भारतकोश
संग्रह पर लौटें

उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

Uttararamacharitam of Bhavabhuti with Hindi Commentary

महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished439 पृष्ठ

१२४ उत्तररामचरितं [ ६-५ ] विद्याधरी-दिट्ठिआ एदेण विमलमुत्ताफलभसीदलसिणिद्धमसिणेण- सलेन णाहदेहप्फंसेण आणन्दमदमउलिदपुण्णंतलोभणाए अंधोदिदो जेव्व अन्तरिदो मे सदावो । दिष्ट्या एतेन विमलमुक्ताफलकशीतलस्निग्ध- मसृणमांसलेन नाथदेहस्पर्शनानन्दमन्दमुकुलितघूर्णमानलोचनाया अर्धादित एवान्तरितो मे सन्तापः । विद्याधरः—अयि किमत्र मया कृतम् । अथवा । अकिञ्चिदपि कुर्वाणः सौख्यैर्दुःखान्यपोहति । तत्तस्य किमपि द्रव्यं यो हि यस्य प्रियो जनः ॥ ५ ॥ विद्याधरी-कह णविरलबिलोलधुण्णन्तविजुल्लदाविलास मडिदेहिं मत्त मोरकण्ठसामलेहिं ओत्थरीअदि णभोङ्गण जह्हरेहिं । कथमविरलविलोलघूर्ण- मानविद्युल्ताविलासमण्डितैर्मत्तमयूरकण्ठश्यामलेरवलीयते नभोङ्गण जलधरैः । विद्याधर -हन्त कुमारलवप्रयुक्तवारुणास्त्रप्रभाव खल्वेष । कथम- विरप्रवृत्तवारिधारासहस्रसम्पाते प्रशान्तमेव पावकास्त्रम् । विद्याधरी-पिअं मे पिअं मे । प्रिय मे प्रिय मे । स्तूदते इति तल्लिहानस्तु भक्षक इति । 'सामग्र्यामपि सम्भार' इति धर नीहारावलीनेदारा ॥ दिष्ट्या एतेन विमलमुक्ताफलशीतलस्निग्धमसृणमासलेन नाथदेहस्पर्शन आनन्दमन्दमुकुलितघूर्णमानलोचनाया अर्धादित एवान्तरितो मे सन्तापः । स्निग्धं चिक्कणं । 'मनोहरे च मसृणम्' इत्यमरमाला । मांसलो निबिडः । आत्मनि उदित जातः । अन्तरित अन्तर्हित एव ॥ अकिं श्विदपि कुर्वाण इति ॥ ५ ॥ किञ्चिन्न भवतीत्यकिञ्चित् । किंचिदपि न कुर्वाण इत्यर्थः । यः प्रियो जनः । सौख्यैः यस्य दुःखान्यपोहति दूरीकरोति, तस्य दुःखमुक्तस्य तत्सौख्यै दुःखहर्ता जन इति भावः । किमपि अनिर्वाच्यम् । द्रव्यं गुणाश्रयो हि । द्रव्यविधयस्त्वासन्निति नपुंस कत्वेन निर्देश ॥ ५ ॥ कथमविरलविलोलघूर्णद्विद्युल्तानिवासमण्डितै मत्त मयूरकण्ठश्यामले अवलीयते नभोऽङ्गन जलधरैः । वात्याऽर्थो 'घोण्त' शब्दो देशीयः । 'घोळन्ता' इति महाराष्ट्राः ॥ प्रियं मे प्रियं मे । अतिमात्रं धनि शय इत्यर्थः । क्षोभेण गम्भीरं यथा तथा प्रसक्तिमधे । नद्धं स्तब्धम् । प्रवासवाचको 'गञ्जगल' शब्दो देशीयः । 'गळाय' इति महाराष्ट्राः । 'सादृशि १ 'अधोदिदो' (अन्तोन्नि) क एतन्नास्ति घ पु-पुस्तकयो २ 'न किञ्चिदपि' क-न

[६-७] उत्तररामचरितं १२५

विद्याधरः—हन्त हन्त भोः सर्वमनिमात्रं दोपाय । यत्प्रलयवाता- वटिक्षोभगम्भीरगुञ्जद्गुहापायमानमेघमेदुरान्धकारनीरन्ध्रनेदमिव एकवारवि- श्रसयनविकटविकरालकालमुखकन्दरविवर्तमानमिव युगान्तयोगनिद्रानिरुद्ध- सर्वद्वारनारायणोदरनिर्विष्टमिव भूतजातं प्रवेपते । साधु चन्द्रकेतो साधु । स्थाने वायव्यमश्रीमरीरितम् । यत । विद्याकल्पेन मरुता मेघाना भूयसामपि । ब्रह्मणीव विवर्तानां क्वापि प्रविलयः कृत. ॥ ६ ॥ विद्याधरी—णाह को दाणि एसो सभमुल्लिसन्तकरणमिदोत्तारिया- अलो दूरदो जेव्व महुरस्निगिद्धवअणपडिसिद्धउद्धव्वावारो एदाण कुमाराणं अन्तरे विमाणवर ओदरावेदि । [नाथ क इदानीमेष ससंभ्रोल्लिसत्करप्रमितो- त्तरीयाञ्चलो दूरत एव मधुरस्निग्धवचनप्रतिषिद्धयुद्धव्यापार एतयोः कुमारयो- रन्तरे विमानवरमवतारयति ।] विद्याधरः—( दृष्ट्वा ) एष शम्बूकवधाद्विनिवृत्तो रघुपतिः । शान्तं महापुरुषसङ्गतितं निशम्य तद्घोरवत्समुपसंहृतसं प्रहारः । ग्वद्यु नेदुर ' इत्यन्र । एकवार गङ्कद् । निरुड त्रुटिउ । कन्दरे विवर्तमानं परिणममानम् । निद्रया निरुद्धानि वार्वानि सर्वद्वाराणि शरीरखन्युद्वाराणि यस्य । निविष्टं प्रविष्टमिव यत् तद् भूतजातं प्राणि- मूह प्रवेपते इति अन्वयो योज्य ॥ विद्यारूपेनेति ॥ ६ ॥ विद्यायाः मोक्षसाधनीभूतवेदान्तस्य कल्पेन पारडीचनेन । 'कल्पो योगेष पारडीहने' इति धनञ्जय. । ब्रह्मणि विवर्तानां जाता प्रविलय. ऐक्यमिव । मरुता वायुना मेघानां क्वापि प्रकरण इति शेष । प्रविलयः प्रमार्जनम् । कृतम् ॥ ६ ॥ नाथ क इदानीमेष सप्रनोल्लिखसोत्तरायाञ्चल दुरत एव मधुरस्नि- ग्धवचनप्रतिषिद्धव्यापार कुमारयोरन्तर विमानोरसंवरो नाहरति । वत्त्रघूननं निषेधव्यञ्जक इति जयदनुभवसिद्धम् । अन्तरे मध्ये ध्वनिथ ॥ शान्तं महापुरुषेति ॥ ७ ॥ शान्तं सौम्यम् । पनिथ । महापुरुषस्य रामस्य संगतकं हृदयद्रमम् । सार्थ क इति कश्चित् । तन, 'शिरोऽम्बुवचनेषु दम्' इति केदार । रुसासङ्गतमित्यस्य हृदयङ्गमवचनमित्यर्थ इति कथनहंसोर्वि- तत्वात् । संप्रहारः युद्धम् । शान्तो रूप इति ध्वनि । तुकार पादपूरण १ 'गुञ्जगुमायमान' प, 'गुञ्जगुपायमान' ड. २ 'निवडम्' व-घ. ३ 'विसदते' व. ४ 'शन्द' व-प. ५ 'निविष्टिव' व-घ.

