीयमुनाके असाधारण अष्टविध वैशिष्ट्य अथवा ऐश्वर्य का आठ श्लोकोंमें वर्णन किया है. क्रमशः एक-एक श्लोक श्रीयमुनाके एक-एक ऐश्वर्यके वर्णनार्थ कहा गया है. वे ऐश्वर्य श्रीयमुनाके ये हैं : १) श्रीयमुना पुष्टिमार्गीय अनेकविध सिद्धियोंको देनेवाली हैं. उदाहरण- तया- साक्षाद्भगवत्सेवोपयोगी देहकी प्राप्ति, भगवान्की विविध पुष्टिलीला- ओंके दर्शन कर पानेका सामर्थ्य, उन लीलाओंमें अभिव्यक्त होते रसोंको
१. दृष्टव्य श्रीनागरदास बांभणिया द्वारा लिखित- "श्रीषोडशग्रन्थनी रचना तथा श्रीमहा- प्रभुना चरित साथे संकालायेल महत्व नी तवारीखो" लेख. वैष्णववाणी अंक ४ वर्ष १९७९
अनुभव कर पानेका सामर्थ्य तथा सर्वात्मभाव आदि. ये सब पुष्टिमार्गीय सिद्धियां हैं जो श्रीयमुनाद्वारा पुष्टिजीवको प्राप्त होती हैं. २) श्रीयमुना भगवद्भावको बढ़ानेवाली हैं. देवादिविषयीणी रति या प्रीति भाव कहलाती है. पुष्टिमार्गके आराध्य देव श्रीकृष्ण ही हैं तथा श्रीयमुना पुष्टिजीवको इसी कृष्णस्नेहरूप भगवद्भावसे सम्पन्न करती हैं. ३) अपने आराध्य श्रीकृष्णके साथ सम्बन्ध जोडनेमें पुष्टिभक्तके सामने जो भी प्रतिबन्ध या विघ्न आते हैं उन्हें श्रीयमुना दूर करती हैं. इन विघ्नोंको हर कर पुष्टिभक्तको भगवदनुभव करने योग्य शुद्ध बना देती हैं. अतः पुष्टि- जगत्को ये पावन करनेवाली हैं. ४) जैसे गुणधर्म और रूप भगवान्ने पुष्टिलीलामें प्रकट किये हैं वे सभी श्रीयमुनामें भी प्रकट किये हैं. अतः श्रीयमुनासे जिसका सम्बन्ध स्थापित हुआ हो उसका परब्रह्म परमात्मा भगवान् श्रीकृष्णके साथ भी सम्बन्ध अनायास ही स्थापित हो गया समझ लेना चाहिये. ५) भगवान्के प्रिय भक्तोंमें जो भी कलिरूप दोष हों उन्हें श्रीयमुना दूर कर देती हैं. ६) रासलीलामें भगवान्के तिरोहित हो जानेपर जैसे गोपिकाओने श्रीयमुनातटपर निःसाधनताके भावसे श्रीकृष्णकी प्रतीक्षा की, वैसे ही जो भी पुष्टिजीव श्रीयमुनाके आश्रयसे भगवान्को खोजना चाहता है वह भगवान्का प्रेमपात्र बनता है तथा भगवान्को पा सकता है. यमुना-जल-पानका यह असा- धारण महत्त्व है कि पानकर्ताके देह-इन्द्रिय-आदि कालप्रवाहमें उसकी आत्माको बहाकर कभी यमालयतक नहीं पहुंचाते. किन्तु कालातीत परमा- त्माको प्रणयरशनामें बांधकर पानकर्ता भक्ततक अवश्य पहुंचा देते हैं. ७) देह इन्द्रिय प्राण अन्तःकरण एवम् आत्मा यों सभीके द्वारा भगवत्- लीला एवम् भगवत्स्वरूप की अनुभूति-इस अलौकिक सामर्थ्यको तनुनवत्व अर्थात् तनु-देहका नवीनीकरण माना गया है. श्रीयमुना पुष्टिजीवोंके देहादि- में ऐसा अलौकिक सामर्थ्य प्रकट कर देती हैं कि सहस्रों परिवत्सरसे अपने प्रभुसे बिछुड़ा हुआ जीव अपने कालजर्जरित देहेन्द्रियादिमें एक ऐसी विलक्षण शक्ति या नूतनताका अनुभव करने लग जाता है कि उसे भगवान्की रसा-
त्मिका अनुभूति सभी तरहसे होने लग जाती है. न केवल इतना अपितु नित्यलीलामें भी उसे नूतन देह मिल जाती है, श्रीयमुनाके कारण. ८) श्रीयमुनाके तटपर तथा जलमें भी श्रीकृष्णकी अनेकविध लीलायें आधिदैविक रूपमें सनातन चलती रहती हैं. श्रीयमुनामें जलक्रीडानिरत परमा- नन्दात्मक प्रभुका आनन्द ही श्रमजलकणोंके रूपमें उच्छलित हो कर श्रीयमुनाजलमें तादात्म्य प्राप्त कर लेता है. अतः श्रीयमुनाजलस्नान पुष्टि- भक्तोंमें श्रीकृष्णके साथ अंगसंगकी अनुभूतिकी सिहरन पैदा करता है. श्रीयमुनाका यह आधिदैविक स्वरूप समग्रतया लीलासामयिक पुष्टि भक्तोंकी अनुभूतिका ही विषय होता है. आंशिक रूपमें परन्तु आधुनिक पुष्टिजीवोंके लिए भी प्रतिबन्धकारी दोषोंका निवारण, स्वभावविजय, भगवद्भक्ति तथा भगवत्प्रेमभाजनता श्रीयमुनाके द्वारा सम्पादित होती हैं. अतः श्रीयमुनाकी कृपासे पुष्टिजीव पुष्टिमार्गमें प्रवेशयोग्य बनता है यह मंगल- विधान श्रीयमुनाका कार्य है, अतः इनकी स्तुतिको पुष्टिमार्गीय उपदेशमें मंगलाचरणके रूपमें योजित किया गया है. प्रस्तुत संस्करण वि. सं. १९८५ में प्रकाशित हुए संस्करणका ऑफसेट द्वारा पुनर्मुद्रित रूप है. श्रीमद्गोस्वामिकुलभूषण-विद्यानिधि-श्रीव्रजरतनलालजी महाराजकी श्रीबालकृष्ण शुद्धाद्वैत महासभा (सूरत) द्वारा यह प्रकाशित हुआ था तथा इसके सम्पादक थे श्रीचीमनलाल ह. शास्त्रीजी. श्रीयमुनाष्ट- कम्के पुनःप्रकाशनके अवसरपर इन दोनों महानुभावोंके प्रति हम हार्दिक कृतज्ञताज्ञापन प्रकट करते हैं. इति शम्.
