तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
१४८ श्रीतन्त्रालोकः । पाति रक्षति इति पतिः । श्रेयोमयः पराद्वयस्व- भावत्वात् । अशिवम् इति द्वैतम् ॥१०४॥ ननु एवमपि किं विशेषणयोगेन, इत्याशङ्क्याह ईदृग्रूपं कियदपि रुद्रोपेन्द्रादिषु स्फुरेद्येन । तेनावच्छेदमुदे परममहत्पदविशेषणमुपात्तम् ॥१०५॥ ईदृक् इति भैरवादिशब्देष्वन्वर्थगत्या दर्शितम् । कियत् इति किंचिदेव, न तु सर्वम्, एतत् हि अंशां- शिकया सर्वत्रैव संभवेत् इति भावः । अत एव अन्य- व्यवच्छेदेन सर्वातिशयप्रतिपादनार्थं परममहत्पदल- क्षणं विशेषणमुक्तम् ॥१०५॥ ननु अज्ञानं संसृतौ निमित्तं, ज्ञानं च मोक्षे, स्वस्वरूपाख्यातिश्चाज्ञानं, तत्ख्यातिश्च ज्ञानं, स्वा- पं० १ क० पु० परमाद्वयेति पाठः । पं० ३ स० पु० विशेषेण योगेनेति पाठः । पं० ७ ख० पु० महत्पदमुपात्तमिति पाठः । पं० ११ क० पु० महत्पदविशेषणमिति लक्षणपदहीनः पाठः । पं० १४ क० पु० तद्व्याख्यातिश्चेति पाठः ।
श्लोक १०६ ] प्रथमाह्निकम्। १४९ त्मनश्च स्वरूपं परः प्रकाशः, स एव च स्वं रूपं स्वे- च्छया प्रच्छाद्य विश्वरूपतामवभासयेत् । एवमपि तदधिगमे तच्छक्तिरेवोपायो, येन स्वरूपख्यातिर्भ- वेत्, इयदेव च ज्ञातव्यम् यत्सर्वेषामेव शास्त्राणां प्रतिपाद्यं तच्च इह उक्तप्रायम् इत्यत एव विर- न्तव्यम् इत्याशङ्क्याह इति यज्ज्ञेयसतत्त्वं दर्श्यते तच्छिवाज्ञया । मया स्वसंवित्सतर्क- पतिशास्त्रालिकक्रमात् ॥ १०६॥ ‘इत्युपोद्घातः’ । इति – उक्तेन प्रकारेण यत् ज्ञेयस्य बन्धमोक्षादेः शास्त्रान्तरदृष्टत्वात् सतत्त्वं पारमार्थिकं रूपम् अर्थादिह संक्षेपेण उद्दङ्कितम्, तन्मया शिवाज्ञया स्वसंविदादि अवलम्ब्य च दर्श्यते – विस्तरेण उच्यते इत्यर्थः । शिवोऽत्र गुरुः । ‘यो गुरुः स शिवः प्रोक्तो यः शिवः स गुरुः स्मृतः । उभयोरन्तरं नास्ति गुरोरपि शिवस्य च ॥’ पं० १४ ख० पु० अवलम्ब्य चर्च्यते इति पाठः ।
१५० श्रीतन्त्रालोकः । इति, नहि अत्र तदादेशमन्तरेण अधिकार एव भवेत् ईत भावः । स्वसंवित् स्वानुभवः । सत्तर्को युक्तिः । पतिशास्त्रं भेदप्रधानं शैवम् । त्रिकं परादिशक्तित्रया- भिधायकं शास्त्रम् । क्रमः चतुष्टयार्थः । समाहारेऽयं- द्वन्द्वः । इह सर्वमेव स्वानुभवेन युक्त्या सामान्या- गमेन विशेषागमेन च सिद्धमुपदिश्यते इत्यागमः । उपोद्घात इति उप — आशु संक्षेपेण ऊर्ध्वमादौ हन्यते टंक्यते दीनार इव राजाभिधानं शास्त्रार्थो यस्मिन् स तथा ॥ १०६ ॥ तदेवं प्रतिज्ञाय शास्त्रार्थगर्भीकारेण संप्रति अव- तारयितुमाह तस्य शक्तय एवैता- स्तिस्रो भान्ति परादिकाः । सृष्टौ स्थितौ लये तुर्ये तेनैता द्वादशोदिताः ॥ १०७ ॥ तस्य परमेश्वरस्य भैरवादिशब्दाभिधेयस्य, एताः पं० २ क० पु० स्वसंविदनुभव इति पाठः । प० ७ ख० पु० उपांशु संक्षेपेयोति पाठः ।
