भारतकोश
संग्रह पर लौटें

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

८५२ तैत्तिरीये आरण्यके

अथ एकत्रिंशोऽनुवाकः ।

(१) ॐ अ॒न्तश्चर॑ति भू॒तेषु॑ गुहायां वि॒श्वमूर्त्ति॑षु । त्वं य॒ज्ञस्त्वं विष्णु॒स्त्वं वषट्का॒रस्त्वं* रु॒द्रस्त्वं ब्रह्म॒ त्वं प्र॒जाप॑तिः^(१) ॥ अनु० ३१ ॥

अनुज्ञानमभियाय 'यथासुखं' स्वकीयसुखमनतिक्रम्य, स्वस्थाने तस्मिन् उत्तमशिखरे 'गच्छ' ॥

इति सायणाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि त्रिंशोऽनुवाकः॥


अथ एकत्रिंशोऽनुवाकः।

गायत्रीदेव्या विसर्जनोर्ध्वं तत्त्वानुस्मरणभूतस्य ब्रह्मण उपस्थानमन्त्रमाह । (१) "ॐ अन्तश्चरति ० त्वं प्रजापतिः"^(१) इति । 'विश्वमूर्त्तिषु' देवमनुष्यगन्धर्वादिनानाशरीरयुक्तेषु, 'भूतेषु' प्राणिषु, 'गुहायां' बुद्धौ, 'अन्तः' मध्ये, 'ॐ' प्रणवप्रतिपाद्यः परमात्मा, 'चरति' वर्त्तते । हे परमात्मन् यः 'यज्ञः' ज्योतिष्टोमादिः, सः 'त्वं', एव । यश्च 'विष्णुः' जगत्पालकः, योऽपि 'वषट्कारः' हविःप्रदानमन्त्रः, यश्च 'रुद्रः' संहर्त्ता, यश्च 'ब्रह्मा' जगत्स्रष्टा, यश्च 'प्रजापतिः' दक्षादिः प्रजापालकः, सः सर्वोऽपि 'त्वं', एव ॥


* वषट्कारस्त्वमिन्द्रस्त्वमिति N चिह्नितपुस्तकपाठः ।

१० प्रपाठके ३२ अनुवाकः। ८५३

अथ द्वात्रिंशोऽनुवाकः ।

^{(१)}अ॒मृ॒तो॒प॒स्तर॑णमसि^{(१)} ॥ अनु० ३२ ॥


इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामपनिषदि एकत्रिंशोऽनुवाकः ॥

अथ द्वात्रिंशोऽनुवाकः ।

अथ भोजनादावपां प्राशने मन्त्रमाह । ^{(१)}“अमृतोपस्तरणमसि”^{(१)} इति। पीयमान हे जल त्वं ‘अमृतं’ विनाशरहितं, प्राणदेवतायाः ‘उपस्तरणमसि’ यथा शयानस्य पुंसः मञ्चकस्योपरितनं पटादिकमुपस्तीर्यते, तद्वत् प्राणदेवताया इदमपस्तरणं । तथा च वाजसनेयिनः प्राणविद्यायां प्राणदेवताया जलवस्त्रत्वमामनन्ति*। “तस्मादशिष्यन्नाचामेदशित्वाचामेदेतमेव तदन्नमनग्नं कुरुते” इति ॥

इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामपनिषदि द्वात्रिंशोऽनुवाकः ॥

* ब्रह्मवस्त्रत्वमामनन्ति इति ५ चिह्नितपुस्तकपाठः

८५४ तैत्तिरीये आरण्यके

अथ त्रयस्त्रिंशोऽनुवाकः ।

$^{(१)}$प्रा॒णे निवि॑ष्टो॒ऽमृतं॑ जुहोमि प्रा॒णाय॒ स्वाहा॑ ।
अ॒पा॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि अपा॒नाय॒ स्वाहा॑ । व्या॒ने
निवि॑ष्टो॒ऽमृतं॑ जुहोमि व्या॒नाय॒ स्वाहा॑ । उदा॒ने नि-
वि॑ष्टो॒ऽमृतं॑ जुहोमि उदा॒नाय॒ स्वाहा॑ । समा॒ने नि-
वि॑ष्टो॒ऽमृतं॑ जुहोमि समा॒नाय॒ स्वाहा॑ । ब्रह्म॑णि म
आ॒त्माऽमृत॑त्वाय$^{(१)}$ ॥ अनु० ३३ ॥


अथ त्रयस्त्रिंशोऽनुवाकः ।

जलप्राशनादूर्ध्वं प्राणाहुतिमन्त्रान् दर्शयति । $^{(१)}$“प्राणे नि-
विष्टः ० आत्मामृतत्वाय”$^{(१)}$ इति । पञ्चसु शरीरगतवायुभेदेषु
मध्ये प्रथमे ‘प्राणनामके वायौ ‘निविष्टः’ आदरयुक्तोऽहं, ‘अमृतं’
खाद्यभूतं इदं हविः, ‘जुहोमि’ प्रक्षिपामि । तच्च ‘प्राणदेवतायै’
‘स्वाहा’ स्वाहुतमस्तु । एवमपानादिषु योज्यं । एतैः पञ्चभिरा-
हुतिभिः ‘अमृतत्वाय’ मोक्षाय, ‘मे’ मदीयः, ‘आत्मा’ जीवः,
‘ब्रह्मणि’ परमात्मनि, एकीभवत्विति शेषः ॥

इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरार-
ण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्या-
मुपनिषदि त्रयस्त्रिंशोऽनुवाकः ॥

१० प्रपाठके ३४ अनुवाकः । ८५५

अथ चतुस्त्रिंशोऽनुवाकः ।

(१)*प्रा॒णे निवि॑ष्टो॒ऽमृतं॑ जुहोमि । शि॒वो मा॑ वि॒शा- प्र॑दाहाय । प्रा॒णाय॒ स्वाहा॑ । *अ॒पा॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि । शि॒वो मा॑ वि॒शाप्र॑दाहाय । अ॒पा॒नाय॒ स्वाहा॑ । *व्या॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि । शि॒वो॑ मा॑ वि॒शाप्र॑दाहाय । व्या॒नाय॒ स्वाहा॑ । *उदा॒ने नि- वि॑ष्टो॒ऽमृतं॑ जुहोमि । शि॒वो मा॑ वि॒शाप्र॑दाहाय । उदा॒नाय॒ स्वाहा॑ । *स॒मा॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि । शि॒वो मा॑ वि॒शाप्र॑दाहाय । स॒मा॒नाय॒ स्वाहा॑ । ब्र- ह्म॑णि म आत्मा॒मृत॒त्वाय॑$^{(१)}$ ॥ अनु० ३४ ॥


अथ चतुस्त्रिंशोऽनुवाकः ।

प्राणाहुतिष्वेव विकल्पितानि मन्त्रान्तराणि दर्शयति । $^{(१)}$“प्राणे निविष्टो ० म आत्मामृतत्वाय”$^{(१)}$ इति । हूयमान हे द्रव्यविशेष त्वं ‘शिवः’ शान्तो भूत्वा, मां प्र‘विश’ । किमर्थं । ‘अप्रदाहाय’ क्षुत्सम्पादितदाहशान्त्यर्थं । अन्यत् पूर्ववद्व्याख्येयं ॥

इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि चतुस्त्रिंशोऽनुवाकः ॥


* अत्र सर्व्वत्र प्राणे अपाने इत्यादिपदानामग्रे श्रद्धायामिति पदस्य पाठोऽस्मल्लव्धेषु चतुर्षु मूलपुस्तकेषु वर्त्तते ।
5 M

८५६तैत्तिरीये आरण्यके

अथ पञ्चत्रिंशोऽनुवाकः ।

(१)अ॒मृता॒पिधा॑नमसि(१) ॥ अनु० ३५ ॥


अथ षट्त्रिंशोऽनुवाकः ।

(१)श्र॒द्धायां प्रा॒णे निवि॑श्या॒मृतंᳵ हु॒तं । प्रा॒णमन्ने॑ना- प्यायस्व । श्र॒द्धायाम॑पा॒ने* निवि॑श्या॒मृतंᳵ हु॒तं । अ॒पा- नम॒न्नेनाप्यायस्व । श्र॒द्धायां व्या॒ने निवि॑श्या॒मृतंᳵ हु॒तं ।


अथ पञ्चत्रिंशोऽनुवाकः ।

भोजनादूर्ध्वमपां प्राशने मन्त्रमाह । (१)“अमृतापिधान- मसि”(१) इति। पीयमान हे जल त्वं ‘अमृतं’ अविनश्वरं, ‘अपिधानं’ आच्छादकं, ‘असि’ ॥

इति सायणाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरार- ण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्या- मुपनिषदि पञ्चत्रिंशोऽनुवाकः ॥


अथ षट्त्रिंशोऽनुवाकः ।

भुक्तस्यानुमन्त्रणे मन्त्रमाह । (१)“श्रद्धायां प्राणे ० आत्मामृत- त्वाय”(१) इति । वैदिककर्मणि विश्वासातिशयः ‘श्रद्धा’, तस्यां


* भाष्यधृतमूलपाठे अपानादिशब्दत्रये श्रद्धायामिति पदं न पठितम् ।

१० प्रपाठके ३७ अनुवाकः। ८५७

व्यानमन्ने॒नाप्या॑यस्व। श्रद्धाया॑मुदा॒ने निर्वि॑श्या॒मृतं॑ꣳ हु॒तं। उदा॒नमन्ने॒नाप्या॑यस्व। श्रद्धाया॑ꣳ समा॒ने नि- वि॑श्या॒मृतं॑ꣳ हु॒तं। समा॒नमन्ने॒नाप्या॑यस्व। ब्रह्म॑णि म॒ आत्मा॒मृत॑त्वाय^{(१)}॥ अनु० ३६॥


अथ सप्तत्रिंशोऽनुवाकः।

^{(१)}प्रा॒णानां ग्रन्थिर॑सि रु॒द्रो मा॑ वि॒शान्त॑कः। ते- नो॒न्नेनाप्या॑यस्व^{(१)}॥ अनु० ३७॥


