स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
चतुर्थोऽङ्कः । ३७ पद्मावती — (क) हेळा ! अय्यउत्तो । अय्ये ! तव कार- णादो अय्यउत्तदंसणं परिहरामि । ता इमं दाव माहवीमण्डवं पविसामो । वासवदत्ता — (ख) एवं होदु । (तथा कुर्वन्ति) विदूषकः — (ग) तत्तहोदी पदुमावदी इह आअच्छिअ णिग्गदा भवे । राजा — कथं भवान् जानाति । विदूषकः — (घ) इमाणि अवइदॆकुसुमाणि सेफाळिआगु- च्छआणि पेक्खदु दाव भवं । राजा — अहो विचित्रता कुसुमस्य वसन्तक ! । वासवदत्ता — (आत्मगतम्) (ङ) वसन्तअसङ्कित्तणेण अहं पुण जाणामि उज्जइणीए वत्तामि त्ति । राजा — वसन्तक ! अस्मिन्नेवासीनौ शिलातले पद्मावर्ती प्रतीक्षिष्यावहे । विदूषकः — (च) भो ! तह । (उपविश्योत्थाय) सैरअकाळति- क्खो दुस्सहो आदवो । ता इमं दाव माहवीमण्डवं पविसामो । (क) हला ! आर्यपुत्रः । आर्ये ! तव कारणादार्यपुत्रदर्शनं परिहरामि । तदिमं तावन्माधवीमण्डपं प्रविशामः । (ख) एवं भवतु । (ग) तत्रभवती पद्मावतीहागत्य निर्गता भवेत् । (घ) इमानपचितकुसुमान् शेफालिकागुच्छकान् प्रेक्षतां तावद् भवान् । (ङ) वसन्तकसङ्कीर्तनेनाहं पुनर्जानामि उज्जयिन्यां वर्ते इति । (च) भोस्तथा । शरत्कालतीक्ष्णो दुःसह आतपः । तदिमं तावन्माधवीमण्डपं प्रविशावः । १. 'हा अ' ख. पाठः. २. 'दाणि सेफाळिआकुसुमाणि पे' ख. पाठः, ३. 'ही ही स' ख. पाठः.
३८ स्वप्नवासवदत्ते राजा — बाढम् । गच्छाग्रतः । विदूषकः — (क) एव्वं होदु । (उभौ परिक्रामतः) पद्मावती — (ख) सव्वं आउळं कत्तुकामो अय्यवसन्त- ओ । किं दाणिं करेह्म । चेटी — (ग) भट्टिदारिए ! एदं महुअरपरिणीलीणं ओळंबळदं ओधूय भट्ठारं वारइस्सं । पद्मावती — (घ) एव्वं करेहि । (चेटी तथा करोति) विदूषकः — (ङ) अविह अविह, चिट्ठदु चिट्ठदु दाव भवं । राजा — १किमर्थम् । विदूषकः — (च) दासीएपुत्तेहि महुअरेहि पीडिदो ह्नि । राजा — मा मा भवानेवम् । मधुकरसन्त्रासः२ परिहार्यः । पश्य, मधुमदकला मधुकरा मदनातार्ताभिः प्रियाभिरुपगूढाः । पादन्यासविषण्णा वयमिव कान्तावियुक्ताः स्युः ॥ ३ ॥ तस्मादिहैवासिष्यावहे । (क) एवं भवतु । (ख) सर्वमाकुलं कर्तुकाम आर्यवसन्तकः । किमिदानीं कुर्मः । (ग) भर्तृदारिके ! एतां मधुकरपरिनीलिनामवलम्बलतामवधूय भर्तारं वारयि- ष्यामि । (घ) एवं कुरु । (ङ) अविह अविह, तिष्ठतु तिष्ठतु तावद् भवान् । (च) दास्याःपुत्रैर्मधुकरैः पीडितोऽस्मि । १. 'अथकिम्' ख. पाठः. २. 'सं' ख. पाठः.