श्लोकः १०८ ] प्रथमाह्निकम् । १५१ निखिलशक्त्यन्तरगर्भीकारेण प्रधानतया प्रतिपा- दिताः परादिकास्तिस्रः शक्तयः, सृष्टौ, स्थितौ, लये संहारे, तुर्ये, अनाख्ये च भान्ति-सर्वसर्वात्मकेन रूपेण स्फुरन्ति इत्येकैकस्याः चातूरूप्येण श्रीसृष्टिकाल्या- द्यात्मकतया द्वादशधोदय इति वाक्यार्थः । तदुक्तं 'धाम्नां त्रयाणामप्येषां सृष्ट्यादिक्रमयोगतः । भवेच्चतुर्धावस्थानमेवं द्वादशधोदितः ॥ स्वसंवित्परमादित्यः प्रकाशवपुरव्ययः ।' इति ॥ १०७ ॥ ननु एक एव परप्रकाशात्मको भैरवादिशब्द- व्यपदेश्यः परमेश्वरः समस्ति, तस्य चाभिन्ना एकैव स्वातन्त्र्याख्या शक्तिः इत्युपपादितं, तत्कथमस्य इह द्वादशधोदय इत्युक्तम् ?, इत्याशङ्क्याह तावान्पूर्णस्वभावोऽसौ परमः शिव उच्यते । तेनात्रोपासकाः साक्षा- त्तत्रैव परिनिष्ठिताः ॥ १०८ ॥ पं० ३ क० पु० भवन्ति सर्वसर्वात्मकत्वेन स्फुरन्तीति पाठः । पं० ११ ख० पु० तस्य चैके वाभिन्ना इति पाठः ।
१५२ श्रीतन्त्रालोकः । तावान् इति - द्वादश शक्तयः परिमाणमस्य, स तथा, अत एव पूर्णस्वभावः इत्युक्तं । पूर्णे सर्व- मस्ति, सर्वत्र पूर्णमस्ति, अन्यथास्य पूर्णतैव न स्यात् । अत एव अत्र द्वादशात्मके चक्रे ये उपास- काः ते तत्र परमशिवे एव परिनिष्ठिताः - तदैकात्म्य- भाजो भवन्ति इत्यर्थः । एतच्च बहुप्रघट्टकवक्त- व्यम्, इति शाक्तोपायाह्निक एव वितत्य विचार- यिष्यते, इति नेहायस्तम् ॥ १०८ ॥ ननु कथमेतद्युक्तं - यतोऽत्र संख्यायाः तत्र तत्र न्यूनत्वमाधिक्यं च संभवति ?, इत्याशङ्क्याह तासामपि च भेदांश- न्यूनाधिक्यादियोजनम् । तत्स्वातन्त्र्यबलादेव शास्त्रेषु परिभाषितम् ॥ १०६ ॥ तदेवाह एकवीरो यामलोऽथ त्रिशक्तिश्चतुरात्मकः । पं० १६ ख० पु० यामलोक्त इति, यामलोत्थ इति च पाठः ।
श्लोकः १११ ] प्रथमाह्निकम् । १५३ पञ्चमूर्तिः षडात्मायं सप्तकोष्ठकभूषितः ॥ ११० ॥ नवात्मा दशादिक्शक्ति- रेकादशकलात्मकः । द्वादशारमहाचक्र- नायको भैरवस्त्विति ॥ १११ ॥ यथा एकवीरो मृत्युजिति प्रथमध्याने । यामलः तत्रैव । कुलप्रक्रियायां तिस्रः शक्तयः पराद्याः । चतुरात्मा जयादिभेदेन । पञ्चमूर्तिः सद्योजातादि- तया । तदुक्तं 'सिद्धान्ते पञ्चकं सारं चतुष्कं वामदक्षिणे । त्रिकं तु भैरवे तन्त्रे....................॥' इति । षडात्मा इति, यद्वक्ष्यति 'विश्वा तदीशिका रौद्री वीरका त्र्यम्बिका तथा । गुर्वीति षडरे देव्यः.................. ॥' इति । सप्तकः इति, यदुक्तं पं० ८ क० पु० तत्रैव प्रक्रियायामिति पाठः । पं० ११ ख० पु० चतुर्थं वामेति पाठः । २०
