तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
१० प्रपाठके १५ अनुवाकः। ८३५
अथ पञ्चदशोऽनुवाकः ।
(१)घृणिः॒ सूर्य्य॑* आदित्यो न प्रभा॒वात्य॒क्षरं॑ । मधु॑ क्षरन्ति॒ तद्र॑सं । स॒त्यं वै तद्र॒समापो॒ ज्योती॒ रसो॒ऽमृतं॑* ब्रह्म॒ भूर्भुवः॒ सुव॒रोम्(१)† ॥ अनु० १५ ॥
अथ पञ्चदशोऽनुवाकः ।
उपासनायामसमर्थस्यादित्यदेवताविषयं जपं मन्त्रमाह । (१) “घृणिः सूर्य्यः ० भूर्भुवः सुवरोम्”(१) इति । ‘घृणिः’ दीप्तिमान्, ‘सूर्य्यः’ एतन्नामकः, ‘आदित्यः’ अदितिदेवतायाः पुत्रः । एतादृशोऽहमस्मि । ईदृशमादित्यं फलार्थिनः सर्वेऽपि ‘अर्चयन्ति’ । तथा ‘तं’ आदित्यं, उद्दिश्य ‘तपः’, चरन्तीति शेषः । ‘सत्यं’ अनृतवर्जनं, अनुतिष्ठन्तीति शेषः । ‘मधु चरन्ति’ मधुरं क्षीरादिकं नैवेद्यरूपेण समर्पयन्ति । ‘तत्’ आदित्यरूपं, ‘ब्रह्म’ वेदात्मकं, परं ब्रह्म वा । तथा ‘तत्’ आदित्यरूपं, ‘आपः’, ‘आपः’ जलरूपं, वृष्टिनिष्पादकत्वात् । तथा समुद्रादिगता या ‘आपः’, यच्चाग्न्यादिकं
* आदित्यन्तमर्चयन्ति तपः सत्यं मधु क्षरन्ति तद् ब्रह्म तदाप-आपो ज्योती रसोऽमृतमिति F, Q, चिह्नितपुस्तकधृतमूलस्य पाठो भाष्यसम्मतश्च । चतुर्षु मूलपुस्तकेषु उपर्युक्तः पाठो वर्तते ।
† घृणिः सूर्य्य इति पञ्चदशानुवाकादारभ्य नमो हिरण्यबाहवे इत्येकोनविंशानुवाकपर्यन्तः पाठो ऽस्मल्लब्धमूलपुस्तकचतुष्टये स्थानान्तरे वर्त्तते । परन्तु भाष्यपुस्तकत्रयधृतमूलक्रमेणात्र तत्पाठो निवेशितः ।
| =३६ | तैत्तिरीये आरण्यके |
|---|
अथ षोडशोऽनुवाकः ।
$^{(१)}$सर्वो॒ वै रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु । पुरु॑षो॒ वै रु॒द्रः सन्म॒हो नमो॒ नमः॑ । विश्वं॑ भू॒तं भुव॑नं चि॒त्रं
‘ज्योतिः’, योऽपि मधुरादि ‘रसः’, यच्च देवैः पातव्यं ‘अमृतं’, यदपि ‘ब्रह्म’ मन्त्रजातं, ये च ‘भूर्भुवः सुवः’ त्रयो लोकाः, तत् सर्वं ‘ओम्’ आदित्यरूपं भवतीत्यर्थः ॥
इति सायणाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि पञ्चदशोऽनुवाकः ॥
अथ षोडशोऽनुवाकः ।
रुद्रदेवताकं मन्त्रमाह । $^{(१)}$“सर्वो वै ० नमो अस्तु”$^{(१)}$ इति । यः ‘रुद्रः’ पार्वतीपतिः पुराणेषु प्रसिद्धः, स एव सर्वजीवरूपेण सर्वशरीरेषु प्रविष्टत्वात् ‘तस्मै’ सर्वात्मकाय, ‘रुद्राय’, ‘नमो अस्तु’ । प्रकृतिपुरुषयोर्मध्ये जडात्मिकां प्रकृतिमपोद्य* चिदात्मकः ‘पुरुषः’, यो विद्यते, स एव भक्तानुग्रहाय रुद्रमूर्त्तिरूपेणावभासते । तस्मात् वस्तुतः सः ‘रुद्रः’, ‘सन् महः’ “सदेव सोम्येदमग्र
* प्रकृतिं विनाश्येति F चिह्नितपुस्तकपाठः ।
१० प्रपाठके १७ अनुवाकः । ८३७
ब॒हुधा जा॒तं जाय॑मानञ्च॒ यत् । सर्वो॒ ह्येष रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु^(१) ॥ अनु० १६ ॥
अथ सप्तदशोऽनुवाकः ।
^(१)कद्रु॒द्राय॒ प्रचे॑तसे मी॒ढुष्ट॑माय॒ तव्य॑से । वो॒चेम॑