श्रीकृष्णः। प्रास्ताविकम् । श्रीमद्गोस्वामिकुलकौस्तुभविद्वद्रत्नश्रीव्रजरत्नलालजीमहाराजचरणसंस्थापितायाः श्रीबाल- कृष्णशुद्धाद्वैतमहासदसो मुद्रणकार्ये प्रचलति, यस्मिन् षोडशग्रन्थानां मध्येऽस्माभिर्विवेकधैर्याश्र- यान्तःकरणप्रबोधबालबोधान्तास्त्रयो ग्रन्थाः प्रकाशिताश्चतुर्थं चरममिदमिदानीं श्रीयमुनाष्टकं सटीकं प्रदाय षोडशग्रन्थान् सम्पूर्णीकुर्वतां प्रमोन्दन्ते नश्चेतांसि । सुविदितमेतद्यत् षोडशग्रन्थानां यावल्लभ्यटीकासमेतं मुद्रणकार्यमन्तिमग्रन्थसेवाफलत एवारब्धं सम्प्रदायविद्भिरिस्तेलीवालामहा- शयैः, तदिदं प्रथमे श्रीयमुनाष्टके एव विश्रान्तिमर्हति । भगवदिच्छापि तथैवासीत् । येन सर्वेभ्यः प्रागेवास्य मुद्रणे समारब्धेपि गो. श्रीद्वारकेशचरणटीकाया अनुपलब्धिवशात् महान् विलम्बो- भूत् । तां टीकामन्वेष्टुमस्माभिर्बहुयतितम् । सर्वसाहाय्यवितरणपरायणैः श्रीव्रजरत्नलालचरणैरपि कोटा-काशी-नाथद्वारा-मोहमयीस्थानि पुस्तकालयानि गवेषितानि, तदानीं काशीसङ्ग्रहात् पत्रद्व- यमेवासादितमस्याः । तदपि पुष्टिकल्पतरुत्रैमासिके प्रकाशितम् । अहं तु भगवदिच्छायाः प्राब- ल्यमवधार्य तत्परायणः सन् चातकव्रतमवलम्ब्य उपाविशम् । अन्तरा षोडशग्रन्थानां साररूपः सङ्गत्यात्मकश्चैको विस्तीर्णलेखो यमुनाष्टकारम्भे देय इति आवरणभङ्गषोडशग्रन्थटीकादेर्मया उद्धृत्य सज्जीकृतः । परं यमुनाष्टकस्य महर्घं स्यादिति भयेन तदभिनिवेशं परित्यज्य तं स्वतन्त्रतयान्यत्र दास्याम इत्येवावधारितम् । एकदाकेन विदुषा श्रीयमुनाष्टकस्य प्राकट्ये को विलम्ब ? इति पृष्टोऽहं टीकानुपलब्धेरेव कारणत्वेनावोचम् । 'स्वपार्श्वे विराजते टीकेयम्'इत्य- भिधाय स श्रीद्वारकेशचरणप्रणीतां स्वहस्ताक्षरैर्लिखितां शुद्धां टीकामंददाद् इति, मया तु बहुधन्यवादाः प्रदत्ताः । श्रीयमुनाष्टकस्य मूलव्याख्यानं षष्ठश्लोकपर्यन्तं श्रीप्रभुचरणानामग्रे तदाज्ञाप्तश्रीगोकुलनाथचरणैर्विलिख्य श्रीपितृचरणेभ्यो निवेदितमिति प्राचीना आहुः । तस्य त्रीणि विवरणानि, श्रीहरिरायचरणानां श्रीपुरुषोत्तमचरणानां श्रीद्वारकेशचरणानां विवृतिटि- प्पणं विवृतिविवरणं टीकाटिप्पणमिति क्रमशोत्र प्रकाशितानि । टीकाकृतां मध्ये श्रीहरिराय- श्रीपुरुषोत्तमचरणानां चरितं बहुधा गीतं सम्प्रदायज्ञैरिति नात्र तत्पुनरुक्तिं समीहे । परं क एते श्रीद्वारकेशचरणाः प्राचीना वार्वाचीना इति शङ्कते लोकः, गो० श्रीमधुरानाथानां सूनवः श्रीद्वार- केशचरणाः सं० १८४३तमेऽब्दे प्रादुर्भूताः । स्वीयां गङ्गामातरपि ग्रन्थारम्भे प्रणमन्ति, एवं “द्वारकेशं गिरिवरं मथुरानाथसञ्ज्ञकम्” इति स्वपितृचरणान् स्मरन्ति च । तत्र श्रीद्वारकेश- चरणाः १७७४तमेऽब्दे श्रीगिरिधरचरणाः १८०३तमेऽब्दे श्रीमथुरानाथाः सं० १८२९- तमेऽब्दे प्रादुर्भूताः । तैश्चतुःश्लोकीसिद्धान्तमुक्तावलीग्रन्थानां विहिता विवृतयः । श्रीयमुना- ष्टकारम्भे षोडशग्रन्थानां सङ्गतिं कुर्वद्भिस्तैः सर्वेषामेव विवरणं कर्तुं प्रतिज्ञातम् । अत एवान्यपि विवरणानि स्युरपि, परं न प्रसिद्धानि । बालबोधविवरणस्य प्रणेतारो गो० श्रीद्वारकेशचरणास्तु प्राचीनाः सुप्रसिद्धा एव । अस्य श्रीयमुनाष्टकस्य गुर्जरानुवादः 'सूरत सीटी' मुद्रणालये सम्मुद्रितः । तस्य पुष्टिक- ल्पतरुवाचकेभ्यो वितरणं कृतम्। पुनः प्रतापमुद्रणालये सम्मुद्रितोनुवादः, पृथग् ग्रन्थरूपो यः शु० महासदसः कार्यालयेतो मूल्येनोपलभ्यते । एवं ग्रन्थान्वेषणादिविहायाससाध्यं कार्यं श्रीमदाचार्य- चरणकृपयैव सुनिष्पन्नमिति एतेषां चरणकमलेषु विनिवेद्यते । अस्य मुद्रणव्ययस्तु अधिकः सञ्जातः, परं सार्धशतमेव नगरठट्ठावासिना श्रेष्ठिना प्रदत्तम् इति मुखपृष्ठोपरि अभिधानं निवेशितं तस्य । श्रावणशुक्लैकादशी सं० १९८५ } भवदीयः चीमनशास्त्री.
श्रीकृष्णाय नमः । श्रीगोपीजनवल्लभाय नमः । श्रीमदाचार्यचरणकमलेभ्यो नमः । श्रीमद्भगवद्वदनावतारश्रीमद्वल्लभाचार्यचरणप्रणीतं श्रीयमुनाष्टकम् । मूलम्—नमामि यमुनामहं सकलसिद्धिहेतुं मुदा मुरारिपदपङ्कजस्फुरदमन्दरेणूत्कटाम् । तटस्थनवकाननप्रकटमोदपुष्पाम्बुना सुरासुरसुपूजितस्मरपितुः श्रियं बिभ्रतीम् ॥ १ ॥ कलिन्दगिरिमस्तके पतदमन्दपूरोज्ज्वला विलासगमनोल्लसत्प्रकटगण्डशैलोन्नता । सघोषगतिदन्तुरा समधिरूढदोलोत्तमा मुकुन्दरतिवर्धिनी जयति पद्मबन्धोः सुता ॥ २ ॥ भुवं भुवनपावनीमधिगतामनेकस्वनैः प्रियाभिरिव सेवितां शुकमयूरहंसादिभिः । तरङ्गभुजकङ्कणप्रकटमुक्तिकवालुका- नितम्बतटसुन्दरीं नमत कृष्णतुर्यप्रियाम् ॥ ३ ॥ अनन्तगुणभूषिते शिवविरञ्चिदेवस्तुते घनाघननिभे सदा ध्रुवपराशराभीष्टदे । विशुद्धमथुरातटे सकलगोपगोपीवृते कृपाजलधिसंश्रिते मम मनस्सुखं भावय ॥ ४ ॥ यया चरणपद्मजा मुररिपोः प्रियमभावुका समागमनतो भवत्सकलसिद्धिदा सेवताम् ।
तया सदृशतामियात्कमलजा सपत्नीव य- द्धरिप्रियकलिन्दया मनसि मे सदा स्थीयताम् ॥ ५ ॥ नमोऽस्तु यमुने सदा तव चरित्रमत्यद्भुतं न जातु यमयातना भवति ते पयःपानतः । यमोऽपि भगिनीसुतान्कथमु हन्ति दुष्टानपि प्रियो भवति सेवनात्तव हरेर्यथा गोपिकाः ॥ ६ ॥ ममाऽस्तु तव सन्निधौ तनुनवत्वमेतावता न दुर्लभतमां गतिर्मुररिपौ मुकुन्दप्रिये । अतोऽस्तु तव लालना सुरधुनी परं सङ्गमात् तवैव भुवि कीर्तिता न तु कदापि पुष्टिस्थितेः ॥७॥ स्तुतिं तव करोति कः कमलजासपत्निप्रिये हरेर्यदनुसेवया भवति सौख्यमामोक्षतः । इयं तव कथाऽधिका सकलगोपिकासङ्गम- स्मरश्रमजलाणुभिः सकलगात्रजैः सङ्गमः ॥ ८ ॥ तवाऽष्टकमिदं मुदा पठति सूरसूते सदा- समस्तदुरितक्षयो भवति वै मुकुन्दे रतिः । तया सकलसिद्धयो मुररिपुश्च सन्तुष्यति स्वभावविजयो भवेद्वदति वल्लभः श्रीहरेः ॥ ९ ॥ श्रीमद्वैश्वानरावतारश्रीमद्वल्लभाचार्यचरणविरचितं श्रीयमुनाष्टकस्तोत्रं सम्पूर्णम् ।