१५४ श्रीतन्त्रालोकः । 'ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा । वाराही च तथेन्द्राणी चामुण्डा चेति मातरः ॥' इति । अष्टकेन अघोरादिना । स एव एतदष्टकम- ध्यवर्ती नवात्मा । दशदिक्छक्तिः इति, यदुक्तं 'उमा दुर्गा भद्रकाली स्वस्ति स्वाहा शुभङ्करी । श्रीश्च गौरी लोकधात्री वागीशी दशमी स्मृता ॥' इति । एकादश इति खण्डचक्रोक्ता । इयदन्तं न्यूनसंख्यास्वीकारः भैरवः इति त्रयोदशः । अनेन अधिकसंख्यासूत्रणम् ॥११०॥१११॥ तच्च अधिकसंख्याकत्वं निरवधि, इत्याह एवं यावत्सहस्रारे निःसंख्यारेऽपि वा प्रभुः । विश्वचक्रे महेशानो विश्वशक्तिर्विजृम्भते ॥११२॥ सहस्रारे इति त्रिशिरोभैरवप्रथमपटलोक्ते । ग्रन्थ- विस्तरभयात्तु न प्रातिपद्येन संवादितम् । निःसंख्यारे इति भुवनादीनामानन्त्यात् । एवमपि एतस्मान्न व्य- तिरिक्तम्, इत्याह विश्वशक्तिः इति । तदुक्तं पं० ८ क० ग० पु० न्यूनस्वीकार इति, ख० पु० अनेन त्रयोदशकथनेन अधिकेति च पाठः ।
श्लोकः ११३ ] प्रथमाह्निकम् । १५५ 'शक्तिश्च शक्तिमांश्चैव पदार्थद्वयमुच्यते । शक्तयोऽस्य जगत्कृत्स्नं शक्तिमांस्तु महेश्वरः ॥' इति ॥११२॥ ननु विश्वेषामपि चक्राणां यदि प्रभुरेव परमार्थः तदेकेनैव कार्ताथ्यात् प्रतिशास्त्रं बहूनि किमुक्तानि?, इत्याशङ्क्याह तेषामपि च चक्राणां स्ववर्गानुगमात्मना । ऐक्येन चक्रगो भेद- स्तत्र तत्र निरूपितः ॥११३॥ ऐक्येन तत्तत्सृष्ट्याद्यात्मनियतकृत्यकारित्वादिना साजात्येन । तच्च नियतकृत्यकारित्वादेव अस्य स्ववर्गानुगमात्मकत्वमुक्तम्, अत एव चक्रगो भेद इति शास्त्रेषु चक्राणामानन्त्यम् ॥११३॥ तदेव दर्शयति चतुष्षड्विद्विंगणा- योगात्त्रैशिरसे मते । पं० १२ क० पु० अस्य स्ववर्गानुगमेति पाठः ।
१५६ श्रीतन्त्रालोकः । षट्चक्रेश्वरता नाथ- स्योक्ता चित्रनिजाकृतेः ॥११४॥ चतुर्णां द्विगणनायोगेन अष्टौ, पुनस्तथात्वेन षोड- श, षण्णां द्विगणनायोगेन द्वादश, पुनस्तथात्वेन चतुर्विंशतिः इति षण्णां चक्राणामीश्वरता, तत्तत्स- मुल्लास्यचक्राद्युपाधिवैचित्र्याच्चित्रा — नानाकारा, तद- तिरिक्तस्य अन्यस्य अनुपसम्भात् निजाकृतिः यस्य, अत एव नाथस्य स्वातन्त्र्यशालिनः तत्तच्चक्रा- धिष्ठातुः प्रभोः त्रैशिरसे मते त्रिशिरोभैरवे उक्ता अभिहिता इत्यर्थः । तदुक्तं तत्र ‘चतुष्कं षट्कोष्ठकं द्वादशारं षोडशारकम् । चतुर्विंशारकं देवि प्रविभक्त्या सुसंस्थितम् ॥’ इत्यादि ॥११४॥ बहुप्रकारत्वं चक्राणां भेदनिमित्तमपि त्रिशिरो- भैरव एवोक्तम्, इत्याह पं० ३ क० पु० तथात्वे षोडश इति पाठः । पं० ६ क० पु० समुल्लासस्य चक्रेति पाठः । पं० ११ क० पु० चतुष्कषट्कोष्ठकेति पाठः । पं० १२ क० पु० प्रविभक्त्या तथाष्टकमिति पाठः ।