आसीत्” इत्यादिप्रतिपाद्यमवाधितं सद्रूपं तेजः, तादृशाय रुद्राय पुनःपुनः 'नमस्कारः 'अस्तु' । यज्जडं 'विश्वं', अस्ति, यच्च 'भूतं' चेतनं प्राणिजातं, अस्ति, इत्थं चेतनाचेतनरूपेण विचित्रं यत् 'भुवनं' जगत्, तत्रापि 'यत्' जगत्, 'जातं' पूर्वमेवोत्पन्नं, यत्, 'च', इदानीं 'जायमानं', सः 'सर्वः', अपि प्रपञ्चः, 'एष रुद्रः', 'हि' तद्व्यतिरेकेण वास्तवस्य जगतो निरूपयितुमशक्यत्वात्, तादृशाय सर्वात्मकाय 'रुद्राय', 'नमस्कारः 'अस्तु' ॥
इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि षोडशोऽनुवाकः ॥
अथ सप्तदशोऽनुवाकः ।
रुद्रदेवताकं द्वितीयं मन्त्रमाह । ^(१)“कद्रुद्राय प्रचेतसे ० नमो अस्तु”^(१) इति। कत्थ श्लाघायामितिधातोरुत्पन्नः कच्छब्दः। प्रशंसा-
८३८ तैत्तिरीये आरण्यके
शन्त॑मꣳ हृ॒दे । सर्वो॒ ह्येष रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु॑(१) ॥ अनु० १७ ॥
अथाष्टादशोऽनुवाकः ।
(१)नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय
माह । ततः 'कद्रुद्रः' प्रशस्तो रुद्रः, तस्मै । 'प्रचेतसे' प्रकृष्टज्ञानयुक्ताय । 'मीढुष्टमाय' मिह् सेचने इति धातुः, अभीष्टानां कामानां अतिशयेन सेक्त्रे, कामप्रदायेत्यर्थः । 'तव्यसे' अत्रादौ सकारस्य छान्दसो लोपः । स्तव्याय स्तोतुं योग्यायेत्यर्थः । 'हृदे' हृदयवर्त्तिलेन रुद्ररूपत्वेन च, 'शन्तमं' अतिशयेन सुखकरं स्तुतिरूपवाक्यं, 'वोचेम' कथयाम । सर्वो हीति पूर्ववत् ॥
इति सायणाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि सप्तदशोऽनुवाकः ॥
अथाष्टादशोऽनुवाकः ।
पुनरपि तद्देवताकं मन्त्रान्तरमाह । (१)“नमो हिरण्यबाहवे ० नमो नमः”(१) इति । बाहुशब्दस्य सर्वावयवोपलक्षणत्वात् 'हिरण्यबाहवे' भक्तानुग्रहाय सुवर्णमयकृत्स्नशरीरकाय, 'हि-
१० प्रपाठके १८ अनुवाकः । ८३६
हिर॑ण्यपतये॒ऽम्बिका॑पतय उ॒माप॑तये पशुपत॑ये॒ नमो॒ नमः॑^{(१)} ॥ अनु० १८ ॥
अथ एकोनविंशोऽनुवाकः।
^{(१)}यस्य॒ वैक॑ङ्कत्यग्निहोत्र॒हव॑णी भवति॒* प्रत्ये॒वास्याहु॑तयस्तिष्ठ॒न्त्यथो॒ प्रति॑ष्ठित्यै^{(१)} ॥ अनु० १६ ॥
रण्यपतये’ अस्मदीयहिरण्यपालकाय । ‘अम्बिका’ जगन्माता पार्वती, तस्याः ‘पतये’ भर्त्रे । तस्या एव अम्बिकायाः ब्रह्मविद्यात्मको देह उमाशब्देनोच्यते । तादृश्याः ‘उमा’याः ‘पतये’ स्वामिने रुद्राय, पुनः पुनः नमस्कारो अस्तु । अनेनानुवाकत्रयेणोक्तानां मन्त्राणां त्वरितरुद्राख्या मन्त्रकल्पेषु प्रसिद्धा । तद्विनियोगस्तु रुद्राध्यायजपशेषत्वेन कल्पेषु द्रष्टव्यः ॥
इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि अष्टादशोऽनुवाकः ॥
अथ एकोनविंशोऽनुवाकः ।
अथाग्निहोत्रकर्मणि होमसाधनद्रव्यस्य कारणभूतं वृक्षविशेषं विधत्ते । ^{(१)}“यस्य वैकङ्कती • प्रतिष्ठित्यै”^{(१)} इति । अग्निहोत्रे हविर्हूयते यया दर्ग्या सेयं ‘अग्निहोत्रहवणी’, सा च ‘वैकङ्कती’
* भवति प्रतिष्ठिता इति F चिह्नितपुस्तकपाठः ।
८९० तैत्तिरीये आरण्यके
अथ विंशोऽनुवाकः ।
(१)कृणुष्व.पाज॒ इति॒ पञ्च॑(१) ॥ अनु० २० ॥