श्रीकृष्णाय नमः । श्रीगोपीजनवल्लभाय नमः । श्रीमदाचार्यचरणकमलेभ्यो नमः । श्रीमद्ग...दूनावतारश्रीमद्वल्लभाचार्यचरणप्रणीतं श्रीयमुनाष्टकम् । श्रीमत्प्रभुचरणविनिर्मितया विवृत्या, श्रीहरिरायचरणप्रणीतेन टिप्पणेन, श्रीपुरुषोत्तमचरणप्रणीतया श्रीप्रभुचरणविवृतिविवृत्या च समनुगतम् । मूलम्—नमामि यमुनामहं सकलसिद्धिहेतुं मुदा श्रीमत्प्रभुचरणविनिर्मिता विवृत्तिः । विश्वोद्धारार्थमेवाऽऽविर्भूतवृन्दावनप्रिया । कृपयन्तु सदा तातचरणा मयि विठ्ठले ।॥ श्रीहरिरायप्रणीतं श्रीप्रभुचरणविवृतिटिप्पणम् । श्रीकृष्णाय नमः । अथ श्रीमत्प्रभुचरणाः श्रीयमुनाष्टकविवृतिं विरचयन्तः प्रथमाचार्यवर्यस्वरूपमेतत्सजातीयधर्मवत्त्वेन निरूपयन्तः स्वास्मिंस्तत्कृतिकृतिशक्ति- सिद्धये तत्कृपां प्रार्थयन्ति विश्वोद्धारार्थमिति । प्राक्तव्यप्रयोजनकम् । अत्र विश्वपदं सर्ववाचकम् । तदपि सङ्कुचितवृत्ति । "सर्वे ब्राह्मणा भोजयितव्याः" इतिवत् । श्रीपुरुषोत्तमप्रणीता श्रीप्रभुचरणविवृतिविवृतिः । श्रीमद्वल्लभनन्दन दासेऽस्मिन् कृपय साधनैः शून्ये । श्रीयमुनाष्टकविवृतिं विवरीतुं काङ्क्षते यतः करुणां ॥ १ ॥ अथ श्रीमत्प्रभुचरणाः श्रीमदाचार्याणां स्वस्य चाऽवतारप्रयोजनं तत्र श्रीयमुनाया निर्वाहकत्वादष्टककरणं चाऽनुसन्धाय श्रीयमुनाष्टकविवृतिं विरचयिषव- स्तत्साफल्याय श्रीमदाचार्यान् प्रार्थयन्ति विश्वोद्धारार्थमिति । विश्वोद्धारार्थं
२ श्रीयमुनाष्टकम् । श्रीहरिरायप्रणीतं टिप्पणम् । तथा च, पुष्टिमार्गाङ्गीकृतानामेव जीवानामत्रोद्धार इति ज्ञेयम् । अयं च पुष्टिप्रभोः श्रीयमुनायाः श्रीमदाचार्यचरणानां च समानो धर्मः । भगवता व्रजस्थानां श्रीयमु- नया अपि प्रभुसम्बन्धसम्पादनेन प्रभुप्राकट्यकरणेन च तासामेवाऽस्मत्स्वामिभि- रपि तथाविधानामिदानीन्तनानामुद्धारात् । विशेषस्त्वेतावानेव । भगवता श्रीयमु- नया च लीलास्सृष्टिस्थानामेव तथाकरणम् । इदानीन्तनानां प्रभुपारोक्ष्येऽस्मत्प्रभु- भिरिति । एवं च सति त्रयाणां सजातीयधर्मवत्त्वे च सिद्धम् । भगवान् विरहं दत्वा भाववृद्धिं करोति हि । तथैव यमुना स्वामिस्मरणात्स्वीयदर्शनात् ॥ १ ॥ अस्मदाचार्यवर्यास्तु ब्रह्मसम्बन्धकारणात् । तापक्लेशप्रदानेन निजानां भाववर्द्धकाः ॥ २ ॥ उद्धारोऽत्र भगवदासक्तिसम्पादनेन प्रपञ्चात्पृथक्करणम् । तेन सर्वात्मभावदानमेव स इति बोध्यम् । एवकारोऽत्र प्रयोजनान्तराभावाय । एतेन मायावादखण्डनब्रह्मवा- दस्थापनकर्ममार्गप्रवर्त्तनादिकमानुषङ्गिकमिति सूचितम् । स्वरूपमाहुः—आविर्भू- तेति । आविर्भूतो व्रजजनहृदयेभ्यो लीलाकरणार्थं यो वृन्दावनप्रियः सदानन्दस्त- द्रूपास्त इत्यर्थः । यथा भगवान् लीलाप्राकट्यायैव रसात्माऽऽविर्भूतस्तथैतेऽपि श्रीभाग- वतविवृतिप्रकटीकरणेन तत्प्राकट्यार्थमेवाऽऽविर्भूता इति भावः । अथवा, वृन्दावनमेव प्रियं यासाम्, भगवद्विरहे तदर्थमपि तदपरित्यागात् । ताः स्वामिन्यः । आविर्भूताश्च तास्तथाभूताः, ता एवैत इत्यर्थः । स्वामिनीभावेन प्राकट्यदशायां सेवादिकरणा- श्रीपुरुषोत्तमप्रणीता विवृत्तिः। सदैव, सदैव तदर्थं वा, सदा तदर्थमेव वा, कृपयन्विति सम्बन्धः । एतेन स्वस्य तदुद्योगस्तदावश्यकत्वं कृपालुत्वं च बोधितम् । तथाच कृपयाऽष्टकविवृतिभ्यां तं कुर्वन्तु कारयन्तु चेति भावः । श्रीमदाचार्यावतारप्रयोजनं तु—'अर्थ तस्ये'ति श्लोकेन 'सर्वोद्धारप्रयत्नात्मे'त्यादिसन्दर्भेण च स्वयमेव ज्ञापितम् । तदत्र 'विश्वोद्धारा- र्थमेवाऽऽविर्भूते'ति पदसमभिव्याहारेण बोधितम् । स्वावतारप्रयोजनं तु स्वनाम्ना, विदा ज्ञानेन ठाः शून्यास्तान् लात्यनुगृह्णातीति तदर्थात् । पदनिरुक्तिस्तु—विदा इत्यत्र विभक्तिलोपे चर्त्वे ष्टुत्वे च कृते 'चयो द्वितीयाः शरि पौष्करसादेरि'ति वार्त्ति- कात्ष्टस्य ठत्वम् । 'पौष्करसादेर्मते शर्येव अन्येषां मते त्वन्यत्राऽपी'ति कृष्णपण्डितै- र्विस्तरेण व्याख्यानात् । यदि च नवीनमतमालम्ब्येदं नाऽऽद्रियेत तदा तु— १ भगवदास्यरूपस्य आचार्यरूपेण इति विशेषः । अ.
श्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृतिभ्यां संवलितम्। ३ श्रीहरिरायप्रणीतं टिप्पणम् । तद्भावभावनेन च तद्रूपत्वमिति भावः । वस्तुतो भावात्मा भगवान्, 'रसो वै सः' इति श्रुतेः। तदास्रूपत्वादेतेऽपि तथा। तथा श्रीममुनाऽपि द्रवीभूतरसात्मकतत्स्वरूपत्वेन । तत्र यथा भगवतीव श्रीममुनायामपि स्वामिनीभावेन स्त्रीरूपत्वं, तेन च तत्र सर्वाऽपि भगवल्लीला, भगवद्भावेन च भगवत्त्वं, विरहे भगवत्स्वरूपतद्दर्शनेन स्वामिनीसुखाय, तथाऽत्राऽपि प्राकट्यदशायां स्वामिनीभावेन सेवादिकृतौ तद्रूपत्वं, भगवद्भावेन भग- वद्रूपत्वं, विरहे तासामन्तरास्थ्यप्राकट्येन स्वरूपसम्बन्धिसुखदानायेति बोध्यम्। अत एवोक्तं श्रीवल्लभाष्टके—” यत्सादानन्ददं श्रीव्रजजननिचय' इति । यद्वा । आवि- र्भूतं स्वस्वहृदयेभ्यो बहिःप्रकटीभूतं यद्वृन्दावनं तत्प्रियं यासाम् । अन्तःस्थितावपि बहिःप्राकट्यस्यैवाऽभिलषितत्वात् । अत एव 'वृन्दावनं सखि भुवो वितनोति कीर्तिम्' (१०-२१-१०) इति ताभिर्गीतं।तथाच तादृक्तद्रूपत्वादस्मत्प्रभवोऽपि लीलाविष्करणा- भिलाषिण इति ज्ञेयम् । तातचरणा इति सम्बन्धिनिरूपणं तु पुष्टिमार्गीयाचार्य- करुणासिद्धिर्यथाकथञ्चित्सम्बन्धसिद्ध्यैव भवति न त्वन्यसाधनैरिति बोधनाय । देहेन भावतो वाऽपि सम्बन्धः फलसाधकः । पुष्टिमार्गे नाऽतिरिक्तं साधनं साधकं ततः ॥ १ ॥ नायमात्मेत्युपनिषन्निषेधति यतोऽखिलम् । नन्दादयो देहजेन प्रादुर्भावेन गोपिकाः ॥ २ ॥ मयीति तत्कृपायोग्यत्वबोधनाय । सर्वसाधनराहित्येन केवलं तदीयत्वाद् अत एवैकवचनम्, अत एव सप्तश्लोक्यां 'तनोतु निजदासस्य सौभाग्यम्'इति श्रीपुरुषोत्तम प्रणीता विवृतिः। 'पररूपं तकारो लचटवर्गेषु'—तकारः पदान्तो लचटवर्गेषु परे पररूपमापद्यते— इति कौमारसूत्रात् । आवश्यकत्वमपि विवृतेरेतेनैव ध्वनितम् । आविर्भूतवृन्दा- वनप्रिया इति । अत्र वृन्दावनस्य प्रियः, वृन्दावनं प्रियं यस्येति वा वृन्दावनप्रियः, आविर्भूतश्चाऽसौ स च आविर्भूतवृन्दावनप्रिय इति तत्पुरुषबहुव्रीह्यन्यतरगर्भः कर्म- धारयः । तथाच तदभिन्ना इत्यर्थः । अत्र भगवत्पक्षे अभेदो वास्तवः । 'वस्तुतः कृष्ण एवे'त्याद्युक्तेः । व्रजभक्तपक्षे तद्भाववत्त्वकृतसारूप्यनिबन्धनः । 'तत्सार- भूते'ति नामनिर्देशात् । तातचरणा इत्यत्र चरणपदं बहुवचनं च पूजार्थम् । 'जीवत्सु तातपादेषु', 'मुद्रे ब्रूहि सलक्ष्मणाः कुशलिनः श्रीरामपादा' इत्यादि- प्रयोगदर्शनात्, 'एकत्वं न प्रयुञ्जीत गुरावात्मनि चेश्वरे' इति वाक्याच्च 'जात्या-
१ तासामन्तरा स्वप्राकट्येनेति ग. २ तादृग्रूपत्वादिति ग.घ. ३ तन्मयत्वादिति ग-घ.