शान्तो लवः प्रणत एव च चन्द्रकेतुः कल्याणमस्तु सुतसङ्गमनेन राज्ञः ॥ ७ ॥ तदितस्तावदेहि । ( इति निष्क्रान्तौ । ) मिश्रविष्कम्भकः ।

( ततः प्रविशति रामो लवः प्रणतश्चन्द्रकेतुश्च । ) रामः—( पुष्पकादवतरन् । ) दिनकरकुलचन्द्र चन्द्रकेतो सरभसमेहि दृढं परिष्वजस्व । तुहिनशकलशीतलैस्तवाङ्गै- र्शममुपयातु ममापि चित्तदाहः ॥ ८ ॥ ( उत्थाप्य सस्नेहम् परिष्वज्य । ) अपि नाम कुशलं तव दिव्यास्त्रपरदेहस्य । चन्द्रकेतुः —कुशलमत्यद्भुतक्रियस्य प्रियदर्शनस्य लवस्य लाभाभ्युद- येन । तद्विज्ञापयामि मामिव विशेषेण वा मत्त प्रियेण चक्षुषा पश्यत्वमुं वीरंमनराक्षसाहस तात । रामः—( लवं निरूप्य । ) दिष्ट्या अतिगम्भीरमधुरकल्याणाकृतिरयं वयसो धरस्य । धातुं लोकानिव परिणतः कायवानक्षवेद्यः क्षात्रो धर्मः श्रित इव तनुं ब्रह्मकोशस्य गुप्त्यै । सामर्थ्यानामिव समुदयः सञ्चयो वा गुणाना- माविर्भूय स्थित इव जगत्पुण्यनिर्माणराशिः ॥ ९ ॥ लवः—( स्वगतम् । ) अहो पुण्यानुभावदर्शनोऽयं महापुरुषः । इति केचित् । चन्द्रकेतुरित्यन्ये । स चन्द्रकेतुरिति वा पाठः । सुतयोः सङ्गमनेन प्राप्त्या । सङ्गमने इति सप्तमीलाभात् राज्ञ इति ध्वनिः ॥ ७ ॥ मिश्रविष्कम्भ इति उदात्तनीचपात्रोक्तौ मिश्रविष्कम्भ' इति लक्षणात् । दिनकरकुलेति ॥ ८ ॥ 'दिष्ट्यार्थे चन्द्रकछाया' इति मेदिनी । दाहः तापः ॥ ८ ॥ अन्तरालं मध्यं ॥ धातुं लोकानिवेति ॥ ९ ॥ धर्मः क्षात्रो य धर्म आचार एव कोशः प्रदीपः । समुदयः संचयश्च राद्धः । व्य- निधिः । जगतः पुण्यनिर्माणानां सुकृतविरचनानाम् । राशिः पुञ्जः ॥ ९ ॥ पुण्यस्य अनुभावः प्रभावः यस्मात् तादृशं दर्शनं आलोकनं यस्य । पुण्या- १ 'संनिकतेन' घ. २ 'महावीरप्रकाण्डम्' क-घ-प.

तृतीय अङ्क: छाया (तमसा, सीता छाया व राम मूर्छा)

॰१२] उत्तररामचरितं १२७ आश्वासस्नेहभक्तीनामेकमायतनं महत् । प्रकृष्टस्येव धर्मस्य प्रसादो मूर्तिसुन्दरः ॥ १० ॥ आश्चर्यम् । विरोधो विश्रान्तः प्रसरति रसो निर्वृतिघन- स्तद्दौर्जन्यं क्वापि व्रजति विनयः प्रह्वयति माम् । झटित्यस्मिन्दृष्टे किमित्र परवानस्मि यदि वा महार्घस्तीर्थानामिव हि महतां कोऽप्यतिशयः ॥ ११ ॥ रामः—तत्किमयमकेपद एव मे दुःखविश्रामं दद्यात्पुत्रस्नेहयति च कुतोऽपि निमित्तादन्तरात्मानम् । अथवा स्नेहश्च निमित्तसव्यपेक्ष इति विप्र- निषिद्धमेतत् । व्यतिषजति पदार्थानान्तरः कोऽपि हेतु- र्न खलु बहिरुपाधीन्प्रीतयः संश्रयन्ते । नि पवित्रत्वानि । अनुभाव सम्मतिनिधय । दर्शनानि शास्त्राणि च यस्मि- न् । 'अनुभाव प्रभावे च सत्ता च मतिनिधये' इत्यमर ॥ आश्वास इवेति ॥ १० ॥ आश्वासस्नेहयोः सान्त्वनप्रणययो सन्निध्योरिति भाव । भक्तीनां परन्तृचाणामिति भाव । एकं अद्वितीयम् । आयतनं स्थानम् । प्रकृष्टस्य आवरणस्य । धर्मस्य तत्रनेयादे । 'यजेतावरणैर्मृथ्यैः' इति स्मरणात् । मूर्त्या सुन्दरः मूर्ति शरीर सुन्दर दस्येति वा । सौन्दर्येण मूर्त्त इति भावः । प्रसाद अनुग्रह इव स्थित इति शेष । तथा चाश्वमेधस्यैव फलं राम इति भाव ॥ १० ॥ विरोधो विश्रान्त इति ॥ ११ ॥ स प्रसिद्धः । विश्रान्तः विरत वीरो रसः निर्वृतिघनः सुखमान्द्र सन् । प्रसरति व्यासो भवति । तत् परभण्डरम् । प्रह्वयति नक्षयति । अस्मिन् महापुरुषे । 'पराधीन परवानायत्तामपि' इत्यमर । यदि वा अथवेत्यर्थं । 'मद्गोत यदिवा- यथा' इति निकमार्क । तीर्थानां गुरुणानिव । महतां पूज्यानाम् । महार्घः उत्सवपूर्वकपूजाविधिरित्यर्थ । 'मह उत्सवे' इति, 'पूजाविधावर्घ ' इति चामर । कोऽपि अतिशयो हि ॥ ११ ॥ 'सहसा स्यादेकपदे' इति जन्दी । दुःखाय विश्रामं रिरति अभावनिति यावत् । कुतः कस्मादपि । निमित्तात् कारणात् । निमित्तेन सव्यपेक्षः सापेक्ष इत्येतात् । विप्रतिपि- द्धं विशेषेण निषिद्धमित्यर्थ ॥ तदेवोपपादयति ॥ व्यतिषजति इति ॥ १२ ॥ १ 'आश्वास इव भक्तीनामेकम्' ग, 'रुकमात्म्नन' क-घ-व. २ '० सप्रर.' ३ 'किमिति' ग; 'किमसि' क.

३२८ उत्तररामचरितं [ ६-१३ विकसति हि पतङ्गस्योदये पुण्डरीकं द्रवति च हिमरश्मावुद्गते चन्द्रकान्तः ॥ १२ ॥ लवः-चन्द्रकेतो क एते । चन्द्रकेतुः-प्रियवयस्य ननु तातपादाः । लवः-ममापि तर्हि धर्मतस्तथैव । यत प्रियवयस्य इति भवतोक्तम् । किं तु बहवः खलु भवतामेवंव्यपदेशभागिनस्तत्रभवन्तो रामायणकथा- पुरुषाः । तद्विशेषं ब्रूहि । चन्द्रकेतुः-ननु ज्येष्ठतातपादा इत्यवेहि । लवः-( सोल्लासम् । ) कथं रघुनाथ एव । दिष्ट्या सुप्रभातम् अद्य यदयं देवो दृष्टः । ( सविनयकौतुकं निर्वर्ण्य । ) तात प्राचेतसान्तेवासी लवोऽभि- वादयते । रामः-आयुष्मन् एह्येहि । ( इति सस्नेहमालिङ्ग्य । ) अयि वत्स कृतं कृतमतिविनयेन । अनेनवारमपरिक्लथ्य परिष्वजस्व माम् । परिणतकठोरपुष्करगर्भच्छदपीनमस्सृणसुकुमार । नन्दयति चन्द्रचन्दननिष्यन्दजडस्तर स्पर्श ॥ १३ ॥ लवः-( स्वगतम् । ) ईदृशो मा प्रत्यमीषामकारणस्नेहः । मया पुन- रेभ्य एव द्रोद्धुमनेनायुधपरिग्रहः कृतः । ( प्रकाशम् । ) मृष्यन्त्विदानीं लवस्य बालिशतां तातपादाः । आन्तरः अन्तःकरणात्मको हेतुः । पदार्थान् प्रतिरूपान् । व्यतिषजति व्यतिषक्तान् सम्बद्धान् करोतीत्यर्थः । 'व्यतिषजन्ति सम्बध्नाति' इति श्रीनाथः । 'उपाधिस्तु निमित्ते च' इति हेमचन्द्रः । तत्रोदाहरणमाह-हीति । पतङ्गस्य रवेः । पुण्डरीकं सिताम्भोजम् । हिमरश्मौ चन्द्रे । उद्गते उदिते सति । चन्द्रकान्तशिला । द्रवती स्रवतीति माठरः । तथा च अतिदूरे रवौ चन्द्रेऽप्यु- दिते यथा पुण्डरीकं विकसति चन्द्रकान्तश्च द्रवति । तथैव केनाप्यान्तरहेतुना प्रीतयो वर्धन्त । नात्र निमित्तापेक्षेति भावः । 'प्रतिशब्दः प्रेम्णा च' इति वामनः ॥ १२ ॥ क एत इति पूजायां बहुवत्वम् । तथैव तातपादा इत्यर्थः । भवता- मिति पूजायाम् । युष्मच्छब्दश्चन्द्रकेतुप्रमुखानामिति च व्यज्यते । भवत इति च पाठः । एवं व्यपदेशः तातेति व्यवहारः स एव भागः येषामस्ति ते भागिनः । तत्रभवन्तः पूज्याः । 'व्यपदेशस्तु व्यवहारः' इति संसारावर्ते । तेषु विशेषम् । अपरिक्लथं दृढम् ॥ परिणतकठोरेति ॥१३॥ परिणत- १ 'अङ्गेन मामपरिक्लथे परिष्वजस्व' न. २ 'अभिद्रुग्धमनेन यदायुधपरिग्रह- मावद्बप्पास्ततो दुर्योग' क-घ-प.

