भारतकोश
संग्रह पर लौटें

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

१० प्रपाठके १ अनुवाकः । ७७६

होत् । तन्मे॒ वरु॑णो॒ राजा॑ पा॒णिना॑ ह्यव॒मर्‌श॑तु^{(५१)} । ^{(५२)}सोऽह॒मपा॑पो वि॒रजो॒ निर्मु॑क्तो मुक्तकि॒ल्बिषः॑ । ना- क॑स्य पृ॒ष्ठमा॒रुह्य॒ गच्छे॑द्ब्रह्म॑सलोक॒ताम्^{(५२)} । ^{(५३)}यश्चा॒प्सु वरु॑णः॒ स पु॒नात्व॑घमर्ष॒णः^{(५३)} । ^{(५४)}इ॒मं मे॑ गङ्गे यमुने

लोकतां''^{(५२)} इति । देवपितृमनुष्यादियज्ञमतीत्य भुक्तं 'अत्याशनं' । देवर्षिपितृतर्पणमतीत्य पीतमुदकं 'अतीपानं' । उच्चास्त्ववृत्तौ यः पुमान् तस्मात्, यो 'धनप्रतिग्रहः' । एतैरत्यशनातिपान- दुष्प्रतिग्रहैः सम्पादितं यत् पापं मे मदीयं, 'तत्' सर्व्वं, 'वरुणो राजा' जलस्वामी, स्वकीयेन 'पाणिना', अपनयतु ॥ ततः पापरहितः 'सोऽहं', रजोगुणरहितः, संसारकारणरागद्वेषादि दोषात् 'निर्मुक्तः' । अत एव अनुष्ठायमानः पापरहितः स्वर्ग- स्योपरिभागं, 'आरुह्य', ब्रह्मणा हिरण्यगर्भेण समानभोक्तृत्वं* 'गच्छेत्' गच्छेयं ॥

तीर्थभूतानां गङ्गादिनदीनामावाहनमन्त्रमाह । ^{(५४)}“इमं मे गङ्गे यमुने ० शृणुह्या सुषोमया”^{(५४)} इति । हे गङ्गाद्या नद्यः, यूयं, परुष्ण्यादिभिर्नदीभिः सह 'मे' मदीयं, 'इमं' 'स्तोमं' स्तोत्रं, 'शृणुहि' शृणुत । श्रुत्वा तत्र 'आसचत' आगत्य जले तद्द्वारेण मयि च समवेता भवत । 'गङ्गायमुनासरस्वत्यः', प्रसिद्धाः । 'शुतुद्रि', इति नद्यन्तरस्य सम्बोधनं । 'मरुद्वृधे',


* समानलोकत्वमिति तै० चिह्नितपुस्तकपाठः ।

७८० तैत्तिरीये आरण्यके

सरस्वति॒ शुतु॑द्रि॒ स्तोमं॑ꣳ सचता परु॒ष्णि॒या । अ॒सि॒क्नि॒- या म॑रुद्वृधे वि॒तस्त॒यार्जी॑कीये शृणु॒ह्या सु॒षोम॑या⁽५४⁾ ।⁽५५⁾ ऋ॒तं च॑ स॒त्यं चा॒भी॑द्धा॒त्तप॒सोध्य॑जायत । ततो॒ रात्रि॑र- जायत॒ ततः॑ समु॒द्रो अ॑र्ण॒वः ॥ १३ ॥ समु॒द्राद॑र्ण॒वादधि॑संवत्स॒रो अ॑जायत । अ॒हो॒रा॒त्राणि॑ वि॒दध॒द्विश्व॑स्य मिष॒तो व॒शी । सू॒र्य्या॒च॒न्द्रम॒सौ धा॒ता य॑थापू॒र्व्वमकल्पयत् । दिव॑ञ्च पृथि॒वीं चा॒न्तरि॑क्ष-


'आर्जीकीये', इत्यनयोर्नद्योः सम्बोधनद्वयं । "परुष्ण्या असि- क्निया वितस्तया सुषोमया" इति पदचतुष्टयं तृतीयान्तं नदीचतुष्टयवाचकं ॥

जले निमग्नस्य प्राणायामार्थमघमर्षणसूक्तमाह । ⁽५५⁾"ऋतं च सत्यं चाभीद्धात्तपसः ० दिवञ्च पृथिवीं चान्तरिक्षमथो सुवः"⁽५५⁾ इति । 'ऋतं' मानसं यथार्थसङ्कल्पनं । 'सत्यं' वाचिकं यथार्थभाषणं । 'च'काराभ्यामन्यदपि शास्त्रीयं धर्मजातं समुच्चीयते । तत् सर्व्वं 'अभीद्धात्' अभितः प्रकाशमानात् परमात्मनः, उत्पन्नं । कदा समुत्पन्नं, इति उच्यते । 'तपसोधि' स्रष्टव्यपर्यालोचनरूपात् तपसः ऊर्द्धं । स तपस्तप्त्वा इदꣳ सर्व्वमसृजत इति श्रुत्यन्तरात् । यस्य ज्ञानमयन्तप इति श्रुत्य- न्तराच्च । 'ततः' स्वप्रकाशात् परमेश्वरात्, 'रात्रिः', उत्पन्ना ।

१० प्रपाठके १ अनुवाकः । ७८१


मथो॒ सुव॑:^{(५५)}। ^{(५६)}यत् पृ॑थि॒व्याꣳ रज॑:॒ स्वमा॒न्तरि॑क्षे वि॒रोद॑सी। इ॒माꣳ स्तदापो॑ वरु॒णः पु॒नात्व॑घम॒र्षण॑:^{(५६)}। ^{(५७)}पु॒नन्तु॒ वस॑वः पु॒नातु॒ वरु॑णः पु॒नात्व॑घम॒र्षण॑:^{(५७)}। ^{(५८)}ए॒ष भू॒तस्य॑ म॒ध्ये भुवनस्य गो॒प्ता। ए॒ष पु॒ण्यकृ॑तान्