चतुर्थोऽङ्कः। ३९ विदूषकः - (क) एव्वं होदु । (उभावुपविशतः) पद्मावती - (ख) दिट्ठिआ उवविट्ठो अय्यउत्तो । वासवदत्ता - (आत्मगतम्) (ग) दिट्ठिआ पकिदित्थसरीरो अय्यउत्तो । चेटी - (घ) भट्टिदारिए ! रुद्धा खु ह्म वयं । भट्टिदारिए ! सस्सुपादा खु अय्याए दिट्ठी । वासवदत्ता - (ङ) एसा खु महुअराणं अविणआदो कासकुसुमरेणुणा पडिदेण सोदआ मे दिट्ठी । पद्मावती - (च) जुज्जइ । विदूषकः - (छ) भो ! सुण्णं खु इदं पमदवणं । पुच्छि- दव्वं किञ्चि अत्थि । पुच्छामि भवन्तं । राजा - छन्दतः । (क) एवं भवतु । (ख) दिष्ट्योपविष्ट आर्यपुत्रः । (ग) दिष्ट्या प्रकृतिस्थशरीर आर्यपुत्रः । (घ) भर्तृदारिके ! रुद्धा खलु स्मो वयम् । भर्तृदारिके ! साश्रुपाता खल्वार्याया दृष्टिः । (ङ) एषा खलु मधुकराणामविनयात् काशकुसुमरेणुना पतितेन सोदका मे दृष्टिः । (च) युज्यते । (छ) भोः ! शून्यं खल्विदं प्रमदवनम् । प्रष्टव्यं किञ्चिदस्ति । पृच्छामि भवन्तम् ।
४० स्वप्नवासवदत्ते विदूषकः — (क) का भवदो पिआ, तदाणिं तत्तहोदी वासवदत्ता इदाणिं पडुमावदी वा । राजा — किमिदानीं भवान् महति बहुमानसङ्कटे मां न्यस्यति । पद्मावती — (ख) हळा ! जादिसे सङ्कडे निक्खित्तो अय्यउत्तो । वासवदत्ता — (आत्मगतम्) (ग) अहं अ मन्दभाआ । विदूषकः — (घ) सेरं सेरं भणादु भवं । एक्का उबरदा, अवरा असण्णिहिदा । राजा — न खलु¹ ब्रूयाम् । भवांस्तु मुखरः । पद्मावती — (ङ) एत्तएण भणिदं अय्यउत्तेण । विदूषकः — (च) भो ! सव्वेण सवामि, कस्स वि ण आचक्खिस्सं । एसा सन्दट्ठा मे जीहा । राजा — नोत्सहे सखे ! वक्तुम् । पद्मावती — (छ) अहो इमस्स पुरोभाइदा । एत्तिएण हिअअं² ण जाणादि । (क) का भवतः प्रिया, तदानीं तत्रभवती वासवदत्ता इदानीं पद्मावती वा । (ख) हला ! यादृशे सङ्कटे निक्षिप्त आर्यपुत्रः । (ग) अहं च मन्दभागा । (घ) स्वैरं स्वैरं भणतु भवान् । एकोपरता, अपरा असन्निहिता । (ङ) एतावता भणितमार्यपुत्रेण । (च) भोः ! सर्वेण शपामि, कस्यापि नाख्यास्यामि । एषा सन्दष्टा मे जिह्वा । (छ) अहो अस्य पुरोभागिता । एतावता हृदयं न जानाति । १. 'छुन खलु ब्रू' ख. पाठः. २. 'अं जा' ख. पाठः.
चतुर्थोऽङ्कः । ४१ विदूषकः — (क) किं ण भणादि १ मम । अणाचक्खिअ इमादो सिळावट्टआदो ण सक्कं एक्कपदं वि गमिदुं । एसो रुद्धो अत्तभवं । राजा — किं बलात्कारेण । विदूषकः — (ख) आम, बळकारेण । राजा — तेन हि पश्यामस्तावत् । विदूषकः — (ग) पसीददु पसीददु भवं । वअस्सभावेण साविदो, यदि सच्चं ण भणासि । राजा — का गतिः । श्रूयताम् । पद्मावती बहुमता मम यद्यपि रूपशीलमाधुर्यैः । वासवदत्ताबद्धं न तु तावन्मे मनो हरति ॥ ४ ॥ वासवदत्ता — (आत्मगतम्) (घ) भोदु भोदु । दिण्णं वेदणं इमस्स परिखेदस्स । अहो अण्णादवासं पि एत्थ बहुगुणं सम्पज्जइ । चेटी — (ङ) भट्टिदारिए ! अदक्खिण्णो खु भट्टा । (क) किं न भणति मम । अनाख्यायास्माच्छिलापट्टकान्न शक्यमेकपदमपि गन्तुम् । एष रुद्धोऽत्रभवान् । (ख) आम, बलात्कारेण । (ग) प्रसीदतु प्रसीदतु भवान् । वयस्यभावेन शापितः, यदि सत्यं न भणसि । (घ) भवतु भवतु । दत्तं वेतनमस्य परिखेदस्य । अहो अज्ञातवासोऽप्यत्र बहुगुणः सम्पद्यते । (ङ) भर्तृदारिके ! अदाक्षिण्यः खलु भर्ता । १. ‘सि’ ख. पाठः. २. ‘अदिद’ ख. पाठः.