६-१४ ] उत्तररामचरितं १२९ रामः-किमपराद्धं वत्सेन । चन्द्रकेतुः-अश्वानुयात्रिकेभ्यस्तातमपराधविकरणमुरुबहुल वीरायित- मनेन । रामः-नन्वयमलंकारः क्षत्रस्य । न तेजस्तेजस्वी प्रसृतमपरेषां विषहते स तस्य स्वो भावः प्रकृतिनियतत्वादकृतकः । मयूखैरश्रान्तं तपति यदि देवो दिनकरः किमाग्नेयो ग्रावा निकृत इव तेजांसि वमति ॥ १४ ॥ चन्द्रकेतुः- अमर्षोऽप्यस्यैव शोभते महाबीरस्य । पश्यन्तु हि तात- पादाः प्रियमबलनियुक्तजृम्भकास्त्रनिरुद्धरम्भितानि सर्वतः सैन्यानि । रामः-वत्स लव संह्रियतामस्त्रम् । त्वमपि चन्द्रकेतो निर्व्यापारविल- क्षितानि सान्त्वय बलानि । लवः-यथाज्ञापयति तातः । ( इति प्रणिधानं नाटयति । ) चन्द्रकेतुः-यथादिष्टम् । ( इति निष्क्रान्तः । ) लवः-तात प्रशान्तमस्त्रम् । रामः-वत्स सरहस्यप्रयोगसंहाराण्यस्त्राण्याम्नायवन्ति । ब्रह्मादयो ब्रह्महिताय तप्त्वा परं सहस्राः शरदस्तपांसि । कठोरपुष्कराणां विकसितपद्मारविन्दानाम् । आन्तरपुटवत् पीनः स्थूलः । जडः शिशिरः ॥ द्रोग्धुं द्रोहं कर्तुम् । वालिशतां मौर्व्यम् । वीरवदाचरितं वीरायितं पौरुषं कृतमित्यर्थः । ध्वनिध ॥ न तेजस्तेजस्वीति ॥ १४ ॥ प्रसूतं व्याप्तम् । तस्य तेजस्विनः । प्रकृतिनियतत्वात् जन्मसिद्धत्वात् । 'जन्मसिद्धस्वभावेषु प्रकृति.' इति कश्चित् । अकृतकः अकृत्रिमः । मयूखैः किरणैः । अश्रान्तं भनिशम् । तपति यदि तपति चेत् । आग्नेयग्रावा 'सूर्यकान्तरत्नमिभा' इति, 'विकृतः स्यादुपकृत' इति चामरः । 'तस्मिन् विप्रकृताः काले' इति ईश्वरकृष्णमिश्रः ॥१४॥ निर्व्यापाराणि व्यापाररहि- तानि । अत एव विलक्षणा(क्षिता?)नि । बलानि सैन्यानि । प्रणिधानं ध्यानम् । सरहस्या. जृम्भकाणां प्रयोगोपसंहाराः येषु तानि । पाराय- १ 'प्रसहते' घ-व. २ '० नियुक्तेन जृम्भकास्त्रेण विकन्द सम्भितानि सर्वसैन्यानि' न. ३'०णहारजृम्भकास्त्राणि दिष्ट्या इत्यक्षतारि संपदन्ते' न. ४'दरःसहस्रं' क-न.

१३० उत्तररामचरितं [ ६-१७ एतान्यपश्यन्गुरवः पुराणाः स्वान्येव तेजांसि तपोमयानि ॥ १५ ॥ अथैतन्मन्त्रपारायणोपनिषदं भगवान्कृशाश्वः परःसहस्रसंवत्सरान्तेवासिने कौशिकाय प्रोवाच । स तु भगवान्मह्यमित्येष गुरुपूर्वानुक्रमः । कुमारस्य कुतः संप्रदाय इति पृच्छामि । लवः—स्वतःप्रकाशान्यावयोरस्त्राणि । रामः—( विचिन्त्य । ) किं न संभाव्यते । प्रकृष्टपुण्यपरिपाकोपादान- कोऽपि महिमा स्यात् । द्विवचनं तु कथम् । लवः—भ्रातरावां यमौ । रामः—स तर्हि द्वितीयः कः । ( नेपथ्ये । ) दाण्डायन आयुष्मतः किल लवस्य नरेन्द्रसैन्यै- रायोधनं ननु किमात्थ सखे तथेति । अद्यास्तमेतु भुवनेष्वधिराजशब्दः क्षत्रस्य शस्त्रशिखिनः शममद्य यान्तु ॥ १६ ॥ रामः—अथ कोऽयमिन्द्रमणिमेचकुरुच्छवि- र्ध्वनिनेव बद्धपुलकं करोति माम् । नवनीलनीरधरधीरगर्जित- क्षणबद्धकुड्मलकदम्बडम्बरम् ॥ १७ ॥ लवः—अयमसो मम ज्यायानार्यः कुशो नाम भरताश्रमान्प्रतिनिवृत्तः । रामः—( सकौतुकम् । ) वत्स इत एवाह्वयैतमायुष्मन्तम् । लवः—एवम् । ( इति परिक्रामति । ) पश्य पठमस्य । उपनिषदं । तमरेभ्य प्रभृति । अन्तेवासिने शिष्याय । गुरूणाम् । कुतः कस्मात् । पुण्यानां परिपाक परिणाम एव उपादानं कारणं यस्य । उपादानमिति यमायिति च ध्वनी । तथा अनिशयेनेत्यर्थ ॥ आयुष्मतः किलेति ॥ १६ ॥ क्षत्रम्य रामस्येति भावः । शस्त्राण्येव शिखिनः अग्नय ॥ १६ ॥ अथ कोऽयमिन्द्रेति ॥ १७॥ इन्द्रमणिवत् मेचका नीला छविः कान्ति यम्य । धीरगर्जितक्षणे गम्भीरस्तनितक्षणे । यद्धकुड्मलः यः कदम्बो नीर तस्य डम्बरः शारभटी यस्य तम् । १ 'अथैतास्मन्त्रान्द्रोपनिषदम्' ग-क. २ 'सहस्राधिकसंवत्सरपरिचर्यानिरा यान्ते०' न. ३ 'पूर्वानुक्रमः' घ, 'क्रमः' घ. ४ 'भुवनेषु च राज०' न.

६-१९ ] उत्तररामचरितं १३१ ( ततः प्रविशति कुशः । ) कुशः- ( साकूतहर्षनेत्रं धनुरास्फालयन् । ) दत्तेन्द्राभयदक्षिणं भगवतो वैवस्वताद्वा मनो- दृप्तानां दहनाय दीपितनिजक्षत्रप्रतापाग्निभिः । आदित्यैर्यदि विग्रहो नृपतिभिर्धन्यं ममैतत्ततो दीप्तास्त्रस्फुरदुग्रदीधितिशिखानीराजितस्यं धनुः ॥ १८ ॥ ( इति विकटं परिक्रामति । ) रामः-कोऽयमिन्क्षत्रियपोतके पौरुषातिरेकः । दृष्टिस्तृणीकृतजगत्त्रयसत्त्वसारा धीरोद्धता नमयतीव गतिर्धरित्रीम् । कौमारकेऽपि गिरिवद्गुरुतां दधानो वीरो रसः किमयमभ्युत दर्प एव ॥ १९ ॥ लवः- ( उपसृत्य । ) जयन्त्वार्यः । कुशः-आयुष्मन् किमियं वार्ता युद्धं युद्धमिति । लवः-यत्किञ्चिदेतत् । आर्यस्तु दृष्टभावमुत्सृज्य विनयेन वर्तताम् । कुशः-किमर्थम् । 'आरभटी चारभटीकाऽम्बरश्च' इति रुद्रः ॥ १७ ॥ दत्तेन्द्राभयेति ॥ १८ ॥ वैवस्वतान्मनोरागतैः जातायैः । संभूतिरिति यावत् । दृप्तानां गर्वितदै- त्यानाम् । आदित्यैः वैकर्तनैः । 'ऐक्ष्वादिजनकादित्यविदेहरघवो दिशः' इत्यमरः । मानितैरिति च पाठः । ततः विस्तृतः । विग्रहो यदि युद्धं चेत् । धनुः । दीप्तास्त्राण्येव स्फुरन्तौ उग्रदीधिती अग्निमूर्ती तयोः शिखानिः ज्वालाभिः । नीराजिता कृतनीराजना । गुम्भि(म्फि?)तेति यावत् । ज्या मौर्वी यस्मिन् तादृशं शोभतामिति शेषः । धनुर्भ योजितास्त्रं भवत्विति भावः ॥१८॥ क्षत्रपोते क्षत्रियडिम्भे । पौरुषस्य सामर्थ्यस्य । अतिरेकः आधि- क्यम् ॥ दृष्टिस्तृणीकृतेति ॥१९॥ जगत्त्रये मत्ताः । 'बलाधिके च सत्त्वोऽ- स्त्री' इत्यमरशेषः । गतिः गमनम् । पादार्पणक्रम इति यावत् । 'बाल्ययौवनम- ध्यस्थं वयः कौमारकं विदुः ।' इति नन्दी । गुरुतां गुरुत्वं गुणविशेषं महत्त्वं च । गिरिवदिति कथनं गुरुतायां सार्वकालिकत्वसूचकम् । उत अथवा । 'औद्धत्यमशङ्को दर्पः ।' इति गोवर्धनः ॥ १९॥ युद्धमित्यनादरे । यत्किञ्चिदिति कथनं आत्मसदृशयुद्धाभावज्ञापकम् । दृप्तभावं दर्पम् । , १ 'सक्रोधं कृतधैर्य' न. २ 'दमनाय' भ. ३ 'दीप्तास्त्र०' न-घ-व. ४ 'उत्सृज्याधोऽस्मिन् विनयेन' व-घ.