अह्नोप्येतदुपलक्षणं । 'ततः' तस्मात् परमेश्वरात्, 'समुद्रः', उत्पन्नः । सामान्योक्तस्य* लवणोदक्षीरोददध्यादिविशेषमभि-प्रेत्यार्णवशब्देन पुनर्विशेष्यते । अवान्तरभेदयुक्तात् 'समुद्रात्', 'अधि' ऊर्द्धं, समुद्रोपलक्षितः कृत्स्नः कालः समुत्पन्नः । स च उत्पादकः परमेश्वरः, अहोरात्रोपलक्षितान् सर्व्वान् काल-विशेषान् 'विदधत्' सृजन्, 'मिषतः' निमेषादियुक्तस्य, 'विश्वस्य' सर्व्वस्य प्राणिजातस्य, 'वशी' स्वामी भूत्वा, वर्त्तते । स तादृशः, 'धाता' परमेश्वरः, सूर्य्यादिदेवान्, 'पृथिव्यादि लोकांश्च 'यथापूर्व्वं' अतीतसृष्टौ यस्य यादृशं रूपं तादृशम-नतिक्रम्य, 'अकल्पयत्' सङ्कल्पमात्रेण सम्पादितवान् । दिवश्चे-त्युपात्तत्वात् 'सुवः'शब्देन भोगविशेषा विवक्षितः ॥

अघमर्षणं कृत्वा तत ऊर्द्धमवगाहनायैस्तिस्र ऋचो दर्शय-ति। ^{(५६)}"यत् पृथिव्याꣳ ० पुनात्वघमर्षणः"^{(५६)} । ^{(५७)}"एष भूतस्य मध्ये ० मृत्योर्हिꣳस्यं"^{(५७)} । ^{(५८)}"द्यावापृथिव्योः ०


* समानोक्तस्येति F चिह्नितपुस्तकपाठः।

७८२ तैत्तिरीये आरण्यके

लो॒काने॒ष मृ॒त्योर्हिर॑ण्मयं(५८) । (५९)द्यावा॑पृथि॒व्योर्हिर॑- ण्मयᳲ॒ सꣳश्रि॑तंᳲ सुव॑: ॥ १४ ॥


सुवः सꣳशिशाधि”(५८) । इति ‘पृथिव्यां’, वर्त्तमानानां अस्माकं ‘स्वं रजः’ स्वकीयं पापं, ‘यत्’, अस्ति । ‘आन्तरिक्षे’ सर्व्वतो-न्तरिक्षलोके, ‘विरोदसी’ विशेषेण रोदस्योर्द्यावापृथिव्योः, य-त्पापमस्ति । अत्र रोदस्योः पृथक् उक्तत्वात् पृथिव्यां दूतिपदेन भूमेरधस्ताद्वर्त्तमानः पाताललोको विवक्षितः । सर्व्वेष्वपि लोकेषु तत्तज्जन्मान्यनुभवताम् अस्माकं यत् पापम् आसीत्, ‘तत्’ सर्व्वं पापं तदनुष्ठातॄन् ‘इमान्’ अस्मांश्च, ‘वरुणः’, ‘पुनातु’ शोधयतु, पापं विनाश्य शुद्धानस्मान् करोतु । कीदृशो वरुणः, ‘आपः’ जलस्वामित्वेन तद्रूपः । अघानि मर्षयति विनाशयति दूति ‘अघमर्षणः’॥ तादृशः, ‘एषः’ वरुणः, ‘भूतस्य’ अतीतस्य, ‘भुवनस्य’ प्राणिजातस्य, ‘गोप्ता’ रक्षिता । तथा भाव्यस्य, भविष्यतोपि अयतः ‘गोप्ता’ । ‘एषः’ वरुणः, ‘पुण्य-कृतां’ ज्योतिष्टोमाधिकारिणां, ‘लोकान्’, प्रयच्छति इति शेषः । ‘एषः’ वरुणः, ‘मृत्योः’ सर्व्वप्राणिमारकस्य यमस्य, सम्ब-न्धिनं ‘हिरण्मयं’ लोकविशेषं, पापिनां प्रयच्छतीति शेषः ॥ यच्च ‘हिरण्मयं’ ब्रह्माण्डरूपं, ‘सुवः’ स्वर्गशब्दोऽभिधेयं, ‘द्यावा-पृथिव्योः’ द्युलोकभूलोकयोः, ‘संश्रितं’ प्रवर्त्तते । हे वरुण,

१० प्रपाठके १ अनुवाकः । ७८३

स न॒ः सुव॒ः सꣳशि॑शाधि ५९) । (६०)आ॒र्द्रं ज्व॑लति॒ ज्योति॑र॒हम॑स्मि । ज्योति॒र्ज्वल॑ति॒ ब्रह्मा॒हम॑स्मि । यो॑ऽहम॑स्मि॒ ब्रह्मा॒हम॑स्मि । अ॒हम॑स्मि॒ ब्रह्मा॒हम॑स्मि । अ॒हमे॒वाहं


'सः', त्वं 'नः' अस्मान् प्रति, 'सुवः' तादृशं स्वर्गलोकं, 'संशिशाधि' सम्यक् अनुगृहाण ॥