सत्यां, 'प्राणवायौ 'निविश्य' आदरातिशयं कृत्वा, 'अमृतं' अवि- नश्वरं, खादुभूतं इदं हविः मया 'हुतं', हे प्राणाभिमानिदेव ऊतेन 'अन्नेन' 'आप्यायस्व' वर्द्धयस्व। स्पष्टमन्यत्॥

इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा- रण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्या- मुपनिषदि षट्त्रिंशोऽनुवाकः॥


अथ सप्तत्रिंशोऽनुवाकः।

अनुमन्त्रणादूर्द्ध्वं हृदयाभिमर्शने मन्त्रमाह। ^{(१)}“प्राणानां आप्यायस्व”^{(१)} इति। हे हृदयवर्त्तिन् अहङ्कार त्वं वायुरूपाणां इन्द्रियरूपाणां च 'प्राणानां', 'ग्रन्थिरसि' परस्परमविश्लेषाय

5 म 2

८५८ तैत्तिरीये आरण्यके

अथ अष्टत्रिंशोऽनुवाकः ।

(१)अ॒ङ्गुष्ठ॑मात्रः पुरु॑षोऽङ्गुष्ठं॑ च समाश्रि॑तः । ईशः॑ सर्व॑स्य जग॑तः प्रभुः प्रीणा॑ति वि॒श्वभुक्^{(१)} ॥ अनु० ३८ ॥


ग्रथनहेतुरसि । तादृशः त्वं 'रुद्रः' तदभिमानिदेवतारूपः 'अन्तकः' दुःखस्य विनाशकः, भूत्वा 'मा' मां, 'विश' मच्छरीरे प्रविष्टो भव । 'तेन' मद्भुक्तेन, 'अन्नेन' 'आप्यायस्व' मामभिवर्द्धय ॥

इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा-रण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञि-क्यामुपनिषदि सप्तत्रिंशोऽनुवाकः ॥


अथ अष्टत्रिंशोऽनुवाकः ।

क्षुधादिजनितचित्तविक्षेपशान्तेरूर्ध्वं भोक्तुर्जीवस्य परमेश्वर-रूपत्वानुसन्धानहेतुं मन्त्रं दर्शयति । $^{(१)}$"अङ्गुष्ठमात्रः ० प्रीणाति विश्वभुक्"$^{(१)}$ इति । हृदयमध्यगत आकाशः स्वाङ्गुष्ठपरिमितः, तत्र वर्त्तमाना बुद्धिरपि तावती, तया विच्छिन्नो जीवरूपः पुरुषोऽपि 'अङ्गुष्ठमात्रः', स च स्वकीयया ज्ञानक्रियाशक्त्या 'अङ्गुष्ठं', 'समाश्रितः', 'च'कारान्मस्तकञ्चाश्रितः, आपादमस्तक-व्यापीत्यर्थः । स चोपाधिसम्बन्धमन्तरेण स्वकीयेन वास्तवेन रूपेण 'सर्वस्य जगतः', 'ईशः' नियन्ता, अतएव 'विश्वभुक्' सर्वं

१० प्रपाठके ३८ अनुवाकः । ८५६

अथ ऊनचत्वारिंशोऽनुवाकः ।

(१)मे॒धा दे॒वी जु॒षमा॑णा न॒ आगा॑द्वि॒श्वाची॑ भ॒द्रा सु॑मन॒स्यमा॑ना । त्वया॒ जुष्टा॒ जुष॑माणा* दु॒रुक्तान् बृह॒-


जगद् भुङ्क्ते । तादृशः सः 'प्रभुः' ईश्वरः, 'प्रीणातु अनेन भोजनेन प्रसन्नो† भवतु ॥

इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि अष्टत्रिंशोऽनुवाकः ॥


अथ ऊनचत्वारिंशोऽनुवाकः ।

जीवात्म-ईश्वरेणाभेदज्ञानं यदस्ति तस्य ज्ञानस्य नैरन्तर्येण साधनं मेधाधीनम्, अतो मेधाभिमानिदेवतां प्रार्थयितुमेकामृचमाह । (१)“मेधा देवी ॰ विदथे सुवीरा”(१) इति । ग्रन्थतदर्थयोर्धारणशक्तिः 'मेधा', तदभिमानिनी 'देवी', 'जुषमाणा' प्रीयमाणा सती, 'नः' अस्मान् प्रति, 'आगात्' आगच्छतु । कीदृशी देवी, विश्वमञ्चतीति 'विश्वाची' सर्वावगाहनक्षमेत्यर्थः । अतएव 'भद्रा' कल्याणी, 'सुमनस्यमाना' शोभनं मनोऽस्मदनुग्राहकमिच्छन्ती । हे देवि 'त्वया जुष्टा' अनुगृहीता वयं, 'दुरुक्तान्