१३२ उत्तररामचरितं [५-२० लवः—यदय देवो रघुपतिस्तिष्ठति। स च दिदृक्षावयोस्कण्ठते च युष्मत्सैनिकपंक्त्य । कुशः—(सतर्कम्।) स रामायणकथानायको ब्रह्मकोशस्य गोपायिता। लवः—अथ किम्। कुशः—आशंसनीयपुण्यदर्शनः स महात्मा। किं तु कथमस्माभिरुपग- न्तव्य इति न संप्रधारयामि। लवः—यथैव गुरुस्तथोपसदनेन। कुशः—कथं हि नामैतत्। लवः—अभ्युदात्तः सुजनश्चन्द्रकेतुरेौरिमलेयः प्रियवयस्येति सख्येन मामु- पतिष्ठते। तेन तत्सम्बन्धेन धर्मतात एवायं राजर्षिः। कुशः—संग्रह्यवचनीयो राजन्येऽपि प्रश्रयः। (उभौ परिक्रामतः।) लवः—पश्यत्वेनमार्यो महापुरुषमाकारानुभावगाम्भीर्यसम्भाव्यमानवि- विधलोकोत्तरसुचरितातिशयम्। कुशः—(निर्वर्ण्य।) अहो प्रासादिकं रूपमनुभावश्च पावनः। स्थाने रामायणकविर्देवी वाचं व्यवीवृतत् ॥ २० ॥ (उपसृत्य) तात प्राचेतसान्तेवासी कुशोऽभिवादयते। रामः—एह्येह्यायुष्मन्! आवयोरिति सप्तमीद्विवचनम्। धातृङ्.। ब्रह्मण एव विप्रा त एव कोशाः अर्थांप.। ‘वेदस्तत्त्वं तपो ब्रह्म ब्रह्मा विप्र.’ इत्यमरः। ‘गुरुस्तात उपाध्याय.’ इति पठन् इति शेषः । उदात्त महान् । और्मिलेयः ऊर्मिलापुत्र. । ‘सख्यं साप्तपदीनम्’ इत्यमर । राजन्ये क्षत्रियविषये । प्रश्रयः विनदः । ...श्चास्र इति रभसः। आकारानुभावस्य स्वरूपप्रभावस्य। गाम्भीर्येण ॥ अहो प्रासादिकमिति ॥ २० ॥ प्रासादिकं प्रसादनदानम् । ‘माहात्म्ये चानुभाव.’ इति वषिल । वाल्मीकिः रामायणमुद्दिश्य । वाचं सरस्वतीम् । व्यवीवृतत् वर्तयति स्मेल्यर्थः। परिणामयति स्मेति यावत्। स्थाने युक्तम् १ 'रघुनन्दनः स्थितः । स रामायणकथानायको ब्रह्मकोशस्य गोप्ता' इति सूत्रवाक्य न-पुस्तके. २ 'भवीवृनद्' क, 'मवीवृषत्' न.

६-२३] उत्तररामचरितं १३३ अमृताध्मातजीमूतस्निग्धसंहननस्य ते। परिष्वङ्गाय वात्सल्यादयमुत्कण्ठते जनः॥ २१॥ (परिष्वज्य। स्वगतम्।) तत्किमपत्यमयं दारकः। अङ्गादङ्गात्स्रुतः इव निजस्नेहजो देहसारः प्रादुर्भूय स्थित इव बहिश्चेतनाधातुरेकः। सान्द्रानन्दक्षुभितहृदयप्रस्रवेनेव सृष्टो गात्रं श्लेषे यदमृतरसस्रोतसा सिञ्चतीव ॥ २२ ॥ लवः—तात ललाटंतपो घर्मांशुः। तदत्र सालवृक्षच्छायाये मुहूर्त्तमासनप- रिग्रहं करोतु तातः। रामः—यदभिरुचितं वत्सस्य। (सर्वे परिक्रम्य यथोचितमुपविशन्ति।) रामः—(स्वगतम्।) अहो प्रश्रययोगेऽपि गतिस्थित्यासनादयः। साम्राज्यशंसिनो भावाः कुशस्य च लवस्य च ॥ २३ ॥ ॥ २० ॥ अमृताध्मातेति ॥ २१ ॥ अमृतेन सुधया। आध्मातः पूरित- च जीमूतः मेघः। तस्येव स्निग्धं संहननं वपुः यस्य । 'मसृणश्यामयोः स्निग्धम्' इति शाश्वतः ॥ २१ ॥ अङ्गादङ्गादिति ॥ २२ ॥ 'अङ्गादङ्गादिति' श्रुतिः । यद. । निजस्नेहजः स्वप्रेमसंभवः। सारो बलं एको मुख्यः । चेतनायाः धातुः। 'कामोद्रेके चेतने' इति, 'धातु' स्याद्गर्भविकृतौ' इति शब्दमालाभण्डार्थवी । आनन्देन क्षुभित. स्थानाद्गत्यासी हृदयप्रस्रवः तेन सिक्तः । प्रस्रव आर्द्रता । 'पाडता' (पाण्डा ?) इति महाराष्ट्राः । स तादृशः सम...यावत्। आश्लेषः आलिङ्गनम् । मम ये हिमप्योतं तुहिननिर्गलनम्। आ समन्ताद् शंसतीव । एतदालिङ्गनमतिमुखशीतलमिति भावः ॥ २२ ॥ 'कठोर...सूर्य्यं दृष्टो रविः करे' । यदा ललाटं तपति स्याल्ललाटन्तपस्तदा ॥' डल्मरशेषः । 'भूर्जंशु मण्डस्मात्' इति धन्वन्तरिः । आसनपरिग्रहं शासनं गृहाण । ध्वनिय ॥ अहो प्रश्रययोगेऽपीति ॥ २३ ॥ प्रश्रययोगे अनन्यकर्तृरविनययोगेऽपि । स्वस्यैवोपचारकतादशायामपीति भाव । 'योग- सन्नहनोपायध्यानसंगतियुक्तिषु' इत्यमरः । स्थितिः अवस्थानम् । आसनं उपवेशनम् । अनयोराङ्गत्वेन रूपणादिकं प्रद्यते । भावाः चेष्टा लक्षयन्ति कः । १ 'मिह' घ. २ 'परिप्वङ्गत' ब. ३ 'तत्किमप्य च दारकः' न. ४ 'स्रुत' के-घ. ५ 'निजो देहजः स्नेहसारः' घ-च. ६ 'इव' क-घ. ७ 'प्रस्रवेणावसित्तः' ग. ८ 'आश्लेष. स दि मम हिमख्योतनादांसतीव' न. ९ 'ललाटंतपस्तपति' न. १२ उ०