इति तिसृभिः ऋग्भिः स्नातवतः पुरुषस्य आचमनार्थं. मन्त्रमाह । (६०)"आर्द्रं ज्वलति ० मां जुहोमि स्वाहा"(६०) इति । यत् एतत् उदकरूपं 'आर्द्रं', तदेतत् स्वाधिष्ठानचैतन्येन 'ज्वलति' प्रकाशते । तच्च अधिष्ठानरूपं 'ज्योतिः', 'अहमस्मि' । देहेन्द्रियादिभ्यो विवेचितस्य मम तदेवाधिष्ठानचैतन्यं स्वरूपं इत्यर्थः । तदेव उपपाद्यते, 'ज्योतिर्ज्वलति', इत्युक्तं तत् 'ज्योतिः', ब्रह्मैव । अतो 'ज्योतिरहमस्मि', इति वाक्येन 'ब्रह्माहमस्मि', इत्युक्तं भवति, नच पूर्व्वसिद्धं* जीवात्मनः स्वरूपं विनाश्य रूपान्तरस्य ब्रह्मत्वलक्षणस्य प्राप्तिर्भवति । किन्तु 'योऽहं' पुरा जीवः, 'अस्मि', स एव इदानीं 'अहं ब्रह्मास्मि' । वस्तुतो ब्रह्माण्येव मयि पूर्वमज्ञानाज्जीवत्वमारोपितमासीत् । तस्मिन् अज्ञाने विवेकेनापनीते सति वस्तुतः पूर्व्वसिद्धमेव 'ब्रह्मस्वरूपं इदानीं अनुभविता 'अस्मि,' नतु नूतनं किञ्चित


* पूर्व्वसिद्धेति E चिह्नितपुस्तकपाठः ।
5 c

७८४ तैत्तिरीये आरण्यके

मां जुहोमि॒ स्वाहा॑।(६०)। (६१)अ॒कार्य्य॑कार्य्यवकी॒र्णी स्ते॒नो भ्रू॑ण॒हा गु॑रुत॒ल्पगः॑। वरु॑णो॒ऽपाम॑घम॒र्षण॒स्तस्मा॑त्पा॒पात् प्रमु॑च्यते।(६१)। (६२)रजो॒भूमि॒स्त्वं माᳵ रोद॑यस्व प्र॒वद॑न्ति


ब्रह्मत्वमागतं। तस्मात् 'अहमेव,' अहंब्रह्मभावानुभववेलाया- मपि* पूर्वसिद्धोऽहमेव न तु योषित्स्यग्निध्यानवदुपचरितं ब्रह्मत्वं। तादृशः 'अहं', जलरूपं 'मां', 'जुहोमि' उदराग्नौ प्रक्षिपामि। हविःप्रदानवाची 'स्वाहा'शब्दः। मद्दहवर्त्तिभ्यो देवेभ्यो जल- रूपं हविर्दत्तम् इत्यर्थः॥

आचमनात् ऊर्ध्वं पुनरपि स्नाने मन्त्रमाह। (६१)"अकार्य्य- कार्य्यवकीर्णी ० तस्मात् पापात्प्रमुच्यते"(६१) इति। अकार्य्यं शास्त्रप्रतिषिद्धं कलञ्जभक्षणादिकं, तत्कर्तुं शीलं यस्यासौ 'अकार्य्यकारी'। प्रतिषिद्धस्त्रीगमनवान् 'अवकीर्णी' । ब्राह्मण- सुवर्णहर्त्ता 'स्तेनः'। वेदवेदाङ्गविद् ब्राह्मणः, गर्भो वा भ्रूणः, तं हन्ति इति 'भ्रूणहा'। गुरुदारगामी तु 'गुरुतल्पगः'। एतादृशपापकारिणम् अपि मां 'अघमर्षणः' पापविनाशकः, 'अपां', स्वामी 'वरुणः', 'तस्मात्' सर्वस्मात्, 'पापात्', 'प्रमुच्यते' मोचयति॥

रहस्यपापक्षयार्थे स्नानमन्त्रमाह। (६२)"रजोभूमिस्त्वं माᳵ


* अहं ब्रह्मात्मानुभववेलायामिति F, चिह्नितपुस्तकपाठः। अहं ब्रह्मतत्त्वानभववेलायामिति E चिह्नितपुस्तकपाठः।

१० प्रपाठके १ अनुवाकः। ७८५

धीरा॑:॥(११)*। ^{(१२)}आक्रा॑न्त्समु॒द्रः प्र॑थ॒मे वि॒धर्म॑न् ज॒न- य॑न् प्र॒जा भुव॑नस्य॒ राजा॑॥ वृषा॑ प॒वित्रे॒ अधि॒ सानो॒ अव्ये॑ बृ॒हत् सोमो॑ वावृधे सुवा॒न इन्दु॑:॥^{(१२)}॥ १५॥

पुनात्वघमर्षणः॥*(११) इति। 'रजः' रजःपापस्य, 'भूमिः' स्थानभूतः, अहं, अतो हे देव 'त्वं', तत्पापफलभूत-यातनया 'मां रोदयस्व'। यद्यप्येतत्तवोचितं तथापि 'धीराः' बुद्धिमन्तः, शास्त्रपारङ्गताः, मामनुगृह्णत एवं 'प्रवदन्ति'। तदीयं वाक्य- मुदाह्रियते। 'ऋषयः' वशिष्ठमुख्याः, एनं स्नानकारिणं 'पुनन्तु' शोधयन्तु। तथा 'वसवः' अष्टसङ्ख्याकाः, एनं 'पुनन्तु'। 'वरुणः', 'अपि एनं 'पुनातु'। 'अघमर्षणः' पापविनाशकोऽन्योऽपि देवः, एनं 'पुनातु'। एवं धीरैर्महद्भिरनुगृहीतत्वात् ऋष्यादिभिः पूतं मां त्वमपि यमदेव मा बाधस्व, अनुगृहाण, इत्यर्थः।

स्नानादूर्ध्वं जप्यं मन्त्रमाह। ^{(१२)}"आक्रान्तसमुद्रः प्रथमे वावृधे सुवान इन्दुः"^{(१२)} इति। समुद्रवत् प्रौढत्वात् सम्मोदाख्यपरमानन्दस्वभावत्वात् वा 'समुद्रः' परमात्मा, स च सर्वं जगत् 'आक्रान्' आक्रान्तवान्, व्याप्तवान्। किं कुर्वन्, 'प्रथमे' सृष्टेरादिकाले, 'प्रजा जनयन्'। कीदृशे प्रथमकाले,