४ श्रीयमुनाष्टकम्। विविधलीलोपयोगिनीं कालिन्दीं स्तोतुकामाः श्रीगोकुलेशे यथा जीवै- र्नमनातिरिक्तं न कर्तुं शक्यं, तथा कालिन्द्यामपीत्याशयेनाऽऽदौ नमनमे- श्रीहरिरायप्रणीतं टिप्पणम् । प्रार्थना । विट्ठल इति नामग्रहणं नाम्नाऽपि तद्योग्यताद्योतनाय । ज्ञानशून्यानु- ग्राहकत्वं हि नामार्थः । तस्य चाऽऽचार्यकरुणामन्तरेणासिद्धेस्तत्कृपयैव सामर्थ्य- रूपया तादृशजनानुग्राहकत्वसिद्धिः । तदर्थमाचार्यचरणानामेव प्रभुणाऽऽविर्भावित- त्वात् । अस्मिन्मार्गे कृपैव साधनं फलं चेति बोधनाय कृपयन्वित्यभिहितम् । इदं साधनफलरूपत्वञ्च 'कृपयायुक्तस्य तु यथा सिद्धयेदि'ति 'कृपानन्दः सुदुर्लभ' इति निबन्धतिरोधलक्षणग्रन्थीयवाक्याभ्यामवमन्तव्यम् । एवमेकेन पद्येन प्रभुभिः स्वाभीष्टप्रार्थनाप्रसङ्गेन निजाचार्यस्वरूपं निरूपितम् । विविधलीलोपयोगिनीमिति । आचार्यचरणानां हि प्रभुलीलासम्बन्धो- ऽभिलषितः । अत एवाऽग्रे तनुनवत्वप्रार्थनम् । स च तादृक्तत्सम्बन्धिपरितोषणेन भवति । तच्च यथास्थितरूपनिरूपणेन स्तुत्येति श्रीयमुनाया लीलासम्बन्धित्वबोध- नाय विविधलीलोपयोगिनीमित्युक्तम् । विविधाः स्वरूपगुणभेदेन सर्वात्मभाव- कामभावादिभेदेन^१ शास्त्रीयाशास्त्रीयप्रकाराभ्यां नानाप्रकारा या भगवतः स्वामि- नीभिः सह लीलास्तासु अलौकिकशरीरसम्पादकत्वेन प्रभुसम्बन्धसम्पादनेन भा- वजनकत्वादिश्चि^२ तथेत्यर्थः । कालिन्दीमिति । यद्यपि यमुनामिति वाच्यं तद्भिन्नत्वादस्याः, तथापि कालिन्दीमूलरूपत्वं तस्यां बोधयितुं भगवति 'देव- कीजठरभूरि'तिवाक्यात् 'देवकीसुतपदाम्बुजे'तिवाक्याच्च देवकीसुतत्वोक्ति- वदत्राऽपि कालिन्दीत्वोक्तिरितिबोध्यम् । किञ्च । प्रभुसम्बन्धप्रतिबन्धकदोषनि- श्रीपुरुषोत्तमप्रणीता विवृतिः। ख्यायामेकस्मिन्बहुवचनमन्यतरस्यामि'ति सूत्रे 'जात्याख्यायामि'ति योगं विभज्य पूजायामेकत्वे बहुवचनं प्रयुक्तमित्यदोषः । एवं कृपाप्रार्थनयाऽऽर्थिकनमनात्मकं मङ्गलं विधाय विवक्षितोद्धारस्य भजनानन्दावाप्तिरूपत्वात्तत्र च भक्तिमत्कृतस्य दैन्यस्यैव साधनत्वात्तद्धृदि कृत्वा भक्तिस्तत्प्रतिबन्धकनिवृत्तिः तत्तदुपयोगिपरिकर- सम्पत्तिश्चाऽर्थज्ञानपूर्वकाष्टकपाठेन भविष्यतीति ज्ञापनाय स्तोतव्यायाः श्रीकालिन्द्याः स्वरूपमुपकारकत्वं कृपावत्त्वं च बोधयन्त एवाऽऽद्यश्लोकमवतारयन्ति विविधे- त्यादि । अत्र विविधलीलोपयोगिनीमित्यनेन हेतुगर्भेण विशेषणेन स्तुतिप्रयोजकं १ भेदेन चेति ख. २ अश्चामिति ख.
श्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृतिभ्यां संवलितम् । ५ वाऽऽहुर्नमामीति । भगवताऽष्टविधैश्वर्यं कालिन्द्यै दत्तमिति ज्ञाप- श्रीहरिरायप्रणीतं टिप्पणम् । वृत्तये वा तथोक्तिः । कलिं दोषं द्यति खण्डयतीति कलिन्दस्तस्याऽपत्यमिति तादृग्धर्मवत्त्वेन भक्तप्रतिबन्धनिवर्त्तकत्वात् । अत एवाऽग्रे 'हरिप्रियकलिन्दये'त्यत्र तथैव व्याख्यातं प्रभुभिः । अनेन कालिन्दीपदस्याऽस्यां न धर्मवाचकत्वेन नामत्वं किन्तु धर्मविशिष्टतद्वाचकत्वेन विशेषणत्वमिति सूचितम् । स्तोतुकामा इति काम एव पूर्वं निरूपितः। अग्रे तु स्वरूपमाहात्म्यस्फूर्त्या स्तुतिकरणमशक्यमिति 'स्तुतिं तव करोति कः' इत्यनेन निरूपणीयमिति भावः । श्रीगोकुलेश इति । पुष्टिमा- र्गीयो लोकवेदाप्रसिद्धः पुरुषोत्तम एतत्पदेनोक्तः । तत्र लीलासृष्टिप्रवेशमन्तरा गम- नाभावेन साक्षात्कारासम्भवात्परोक्षास्थितैर्नमनमेव स्वदैन्याविष्कृतये कार्यं यथा, तथा लीलासृष्टिप्रवेशमन्तराऽत्राऽपीति भावः । अत एवाऽऽचार्यवर्यैः-'नमो नमस्ते- ऽस्त्वृषभाय सात्वताम्'ति द्वितीयस्कन्धीयपद्यविवृतौ 'गमनाभावान्नमनाधिकार' इत्यभिहितम् । आदाविति । अग्रे तु 'मम मनः सुखं भावय' 'ममाऽस्तु तव सन्निधौ तनुनवत्वमि'त्यादि प्रार्थनीयमिति भावः। नमनमेवेत्येवकारः पूर्वमग्रिमप्रार्थनीयास्फू- र्त्या तदतिरिक्तव्यवच्छेदार्थः । अष्टविधैश्वर्यमिति । भगवता दत्तमिति । अत्राऽयं भावः। भगवान् हि लोके स्वस्य रसात्मकं रूपं तादृशीं लीलां च प्रकटयितुं प्रादुर्भूय सर्वात्मभाववतीषु तथा लीलां चकार। तत्र तदधीनत्वमङ्गीकृत्य सर्वाऽपि कृतिस्तद- तिरिक्तास्फूर्तिश्च । अन्यथा रसात्मकत्वं न स्यात् । एवं सति सर्वमेतदैश्वर्यविरोधीति लीलासृष्टौ तत्कार्यार्थं लीलोपयोगिन्यां स्वामिनीभगवत्सम्बन्धिन्यां श्रीयमुनायां तत्स्थापितवानिति भगवता दत्तमित्युक्तम् । स्वयं तु रसात्मकत्वेन तदधीनस्तदतिरि- श्रीपुरुषोत्तमप्रणीता विवृतिः । रूपमुक्तम् । अनेन स्तोत्रेण स्तुत्या प्रसन्ना स्तोतॄणां लीलासम्बन्धं कारयिष्यतीति च ध्वनितम् । श्रीगोकुलेशपदेन 'अन्व्हापृतं निशि शयानम्'ति वाक्योक्तं निःसाधनफलात्मकं 'तस्मान्मच्छरणं गोष्ठम्'त्याद्युक्तं दीनबन्धुत्वं च बोधितम् । न कर्तुं शक्यमित्यनेन साधनान्तराणां फलानुपधायकत्वम् । अतिदेशेन तद्धर्मव- त्त्वम् । नमनपदेन कायादित्रयव्यापारात्मकमात्रं नमनं सङ्गृह्यतेऽतो न चोद्यावसरः । आदौ नमनोक्तेरयमेवाऽऽशय इत्यत्र गमकमाहुः-भगवतेत्यादि । अन्यथा श्लोकस- १ धर्मवाचकत्वेनेति ख-ङ. २ पूर्वनिरूपित इति ग-घ. ३ स्तुतिकरणमप्यशक्यमिति क-ख-घ-ङ. ४ परोक्षस्थितैर्जीवैरिति च. ५ भा. स्कं. २-४-१४.