१३४ उत्तररामचरितं [ ६-२५ वपुरवियुतसिद्धा एव लक्ष्मीविलासाः प्रतिकलकमनीयां कान्तिमुद्भेद्यन्ति । अमलिनमिव चन्द्रं रश्मयः स्वे यथा वा विकसितमरविन्दं विन्दवो माकरन्दाः ॥ २४ ॥ भूयिष्ठं च रघुकुलकुमारच्छायाममयोः पश्यामि । कठोरपारावतकण्ठमेचकं वपुर्वृपस्कन्धसुबन्धुरांसकम् । प्रसप्रत्तिहस्तिस्मितं च वीक्षितं ध्वनिश्च मङ्गल्यमृदङ्गमांसलः ॥ २५ ॥ (निपुणं निरूप्य ।) अये न केवलमस्मत्संवादिनी आकृतिः । अपि जनकसुतायास्तच्च तच्चानुरूपं स्फुटमिह शिशुयुग्मे नैपुणोन्नेयमस्ति । 'भावस्सत्त्वास्वभावाभि... लक्षणे' इति कपिल ॥ २३ ॥ भङ्गान्तरेणाह ॥ वपुरवियुतसिद्धेति ॥ २४ ॥ वपुषा अवियुताः अविमुक्ता सन्त : सिद्धाः सहजसिद्धा इति यावत् । 'काष्ठा निशत्तु या फलाः' इति हरदत्तः । उन्नेदयन्ति प्रकाशयन्ति । स्वे आत्मीया । 'श्वो शता- वात्मनि स्वं त्रिष्वात्मीये स्वेऽस्त्रिया धने' इत्यमर । माकरन्दाः मक- रन्दसम्बन्धिन । यथा चेत्युपमानपदम् । 'यथैव वा य यद्वच्च यथा वा' इति भेदारः ॥ २४ ॥ 'भूयिष्ठम्वित' इत्यमर । रघुकुलस्यैव कुमारमिति विवेक ॥ कठोरपारावतेति ॥ २५ ॥ कठोरः तरुण इति यावत् । 'मेचकश्याम .. ...मनोहरम्' इति त्रिकमार्क । सुशार पादपूरक । व्यर्थ इति यहव । वीक्षितं अवलोकनं । प्रसप्रं च तत् सिंहस्येव स्ति- मितं निश्चलमित्यर्थ । माङ्गल्य-...सौ मृदङ्गस्येव मांसलः गम्भीर इति भाव । 'मङ्गले साधु मङ्गल्य' इति नन्दी । 'सर्वमङ्गलमङ्गल्ये' इति श्रीसूक्त- भाष्ये स्पष्टमेतत् ॥ अपि जनकसुताया इति ॥ २६ ॥ तत्तत् चिह्न- मिति थे...यमजायत्स्वलोपमम् । शिशु इति प्रेमोपचार बालानित्यर्थ । अपिसम्भावनायाम् । 'धन्यो मातृमुरस्तुन' इति मयण्डितान्तमनुसरन् । १ 'अवेहिन' क-घ-च. २ 'प्रतिक्षणकमनीय' घ-ध, 'कमनीय' क. ३ 'का- न्तिमरोत्तयन्ति' क-च-घ. ४ 'रस' क-घ-व. ५ 'हे ममोदा' क-प-घ. ६ 'विकसितमिव पद्म' क-घ-ध. ७ 'भूयिष्ठ च रघुकुलकुमारमनयो' न. ८ 'बन्धुरांनयो.' न; 'स्कन्धमवगुरांरायो' घ, 'अन्थुरांगकम्' घ. ९ अ- सादहसंवादिनी' क-प; 'असादश' न.

६-२७] उत्तररामचरितं १३५ ननु पुनरिव तन्मे गोचरीभूतमक्ष्णो- रमिनवशत्पद्मश्रीमदास्यं प्रियायाः ॥ २६ ॥ शुक्लाच्छदन्तच्छविसुन्दरेयं सैवोष्ठमुद्रा स च कर्णपाशः । नेत्रे पुनर्यद्यपि रक्तनीले तथापि सौभाग्यगुणः स एव ॥ २७ ॥ ( विचिन्त्य । ) तदेतत्प्राचेतसाध्युषितमरण्यं यत्र किल देवी परित्यक्ता । इयं चानयोराकृतिर्ययोऽनुभावश्च । यदपि स्वतः प्रकाशान्यस्त्राणीति तत्र विमृशामि । अपि खलु तच्चित्रदर्शनप्रासङ्गिकमस्त्राभ्यनुज्ञानमुद्भूतं स्यात् । न ह्यसाम्प्रदायिकान्यस्त्राणि पूर्वैषामप्यनुशुश्रुम । अय च संप्लवमानमात्मानं मुखानिशयो हृदयस्य मे विस्रम्भयते । र्धमादिति च भूयिष्ठमात्मसंवादः । भूयिष्ठ च मया द्विधा प्रनिपन्नो देव्या गर्भिणीभाव आसीत् । ( सास्रम् । ) परां रूढे स्नेहे परिचयविकासादुपचिते रहो निर्बन्धाया अपि सहजलब्धाजडदृशः । सुख तु तरीय...ह--नन्विति । अभिनवं अध्वान (१) । श्रीः शोभा । 'श्रीर्वेषादौ' इति विश्व । तत् अनुश्मान आस्यम् । ननु निश्चये । पुनरिव शब्दालङ्कारो इति दयालव ॥ २६ ॥ शुक्लाच्छदन्तेति ॥ २७ ॥ शुक्ला... अच्छा निर्मला । मुद्रा...रेति चय । कर्ण एव पाश । रूपत्वेनि कल्पलताकारः । रक्तेति । 'नीलरक्तान्तलोचन' इति महापुरुषलक्षणम् । स एव प्रियासम्बन्ध्येवेत्यर्थे ॥ २७ ॥ तनापीति-अत्राणा स्वतः- प्रकाशनेत्यर्थ । प्रासङ्गिकं प्रसङ्गभवम् । शस्त्राभ्यनुज्ञानमिति-सर्वथा एतानि त्वत्प्रभवमुपस्थास्यन्तीति प्रथमाङ्के चित्रपटिकादर्शनावसरे मयैवाभ्य- नुज्ञा कृतेति भाव । असाम्प्रदायकानि देशिकाम्यनुज्ञानेतराणीत्यर्थ । सुप्लवमानयो. उन्मेषड्रेल्यौ । विस्रम्भः विश्वास । आत्मना सह सवाद इत्यर्थ । जीवद्वयरूपे अपत्ये विद्र यस्मिन् ॥ परां कोटिं स्नेहे इति ॥ २८ ॥ 'उपचारो बहिरुस्नेह प्रीतिरन्तरमुच्यते' इति वस्तुनिर्णयः । सहजलब्धा चासौ सा समन्तान्नभ्नेतरविषय इति यावत् । जडे अरम- १ 'मुक्तच्छ' क-घ-च. २ 'वपुश्च' घ, 'अन्तर्भवनमदो' घ. ३ 'इति च । हतारि खलु हरिरि वित्र' न. ४ 'प्रसङ्ग' न. ५ 'अय दिन्प्रत्यक्षुर' म, 'हाय च संप्लव' प. ६ 'सुमुख जाङ्गिरथ' न-क. ७ 'विप्रलम्भ' न. ८ 'दमा..वाद' दत्त्राणि घ-ख-पुस्तस्थो. ९ 'परां कोटि स्नेहे' न. १० 'अपिचते' न.

१३६ उत्तररामचरितं [ ६-३० मयैवादौ ज्ञातः करतलपरामर्शकलया द्विधा गर्भग्रन्थिस्तदनु दिवसैः कैरपि तया ॥ २८ ॥ (रुदित्वा) तत्किमेतौ पृच्छामि केनचिदुपायेन । लवः—तात किमेतत् । बाष्पवर्षेण नीतं वो जगन्मङ्गलमाननम् । अवश्यायावसिक्तस्य पुण्डरीकस्य चारुताम् ॥ २९ ॥ कुशः—अयि वत्स विना सीतादेव्या किमिव हि न दुःखं रघुपतेः प्रियानाशे कृत्स्नं किल जगदरण्यं हि भवति । स च स्नेहस्तावानयमपि वियोगो निरवधिः किमेवं त्वं पृच्छस्यनधिगतरामायण इव ॥ ३० ॥ रामः—( स्वगतम् । ) अये तटस्थै आलापः । कृतं प्रश्नेन । मुग्धहृदय कोऽयमाकस्मिकस्ते परिप्लवो विकारः । एवं च निर्भिन्नहृदयावेगः शिशु- स्फारिणौ दृशो नेत्रे यस्या । कलया चातुर्येण । 'ग्रन्थिर्मर्मणि' इति या- दव । तया सीतयेत्यर्थ ॥ २८ ॥ केनचित् अन्यापदेशेनेत्यर्थ ॥ बाष्प- वर्षेणेति ॥ २९ ॥ ते तव । 'बाल्ये सुतानां...त्वदाहारपूर्णा गिर' इति भो- जचरिते । जगतां मङ्गलं येन यस्माद्वा । अवश्यायैः हिमं । पुण्ड- रीकस्य हिममिव स्वन्मुखस्य बाष्पधारापि चारुतेति भाव । अनेन अ- नितरसाधारण सौन्दर्ये व्यज्यते । अत एव 'किमिव हि मधुराणा मण्डनं नाकृतीनाम्' इत्यस्यापत्यातशाकुन्तले । पुण्डरीकेति कथनात् पाण्डिमा लक्ष्यते । तथा च-'या दशा विरहे स्त्रीणां सैव पुंसामपि' इति काव्यचि- न्तामणौ ॥ २९ ॥ विना सीतादेव्या इति ॥ ३० ॥ सीतयेव देवी तया । 'देवी कृताभिषेकायाम्' इत्यमर । अरण्यमिव दुरुत्तरमित्यर्थः । यापि ...सस्नेह ह (१) तावान्या छेद इत्येवालम् । तथापि स्थितस्य गतिश्चिन्त- नीयेति न्यायात् । सः प्रसिद्ध । स्नेहः तावान् अगण्य इत्यर्थ ॥ अन- धिगतं रामायणं येन । अत्र प्रथमो हिकार पादपूरक इति कश्चित् । तन्न 'नहि नो नापीति' अमरसिंहेनाभिधानात् । द्वितीयस्तु प्रसिद्धवाचक । इत्थं किमिति भ्रान्त पाठ । बतेति साधु । अये इत्याश्चर्ये ॥ ३० ॥ तटस्थः षष्टत (?) अनेन ज्ञातोऽस्मीति भाव । आकस्मिकः अकस्माद्भव । परिप्लवः चपल । विनिर्भिन्नं भेदितं च यत् हृदयं तस्मिन् आवेगः १ 'अवश्यायाम्बुसिक्तस्य' घ. २ 'तटस्थस्त.' क-घ-प. ३ 'स्नेहस्तैरप्य.' क, 'संहृष्टापिक्षार' न.