विकङ्कताख्येन वृक्षेण निष्पादिता, 'यस्य', अग्निहोत्रिणः,'भवति' । 'अस्य' अग्निहोत्रिणः, 'आहुतयः' 'प्रतिष्ठिताः' । तया अग्निहोत्रहवण्या प्रक्षिप्ताः सत्यः 'प्रतिष्ठन्तेव' फलप्रदा भवन्त्येव । 'अथो' अपि च, 'प्रतिष्ठित्यै' अनुष्ठातुश्चित्तशुद्धिद्वारा तत्त्वज्ञानप्रतिष्ठार्थं, सम्पद्यन्ते । मुमुक्षोश्चित्तशुद्धिद्वारा वेदोक्तानां कृत्स्नकर्मणां मोक्षसाधनत्वं द्योतयितुं उपलक्षणत्वेन कर्माङ्गभूतो विकङ्कतवृक्षोऽत्र विहितः ॥
इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि एकोनविंशोऽनुवाकः ॥
अथ विंशोऽनुवाकः ।
अथ चित्तशुद्धिहेतूनां कर्मणां सङ्ग्रहेणोपयोगमस्मिन् मोक्षप्रकरणे सूचयित्वा प्रतिबन्धकनिवारकान् रक्षोघ्नमन्त्रान् जप्यत्वेन विधत्ते । ^{(१)}“कृणुष्व पाज इति पञ्च”^{(१)} इति । संहितायाः प्रथमकाण्डे द्वितीयप्रपाठकस्यान्तिमानुवाके समाम्नाताः 'कृणुष्व पाजः' इत्याद्या ऋचः, 'पञ्च', जपितव्या इति शेषः ॥
इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि विंशोऽनुवाकः ॥
१० प्रपाठके २१ अनुवादः । ८४१
अथ एकविंशोऽनुवाकः ।
(१)अदि॑तिर्देवा॒ ग॑न्ध॒र्वा म॑नु॒ष्याः॑ पि॒तरोऽसु॑रा॒स्ते- षां॑ सर्वभू॒तानां॑ मा॒ता मे॒दिनी॑ मह॒ती म॒ही सा- वि॒त्री गा॑य॒त्री जग॑त्यु॒र्वी पृ॒थ्वी ब॑हु॒ला विश्वा॑ भू॒ता क॑-
अथ एकविंशोऽनुवाकः ।
जीवनहेतुक्षेत्रलाभद्वारा मुक्तिहेतुं पृथिवीदेवताकं मन्त्रमाह । (१) 'अदितिर्देवाः ० अमृतेति वसिष्ठः'(१) इति । अदितिशब्दोऽखण्डितेति व्युत्पत्त्या भूमिमाचष्टे । अतएव निघण्टुकारेण पृथिवीनामसु पठितः । 'देवादयः पञ्च जातिविशेषा अदितिरूपाः । एते च सर्वप्राणिदेहानामुपलक्षकाः । अतः 'तेषां सर्वभूतानां', देहोपादानत्वादियम् 'अदितिः' । 'माता' जननी । 'मेदिनी' मधुकैटभमेदसा जाता । अथवा मेदस्विनी कठिनेत्यर्थः । 'महती' गुणाधिका, तच्च सर्वप्राणिकृतोपद्रवासहिष्णुत्वेनावगन्तव्यं । 'मही' पूज्या । 'सावित्री' सवितुः प्रेरकस्यान्तर्यामिणः सम्बन्धिनी । 'गायत्री' गायकान् स्वोपासकांस्त्रायते रक्षतीत्यर्थः । 'जगती' जगदाश्रयभूता । 'उर्वी' अनेकसस्याढ्या । 'पृथ्वी' अनेकविस्तारवती । 'बहुला' निविडावयवा । 'विश्वा' सर्वात्मिका । 'भूता' प्राणिदेहोत्पत्तेः पूर्वमेव विद्यमाना । 'कतमा' अतिशयेन सुखरूपा । 'काया' सर्वप्राणिदेहरूपेण परिणता । 'मा' प्रसिद्धा । 'सत्या'
•5 K 2
८४२ तैत्तिरीये आरण्यके
त्मा काया सा स॒त्येत्य॒मृतेति॑ वसि॒ष्ठः॑॥(१)॥ अनु० २१ ॥
अथ द्वाविंशोऽनुवाकः ।
(१)आपो॒ वा इ॒दꣳ सर्वं॒ विश्वा॑ भू॒तान्यापः॑ प्रा॒णा वा आपः॑ प॒शव॒ आपोऽन्न॒मापो॒ऽमृत॒मापः॑ सम्रा-
व्यवहारदशायां बाधरहिता। ‘इति’ एवं, ‘वशिष्ठः’ महामुनिः, आह। तथैव ‘अमृता’ मरणरहिता चतुर्युगपर्यावर्त्तनेऽप्यवस्थिता, ‘इति’ एतमप्यर्थं, ‘वसिष्ठः’, एवाह। अतोऽस्य मन्त्रस्य वसिष्ठ- ऋषिः इत्यर्थः॥
इति सायणाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा- रण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्या- मुपनिषदि एकविंशोऽनुवाकः॥