६ श्रीयमुनाष्टकम् । मुरारिपदपङ्कजस्फुरदमन्दरेणूत्कटाम् । नायाष्टभिः श्लोकैः स्तुवन्ति । साक्षाद्भगवत्सेवोपयोगिदेहा सितलीला- श्रीहरिरायप्रणीतं टिप्पणम् । क्तस्फूर्तिरहितश्चेति। तच्चैश्वर्यमष्टविधं पुष्टिमार्गीयम् । तथाहि। (१) सकलसिद्धिहेतुत्वं, (२) भगवद्भाववर्द्धकत्वं, (३) भगवत्सम्बन्धप्रतिबन्धनिरारकरणेन तदनुभवयोग्य- ताहेतुशुद्धिसम्पादकत्वरूपं भुवनपावनीत्वं, (४) भगवत्समानधर्मवत्त्वादनायासेन तत्सम्बन्धसम्पादकत्वं, (५) भगवत्प्रियकलिनिवारकत्वं, (६) भगवदीयोत्कर्षाधा- यकत्वं, (७) भगवत्प्रियत्वसम्पादकत्वं (८) तनुमवत्वसाधकत्वं चेति । इदं च लीलासृष्टिस्थेष्वेव ज्ञेयम् । तत्रैव तदधिकारात् । आधुनिकानां तु तदर्थप्रकटिततदा- स्वरूपादेव सर्वमिति विमर्शः २ । सिद्धिरूपं विवृण्वन्तीतरावैलक्षण्याय सिद्धान्तर- भ्रमन्निवारणाय चै—साक्षादित्यादिना । स्वरूपादिषु परम्परासेवने तु नाऽलौ- किकं देहमपेक्ष्यते । किन्तु निवेदनाख्यसंस्कारसंस्कृतं लौकिकमेव । तत्र भगवतो- ऽपि सावरणत्वेन जीवस्य साक्षात्स्पर्शाभावात् । लीलाप्रवेशे तु साक्षात्स्पर्शाय तद- पेक्षेति साक्षात्पदमुक्तम् । लीलावलोकनमाप सिद्धिश्चैव । यथा योगधर्मेण योगि- नामतीन्द्रियपदार्थदर्शनसिद्धिरस्तथा श्रीमयुनासेवनधर्मेणाऽपि गुणातीतप्रमुलीलादर्श- नसिद्धिरिति भावः। तथा तद्रसानुभवश्च लीलोपयोग्यिन्योभयसम्बन्धिन्या मध्यस्थयैव भवतीति तदनुभवरूपा सिद्धिरप्येतत्सेवनेन भवतीत्यर्थः। सर्वात्मभावसिद्धिरपि भगव- त्स्वरूपत्वाद् भगवतेव तद्धृदयग्रहणेन वशीकरणाद्भवतीति तत्सेवनाधीनैवेत्यर्थः । श्रीपुरुषोत्तमप्रणीता विवृतिः । ङ्ख्याऽत्र भगवत्साम्यं न बोधयेयुरतस्तथेत्यर्थः । सङ्ख्यायाः प्रयोजनवत्त्वं जातेष्ट्य- धिकरणे सिद्धम् । ऐश्वर्यदाने गमकमाद्यविशेषणमेवेत्याशयेनाऽऽध्यात्मिकाधिभौतिक- व्यवच्छेदाय च तदैश्वर्यदेयं विवृण्वन्ति साक्षादित्यादि । अत्र च यदीश्वरा न स्यादुक्तसिद्धिर्निमित्तभूता न स्यादिति कार्यलिङ्गकानुमानगर्भेण तर्केण तत्सत्ता साधिता । सिद्धिविवरणेन चैश्वर्यमत्र नैकादशस्कन्धोक्ताणिमादिरूपं विवक्षितम् , किन्त्वेतत्स्तोत्रोक्तं भक्तिमार्गीयसामर्थ्यविशेषरूपम् । अणिमादिमतामपि सनका- दीनामुक्तसिद्धिदानादर्शनेन तत्र तदभावनिश्चयात् । तदप्यैश्वर्यं विवृतं श्रीहरि- रायैः । तथाहि उक्तसकलसिद्धिहेतुत्वमेकम् । भगवद्रतिवर्द्धकत्वं द्वितीयम् । १ सर्वत्र मूर्धन्यान्त एव पाठ उपलब्धः ष श्ति स एव पूर्वं स्वीकृतः अस्माभिस्तु श इति लभ्यते । भ. २ सिद्धान्तन्तरेति ग-घ. ३ निराकरणाद्येति ङ. ४ चेति नास्ति. ङ.
श्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृतिभ्यां संवलितम्। ७ तटस्थनवकाननप्रकटमोदपुष्पाम्बुना सुरासुरसुपूजितस्मरपितुः श्रियं बिभ्रतीम् ॥ १ ॥ वलोकनतद्रसानुभवसर्वात्मभावादयः सकलसिद्धयो ज्ञेयाः। अत एव नमनं मुदेपि। जलदोषात्मकसुरस्याऽरेः पदपङ्कजयोः स्फुरन्तः सेवोपयोगि- देहादिसम्पादनेनोन्मुखा ये रेणवोऽमन्दा व्रजसुन्दरीवृन्दचरणरेणुसाहि- त्येनाऽनलपास्त उत्कटा जलापेक्षयाऽधिका यत्र। एतेन दोषभयं भगव- श्रीहरिरायप्रणीतं टिप्पणम्। अत एवोक्तं प्रभुभिरेतदष्टपद्याम्-‘धारितश्रीकृष्णयुतभक्तहृदय’ इति। आदिपदाद्वि- योगेऽप्यन्तःप्राकट्यात्क्रोशप्रतिमान्यायेन भगवदाविष्टदेहसिद्धिः, परावृत्तचक्षुषाऽन्त- राविर्भूतप्रभुलीलावलोकनसिद्धिः, भावात्मकस्वस्वरूपेण तदात्मकतद्रसानुभवसिद्धिः, विरहसामयिकसर्वात्मभावसिद्धिः। स च बहिर्भगवत्प्राकट्यापेक्षाराहित्येनाऽन्तरत- द्भावानारूपो वेद्यः। एवमष्टसिद्धयो ज्ञेयाः। अत एवेति। यत एतादृशोत्कर्षवत्त्वमस्याम- स्तीति स्फूत्तिरत एव स्वनमनसेवम्भूतश्रीमद्युनाप्राकट्येनाऽलभ्यलाभान्नमने हेतुर्मुदेवेति मुदपीत्युक्तमित्यर्थः। जलदोषात्मकेति। भक्तानां भगवत्सम्बन्धे भगवतश्च भक्त- सम्बन्धे जलं प्रतिबन्धकं, पारस्थिततद्ग्रांसः। तस्य च न श्रीमद्युनावन्मार्गदातृत्वम्। तथा सति प्रतिबन्धकं न स्यात्। अतो दैत्यसम्बन्धादेवेदं जलं प्रतिबन्धकम्। अतो न जलस्य दोषः। तस्य तूपायेनाऽपि प्रापकत्वात्। तस्माज्जले यो दोषो भगवत्प्रा- प्तिप्रतिबन्धकरूपः स मुर एवेति तस्मिन्निवृत्ते स्वत एव भगवत्प्राप्तिरिति जलदोषात्म- केत्युक्तम्। एतेनेति। चरणरेणुषु मुरारिसम्बन्धेन स्फुरत्पदबोधितसेवोपयोगि- श्रीपुरुषोत्तमप्रणीता विवृतिः। भगवत्सम्बन्धप्रतिबन्धनिराकरणेन तदनुभवयोग्यताऽनुकूलशुद्धिसम्पादकत्वञ्चभुवन- पावनीत्वं तृतीयम्। भगवत्समानधर्मवत्त्वादनायासेन भगवत्सम्बन्धसम्पादकत्वं तुरीयम्। भगवत्प्रियकलिनिवारकत्वं पञ्चमम्। स्वसेवनाद्रोपिकावद्भगव- त्प्रियत्वसम्पादकत्वं षष्ठम्। तनुनवत्वसम्पादकत्वं सप्तमम्। लीलासामयिक- प्रसुश्रमजलकणसम्बन्धसम्पादकत्वमष्टममिति। इदं च यथाधिकारं लीलास्थेषु १ मुदेति क-ग. २ स्वरूपेनेति क-ङ. ३ एतेनेत्यारभ्य तदुभयमपास्तमिति भाव इत्यन्तो ग्रन्थः 'सुरासु- रेत्या'रभ्य 'तथैव तत्सत्त्वादित्यान्तद्ग्रन्थात्परतो लेखकदोषात्सर्वत्र पतितः क-ख-ग-घ-ङ-अ. चपुस्तके तु यथानिवेशमुपलब्धः, एष एव च युक्तः, व्याख्येयविवृतिक्रमानुरोधात्।