४२ स्वप्नवासवदत्ते पद्मावती — (क) हळा ! मा मा एव्वं । सदक्खिण्णो एव्व अय्यउत्तो, जो इदाणिं वि अय्याए वासवदत्ताए गुणाणि सुमरदि । वासवदत्ता — (ख) भद्दे ! अभिजणस्स सदिसं मन्तिदं । राजा — उक्तं मया । भवानिदानीं कथयतु । का भवतः प्रिया तदा वासवदत्ता, इदानीं पद्मावती वा । पद्मावती — (ग) अय्यउत्तो^२ पि वसन्तओ संवुत्तो । विदूषकः — (घ) किं मे विप्पळविदेण । उभओ वि तत्त- होदीओ मे बहुमदाओ । राजा^३—त्रैधेय ! मामेवं बलाच्छ्रुत्वा किमिदानीं नाभिभाषसे । विदूषकः — (ङ) किं मं पि बळकारेण । राजा — अथकिम् , बलात्कारेण । विदूषकः — (च) तेण हि ण सक्कं सोढुं । राजा — प्रसीदतु प्रसीदतु महाब्राह्मणः । स्वैरं स्वैरमभि- धीयताम् । (क) हला ! मा मैवम् । सदाक्षिण्य एवार्यपुत्रः, य इदानीमप्यार्याया वासवदत्ताया गुणान् स्मरति । (ख) भद्रे ! अभिजनस्य सदृशं मन्त्रितम् । (ग) आर्यपुत्रोऽपि वसन्तकः संवृत्तः । (घ) किं मे विप्रलपितेन । उभे अपि तत्रभवत्यौ मे बहुमते । (ङ) किं मामपि बलात्कारेण । (च) तेन हि न शक्यं श्रोतुम् । १. 'न्तिदव्वं' ख. पाठः. २. 'तो व' ख. पाठः. ३. 'जा—अ' ख. पाठः.
विदूषकः — (क) इदाणिं सुणादु भवं । तत्तहोदी वासव- दत्ता मे बहुमदा । तत्तहोदी पदुमावदी तरुणी दस्सणीआ अको- वणा अणहङ्कारा महुरवाआ सदक्खिण्णा । अअं च अवरो महन्तो गुणो, सिणिद्धेण भोअणेण मं पच्चुग्गच्छइ—कहिंणु- खु गदो अय्यवसन्तओ त्ति । वासवदत्ता—(ख) भोदु भोदु, वसन्तअ ! सुमरेहि दाणिं एदं । राजा — *भवतु भवतु वसन्तक ! सर्वमेतत् कथयिष्ये देव्यै वासवदत्तायै । विदूषकः — (ग) अविहा वासवदत्ता । कहिं वासवदत्ता । चिरा खु उबरदा वासवदत्ता । राजा — (सविषादम्) एवम् । उपरता वासवदत्ता, अनेन परिहासेन व्याक्षिप्तं मे मनस्त्वया । ततो वाणी तथैवेयं पूर्वाभ्यासेन निस्सृता ॥ ५ ॥ पद्मावती — (घ) रमणीओ खु कहाजोओ । णिसंसेण विसंवादिदं । (क) इदानीं शृणोतु भवान् । तत्रभवती वासवदत्ता मे बहुमता । तत्रभवती पद्मावती तरुणी दर्शनीया अकोपना अनहङ्कारा मधुरवाक् सदाक्षिण्या । अयं चाप- रो महान् गुणः, स्निग्धेन भोजनेन मां प्रत्युद्गच्छति—कुत्रनुखलु गत आर्यवस- न्तक इति । (ख) भवतु भवतु, वसन्तक ! स्मरेदानीमेतत् । प्रेतत् । (ग) अविहा वासवदत्ता । कुत्र वासवदत्ता । चिरात् खलूंपरता वासवदत्ता । (घ) रमणीयः खलु कथायोगः । नृशंसेन विसंवादितम् ।
- इत आरभ्य 'राजा' इत्यन्तं ख. पुस्तके नास्ति ।
[Header] ४४ : स्वप्नवासवदत्ते
वासवदत्ता — (आत्मगतम्) (क) भोदु भोदु, विस्सत्थह्मि । अहो पिअं णाम ईदिसं वअणं अप्पच्चक्खं सुणीअदि । विदूषकः — (ख) धारेदु धारेदु भवं । अणदिक्कमणीओ हि १ विही । राजा — न जानाति भवानवस्थाम् । कुतः, दुःखं त्यक्तं बद्धमूलोऽनुरागः स्मृत्वा स्मृत्वा याति दुःखं नवत्वम् । यात्रा त्वेषा यद् विमुच्येहं बाष्पं प्राप्तानृण्या याति बुद्धिः प्रसादम् ॥ ६ ॥ विदूषकः — (ग) अस्सुपादकिल्लिण्णं खु तत्तहोदो मुहं । जाव मुहोदअं आणेमि । (निष्क्रान्तः) पद्मावती — (घ) अय्ये ! बप्फ २ पडलन्तरिदं अय्यउत्तस्स मुहं । जाव णिक्कमह्म । वासवदत्ता — (ङ) एव्वं ३ होदु । अहव चिट्ठ तुवं । उक्क- ण्ठिदं भत्तारं उज्ज्रिअ अजुत्तं णिग्गमणं ४ । अहं एव्वं ५ गमिस्सं । (क) भवतु भवतु, विश्वस्तास्मि । अहो प्रियं नामेदृशं वचनमप्रत्यक्षं श्रूयते । (ख) धारयतु धारयतु भवान् । अनतिक्रमणीयो हि विधिः । (ग) अश्रुपातक्लिन्नं खलु तत्रभवतो मुखम् । यावन्मुखोदकमानयामि । (घ) आर्ये ! बाष्पपटलान्तरितमार्यपुत्रस्य मुखम् । यावन्निष्क्रामामः । (ङ) एवं भवतु । अथवा तिष्ठ त्वम् । उत्कण्ठितं भर्तारमुज्झित्वायुक्तं निर्गम- नम् । अहमेव गमिष्यामि । १. 'त' ख. पाठः. २. 'प्फाउलपडन्तदिदं' क. पाठः. ३. 'वं' क.पाठः. ४. 'मं । अ' ख. पाठः. ५. 'वं' क. पाठः.