अथ द्वाविंशोऽनुवाकः ।
वृष्ट्यभावकृतोपद्रवपरिहारेणोपहारिणमबदेवताकं मन्त्रमाह। (१)“आपो वा ० सुवराप ओम्”(१) इति। यत् ‘इदं’ जगत्, अस्ति तत् ‘सर्वं’, ‘आपो वै’ जलमेव। कथमिति तदेव प्रपञ्च्यते। ‘विश्वा भूतानि’ सर्वाणि प्राणि शरीराणि, ‘आप.’ जलं, रेतोरूपेण तदु- त्पादकत्वात्। ‘प्राणा वै’ शरीरवर्त्तिवायवोऽपि, ‘आपः’, उदक-
१० प्रपाठके २२ अनुवाकः। ८४३
डापो॑ वि॒राडाप॑: स्व॒राडाप॒श्छन्दा॒ꣳ॒स्यापो॒ ज्योती॒ꣳ॒-
ष्यापो॒ यजूं॒ष्याप॑: स॒त्यमाप॒: सर्वा॑ दे॒वता॒ आपो॒ भूर्भुव॒: सुव॒राप॒ ओम्^{(१)}} ॥ अनु० २२ ॥
पानेन प्राणानामाप्यायनात् । अत एव छन्दोगा आमनन्ति । “आपोमयः प्राणो नापिबतो विच्छेत्स्यते” इति । ‘पशवः’ गवादयोऽपि, ‘आपः’, क्षीरस्वरूपेण तत्र परिणतत्वात् । ‘अन्नं’ व्रीहियवादिकं, ‘आपः’, जलस्यान्नहेतुत्वं प्रसिद्धं । ‘अमृतं’ देवैरुपजीव्यं वस्तु, ‘आपः’, तद्रूपेणापि परिणतत्वात् । सम्यक् राजत इति सूत्रात्मा हिरण्यगर्भः ‘सम्राट्’ । विश्वं राजत इति ब्रह्माण्डदेहः पुरुषः ‘विराट्’ । इन्द्रियादिनिरपेक्ष्येण स्वयमेव राजत इत्यव्याकृताभिमानी ईश्वरः ‘स्वराट्’ । ‘छन्दांसि’ गायत्र्यादीनि । ‘ज्योतींषि’ आदित्यादीनि । ‘यजूंषि’ अनियताक्षरा मन्त्राः । ‘सत्यं’ यथार्थकथनं । ‘सर्वा देवताः’ इन्द्रादयः । ‘भूर्भुवः स्वः’ त्रयो लोकाः । सम्राडादिलोकत्रयान्तपदार्थरूपेण ‘आपः’, स्तूयन्ते । एताश्च ‘आपः’, मूलकारणं, परमात्मरूपेण प्रणवप्रतिपाद्या इति वक्तुं ‘ओङ्कारः पठितः ॥
इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि द्वाविंशोऽनुवाकः ॥
| ८१४ | तैत्तिरीये आरण्यके |
|---|
अथ त्रयोविंशोऽनुवाकः ।
(१)आपः॑ पुनन्तु पृथि॒वीं पृ॑थि॒वी पू॒ता पु॑नातु॒ मां।
पु॒नन्तु॒ ब्रह्म॑ण॒स्पति॒र्ब्रह्म॑ पू॒ता पु॑नातु॒ मां। यदुच्छि॑-
ष्ट॒मभो॑ज्यं॒ यद्वा॑ दु॒श्चरि॑तं॒ मम॑ । सर्वं॑ पुनन्तु॒ मामा-
पोऽस॑ताञ्च प्रति॒ग्रहं॒ स्वाहा॑^(१)॥ अनु० २३ ॥
अथ त्रयोविंशोऽनुवाकः ।
माध्याह्निकसन्ध्यानुष्ठानेऽभिमन्त्रितजलपानार्थं मन्त्रमाह ।
(१)“आपः पुनन्तु ॰ प्रतिग्रहँ स्वाहा”^(१) इति । याः ‘आपः’, सन्ति ताः ‘पृथिवीं’, ‘पुनन्तु’ प्रक्षालनेन शोधयन्तु । सा च ‘पृथिवी’, ‘पूता’ शुद्धा सती, ‘मां’ अनुष्ठातारं, ‘पुनातु’ शोधयतु । तथा ‘ब्रह्मणः’ वेदस्य, ‘पतिः’ पतिं, प्रतिपालकमाचार्यं एता आपः ‘पुनन्तु’ । तेनाचार्येणोपदिष्टं ‘ब्रह्म’ वेदस्वरूपं, ‘पूता’ स्वयं पूतं सत्, ‘मां पुनातु’ । अन्यभुक्तावशिष्टरूपं ‘उच्छिष्टं’, ‘यत्’, अस्ति यच्च ‘अभोज्यं’ भोक्तुमयोग्यं, तादृशं कदाचिन्मया भुक्तं । ‘यद्वा’, ‘दुश्चरितं’ अन्यदपि प्रतिषिद्धाचरणरूपं, ‘मम’, किञ्चित् सम्पन्नं तत् ‘सर्वं’, परिहृत्येति शेषः । ततो ‘मामापः पुनन्तु’ । तथा ‘असतां’ शूद्रादीनां, ‘प्रतिग्रहञ्च’, मया कृतं पुनन्तु । तदर्थमिदमभिमन्त्रितमुदकं ‘स्वाहा’ मदीयवक्त्राग्नौ स्वाहुतम् अस्तु ॥
इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि त्रयोविंशोऽनुवाकः ॥
१० प्रपाठके २४ अनुवाकः । ८६५
अथ चतुर्विंशोऽनुवाकः ।
(१)अग्निश्च॑ मा म॒न्युश्च॑ मन्यु॒पत॑यश्च म॒न्युकृ॒तेभ्यः॑ ।
पापेभ्यो॑ रक्षन्तां । यदह्ना पा॒पमका॑र्षं*। मन॑सा वा॒चा
ह॒स्ताभ्यां॑ । प॒द्भ्यामु॒दरे॑ण शि॒श्ना । अह॒स्तद॑वलुम्पतु ।
अथ चतुर्विंशोऽनुवाकः ।
सायंसन्ध्याकाले जलपानार्थं मन्त्रमाह । (१) 'अग्निश्च मा जुहोमि स्वाहा”(१) इति । योऽयं 'अग्निः', अस्ति, यः 'च', 'मन्युः' क्रोधाभिमानी देवः, ये 'च', 'मन्युपतयः' क्रोधस्वामिनः, तन्नियामकाः† देवाः, सन्ति, ते सर्वेऽपि 'मन्युकृतेभ्यः' मदीयकोपनिष्पादितेभ्यः, 'पापेभ्यः', 'मा' मां, 'रक्षन्तां' पापिनं मां तत्पापविनाशनेन पालयन्तु । किञ्च अतीतेन 'अह्ना', तस्मिन्नहनि 'यत् पापम्', 'अकार्षं' कृतवानस्मि । केन साधनेन, मनआदिभिः शिश्नान्तैरवयवैः, 'तत्' सर्वं पापं, 'अहरवलुम्पतु' अहरभिमानी देवो विनाशयतु । परहिंसादिचिन्तनं मानसं पापं । अप्रियानृतादिभाषणं वाचिकं । अभिचारहोमादिकं हस्तकृतं । पादेन गोब्राह्मणस्पर्शादिकं पादकृतं । अभोज्यभोजनमुदरकृतं । अगम्यागमनं शिश्नकृतं । अथवा किमनेन परिमितगणनेन 'यत् किं', अपि 'दुरितं', 'मयि', निष्पन्नं, 'इदं' पापजातं सर्वं, तत्कर्त्तारं 'मां' च लिङ्गशरीररूपं, 'अमृतयोनौ' मरणरहिते जगत्कारणे, 'सत्ये' बाधरहिते, 'ज्योतिषि' स्वयम्प्रकाशे वस्तुनि,
* पापमक्रारिषमिति F चिह्नितपुस्तकदृतमूलपाठः ।
† तस्मिन्नियामका इति F, Q चिह्नितपुस्तकपाठः ।
८४६ तैत्तिरीये आरण्यके
यत्किञ्च॑ दुरि॒तं मयि॑ । इ॒दम॒हं माम॒मृत॒योनौ॑ । स॒त्ये ज्योति॑षि जुहो॑मि॒ स्वाहा॑^(१) ॥ अनु० २४ ॥
अथ पञ्चविंशोऽनुवाकः ।
(१)सूर्य्य॑श्च मा म॒न्युश्च॑ मन्यु॒पत॑यश्च मन्यु॑कृते॒भ्यः । पापेभ्यो॑ रक्ष॒न्ताम् । यद्रात्रिया॑^* पा॒पमका॑षम्^+ । मन॑सा वा॒चा हस्ता॑भ्याम् । प॒द्भ्यामु॒दरे॑ण॒ शिश्ना॑ । रात्रि॒स्तद॑व॒लुम्प॑तु । यत्किञ्च॑ दुरि॒तं मयि॑ । इ॒दम॒हं माम॒मृत॑योनौ । सूर्य्ये॒ ज्योति॑षि जुहो॑मि॒ स्वाहा॑^(१)॥ अनु० २५ ॥
'जुहोमि' प्रक्षिपामि, अहमनेन होमेन तत्सर्वं भस्मीकरोमीत्यर्थः । तदर्थं इदमभिमन्त्रितं जलं 'स्वाहा' मदीयवक्त्राग्नौ स्वाहुतमस्तु ॥
इति सायणाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि चतुर्विंशोऽनुवाकः ॥
अथ पञ्चविंशोऽनुवाकः ।
प्रातःसन्ध्याकाले जलपानार्थं मन्त्रमाह । (१)“सूर्य्यश्च मा ० जुहोमि स्वाहा”^(१) इति । 'सूर्य्ये' अहर्निष्पादके सूर्य्योपाधिके । अन्यत् सर्वं पूर्ववद् व्याख्येयं ॥
इति सायणाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि पञ्चविंशोऽनुवाकः ॥
* यद्रात्र्येति F चिह्नितपुस्तकपाठः ।
+ पापमकार्षमिति F चिह्नितपुस्तकधृतमूलपाठः ।
१० प्रपाठके २६ अनुवाकः। ८४७
अथ षड्विंशोऽनुवाकः ।
(१)आया॑तु वर॑दा दे॒वी अ॒क्षरं॑ ब्रह्म॒ सम्मि॑तं । गाय॒त्रीं छन्द॑सां मा॒ता इदं ब्रह्म॑ जु॒षस्व॑ नः* । ओजो॑ऽसि॒ सहो॑ऽसि॒ बल॑मसि॒ भ्राजो॑ऽसि दे॒वानां॒ धाम॒ नामा॑सि