८ श्रीमद्यमुनाष्टकम् । त्प्राप्तिविलम्बश्चाऽपास्तः । अग्रे स्पष्टम् । जलदर्शनस्य भगवत्स्मारकत्वं भावजनकत्वं च ज्ञापयितुं स्मरपितृपदम् ॥ १ ॥ श्रीहरिरायप्रणीतं टिप्पणम् । देहादिसम्पादनोन्मुखत्वकथनेन चेत्यर्थः । तथाच स्वप्रयत्नदोषनिवारकसम्बन्धेन चरणरेणूनां कार्योन्मुखत्वनिरूपणेन च तदुभयमपास्तमिति भावः।सुरासुरसुपूजितेति मूले । वस्तुतस्तु¹ सर्व्वात्मभावकामभावयुतस्वामिनीभिः पुष्पाभरणैरलङ्कृतः सन् भाव- जनक इत्यर्थः । दार्ष्टान्तिके तु तत्पूजितत्वं दैन्यभावमानभावयुतोभयविधस्वामिनी- पूजितत्वेन ज्ञेयम् । दैन्यभाववतीनां प्रभुप्राकट्यार्थं मानभाववतीनामनुनयकरणार्थं तत्पूजनात् । पूजनं चाऽत्र तत्परतयाऽनुसरणमेव । दृष्टान्ते तथैव तत्सत्त्वादिति भावः । भगवत्स्मारकत्वमिति । स्मरपितृपदे स्मरपदेन स्मरणमुच्यते । तज्जन- कत्वं च । स्मरणं स्मर इति व्युत्पत्तेः । अत एव छान्दोग्योपनिषदि 'स्मरो वा आकाशाद्भूय' इत्यत्र स्मरणमेव स्मरपदेनाऽभिमतम् । कामस्य त्वत्रा²ऽप्रसक्तेः³ । दोषनिरूपणप्रस्तावे हि तन्निरूपणं घटते । न तु सर्व्वविज्ञानायोत्तरोत्तरं भूयो निरू- पणप्रस्तावे । तथाच श्रीमद्यमुनायामपि तादृग्भगवच्छ्रीधारकत्वोक्त्या प्रभुधर्मस्मरण- र्जनकत्वसत्त्वेन भगवत्स्मारकत्वमिति भावः । भावजनकत्वं⁵ तु कामजनकभगव- श्रीपुरुषोत्तमप्रणीता विवृतिः । प्रकटयति । स्वदासेष्वाधुनिकेषु त्वेतदष्टकोक्तं फलं भगवदिच्छानुसारण ददती किञ्चि- देकं द्वयं प्रकटयतीति स्तोत्रान्त्यश्लोकादवसीयते । प्रकृतमनुसरामः । अत एवेति । दीनबन्धुत्वसिद्धिदातृत्वाभ्यामेवेत्यर्थः। ननु दोषबाहुल्ये दैन्यस्य न दयोत्पादकत्वं लोके दृष्टमतस्तेषु विद्यमानेषु किं स्तोत्रेणेत्याकाङ्क्षायां द्वितीयं विशेषणं विवृण्वन्ति जलेत्या- दि । एतेनेति । मुरारिपदामन्दपदघटितेनानेनेत्यर्थः । अत्राऽसुरादिपदं विहाय मूले जलदोषात्मकसुरपदं यदुक्तं तद्विवृतौ च यज्जलपदं तच्छ्रीभागवते 'दैत्यः पञ्चशिरा जलादि'ति कथनादुक्तं बोध्यम् । जलपदस्य डलयोरभेदेन जडपर्यन्तत्वं तेन तत्र भगवतस्तत्सम्बन्धिमहादोषनिवर्तकत्वमभिप्रेयत इत्याशयं गमयितुम् । तेन दाम्भिकादीनां न निवर्तयतीति ध्वनयन्ति । तावता—'अश्रद्दधानः पापात्मा १ वस्तुतस्त्वित्यादिग्रन्थो नास्ति क-ग-घ. २ अपीति म-घ.अ. ३ तत्राऽप्रसिद्धेरिति ग-घ. ४ प्रभुधर्म- स्मरणजनकसत्त्वेनेति क. प्रभुस्मरजनकसत्त्वे इति ग. प्रभुस्मरणजनकसत्त्वे इति घ. प्रभुधर्मस्मरणजनकत्वेनेति ख- ङ-च. प्रतिभाति त्वेवम् । ५ भावजनकत्वमित्यारभ्य स्पष्टमेवेत्यन्तोऽशो नास्ति किन्तु "भगवत्स्मारकत्वमिति भाव" इतीयं पूर्वपङ्क्तिरेव "भगवत्स्मारकत्वं स्पष्टमेवे' ति रूपेण वर्त्तते ग-घ.
श्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृतिभ्यां संवलितम्। ९ कलिन्दगिरिमस्तके पतदमन्दपूरोज्ज्वला आविर्भावप्रकारमाहुः कलिन्देति । रविमण्डलादतिदूराद्विरिमस्तके श्रीहरिरायप्रणीतं टिप्पणम्। च्छ्रीधारकत्वेन स्पष्टमेव । तदा स्मरपदं कामवाचकमेव । तेनाऽत्र स्मरपदेऽर्थद्वय- मप्यभिप्रेतमित्यर्थः । तथा च यथा भगवति दृष्टे 'निरीक्ष्य रूपं यद्गोद्विजद्रुममृगा' इति वाक्याद्भावजननं पूर्वानुभूतलीलाविशिष्टप्रभुस्मरणं तथा तादृग्भगवत्स्वरूपाया- मेतस्यां दृष्टायामपीति भावः ॥ १ ॥ भगवत इवाऽलौकिकप्रकारेणाऽत्राऽऽविर्भाव इति ज्ञापनायाऽऽहुरावि- र्भावप्रकारमिति । यथा भगवान् वसुदेवदेवकीसमक्षमाविर्भूतो वरदानाय, यथा वा तपसा पूर्वानुभूतभगवद्विरहेण च तापात्मकात्तदुभयहृदयाद् यथा वा आवि- र्भूयाऽन्यत्र केवललीलास्थाने गोकुले प्रयातस्तत्र गत्वा सर्वात्मभाववद्भक्तसंवलितो श्रीपुरुषोत्तमप्रणीता विवृतिः। नास्तिकोऽच्छिन्नसंशयः । हेतुनिष्ठश्च पञ्चैते न तीर्थफलभागिन' इति वाक्योक्तानां दोषं न दूरीकरोतीति सिद्धयति । तृतीयं विवृण्वन्तस्तदेकदेशस्योत्तानार्थत्वमाहु- रग्रे स्पष्टमिति । सुरासुरपदाभ्यां द्विविधाधिकारिणोः सुपूजितपदेन पूजाङ्गीका- रस्य च शीघ्रं प्रतीतेस्तथेत्यर्थः । तटस्थनवकानने प्रकटो मोद आनन्दो यैस्तादृश- पुष्पयुक्तेनाऽम्बुनेत्येवं तृतीयान्तार्थः । स्मरपितृपदेन प्रद्युम्नजनकत्वस्य शीघ्रं प्रतीते- स्तद्वारणााय तद्विवृण्वन्ति जलेत्यादि । भगवतस्तथात्वं ' यं मां स्मृत्वा निष्कामः सकामो भवती'ति तापनीयश्रुतेरपि सिद्धम् । पूर्वं निष्कामस्य भगव- त्स्मरणेन भगवद्विषयकस्यैव तस्य जननात् । तत्साम्येनाऽत्राऽपि तथात्वात् । एव- ञ्चैताभ्यां विशेषणाभ्यां यद्दोषनिवर्त्तकत्वं भावजनकत्वं चोक्तं तत्पूर्वविशेषणोक्तसि- द्धिदातृत्वसहकारित्वायेति बोध्यम् । अनुग्रहः सर्वत्र बीजमिति न काऽपि कोऽपि चोद्यावसरः ॥ १ ॥ ननु नदीत्वे साधारणेऽपि कथमत्रैवैष विशेष इत्याकाङ्क्षायामाधिदैविक्यां विशेषं वक्तुं द्वितीयं श्लोकं वदन्तीत्याशयेन द्वितीयमवतारयन्त्याविरित्यादि । आधिदैविक्याः सृष्टेर्वेदाधारत्वं देवताविग्रहाधिकरणे 'शब्द इति चेदि'ति सूत्रस्य भाष्ये मतान्तरापाकरणपुरस्सरं व्युत्पादितम् । रवेर्वेदात्मकत्वं च तैत्तिरीयाणां बृहन्नारायणोपनिषदि ' आदित्यो वा एष एतन्मण्डलं तपती'त्यनुवाके श्रावितम्। तदन्तःस्थितस्य पुरुषस्य परब्रह्मत्वं च अन्तस्तद्धर्माधिकरणे व्यासचरणैरेव निर्णी- २