चतुर्थोऽङ्कः । ४५ चेटी — (क) सुट्ठु अय्या भणादि । उवसप्पदु दाव भट्टि- दारिआ । पद्मावती — (ख) किंणुखु पविशामि । वासवदत्ता — (ग) हळा ! पविसे । (इत्युक्त्वा निष्क्रान्ता) (प्रविश्य) विदूषकः — (नलिनीपत्रेण जलं गृहीत्वा) (घ) ऎसा तत्तहोदी पदुमावदी । पद्मावती — (ङ) अय्य वसन्तअ! किं एदं । विदूषकः — (च) एदं इदं । इदं एदं । पद्मावती — (छ) भणादु भणादु अय्यो भणादु । विदूषकः — (ज) भोदि ! वादणीदेण कासकुसुमरेणुणा अक्खिनिपडिदेणं सस्सुपादं खु तत्तहोदो मुहं । ता गण्हदु होदी इदं मुहोदअं । (क) सुष्ठ्वार्या भणति । उपसर्पतु तावद् भर्तृदारिका । (ख) किन्नुखलु प्रविशामि । (ग) हला ! प्रविश । (घ) एषा तत्रभवती पद्मावती । (ङ) आर्य वसन्तक ! किमेतत् । (च) एतदिदम् । इदमेतत् । (छ) भणतु भणत्वार्यो भणतु । (ज) भवति ! वातनीतेन काशकुसुमरेणुनाक्षिनिपतितेन साश्रुपातं खलु तत्रभव- तो मुखम् । तद् गृह्णातु भवतीदं मुखोदकम् । १. ‘किं प’ ख. पाठः. २. ‘स । (नि’ ख. पाठः. ३. ‘ञ्ज’ ख. पाठः. ४. ‘ऐत’ क. पाठः. ५. ‘कः–भोदि! ए’ ख. पाठः. ६. ‘ण अस्सुपादकिलिण्णं खु’ ख. पाठः. ७. ‘भो’ ख. पाठः.
४६ स्वप्नवासवदत्ते पद्मावती — (क) अहो सदक्खिण्णस्स जणस्स परिजेणो वि सदक्खिण्णो एव्व होदि । (उपेत्य) जेदु अय्यउत्तो । इदं मुहोदअं । राजा — अये पद्मावती । (अपवार्य) वसन्तक ! किमिदम् । विदूषकः —(कर्णे) (ख) एव्वं विअ । राजा — साधु वसन्तक ! साधु । (आचम्य) पद्मावति ! आस्यताम् । पद्मावती — (ग) जं अय्यउत्तो आणवेदि । (उपविशति) राजा — पद्मावति ! शैरच्छशाङ्कगौरेण वाताविद्धेन भामिनि ! । काशपुष्पप्लवेनेदं साश्रुपातं मुखं मम ॥ ७ ॥ (आत्मगतम् ) इयं बाला नवोद्वाहा सत्यं श्रुत्वा व्यथां व्रजेत् । कामं धीरस्वभावेयं स्त्रीस्वभावस्तु कातरः ॥ ८ ॥ विदूषकः — (घ) इदं* तत्तहोदो मअधराअस्स अवरह्णकाळे
(क) अहो सदाक्षिण्यस्य जनस्य परिजनोऽपि सदाक्षिण्य एव भवति । जयत्वा- र्यपुत्रः । इदं मुखोदकम् । (ख) एवमिव । (ग) यदार्यपुत्र आज्ञापयति । (घ) इदं तत्रभवतो मगधराजस्यापराह्नकाले भवन्तमग्रतः कृत्वा सुहृज्जनद-
१. ‘अ’ ख. पाठः. २. ‘दि । विदूषकः- जेदु भवं । पद्मावती - जेदु अय्यउत्तो । रा’. ख. पाठः. ३. ‘रा(ज)च्छ’ख. पाठः. ४. ‘मधी’ क. पाठः. * इदं सन्निकृष्टमित्यर्थः.