अथ षड्विंशोऽनुवाकः ।
सन्ध्यात्रये मार्जनादूर्ध्वं गायत्र्या आवाहनमन्त्रमाह । (१) “आयातु वरदा ॰ आवाहयामि”(१) इति । ‘वरदा’ अस्मदभीष्टवरप्रदा, ‘देवी’ गायत्रीच्छन्दोऽभिमानिनीदेवता, ‘अक्षरं’ विनाशरहितं, ‘सम्मितं’ सम्यग्वेदान्तप्रमाणेन निश्चितं, ‘ब्रह्म’ जगत्कारणं परतत्त्वं, उद्दिश्य, ‘आयातु’ आगच्छतु, अस्माकं ब्रह्मतत्त्वं बोधयितुमागच्छत्वित्यर्थः । अयमेवार्थ उत्तरार्द्धेन स्पष्टीक्रियते । ‘छन्दसां’ गायत्रीत्रिष्टुबादीनां, वेदानां वा, ‘माता’ जननीदेवता, ‘गायत्री’ गायत्रीशब्दाभिधया, ‘नः’ अस्मान्, ‘इदं ब्रह्म’ वेदान्तप्रतिपाद्यं तत्त्वं, ‘जुषस्व’ जोषयतु, उपदिशत्वित्यर्थः । हे गायत्रि देवि त्वं ‘ओजोऽसि’ बलहेतुभूता अष्टमधातुरूपासि । ‘सहोऽसि’ शत्रूणामभिभवनशक्तिरसि । ‘बलमसि’ शरीरगतव्यवहारसामर्थ्यरूपार्सि । ‘भ्राजोऽसि’ दीप्तिरूपासि । ‘देवानां’ अग्नीन्द्रादीनां, ‘धाम’ तेजः, यत् अस्ति तन्-‘नामासि’ तदेव तव नामेत्यर्थः । ‘विश्वं’ सर्वजगद्रूपं, त्वमेव
* जुषस्व मे इति B, J, N, O, चिह्नितपुस्तकपाठः ।
5 L
८४८ तैत्तिरीये आरण्यके
वि॒श्वम॑सि वि॒श्वायुः॒ सर्व॑मसि सर्वा॒युर॒भिभूरो॑ गायत्री-
मावा॑हया॒मि^(१) ॥ अनु० २६ ॥
अथ सप्तविंशोऽनुवाकः ।
^(१)ओ३ं भूः । ओ३ं भुवः । ओ३म् सुवः । ओ३ं महः ।
ओ३ं जनः । ओ३ं तपः । ओ३म् सत्य॑म् । ओ३ं तत्स॑-
'असि' । 'विश्वायुः' सम्पूर्णायुःस्वरूपा, असि । उक्तस्यैव व्याख्यानं 'सर्वमसि सर्वायुरिति । 'अभिभूः' सर्वस्य पापस्य तिरस्कारहेतुः, 'ओम्' प्रणवप्रतिपाद्यपरमात्मा, असि । तादृशीं 'गायत्रीं', मदीये मनसि 'आवाहयामि' ॥
इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामपनिषदि षड्विंशोऽनुवाकः ॥
अथ सप्तविंशोऽनुवाकः ।
गायत्र्या आवाहनादूर्द्धं प्राणायामार्थं मन्त्रमाह । ^(१)“ॐ भूः । ॐ भुवः ० सुवरोम्”^(१) इति । 'भूरादयः सत्यान्ता लोकप्रतिपादिकाः सप्त व्याहृतयः । तेषाञ्च लोकानां प्रणवप्रतिपाद्यब्रह्मस्वरूपत्वविवक्षया प्रत्येकं प्रणवोच्चारणं । तत्सवितुरित्यादिको
१० प्रपाठके २७ अनुवाकः । ८४६
वितुर्वरे॑ण्यं॒ भर्गो॑. दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया॑त् । ओमापो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुव॒: सुव॒रोम्^(१) ॥ अनु० २७ ॥
गायत्रीमन्त्रः । तत्प्रतिपाद्यस्य ब्रह्मत्वविवक्षया* तदादौ प्रणवोच्चारणं । मन्त्रस्य चायमर्थः । ‘सवितुः’ प्रेरकस्यान्तर्यामिणो देवस्य, ‘वरेण्यं’ वरणीयं श्रेष्ठं, ‘तत्’, ‘भर्गः’ तेजः, ‘धीमहि’ ध्यायेम । ‘यः’ सविता परमेश्वरः, ‘नः’ अस्मदीयाः, ‘धियः’ बुद्धिवृत्तीः, ‘प्रचोदयात्’ प्रकर्षेण तत्त्वबोधे प्रेरयतु, तस्य तेजः ध्यायेमेति पूर्वेणान्वयः । आपो ज्योतिरित्यादिको गायत्र्याः शिरोमन्त्रः तस्याद्यन्तयोः प्रणवद्वयं पूर्ववदुच्चार्यते । याः ‘आपः’, नदीसमुद्रादिगताः, सन्ति । यच्च ‘ज्योतिः’ आदित्यादिकं, अस्ति । योऽपि ‘रसः’ मधुराम्लादिः षड्विधः, अस्ति । यदपि ‘अमृतं’ देवैः पातव्यं, अस्ति । तत्सर्वं ‘ॐ’ प्रणवप्रतिपाद्यं ब्रह्म । किञ्च ‘भूर्भुवः स्वः’ इत्यभिविहिता ये त्रयो लोकाः सन्ति, तेषां प्रणवप्रतिपाद्यं ब्रह्म । अस्य च मन्त्रस्य प्राणायामाङ्गत्वममृतनादोपनिषदि प्रतिपाद्यते^† । “सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह । त्रिः पठेदायतप्राणः प्राणायामः स उच्यते” इति ॥
इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामपनिषदि सप्तविंशोऽनुवाकः ॥
* ब्रह्मतत्त्वविवक्षयेति Q चिह्नितपुस्तकपाठः ।
† श्रूयते इति F चिह्नितपुस्तकपाठः ।
5 L 2
८५० तैत्तिरीये आरण्यके
अथ अष्टाविंशोऽनुवाकः
(१)ॐ भूर्भुव॒ः सुव॒र्मह॒र्जन॒स्तप॒ः सत्यं तद्ब्रह्म॒ तदाप॒ आपो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुव॒ः सुव॒रोम्(१) ॥
अनु० २८ ॥
अथ एकनत्रिंशोऽनुवाकः ।
(१)औं तद् ब्र॒ह्म । औं तद्वायुः । औं तदात्मा । औं तत्स॒त्यं । औं तत्सर्वं॑ । औं तत् पुरो॒र्नमः(१)॥ अनु० २९ ॥
अथ अष्टाविंशोऽनुवाकः ।
तस्मिन्नेव प्राणायामे विकल्पितं मन्त्रान्तरमाह । (१)“ॐ भूर्भुवः ० सुवरोम्”(१) इति । पूर्ववद्व्याख्येयम् ॥
इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि अष्टाविंशोऽनुवाकः ॥
अथ एकोनत्रिंशोऽनुवाकः ।
पुनरपि विकल्पितं मन्त्रान्तरमाह । (१)“ॐ तद् ब्रह्म । ० पुरोर्नमः”(१) इति । ‘ॐ’ प्रणवप्रतिपाद्यं, ‘तत्’ सर्ववेदान्तप्रसिद्धं, ‘ब्रह्म’ तत्त्वं । तथा ‘वायुः’ सूत्रात्मरूपेण चिर-
१० प्रपाठके ३० अनुवाकः। ८५१
अथ त्रिंशोऽनुवाकः।
(१)उत्त॒मे शि॑खरे दे॒वी* भू॒म्यां पर्व॑तमू॒र्धनि॑ । ब्रा॒ह्मणे᳚भ्योऽभ्य॑नुज्ञा॒ता ग॒च्छ दे॑वि य॒थासु॑खं(१) ॥
अनु० ३० ॥
ण्यगर्भः । 'ॐ' 'तत्' प्रणवप्रतिपाद्यं वेदान्तप्रसिद्धं ब्रह्मैव । तथैव 'आत्मा' जीवोऽपि । ॐ तदिति पूर्ववत् । 'सर्वं' जगत्, ॐ तदिति पूर्ववत् । 'पुरः' पुराणि स्थूलसूक्ष्मकारणशरीराणि, ॐ तदिति पूर्ववत् । तादृशाय ब्रह्मणे 'नमः', अस्तु । प्राणायामे शक्तितारतम्यमनुसृत्य विकल्पितं मन्त्रत्रयमुक्तं ॥
इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि एकोनत्रिंशोऽनुवाकः ॥
अथ त्रिंशोऽनुवाकः।
जपादूर्ध्वं गायत्रीदेवताया विसर्जनमन्त्रमाह । (१)“उत्तमे, शिखरे ० यथासुखं”(१) इति । 'भूम्यां', अवस्थितो यः 'पर्वतः' मेरुनामकः, तस्य 'मूर्धनि' उपरिभागे, यत् 'उत्तमं शिखरं', अस्ति तस्मिन्, इयं गायत्री 'देवी', तिष्ठति । तस्मात् कारणात् हे 'देवि', 'ब्राह्मणेभ्यः', तदुपासकेभ्यः, तदनुग्रहेण परितुष्टेभ्यः,
* शिखरे जाते इति B, J, N, O चिह्नितपुस्तकपाठः ।
८५२ तैत्तिरीये आरण्यके
अथ एकत्रिंशोऽनुवाकः ।
(१) ॐ अ॒न्तश्चर॑ति भू॒तेषु॑ गुहायां वि॒श्वमूर्त्ति॑षु । त्वं य॒ज्ञस्त्वं विष्णु॒स्त्वं वषट्का॒रस्त्वं* रु॒द्रस्त्वं ब्रह्म॒ त्वं प्र॒जाप॑तिः^(१) ॥ अनु० ३१ ॥