* भाष्यपुस्तकद्वयधृतमूलपाठे प्रवदन्ति धीरा इत्यस्योत्तरं पुनन्तु ऋषयः पुनन्तु वसवः पुनातु वरुणः पुनात्वघमर्षण इत्यधिकः पाठः। कखगघचतुर्ष्वपि मूलपुस्तकेषु नैष पाठो दृश्यते।

5 c 2

७८६ | तैत्तिरीये आरण्यके

परस्तात्॑^(१) । यशः^(२) । गुहा॑सु^(३) । ममे॑^(४) । चक्रतु- ण्डाय॑ धीमहि^(५) । तीक्ष्णादꣳष्ट्राय॑ धीमहि^(६) । परि॑^(७) । प्र॒ति॑ष्ठितं^(८) । देभुः^(९) । यच्छ॑तु^(१०) । दधात॒न^(११) । अ॒ङ्ग!^(१२) । अ॒र्णवः^(१३) । सु॒वः^(१४) । राजा, एकं च^(१५) । रु॒द्रौ रु॒द्रश्च॑ द॒न्तिश्च॑ न॒न्दिः ष॑ण्मुख एव च । ग॒रुडो॑ ब्र॒ह्मविष्णु॑श्च ना॒र॒सिꣳह॑स्तथैव च ॥ आ॒दि॒त्योऽग्नि॑श्च दु॒र्गिश्च॑ क्रमेण द्वादशा॑म्भसि । म(१) । म(२) । व(३) । च्(४) । म(५) । सुं(६) । वे(७) । ना(८) । व(९) । भा(१०) । वै(११) । का- त्या॒य॒नाय(१२) ॥


‘विधर्म्मन्’ प्राणिभिः पूर्वकल्पे अनुष्ठिता विविधा धर्मा यस्मिन् काले स्वफलदानार्थं उद्बोध्यन्ते, सोऽयं विधर्म्मा तस्मिन् । स च परमात्मा ‘भुवनस्य’, पालकत्वात् ‘राजा’ । स्वभक्तानां कामानां वर्षणहेतुत्वात् ‘वृषा’ । ईदृशः, सर्वत्र व्याप्तवान् । किञ्च । ‘सानौ’ सानौ, पर्वतपार्श्वभागे । श्रुत्यन्तरे तं ब्रह्मगिरिः इत्याचक्षत इति श्रवणात् ब्रह्मावबोधयोग्यो देहो गिरिः, तदवयवः सानुः, हृदयपुण्डरीकं, तच्च ‘पवित्रं’ बाह्यदेहावयववदुच्छिष्टस्पर्शादिदोषाभावात् शुद्धं, ‘अधि’ पुरुषार्थहेतुध्यानस्थानत्वात् इतरावयवेभ्योऽप्यधिकं, अतएव व्यातृणाम-

१० प्रपाठके १ अनुवाकः। ७८७

(१५)जातवेदसे सुनवाम॒ सोम॑मरातीय॒तो निद॑हाति॒ वेदः॑ । स नः॑ पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा॑ ना॒वेव॒ सिन्धुं॑

वनस्य पालनस्य हेतुत्वात् 'अव्यं' हिमवत्पुत्र्या गौर्या ब्रह्मविद्या- भिमानिरूपत्वात् गौरीवाचक उमाशब्दो ब्रह्मविद्यामुप- लक्षयति । अत एव तलवकारोपनिषदि ब्रह्मविद्यामूर्त्तिप्रस्तावे ब्रह्मविद्यामूर्त्तिः पठ्यते, बहुशोभमाना तु मां हैमवतीं होवाच इति । तद्विषयः परमात्मा तया उमया सह वर्त्तमानत्वात् 'सोमः', स च सानौ हृदयपुण्डरीके 'बृहत्' ब्रह्म यथा भवति तथा, 'वावृधे' वृद्धिं प्राप्तः, पूर्वं अविद्यावृतत्वेन सङ्कुचितो जीवो भूत्वा तस्यामविद्यायां विद्यायापनीतायां ब्रह्मावाविर्भा- वात् प्रवृद्ध इव भासत इत्यर्थः । स च सोमः, 'सुवानः' जीवानां धर्माधर्मयोः प्रेरकः, 'इन्दुः' फलदानेन चन्द्र- वदाह्लादहेतुः ॥

अथानिष्टपरिहारार्थत्वेन जया मन्त्रा उच्यन्ते । तत्रैका- मृचमाह । (१४)"जातवेदसे सुनवाम ० नावेव सिन्धुं दुरितात्यग्निः"(१५) इति । वेदांसि वेदनानि ज्ञानानि तानि जातान्युत्पन्नानि यस्मात् अग्नेः सोऽयं जातवेदाः, आधानेन संस्कृतेऽग्नौ पश्चात्तदा तदा कर्त्तव्यविषयाणि ज्ञानान्युत्पद्यन्ते, तस्मै 'जातवेदसे' । यागकाले लतात्मकं 'सोमं', 'सुनवाम' अभिषुतं करवाम । स्वयं सर्वं वेत्ति इति 'वेदः' अग्निः,

७८८ तैत्तिरीये आरण्यके

दुरितात्य॒ग्निः॑॥(६४) । (६५)ताम॒ग्निव॑र्णां॒ तप॑सा ज्वल॒न्तीं वै॑रोच॒नीं क॑र्मफ॒लेषु॒ जुष्टा॑म्। दु॒र्गां दे॒वीँ॒ शर॑णम॒हं प्रप॑द्ये सु॒तर॑सि तरसे॒ नमः॑॥(६५) । (६६)अग्ने॒ त्वं पा॑रया


स च 'अरातीयतः' अस्माखरातिवं शत्रुत्वमिच्छतः पुरुषान्, 'निदहाति' नितरां भस्मीकरोति । किञ्च । 'सः' अग्निः, 'नः' अस्माकं, 'विश्वा दुर्गाणि' सर्वा आपदः, 'अतिपर्षत्' अतिशयेन नाशितवान्, इत्यर्थः । किञ्च । यथा लोके 'नावा', 'सिन्धुं' समुद्रं, नाविकस्तारयति, तथा 'अग्निः', 'दुरितानि', पापानि, अतिशयेन तारयति इति शेषः ॥