चतुर्थोऽङ्कः । ४७ भवन्तं अग्गदो करिअ सुहिज्जणदंसणं । सक्कारो हि णाम सक्का- रेण पडिच्छिदो पीदिं उप्पादेदि । ता उट्ठेदु दाव भवं । राजा — बाढम् १। प्रथमः कल्पः । (उत्थाय) गुणानां वा विशालानां सत्काराणां च नित्यशः । कर्तारः सुलभा लोके विज्ञातारस्तु २ दुर्लभाः ॥ ९ ॥ (निष्क्रान्ताः सर्वे) चतुर्थोऽङ्कः । र्शनम् । सत्कारो हि नाम सत्कारेण प्रतीष्टः प्रीतिमुत्पादयति । तदुत्तिष्ठतु तावद् भवान् । १. 'म् उ' ख. पाठः. २. 'प्र' ख. पाठः.
अथ पञ्चमोऽङ्कः । (ततः प्रविशति पद्मिनिका) पद्मिनिका—(क) महुअरिऐ ! महुअरिऐ ! आअच्छ दाव सिग्घं। (प्रविश्य) मधुकरिका — (ख) हळा ! इअम्हि । किं करीअदु । पद्मिनिकां — (ग) हळा ! किं ण जाणासि तुवं भट्टिदा- रिआ पदुमावदी सीसंवेदणाए दुक्खाविदे ३ त्ति । मधुकरिका — (घ) हद्धि । पद्मिनिका -- (ङ) हळा ! गच्छ सिग्घं, अय्यं आवन्तिअं सदावेहि । केवळं भट्टिदारिआए सीसवेदणं एव्व णिवेदेहि । तदो सअं एव्व आगमिस्सदि । मधुकरिका — (च) हळा ! किं सा करिस्सदि । पद्मिनिका — (छ) सा हु दा६णिं महुराहि कहाहि भट्टिदा- रिआए सीसवेदणं विनोदेदि । (क) मधुकारिके ! मधुकारिके ! आगच्छ तावच्छीघ्रम् । (ख) हला ! इयमस्मि । किं क्रियताम् । (ग) हला ! किं न जानासि त्वं भर्तृदारिका पद्मावती शीर्षवेदनया दुःखितेति । (घ) हा धिक् । (ङ) हला ! गच्छ शीघ्रमार्थ्यामावन्तिकां शब्दय । केवलं भर्तृदारिकायाः शीर्षवेद- नामेव निवेदय । ततः स्वयमेवागमिष्यति । (च) हला ! किं सा करिष्यति । (छ) सा खल्विदानीं मधुराभिः कथाभिः भर्तृदारिकायाः शीर्षवेदनां विनोदयति । १. ‘का—किं’ ख. पाठः. २. ‘स्स’ ख. पाठः. ३. ‘दा’ ख. पाठः. ४. ‘य्यं’ क. पाठः. ५. ‘अ’ ख. पाठः. ६. ‘णि’ क. पाठः.
पञ्चमोऽङ्कः । ४९ मधुकरिका — (क) जुज्जइ । कहिं सअणीयं रइदं भद्दि- दारिआए । पद्मिनिका — (ख) समुद्द्गिहके किळं^१ सय्यात्तिण्णा । गच्छ दाणि तुवं । अहं वि भद्दिणो णिवेदणत्थं अय्यवसन्तअं अण्णेसामि । मधुकरिका — (ग) एव्वं होदु । (निष्क्रान्ता) पद्मिनिका — (घ) कहिं दाणि अय्यवसन्तअं पेक्खामि । (ततः प्रविशति विदूषकः) विदूषकः — (ङ) अज्जं^२ खु देवीविओअविहुरस्स तत्त- होदो वच्छराअस्स पदुमावदीपाणिग्गहणसमीरिअस्स^३ अच्चन्त- सुहावहे^४ मङ्गळोसवे मदणग्गिदाहो^५ अहिअदरं वड्ढइ । (पद्मिनिकां विलोक्य) अयि पदुमिणिआ । पदुमिणिए ! किं इह वत्तंसि । (क) युज्यते । कुत्र शयनीयं रचितं भर्तृदारिकायाः । (ख) समुद्रगृहके किल शय्यास्तीर्णा । गच्छेदानीं त्वम् । अहमपि भर्त्रे निवे- दनार्थमार्यवसन्तकमन्वेषे । (ग) एवं भवतु । (घ) कुत्रेदानीमार्यवसस्तकं प्रेक्षे । (ङ) अद्य खलु देवीवियोगविधुरस्य तत्रभवतो वत्सराजस्य पद्मावतीपाणिग्रहण- समीरितस्यात्यन्तसुखावहे मङ्गलोत्सवे मदनाग्निदाहोऽधिकतरं वर्धते । अयि पद्मिनिका । पद्मिनिके ! किमिह वर्तते । १. 'ळ अत्थिण्णा' ख. पाठः. २. 'ज वि हु देवीविओअविहुरहिअअस्स' ख. पाठः. ३. 'आधमाणे अब्ब' ख. पाठः. ४. 'हे वमङ्गळोमणमम' क. पाठः. ५. 'णदो' ख. पाठः. ६. 'इह । (विलोक्य) पदुमाणिए' ख. पाठः. ७. 'इसि ।' ख. पाठः.