श्लोकः ११६ ] प्रथमाह्निकम् । १५७ नामानि चक्रदेवीनां तत्र कृत्यविभेदतः । सौम्यरौद्राकृतिध्यान- योगीन्यन्वर्थकल्पनात् ॥ ११५ ॥ उक्ता इति पूर्वश्लोकाल्लिङ्गादिविपरिणामाद् यो- ज्यम् । एक एव हि परमेश्वरः तत्तत्साधककामा- नुसारं नियतां सौम्यरौद्रादिरूपाम् आकृतिमाभा- स्य तां तां सिद्धिं नियच्छेत् । तदुक्तं 'येन येन हि रूपेण साधकः संस्मरेत्सदा । तस्य तन्मयतां याति चिन्तामणिरिवेश्वरः ॥' इति । श्रीत्रिशिरोभैरवप्रथमपटलाच्च अयमर्थः स्वयमेवाधिगन्तव्यः । अस्माभिस्तु ग्रन्थविस्तारभ- यात् न प्रातिपद्येन संवादितम् ॥ ११५ ॥ तदेवाह एकस्य संविन्नाथस्य ह्यान्तरी प्रतिभा तनुः । पं० ६ ख० पु० साधकशमानुसारमिति पाठः ।
१५८ श्रीतन्त्रालोकः । सौम्यं वान्यन्मितं संवि- दूर्मिचक्रमुपास्यते ॥११६॥ आन्तरी प्रतिभा स्वातन्त्र्यशक्तिः । अन्यत् इति रौद्रम् । अत एव तत्तत्सौम्यरौद्रादिनियताका- रावच्छिन्नत्वात् मितम् ॥ ११६ ॥ एतदेव विभज्य दर्शयति अस्य स्यात्पुष्टिरित्येषा संविद्देवी तथोदितात् । ध्यानात्संजल्पसंमिश्राद् व्यापाराच्चापि बाह्यतः ॥ ११७ ॥ स्फुटीभूता सती भाति तस्य तादृक्फलप्रदा । पुष्टिः शुष्कस्य सरसी- भावो जलमतः सितम् ॥११८॥ अनुगम्य ततो ध्यानं तत्प्रधानं प्रतन्यते । पं० २ ख० पु० उपासते इति पाठः । पं० ७ ख० पु० अस्य स्यात्तुष्टिरिति प्रथमः पाठः । पं० १३ ख० पु० सरसीभावे इति पाठः ।
श्लोकः १२२ ] प्रथमाह्निकम् । १५९ ये च स्वभावतो वर्णा रसनिःष्यन्दिनो यथा ॥११९॥ दन्त्यौष्ठ्यदन्त्यप्रायास्ते कैश्चिद्वर्णैः कृताः सह । तं बीजभावमागत्य संविदं स्फुटयन्ति ताम् ॥१२०॥ पुष्टिं कुरु रसेनेन- माप्यायय तरामिति । संजल्पोऽपि विकल्पात्मा किं तामेव न पूरयेत् ॥१२१॥ अमृतेयमिदं क्षीर- मिदं सर्पिर्बलावहम् । तेनास्य बीजं पुष्णीया- मित्येनां पूरयेत्क्रियाम् ॥१२२॥ ध्यानाद्येव क्रमेण निरूपयति - पुष्टिरित्यादिना । ततः इति समनन्तरोक्ताद्धेतोः । अतः इति पुष्टेः पं० ७ क० पु० पुष्टिं कुरु रसोऽनेन ध्याययन्तु ततस्तरामिति पाठः । पं० ९ ख० पु० संकल्पोऽपि इति पाठः । पं० १३ ग० पु० पुष्णीयादिति पाठः ।