द्वितीयामृचमाह । (६५)“तामग्निवर्णान्तपसा ० सुतरसि तरसे नमः”(६५) इति । येयं नवदुर्गा कन्यादिषु मन्त्रशास्त्रेषु प्रसिद्धा, 'तां दुर्गां देवीं', 'अहं शरणं प्रपद्ये' । कीदृशीं, अग्निसमानवर्णां, 'तपसा' स्वकीयेन सन्तापेन, 'ज्वलन्तीं' अस्मच्छत्रून्दहन्तीं, विशेषेण रोचते स्वयमेव प्रकाशत इति विरोचन, परमात्मा, तेन दृष्टत्वात् 'वैरोचनीं', 'कर्मफलेषु' स्वर्गपशुपुत्रादिषु निमित्तभूतेषु, 'जुष्टां' उपासकसेवितां । हे 'सुतरसि' सुष्ठु संसारतरणे हेतौ देवि, 'तरसे' तारयित्र्यै तुभ्यं, 'नमः', अस्तु ॥

तृतीयामृचमाह । (६६)“अग्ने त्वं पारया ० तनयाय शंयोः”(६६) इति । हे अग्ने 'नवः' स्तोतव्यः, 'त्वं', 'अस्मान्', 'स्वस्तिभिः',

१० प्रपाठके १ अनुवाकः । ७८६

नव्यो॑ अ॒स्मान्त्स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा॑ । पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी भवा॑ तो॒काय॒ तन॑याय॒ शंयोः॑ ॥(६६) । (६७)विश्वानि॑ नो दु॒र्गहा॑ जातवेदः॒ सिन्धु॒न्न ना॒वा दु॑रि॒ताऽति॑पर्षि । अग्ने॑ अत्रि॒वन्मन॑सा गृणा॒नोऽस्माकं॑


क्षेमकारिभिः उपायैः, 'विश्वा दुर्गाण्यति' सर्वा आपदोऽतिशय्येन लङ्घयित्वा, 'पारय' संसारस्य परतीरनय । 'नः', अस्माकं, त्व- त्प्रसादात् 'पूश्च' या निवासयोग्या पुरी सत्यपि, पृथिवी, सा विस्तीर्णा भवतु । 'उर्वी' सर्वस्य निष्पादनयोग्या भूमिरपि, 'बहुला', भवतु । तच्च 'तोकाय तनयाय' अस्मदपत्याय तदीय- पुत्राय च, 'शंयोर्भव' सुखस्य मिश्रयिता भव ॥

चतुर्थीमृचमाह । (६७)"विश्वानि नो दुर्गहा ० बोधयिता तनूनां"(६७) इति । हे 'जातवेदः', 'दुर्गहा' सर्वासामापदाम- पहन्ता, । त्वं 'विश्वानि दुरिता' सर्वाणि पापानि, 'नावा', 'सिन्धुं न' समुद्रमिव, 'नः' अस्मान्, 'अतिपर्षि' अतिशयेन तार- यसि । हे 'अग्ने', 'अत्रिवत्' आध्यात्मिकादितापत्रयरहितत्वेन अत्रिशब्दवाच्यो जीवन्मुक्तो महर्षिः, "आत्मौपम्येन भूतानां दयां कुर्वीत मानवः" इत्येतच्छास्त्रमनुसृत्य, "सर्वे च सुखिनः सन्तु सर्वे सन्तु निरामयाः" इत्येवं मनसा यथा यथा सर्वदा भावयति, तथा त्वमपि 'मनसा', 'गृणानः' गुणान् उच्चारयन् भावयन्,

७६० तैत्तिरीये आरण्यके

बोध्यवि॒ता त॒नूनाँ॑।^{(६७)} । ^{(६८)}पृ॒त॒ना॒जितँ॑ स॒हमान॑मु॒ग्रम॒ग्निँ हु॑वेम प॒रमात्स॒धस्था॑त् । स न॑: पर्षदति॑ दु॒र्गाणि॒ विश्वा॑ क्षाम॑द्दे॒वो अति॑ दु॒रितात्य॒ग्निः॥^{(६८)}॥ ^{(६९)}प्र॒त्नोषि॑ क॒मीड्यो॑ अ॒ध्वरेषु॑ स॒नाच्च॒ होता॒ नव्य॑श्च॒ सत्सि॑। स्वाञ्चा॑ग्ने त॒नुव॑म्पि॒प्रय॑स्वा॒स्मभ्य॑ञ्च॒ सौभ॑ग॒माय॑जस्व^{(६९)} । गोभि॑र्जु॒ष्टमयु॑जो॒ निष्षि॑क्त॒न्तवे॑न्द्र विष्णो-


'अस्माकं', 'तनूनाम्', 'अविता' रक्षिता भूत्वा, 'बोधि' बुध्यस्व, सावधानो भवेत्यर्थः ॥

पञ्चमीमृचमाह । ^{(६८)}"पृतनाजितँ सहमानमुग्रमग्निँ अति दुरितात्यग्निः"^{(६८)} इति । पृतना परकीयसेना जयतीति 'पृतनाजित्', तं, अतएव 'सहमानं' शत्रूनभिभवन्तं । 'उग्रं' भीतिहेतुं, 'अग्निं' 'परमात्' उत्कृष्टात् 'सधस्थात्' स्वकैः भृत्यैः सहावस्थानदेशात्, 'हुवेम' आह्नयाम। स न इत्यादि पूर्ववत् । किञ्च 'अग्निर्देवः' 'क्षामत्' अस्मदपराधान् क्षममाणः, 'अति दुरिता' अतिशयितानि पातकानि ब्रह्महत्यादीनि अतिलङ्घयतीति शेषः ॥