जनेनाप्यनुकम्पितोऽस्मि । भवतु तावदन्तरयामि । ( प्रकाशम् ।) वत्सौ रामायणं रामायणमिति श्रूयते भगवतो वाल्मीकेः सरस्वतीनिष्यन्दः प्रश- स्तिरादित्यवंशस्य । तत्र कौतूहलेन यत्किञ्चिच्छ्रोतुमिच्छामि । कुशः—स इत्थ एव सन्दर्भोंऽस्माभिरादृतः । स्मृतिप्रत्युपस्थितौ तावदिमौ बालचरितस्यान्त्येऽध्याये द्वौ श्लोकौ । रामः—उदीरयतं वत्सौ । कुशः— प्रकृत्यैव प्रिया सीता रामस्यासीन्महात्मनः । प्रियभावः स तु तया स्वगुणैरेव वर्धितः ॥ ३१ ॥ तथैव रामः सीतायाः प्राणेभ्योऽपि प्रियोऽभवत् । हृदयं त्वेव जानाति प्रीतियोगं परस्परम् ॥ ३२ ॥ रामः—कष्टमनिदारुण्यं हृदयमर्मोद्घातः । हा देवि एवं किल तदा- सीत् । अहो निरन्वयविपर्यासविरसवृत्तयो विप्रलम्भपर्यवसायिनस्तापयन्ति संप्रसादवृत्तान्ताः ।


सभ्रमः यस्य । शिशुजनेनाप्यनुकम्पितोऽस्मि । इतेनेनश्च कैमुतिकन्याय- भावः । अन्तरयामि छादयामि इत्यर्थः । निष्यन्दः गलनम् । प्रशस्तिः प्रशंसा । स्मृतिप्रत्युपस्थितौ स्मृतौ इति यावत् । बालेति बाल- काण्डचरित्रस्य । अन्त्ये चरमे । 'अध्यायस्सर्ग' इति केदार । वत्सा- विति द्विवचनसंबोधनम् ॥ प्रिया तु सीतेति ॥ ३१ ॥ गुणे दयादाक्षि- ण्यादिनि । रूपाणा सौन्दर्याणा गणैः राशिभिश्च । एवकारश्चकारार्थः । अनेकार्थ्याच्छब्दानां यथाप्रकरणं बुधैर्ज्ञेयोऽर्थ इति दण्डिवचते । प्रीतिः सन्तोषः । व्यवर्धत तस्यानिति शेषः ॥ ३१ ॥ तथैव राम इति ॥ ३२ ॥ रामस्य सीता यथा तथैवेत्यर्थः । हृदयमित्येकवचनमहिम्ना उभयोर्हृदय- मेकमेव, वपुषी परं द्वे इति भावः । परस्परं प्रीतियोगं तु हृदयमेव जानातीत्यन्वयः ॥ ३२ ॥ मर्मतः पूर्वानुभूतावस्था । 'उद्घात आरम्भः' इत्यमरः । एवं श्रोत्रद्वयानुस्यूतेत्यर्थः । निर्गतश्च वन्यस्य विपर्यासः वैपरीत्यं यस्मात् । तादृश् वृत्तं चरितं यस्मिन् सा पाप्मी विप्रलम्भस्तद्वत्तारः तस्य स्मृतिः स्मरणं । तत्पर्यवसायिनः स्मरणपर्यवमानवन्त तावकाः त्वदीया । संप्रसादस्य सम्यक् प्रसन्नतायाः । वृत्तान्ताः उद्गता इत्यर्थ । वंशोदितचरित्रश्रृङ्गारस्मरणपर्यवसायिनी जाता तव प्रसादवर्तिरिति भावः । —'विपर्यासो वैपरीत्ये' इति, 'अन्वयो वंशे' इति, 'वृतं चरिते' इति च, 'वि-


१ 'विपर्यासविरसप्रवृत्तस्मृतिपर्यवसायिनस्तावकाः संप्रसादवृत्तान्ताः' न.

१३८ उत्तररामचरितं [ ६-३५ क्व तावानानन्दो निरतिशयविश्रम्भबहुलः क्व चाऽन्योन्यप्रेम क्व च नु गहनाः कौतुकरसाः । सुखे वा दुःखे वा क्व नु खलु तदैक्यं हृदययो- स्तथाप्येष प्राणः स्फुरति न तु पापो विरमति ॥ ३३ ॥ भोः कष्टम् । प्रियागुणसहस्राणामेकोन्मीलनपेशलः । य एष दुःसहः कालस्तमेव स्मारिता वयम् ॥ ३४ ॥ यदा किंचित्किंचित्कृतपदमहोभिः कतिपयै- स्तैदीषद्विस्तारि स्तनमुकुलमासीन्मृगदृशः । वयःस्नेहाकूतव्यतिकरघनो यत्र मदनः प्रगल्भव्यापारः स्फुरति हृदि मुग्धश्च वपुषि ॥ ३५ ॥ लवः—अयं च मन्दाकिनीचित्रकूटवनविहारे सीतादेवीमुद्दिश्य रघुपते. श्लोक — प्रलम्भस्तु शृङ्गारे' इति मेदिन्यमरकपिलसंसारावर्ता ॥ क्व तावानानन्द इति ॥ ३३ ॥ विश्रम्भः विश्वास । बन्धनाऽस्तीति भाव । चेतः मन । यत्र यत्र यस्मिन् मनसीत्यर्थ । तद्भेदलेशरहितं प्रसिद्धं वा । हृदययोः आवयोरिति शेष. । 'पुंसि भूय्यसवः प्राणा.' इत्यमराद्यनुशासनात् प्राणा इति वक्तव्ये प्राण इति कृते प्रमाद इति केचित् । तन ॥ 'हृदि प्राणो' इति तस्योक्ते । विरमति विरतो भवति । एतेन तद्विरहव्यथायां अपानादयो विरता , पुनराशानुबन्धात् प्राणमात्र हृदि वर्तत इति भाव ॥ ३३ ॥ प्रि- यागुणेति ॥ ३४ ॥ उन्मीलनं उदय । प्रकृते स्मरणमिति यावत् । तं कौमाराविर्भावरूपमेव कालमित्यर्थ ॥ ३४ ॥ यदा किंचित्किंचिदिति ॥ ३५ ॥ स्तनमुकुलं कर्तृ । यदा अहोभिः दिवसैः । कृतपदं कृत- स्थान । चतुर्थपाद सहदीति (?) मूलम् । तदा ईषत् मनाग् । विस्तारि विस्तारशालि । आसीत् । यस्मिन् यत्र हृदि । वयसः स्नेहे प्रादुर्भावरूपे प्रेम्णि । आकूतं अभिप्राय । तस्य व्यतिकरेण सम्बन्धेन । घनः सान्द्र । मदनः । प्रगल्भव्यापारः प्रकटव्याप्ति सन् । चरति । वपुषि च मुग्धः मनोज्ञ । चरतीत्यर्थ । तथा च मदनः वयसा सह हृदि वपुषि च प्रौढ १ 'क्व चेऽन्योन्य यज्ञा.' घ-थ. २ 'क्रमोन्मीलनतत्पर ' न; 'क्रमोन्मीलन' घ. ३ 'दुःसह.' भ. ४ 'तदा' क-घ-य. ५ 'यदेतद्विस्तारि' न. ६ 'चित्रकूट- कामेनि मन्दाकिनीविहारे' न.