५० स्वप्नवासवदत्ते पद्मिनिका — (क) अय्य ! वसन्तअ ! किं ण जाणासि तुवं भट्टिदारिआ पदुमावदी सीसवेदणाए दुःखाविदे१त्ति । विदूषकः — (ख) भोदि ! सच्चं ण जाणामि । पद्मिनिका — (ग) तेण हि२ भट्टिणो णिवेदेहि णं३। जाव अहं वि सीसाणुलेवणं तुवारेमि । विदूषकः — (घ) कहिं सअणीअं रइदं पदुमावदीए । पद्मिनिका — (ङ) समुद्गगिहके किळ सय्यत्ति४ण्णा । विदूषकः — (च) गच्छदु भोदी । जाव अहं वि तत्तहोदो णिवेदइस्सं । (निष्क्रान्तौ) (प्रवेशकः) (ततः प्रविशति राजा) राजा — श्लाघ्यामवन्तिनृपतेः सदृशीं तनूजां कालक्रमेण पुनरागतदारभारः । (क) आर्य ! वसन्तक ! किं न जानासि त्वं भर्तृदारिका पद्मावती शीर्षवेदनया दुःखितेति । (ख) भवति ! सत्यं न जानामि । (ग) तेन हि भर्त्रे निवेदयैनाम् । यावदहमपि शीर्षानुलेपनं त्वरयामि । (घ) कुत्र शयनीयं रचितं पद्मावत्याः । (ङ) समुद्रगृहके किल शय्यास्तीर्णा । (च) गच्छतु भवती । यावदहमपि तत्रभवते निवेदयिष्यामि । १. 'दे' क. पाठः. २. 'हि सिग्घं भ' ख. पाठः. ३. 'हि । जा' ख. पाठः. ४. 'गि' ख. पाठः.
पञ्चमोऽङ्कः । ५१ लावाणके हुतवहेन हृताङ्गयष्टिं तां पद्मिनीं हिमहतामिव चिन्तयामि ॥ १ ॥ (प्रविश्य) विदूषकः — (क) तुवरदु तुवरदु दाव भवं । *राजा — किमर्थम् । विदूषकः — (ख) तत्तहोदी पदुमावदी §सीसवेदणाए दुक्खाविदा । राजा— कैवमाह । विदूषकः — (ग) पदुमिणिआए कहिदं । राजा — भोः ! कष्टं, रूपश्रिया समुदितां गुणतश्च युक्तां लब्ध्वा प्रियां मम तु मन्द इवाद्य शोकः । ‡पूर्वाभिघातसरुजोऽप्यनुभूतदुःखः पद्मावतीमपि तथैव समर्थयामि ॥ २ ॥ अथ कस्मिन् प्रदेशे वर्तते पद्मावती । विदूषकः — (घ) समुद्दगिहके किळ सय्यात्तिण्णा । (क) त्वरतां त्वरतां तावद् भवान् । (ख) तत्रभवती पद्मावती शीर्षवेदनया दुःखिता । (ग) पद्मिनिकया कथितम् । (घ) समुद्रगृहके किल शय्यास्तीर्णा । १. 'ग्गि' ख. पाठः.
- 'राजा' इत्यादि 'दु' इत्यन्तं क. पुस्तके त्रुटितम् । § 'सीदनदणाए' (?) इति ख. पुस्तके दृश्यते । ‡ पूर्वाभिघातसरुजोऽपि अनुवर्तमानपूर्वाभिघातपीडस्यापीत्यर्थः ।
५२ स्वप्नवासवदत्ते राजा — तेन हि तस्य मार्गमादेशय । विदूषकः — (क) एदु एदु भवं । (उभौ परिक्रामतः) विदूषकः — (ख) इदं समुद्दगिहकं । पविसदु भवं । राजा — पूर्वं प्रविश । विदूषकः — (ग) भो ! तह । (प्रविश्य) अविहा चिट्ठदु चिट्ठदु दाव भवं । राजा — किमर्थम् । विदूषकः — (घ) एसो खु दीवप्पभावसूइदरूवो वसुधातले परिवत्तमाणो अअं काओदरो । राजाँ — (प्रविश्यावलोक्य सस्मितम्) अहो सर्पव्यक्तिवैधेयस्यै । ऋज्वायतां च मुखतोरणलोलमालां भ्रष्टां क्षितौ त्वमवगच्छसि मूर्ख ! सर्पम् । मन्दानिलेन निशि या परिवर्तमाना किञ्चित् करोति भुजगस्य विचेष्टितानि ॥ ३ ॥ विदूषकः — (निरूप्य) (ङ) सुट्ठु भवं भणादि । ण हु अअं (क) एत्वेतु भवान् । (ख) इदं समुद्रगृहकम् । प्रविशतु भवान् । (ग) भोः ! तथा । अविहा तिष्ठतु तिष्ठतु तावद् भवान् । (घ) एष खलु दीपप्रभावसूचितरूपो वसुधातले परिवर्तमानोऽयं काकोदरः । (ङ) सुष्ठु भवान् भणति । न खल्वयं काकोदरः । तत्रभवती पद्मावतीहागत्य निर्गता भवेत् । १. 'हु दाव भ' ख. पाठः. २. 'भासू' ख. पाठः. ३. 'जा-अ' क. पाठः. ४ 'स्य । कुतः-ऋ' ख. पाठः. ५. 'तांगिसु' ख. पाठः.