षष्ठीमृचमाह । ^{(६९)}"प्रत्नोषि कमीड्यो ० सौभगमायजस्व"^{(६९)} इति । हे अग्ने त्वं 'अध्वरेषु' यागेषु, 'ईड्यः' स्तुत्यः सन् 'कं' सुखं, 'प्रत्नोषि' विस्तारयसि । 'सनाच्च' कर्मफलस्य दातापि सन् 'होता' होमनिष्पादकः, 'नव्यः' स्तुत्योऽपि भूत्वा 'सत्सि'

१० प्रपाठके २ अनुवाकः । ७६१


रनु॒सञ्च॑रेम । नाक॑स्य पृ॒ष्ठम॒भिसं॒वसा॑नो॒ वैष्ण॑वीं लो॒क इ॒ह मो॑दयन्तां ॥
अ॒ग्निः, च॒त्वारि॑ च ॥ अनु० १ ॥


अथ द्वितीयोऽनुवाकः ।

$^{(१)}$भूर॒ग्नये॑ पृथि॒व्यै स्वाहा॒ भुवो॑ वा॒यवे॑ऽन्तरि॑क्षाय॒ स्वाहा॒ सुव॑रादि॒त्याय॑ दि॒वे स्वाहा॒ भूर्भुवः॒ सुव॑श्चन्द्र-


सीदसि, यागदेशे तिष्ठसि । अतो हे 'अग्ने', 'स्वाञ्च' स्वकीयामपि, 'तनुवं', 'पिप्रयस्व' अस्मदीयहविषा प्रीणय, ततः 'अस्मभ्यञ्च', 'सौभगं' शोभनभाग्योपेतत्वं, 'आयजस्व' सर्वतो देहि ॥

इति सायणाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि प्रथमोऽनुवाकः ॥


अथ द्वितीयोऽनुवाकः ।

अथ होमार्थान्महाव्याहृतिसञ्ज्ञकान् मन्त्रानाह । $^{(१)}$“भूरग्नयं पृथिव्यै ॰ भूर्भुवः सुवरोम्”$^{(१)}$ इति । भूर्भुवः सुवरोमिति त्रीणि पदान्यव्ययानि तानि च व्यस्तरूपेण समस्तरूपेण च मन्त्रचतुष्टयरूपतां* प्रतिपाद्याग्न्यादिदेवताप्रतिपादकानि । तथा सत्ययमर्थः सम्पद्यते । 'भूः', इत्यनेन मन्त्रेण प्रतिपाद्याग्नये, तन्मन्त्र-


* चतुष्टयपरतामिति Q चिह्नितपुस्तकपाठः ।

5 D

७८२तैत्तिरीये आरण्यके

म॑से दि॒ग्भ्यः स्वाहा॒ नमो॑ दे॒वेभ्यः॑ स्व॒धा पि॒तृभ्यो॒ भूर्भुवः॒ सुव॒रोम्$^{(१)\ *}$ ॥ अनु० $^{\dagger}२$ ॥


प्रतिपाद्यायै 'पृथिव्यै', च 'स्वाहा' सुहुतमिदं द्रव्यमस्तु इति । एवमुत्तरेष्वपि त्रिषु मन्त्रेषु योज्यं । अत्र द्रव्यविशेषस्यानुक्तत्वात् सर्वहोमसाधारणमाज्यमेव द्रव्यमित्यवगन्तव्यम् । फलविशेषस्यानुक्तत्वात् पापक्षयोऽत्रसाधारणं फलं द्रष्टव्यं$^{\ddagger}$ । 'चतुर्भिर्मन्त्रैर्यथाशक्ति हुत्वा अन्ते प्राङ्मुखः 'नमो देवेभ्यः', इति मन्त्रेणोप-तिष्ठेत । पश्चाद्दक्षिणाभिमुखः 'स्वधा पितृभ्यः', इति मन्त्रेणोप-तिष्ठते । 'स्वधा'शब्दः पितृप्रियं नमस्काराद्युपचारं ब्रूते । 'भूर्भुवः सुवः', इति लोकत्रयेऽपि पापरहितो भवामि । 'ॐ' इत्ययं शब्दः अङ्गीकारवाचित्वात् तत्र तत्रोचितार्थाङ्गीकारं प्रतिपादयति । नारायणाख्येनेश्वरेण मुनिना वा दृष्टत्वादयं प्रपाठको नारायणीयः ॥

इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि द्वितीयोऽनुवाकः ॥


$^*$ सुवरन्न ओम् इति B, J, N, O चिह्नितपुस्तकचतुष्टयपाठः ।
$^{\dagger}$ अस्मल्लब्धेषु चतुर्षु मूलपुस्तकेषु भूरग्नये पृथिव्यै इत्यनुवाकस्तृतीयत्वेन परिगणितः । परन्तु भाष्यकारेणायमनुवाको द्वितीयत्वेन परिगृहीतः ।
$^{\ddagger}$ घृतं पापक्षयोऽत्र साधारणं फलमिति Q चिह्नितपुस्तकपाठः ।

१० प्रपाठके ४ अनुवाकः। ७६३

अथ तृतीयोऽनुवाकः।

$^{(१)}$भूरन्न॑म॒ग्नये॑ पृथि॒व्यै स्वाहा॒ भुवोऽन्नं॑ वा॒यवे॒न्तरि॑- क्षाय॒ स्वाहा॒ सुव॒रन्न॑मादि॒त्याय॑ दि॒वे स्वाहा॒ भूर्भुवः॒ सुव॒रन्नं॑ च॒न्द्रम॑से दि॒ग्भ्यः स्वाहा॒ नमो॑ दे॒वेभ्यः॑ स्व- धा पि॒तृभ्यो॒ भूर्भुवः॒ सुव॒रन्न॒मोम्$^{(१)}$ ॥ अनु० ३ ॥