६-३७ ] उत्तररामचरितं १३९ त्वदर्थमिव न्यस्तः शिलापट्टोऽयमग्रतः । यस्यायमभितः पुष्पैः प्रवृष्ट इव केसरः ॥ ३६ ॥ रामः-( सच्छवालितस्नेहकरुणम् ) बते हि नाम मुग्ध शिशुजन- विशेषात्स्वदण्डधर । हा देवि स्मरसि वा तस्य प्रदेशस्य तत्समयविस्रम्भा- तिप्रसङ्गसाक्षिणः । श्रमाम्बुशिशिरीभवत्प्रसृतमन्दमन्दाकिनी- मरुत्तरलितालकाकुलललाटचन्द्रद्युति । अकुङ्कुमकलङ्कितोज्ज्वलकपोलमुत्प्रेक्ष्यते निराभरणसुन्दरश्रवणपाशमुग्धं मुखम् ॥ ३७ ॥ आसीदिति भाव ॥ ३५ ॥ त्वदर्थमिव निन्यस्त इति ॥ ३६ ॥ 'चतु- स्त्रोणा शिला शिलापट्ट' इति त्रिकाण्डी । 'धलोमण्डा' इति महाराष्ट्राः । यस्य शिलापट्टस्य । समन्तत इति भाव । 'य चायमभित' इति वा पाठः । 'केसरः काञ्चनद्रुम' इति धन्वन्तरि । 'शोन्दलहीरुङ्ग' इति महाराष्ट्राः । पुष्पैः प्रवृष्टः प्रकर्षेण वृष्ट । कृतपुष्पवर्ष इति यावत् । द्वितीयतृतीयपाद- योर्र्यामेति ध्वनि ॥ ३६ ॥ सेति-रहोगततया लज्जा । बालोक्तमिति स्मि- तम् । पत्या आत्मार्यतया वन स्नेहः । ईदृशमपि लडोऽङ्गे करुणा दन्त ऽङ्गतो रहोया सर्वत्रैवम्भूत्तम् ॥ हा देवीत्यादिकथन हृदयस्थिता सीता प्रदीति बोध्यम् । चाशब्द किमर्थ । तस्य यावत्सेति ध्वनि । विस्रम्भ. विश्वास । तेनातिप्रसङ्गः सुरतान्तादि भाव ॥ तदेवाह-धमाम्बुशिशिरीभ- वदिति ॥ ३७ ॥ धमजले शीतलभवन् । प्रसृतः व्याप्त । मन्दः सूसूनय । न मन्दाकिनीमारत । तेन तरलितैः । कम्पितै । अलकैः भूर्णकुन्तलै । आकुलं ढोढ तदेव चन्द्रः तस्य युतिः कान्ति यस्मिन् । ललाटस्य चन्द्र इति सादृश्यरूपे धीनाथ । कुङ्कुमेन कलङ्किनी लाञ्छितां न भवन इति अकुङ्कुमकलङ्कितो । उज्ज्वलौ सत प्रकाशमानौ कपोलो यस्मिन् । कुङ्कुम कुङ्कनादिप्रचुर रङ्गविशेष । 'पथे' इति द्राविडा । प्रवृवे रङ्गकुङ्कुमेति कथन वनवासार्हालेभ्यप्रयुक्तनित्यवगन्तव्यम् । एतेन कविना निवद्वाभित्वं सूचितम् । निर्गतो आभरणे य तौ सुन्दरयो श्रवणयोः पाशो ताडपने दलाव् । तादृश च तन्मुग्धं मनोहरम् । अनेन कृतावशुर इति बोध्यम् । मुखं वदनम् । उत्प्रेक्षितं ईदृगिद तारांपेति योजेना कृत्वा इतरथं । मयेति शेष । तथा च निरूपाधिक सातासौन्दर्यमिति भाव । १ 'आव्रत' न. २ 'अने नामाय मुग्ध' घ. ३ 'तस्य यत्समयवि- सम्भातिप्रसङ्गस्य' न. ४ 'सौन्दर' घ-च.

१४० उत्तररामचरितं [ ६-३९ ( स्तम्भित इव स्थित्वा । सकरुणम् ) अहो नु खलु भोः । चिरं ध्यात्वा ध्यात्वा निहित इव निर्माय पुरतः प्रवासेप्याश्वासं न खलु न करोति प्रियजनः । जगज्जीर्णारण्यं भवति च फलैग्रव्युपरमे तुषूलानां राशौ तदनु हृदयं पच्यत इव ॥ ३८ ॥ (नेपथ्ये ।) वसिष्ठो वाल्मीकिर्दशरथमहिष्योऽथ जनकः सहैवारुन्धत्या शिशुकलहमाकर्ण्य सभयाः । जराग्रस्तैरंगैरथ खलु विदूराथमतया चिरेणागच्छन्ति त्वरितमनसोऽपि प्रथमजडाः ॥३९॥ राम —कथं भगवत्यरुन्धती वसिष्ठोऽम्बाश्च जनकश्चात्रैव । कष्टं कथं एतद्वयते द्रष्टव्या । (.सकरुणं विलोक्य । ) अहह तातजनकोपि दैवाद्येवा यात इति वज्रेणेव ताडितोऽस्मि मन्दभाग्यः । अकुङ्कुमेति निराभरणेति च ध्वनी । एवमादिषु घटेषु परमनधीतार्था (१) सुपीहिताथलमत्तयथोरवत्पलायन्तेतरामव्युत्पन्नजरद्द्वितिखण्डा , तदत्र व्यु- त्पन्नरसिका एव प्रमाणं इति दिक् ॥ ३७ ॥ सजात स्तम्भ जडीभाव यस्य स्तम्भित स्तब्ध कुण्ठित इत्येत्यर्थ ॥ चिरं ध्यात्वा ध्यात्वेति ॥ ३८ ॥ चिरं ध्यात्वा निर्माय । प्रवासेऽपि । पुरतः अग्रत । निहित इवेत्येकं पदम् । निषण्ण इव सम्भाव्यमान इति शेष । प्रियजन य कोऽपि । आश्वासं सान्त्वनम् । न खलु न करोत्येवेत्यन्वय । ध्यात्वा स्थित इव चेति क्वचि त्पाठ । फलग्रस्य प्रकृते सीतायामपि । उपरमे तु उपरतौ अदर्शने इति भाव । जगत् भुवनम् । ‘निस्सारे च क्षितीभूते जीर्णं शुष्के भयास्पदे’ इति मेदिनी । नेदमेकमेवावभासन, इतरदप्यस्तीत्याह-तदनु तस्मादरण्या वभासनात् । अनु पश्चात् । हृदयमिति मुख्यतयोक्तम् । अत एव, ‘शिवस्य हृदय विष्णोश्च हृदयं’ इति निर्देश । ‘तुषूल शङ्कुभि जीर्णे श्वभ्रे ना तु तुषानले’ इत्यमर । तेषा राशौ पुञ्जे । पच्यतं प्रकर्षण गलितमित्यु- त्प्रेक्षा ॥ ३८ ॥ वसिष्ठो वाल्मीकिरिति ॥ ३९ ॥ महिष्यः कौसल्या- दय । ध्वनिश्च । शिशू लवचन्द्रकेतू । गात्रैः अवयवै । अथ खल्वित्यसाधु । इहेति साधु पाठ । त्वरितमनसाभिर्गम्यत इति तेषामध्यव साय । तथाऽपि वार्धकदशया चिरेणागच्छन्तीति सहोऽर्थ ॥ ३९ ॥ पितृ सत्वादात् तातश्चाऽसौ जनक इति व्यपदेश । ताडित इति सीतापरित्यागा- १ 'विरल्य' घ-च; 'फलेग्रव्युपरमे' न. २ '०मनसो विरूथजटा,' म.