१६० श्रीतन्त्रालोकः । शुष्कस्य सरसीभावापादानलक्षणत्वात् । जलं हि आप्यायकं तत्प्रधानं पुष्टिप्रयोजकम् पूर्णमित्यादि- रूपम्। संप्रति संजल्पमपि लौकिकालौकिकभेदेन द्विधा व्याचष्टे - ये च इत्यादिना । ते इति दन्त्योष्ठ्यदन्त्य- प्राया वर्णाः । तां संविदं पुष्टिरूपां । बीजभावं मन्त्रभावम् । अत एवास्य संजल्पस्यालौकिकत्वम् । दन्त्योष्ठ्या वकारादयः । दन्त्या अमृतबीजादयः । कैश्चिद्वर्णैरिति अदन्त्योष्ठ्यप्रायादिभिः । यदुक्तं 'वषडाप्यायने शस्तः ......................।' इति । तथा 'पुष्टावाप्यायने वर्गैः ..................।' इति । एवं मूर्धन्यादीनामपि ग्रहणम् । विकल्पात्मा इत्यनेन अस्य लौकिकत्वं दर्शितम् । तामिति पुष्टि- रूपां संविदम् । इदानीं बाह्यमपि होमादिरूपं व्या- पं० १ ख० पु० शुष्कसरसीति पाठः । पं० २ क० पु० पूर्णमितादीति पाठः । पं० ८ क० पु० वर्णैरिति दन्त्योष्ठ्येति पाठः । प० ११ ख० वर्णैरिति पाठः । पं० १३ ख० पु० अस्या लौकिकत्वं दर्शितं तामिति सृष्टिरूपामिति पाठः ।
श्लोक १२३] प्रथमाह्निकम् । १६१ पारं विभजति अमृता इत्यादिना । क्षीरं दधि । तदुक्तं ‘दधिहोमात्परा पुष्टिः............।’ इति । बलावहशब्देन प्रत्येकं संबन्धः । तेन इति गडूच्यादिना द्रव्यजातेन । बीजम् इति शरीरका- रणभूतं शुक्रशोणितादि धातुव्रातम् । एनाम् इति पुष्टिरूपां क्रियाम् ॥११७॥११८॥११९॥१२०॥१२१ ॥१२२॥ एतदेव प्रमेयान्तरमुपक्षिपन् उपसंहरति तस्माद्विश्वेश्वरो बोध- भैरवः समुपास्यते । अवच्छेदानवच्छिद्भ्यां भोगमोक्षार्थिभिर्जनैः ॥१२३॥ अवच्छेदानवच्छिद्भ्याम् इति, अवच्छेदः समन- पं० १ क० पु० विभजयतीति पाठः । पं० ३ क० पु० दधिहोमात्मना पुष्टिरिति पाठः । पं० ४ ख० पु० प्रत्येकमभिसंबन्ध इति, क० पु० तेनेति अमृतादिना द्रव्य- जातेऽप्यबीजमिति पाठः । पं० १० क० पु० तस्माद्विकस्वरो बोधेति पाठः । पं० १४ क० पु० अवच्छेदानवच्छिद्भ्यामिति वाक्यं नास्ति । २१
१६२ श्रीतन्त्रालोकः । न्तरोक्तनीत्या ध्यानादिनियतविधिनियन्त्रितत्वं, तद्- न्यथात्वमनवच्छेदः । यद्वक्ष्यति ‘साधकानां बुभुक्षूणां विधिर्नियतियन्त्रितः । मुमुक्षूणां तत्त्वविदां स एव तु निरर्गलः ॥’ इति । भगवतश्च एतत्सावच्छेदमपि रूपम् अनव- च्छिन्नपरस्वरूपानुप्राणितमेव, नहि तत्स्वरूपानुप्रवेशं विना किंचिदपि सिद्ध्येत् ॥१२३॥ एतदेव शब्दार्थद्वारकं गीताग्रन्थेन संवादयति येऽप्यन्यदेवताभक्ता इत्यतो गुरुरादिशत् । इत्यतः – इत्येवमादिकात् वाक्यकदम्बकादित्य- र्थः । गुरुरिति तात्त्विकार्थोपदेष्टा भगवान्वासुदेवः । तत्र हि ‘त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते । ते पुण्यमासाद्य सुरेन्द्रलोक- मश्नन्ति दिव्यान्दिवि देवभोगान् ॥’
- निरर्गलो नियतियन्त्रणारहित इत्यर्थः । पं० ३ क० पु० नियतयन्त्रित इति पाठः ।