१० श्रीयमुनाष्टकम्। विलासगमनोल्लसत्प्रकटगण्डशैलोन्नता। पाते फेनेन प्रवाहजलेन चोज्ज्वला। उच्चनीचशैलारोहावरोहौ विलासगति- श्रीहरिरायप्रणीतं टिप्पणम्। जातस्तत्र लीलां च प्रकटितवान्, तथा श्रीयमुनाऽपि प्रथमं सूर्यमण्डलान्तर्वर्त्तिनारा- यणहृदयादानन्दमयादाविर्भूता द्रवीभूतरसात्मिका, ततस्तापात्मकाद्रविमण्डलात्कलि- न्दोपरि समागत्य भूमावागता ततो लीलास्थाने समागत्य तादृग्भक्तसंवलिता जातेत्यर्थः। श्रीपुरुषोत्तमप्रणीता विवृतिः। तम्। मधुविद्यायां च 'यश्चाऽयमादित्ये तेजोमय' इत्युपक्रम्य ' अयमेव स योऽय- मि'ति तस्य व्यापकत्वमपि श्रावितम्। पाद्मे यमुनामाहात्म्ये च-'त्रय्येषा ऋग्यजुः- साम्नामादित्य इति गीयते। सम्यग्ज्ञानं च यत्तेषां विश्वेषां कर्मणां मुने। सञ्ज्ञेति साऽस्यां यो धर्मो धर्मराजः स उच्यते। रसो यः परमाधारः सच्चिदानन्दलक्षणः। ब्रह्मेत्युपनिषद्गीतस्तदेव यमुना स्वयमि'ति । 'दिवसे दिवसे भानुरादायाऽऽदाय वत्सलः। उदयाचलतः पुत्रीं नयत्यस्ताचलं मुने। यमुनाऽपि ततो नित्यं गच्छ- न्त्यास्तेऽक्षयाऽव्यया। विशन्त्योगेन साऽदित्यमुदयाद्रौ पुनः पुनः। एवं भूमौ तथाऽऽकाशे घटीयन्त्रमिवाऽनिशम्। यमुनाऽस्तोदयाद्रिभ्यां अमन्त्यास्तेऽक्षयोदके'ति वसिष्ठवाक्यं च हृदिकृत्य 'ममोदरं प्रविश्य त्वं गच्छ चाऽऽदित्यनन्दिनि। कालि- न्दीति तव ख्यातिरस्तु लोकत्रये सदे'ति कलिन्दकृतवरप्रार्थनं च हृदिकृत्याऽऽचा- र्यैर्मूले पद्माबन्धोः सुतेत्युक्तमित्याशयेन रविमण्डलापादानकत्वोक्तिपुरस्सरं प्रथम- विशेषणं व्याकुर्वन्ति रवीत्यादि। अत्र वर्षावद्रश्मिभ्यो नोत्पत्तिः किन्तु स्वरूपादि- त्याशयेन मण्डलस्याऽपादानत्वोक्त्या पूर्वोक्तरीतिकवेदाधारत्वस्फोरणेन तत्राऽऽधि- दैविकत्वं दृढीकतम्। तथैवाऽधिकरणकथनेन सौरगत्यनधीनपातत्वबोधनात्तदन्तः- स्थितादेवाऽऽगमनं न भौतिकाद्रवेरिति निश्चायितम्। तृतीयान्तद्वयेनोज्ज्वलत्वस्या- ऽऽगन्तुकत्वबाह्यत्वबोधनात् स्वरूपश्यामलत्वस्याऽबाधो ध्वनितः। तेनाऽऽपाततो दर्शन- विरोधोऽपि परिहृतः । अतः परमुक्तविशेषणस्थममन्दत्वं द्रढयितुं विलासगमने- त्यादि द्वितीयं विशेषणमित्याशयेन तद्व्याकुर्वन्त्युच्चनीचेत्यादि। एवं क्रियाविशेषकृत- शोभया प्रवाहाविच्छेदबोधनेनाऽमन्दत्वं स्थिरीकृतम्, तेनाऽपादानस्य व्यापकत्वे- ऽपि प्रदेशभेदस्य विद्यमानत्वान्मूलधान्न एव समागमनं स्फोरितम्। अथ तद्गमके
श्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृतिभ्यां संवलितम् । ११ सघोषगतिदन्तुरा समधिरूढदोलोत्तमा मुकुन्दरतिवर्धिनी जयति पद्मबन्धोः सुता ॥ २ ॥ रूपौ । तत्रोल्लसन्तः शोभां प्राप्नुवन्तः प्रवाहवेगेनोच्चैः क्षिप्ता अत एव प्रकटाः सर्वेषां दृश्यास्तैस्तादृशैस्तथा । उच्चतः पाते शोभामुक्त्वा ततो विषमभू- मिगतिशोभामाहुः सघोषेति । दन्तुरशब्देन विविधविकारवत्त्वमुच्यते । 'विपुलपुलकभरदन्तुरितम्' 'केतकीदन्तुरिताश' इत्यादिनयदेवोक्तिरपि । श्रीहरिरायप्रणीतं टिप्पणम् । घनीभूतरसात्मा हि जातो नन्दगृहे हरिः । केवलो धर्मयुक्तस्तु वसुदेवगृहे तथा ॥ १ ॥ शब्दात्मा गुणगानादौ वदनादुद्गतः स्वतः । द्रवीभूतरसात्मैषा सर्वाङ्गीणश्रमाम्बुभिः ॥ २ ॥ नारायणस्य हृदयाच्छुद्धसत्त्वस्वरूपतः । प्रादुरासीन्मूलरूपपुष्टिलीलाप्रसिद्धये ॥ ३ ॥ विषमभूमीति । पर्वतसम्बन्धित्वादित्यर्थः । वैषम्यं चाऽत्राल्पानल्पप्रस्तर- श्रीपुरुषोत्तमप्रणीता विवृतिः । भगवन्मेलनौत्सुकत्वं बोधयितुं सघोषगतिदन्तुरेत्यग्रिमं विशेषणमित्याशयेन तद्व्या- कुर्वन्तः पूर्वविशेषणवाच्योऽर्थ उत्तरत्राऽप्युपकरोतीत्याशयेन तमनूद्याऽवतारयन्त्यु- च्चत इत्यादि । तत्र 'दन्तुरं तून्नतानतमि'ति कोशोक्तस्य वाच्यार्थस्य पूर्वार्ध एव सिद्धेस्तदनुवादवैयर्थ्यादत्र लाक्षणिकोऽर्थोऽभिप्रेयत इत्याशयेन विवक्षितमर्थमाहु- र्दन्तुरेत्यादि । अत्र जयदेवोक्ति सम्मतित्वेनाऽऽहुर्विपुलेत्यादि । पुलकेऽपि रोमकू- पदेशे उच्छ्रनतेव भवतीति नोक्तार्थदार्ढ्यमिति द्वितीयमुदाहरणम् । उक्तमर्थं हेतूक्त्या द्रढयन्ति व्रजजनेत्यादि । समानो घोषो व्रजो यस्य तत् सघोषं व्रजजनादि । 'समानस्य छन्दस्य मूर्द्धप्रभृत्युदकेष्वि'ति सूत्रे समानस्येति योगं विभज्य सपक्ष- साधर्म्यादिशब्दाः काशिकायां व्युत्पादितास्तथाऽत्राऽपि । सदृशस्तुल्यो वासो घोषो यस्य तद्वा । अस्वपदविग्रहे बहुव्रीहौ सदृशार्थस्य सहस्य सभावेन कौमुद्यां ते साधितास्तथा वा । तथा च 'व्रजन्तमिव मातङ्गैर्गृणन्तमिव निर्झरैरि'तिवत्तद्गतिम्र्भि- र्विविधविकारवतीवेत्यर्थः । विकारश्चाऽत्र रसानुकूलो बाह्याभ्यन्तरो धर्मो बोध्यः यो रसशास्त्रे भावपदेनोच्यते । एतस्य पक्षस्य गौणत्वायोत्प्रेक्षावाचकपद्मयोगः