अथ चतुर्थोऽनुवाकः।

$^{(१)}$भूर॒ग्नये॑ च पृथि॒व्यै च॑ म॒हते॑ च॒ स्वाहा॒ भुवो॑ वा॒यवे॑ चा॒न्तरि॑क्षाय च म॒हते॑ च॒ स्वाहा॒ सुव॑रादि॒-


अथ तृतीयोऽनुवाकः।

अन्नसमृद्धिकामस्य तेष्वेव मन्त्रेषु पाठान्तरमाह। $^{(१)}$“भूरन्नमग्नये पृथिव्यै ॰ सुवरन्नमोम्”$^{(१)}$ इति। अन्नद्रव्यं स्वाहुतमस्तु। समृद्धं 'अन्नं', 'ओम्' प्राप्नोमि, इत्येतावानेव विशेषः ॥

इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरार- ण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्या- मुपनिषदि तृतीयोऽनुवाकः ॥


अथ चतुर्थोऽनुवाकः।

पूजाकामस्य पुनरप्यन्यपाठमाह। $^{(१)}$“भूरग्नये च ॰ सुव- र्महरोम्”$^{(१)}$ इति। 'महते' प्रौढाय पूज्याय, वा हिरण्य-

5 D 2

७६४ तैत्तिरीये आरण्यके

त्याय॑ च दि॒वे च मह॑ते च॒ स्वाहा॑. भूर्भुवः॒ सुव॑श्च॒न्द्र- म॑से च॒ नक्ष॑त्रेभ्यश्च दि॒ग्भ्यश्च॒ मह॑ते च॒ स्वाहा॒ नमो॑ दे॒- वेभ्यः॑ स्व॒धा पि॒तृभ्यो॒ भूर्भुवः॒ सुव॑र्म॒हरोम्(१) ॥ अनु० ४ ॥


अथ पञ्चमोऽनुवाकः ।

^(१)पाहि नो अग्न एन॑से॒ स्वाहा॑ । पाहि नो विश्व-


गर्भाय, 'च'कारैस्तत्तद्देवतानां सेवका देवाः परिगृह्यन्ते । ते- भ्योऽपि स्वाहुतमित्युक्तं भवति । 'महरोम्' पूजां प्राप्नवानि ॥

इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरार- ण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्या- मुपनिषदि चतुर्थोऽनुवाकः ॥


अथ पञ्चमोऽनुवाकः ।

पूर्वत्र भूरग्नये इत्यनुवाके सर्वसाधारणाः पापक्षयार्था होम- मन्त्रा उक्ताः । अथ प्रतिबन्धनिवारणेन मुमुक्षोर्ज्ञानप्राप्त्यर्था होममन्त्रा उच्यन्ते । ^(१)“पाहि नो अग्ने ० शतक्रतो स्वाहा”^(१) इति । हे ‘अग्ने’, ‘नः’ अस्मान्, ‘एनसः’ ज्ञानप्रतिबन्धकात् पापात्, ‘पाहि’ रक्ष । तुभ्यमिदं स्वाहुतमस्तु । ‘नः’ अस्माकं, ‘विश्व- वेदसे’ कृत्स्नतत्त्वज्ञानसिद्ध्यर्थं, ‘पाहि’ तत्साधनसम्पादनेन पालय, तदर्थं तुभ्यं इदं स्वाहुतमस्तु । विशेषेण भानं दीप्तिः विभा सैव वसु धनं यस्याग्नेः सोऽयं विभावसुः । हे ‘विभावसो’, ‘यज्ञं’

१० प्रपाठके ६ अनुवाकः। ९६५

वेद॑से स्वाहा॑ । य॒ज्ञं पा॑हि विभावसो॒ स्वाहा॑ । सर्वं॑ पा॒हि श॒तक्र॑तो॒ स्वाहा॑⁽१⁾ ॥ *पा॒हि नो॑ अ॒ग्न एक॑या । पा॒ह्यु॑त द्वि॒तीय॑या । पा॒- ह्यूर्जं॑ तृ॒तीय॑या । पा॒हि गी॒र्भिश्‍चत॑सृभिर्वसो॒ स्वाहा॑ ॥ अनु० ५ ॥


अथ षष्ठोऽनुवाकः ।

⁽१⁾यश्छन्द॑सामृष॒भो वि॒श्वरू॑प॒श्छन्दो॑भ्य॒श्छन्दाँ॒ꣳ॒स्यावि॒वेश॑ । सताँ॒ꣳ॒ शिक्यः॑† प्रोवा॒चोप॑निष॒दिन्द्रो॑ ज्येष्ठ॑

विविदिषाहेतुलेनास्माभिरनुष्ठीयमानं, 'पाहि' निर्विघ्नेन समाप्तिं नीत्वा पालय । शतसङ्ख्याकाः क्रतवो येनाग्निना निष्पाद्यन्ते सोऽयं शतक्रतुः। हे 'शतक्रतो', 'सर्वं' ज्ञानसाधनं गुरुशास्त्रादिकं, 'पाहि' ॥

इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि पञ्चमोऽनुवाकः ॥


अथ षष्ठोऽनुवाकः ।

अथ ज्ञानप्रतिपादककृत्स्नवेदान्तप्राप्तिकामेन जप्यं मन्त्रमाह । ⁽१⁾'यश्छन्दसामृषभः ० भूर्भुवः सुवश्छन्द ओम्'⁽२⁾ इति । 'यः' प्रणवः, 'छन्दसां' वेदानां मध्ये, 'ऋषभः' श्रेष्ठः, 'विश्वरूपः'


* एतन्मन्त्रस्य भाष्यं नास्ति ।
† B, J, N, O, Q चिह्नितपुस्तके सचाꣳ शिक्य इति पाठः ।

७६६तैत्तिरीये आरण्यके

इन्द्रि॒याय॒ ऋषि॑भ्यो॒ नमो॑ दे॒वेभ्यः॑ स्व॒धा पि॒तृभ्यो॒ भूर्भुवः॒ सुव॒श्छन्द॒ ओम्^(१) ॥ ६ ॥