श्लोक १२४] प्रथमाह्निकम् । १६३ इत्यादिना । 'क्षीणे पुण्ये मर्त्यलोकं विशन्ति ।' इत्यादिना च भोगार्थिनाम् , 'अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥' इत्यादिना च मोक्षार्थिनाम्, अवच्छेदानवच्छेदाभ्यां क्रमेण स्वरूपमभिधाय पुनः सावच्छेदेऽपि रूपेऽन- वच्छिन्नं रूपम् अस्त्येव इत्यभिधातुम् 'येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः । तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥' इत्यादिना तेनोपदिष्टम् ॥ एतदेव व्याचष्टे ये बोधाद्व्यतिरिक्तं हि किंचिद्याज्यतया विदुः ॥ १२४ ॥ इत्यादिना इति, क्षीणे पुण्ये इति च १—२ पंक्तिद्वयस्थपाठः ग० पु० न वर्तते तथात्वे ३ पंक्तिस्थः 'च' इति नास्ति अतः अनुमीयते पुस्तकान्तरेषु पश्चात्प्र- क्षिप्तोऽधिकश्लोकपाठोऽस्तीति । पं० १३ ख० पु० बोधाद्यतिरिक्तमिति प्रथमः, बोधादतिरिक्तमिति लक्ष्यमाण शोधनः पाठोऽप्यस्ति । पं० १४ क० ख० पु० किंचित्पूज्यतयेति पाठः ।
१६४ श्रीतन्त्रालोकः । तेऽपि वेद्यं विविञ्चाना बोधाभेदेन मन्वते । ये याजका बोधाद् वेदित्रेकस्वभावात् स्वात्म- रूपाद्व्यतिरिक्तमन्यत् तत्तन्नियताकारमिन्द्रादिदैवतं याज्यतया विदुः जानीयुः, ते विच्छिन्ननियताकार- वत्त्वात् वेद्यमपि इन्द्रादिरूपं दैवतं श्रद्धातिशययो- गाद् गाढगाढं विमृशन्तः 'वेद्यो वेदकतामाप्तो वेदकः संविदात्मताम् । संवित्त्वदात्मा चेत्सत्यं तदिदं त्वन्मयं जगत्' ।। इत्यादिन्यायेन बोधाभेदेन — परप्रमात्रेकरूपस्वात्मम- यत्वेन अवबुध्यन्ते इत्यर्थः ॥ ननु देवतोद्देशेन द्रव्यत्यागो याग इत्युक्तेः द्रव्य- त्यागार्थमुद्दिष्टैव देवता भवति, न च बोधैकरूपस्य स्वात्मतत्त्वस्य तथात्वेन उद्देशोऽस्ति , कथमस्य याज्यत्वम् ? इत्याशङ्क्याह पं० १ क० ख० पु० तेऽपि बोधमिति पाठः । पं० ख० ४ अन्यत्तन्न नियताकारमिति पाठः । पं० ७ क० पु० मृशन्तोऽपि ते च इति पाठः । पं० ९ ख० पु० संवित्त्वदात्म चेदिति पाठः । पं० १० क० पु० प्रमात्रेकस्वात्मेति पाठः ।
श्लोक १२७ ] प्रथमाह्निकम् । १६५ तेनाविच्छिन्नतामर्श- रूपाहन्ताप्रथात्मनः ॥ १२५ ॥ स्वयं-प्रथस्य न विधिः सृष्ट्यात्मास्य च पूर्वगः । वेद्या हि देवतासृष्टिः शक्तेर्हेतोः समुत्थिता ॥ १२६ ॥ अहंरूपा तु संवित्ति- र्नित्या स्वप्रथनात्मिका । तेन बोधात्मत्वेन हेतुना, अस्य - स्वात्मतत्त्वस्य, ‘सकृद्विभातोऽयमात्मा’ इति न्यायेन अनवच्छिन्नतया प्रवृत्ताविरतेन रूपेण पराहंप्रकाशपरामर्शमयस्य, अत एव स्वयं प्रथस्य - प्रमाणादिनिरपेक्ष्येण स्वतः सिद्धस्य, विधिः - अप्रवृत्तप्रवर्तनात्मा, पूर्वभावी, तथा सृष्ट्यात्मा - तत्तत्सिद्धिसाधनस्वभावो न भवतीत्यर्थः । न खलु बोधस्वभावं स्वात्मतत्त्वं विधिविषयतामापद्यते - तस्य पं० ५ 'वेद्या हि' इति संपूर्णपदं ग० पुस्तकात्पूरितमस्ति । पं० ६ क० ख० पु० बोधात्महेतुनेति पाठः, क० ख० पु० स्वात्मतत्वस्य इति वाक्यं नास्ति । पं० १० क० ख० पु० अनवच्छिन्नतया अविरतेनेति पाठः ।