* नुदमाना इति J, N, Q चिह्नितपुस्तकपाठः ।
† प्रीतः इत्यपि पाठः ।

८६० तैत्तिरीये आरण्यके

द॑देम वि॒दथे॑ सु॒वीरा॑:^{(१)}। ^{(१)}त्वया॒ जुष्ट॑ ऋ॒षिर्भवति दे॒वि॒ त्वया॒ ब्रह्मा॑ऽऽग॒तश्री॑रु॒त त्वया॑। त्वया॒ जुष्ट॑श्चि॒त्रं वि॑न्दते॒ वसु॒ सा नो॑ जुषस्व॒ द्रवि॑णेन* मेधे^{(२)}॥ अनु० ३८॥


जुषमाणा:' पुरुषार्थानुपयोगिनो वेदबाह्यान् शब्दान् सेवमाना वेदैकनिष्ठा:, 'सुवीरा:' शोभनपुत्रशिष्यादिरूपा:, 'विदथे' यज्ञे- ऽनुष्ठिते सति, शुद्धान्तःकरणा भूत्वा 'बृहद्वदेम' परब्रह्मतत्त्वं कथयाम ॥

तत्रैव द्वितीयामृचमाह । ^{(१)}“त्वया जुष्टः ० द्रविणेन मेधे”^{(१)} इति। हे 'देवि' मेधाख्ये, 'त्वया', 'जुष्टः' सेवितोऽनुगृहीतः पुरुषः, 'ऋषिः' अतीन्द्रियदर्शी, 'भवति' । तथा 'त्वया', जुष्टः पुरुषः 'ब्रह्मा' हिरण्यगर्भः, भवति । 'उत' अपि च, त्वया जुष्टः पुरुषः 'आगतश्रीः' प्राप्तसम्पत्, भवति । अतएव 'त्वया जुष्टः', पुरुषः 'चित्रं' गवाश्वभूहिरण्यधान्यादिकं विविधं, 'वसु' धनं, 'विन्दते' लभते । हे 'मेधे', देवि, 'सा' तादृशी त्वं, 'नः' अस्मान्, 'द्रविणेन' धनेन, 'जुषस्व' सेवस्व, अनुगृह्णाणेत्यर्थः ॥

इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा- रण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्या- मुपनिषदि ऊनचत्वारिंशोऽनुवाकः ॥


* द्रविणो नेति J, N चिह्नितपुस्तकपाठः ।

१० प्रपाठके ४१ अनुवाकः । ८६१

अथ चत्वारिंशोऽनुवाकः ।

(१)मे॒धां म॒ इन्द्रो॑ ददातु मे॒धां दे॒वी सर॑स्वती । मे॒धां मे॑ अ॒श्विना॑वु॒भौ दे॒वावाध॑त्तां* पुष्क॑रस्रजौ+^(१)॥ अनु० ४० ॥

अथ एकचत्वारिंशोऽनुवाकः ।

(१)अ॒प्स॒रासु॑ च॒ या मे॒धा ग॑न्ध॒र्वेषु॑ च॒ यन्मन॑: । दैवी॑


अथ चत्वारिंशोऽनुवाकः ।

मेधाप्रदानिन्द्रादीन् प्रार्थयते । (१)“मेधां मे ॰ पुष्करस्रजान्”^(१) इति । योऽयं ‘इन्द्रः’, देवः, या च ‘सरस्वती’, देवी, यौ च ‘पुष्करस्रजौ’ पद्ममालायुक्तौ, ‘उभावश्विनौ’, ‘देवौ’, ते सर्वे ‘मे’ मह्यं, ‘मेधां’, प्रयच्छन्तु ॥

इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि चत्वारिंशोऽनुवाकः ॥

अथ एकचत्वारिंशोऽनुवाकः ।

मेधाप्रदं मन्त्रान्तरं दर्शयति । (१)“अप्सरासु च ॰ सुरभिर्जुषतां”^(१) इति । ‘अप्सरासु’ देवस्त्रीषु, ‘या मेधा’, प्रसिद्धा


* व्यश्विनावुभावाधत्तामिति J, N, Q चिह्नितपुस्तकपाठः ।
+ पुष्करस्रजेति B, J, N चिह्नितपुस्तकपाठः ।

८६२तैत्तिरीये आरण्यके

मे॒धा म॑नुष्य॒जा* सा मां मे॒धा सु॒रभि॑र्जुषता॒म्+ ⁽१⁾ ॥ अनु० ४१ ॥


अथ द्विचत्वारिंशोऽनुवाकः ।

⁽१⁾आ मां मे॒धा सु॒रभि॑र्वि॒श्वरू॑पा हिर॑ण्यवर्णा॒ ज-


वर्त्तते, 'गन्धर्वेषु च' देवगायकेषु, 'यत्', 'मनः' मेधात्मकं, अस्ति 'देवी' हिरण्यगर्भादिदेवेषु स्थिता, या 'मेधा' विद्यते, 'मनुष्यजा' मनुष्येषु वेदशास्त्रवित्सु या 'मेधा' अस्ति । 'सा' सर्वा, मेधा, 'सुरभिः' शोभनगन्धा, सर्वकामदुघा वा, भूत्वा, 'मां', 'जुषतां' सेवतां ॥

• इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि एकचत्वारिंशोऽनुवाकः ॥

अथ द्विचत्वारिंशोऽनुवाकः ।

पुनरपि मेधार्थं मन्त्रान्तरमाह । ⁽१⁾“आ मां मेधा ० सुप्रतीकां जुषतां”⁽१⁾ इति । 'मेधा' शक्तिः, 'मां', प्रत्यागच्छत्विति शेषः । कीदृशी मेधा, 'सुरभिः' शोभनगन्धा, कामदुघा वा,


* मेधा सरस्वती इति B, J, N चिह्नितपुस्तकपाठः ।
' + जुषताम् स्वाहेति B, J, N चिह्नितपुस्तकपाठः ।

१० प्रपाठके ४३ अनुवादः । ८६३

ग॑ती जग॒म्या । ऊर्ज॑स्वती॒ पय॑सा॒ पिन्व॑माना॒ सा मां मे॒धा सु॒प्रती॑का जुषतां⁽१⁾ ॥ अनु० ४२ ॥

अथ त्रिचत्वारिंशोऽनुवाकः ।

⁽१⁾स॒द्योजा॒तं प्र॑पद्या॒मि स॒द्योजा॒ताय॒ वै नम॑:* ।


'विश्वरूपा' सकलवेदशास्त्रधारणक्षमत्वेन बहुरूपा, 'हिरण्यवर्णा', देवताशरीरे हिरण्यसमानवर्णोपेता, 'जगती' सर्वत्र वर्त्तमानत्वेन जगदात्मिका, 'जगम्या' पुरुषार्थकामैः भृशं गन्तुं योग्या, 'ऊर्जस्वती' बलवती, 'पयसा' गोक्षीरादिरसेन, 'पिन्वमाना' अस्मान् प्रीणयन्ती, 'सा' तथाविधगुणयुक्ता, 'मेधा', 'सुप्र- तीका' सुमुखी भूत्वा, 'मां', 'जुषतां' सेवतां ॥

इति द्विचत्वारिंशोऽनुवाकः ॥


अथ त्रिचत्वारिंशोऽनुवाकः ।

मेधाविनः पुरुषस्य ज्ञानोत्पादनाय महादेवसम्बन्धिषु पञ्च- वक्त्रेषु मध्ये पश्चिमवक्त्रप्रतिपादकं मन्त्रमाह । (१)“सद्योजातं ० भवोद्भवाय नमः”(१) इति । 'सद्योजात'नामकं यत् पश्चिमवक्त्रं, तद्रूपं परमेश्वरं, 'प्रपद्यामि' प्राप्नोमि । तादृशाय 'सद्योजाताय',


* वै नमो नम इति B, J, N, O चिह्नितपुस्तकपाठः ।
5 N

८६४ तैत्तिरीये आरण्यके

भ॒वे भ॑वे॒ नाति॑भवे भजस्व* मां। भ॒वोद्भा॑वाय॒ नमः॑^{(१)} ॥ अनु० ४३ ॥


अथ चतुश्चत्वारिंशोऽनुवाकः ।

^{(१)}वा॒म॒दे॒वाय॒ नमो॑ ज्ये॒ष्ठाय॒ नमः॑ श्रेष्ठाय॒ नमो॑ रु॒द्राय॒ नमः॒ काला॑य॒ नमः॑ कल॑विकरणाय॒ नमो॒ बल॑विकरणाय॒ नमो॒ बला॑य॒ नमो॑† बल॑प्रमथनाय॒ नमः॑


‘वे’, नमः’, अस्तु । हे सद्योजात ‘भवे भवे’ तत्तज्जन्मनिमित्तं, ‘मां’, ‘न भजस्व’ न प्रेरयेत्यर्थः । किन्तर्हि ‘अतिभवे’ जन्मातिलङ्घननिमित्तं, ‘भजस्व’ तत्त्वज्ञानाय प्रेरय । ‘भवोद्भावाय’ भवात् संसारात् उद्भर्त्रे, सद्योजाताय ‘नमः’, अस्तु ॥

इति त्रिचत्वारिंशोऽनुवाकः ॥


अथ चतुश्चत्वारिंशोऽनुवाकः ।

उत्तरवक्त्रप्रतिपादकं मन्त्रमाह । ^{(१)}“वामदेवाय नमः ॰ मनोन्मनाय नमः”^{(१)} इति। उत्तरवक्त्ररूपः ‘वामदेवः’, तस्यैव


* भवस्व इति B, J, N, O, चिह्नितपुस्तकपाठः ।
† बलाय नम इति पाठः F, Q चिह्नितभाष्यपुस्तकद्वतमूलद्वये नास्ति ।

१० प्रपाठके ४५ अनुवाकः। ८६५

सर्व॑भूतदमनाय॒ नमो॑ म॒नोन्म॑नाय॒ नमः॑^{(१)}॥ अनु० ४४ ॥


अथ पञ्चचत्वारिंशोऽनुवाकः।

^{(१)}अ॒घोरे॑भ्योऽथ॒ घोरे॑भ्यो॒ घोर॒ घोर॑तरेभ्यः। सर्व॑तः श॒र्व॒ सर्वे॑भ्यो* नम॑स्ते अस्तु रु॒द्ररू॑पेभ्यः^{(१)}॥ अनु० ४५॥