अनुज्ञानमभियाय 'यथासुखं' स्वकीयसुखमनतिक्रम्य, स्वस्थाने तस्मिन् उत्तमशिखरे 'गच्छ' ॥
इति सायणाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि त्रिंशोऽनुवाकः॥
अथ एकत्रिंशोऽनुवाकः।
गायत्रीदेव्या विसर्जनोर्ध्वं तत्त्वानुस्मरणभूतस्य ब्रह्मण उपस्थानमन्त्रमाह । (१) "ॐ अन्तश्चरति ० त्वं प्रजापतिः"^(१) इति । 'विश्वमूर्त्तिषु' देवमनुष्यगन्धर्वादिनानाशरीरयुक्तेषु, 'भूतेषु' प्राणिषु, 'गुहायां' बुद्धौ, 'अन्तः' मध्ये, 'ॐ' प्रणवप्रतिपाद्यः परमात्मा, 'चरति' वर्त्तते । हे परमात्मन् यः 'यज्ञः' ज्योतिष्टोमादिः, सः 'त्वं', एव । यश्च 'विष्णुः' जगत्पालकः, योऽपि 'वषट्कारः' हविःप्रदानमन्त्रः, यश्च 'रुद्रः' संहर्त्ता, यश्च 'ब्रह्मा' जगत्स्रष्टा, यश्च 'प्रजापतिः' दक्षादिः प्रजापालकः, सः सर्वोऽपि 'त्वं', एव ॥
* वषट्कारस्त्वमिन्द्रस्त्वमिति N चिह्नितपुस्तकपाठः ।
१० प्रपाठके ३२ अनुवाकः। ८५३
अथ द्वात्रिंशोऽनुवाकः ।
^{(१)}अ॒मृ॒तो॒प॒स्तर॑णमसि^{(१)} ॥ अनु० ३२ ॥
इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामपनिषदि एकत्रिंशोऽनुवाकः ॥
अथ द्वात्रिंशोऽनुवाकः ।
अथ भोजनादावपां प्राशने मन्त्रमाह । ^{(१)}“अमृतोपस्तरणमसि”^{(१)} इति। पीयमान हे जल त्वं ‘अमृतं’ विनाशरहितं, प्राणदेवतायाः ‘उपस्तरणमसि’ यथा शयानस्य पुंसः मञ्चकस्योपरितनं पटादिकमुपस्तीर्यते, तद्वत् प्राणदेवताया इदमपस्तरणं । तथा च वाजसनेयिनः प्राणविद्यायां प्राणदेवताया जलवस्त्रत्वमामनन्ति*। “तस्मादशिष्यन्नाचामेदशित्वाचामेदेतमेव तदन्नमनग्नं कुरुते” इति ॥
इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामपनिषदि द्वात्रिंशोऽनुवाकः ॥
* ब्रह्मवस्त्रत्वमामनन्ति इति ५ चिह्नितपुस्तकपाठः
८५४ तैत्तिरीये आरण्यके
अथ त्रयस्त्रिंशोऽनुवाकः ।
$^{(१)}$प्रा॒णे निवि॑ष्टो॒ऽमृतं॑ जुहोमि प्रा॒णाय॒ स्वाहा॑ ।
अ॒पा॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि अपा॒नाय॒ स्वाहा॑ । व्या॒ने
निवि॑ष्टो॒ऽमृतं॑ जुहोमि व्या॒नाय॒ स्वाहा॑ । उदा॒ने नि-
वि॑ष्टो॒ऽमृतं॑ जुहोमि उदा॒नाय॒ स्वाहा॑ । समा॒ने नि-
वि॑ष्टो॒ऽमृतं॑ जुहोमि समा॒नाय॒ स्वाहा॑ । ब्रह्म॑णि म
आ॒त्माऽमृत॑त्वाय$^{(१)}$ ॥ अनु० ३३ ॥
अथ त्रयस्त्रिंशोऽनुवाकः ।
जलप्राशनादूर्ध्वं प्राणाहुतिमन्त्रान् दर्शयति । $^{(१)}$“प्राणे नि-
विष्टः ० आत्मामृतत्वाय”$^{(१)}$ इति । पञ्चसु शरीरगतवायुभेदेषु
मध्ये प्रथमे ‘प्राणनामके वायौ ‘निविष्टः’ आदरयुक्तोऽहं, ‘अमृतं’
खाद्यभूतं इदं हविः, ‘जुहोमि’ प्रक्षिपामि । तच्च ‘प्राणदेवतायै’
‘स्वाहा’ स्वाहुतमस्तु । एवमपानादिषु योज्यं । एतैः पञ्चभिरा-
हुतिभिः ‘अमृतत्वाय’ मोक्षाय, ‘मे’ मदीयः, ‘आत्मा’ जीवः,
‘ब्रह्मणि’ परमात्मनि, एकीभवत्विति शेषः ॥
इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरार-
ण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्या-
मुपनिषदि त्रयस्त्रिंशोऽनुवाकः ॥