१६६ श्रीतन्त्रालोकः । विधिप्राप्यभावात्, यावदप्राप्तं हि विधेर्विषयः, न च स्वात्मनः कदाचित् अप्राप्तिरस्ति — आदिसिद्धतया सर्वदैव स्फुरणात् । ननु विधेर्नियोगभावनाद्यात्मतया बहुविधत्वमुक्तम्, स्वात्मा पुनः कस्य विधेर्विषयतां न भजते ? इत्याशङ्क्याह विधिर्नियोगस्त्र्यंशा च भावना चोदनात्मिका ॥ १२७ ॥ विधिः अप्रवृत्तप्रवर्तको, न पुनरज्ञातज्ञापकः । यदाहुः 'विधेर्लक्षणमेतावदप्रवृत्तप्रवर्तनम् । अतिप्रसङ्गदोषेण नाज्ञातज्ञापनं विधिः ॥' इति । स्वर्गयागयोश्च साध्यसाधनभावमवबो- धयतोऽस्यैव विधेः तावत्प्रवर्तकत्वं — यत् सप्रत्ययस्य पुंसः 'प्रवृत्तोऽहम्' इति ज्ञानजननम् । स च 'नियोग' पं० ३ क० पु० सर्वस्फुरणादिति पाठः । पं० ४ ख० पु० कस्य तावद्विषयेत्येवंविधः पाठः । पं० ६ ख० पु० नियोगस्त्र्यंशश्चेति पाठः । पं० ११ ख० पु० न ज्ञातज्ञापनं विधिरिति पाठः । पं० १२ ख० पु० अवबोधयतोऽस्यैतावत्प्रवर्तकत्वमिति प्रथमः पाठः । पं० १३ क० पु० प्रवृत्तोहम् इत्यारभ्य प्रत्ययवाच्य इत्यन्तः पाठो ग० पुस्त- कात्पूरितोऽस्ति ।
श्लोक १२७ ] प्रथमाह्निकम् । १६७ इति प्राभाकरैरुक्तः, ‘भावना’ इति भाट्टैः । तत्र तिङादिप्रत्ययवाच्यः ‘प्रवर्तितोऽहम्’ इति प्रेरणात्मकः कार्यात्मा अनुष्ठेयो धर्मो नियोगः । स च ‘दर्श-पौर्णमासाभ्यां यजेत स्वर्गकामः ।’ इत्यादावनुबन्धद्वयावच्छिन्नः प्रतीयते । याज्या- दिना हि अस्य विषयानुबन्ध उच्यते । ‘स्वर्गकामः’ इत्यनेन च अधिकारानुबन्धः, अत एव च द्वयनुबन्ध- बान्धवो ‘नियोगः’ इत्युद्धोष्यते । कांचिन् क्वचिन्नियुंक्ते इति नियोगस्वरूपम् इति । ‘भावना’ च भाव्यनिष्ठो भावकव्यापारः, भाव्यं स्वर्गादिफलं, तन्निष्ठस्त- दुत्पादकः पुरुषव्यापारो भावना । पुरुषो हि भवन्तं स्वर्गादिकमर्थं स्वव्यापारेण भावयति इति भावना इत्युच्यते । सा च द्विविधा - शब्दभावना अर्थभावना च इति । तस्याश्च किं, केन, कथं भावयेत् इति अंशत्रयापेक्षत्वात् त्र्यंशत्वम् । तदुक्तम् ‘सा धातोः प्रत्ययाद्वापि भावनावगता सती । अपेक्षतेऽशत्रितयं किं केन कथमित्यदः ॥’ इति । त्र्यंशा इति, तत्रार्थभावनायां ‘किम्’ इत्य- पेक्षायां स्वर्गः, ‘केन’ इत्यपेक्षायां यागः, ‘कथम्’ इत्य-