विग्रहविशेषा ज्येष्ठादिनामकाः। एते च महादेवपीठशक्तीनां वामादीनां नवानां पतयः पुरुषाः। तेभ्यो नवभ्यो नमस्कारः अस्तु॥

इति चतुश्चत्वारिंशोऽनुवाकः॥


अथ पञ्चचत्वारिंशोऽनुवाकः।

दक्षिणवक्त्रप्रतिपादकं मन्त्रमाह। ^{(१)}“अघोरेभ्योऽथ ० रुद्र- रूपेभ्यः”^{(१)} इति। अघोरनामको दक्षिणवक्त्ररूपो देवः, तस्य विग्रहाः ‘अघोराः’ सात्त्विकत्वेन शान्ताः, अन्ये तु ‘घोराः’ राजस- त्वेन उग्राः, अपरे तु तामसत्वेन घोरादपि ‘घोरतराः’। हे ‘शर्व’ परमेश्वर, ‘ते’ त्वदीयेभ्यः पूर्वोक्तेभ्यः त्रिविधेभ्यः, ‘सर्वेभ्यो रुद्र- रूपेभ्यः’, ‘सर्वतः’ सर्वेषु देशेषु सर्वेषु च कालेषु ‘नमोऽस्तु’॥

इति पञ्चचत्वारिंशोऽनुवाकः॥


* सर्वेभ्यः सर्वशर्वेभ्य इति B, J, N, O चिह्नितपुस्तकपाठः 5 N 2

८६६ तैत्तिरीये आरण्यके

अथ षट्चत्वारिंशोऽनुवाकः ।

(१)तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि । तन्नो॑ रु॒द्रः प्र॒चोद॑यात्(१) ॥ अनु० ४६ ॥


अथ सप्तचत्वारिंशोऽनुवाकः ।

(१)ईशानः सर्व॑विद्या॒नामीश्वरः सर्व॑भूता॒नां ब्रह्मा-


अथ षट्चत्वारिंशोऽनुवाकः ।

प्राग्वक्त्रप्रतिपादकं मन्त्रमाह । (१)“तत्पुरुषाय ० रुद्रः प्रचोदयात्”(१) इति । प्राग्वक्त्रदेवः ‘तत्पुरुष’नामकः । द्वितीयार्थे चतुर्थी । ‘तत्पुरुषं, देवं, ‘विद्महे’ गुरुशास्त्रमुखाज्जानीमः, ज्ञात्वा च ‘महादेवाय’ तं महादेवं, ‘धीमहि’ ध्यायेम । ‘तत्’ तस्मात् कारणात्, ‘रुद्रः’, देवः, ‘नः’ अस्मान्, ‘प्रचोदयात्’ ज्ञानध्यानार्थं प्रेरयतु ॥

इति षट्चत्वारिंशोऽनुवाकः ॥


अथ सप्तचत्वारिंशोऽनुवाकः ।

ऊर्ध्ववक्त्रप्रतिपादकं मन्त्रमाह । (१)“ईशानः सर्वविद्यानां ० सदा शिवोम्”(१) इति । योऽयमूर्ध्ववक्त्रो देवः सोऽयं ‘सर्व-

१० प्रपाठके ४८ अनुवाकः । ८६७

धि॑प॒तिर्ब्रह्म॒णोऽधि॑प॒तिर्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम्^{(१)} ॥ अनु० ४७ ॥


अथ अष्टचत्वारिंशोऽनुवाकः ।

$^{(१)}$ब्रह्म॑मेतु॒ मां । मधु॑मेतु॒ मां । ब्रह्म॑मे॒व मधु॑मेतु॒ मां ।


विद्यानां’ वेदशास्त्रादीनां चतुःषष्टिकलाविद्यानां, ‘ईशानः’ नियामकः, तथा ‘सर्वभूतानां’ अखिलप्राणिनां, ‘ईश्वरः’ नियामकः, ‘ब्रह्माधिपतिः’ वेदस्याधिकत्वेन पालकः, तथा ‘ब्रह्मणः’ हिरण्यगर्भस्य, ‘अधिपतिः’, तादृशो यः ‘ब्रह्मा’ अस्ति प्रवृद्धः परमात्मा, सोऽयं ‘मे’ ममानुग्रहाय, ‘शिवः’ शान्तः, ‘अस्तु’ । ‘सदा शिवों’ स एव सदाशिवः, ‘ॐ’ अहं भवामि ॥