६-४२ ] उत्तररामचरितं १४१ सम्बन्धस्पृहणीयताप्रमुदितेर्जुष्टे वसिष्ठादिभि- र्दृष्ट्वापत्यविवाहमङ्गलमहे तत्तत्तातयोः सङ्गतम्। पश्यन्नीदृशमीदृशः पितृसखं वृत्ते महावैशसे दीर्ये किं न सहस्रधाहमथवा रामेण किं दुष्करम् ॥४०॥ ( नेपथ्ये । ) भो भो, कष्ट कष्टम् । अनुभावमात्रसन्निवेशितथियं सहसैव वीक्ष्य रघुनाथमीदृशम्। प्रथमप्रमूढजनकप्रबोधनाद् विधुराः प्रमोहमुपयान्ति मातरः ॥ ४१ ॥ रामः—हा तात हा मातर हा जनक जनकानां रघूणां च यत्परं गोत्रमङ्गलम् । तत्राप्येककरणे पापे वृथा वः करुणा मयि ॥ ४२ ॥ पराश्रादिनि भाव ॥ सम्बन्धस्पृहणीयतेति ॥ ४० ॥ स्पृहणीयता इच्छा । जुष्टे सेविते । अपत्यानां सीतादीनाम् । तत्तत्तातयोः तासां सीता- दीनां तातयो जनककुशध्वजयो । सङ्गतं समागमम् दृष्ट्वा । महावैशसे परित्यागरूपे अप्रिये । वृत्ते अतीते सति । ईदृश पश्यन्नहं न दीर्ये किं न दल्यामि । 'वैशसनप्रियम्' इति, 'वृत्तमतीते' इति त्रिकाण्डशेषनामनि- धाने । 'दलति दीर्यति' इति पाठरोधः । अत्र जीर्य ( दीर्ये २ ) इति क्वै प्रमाद् । 'न विदीर्ये कठिना खलु स्त्रिय' इति कुमारसंभवे ईश्वरकृष्ण- मिश्रेण दर्शनीय ॥ सन्देह न दीर्ये कुत पुनरिद सामर्थ्यमित्यत ग्राह— अथवेति ॥ किं दुष्कर किमपि दुष्करं नेत्यर्थ सर्वं सुकरमिति भाव ॥ ४० ॥ अनुभावमात्रेति ॥ ४१ ॥ अनुभावः प्रभाव । सुधी शोभा तद्र्वीवा । 'तस्य धीरनपायिनी' इति स्मरणात् । 'सीता लक्ष्मीर्भवान्विष्णु' इति रामायणे च । ईदृशं सीताविधुरम् । विधुराः दीना । प्रमोहं मूर्च्छातिशयम् ॥ ४१ ॥ जनकानां रघूणामिति ॥ ४२ ॥ तात निमि- शाधिप इत्यर्थ । यत् भूम्यपत्यमिति शेष । सीतेत्यथ । वृत्तस्तं अशेषम् । गोत्रयोः वशयोध्र मङ्गलम् । तत्रापि सीतायाम् । अकरुणे पापे मयि । १ 'मङ्गलवेशे' न. २ 'दृष्टे' क-घ-व ३ 'समुञ्चित' घ-व. ४ 'प्रथमप्रमूढजनकप्रबोधिता.' म. ५ 'तन्निष्करुणे' क-घ-व.

यात्रसम्भावयामि । ( इत्युत्तिष्ठति । ) कुशलवौ—इत इतस्तात । ( सकरुणावुलं परिक्रम्य निष्क्रान्ता सर्वे । ) इति कुमारप्रत्यभिज्ञानो नाम षष्ठोऽङ्कः । सप्तमोऽङ्कः । ( ततः प्रविशति लक्ष्मणः । ) लक्ष्मणः—भो भो अद्य खलु भगवता वाल्मीकिना सब्रह्मक्षत्रपौरजा- नपदाः प्रजाः सहास्माभिराहूय कृत्स्न एव सदेवासुरतिर्यङ्गुरगनायकनिकायः सचराचरो भूतग्रामः स्वप्रभावेण सन्निधापितः । आदिष्टश्चाहमार्येण— 'वत्स लक्ष्मण भगवता वाल्मीकिना स्वकृतिमप्सरोभिः प्रयुज्यमानां द्रष्टु- घ' युष्माकम् । करुणा वृथा ॥ ४२ ॥ इति महाराजपद + उत्तररामचरित सञ्जीवनाख्यटिप्पणे षष्ठोऽङ्कः ॥ ॥ षष्ठोऽङ्कस्सम्पूर्णः ॥ अथ मुखसन्धिप्रभृतिउपक्षिप्तनाटकीययावद्वस्तुक्रोडीकरणरूपं निर्वहणसन्धिं प्रपञ्चयिष्यन् वाल्मीक्याश्रमपरित्यक्तजानकीसमुद्भूतार्थमन्तर्नाटकितारचना च नत्करिष्यन् प्राचेतसवचनानुवृत्तिस्थावरजङ्गमप्रायजगद्विनुतपरिशुद्धमैथिलीकु- शलवप्रमुखैः श्रीरामभद्रमानन्दयिष्यन् कविरङ्गारम्भवशात् पूर्वसूचनां विनैव समासनिवेशोपकरणाङ्गतल्लक्ष्मणप्रवेशं प्रक्रमते—तत इति ॥ षष्ठाङ्कपरिसमा- नानन्तरमित्यर्थः । भो इति मनः प्रति सम्बोधनम् । जानपदाः देशवासिनः । म्रियते मर्त्यः न म्रियते अमर्त्यः । मर्त्याश्चामर्त्याश्चेत्यर्थः *मर्त्यामर्त्यरूप इत्यर्थः । तिर्यञ्चः कामधेन्वादयः पशवः । उरगनायकः वासुकिः तस्य निकायः भुजगानां वर्गः तेषां सन्तानः परम्परा यस्मिन् । 'वर्गो निकाये' इति, 'पर- म्पराभिजनायोस्सन्तान' इति नन्दिहेमचन्द्रौ । चराचरैः जङ्गमस्थावरैः सहितः । भूतानां पृथिव्यादीनाम् । 'क्ष्मादारुते भूतं' इति, 'वृन्दे ग्राम'' इति चामरः । आतोद्यस्य स्थानं आस्पदम्, तत्तीरस्य प्रशस्तथी तलपावनत्वादिति स्व(त ३)दन्तरालस्य परित्यक्तसीताधिष्ठानत्वादिति च भावः । अत एव सीतादेवी प्राप्तप्रसववेदना आत्मानमतिदुःखवेगात् १ 'भोः किं तु खलु' ग. + प्रथमाङ्कटीकासमाप्तौ टीकाकृता पश्चात्तदृष्टं स्थितं तदत्राप्यनुसन्धेयम् २ '०तिर्यङ्निकाय.' न ३ 'जङ्गमः स्थावरश्च' क-घ-प्र.

७-१] उत्तररामचरितं १४३ नुपनिमंत्रिताः सः । तद्गङ्गातीरमाभोगोपस्थानमुपगम्य क्रियतां समाज- संनिवेशः' इति । कृतश्च मर्त्यामर्त्यस्य भूतग्रामस्य समुचितस्थानसंनिवेशो मया । अयं तु— राज्याश्रमनिवासेऽपि प्राप्तकष्टमुनिव्रतः । वाल्मीकिगौरवादार्य इत एवाभिवर्तते ॥ १ ॥ ( ततः प्रविशति रामः ।) रामः—वत्स लक्ष्मण अपि स्थिता रङ्गमौढिकाः । लक्ष्मणः—अथ किम् । रामः—इमौ पुनर्बालौ कुशलवौ कुमारचन्द्रकेतुश्चैमां प्रतिपत्तिं लम्भ- यितव्यौ । लक्ष्मणः—प्रभुस्नेहप्रत्ययात्तथैव कृतम् । इदं चास्तीर्णं राजासनम् । तदुपविशत्वार्यः । रामः—( उपविशति । ) लक्ष्मणः—प्रस्तूयतां भोः । गङ्गाप्रवाहे निक्षिप्तवती इति तृतीयाङ्कविष्कम्भे तमसोक्तम् । संनिलादुपेति इत्यग्रे लक्ष्मणवचना स्फुटीभविष्यति चेति दिक् ॥ 'हतं वीणादिकम्' इत्यादि, 'वादिनातोद्यनामकं' इत्यन्तदमरः । 'वाजन्त्री' इति महा- राष्ट्राः । समाजः सभा । गत्वेति पूर्वमनुवादः । संप्रति स्वतः कथनमिति न पुनरुक्तिः ॥ राज्याश्रमेति ॥ १ ॥ राज्यमेव आश्रमः सौख्याभा- वादिति भावः । कष्टं च तन्मुनिव्रतम् । वाल्मीकिना वाल्मीकौ च गौरवात् ॥ १ ॥ 'रङ्गो नाट्यस्थलं' इति, 'सामाजिकः प्रेक्षकः' इति च त्रिकाण्डशेषः । प्रतिपत्तिः मर्यादा । वात्सल्यमिति यावत् । लम्भ- यितव्यौ प्रापणीयौ । प्रभोः स्नेहेन । प्रत्ययात् विश्वासात् । कुशलवयोः भवति स्नेहेन अस्मदीयानपि तयोर्विश्वासः अस्तीति भावः । तथैव चन्द्र- केतुवत् । कृतं वात्सल्यमिति शेषः । राजासनमास्तीर्णमिति कवेरिव कस्य न व्याचतुरचातुर्यम् । 'नृपासनं पत्तद्रासनं सिंहासनं च तत्' इत्यमर- सिंहेनाभिहिततया सिंहासनस्त्यारणत्वासंभवात् ॥ न च वाच्यमास्तरणो- चितनभ्यदासनं भवत्विति । तर्हि समानायकल्य महाराजत्वे जगत्वते इति गद्या वक्ष्यमाणे वचसि वास्तरवापत्तेः । तस्माद्बतरमूलगुरुक्यादानामेव १ 'तद्गङ्गातीरतीरमनोपस्थानम्' घ. २ 'स्थानेषु समुपवेशसङ्गो मया' घ. ३ 'प्रेक्षकाः' क-घ-घ. ४ '०स्तृती स्थानप्रतिपत्तिम्' क-घ-घ.