पञ्चमोऽङ्कः । ५३ काओअरो । (प्रविश्यावलोक्य) तत्तहोदी पदुमावदी इह आअ- च्छिअ णिग्गदा भवे । राजा - वयस्य ! अनागतया भवितव्यम् । विदूषकः - (क) कहं भवं जाणादि । राजा - किमत्र ज्ञेयम् । पश्य, शय्या नावनता तथास्तृतसमा न व्याकुलप्रच्छदा न क्लिष्टं हि *शिरोपधानममलं शीर्षाभिघातौषधैः । रोगे दृष्टिविलोभनं जनयितुं शोभा न काचित् कृता प्राणी प्राप्य रुजां पुनर्न शयनं शीघ्रं स्वयं मुञ्चति ॥ ४ ॥ विदूषकः - (ख) तेण हि इमस्सिं सय्याए मुहुत्तअं उब्बे- विसिअ तत्तहोदिं पडिवाळेदु भवं । राजा - बाढम् । (उपविश्य) वयस्य ! निद्रा मां बाधते । कथ्यतां काचित् कथा । विदूषकः - (ग) अहं कहइस्सं । होन्तिं करेदुँ अत्तभवं । राजा - बाढम् । (क) कथं भवान् जानाति । (ख) तेन ह्यस्यां शय्यायां मुहूर्तकमुपविश्य तत्रभवतीं प्रतिपालयतु भवान् । (ग) अहं कथयिष्यामि । हुङ्कृतिं करोत्वत्रभवान् । १. 'जं' ख. पाठः. २. 'वनिवि' ख. पाठः. ३. 'दु दाव भ' ख. पाठः. ४. 'छन्दतः' ख. पाठः.
- शिरस्य शीर्षस्य उपधानं शिरोपधानं । "शिरोवाची शिरोऽदन्तो रजोवाची रजस्तथा । विचकर्त शिरान् द्रौणिः, इति कण्ठभूषणालङ्कार उक्तम् " इत्यमरटीकासर्वस्वम् ।
९४ स्वप्नवासवदत्ते विदूषकः— (क) अत्थि णअरी उज्जइणी णाम । तहिँ^१ अहिअरमणीआणि^२ उदअण्णाणाणि वत्तन्ति किळ । राजा — कथमुज्जयिनी नाम । विदूषकः — (ख) जइ अणभिप्पेदा एसा कहा, अण्णं कहइस्सं । राजा — वयस्य ! न खलु नाभिप्रेतैषा कथा, स्मराम्यवन्त्याधिपतेः सुतायाः प्रस्थानकाले स्वजनं स्मरन्त्याः । बाष्पं प्रवृत्तैं^३ नयनान्तलभं स्नेहान्ममैवोरसि पातयन्त्याः ॥ ५ ॥ अपिच, बहुशोऽप्युपदेशेषु यया मामीक्षमाणया । हस्तेन स्रस्तकोणेन कृतमाकाशवादितम् ॥ ६ ॥ विदूषकः — (ग) अण्णं कहइस्सं । अत्थि णअरं बह्मदत्तं णाम । तहिं किळ राआ कंपिळ्ळो^४ णाम । राजा — किमिति किमिति । विदूषकः — (पुनस्तदेव पठति) (क) अस्ति नगर्युज्जयिनी नाम । तत्राधिकरमणीयान्युदयज्ञानानि वर्तन्ते किल । (ख) यद्यनाभिप्रेतैषा कथा, अन्यां कथयिष्यामि । (ग) अन्यां कथयिष्यामि । अस्ति नगरं ब्रह्मदत्तं नाम । तत्र किल राजा काम्पि- ल्यो नाम । १. ‘हिं किल अ’ क. पाठः, २. ‘णिज्जाणि’ ख. पाठः, ३. ‘त्तं’ ख. पाठः, ४, ‘वि’ क. पाठः.