सर्वजगदात्मकः, एतद्वेदसारत्वं विश्वरूपत्वञ्च सांहित्यामुपनिषदि प्रपञ्चितं । तादृशः प्रणवः 'छन्दोभ्यः' वेदेभ्यः, प्रादुर्भूतइति शेषः । वेदसारत्वेन प्रजापतेः प्रत्यभादित्यर्थः । सः पुनः 'छन्दांसि' गायत्र्यादीनि, 'आविवेश' । छन्दोभिरुपलक्षितेषु मन्त्रेषु प्रयोक्तव्यः । तथाच प्रपञ्चसारेऽभिहितं । अस्य तु वेदादित्वात्सर्वमनूनां प्रयुज्यते ह्यादाविति । तेन प्रणवेन प्रतिपाद्यः 'इन्द्रः' परमैश्वर्ययुक्तः परमात्मा, 'उपनिषत् प्रोवाच' उपनिषदं ब्रह्मविद्यां सर्ववेदान्तसिद्धां उक्तवान् । कीदृश इन्द्रः, 'सतां शिक्यः' सद्भिः कर्मानुष्ठायिभिरुपासकैर्ज्ञानिभिश्च प्राप्तुं शक्यः, 'ज्येष्ठः' कारणत्वेन सर्वस्मात्प्रथमः । किमर्थं विद्यामुक्तवानित्युच्यते । 'ऋषिभ्यः' ऋषीणामन्तर्मुखानां जिज्ञासूनां, 'इन्द्रियाय' ज्ञानसामर्थ्याय, अतोऽहं तत्प्रतिबन्धिवारणाय 'देवेभ्यः पितृभ्यः', च 'नम'स्करोमि । 'भूर्भुवः सुवरोम्' लोकत्रयावस्थितान् प्राप्नोमि । देवानिति शेषः । एतदेवाभिप्रेत्य केचिद् भूर्भुवः सुवश्छन्द ओमिति पठन्ति ॥

इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि षष्ठोऽनुवाकः ॥


१० प्रपाठके ८ अनुवाकः । ७६७

अथ सप्तमोऽनुवाकः

(१)नमो॒ ब्रह्म॑णे धार॑णं मे॒ अस्त्वन॑िराकरणं धारयि॑ता भूयासं॒ कर्ण॑योः श्रु॒तं मा च्यौढुं॒ ममा॒मुष्य॒ ओम्(१) ॥
अनु० ७ ॥


अथाष्टमोऽनुवाकः।

(१)ऋ॒तं तपः॑ स॒त्यं तपः॑ श्रु॒तं तपः॑ शा॒न्तं तपो॒ दम॒स्तपः॑


अथ सप्तमोऽनुवाकः ।

अथ लब्धानां वेदानांमविस्मरणाय जप्यं मन्त्रमाह । (१)“नमो ब्रह्मणे ॰ ममामुष्य ओम्”(१) इति । ‘ब्रह्मणे’ जगत्कारणाय, ‘नमः’, ‘अस्तु’ । तत्प्रसादान्मदीये चित्ते ग्रन्थतदर्थयोः ‘धारणं’, अस्तु । ‘निराकरणं’ विस्मरणं यथा न भवति तथा, ‘धारयिता भूयासं’ । ‘अमुष्य’ इत्थं प्रार्थयमानस्य ‘मम’, ‘कर्णयोः’, यत्किञ्चिद्वेदशास्त्रादिकं यदा कदाचिदपि ‘श्रुतं’, आसीत् तत्सर्वं हे देव ‘मा च्योढुं’ मा विनाशय । ततोऽहं ‘ओम्’ प्राप्नुयां, स्थिरं धारणमिति शेषः ।

इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि सप्तमोऽनुवाकः ॥


७६८ तैत्तिरीये आरण्यके

शम॒स्तपो॒ दानं॒ तपो॒ यज्ञं॒ तपो॒ भूर्भुव॒: सुव॒र्ब्रह्मै॒तदुपा॑- स्वै॒तत्तप॑:⁽१⁾ ॥ अनु० ८ ॥


अथाष्टमोऽनुवाकः ।

अथ ज्ञानसाधनं यत्तपश्चित्तैकाग्र्यमस्ति “मनसश्चेन्द्रियाणाञ्च ह्येकाग्र्यं परमन्तपः” इति श्रुतेः । तत्तपः श्रौतस्मार्तसर्वकर्मस्वरूपतया प्रशंसति । यद्वा । तथाविधतपःसिद्धयर्थं जप्यं मन्त्रमाह । ⁽१⁾“ऋतं तपः सत्यन्तपः ० ब्रह्मैतदुपास्वैतत्तपः”⁽१⁾ इति । ‘ऋतं’ मनसा यथार्थवस्तुचिन्तनं, ‘सत्यं’ वाचा यथार्थभाषणं । ‘श्रुतं’ वेदस्य पूर्वोत्तरभागार्थावबोधायोभयोर्मीमांसयोः श्रवणं । ‘शान्तं’ शान्तिः बाह्येन्द्रियाभ्यन्तरेन्द्रियोपरतिः । ‘दानं’ धनेषु स्वत्वनिवृत्तिः परस्वत्वापादनपर्यन्ता । ‘यज्ञः’ अग्निहोत्रादिः। तदेतत्सर्वमर्वाचीनं ‘तपः’ भूरादिलोकत्रयात्मकं विराड्देहरूपं । यत् ‘ब्रह्म’, अस्ति, हे मुमुक्षो ‘एतत्’ ब्रह्म, ‘उपास्व’ विजातीयप्रत्ययरहितं सजातीयप्रत्ययप्रवाहं कुरु, तत् ‘एतत्’ उपासनं, उत्तमं ‘तपः’ ॥

इति सायणाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामपनिषदि अष्टमोऽनुवाकः ॥