इति सप्तचत्वारिंशोऽनुवाकः ॥


अथ अष्टचत्वारिंशोऽनुवाकः ।

इत्थं तत्त्वज्ञानस्योत्पादकाः पञ्चवक्त्रप्रतिपादकाः पञ्चब्रह्ममन्त्रा उक्ताः, अथ ज्ञानप्रतिबन्धकब्रह्महत्यादिपापनिवृत्तिहेतवस्त्रिसुपर्णनामका मन्त्रा वक्तव्याः, तत्र प्रथमं मन्त्रमाह । $^{(१)}$“ब्रह्ममेतु मां • प्राणाँस्तां जुहोमि”$^{(१)}$ इति । ‘ब्रह्म’ परब्रह्मतत्त्वं, ‘मां’, ‘एतु’ प्राप्नोतु, ‘मधु’ परमानन्दलक्षणमाधुर्योपेतं वस्तु, ‘मां’, ‘एतु’ प्राप्नोतु । न चात्र ब्रह्म-मधुशब्दयोः अत्यन्तमर्थभेदः, किं

८६८ तैत्तिरीये आरण्यके

यास्ते॑ सोम प्र॒जा व॒त्सो॒ऽभि सो अ॒हं । दुः॒ष्वप्न॒हं दु॑रु॒ष्वह॑ । यास्ते॑ सोम प्रा॒णास्तां जु॑होमि॑(१)। (२)त्रिसु॑प॒र्ण- मया॑चितं ब्राह्म॒णाय॑ दद्यात् । ब्र॒ह्म॒हत्यां वा ए॒ते घ्न॑न्ति । ये ब्रा॑ह्म॒णास्त्रिसु॑पर्णं पठ॑न्ति । ते सोमं॑ प्राप्नु॑-


तर्हि 'ब्रह्ममेव', 'मधुं' शब्दद्वयप्रतिपाद्यमखण्डैकरसं वस्तु, 'मां', 'एतु' प्राप्नोतु । हे 'सोम' उमा ब्रह्मविद्या तया सह वर्त्तमान परमात्मन्, 'ते' तव, 'याः', 'प्रजाः' देवमनुष्यादयः, सन्ति, ता 'अभिलक्ष्य 'सो अहम्' स तादृशस्त्वत्सेवकोऽहं, 'वत्सः' बालः, एतासां त्वदीयप्रजानां मध्ये बालवदहं त्वदीयकरुणायोग्यः । अतः हे 'दुःष्वप्नहन्' संसाररूपस्य दुःष्वप्नस्य घातक परमेश्वर, 'दुरुष्वह' दुःखमुत्कर्षेण अभिभव । वर्णविकारश्छान्दसः । हे 'सोम परमात्मन्, 'ते' त्वदीयाः, प्राणवृत्तयः 'याः', सन्ति 'तान्' वृत्ति 'प्राणान्', त्वयि 'जुहोमि' प्रक्षिपामि । मदीयमनोवागादयः प्राणास्त्वया निर्निर्मितत्वात् त्वदीयाः, अतस्त्वय्येवापसंहरामि, विषयेभ्य इन्द्रियाणि निरुध्य त्वदेकचित्तो भवामीत्यर्थः ॥

उक्तस्य त्रिसुपर्णमन्त्रस्य माहात्म्यं ब्राह्मणरूपेण वाक्येन दर्शयति । (१)“त्रिसुपर्णं ॰ पङ्क्तिं पुनन्ति ॐ”(१) इति । “विद्यान्तराणि सर्वाणि नापृष्टः कश्चिद् ब्रूयात्” इति शास्त्रमनुसृत्य शिष्येण याच्ञायां कृतायां पश्चादुपदिशन्ति । इमं तु त्रिसुपर्णमन्त्रं शिष्ययाच्ञामन्तरेणैव 'ब्राह्मणाय', उपदिशेत्* ।

* उपदिशन्ति इति Q चिह्नितपुस्तकपाठः ।

१० प्रपाठके ४८ अनुवाकः । ८६६

वन्ति॑ । आ॒स॒ह॒स्रात् प॒ङ्क्तिं पु॑नन्ति । ओम्^(१) ॥ अनु० ४८ ॥


अथ एकोनपञ्चाशदनुवाकः ।

^(१)ब्रह्म॑ मे॒धया॑ । मधु॑ मे॒धया॑ । ब्रह्म॑मे॒व मधु॑ मे॒धया॑ । अ॒द्या नो॑ देवसवितः प्र॒जा व॑त्सावी॒ सौभ॑गं । परा॑ दुः॒ष्वप्नि॒यँ॑ सुव । विश्वा॑नि देवसवितर्दु॑रि॒तानि॑


तेनोपदेशेन 'ये ब्राह्मणाः', 'त्रिसुपर्णं पठन्ति' त्रिसुपर्णमन्त्रं सर्वदा जपन्ति, 'एते' पुरुषाः, 'ब्रह्महत्यां', विनाशयन्ति । ततस्ते निष्पापाः सन्तः 'सोम'यागं 'प्राप्नुवन्ति' । ते यस्यां ब्राह्मणपङ्क्तौ भोजनार्थमुपविशन्ति तां 'पङ्क्तिं', सहस्रब्राह्मणपर्यन्तां, 'पुनन्ति' शुद्धां कुर्वन्ति । तस्माद् 'ॐ' प्रणवप्रतिपाद्यः परमात्मैव, त्रिसुपर्णमन्त्रस्य देवतेत्यर्थः ॥