पञ्चमोऽङ्कः । ५५ राजा — मूर्ख! राजा ब्रह्मदत्तः, नगरं काम्पिल्यमित्य- भिधीयताम् । विदूषकः — (क) किं राआ बह्मदत्तो, णअरं कंपिळ्ळं । राजा — एवमेतत् । विदूषकः — (ख) तेण हि मुहुत्तअं पडिवाळेदु भवं, जाव ओट्ठगअं करिस्सं । राआ बह्मदत्तो, णअरं कंपिळ्ळं । (इति बहुशस्तदेव पठित्वा) इदाणिं सुणादु भवं । अयि सुत्तो अत्त- भवं । अदिसिदळा इअं वेळा । अत्तणो पावरअं गह्निअ आअमिस्सं । (निष्क्रान्तः) (ततः प्रविशति वासवदत्ता आवन्तिकावेषेण, चेटी च) चेटी — (ग) एदु एदु अय्या । दिढं खु भट्टिदारिआ सीसवेदणाए दुक्खाविदा । वासवदत्ता — (घ) कहिं सअणीअं रइदं पदुमावदीए । चेटी — (ङ) समुद्दगिहके किळ सय्यँत्तिण्णा । (क) किं राजा ब्रह्मदत्तः, नगरं काम्पिल्यम् । (ख) तेन हि मुहूर्तकं प्रतिपालयतु भवान्, यावदोष्ठगतं करिष्यामि । राजा ब्रह्म- दत्तः, नगरं काम्पिल्यम्। इदानीं शृणोतु भवान् । अयि सुप्तोऽत्रभवान् । अतिशीत- लेयं वेला । आत्मनः प्रावरकं गृहीत्वागमिष्यामि । (ग) एत्वेत्वार्या । दृढं खलु भर्तृदारिका शीर्षवेदनया दुःखिता । (घ) कुत्र शयनीयं रचितं पद्मावत्याः । (ङ) समुद्रगृहके किल शय्यास्तीर्णा । १. ‘व ण जा’ क. पाठः. २. ‘शः पठति)’ क. पाठः. ३. ‘वं । हं अ’ ख. पाठः. ४. ‘त्ता चे’ ख. पाठः ५. ‘आ पदुमावदी सी’ ख. पाठः. ६. ‘ता हृद्दि क’ ख. पाठः, ७. ‘य्या ग्गि’ झ. पाठः.
वासवदत्ता — (क) तेण हि अग्गदो याहि¹। (उभे परिक्रामतः) चेटी — (ख) इदं समुद्दगिहकं। पविसदु अय्या। जाव अहं वि सीसाणुळेवणं² तुवारेमि। (निष्क्रान्ता) वासवदत्ता — (ग) अहो अकरुणा खु इस्सरा मे³। विरहपय्युस्सुअस्स अय्यउत्तस्स विस्सत्थाणभूदा इअं पि णाम पदुमावदी अस्सत्था जादा। जाव पविसामि। (प्रविश्यावलोक्य) अहो परिजनस्स पमादो। अस्सत्थं पदुमावदिं केवळं दीवस- हाअं करिअ परित्तजदि। इअं पदुमावदी ओसुत्ता। जाव उव- विसामि। अहवा अण्णासणपरिग्गहेण अप्पो विअ सिणेहो पडिभादि। ता इमस्सिं सय्याए उवविसामि। (उपविश्य) किंकुणुहु एदाए सह उवविसन्तीए अज्ज पल्हादिदं विअ मे हिअअं। दिट्ठिआ अविच्छिण्णसुहणिस्सासा। णिव्वुत्तरो⁴- आए होदव्वं। अहव एअदेससंविभाअदाए सअणीअस्स सू- एदि मं आलिङ्गेहि त्ति। जाव सइस्सं। (शयनं नाटयति) (क) तेन ह्यग्रतो याहि। (ख) इदं समुद्रगृहकम्। प्रविशत्वार्या। यावदहमपि शीर्षानुलेपनं त्वरयामि। (ग) अहो अकरुणाः खल्वीश्वरा मे। विरहपर्युत्सुकस्यार्यपुत्रस्य विश्रामस्थानभू- तेयमपि नाम पद्मावत्यस्वस्था जाता। यावत् प्रविशामि। अहो परिजनस्य प्रमादः। अस्वस्थां पद्मावतीं केवलं दीपसहायां कृत्वा परित्यजति। इयं पद्मावत्यवसुप्ता। यावदुपविशामि। अथवान्यासनपरिग्रहेणाल्प इव स्नेहः प्रतिभाति। तदस्यां शय्याया- मुपविशामि। किंनुखल्वेतया सहोपविशन्त्या अद्य प्रह्लादितमिव मे हृदयम्। दिष्ट्यावि- च्छिन्नसुखनिःश्वासा। निवृत्तरोगया भवितव्यम्। अथवैकदेशसंविभागलया शय- नीयस्य सूचयति मामालिङ्गेति। यावच्छयिष्ये। १. 'हि। चे' ख. पाठः. २. 'सिस्साणु' ख. पाठः. ३. 'मम वि' ख. पाठः. ४. 'व' क. पाठः.