१. यमुनाष्टकम्, बालबोधः एवं सिद्धान्तमुक्तावली
१२ श्रीयमुनाष्टकम्। ब्रजजनगोवृन्दादिविविधगतिभिस्तादृशीव । घोषः शब्दो व्रजो वा । अनतिस्थूलशिलासु गतिशोभया असमधिरूढेव समधिरूढदोलोत्तमा । श्रीहरिरायप्रणीतं टिप्पणम्। साहित्येनेति ज्ञेयम् । घोषः शब्दो व्रजो वेति । 'घोष आभीरपल्ली स्याद्'इतिको- षात् घोषो व्रजस्तेन सह वर्त्तन्ते, न कदाचिदपि तं विहायाऽन्यत्र प्रयान्ति निरोध- स्थानत्वात्ते सघोषा व्रजजनादयस्तेषां तीरे गतिभिस्तथेत्यर्थः । शब्दपक्षे यथा प्रिया- भिमुखं गच्छन्ती प्रिया अन्तरुद्गतरजोगुणजनितकामावेशेन गायन्ती तथोच्चैर्भाष- माणा गच्छति तथेत्यर्थः । व्रजपक्षे तु भाववत्संसर्गे भाववतां भावोदयजनित- विविधविकारवत्त्वं लोकसिद्धमिति श्रीयमुनायामपि तथा निरूपितमित्यर्थः । असमधिरूढेवेति, पदच्छेदे अकारस्यापि प्रतीयमानत्वादसमधिरूढत्वमपि व्याख्ये- यम् । तथाचाऽसमधिरूढेव समधिरूढदोलोत्तमा । यतो दोलाधिरोहेऽपि न तथा प्रतीतिः । भगवत्साम्मुख्यगमने तद्भाववैवश्येन गमनमात्रस्फूर्त्याऽऽरोहदोलास्फूर्ते- श्रीपुरुषोत्तमप्रणीता विवृतिः । गौणत्वं तु व्रजजनसम्बन्धस्य समभूमौ सत्त्वेनाऽत्राऽभावात्स्वतस्तथात्वासिद्ध्या मूलधामागमनगमकत्वाभावाच्च ज्ञेयम् । अनेनैवाऽस्वरसेन पक्षान्तरं वदिष्यन्तो घोषपदस्याऽर्थावाहुः—घोषः शब्दो व्रजो वेति । शब्दपक्षे घोषेण सह वर्त्तमाना सघोषा तादृश्या गत्या तथा । ससिञ्जिताभिसरणेनोत्कटानेकभावेत्यर्थः । अस्मिन् पक्षे नोत्प्रेक्षेति यद्यपि तदपेक्षयाऽयमुत्तमस्तथापि लीलाया नित्यत्वेन मूलधाम्न्यपि व्रजसम्बन्धस्य सार्वदिकत्वात्प्रथमपक्षस्याऽपि नाऽसम्भवः । स्वाभाविकत्वात्स्व- पक्षश्चाऽऽवश्यक एवेति द्वयमपि सङ्ग्रहीतुं व्याख्यातविशेषणद्वयस्य द्वितीयविशेषणार्थ- द्वयस्य च तात्पर्यमाहुरनतीत्यादि । 'गण्डशैलास्तु ते भग्नाश्च्युताः स्थूलोपला- गिरेरि'ति कोशे गिरिच्युतानां तथात्वकथनादनतिस्थूलशिलासु या गतिरुच्चनीच- भावेन गमनं तत्र घोषेण यत्सिञ्जितवत्ताव्यञ्जनं सैव शोभा तया स्वयमसमधिरूढेव समानसौभाग्यानां साहित्यात्स्वयमपि पादचारिणीव । तथाच सेयमाधिदैविकी यद्यपि दोलास्थानीये आधिभौतिके जलरूपे आरुह्य गच्छतीत्यग्रिमविशेषणे वक्तव्यं, तथापि विलासगमनेत्यादिविशेषणद्वयवत्त्वादसमधिरूढेवेत्यर्थः । द्वितीयविशेषण- प्रथमव्याख्याने घोषो व्रजसुन्दरीप्रभृतिवृन्दम् । तात्स्थ्यात्तद्व्यपदेशः । तेन सह वर्त्त- माना सघोषा तादृश्या गत्या चरणचलनेन दन्तुरेव दन्तुरेति । "समासे पुंवत्कर्म- धारयजातीयेष्वि"ति पुंवद्भावः । एवं शब्दपक्षव्याख्यानेऽपि ज्ञेयः । एवं सकल-
श्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृत्तिभ्यां संवलितम् । १३ भुवं भुवनपावनीमधिगतामनेकस्वनैः ततो भूमावागत्य मुकुन्दरतिवर्द्धिनी जाता । यतो रसाकरसखस्य सुता । अतः स्वयमपि रसात्मिकेति भावः ॥ २ ॥
- ततो भुव्यागताया धर्मानाहुर्भुवमिति । प्रयोजनम्-भुवनपावनीमिति । श्रीहरिरायप्रणीतं टिप्पणम् । रसमधिरूढेवेत्युक्तम् । ततो भूमावागत्येति, यथा भगवतो मथुरातो व्रजे समागत- स्यैव स्वामिनीभाववर्द्धकत्वं तथा रविमण्डलादाविर्भूय कलिन्दपर्वतोपरि पतित्वा ततः कालिन्दीं स्वप्रविष्टां विधाय व्रजभूमौ समागताया एव लीलासृष्टिस्थेष्वेव मुकुन्दरतिवर्द्धिनीत्वमित्यर्थः । मुकुन्दरतिवर्द्धिनीत्यत्र षष्ठीसमासो ज्ञेयः । तथा च, मुकुन्दस्य भगवतः स्वामिनीषु रतिवर्द्धिनी । तस्या उभयसम्बन्धिनीत्वा- दिति भावः । रतिवर्द्धिनीत्वे हेतुरेव यतो रसाकरसखस्य सुतेत्यादिना निरूपितः ॥ २ ॥ भुव्यागताया धर्मानिति, भुव्यागमनं हि भगवतो रतिवर्द्धनाय । तत्र च श्रीपुरुषोत्तमप्रणीता विवृत्तिः । सिद्धिहेतुत्वदार्थ्यार्थमाधिदैविकत्वमनेकधा समर्थयित्वा भूमौ लीलासम्बन्ध आधि- भौतिकादिरूपद्वयविशिष्टायामस्तीत्यादिज्ञापनाय तदुभयसाहित्यं हृदिकृत्याऽग्रिमं व्याकरिष्यन्तः प्रथममाधिभौतिकसाहित्यमाहुः समधीति । दोला शिबिका, उत्तमत्वं तु तस्या अपि, अग्रे लीलासम्बन्धात् । समधिरूढा आविष्टा सा ययेत्यर्थः । अथाऽऽध्यात्मिकसाहित्यमग्रिमे विवृण्वन्ति ततो भूमावित्यादि । तत इति दोला- रोहोत्तरम् । भूमावागत्येति, दूराद्गिरिमूर्द्धपातक्लेशसहनपूर्वकं भूमावागत्य । एव- मुभयसाहित्यात् "कलिन्दतनयातटोन्मदे"त्यादीनां न विरुद्धत्वम् । तथा पद्मबन्धोः सुतेत्यस्य 'जयति'क्रियाकर्त्तृत्वेन विशेष्यत्वेऽप्याधिदैविक्या नित्याया एव स्तुत्यत्वेन विवक्षितत्वात्तद्विचारेणाऽस्याऽपि विशेषणत्वमेव । तेन 'कलिन्दगिरी'त्यारभ्य 'पद्म- बन्धोः सुते'त्यन्तानि पञ्चाऽपि विशेषणानि भगवद्रतिवर्द्धकत्वस्यैवोपकारकाणीति द्वितीयैश्वर्यवत्त्वमनेन श्लोकेन समर्पितम् । एतेन द्वितीयमैश्वर्यं रूपद्वयविशिष्टाया- मित्यपि ज्ञापितम् ॥ २ ॥ अतः परं रतिवर्द्धकत्वस्य दृढीकरणाय रतिजनका धर्मा अग्रिमे उच्यन्त इत्याश- येन तमवतारयन्ति ततो भुमीत्यादि । भुवनपावनीति श्रीयमुनाविशेषणम् । "सप्तद्वी-
- ततो भूमीति पाठः श्रीपुरुषोत्तमचरणानाम् हस्ताक्षरग्रन्थे वर्तते ।