इति अष्टचत्वारिंशोऽनुवाकः ॥


अथ एकोनपञ्चाशदनुवाकः ।

द्वितीयं त्रिसुपर्णमन्त्रमाह । ^(१)“ब्रह्म मेधया ० भवन्तु नः”^(१) इति । यद् 'ब्रह्म' जगत्कारणं सर्ववेदान्तवेद्यं, तत् 'मेधया'

८१० | तैत्तिरीये आरण्यके


परा॑ सुव । यद्भ॒द्रं तन्म॒ आ सु॑व । मधु॒ वाता॑ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः । माध्वीᳵर्नः सं॒त्वोष॑धीः । मधु॒ नक्त॑मु॒तोषसि॒ मधु॑म॒त्पार्थि॑व॒ꣳ रज॑: । मधु॒ द्यौर॑स्तु नः पि॒ता । मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माꣳ अस्तु॒ सूर्य॑: । माध्वी॒र्गावो॑ भवन्तु नः॑॥^(१) । ^(२)य इ॒मं त्रि॑सुप॒र्णमया॑चितं ब्राह्म॒णाय॑ दद्यात् । भ्रू॒ण॒हत्यां॑ वा ए॒ते घ्न॑न्ति । ये ब्रा॑ह्म॒णास्त्रि॑सुप॒र्णं पठ॑न्ति । ते सोमं॒ प्राप्नु॑वन्ति । आ- स॒हस्राᳵत् प॒ङ्क्तिं पु॒न॑न्ति । ॐ^(२) ॥ अनु० ४९ ॥


गुरूपदिष्टमहावाक्यतदर्थधारणशक्त्या, लभ्यतामिति शेषः । मध्वि- त्यादि पूर्ववत् । अद्या नो देवेत्यादिकमृक्पञ्चकमणोरणीयानि- त्यनुवाके* व्याख्यातं ।

अस्य त्रिसुपर्णमन्त्रस्य महिमानं दर्शयति । ^(२)“य इमं ॰ पुनन्ति । ॐ”^(२) इति । ब्राह्मणगर्भस्य राजगर्भस्य वा वधः ‘भ्रूणहत्या’ । अन्यत् पूर्ववत् ॥

इति एकोनपञ्चाशोऽनुवाकः ॥


* कया नो देवेत्यादिकमृक्सञ्चयं क्रमेणानोरणीयानित्यनुवाके इति F चिह्नितपुस्तकपाठः । अनुवाकस्तु १० । ८०० पृष्ठे द्रष्टव्यः ।

१० प्रपाठके ५० अनुवादः । ८७१

अथ पञ्चाशोऽनुवाकः ।

(१)ब्रह्म॑ मे॒धवा॑ । मधु॑ मे॒धवा॑ । ब्रह्म॑मेव मधु॑ मेध॒वा । ब्रह्मा दे॒वानां॑ पद॒वीः क॑वी॒नामृषि॒र्विप्रा॑णां म- हि॒षो मृ॒गाणा॑म् । श्ये॒नो गृध्रा॑णा॒ꣳ॒ स्वधि॑ति॒र्वना॑ना॒ꣳ॒ सोमः॑ प॒वित्र॒मत्ये॑ति॒रेभन्॑ । ह॒ꣳ॒सः शु॑चि॒षदसु॑रन्त- रि॒क्षसद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत् । नृ॒षद्व॑र॒सह॑त- सद् व्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तं बृ॒हत्(१) । (२)य इ॒दं त्रि॑सुप॒र्णमया॑चितं ब्राह्म॒णाय॑ दद्यात् । वी॒र॒- हत्यां वा ए॒ते घ्न॑न्ति । ये ब्राह्म॑णास्त्रिसुप॒र्णं पठ॑न्ति । ते सोमं॑ प्राप्नुवन्ति । आ॒स॒ह॒स्रात् प॒ङ्क्तिं पु॑नन्ति । ओम्(२)॥ अनु० ५० ॥


अथ पञ्चाशोऽनुवाकः ।

तृतीयं त्रिसुपर्णमन्त्रमाह । (१)“ब्रह्म मेधवा ० ऋतं बृहत्”(१) इति । ‘मेधवा’ मेधो यज्ञः सोस्यास्तीति मेधवत् । यज्ञदानादिसाध्यविविदिषापूर्वकत्वात् ब्रह्मज्ञानलाभस्य ‘ब्रह्म’, मेधवत् इत्युच्यते । अन्यत् पूर्ववत् । ब्रह्मा देवानां, हंसः शुचि- षत् इत्यादिके द्वे ऋचौ अणोरणीयानित्यनुवाके व्याख्याते ॥

अस्य त्रिसुपर्णमन्त्रस्य महिमानं दर्शयति । (२)“य इदं ० पङ्क्तिं पुनन्ति ओम्”(२) इति । वेदशास्त्रतदनुष्ठानपरो ब्राह्मणः, अभिक्षितो राजा वा ‘वीरः’ । अन्यत् पूर्ववत् ॥

इति पञ्चाशोऽनुवाकः ॥

50